॥ प्रमेयाध्यायः ॥
॥ प्रथममाह्निकम् ॥
१ एवं सपरिकरं प्रमाणं विशोधितम् ।
अथ प्रमेयं प्रदर्शयामः ।
तत्र यत् पुनः षट्सप्तादिरूपेण पदार्थान् विभज्य वैशेषिकादयश्चिन्तयन्ति, तन्न साक्षादपवर्गाङ्गमिति तैरेवाभ्युपेतम् ।
अपि च— विद्यमानपरित्यागादसतां च परिग्रहात् ।
व्यामोहना विमर्शास्ते बहिष्कार्या मुमुक्षुभिः ।
सावान्तरविभागेषु तत्तच्चिन्ताश्रमेष्विह ।
अविस्तराय दिङ्मात्रं दोषाणामभिदध्महे ॥
यत् तत्राहुः— “अभिधेयः पदार्थः ।
स च भावाभावभेदेन द्विधा” इति, तत् तावत् “असद्व्यपदेशान्नेति चेन्न, धर्मान्तरेण वाक्यशेषाद्युक्तेः, शब्दान्तराच्च” इत्यारम्भणाधिकरणसूत्रेणाभावस्य पराभ्युपगताभावाभावस्येव भावान्तरत्वसमर्थनात् प्रतिक्षिप्तम् ।
यदपि च— द्रव्यगुणकर्मसामान्यविशेषसमवायरूपेण भावरूपाणां पदार्थानां षोढा परिसङ्ख्यानम्, तदपि वैशेषिकाधिकरणे “समवायाभ्युपगमाच्च साम्यादनवस्थितेः” इति सूत्रकारैरेव समवायाख्यपदार्थान्तरदूशणेन परास्तम् ।
अभावतदधिकरणयोर्विशेषणविशेष्यभावसन्निधिविशेषादिशब्दवाच्यसम्बन्धान्तरानुमानमपि समवायदूषणच्छाययैव दूषितमेव ।
यश्चान्योन्यमत्यन्ततुल्येषु मुक्तात्मादिषु मिथो व्यावृत्तधीजननाय द्रव्यत्वादिहेतुना विशेषाख्यः पदार्थः कल्प्यते, सोपि तुल्यन्यायतया सूत्रकारैर्दूषितप्राय एव ।
“महद्दीर्घवद्वा ह्वस्वपरिमण्डलाभ्याम्” इत्यनुपपन्नपरमाणुद्व्यणुकादिप्रक्रियानिदर्शनेनान्येषामपि तदभ्युपगतानामुनपपन्नत्वस्य सूचितत्वाच्च ।
अपि चानित्येषु द्रव्येषु तावज्जातिगुणपादिभिरेव व्यावृत्तधीः सिध्यतीति नित्येषु हि विशेषोन्यः कल्प्यते; यथाहुः— “नित्यद्रव्यवृत्तयोन्त्या विशेषाः” इति, तथापि वेदान्तिभिर्दिक्सञ्ज्ञकविभुपदार्थान्तरानभ्युपगमादाकाशस्य च कार्यत्वादिश्रुतेः प्रकृतिविकारभूतपृथिव्याद्यंशविशेषातिरिक्तपरमाणुजालप्रतिक्षेपात् तथाविधपरमाणूनां चावस्थाप्रवाहस्यानाद्यन्तत्वान्न तत्र विशेषकॢप्तिः ।
ततः कालात्मानौ परिशिष्येते ।
तत्रापि चेतनानां न कालतत्त्वमात्मतया भाति ।
क्षणलवाद्यवस्थायोगित्वपराक्त्वाचेतनत्वादिभिरेव, तस्मात् स्वेषां स्वेभ्यश्च तस्य व्यावृत्तधीसम्भवात् ।
अन्यथान्येनापि कल्पितेन तदसम्भवप्रसङ्गात् ।
अतः आत्मपरिशेषे तत्रापि जीवेश्वरयोरणुत्वविभुत्वनियाम्यत्वनियन्तृत्वाधेयत्वाधारत्वशेषत्वशेषित्वशरीरत्वशरीर् इत्वाभिरनेकविधैर्धर्मभेदैर्व्यावृत्तधीसिद्धौ किमन्येन विशेषेण ? ।
तदत्यन्तसाम्यवत्सु मुक्तेषु नित्येष्वपि हि तत्साम्यस्यैव संरक्षणाय धर्मिग्राहकसिद्धा यावदात्मभाविनस्ते ते विशेषा न परित्यक्ताः ।
