॥ स्मृत्यध्यायः ॥
॥ द्वितीयमाह्निकम् ॥
५१ एवं तावद्विवेचितं प्रमाणम् ।
चार्वाकास्तु प्रत्यक्षमेकं प्रमाणमित्याहुः ।
तेष्वेव केचित् अनुमानस्य प्रत्यक्षेन्तर्भावमिच्छन्ति; केचित्तु अप्रामाण्यम्; प्रत्यक्षमनुमानं च काणादाः सौगताश्च ।
तत्र पूर्वे शब्दस्यानुमानेन्तर्भावमाहुः; परे तु केचित् अन्तर्भावम्; केचिदप्रामाण्यम्; ते चागमं च साङ्ख्याः, भूषणमतानुवर्तिनश्च ।
तत्र वेदस्यानादित्वं पूर्वे परिजगृहुः; उत्तरे त्वीश्वरसृष्टताम्; तानि च स्मृतिं च वैशेषिकैकदेशिनोस्मत्सिद्धान्तैकदेशिनश्च; तान्येव सार्थापत्तिकानि प्राभाकराः; अनुपलब्धिषष्ठानि तान्येव तौतातिताः, तत्प्रलोभनरुचयो मायावादिनश्च; तान्येव सम्भवतिह्ययुक्तानि पुराणशरणाः ।
अद्यतनप्रमाणपरिग्रहोपलम्भप्रक्रियेयम् ।
अनन्ते पूर्वापरकाले कः किमङ्गीकुर्यात्, किं वा बहिष्कुर्यात्, इति को जानात्यन्यत्र कल्पसाक्षात्कारिणस्तस्मादेकस्माद्देवात् ।
इह च न्यूनवादिनस्तदवसरे निरस्ताः ।
अधिकतया पराभिमतानां तु अर्न्तभावो वक्तव्यः ।
तत्र यथा प्रत्यभिज्ञादीनां प्रत्यक्षादिष्वेव निवेश इष्यते, एवमन्येषामपि ।
प्रत्यभिज्ञा तावत् ग्रहणात्मिकैवेत्येके; तथाहि— “प्रत्यभिज्ञायामपि स्मृतिरनुभव इत्यंशभेदोस्ति चेत्” इत्याशङ्क्य प्रत्युक्तं श्रीविष्णुचित्तैः— “यदि विषयभेदः, तदा अंशभेदः सम्भवेत्; ऐक्यमेव हि निरंशं प्रत्यभिज्ञाप्रत्यक्षविषयः ।
कथं संस्कारःअपरोक्षधीजनकः इति चेत्, न, चक्षुरादीन्द्रियसहकृतस्य संस्कारस्य ज्ञातुरैक्यात् तदिदमित्यपरोक्षधीहेतुत्वोपपत्तेः ।
अपरोक्षार्थैक्यसाधिका ।
सा प्रत्यभिज्ञा सोयं वै पुमानित्येवमात्मिका ।
संस्कारमात्रजन्यत्वान्न स्मृतिर्मानमेव तत्” ॥
इति ।
दीपे च ऽअनुस्मृतेश्चऽ इति सूत्रे भाषितम्- “प्रत्यभिज्ञानाच्च न पटादेः क्षणिकत्वम्; तदेवेदमिति प्रत्यभिज्ञायते; प्रत्यभिज्ञा हि नामातीतवर्तमानकालवर्त्येकवस्तुविषयमेकं प्रत्यक्षज्ञानम् ।
तस्य कालद्वयसम्बन्धाविशिष्टमेकमेव वस्तु विषयः ।
न च तदित्यंशः स्मरणम्, इदमंशश्च ग्रहणम्, अतीतसम्बन्धिनीन्द्रियसम्प्रयोगाभावात् इति वाच्यम्, तदिदमिति सामानाधिकरण्येन ग्रहणस्यैकत्वस्फुरणात् ।
पूर्वानुभवजनितसंस्कारसचिवेन्द्रियसम्प्रयोगयुक्तस्य पुरुषस्य तथा ग्रहणमुपपद्यत एव; अन्वयव्यतिरेकाधीनं हि सर्वत्र सामग्रीपरिकल्पनम्” इति ।
