॥ प्रमेयाध्यायः ॥

॥ द्वितीयमाह्निकम् ॥

९ अत्र यद्यपि प्रमाविषयः प्रमेयमिति व्युत्पत्त्या आरोपिताकारव्यवच्छेदार्थया अनारोपितरूपं सर्वं प्रमेयम्, तथापि निःश्रेयसान्तरङ्गतया तदर्थिभिः प्रकर्षेण मेयं प्रमेयमिह विवक्षिम् ।
यद्विषयेण भ्रमेण संसरामः, यद्विषयेण च तत्त्वज्ञानेनापवर्ज्येमहि, तदिह नः प्रकर्षेण मेयं प्रमेयम् ।
तच्च द्वादशविधमुक्तमाक्षपादे— “आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः प्रमेयम्” इति ।
तत्र चेतन आत्मा ।
स द्विधार्—इश्वरोनीश्वर इति ।
जगत्कर्तार् इश्वरः ।
जगद्व्यापाररहितश्चेतनोनीश्वरः ।
यच्चैतन्यसमानाधिकरणं यदपृथक्सिद्धं यद्द्रव्यम्, तत् तस्य शरीरम् ।
तद् द्विविधम्—कर्मजम्, अकर्मजं चेति ।
आद्यमस्मदादीनाम् ।
द्वितीयमीश्वरादीनाम् ।
सात्त्विकाहङ्कारोपादानकं द्रव्यमिन्द्रियम् ।
तदेकादशविधम्—पञ्च ज्ञानेन्द्रियाणि, पञ्चकर्मेनिद्रयाणि मनश्चेति ।
इन्द्रियगोचरा इहार्थाः ।
ते च शब्दादयो गुणाः तद्विशिष्टानि च ।
अर्थप्रकाशो बुद्धिः ।
स्मृत्यादिकरणमिन्द्रियं मनः ।
मनोवाक्कायानां पुण्यापुण्यरूपो व्यापार इह प्रवृत्तिः ।
तथाविधप्रवृत्तिहेतवो दोषाः ।
ते च सङ्ग्रहाद्रागद्वेषमोहाः ।
पूर्वदेहं विहायोत्तरदेहप्राप्तिः प्रेत्यभावः ।
प्रवृत्तिसाध्यं फलम्; तदेव पुरुषेण प्रवृत्तिफलतयोद्दिष्टं प्रयोजनम् ।
प्रतिकूलवेदनीयं दुःखम् ।
तत्र सुखतत्साधनादिकमपि विषसम्पृक्तमधुवत् प्रभूतानर्थानुषङ्गित्वाद् दुःखमेव मुमुक्षुणा भाव्यमिति तस्यापि प्रतिकूलवेदनीयत्वम् ।

दुःखान्तर-कारणासमानाधिकरणा दुःख-निवृत्तिर् अपवर्गः
स च स्वाभाविकात्म-स्वरूपाविर्भाव-पूर्वक–
समस्त-विभूति-गुण-विशिष्ट–
निरतिशयानन्द-ब्रह्मानुभव-गर्भः
इति परमपुरुषार्थः
तत्पूर्वको वा तादृश-ब्रह्मानुभवो ऽपवर्गः इति ।+++(4)+++

एतदेव च प्रमेयं सङ्ग्रहाच्चतुर्धा विभज्य केचिदनुसन्दधते— “हेयम्, तस्य निवर्तकम्, हानम्, तस्योपायः” इति ।
ये तु कणचरणादयः षट्सप्तादिरूपेण सर्वान् पदार्थान् विभज्य परीक्षन्ते, ते सामान्यविशेषसमवायादीनां पदार्थान्तरत्वप्रतिक्षेपेण निरस्ताः ।
ततश्च द्रव्यगुणकर्माणि त्रीण्येवावशिष्यन्ते ।
तत्रापि कर्मणः सम्प्रतिपन्नगुणातिरिक्तत्वपक्षेपि संस्कारादिगुणावान्तरविशेषवद् गुणपक्षकक्षीकारात् द्वौ पदार्थौ ।
तत्र च गुणशब्दस्यापृथक्सिद्धविशेषणमात्रव्युत्पन्नस्य तथाविधेषु केषुचिद् द्रव्येष्वपि वृत्तेर्द्रव्यगुणरूपेण विभागानौचित्याद् द्रव्यमद्रव्यमित्येव पदार्थविभागमाद्रियामहेर्, इदृशस्य तु विचारस्यापवर्गे परम्परयोपयोगः ।
मुमुक्षूणां प्रधानतमं तु प्रमेयं विशिष्टं ब्रह्मैकमेवेति मन्वानो भगवान् बादरायणः— “अथातो ब्रह्मजिज्ञासा” इत्युपक्रम्य तदेव सप्रकारं निरूपितवान्; तत्प्रकारतयैवान्यत् प्रमेयम् ।