न चेश्वरद्वैतम्; येनेश्वराणां मिथोव्यावृत्तप्रतीत्यै विशेषं कल्पयिष्यामः, एकस्यैव सर्वदेशकालेष्वेकातपत्रतया सर्वश्रुतिसिद्धत्वात्, अस्यैव च सामान्यशब्दैर्विशेषशब्दैश्च रूढितो योगतस्तत्तद्वसतुविशिष्टत्वादिना च तत्तत्प्रकरणानुगुणं शरीरके प्रतिपाद्यत्वस्थापनात् ।
जीवेष्वपि बद्धानां मिथो भेदस्तत्तत्सुखदुःखधीच्छावैचित्र्येण व्यक्तः ।
बद्धमुक्तयोश्च किञ्चिज्ज्ञत्वसर्वज्ञत्वादिभिः, मुक्तानां नित्यानां च विशुद्धेरादिमत्त्वानादिमत्त्वाभ्यामेव विभक्तधीसम्भवः ।
मुक्तदशायां नित्येभ्यः किं वैष्म्यमिति चेत्, किं तेन ? ।
प्राक्तनेन तत्तदात्मवर्तितया प्रत्यक्षितेन गुणादिभेदेन तदन्यव्यावृत्तधीसिद्धेः ।
सिद्धैरपि तद्व्यवहारे प्राक्तनोपाधिभेदैरेव तत्तत्प्रमाणप्रमितैः प्रतिसंहितैः सर्वनिर्वाहात् ।
एतेन मुक्तानां मिथो विभक्तबुद्धिरपि निर्व्यूढा; न हि तेषामेकरूपः प्राक्तनः संसारः; विषमविपाकसमयानाद्यसङ्ख्यातकर्मप्रवाहवैचित्र्यप्रतिनियतदेशकालस्वरूपसुखदुःखतत्कारणादिसन्ततेरेव मिथो व्यावर्तकत्वात् ।
तदतद्विभागो हि तत्कालवर्तिनैवं धर्मेणेति न नियमः, अतत्कालवर्तिनापि तन्निष्ठतयोपलभ्यमानेन तत्सिद्धेः; न ह्यतीतः संसारो मुक्तात्मस्वरूपमुपलभमानैर्नोपलभ्यते, उपलभ्यमानो वान्यनिष्ठः प्रतिभाति ।
अथ नित्येषु मिथः का वार्त्रा ? ।
सापि कुशलैव ।
तेषामपि हि सत्यसङ्कल्पानां विचित्राः सङ्कल्पेच्छादय रिश्वरस्येवानियतदेशकालविषयापर्यनुयोज्यसामग्रीका अनाद्यनन्तसन्तानवन्तः सन्तीति किमन्येन विशेषेण ? ।
अपि च यद्दर्शने यत्र यदारोपो न भवति स हि तस्य ततो भेदः ।
स एव च विशेषः ।
स चेत् स्वरूपभूतोहन्त्वमादिरूपेण भातः परारोपं प्रतिरुन्ध्यात्, कस्ततोन्यस्ततो विशेषस्तस्य ? ।
एवमनभ्युपगमे विशेषकॢप्तावपि का गतिर्वैशेषिकस्य ? स्वपरनिर्वाहकास्ते विशेषाः, इति चेत्, किं त एव? ।
अपि च पृथक्त्वे विद्यमाने किं तैर्विशेषैः ? ।
पृथक्त्वस्यैकजातिसङ्गृहीतत्वान्न ततोपि व्यावृत्तधीरीति चेत्, तर्हि ततो न क्वचिदपि स्यात् ।
विशेषेष्वपि वा विशेषत्वाक्रान्तेषु कस्ते निस्तारः ? ।
विशेषत्वं नाम जातिर्नास्तीति चेत्, किं तत् ? ।
उपाधिरितिचेत्, किं ततो न सङ्ग्रहः?, तथा सति क्वचिदपि तन्निबन्धनानुवृत्तधीभङ्गप्रसङ्गात् ।
एवमन्योन्याभावेनापि गतार्थता दुस्तरेति परास्तः पराभिमतविशेषः ।
सामान्यमपि परोक्तं सूत्रकारैरेव निरस्तप्रायम्; तथाहि— “तदनन्यत्वमारम्भणशब्दादिभ्यः—” इत्यादिभिः सूत्रैः कार्यदशायामुपादानस्यावस्थान्तरापत्तिमात्रमेव, न पुनः पराभिमतमवयव्याख्यं द्रव्यमस्तीति समर्थनाद् घटाद्यवयव्यभावे तदाश्रितघटत्वादिसामान्यमवयविसमवेततयाभ्युपगतगुणादयस्तदुभयारम्भप्रक्रियाजालं च निर्मूलितम् ।