अन्ये तु अत्र धीभेदबाद्ध्यपरिहारौ मत्वा तदिदमंशयोस्तदंशे संस्कारान्वयव्यतिरेकानुविधानदर्शनात् परोक्षरूपतया इदमंशे च पत्यक्षरूपतया चोभयात्मकत्वमाहुः ।
तन्मते संस्काराधीनप्रकाशा स्मृतिरिति लक्षणम्, अपरोक्षज्ञानं प्रत्यक्षम्, उभयलक्षणयोगात् प्रत्यभिज्ञायामुभयात्मकत्वम्, इति ।
अभ्युपगन्तव्यं चास्मत्सिद्धान्तिभिः सर्वैः प्रत्यक्षेतरज्ञानानां परोक्षापरोक्षरूपत्वम्, स्वयम्प्रकाशत्वात्, सर्वज्ञानानां वेद्येतरांशापेक्षया च प्रत्यक्षत्वात् ।
उक्तं चेदं श्रीविष्णुचित्तैरपि — “स्वप्रकाशकं विषयप्रकाशकं चैकमेव ज्ञानम्; तत्र स्मृत्रिरनुभूतिरिति कुतो भेदः ?” इति परिचोद्य, “प्रकाशमानभेदात्, इति ब्रूमः; यथा— गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा— गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा च घटपटावित्येकस्मिन्नेव ज्ञानेंशभेदः; यथा वा पराभ्युपगतभ्रमज्ञानेष्वधिष्ठानांशे प्रामाण्यम्, इतरत्राप्रामाण्यं च” इति परिहारात्; तथा “स्मृतेः स्वप्रकाशांशोपि संस्कारमात्रज एव, इन्द्रियादिप्रतिनियतकारणान्तराभावात्” इति परिचोद्य “नैवम्, ज्ञानानां प्रकाशमानत्वस्य स्वाभाविकत्वात्” इति परिहाराच्च ।
तस्मात् सर्वत्र विषयापेक्षयैव अपरोक्षत्वानुमितित्वस्मृतित्वादिविभागः ।
जातिसङ्करासङ्करादि तु दर्शनादर्शनाभ्यां व्यवस्थाप्यम्, औपाधिकसङ्करादिवच्च ।
तदेवमुभयात्मकत्वोपपत्तेः प्रत्यभिज्ञाप्युभयात्मिका इति ॥
५२ प्रत्यभिज्ञाप्यभिज्ञावत् त्रिधा चाक्षादिभेदतः ।
तत्तत्संस्कारसम्भेदमूलत्वान्नवधा भवेत् ॥
प्रत्यक्षतोक्तिर्दीपादौ प्रदर्शनपरेष्यताम् ।
न हि लिङ्गादिभिः सोयमिति ज्ञानं न जायते ॥
शब्दजं प्रत्यभिज्ञानमुपजीव्य प्रवर्तते ।
शाखान्तराधिकरणन्यायश्च क्रतुविद्ययोः ॥
दीपादिष्विव सर्वत्र बाधकादेरसम्भवात् ।
विगीतं प्रत्यभिज्ञानं प्रमाणं सविकल्पवत् ॥
करणाकरणादीनां कालभेदाद्युपाधितः ।
अविरोधान्न बीजादौ शक्यते भेदकल्पनम् ॥
अन्यथा देशभेदेन करणाकरणादिभिः ।
एकं जगति नैव स्यादिति स्यात् सर्वशून्यता ॥
तस्माद् विरुद्धसंस्पृष्टविषयप्रत्यभिज्ञया ।
स्थिरत्वमात्मनां सिद्धं बाह्यानामपि वास्तवम् ॥