केचित्तु देहात्मविवेकक्रमानुसारेण “भोक्ता भोग्यं प्रेरितारं च मत्वा” इति श्रुतिप्रक्रियया च त्रिधा तत्त्वं विभज्य चिन्तयन्ति, तत्रापि सप्रकारद्रव्यचिन्तनादद्रव्यचिन्ताप्यन्तर्भवति ।
तत्तुल्यन्यायतया कालचिन्ता च ।
तदभिप्रायेण कालस्य पदार्थविशेषणतयैव समस्तवस्तुप्रतीत्यन्तर्भावान्न पृथगस्तित्वादयो वक्तव्याः, न च परिहर्तव्याः ।
“कालोस्ति नास्तीति व्यवहारो व्यवहर्तॄणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः” इति जैननिराकरणसमये भाष्यकारैरुक्तमाततश्च ब्रह्मैकमेव तत्त्वमिति वा चिदचिदीश्वरभेदेन त्रीणि तत्त्वानीति वा पश्यतां न कश्विद्विशेषः, स्वरूपभेदस्य विशिष्टैक्यस्य चोभयेषामभिमतत्वात् ।
अत एव— “प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः ।
रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः” ॥
इत्याद्यनुसारेण चतुर्धा पञ्चधा वा विभज्य चिन्तयतां कार्यविशेषैः सह पञ्चषट्सप्तविंशत्यादिसङ्ख्यां निवेशयतां च पूर्वाविशेष एव ।
श्रूयते च— “तं षङ्विंशकमित्याहुः सप्तविंशमथापरे ।
पुरुषं निर्गुणं सांरव्यमथर्वशिरसो विदुः” ॥
इति ।
प्राप्यम्, प्राप्ता, प्राप्त्युपायः, निवर्त्यम्, फलं चेति केचित् पञ्चधा प्रमेयं परिसञ्चक्षते ।
सम्बन्धविशेषेण सहान्ये षोढेति ॥
१० अथायमपरः प्रवृत्त्यर्थः सङ्ग्रहोनुष्ठानपरिहारान्तरङ्गः; तथाहि— हितमहितं च प्रकर्षेण मेयम् ।
तत्र लौकिकहिताहितयोरन्वयव्यतिरेकायुर्वेदनीतिशास्त्रादिकं प्रमाणम्; तदपि योगसाधनभूतशरीररक्षणार्थं मुमुक्षुणापि श्रुतिस्मृत्याद्यविरोधेनानुसरणीयम् ।
अलौकिकहिताहितयोस्तु वेदाः प्रमाणम् ।
तदुपबृंहणतया स्मृतीतिहासपुराणानि च ।
यच्च श्रुतिविहितम्, तदखिलमपि यथाधिकारं हितम् ।
यच्च तन्निषिद्धम्, तदखिलमप्यहितम् ।
नन्वभिचारादिकर्मणामनर्थहेतूनां क्षुद्रपुरुषार्थसाधनानां च काम्यानां कर्मणां कथं हितत्वम् ?; उच्यते—अधिकारिविशेषमपेक्ष्य हि सर्वो विधिर्निषेधश्च; यथोक्तम्— “त्रैगुण्यविषया वेदाः” इति ।
यो हि सुखं दुःखनिवृत्तिं चेच्छति तस्य तत्साधनमपेक्षमाणस्य लौकिकेषु साधनेषु प्रवृत्तस्य तेषां निरयादिहेतुभूतानर्थहेतुत्वेन तत्परिहारायानर्थहेतुत्वरहिताः सुखाद्युपायाः प्रतिपाद्यन्ते ।
एवं काम्यकर्माणि पारलौकिकानि दृष्टजातीयतदधिकफलार्थतया दृष्टानर्थावहसुखप्रवृत्तिप्रतिबन्धौपयिकत्वाद् हितान्येव रागिणाम् ।
तथा ऐहलौकिकान्यपि चित्रादीनि ।
कारीर्यादीनि तु जगद्धितान्यपि ।
अभिचारकर्मणोपि हिंसादियुक्तस्यापि स्वरूपतो नानर्थहेतुत्वम्,तदङ्गपशुहिंसादेरग्नीषोमीयादिवद्विधिप्राप्तत्वात्, अपि तु स्वसाध्येनाप्राप्तविषयवधादिना ।
तदपेक्षया चाभिचारो निषिध्यते ।
सोपि हि क्वचिदवश्यकर्तव्य एव, “षट्स्वनभिचरन् पतेत्” इत्यादिदर्शनात् ।
