01 मङ्गलाचरणं ग्रन्थारम्भसमर्थनञ्च

मूलम् - 1.1.1

(श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥) पत्युः संयमिनां प्रणम्य चरणौ तत्पादकोटीरयोः संबन्धेन समिध्यमानविभवान् धन्यांस्तथान्यान् गुरून् ।
शुद्धं संश्रितबादरायणतनोर्नारायणस्योक्तिभिः श्रीमान् वेङ्कटनायकः स्थितिपदं निर्माति नीतेः शुभम् ॥ १ ॥
विद्यास्थानेषु धर्म्येषु गण्यते न्यायविस्तरः । स च विप्लावितस्तैस्तैस्ततोऽत्र परिशोध्यते ॥ २ ॥