यच्चोपादानस्य घटत्वादिरूपमवस्थान्तरं संयोगविशेषादिरूपम्, तत् परैरपि कार्यतयाभ्युपेतमुपलम्भादिभिश्च तथैव सिध्यतीति न तत्रापि नित्यत्वकल्पनावकाशः ।
ततः सर्वेषां द्रव्याणां स्वरूपतोनाद्यनन्तत्वात् कार्यद्रव्यत्वात्मत्वादिमात्रमेव शिष्यते ।
गुणेषु नित्येष्ववस्थारूपेषु चानुवृत्तप्रत्ययनिमित्तं किमिति चिन्त्यम्; तत्रैवं भाषितं शारीरकाद्ये— “संस्थानातिरेकिणोनेकेष्वेकाकारबुद्धिबोध्यस्यादर्शनात्, तावतैव गोत्वादिजातिव्यवहारोपपत्तेः, अतिरेकवादेपि संस्थानस्य सम्प्रतिपन्नत्वाच्च संस्थानमेव जाति ।
संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसन्धेयम्” इति ।
एतदुक्तं भवति— किं संस्थानातिरिक्तं सामान्यं विविक्तस्फुटप्रत्यक्षाध्यवसायभेदादङ्गीक्रियते, उतोपपत्तिबलादिति; नाद्यः, असिद्धेः नान्त्यः, अन्यथासिद्धेः; अतिरिक्तसामान्यमभ्युपगच्छतोपि हि तदुपलक्षणं संस्थानमिष्टं दृष्टं च ।
प्रतिव्यक्तिनियतं संस्थानं कथमनुवृत्तप्रत्ययकारणमिति चेत्, कथं वा तज्जातीयस्य लक्षणं भवति ? ।
अनुवृत्तजात्यन्तरसङ्गृहीतोपाधिरूपतयेति चेत्, तावतैव गवादिव्यवहारसिद्धौ किमन्येन ? ।
तथाप्यन्ततोनुवृत्तं सामान्यं क्वचिदभ्युपगन्तव्यम्, यत्रानन्यथासिद्धिः; अन्यथोपाधिसङ्ग्रहस्याप्यसम्भवादिति चेत्, तवापि वा तत्र सामान्यमुपलक्षणेन सङ्गृह्यते, न वा ? पूर्वत्रान्यथासिद्धिरनवस्थितिश्च ।
उत्तरत्र नियामकादर्शनाज्जातेराश्रयव्यवस्था न स्यात् ।
व्यावृत्तानामपि स्वभावत एव कासाञ्चित् व्यक्तीनां तद्व्यञ्जकत्वनियतिरिति चेत्, स एव स्वभावः किं न व्यवहारं नियछेत् ।
निर्विषयः कथं व्यवहारः स्यादिति चेत्, तासामेव व्यक्तीनां विषयत्वात् ।
व्यावृत्तानामनुवृत्तव्यवहारविषयत्वे सर्वत्र विषयव्यवस्था भज्येतेति चेत्, व्यावृत्तानामनुवृत्तव्यञ्जकत्वे सर्वत्र तद्व्यक्तिः किं न स्यात् ? ।
सम्बन्धासम्बन्धाभ्यां नियमादिति चेन्न, सम्बन्धस्यापि समवायनाम्नः सार्वत्रिकत्वाभ्युपगमात् तत्राप्यभिव्यक्तिप्रतिनियमस्य मृग्यत्वात्, नानासमवायवादेपि व्यक्तिस्वभावनियमस्य दुस्त्यजत्वात्, तथापि दृष्टैकगोव्यक्तेर्व्यक्त्यन्तरे सोयमिति प्रत्यभिज्ञानं कथं स्यात् ? अयं गौरित्येकव्यक्तौ व्युत्पादितश्च कथं व्यक्त्यत्यन्तरेपि तच्छब्दवाच्यतां प्रतीयात् ? इति चेत्, तवापि वा कथम् ? ।
एकधर्मसमवायादिति चेत् ? तेनैव धर्मेण स्वतो मिलितस्य समवायस्यैव नित्यं सर्वत्र वृत्त्यभ्युपगमेन सर्वत्र सर्वव्यवहारसङ्करप्रसङ्गात् ।