५३ प्रतिसन्धानमप्यात्मगोचरं प्रत्यभिज्ञाविशेष एव; योहमद्राक्षं स एव स्पृशामि, इत्येवमादिरूपत्वात् ।
प्रतिसन्धिरर्थद्वयविषयैकबुद्धिरित्येके ।
तत्रापि पृथगनुभूतानेकार्थगोचरैककर्तृकैकबुद्धिरिति पूरणीयम्, इति ।
संवादो नाम ज्ञानजात्यन्तरम्, इति केचित्; तदयुक्तम्, सङ्ख्यान्तरासम्भवात् ।
यत्तु वरदविष्णुमिश्रैरुक्तम्— “गृहीतार्थविषयं शब्दकारणकं ज्ञानं संवादः” इति, तदपि शाब्दावान्तरभेदे सञ्ज्ञाविशेषनिवेशमात्रपरम्;“न हि गृहीतार्थविषयत्वे शब्दशक्तिप्रसूतत्वमपैति; गृहीतमात्रगोचरप्रमाणान्तरेपि तदन्यत्वप्रसङ्गात्; भवति हि पर्वतोयमग्निमानिति शब्दश्रवणानन्तरं धूमं परामृशतोपि तादृशी बुद्धिः ।
तथा द्वितीययोगिप्रत्यक्षादावपि द्रष्टव्यम् ।
अनपेक्षितत्वादिकमपि श्रुतविषयानुमानादौ समम् ।
न चापेक्षायुक्तं प्रामाण्यं भेदोभेदो वा, तृणादिप्रत्यक्षस्यापि तथा प्रसङ्गात्” इत्युक्तम् ।
किमर्थं तर्हि वेदानां वेदान्तानां चाप्राप्तविषयत्वं समर्थ्यते ? इति चेत्, अतथाप्राप्तौ साक्षादप्रामाण्यप्रसङ्गात्; तथाप्राप्तावपि अनपेक्षिततया प्रेक्षावद्भिर्निरर्थकप्रयासभीरुभिस्त्याज्यत्वापातेन फलतोप्रामाण्यप्रसङ्गात्, इति पश्य ॥
५४ उपमानमपि यदि गृह्यमाणपदार्थगतसादृश्यविज्ञानात् स्मर्यमाणपदार्थगतसादृश्यविज्ञानम्, तदा स्मृतिः, तत्तद्वस्तुसंस्थानविशेषाद्यतिरिक्तस्य सादृश्यस्याभावात्, तस्य च पूर्वदृष्टत्वात्, स्मर्यमाणत्वाच्च ।
व्यवहारोप्यस्त्वपूर्वः तत्तद्व्यवहारवत् प्रतिसम्बन्धविशेषपरामर्शोपाधिकः ।
यद्वा यो यत्सदृशः, स तद्गतसादृश्यप्रतियोगी; यथा—मिथः स्वहस्तौ, इति व्याप्तिसिद्धौ गौरेतत्सदृशः, एतद्गतसादृश्यप्रतियोगित्वात्, इत्यनुमानात् स्मर्यमाणगतसादृश्यासिद्धिः; अन्यथा गृह्यमाणगतवैसादृश्यज्ञानात् स्मर्यमाणगतवैसादृश्यप्रतीतिरपि मानान्तरं स्यात् ।
सा चेत् अर्थापत्तिः, सादृश्यधीरपि तथा किं न स्यात् ? इति ।
अथवा युगपदेव तत्सदृशोयमिति प्रत्ययेनैवोभयवृत्तिसादृश्यस्फुरणान्न तद्धेतुकम्, अन्यथा पृथगनुभूतयोस्तदानीमप्रतीतसादृश्ययोः परस्ताद्युगपत् स्मर्यमाणयोर्युगपदेव प्रतीयमानसादृययोःको निर्वाहः ?, तत्रापि वा प्रमाणान्तरं कल्प्यते ? ।
यथा गौः तथा गवयः, गोवद् द्विशफो न भवत्यश्वः, दीर्घग्रीवः प्रलम्बोष्ठो विकटाकृतिः पशुः क्रमेलकः, इति तु साधर्म्यवैधर्म्यधर्म्यमात्रविषयम् ।
