मूलम् - 1.1.2
॥ गौतमसूत्रबहिष्कारपक्षः ॥
यद्यपि कथंचिदाक्षपादं सत्पक्षे निक्षेप्तुं शक्यम्; न च कणभक्षपक्षनिक्षेपवत् क्लेशः; नापि तत्कर्ता गौतमस्तामसेषु परिपठ्यते; नापि च विप्रलम्भकत्वख्यातिः; तथापि ब्रह्मसूत्रकारादिबहिष्कृतत्वान्नातीव वयमाद्रियामहे । न खल्वार्षत्वादिभिस्तदादरः, अतिप्रसङ्गात् ।
प्राज्ञानां प्रथमेनैव गुरुणा हि स्वयं पुरा । लोकायतमतं प्रोक्तं लोकविप्लवकारणम् ॥ ३ ॥
अथवा पितामह एवात्र प्रमाणम्, य इन्द्रविरोचनायोश्चार्वाकमतमुपदिष्टवान् । तथा गौतमोऽपि संभाव्यते । अथापि “काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः । त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी ॥” इति स्मृतेः, “बहवः पुरुषा राजन् सांख्ययोगविचारिणः । नैत इच्छन्ति पुरुषमेकं कुरुकुलोद्भव ॥ समासेन तु तद्व्यासः पुरुषैकात्म्यमुक्तवान् ।” इति महाभारतोक्तेश्च (युक्तं) तत्तद्बहिष्कारः । इह तु न तथेति चेन्न, तुल्यन्यायतया वचनस्योपलक्षणार्थत्वात् । न खलु तद्वा तादृग्वेति कश्चिद्विशेषः । यद्यपि काशकुशावलम्बनन्यायेन पक्षान्तरादाधिक्यमस्य पक्षस्य, अथापि न तद्वेदान्तसंनिधौ । न खलु मशकाद्बलिष्ठोऽपि मातङ्गः कण्ठीरवमुपरुणद्धि ॥
“यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकाज्ञाननिवृत्तिहेतुः कारिष्यते तस्य मया निबन्धः ॥” इति वाक्यमक्षपादपक्षपातेनोक्तमित्यनास्थेयम् । उक्तं च पूर्वाचार्यैः “काणादमाक्षपादं वा कापिलं तन्त्रमेव वा । तन्त्राण्येतानि सर्वाणि न तन्त्राण्यात्मनिर्णये ॥” इति ॥ अत एव हि “एतेन शिष्टापरिग्रहा अपि व्याख्याताः” इति सूत्रे भाषितम् - “एतेन - वेदापरिगृहीतसांख्यपक्षक्षपणेन, शिष्टाश्च ते वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिक्षुपक्षाः क्षपिता वेदितव्याः” इति । न च सूत्रनिबद्धं सर्वं विद्यास्थानमिति नियमो दृष्टः; न चैक एवैकस्य विद्यास्थानस्य सूत्रकृदित्यपि वा ऋषिरित्येव वा राजाज्ञा, अन्यैरपि च तत्करणदर्शनात् ॥
१. प्रमाणशब्दस्य भावे करणे च व्युत्पत्तिः । २. एवं (अत्र) च प्रमैव प्रमाणमित्येके । ३. प्रमाकरणमेवेत्यपरे । ४. तयोरन्यतरदित्यन्ये । ५. यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम् । ६. यदज्ञानात् संसारो यज्ज्ञानात् तन्निवृत्तिस्तत् प्रमेयं मुमुक्षुभिः प्रकर्षेण मेयत्वात् । ७. सामान्यतो वा प्रमाविषयः प्रमेयम् । ८. तद्द्विविधं द्रव्याद्रव्यभेदात् । ९. आगन्तुकधर्माश्रयो द्रवयम् । १०. अतथाभूतमद्रव्यम् । ११. द्रव्यं द्वेधा जडमजडमिति । १२. जडं च द्वेधा प्रकृतिः काल इति । १३. अजडं च तथा प्रत्यक् परागिति । १४. प्रत्यगपि द्विविधं जीव ईश्वर इति । १५. परागपि तथा धर्मभूतज्ञानं नित्यविभूतिश्चेति । १६. अथवा द्रव्यं द्विविधमात्मानात्मभेदात् । १७. त्रेधा वा भोक्तृभोग्यनियन्तृश्रुत्यनुसारात् । १८. षोढा वा त्रिगुणकालजीवेश्वरशुद्धसत्त्वमतिभेदात् । १९. अस्वयंप्रकांशं जडम् । २०. स्वयंप्रकाशमजडम् । २१. मिश्रसत्त्वाश्रयः प्रकृतिः । २२. कालः क्षणलवादिव्यवहारहेतुः । २३. स्वस्मै भासमानं प्रत्यक् । २४. परस्मै भासमानं पराक् । २५. परतन्त्रचेतनो जीवः । २६. स्वतन्त्र ईश्वरः । २७. अर्थप्रकाशो बुद्धिः । २८. प्रकृतिव्यतिरिक्तत्वे सति सत्त्वाश्रयो नित्यविभूतिः । २९. अद्रव्यमनेकधा सत्त्वशब्दादिवैचित्र्यात् । ३०. एकं वेतरविशिष्टं प्राधान्यतः प्रमेयं (परं) ब्रह्म । ३१. इतरेषां स्वनिष्ठब्रह्मैकनिष्ठत्वात् । ३२. तस्यैव च तथात्वेन मुमुक्षुभिः प्रकर्षेण मेयत्वश्रुतेः । ३३. अव्यवस्थितव्यवहारकारणं ज्ञानं संशयः । ३४. अयथाव्यवहारकारणं ज्ञानं विपर्ययः । ३५. संस्कारमात्रजं ज्ञानं स्मृतिः । ३६. तद्व्यतिरिक्तं ज्ञानमनुभवः । ३७. पुरुषप्रवृत्त्युद्देश्यं प्रयोजनम् । ३८. व्याप्त्यधिगमस्थानं दृष्टान्तः । ३९. प्रामाणिकत्वाभिमतैः परिगृहीतोऽर्थः सिद्धान्तः । ४०. परार्थप्रमाणप्रयोगवाक्यावान्तरवाक्यान्यवयवाः । ४१. व्याप्याङ्गीकारेण व्यापकानिष्टप्रसञ्जनं तर्कः । ४२. तर्कानुगृहीतप्रमाणपूर्वकतत्त्वावधारणं निर्णयः । ४३. वीतरागकथा वादः । ४४. पक्षद्वयसाधनवती विजिगीषुकथा जल्पः । ४५. प्रतिपक्षस्थापनहीना तु सा वितण्डा । ४६. हेत्वङ्गैकदेशविकला हेत्वाभासाः । ४७. अविवक्षितशब्दार्थारोपेण दूषणं छलम् । ४८. स्वव्यापिदूषणं जातिः । ४९. कथकाशक्तिलिङ्गं निग्रहस्थानम् । इत्येतादृशानि वाक्यानि किं न सूत्राणि स्युः?
तदिह संक्षिप्तं लक्षणादिवाक्यं सूत्रम्; तदुदाहरणादिवाक्यं तु भाष्यादिकमिति विभाव्य संतोष्टव्यम् । न च पूर्वप्राबल्यव्यवस्था, तत्पूर्वसंभवात्, वार्तिकस्य चानवतारप्रसङ्गात्, व्याकरणादिष्वन्यथाकरणस्वीकाराच्च । न च जैमिनेः प्रमाणलक्षणादिष्वौदासीन्यमात्रेण गौतमोक्तेषु काश्यपोक्तेषु वा निःशेषानुमतिसिद्धिरिति मन्तव्यम्, अन्यपरतया लोकप्रसिद्धोपजीवनात्, परकल्पिततटाकोपजीवनवत् । कर्मकाण्डवृत्तिकारादयोऽपि हि लोसिद्धां प्रमाणा(दि)व्यवस्थां यथायथमन्यथा संजगृहुः । अतो यावदिह युक्तियुक्तं तावदुपजीव्यते; न खलु तटाकस्थः पङ्कोऽप्यपङ्किलबुद्धिभिस्तदवगाहिभिरुपजीव्यते । अतः सिंहवनगुप्तिन्यायेन यथावस्थितन्यायानुगृहीतं वेदं वेदानुमतं च न्यायमनुसरामः, न पुनर्न्यायमात्रम् ॥
यत्तु “ज्ञातसंबन्धस्य” इत्यादिग्रन्थमुपादायानन्तरमुक्तं श्रीविष्णुचित्तैः - “व्याप्तिधीगर्भानुभवोऽनुमानमित्यर्थः । न्यायशास्त्रे तु तद्विशेषनिर्णयः” इति, तदपि तन्निरूपणाधिकृतविद्यास्थानख्यापनपरम् । प्रमाणादिसूत्रमुपादाय व्याचक्षाणैस्तत्पक्षनिष्ठैरपि पूर्वैः क्वचित् सूत्राणि निराकृतानि । तन्न्यायस्य नास्मासु सर्पमारः, नापि दण्डनिवारणम् ॥ ततश्च,
यथालोकं यथावेदं लौकिके वैदिकेऽपि च । यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपि वा ॥ ४ ॥
विवक्षितार्थावैशद्यं व्याकुलत्वमपूर्णता । उल्लोकतेत्यमी दोषा गुणकोटौ जडैः कृताः ॥ ५ ॥
भगवन्नाथमुनिभिर्न्यायतत्त्वसमाह्वया । अवधीर्याक्षपादादि न्यबन्धि न्यायपद्धतिः ॥ ६ ॥
तदर्वाग्भिस्तथाचायैर्यथेष्टं मतमास्थितैः । प्रणिन्ये बहुधा तैस्तैः प्रमाणादिविचारणा ॥ ७ ॥
तदयं भाष्यस्वरससिद्धो बहिष्कारपक्षः ॥