कासाञ्चिदेव व्यक्तीनां तद्व्यञ्जकत्वस्वाभाव्याद् व्यवस्थोक्तेति चेत्, तर्हि तासामेव व्यक्तीनां प्रतिसन्धानव्यवहारयोर्विषयत्वमस्तु ।
तथा सति भ्रान्तत्वं तयोः स्यादिति चेन्न, तद्व्यक्तित्वेन प्रतिसन्धानादेरभावात् ; अपि तर्हि तथात्वेन व्यक्तिस्वरूपातिरिक्तं तथात्वं नामान्तरेण जातिरेव स्यादिति चेत्, तज्जातिव्यञ्जकं तत्तदेकव्यक्तिस्वरूपातिरिक्तं किं न जात्यन्तरं स्यात् ? ।
उपाधिविशेष एवायं प्रतिनियताश्रय इति चेत्, एवं तर्हि प्रतिनियतप्रतियोगिकं स्वभावनियतं परस्परस्मारकत्वमुपजीव्य तज्जातीयतया प्रतिसन्धानव्यवहारोपपत्तौ किमन्यकल्पनेन ? ।
तस्मारकतदितरविभागः कुतस्त्य इति चेत्, तद्व्यञ्जकतदितरविभागस्ते कुतस्त्यः ? ।
दर्शनादर्शनायत्त इति चेत्, तुल्यम् ।
सम्बन्धसादृश्ययोरभावे कथं स्मारकत्वमिति चेत्, तयोर्वा कथम् ? ।
सदृशसहानुभूतदर्शनस्य संस्कारोद्बोधकत्वादिति चेत्, तदपि कुतः ? ।
कार्यदर्शनात् कल्प्यते इति चेत्, तुल्यम्; अन्यथा सम्बन्धं सादृश्यं वैकमुपादाय तदन्यस्य कथं स्मारकत्वमिति चोद्यस्य दुर्वारत्वात् ।
न चात्र सादृश्यं नाङ्गीकुर्मः, सौसादृश्यरूपत्वाभ्युपगमात् सामान्यस्य ।
नामान्तरेण पराभिमतजातिस्वीकारः इति चेत्, व्यावृत्तानां सन्निवेशादीनामेव प्रतिनियतप्रतियोगिस्मारकस्वभावतया सादृश्यरूपत्वात् ।
गवयादेरपि तर्हि गोजातीयत्वादिप्रसङ्गः इति चेन्न, सादृश्यसौसादृश्यविभागस्वय साम्प्रत्ययिकस्य सर्वसम्मतत्वात् इति ।
एवं सामान्यादिषु सूत्रकारादिभिर्निरस्तेषु परिशिष्टा द्रव्यगुणकर्मरूपास्त्रयः पदार्थाः इति केचिदाचार्याः ॥
२ अन्ये तु मन्यन्ते—यथा तत्प्रतीतेरन्यथासिद्धतया ते पदार्था भाष्यकारादिभिर्निरस्यन्ते, तथा कर्मापि, इति, ये तावदिह सर्वत्र सूर्यपरिस्पन्दादिवदप्रत्यक्षं कर्म फलानुमेयमिच्छन्ति ।
तत्र यया सामग्र्या कर्मणः सिद्धिरभिमता तयैव दृष्टं कर्मफलं साध्यताम्, किमन्तरा कल्पितेन कर्मणा ? ।
तथापि चेत् कॢप्तिः, अन्यत्रापि कालविप्रकर्षादर्शनेपि सामग्रीकार्ययोर्मध्ये अन्यस्य कॢप्तिप्रसङ्गः; तथैव च त्रत्रापीत्यनवस्था स्यात् ।
ये च “प्रत्यक्षं कर्म” इत्याहुः, तैरपि नूनं कर्मफलत्वेनाभ्युपगमसंयोगविभागातिरिक्तं निपुणनिरीक्षणेपि नोपलभ्यत इति मन्यामहे ।
चलतिप्रत्ययोपि हि तावतैव चरितार्थः ।
न च वाच्यं यावत्संयोगं चलतिप्रत्ययप्रसङ्ग इति, पूर्वदेशविभागपूर्वकदेशान्तरसंयोगप्रथमक्षणविषयत्वात् तत्प्रत्ययस्य ।
तत एव ह्युत्तरकाले संयोगे वर्तमानेप्यचलदिति भूतानुसन्धानमुपपन्नम् ।