त्रिविधमप्यतिदेशवाक्यमागम एव ।
यत्तु– “श्रुतातिदेशवाक्यस्यगवयादावतिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम्, तच्च व्युत्पत्तिफलकम्” इति, तदप्यनुपपननम्, प्रागेव व्युत्पत्तिसिद्धेः ।
यत्तु— “सादृश्यस्य निमित्तत्त्वान्निमित्तस्याप्रतीतितः ।
समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा” ॥
इति, तत्र निमित्तस्याप्रतीतितः, इति त्वसिद्धम्, गवयत्वादेरेव जातिविशेषस्य गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्योपलक्षितः कश्चिद् व्यक्तिविशेषो गवय इति हि प्रतीतिः ।
पश्चात् प्रत्यक्षितगवयस्य तद्वैशद्यमात्रमेव; उक्तं च श्रीविष्णुचित्तेः— “गोसदृशो गवयः इति गोसादृश्यैकाधिकरणं सामान्यं वाच्यमिति व्युत्पन्नम्, प्रथमं वाक्यार्थतया प्रतीतेः ।
गोसादृश्योपलक्षितस्यानिर्णये पश्चादप्यनिर्णयः ।
अन्यथानिर्णये तथा पश्चादपि ।
ततो वाक्यश्रवणवेलायामेव निर्णितम्” इति ।
एवं चानभ्युपगमे कथमिन्र्दादिशब्दव्युत्पत्तिः ?; न ह्यत्र निमित्तभूतसंस्थानविशेषादिदृष्टिः ।
न च नित्यं तत्राव्युत्पत्तिः, तदर्थविशिष्टवाक्यार्थबोधापातात् ।
एवं नित्यातीन्द्रियविषयसंस्कारादिशब्दानामपि नित्यमव्युत्पत्तिरेव स्यात् ।
तत्र चेत् कथञ्चिन्निर्वाहः, तथात्रापि ।
तत् सिद्धं नोपमानमतिरिक्तम्, इति ।
अर्थापत्तिस्त्वनुमानमेव; तथाहि—अनुपपद्यमानदर्शनादुपपादककल्पनं नाम व्याप्याद्व्यापकज्ञानम्, अव्याप्यस्य तेन विनानुपपद्यमानत्वाभावात्, अव्यापकस्य च तदुपपादकत्वायोगात्, इति ।
प्रमाणद्वयविरोधे सति विषयव्यवस्थापनमर्थापत्तिः, इत्यपि न वाच्यम्, प्रमाणयोः सतोर्विरोधाभावात्, विरुद्धयोरपि प्रामाण्यायोगात् ।
ननु देवदत्तस्य जीवने कुतश्चित् प्रमाणात् प्रमिते, जीवता क्वचित् स्थातव्यम्, इत्यविशेषेण देशसामान्यसम्बन्धावगतौ गृहमप्यास्कन्दन्त्यां सत्यां प्रत्यक्षे च गृहे तदभावं प्रतिपादयति स्पष्टो विरोधः, अतस्तच्छान्यै बहिर्भावकल्पनमर्थापत्तिः, इति; मैवम्, क्वचिदिति विदितस्य जीवनस्य नियमाभावात्, बहिर्विद्यमानतासन्देहे निश्चयरूपेण गृहाभावप्रत्यक्षेण प्रतिस्पर्धितुमसामर्थ्यात् ।
न च विरुद्धविषययोर्वास्तवं कुत्रापि समबलत्वं समस्ति;उभयाप्रामाण्ये तु कथञ्चित् स्यात् ।
आभिमानिकबलसाम्येपि तथैव ।