अतश्च मुमुक्षोरपि रक्षकक्षत्रियाद्यभावे राक्षसाद्यभिभवे चात्मरक्षणार्थमभिचारः कर्तव्य एव, “सर्वत एवात्मानं गोपायेत्” इति शास्त्रात्, अन्यथा अहरहरनुष्ठेयस्याप्रयाणादनुवर्तनीयस्य कर्मादेरुच्छेदप्रसङ्गेनोपायानिष्पत्तेर्मोक्षासिद्धिप्रसङ्गात् ।
वृष्ट्यन्नादिदृष्टार्थानि च सर्वाण्युपासननिष्पत्त्यौपयिकतया तत्तदपेक्षायामनुष्ठेयानि ।
पारलौकिकानि तु तत्फलाभिसन्धिविरहेण कर्मयोगानुष्ठानदशायां नित्यनैमित्तिकैरेकीकृत्य कर्तव्यानि ।
नैमित्तिकानि हि सर्वाणि प्रसक्तानर्थपरिहारार्थतया सर्वहितान्येव ।
एवं नित्यानि, उत्तरकर्माधिकारार्थत्वादकरणनिमित्तप्रत्यवायपरिहारार्थत्वाच्च ।
अतः श्रुतिविहितं स्ववर्णाश्रमोचितं सर्वं हितमेव ।
अत एव हि स्मरन्ति— “शास्त्रं हि वत्सलतरं मातापितृसहस्रतः” इति ।
एवं स्थिते प्रवाहानादिसामग्रीचक्रवशादनियतसमयसमागतसकलसैद्धान्तिकसमालम्बनीयसुचर् इतपरिपाकनिवृत्तप्रतिबन्धपरमपुरुषकटाक्षविशेषसमुन्मिषितसत्त्वसामर्थ्येन करतलामलकवदालोकितहेयोपादेयविभागस्यानाद्यनन्तबहुविधदुर्विषहदुःखानुषङ्गदूषिताल्पास्थिरसांसारिकसुखमयविषमधुविरक्तस्य समस्तदुरितवर्गापवर्गायमाणनित्यनिरतिशयानन्दमुकुन्दचरणारविन्दसेवामकरन्दलम्पटस्य यथाशक्ति वर्णाश्रमोचितनित्यनैमित्तिकनिषिद्धपरिहारसहकृतं दर्शनसमानाकारध्रुवानुस्मृतिरूपं भगवदुपासनं हिततमं विहितम् ।
तच्च सदक्षरन्यासवैश्वानरमधुभूमदहरादिभेदेन बहुविधं त्रैवर्णिकसर्वाश्रमसाध्यम् ।
तस्य च महानीयविषयनिरतिशयप्रीतिरूपत्वेन भक्तिशब्दवाच्यत्वम् ।
अयमेव च परमो योगस्त्रय्यन्तानुविधायिषु सर्वेषु मोक्षशास्त्रेषु प्रतिपाद्यते; यथाह भगवान् पराशरः— “आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते” ॥
इति ।
स्मरति च भगवान् शाण्डिल्यर्ः— “इदृशः परमात्मायं प्रत्यगात्माव तथेदृशः ।
तत्सम्बन्धानुसन्धानमिति योगः प्रकीर्तितः” ॥
इति ।
तत्र चिदचिद्विवेकादिमात्रे साङ्ख्यमुपकुरुते ।
यमनियमादिसमाधिपरिकरशोधने योगः ।
इतिकर्तव्यताविशेषे कर्मकाण्डादयः ।
सर्वत्रैव पञ्चरात्रम् ।
निषिद्धकाम्यवर्गेषु व्यर्थानावश्यकेषु च ।
शमादिविधिरन्यत्र प्रवृत्त्या न विरुध्यते ॥
सोयमेवंविधः परमयोगाख्यो धर्मः “मय्येव मन आधत्स्व” इति गीयते ।
तदशक्तस्य, “अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन गतो मामिच्छाप्तुं धनञ्जय ।
अभ्यासेष्वसमर्थोसि मत्कर्मपरमो भव” ॥
इत्यादिना पूर्वपर्वाणि विधीयन्ते ।
यः प्रीतिपूर्वभगवदसाधारणकर्मण्यपि न समर्थः, तस्य विषयरसवैमुख्यजननाय समस्तवैषयिकसुखशेषित्वेन चिरतरमनुसंहितस्यापि स्वात्मनः सांसारिकसमस्तसुखसमधिकानन्दस्वरूपमालोकयितुमान्तरचक्षुर्विरोधितिमिरपटलपाटनाय ज्ञानकर्मयोगाख्ये द्वे भेषजे ।
तत्रात्मचिन्तनरूपो ज्ञानयोगस्तदालोकनेन्तरङ्गभूतः ।
तत्राप्यसमर्थस्य तदधिकारसिद्ध्यर्थं कर्मयोगः ।
तेन तत्र सिद्धाधिकारस्यापि शिष्टतया व्यपदेश्यस्यान्तर्गतात्मज्ञानः कर्मयोग एव कार्यः ।