ननु प्रवाहमध्यस्थिते स्थाणौ पूर्वसलिलस्कन्धवियोगः उत्तरसलिलस्कन्धयोगश्च दृश्यते, न च तत्र चलत्वमिच्छामः; व्योमादय एव स्थिरदेशत्वेन विवक्षिताः इति चेन्न, प्रवाहस्य ततो विशेषादर्शनात्; लौल्यम् विशेषः इति चेत्, तर्हि संयोगविभागातिरिक्तं लौल्यरूपं कर्मप्रत्यक्षमिति कथं तदपह्नवः ? इति ।
तत्राहुः—या नाम कर्मसामग्री त्वयेष्यते सा तत्तत्कर्मफलतयाभिमतं संयोगविशेषमुत्पादयन्ती नियतस्वभावमेव तमुत्पादयति ।
अत एव एव संयोगोनेकनिष्ठोपि सन् क्वचिच्चलतिप्रत्यंयं क्वचित् संयोगमात्रप्रत्ययं च जनयति, यथैक एव समवायोगुणगुणिभ्यामविशेषेण स्वतो मिलितोपि सन् क्वचिदाश्रयप्रत्ययं क्वचिदाश्रितप्रत्ययं च जनयति, न ह्याश्रयभाव आश्रितभावो वा समवायस्वरूपातिरिक्तः, तद्वदिहापीति ।
वयं तु ब्रूमः— अप्रत्यक्षकर्मवादस्तावत् प्रागुक्तदूषणादयुक्तः ।
प्रत्यक्षं तु कर्म स्वरूपतो दुरपह्नवम् ।
तत्र भाष्यादिष्वतिरेकविधिनिषेधादर्शनादर्थान्तरविरोधाभावाच्चोदासितव्यम्, इति ।
इदं तु मन्यामहे— अतिरेकेपि गुणवर्गान्न राश्यन्तरं कर्म, विभाजकाभावात्, स्वेच्छाकल्पितविभाजकस्य सर्वत्र सुलभत्वेन यथाभिमतमेकं गुणमुभयं वाङ्गीकृत्य राश्यन्तरकल्पनप्रसङ्गात्, गुणावान्तरवैचित्र्यस्य गुणत्वविरोधाभावात् ।
अतो द्रव्यमद्रव्यमित्येव विभागः इति ॥
३ तत्र चात्मगुणतयाभिमतेषु सुखदुःखेच्छाद्वेषप्रयत्नाः पञ्च तत्तदुत्पादकतयाभिमतबुद्धिविशेषानतिरिक्ता वेदार्थसङ्ग्रहे समर्थिताः ।
धर्माधर्मौ विहितनिषिद्धक्रियासाध्यतयाभिमतावाज्ञावतो राज्ञ इव सर्वप्रशासितुरीश्वरस्यानुग्रहनिग्रहाख्यबुद्धिविशेषरूपौ भाष्यादिषु बहुषु प्रदेशेषु प्रपञ्चितौ ।
यः पुनः संस्कारः स तावद्बुद्धिविशेषात्मनोक्तः, न च तत्प्रयुक्तः; ततश्चिरनष्टविप्रकृष्टाकारे व्याप्त्यदर्शनात्, वासनानुवृत्तेश्च वाचनिकत्वात् ॥
४ यद्यपि “इन्द्रियस्येन्द्रियस्यार्थे” इत्यादिगीताश्लोकेषु भाष्यकारैर्वासनाया इच्छाद्वारेणैव प्रवृत्तिहेतुत्ववचनाज्ज्ञानवासनाविशेषातिरिक्ता कर्मवासना नास्ति, तथापि ज्ञानवासना दुरपह्नवा, ततश्च तदाश्रयमात्रं विचार्यम्, तत्र धर्मभूतज्ञानस्य द्रव्यत्वन्न्यायतत्त्वात्मसिद्धिभाश्यादिसिद्धमनुसरतां तन्निष्ठस्मृत्याख्यविकारोत्पादकः संस्कारो ऽपि तन्निष्ठः प्राप्तः; अन्तरङ्गत्वादबाधाच्च ॥
५ ये तु परपरिभाषमनुसरन्तस्तदनुगुणं तस्य गुणत्वं गृह्णन्ति, तेषामात्मन्येव संस्कारः, इति विशेषः ।
न च बुद्धोर्नित्यत्वं सङ्कोचविकासादिदशाभेदं चाभ्युपगच्छद्भिरद्रव्यत्वं तस्याः सुवचम्; अवस्थान्तरयोगित्वमेव ह्युपादनत्वम्; तदेव हि द्रव्यलक्षणम् ।