यदा वैषम्यग्रहः, तदा तत एव बलाबलसिद्धौ किमर्थापत्त्या साध्यम् ? ।
अतः केवलनिरवकाशविरोधिविशेषसन्निधौ सति सावकाशं सामान्यं सङ्कोचयितव्यमिति व्यवस्था स्यात् ।
सापि च तथैव व्याप्तेः, इत्यनुमानफलमेव; अन्यथा विरोधिविषयत्याग इवाविरोधिविशेषपर्यवसानादावपि मानान्तरकॢप्तिः किं न स्यात् ? ।
एवमनभ्युपगमे च धूमानुमानादावप्यर्थापत्तित्वप्रसङ्गः ।
अग्निं विनानुपपद्यमानत्वस्वय लिङ्गप्रत्यक्षरूपप्रमाणद्वयविरोधस्य च वक्तुं शक्यत्वात् ।
धूमो हि कारणभूतं वह्निमाक्षिपति, प्रतिक्षिपति तु प्रत्यक्षम्, इति विरोधे पर्वतार्वाग्भागे वह्निरिति व्यवस्थाकल्पनस्यार्थापत्तित्वं स्यात् ।
व्याप्तिनिरूपणमन्तरेण गमकता गमकस्यैव धर्मान्तरयोगितया गम्यते इत्यादिभेदास्त्वाशामात्रकल्पिताः, इति ।
उक्तं च श्रीविष्णुत्तित्तैः— “अर्थापत्तिरनुमानम्” इत्यादि ।
केचित्तु केवलव्यतिरेकिणि अर्थापत्तिसञ्ज्ञां निवेशयन्ति ।
तस्य प्रागेव निरासान्न प्रमाणवर्गानुप्रवेशः ।
अनुप्रवेशेपि वा न पृथक्त्वम् ॥
५५ यत्तु आगमप्रामाण्ये “अनुभवश्चेन्द्रियलिङ्गशब्दसदृशान्यथानुपपद्यमानार्थपूर्वकः” इत्यादिषु उपमानार्थापत्तिपरिग्रहः प्रतिभाति, तदपि पूर्वपक्षप्रदेशगतत्वान्न सिद्धान्तत्वाय कल्पते ।
अभावस्त्वस्मन्मते भावान्तरात्मा ।
स चाक्षादिभिर्यथासम्भवं सिध्यति ।
अभावात्मना तु ग्रहणेपि प्रतियोगिस्मरणादिसहकारिसहितानि तान्येव प्रमाणनीति न तदतिरिक्तकल्पनावकाशः ।
अत एव हि प्रागर्तजाभावादिविज्ञानमपि निर्व्यूढम्; दृष्ट एव हि देशकालादिसंसर्गादिविशेषः पश्चात् प्रतियोगिस्मरणादिमतः पुरुषस्य तदभावात्मना धियमधिरोहति, स्मर्तव्यस्य स्मरणाभावाद्वा; तत्र तदभावानुमानम् ।
एवमतिरिक्ताभावपक्षेपि निर्मूला प्रमाणान्तरकॢप्तिः; सघटं भूतलमितिवत् अघटं भूतलमित्यपि ह्यपरोक्षा प्रतीतिः; न चाधिकरणग्रहणोपक्षीणमिन्द्रियम्, गुणादिष्वपि प्रसङ्गात्; अतिरेकवदनतिरेकेप्यज्ञातकरणत्वादीन्यनुमानानि च सुलभानीति ।
सम्भवोप्यनुमानमेव, सहस्रे शतं सम्भवति इत्यादेः पूर्वानुभूसहस्रगतव्याप्तिबोधनत्वात्, सम्भवति क्षत्रिये शैर्यमित्यादेः सन्देहात्मकत्वेनाप्रमाणत्वात् ।
अविरोधनिश्चयरूपत्वेपि तदविरोधनिश्चायकप्रमाणान्तरे विश्रमः ।
ऐतिह्यं तु प्रमाणमूलं चेदागमः; तदाभासमूलं चेत् तदाभासः ।