अन्यथा कृत्स्नविदोप्यस्य ज्ञानयोगाशक्ताकृत्स्नवेदिपुरुषबुद्धिभेदजननमूलमहत्तरदुरितवशेन ज्ञानयोगोपि प्रतिबध्येत ।
तादृशेनैव च कर्मयोगेन सुकरत्वादिगुणवता चिरतरमनुष्ठितेन ज्ञानयोगव्यवधानमन्तरेणाप्यात्मावलोकनं सिध्यति ।
कर्मयोगेप्यसमर्थस्तु विकलमपि कर्मयोगमारभेत, “नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्” ॥
इत्यादिभिर्वैङ्कल्यविच्छेदादिसम्भवेपि फलाविनाभावादिप्रतिपादनात् ।
प्रक्रममात्रेणापि प्रसन्नो भगवान् पौष्कल्यमापादयति ।
सर्वेषु चामीषु पर्वसु तत्तत्सामग्रीचक्रघटनाय तत्तत्फलप्रदानाय च स एव हि शरणमनुसरणीयः ।
तथा चामनन्ति— “सा काष्ठा सा परा गतिः” इति ।
स एव परमपुरुषो वशीकार्यकाष्ठा परमप्राप्यश्चेत्यर्थः ।
“तस्य च वशीकरणं तच्छरणागतिरेव” इति भाष्यम् ।
एवं हिततमस्योपासनस्य दिङ्मात्रं दर्शितम् ।
फलं चापवर्गरूपं प्रागेव लक्षितम् ।
अन्येषां तु देहविच्छेदमात्रसहस्रयुवतिसम्भोगसमस्तालीकविषयविज्ञानसन्तानोच्छेदवासनात्यन्तविरामविषयोपरागवैधुर्यनित्योर्ध्वगमनसकललोकमस्तकोपरिनिविष्टसाधारणदेहविशेषानुप्रवेशनिरावरणत्वस्वानन्दानुभवस्वातन्त्र्यलाभशिवसारूप्यशिवापत्तिचिच्छक्तिपरिशेषाविद्यानिवृत्त्युपाधिनिवृत्तिसकलवैशेषिकगुणोच्छेदप्रभृतयो निःश्रेयसविकल्पा देहाद्यतिरिक्तात्मसद्भावबाह्यार्थपारमार्थिकत्वतत्तदागमाप्रामाण्यब्रह्मनिर्विकारत्वनिर्देषत्वतज्ज्ञानानन्दनित्यत्वादिसमर्थकैः शारीरकपर्यन्तैः शास्त्रैः प्रतिक्षेप्या; इति तत्र तत्र विस्तरो द्रष्टव्यः ।
इह तु प्रमाणचिन्तायाः परमप्रयोजनं दर्शयितुं प्रमेयस्य सङ्ग्रहोक्तिः, सपरिकरप्रमाणमर्यादाप्रतिपादनपरत्वान्न्यायविस्तरशास्त्रस्य, इति ॥
११ स्वातन्त्र्येण मितं सुखेतरतया यद्भाति जन्तोरिदं सर्वं यस्य विभूतिरिव्यवसितं स्वादं व्यनक्ति स्वकम् ।
अन्तःस्वान्तमनन्तनन्दथुनिधिर्मेदोदृशां मादृशा- माविर्भावयतु स्वयं स भगवानात्मानमात्मेश्वरः ॥
यत्रोदासत जैमिनिप्रभृतयः श्रुत्यर्थचिन्तापराः यस्यां कन्दलयन्ति मन्दमतयः पारिप्लवान् विप्लवान् ।
विश्वेषामिह वेङ्कटेशविदुषा विश्रान्तये वादिनां प्राची नीतिषु पर्यशोधि सरणिः प्रच्छायनिष्कण्टका ॥
शुद्धिं बिभ्रति मादृशां भणितयश्चूडान्वये केवलं प्रान्ते मिश्रमभाणि नीतिनिपुणैः किं तेष्वमन्तव्यता ।
युक्तं वर्गयुगे विमृश्य सरधापुष्पक्रमं यौक्तिकै- रङ्गीकर्तुमशक्यनिह्नवगुणग्रन्थो निबन्धो मम ॥
निरूढनिगमत्रये निखिललोकचिन्तामणौ प्रसत्तिमुपसेदुषि प्रणिदधानभावास्पदे ।
रतिं भजति भावना लयमिवोपयाति द्रुतं रमावसुमतीसहाचरितधर्मणि ब्रह्मणि ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रमेयाध्याये द्वितीयमाह्निकम् ॥
समाप्तश्च पञ्चमोध्यायः ॥
शास्त्रं च परिसमाप्तम् ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