तथापि नगुणत्वहानिः; अपृथक्सिद्धविशेषणत्वातिरिक्तगुणत्वावदर्शनात्, कर्मव्यतिरिक्तजातिमात्राश्रयत्वादिरूपगुणलक्षणसङ्केतस्यास्माभिरनादरणात् ।
न च द्रव्यस्याश्रितस्वभावत्वलक्षणमपृथक्सिद्धविशेषणत्वं विरुद्धम्, अवयविनि युष्माभिरपि स्वीकरणात् ।
यथा च द्रव्यत्वविशेषणत्वादिभिर्न विरोध इष्यते, एवमत्रापि, उपलम्म्भयुक्त्यादेः सामनचर्चत्वात् ।
अतो ज्ञानं द्रव्यम्, तदवस्थाविशेषास्त्वद्रव्याणीति संस्काराख्यविकारास्थितिरपि तत्रैव युक्ता ।
वेगाख्यस्तु संस्कारस्तदुत्पादकत्वाभिमतकर्मविशैषातिरिक्तो न दृश्यते, न च युज्यते ।
स्थितस्थापकौ तु कर्मनिवृत्तावपि तदविनाभूतसंयोगविशेषत्वं वक्तुं युक्तम् ॥
६ ये च भगवतोनन्ता मङ्गलगुणाः प्रकीर्त्यन्ते, ते सर्वेपि षाङ्गुण्यविततिरूपाः इति सम्मतम् ।
यथाहुः— “तवानन्तगुणस्यापि षडेव प्रथमे गुणाः ।
यैस्त्वयेव जगत् कुक्षावन्येप्यन्तर्निवेशिताः” ॥
इति ।
षट्सु च गुणेषु बलं धारणसामर्थ्यम्, ऐश्वर्यं नियमनशक्तिः; विकारहेतुष्वप्यविकृतत्वं वीर्यम्; तेजः पराभिभवनसामर्थ्यम्, अन्यानपेक्षता वेति ।
लक्षितानां चतुर्णामतिमथने ज्ञानशक्तिविततिरूपत्वं व्यक्तम् ।
न च ज्ञानशक्त्योरप्येवं मिथोन्तर्भावः शक्यः, अज्ञेष्वपि द्रव्येषु शक्तिदर्शनात्, अशक्तेष्वपि ज्ञानदर्शनात् ।
अत एव ज्ञानविशेषः शक्तिरित्यपि निरस्तम् ।
शक्तिविशेषस्तु ज्ञानं स्यादिति चेत्, कोसौ शक्तिशब्दार्थः ? ।
विलक्षणो गुणविशेषः प्रभाकरादिनयेन पदार्थान्तरं वा इति चेत्, न तर्हि ज्ञानस्य तद्विशेषता सिध्येत् ।
अथ कार्योपयुक्तविशेषणमात्रं शक्तिरिति सर्वप्रयोगानुगतं पश्यसि, तदा न केवलं ज्ञानस्य, अपि तु सर्वस्यैव शक्तित्वं प्राप्तम्, सर्वस्यापि प्रधानकारणतयाभिमते कस्मिंश्चिद्विशेषणत्वेनावस्थानात् ।
नन्वेवमुदयनादीनामिव स्वरूपसहकारिव्यतिरिक्तशक्त्यभावः प्रसक्तः इति चेत्, अनन्यथासिद्धयुक्तिवशादागमबलाद्वा तत्सिद्धेः ।
तच्छब्दस्तु विवक्षाविशेषात् स्यादिति ब्रूमः ।
शक्तिसमर्थनसंरम्भश्चाचार्याणां न्यायकुलिशे निपुणमनुसन्धेयः ।
शक्तिमात्रकारणादिवादाश्च बाह्यानामुपलम्भयुक्त्याप्तागमादिविरहादनादरणीयाः ।
सा चेदुपादानम्, सूक्ष्मन्द्रव्यमेवासौ स्यादिति न विवादः ॥
७ अथाचिद्द्रव्यविशेषगुणान् पश्यामः— तत्र शब्दादयः पञ्च तत्तद्भूतवर्तिनः प्रत्यक्षादिबलादभ्युपगताः ।
सत्त्वरजस्तमांसि च शास्त्रानुसारेण ।
संयोगश्च प्रत्यक्षादिसिद्धः ।
नैरन्तर्यमात्रमेवायमिति चेत्, तत् किं द्रव्यस्वरूपम्, उतागन्तुरवस्थाविशेषः ? ।
नाद्यः, नित्यत्वप्रसङ्गात् ।
न द्वितीयः, नामान्तरेण तदभिधानात्, इति ।