एवं चेष्टालिप्यक्षरादिकमप्यभिप्रायवर्णविशेषाद्यविनाभूतमनुमानमेव ।
चेष्टायां वरदनारायणभट्टारकैरेवमुक्तम्— “शब्दस्य व्यवहारस्यानुकारश्चेष्टयापि हि ।
क्रियते शाब्दविज्ञानयोगिनां स्वार्थबोधिका ॥
अनादिव्यवहारेषु चेष्टा विज्ञातशक्तिकाः ।
बोधिकाः स्युर्यथाध्यक्षमिति चेद् भवतो मतम् ॥
चेष्टा गिरो वा स्वीकार्याः परप्रत्यायनाय हि ।
अनादयो गिरामेवानादिता ज्यायसी तदा ॥
चेष्टा सामयिकी शाब्दव्यवहारानुसारिणी ।
अस्यैवं बोधिकेत्येवं भरताद्यागमे स्थिता ॥
दृश्यतेनादिराम्नायोस्मर्यमाणप्रणेतृकः ।
" इत्यादि ।
तत्त्वरत्नाकरे त्वेवमुक्तम्— “व्युत्पन्नबोध्यबोधकनियमं चेत् चेष्टितं शाब्दम् ।
अनियतमपि सहदृष्ट्या स्मारकमिति न पृथगेष्टव्यम् इति ।
लिप्यक्षरेषु तु अयं गकारः अयं घकारः इति वर्णात्मना ज्ञानमप्रमाणमेव ।
एतेन चिह्नेनेदमक्षरं जानीहीत्यभिप्रायेणलिप्यक्षरसम्बन्धग्राहकाणां प्रवृत्तिः ।
ततश्च व्याप्तिसिद्धिः ।
एषा लिपिरेतद्वर्णविशेषाभिप्रायपूर्विका, भ्रमादिरहितवर्णाभिप्रायवत्पुरुषलिखितैतल्लिपित्वात्, सम्प्रतिपन्नव्युत्पत्तिकाललिपिवत्, इत्यादिरूपः प्रयोगो द्रष्टव्यः ।
यत्तु प्रतिभायामुक्तं तत्त्वरत्नाकरे— “ननु च प्रतिभा काचिद् यथार्था मानमिष्यताम् ।
बाह्यार्थनैरपेक्ष्येण बाह्यज्ञानक्षमास्तु सा ॥
विशिष्टकालपुरुषाद्यपेक्षोत्कर्षसम्भवा ।
सत्यम्, कालादिभेदस्तु दुर्विवेचोस्मदादिभिः ॥
सन्नप्यसौ व्यवहृतौ नोपयोगीत्युपेक्ष्यते ।
प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः ॥
तदन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः ।
पुण्येषु पुरुषेष्वेषा भूयिष्ठं सत्यदर्शिनी ॥
तस्मात् पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम्” ॥
इति, तदपि प्रागुक्तयोगिप्रत्यक्षविशेषविषयमेव ।
नन्वेवम्, तदपि प्रमाणत्रित्वं चतुष्ट्वं वानुपपन्नम्, प्रत्यक्षपरोक्षरूपेण द्वित्वस्यैव युक्तत्वात्, इति चेन्न, अतिप्रसङ्गात् ।
तथाहि— बहुष्वेकैकमुद्धृत्य तदन्येष्वैकराश्यतः ।
द्वैधकॢप्तौ घदादावप्येवमेव प्रसज्यते ॥
अनुमाननुमानत्वशब्दाशब्दविभागतः ।
प्रमाणद्वित्वमेवं ते वद किं वान रोचते ॥
प्रत्यक्षस्य तदन्याभ्यां वैजात्यग्रहणाद्यदि ।
तयोरपि स्वेतराभ्यां वैजात्यं स्फुटमेव नः ॥