विभागपृथक्त्वे तु अभावोक्तन्यायेन दूषणीये ।
परत्वापरत्वे अपि सुखादिच्छायया; न हि तत्तदुपाध्यवच्छिन्नदेशकालविशेषसम्बन्धातिरिक्ते परत्वापरत्वे पश्यामः ।
तत्कल्पने च प्राक्त्वप्रत्यक्त्वादयोपि हि बहवो गुणास्तुल्यन्यायाः कल्प्याः स्युः ।
एवं सदसद्गुणप्रदर्शनप्रक्रियया सङ्ख्यापरिमाणगुरुत्वद्रवत्वस्नेहानां तत्त्वमवसातव्यम्, इत्यद्रव्येष्वेषा दिक् ॥
८ अथ द्रव्याणि विमृश्यन्ते— तत्र तावत् कौमारिलाभिमतविभुशब्दाख्यद्रव्यवादः शब्दस्याचिदवस्थाविशेषत्वेन श्रुत्यादिसिद्धत्वान्निराकार्यः ।
आत्मसिद्धौ तु शब्दस्य धर्म्यतिवर्तित्वगतिमत्त्ववादस्तदाश्रयभूतावयवद्वारेणेति नेतव्यः ।
यत्तु— “तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति” ॥
इत्याहुः, तदेतद् द्रव्यं तावदभ्युपगच्छामः; तथा ह्युक्तं वरदगुरुभिस्तत्त्वसारे— “तमो नाम द्रव्यं बहुलविरलं मेचकचलं प्रतीमः केनापि क्वचिदपि न बाधश्च ददृशे ।
अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते निरालोकं चक्षुः प्रथयति हि तद् दर्शनवशात्” ॥
इति ।
एतेन वियति विततानां सूक्ष्माणां पृथिव्यवयवानां कृष्णो गुणस्तम इति पक्षोपि प्रतिक्षिप्तः; साश्रयस्यैव तस्य ग्रहणविरोधाभावात्, गुणमात्रतया च कस्याप्यनुपलम्भात् ।
स्पर्शरूपरसानां च शब्दगन्धवद् भ्रान्तौ प्रमितौ वा निराधारग्रहणादर्शनाच्च–इति ।
एवं द्रव्यत्वे सिद्धे कृष्णवर्णस्य द्रव्यस्य पृथिवीत्वमेवाभ्युपगन्तुमुचितम्, “यत् कृष्णं तदन्नस्य” इति श्रुतेः ।
यद्यपि पृथिव्यां पाकविशेषवशात् शुक्लादिरूपम्, नान्यत्र पाकादपि भवति; आकाशादिषु नैल्योपलम्भोपि हि पञ्चीकरणमूलपृथिवीसंसर्गात् ।
“आकाशे चाविशेषात्"इति सूत्रे भाषितम्— “अण्डान्तर्वर्तिनश्चाकाशस्य त्रिवृत्करणोपदेशप्रदर्शिन्तपञ्चीकरणेन रूपवत्वाच्चाक्षुषत्वेप्यविरोधः” इति ।
नन्वेवमाकाशमेव द्रव्यान्तरसंसर्गान्नीलं तम इत्युपलभ्यते इति स्यादिति चेत्, न स्यात्, आकाशे तम इति पृथगुपलम्भस्वारस्यात्, द्रव्नयान्तरत्वे तु कल्पनागौरवात्, अन्ततोत्रापि पञ्चीकरणेन द्रव्यान्तरसंसर्गस्याभ्युपगतत्वाच्च इति ।
स्पर्शानुपलम्भस्तु इन्द्रनीलालोकदुर्दिनातपादेरिवानुद्भवादेरपि ।
स्यात् ।
न च पार्थिवरूपस्य सर्वस्यालोकसापेक्षचक्षुर्ग्राह्यत्वनियमः कल्प्यः, करणवैचित्र्यादिव विषयवैचित्र्यादपि व्यवस्थोपपत्तेः ।
दिवाभीतानां विशिष्टाञ्जनरञ्जिताक्षाणां चालोकनिरपेक्षमेव चक्षुषैव पदार्था गृह्यन्ते ।
आलोकाभावमात्रे च तमसि तमोज्योतिषोर्निवृत्तिवचनं चव्याहन्येत, प्रतिनियतनैल्यारोपकल्पनाप्रयासश्च ।
अतः पृथिवीविशेषत्वं तमसो युक्तम् ।
पृथिव्यादीनि पञ्च भूतानि मनश्च त्रिगुणद्रव्यपरिणतिविशेषतया श्रुत्यादिसिद्धत्वान्न पृथग्द्रव्याणि ।
तत्र चावयव्याख्यं भौतिकद्रव्यम् “तदनन्यत्वमारम्भणशब्दादिभ्यः” इत्यादिभिः षड्भिः सूत्रैर्बुद्धिशब्दान्तरादेरन्यथासिद्ध्याद्युपपादनेन निरस्तम् ।
“महद्दीर्घवद्वा ह्वस्वपरिमण्डलाभ्याम्” इत्यादिभिश्च परामभिमतः परमाणुः ।
अतः परिणामविशेषादुपलम्भयोग्यत्वायोग्यत्वादिदशाविशेषयोगि प्रकृत्यादिसञ्ज्ञं द्रव्यं विचित्रव्यवस्थितक्रमसमष्टिव्यष्टिरूपमवतिष्ठते ।
दिक्तत्त्वमपि तत्तदुपाध्यवच्छिन्नास्तत्तद्देशविशेषा एव, अतिरिक्तकल्पकानां परापरप्रत्ययविशेषादीनामन्यथासिद्धेः ।
दिगुत्पत्तिश्रुतिश्च तदुपाधिकतन्निर्वाहकसृष्ट्योपपन्ना; अन्यथा द्युपृथिव्यन्तरिक्षादिवत् त्रिगुणपरिणतिविशेषतैव स्यात्, न पृथग्द्रव्यता ।
न चैवं कालेपि प्रसङ्गः, नित्यस्य कालस्य भगवत्पराशरादिभिः पृथक्प्रसङ्ख्यानात् ।
तस्य प्रकृतिपरिणतिविशेषत्वादिपक्षास्तत्पूर्वापरकालावश्यम्भावात् श्रुत्यादिबलाच्च प्रत्यस्ताः ।
अतस्त्रिगुणकालावात्माचेति त्रीणि सिद्धानिर् ।
इश्वरस्य तु पृथक्सङ्ख्याने चत्वारि ।
तस्य हि चेतनत्वादिभिः सङ्ग्रहसम्भवेप्यवान्तरवैलक्षण्यज्ञापनाय पृथक्सङ्ख्यानं प्राचामनादिवाचां च, अन्यथा प्रक्रियान्तरेणाचेतनेष्वपि सङ्ग्रहप्रसङ्गात् ।
विविक्तं च भगवता पराशरेण— “परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः” ॥
इति ।
एवं धर्मभूतज्ञानाख्यमपि द्रव्यमजडत्वाविशेषेपि स्पुटतरवैधर्म्यानतरबलात् पृथग्गणयन्ति ।
तस्याद्रव्यत्ववादः केषाञ्चिन्नाथमुनियामुनमुनिभाष्यकारादिप्रबन्धविरोधात् प्रायः परचित्तरञ्जनार्थः ।
शुद्धसत्त्वाख्यस्य च द्रव्यान्तरस्य परविग्रहादियाथार्थ्योपदेशप्रवृत्तनिरुक्ताद्याप्तागमसिद्धत्वात् सूक्ष्मत्रिगुणावस्थाविशेषादिपक्षा बहिष्कार्याः ।
अतः षडेतानि द्रव्याणि ।
भोक्तृभोग्यनियन्तॄणां सदात्मनैकद्रव्यत्वादिपक्षा अपि निर्विशेषसन्मात्रपक्षवद् व्याघातश्रुतिविरोधादिभिर्बहुशो भाष्यादिषु निरस्ताः ।
तत्र त्रिगुणशुद्धसत्त्वे स्वनिरुक्त्यैव लक्ष्ये ।
क्षणलवाद्यात्मा कालः ।
अणुर्ज्ञाता जीवः ।
विभुस्त्वीश्वरः ।
जानातिव्यवहारासाधारणकारणं व्यवहार्यविशेषो मतिः ।
एवं त्रिगुणकालजीवेश्वरशुद्धसत्त्वमतिरूपेण षोढा द्रव्यविभागः ।
एवं प्रमाणसार्थघण्टापथेन द्रव्याद्रव्यरूपप्रमेयग्राममधिजिगमिषतां न कुदृष्टिबाह्यकल्पितकूटयुक्तिगर्तनिपातः, इति ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रमेयाध्याये प्रथममाह्निकम् ॥