अतोक्षलिङ्गशब्दाख्यासाधारणनिदानतः ।
उपलक्ष्यं प्रमात्रित्वं चतुष्ट्वं वापि संस्मृतेः ॥
स्पष्टमस्पष्टमिति च जैना यद् द्वैधमूचिरे ।
तत्प्रत्यक्षपरोक्षत्वविभागान्न विशिष्यते ॥
अतो न तावति द्वैधे साधिते विवदामहे ।
परोक्षस्यैकमानत्वं दुर्वचं भेदसाधनात् ॥
नन्वध्यक्षेपि भेदोस्ति बाह्यान्तरविभागतः ।
दिव्यादिव्यतया चक्षुःश्रोत्रादिभिदयापि च ॥
तद्वत् परोक्षस्यैकस्य प्रमाणस्य विभागतः ।
अनुमानागमभिदा कथं नाभ्युपगम्यते ॥
दत्तोत्तरमिदं किञ्चिद् दृष्टमेतच्छ्रुतं त्विदम् ।
एतत्त्वनुमितं चेति लोकोक्तिरिह साक्षिणी ॥
यतः कुतश्चिद् वैधर्म्यं साधर्म्यमपि केनचित् ।
सर्वत्र सुलभं काममिहापि परिगृह्यते ॥
अतः स्मृत्यनुभूत्याख्याविभागादपि नोचितम् ।
प्रमाणद्वित्वमित्येवं प्रागुक्तैव सुपद्धतिः ॥
त्रिविधोनुभवश्चैव तन्मूला च तथा स्मृतिः ।
इति षोढा विभागे तु न विमन्यामहे वयम् ॥
अनुभूतिविभागेन तन्मूलायाः स्मृतेरपि ।
विभागस्य गतार्थत्वादैकराश्यमुदाहृतम् ॥
अतो हि तस्यास्तन्मूलेष्वन्तर्भावविवक्षया ।
प्रमाणवर्गं त्रित्वेन प्राञ्चः केचिद्विविञ्चते ॥
एवमन्यदपि चिन्त्यम्, इति ॥
ननु अनेनन किं प्रमाणचिन्ताक्लेशेन ? अविमृश्यापि प्रमाणवर्गमुपलम्भान्वयव्यतिरेकादिवशात् पश्वादीनामिव मनुष्यादीनामपि लौकिकेष्वर्थेषु प्रवृत्तिनिवृत्तितत्प्रयोजनादिकं निरुपद्रवं सिध्यति ।
अलौकिकेष्वपि तत्तद्विधायकैस्तदनुग्राहकैश्च कल्पसूत्रादिभिश्चरितार्थधियां किमनेन पिष्टपेषणादिकल्पेन वृथा विमर्शेनेति चेत्, मैवम्; अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् ।
अविपर्याससिद्ध्यै च विशोध्या मानयद्धतिः ॥
प्रतिसन्धाय च फनलं प्रारम्भाह्निकदर्शितम् ।
साध्यप्रमेयसंशुद्ध्यै साङ्गे माने परिश्रमः ॥
प्रत्यक्षितसमस्तार्थैर्योगीन्द्रैनरपि लङ्घ्यते ।
प्रमाणप्लवमालम्ब्य तत्त्वविप्लवसागरः ॥
तस्मादुक्तरीत्या शुद्धिः कर्तव्येति ।
शुद्धान्यायनिषेविता श्रुतिशिरःशुद्धान्तसिद्धान्तिनी भद्राणां प्रतिपादनाय भजतु प्रत्यक्षतामक्षताम् ।
पत्यौ नित्यरसे समं करुणया पातिव्रतीं बिभ्रती सर्वग्रन्थिविमोचनी भगवती सा मे समीची कृतिः ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ स्मृत्यध्याये ॥
द्वितीयमाह्निकम् ॥
समाप्तश्च चतुर्थोध्यायः ॥