॥ स्मृत्यध्यायः ॥
॥ प्रथममाह्निकम् ॥
४९ अथ स्मृतिर्निरूप्यते— संस्कारमात्रजं ज्ञानं स्मृतिः, इति तल्लक्षणम् ।
ननु स्मृतिर्न प्रमाणम्, अविद्यमानविषयत्वात्, अननुभूतित्वात्, भ्रमसम्भवोच्चेति चेन्न, स्मृतिमात्राप्रामाण्यस्य प्रथमाह्निक्रे प्रतिक्षिप्तत्वात्, अवाधितबाह्यार्थदर्शनात्, अतीतानागतविषयानुमानादिबाधप्रसङ्गात्, सर्वलोकविरोधात्, अननुभूते अर्थान्तरेपि स्मृतिप्रसङ्गात्, स्मृतेरपि स्वप्रकाशत्वेपि वेद्याकारे संस्कारादिसापेक्षत्वात् ।
न च पूर्वानुभवपुरस्कारेणैव ग्रहणादप्रामाण्यमिति चेन्न, स्मृतिप्रमोषे तदभावात्, प्रमाणतया सम्मतायां प्रत्यभिज्ञायां भावाच्च ।
परतन्त्रत्वादप्रमाण्यमिति चेन्न, स्वहेतुपारतन्त्र्यमात्रस्य सार्वत्रिकत्वात्, अनुभवमूलत्वस्य प्रमाणमूलत्वस्य च सविकल्पकादिभिरनैकान्तिकत्वात्, संस्कारमात्रजन्यत्वस्यासाधारणत्वात्, स्वविषयप्रकाशव्यवहारयोस्तु स्मृतेरपि स्वतन्त्रत्वात् ।
इच्छादिवद्विषयनियमेपि पारतन्त्र्यमस्तीति चेन्न, तद्वदेवाज्ञानत्वप्रसङ्गात्; ज्ञानमेव हि स्वतो विषयप्रवणमिच्छसि; अत एव हि नित्ययोरपि रिश्वरचिकीर्षाप्रयत्नयोर्विषय नियमाय ज्ञानापेक्षां ब्रूषे ।
इच्छादीनामपि स्वतो विषयप्रावण्यं ज्ञानत्वं चास्माभिः स्वीकृतम् ।
ननु संस्कारवदिति चेन्न, तस्यापि स्वहेतुसमानविषयज्ञानोत्पादनशक्तस्वभावत्वात् ।
अतो हेतुनियतविषयत्वमेव फलितम् ।
तच्च अनुभवेपि समम् ।
तथा च समानविषयानुभवजन्यत्वतदभावाभ्यां स्मृत्यनुभवयोः पारतन्त्र्यस्वातन्त्र्यव्यवहारो मन्दानाम् ।
स्वप्रामाण्यनिर्णयादावपि नानुभवापेक्षत्वनिर्बन्धः, स्वविषयप्रकाशनबाधविरहादिभिसतत्सिद्धेः, गृहीतमात्रग्राहित्वस्यासाधारणत्वात् ।
प्राभाकराणामनुमानादौ नैयायिकादीनां धारावाहिकादौ योगसिद्धसर्वज्ञवादिनां द्वितीययोगप्रत्यक्षादौ केषाञ्चिदीश्वरवादिनामनित्येश्वरज्ञाने च व्यभिचाराच्च ।
निष्प्रयोजनत्वादप्रामाण्यमिति चेन्न, तृणादिविषयप्रत्नयक्षादिनानैकान्त्यात्, असिद्धेश्च;स्मृत्यैव हि जगतां कृताकृतप्रत्यवेक्षणादिसिद्धिः; स्मृत्यैव हि शब्दानुमानयोः प्रवृतिः; परभक्त्यादिनिष्पत्तिश्च ।
पूर्वानुभुवस्यैव तानिप्रयोजनानीतिचेत्, सर्वजगदादिकारणस्य ब्रह्मसङ्कल्पस्यैव किं न स्युः ? ।
एवं चानुभवस्यापि न तत्सिद्धिः, तत्कारणस्येति वक्तुं शक्यत्वात् ।
यदुक्तं प्रज्ञापरित्राणे— “ज्ञातात्मज्ञानरूपत्वात् स्वप्रमेयप्रहाणतः ।
विषयाव्यभिचारित्वेप्यप्रामाण्यं स्मृतेर्मतम्” ॥
इत्यादि, तदप्यनेन परिहृतम् ।
प्रमाणव्यवहाराभावादप्रामाण्यमिति चेन्न, पामरव्यवद्वाराभावस्यानैकान्तिकत्वात्, एवं परीक्षकव्यवहार भावस्यापि; विगीतत्वाच्च; सर्वपरीक्षकव्यवहाराभावस्य चासिद्धेः; मानमनोहरादौ वागीश्वरादिभिस्तप्रामाण्यस्योक्तत्वात्, कतिपयपरीक्षकव्यहाराभावस्य चातिप्रसञ्जकत्वात्, अक्षपादादिव्यहाराव्यवहारयोर्बृहस्पत्यादिव्यवहारवदस्माभिर्नातीवादरणात्, इन्द्रपाणिन्यादीनां तु सर्वसम्प्रतिपत्तेरबाधाच्चादरात्, पाराशर्यादीनां प्रमाणपरिगणनानधिकृतत्वेन तदनुक्तेरप्रयोजकत्वात्, आगमः प्रमाणमित्यपि व्यवहाराभावात् ।
“प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
इत्यादिषु च प्रत्यक्षादिमूलस्मृतेः प्रत्यक्षादिसमानचर्चत्वेन पृथग्व्यवहाराभावोपपत्तेः ।
प्रमाणहेतुका स्मृतिः प्रमाणमेव, अविसंवादात्, इति ।
उक्तं च न्यायतत्त्वे स्मृत्युदासीनभेदके चतुर्थेधिकरणे— “अप्रमाणमूलत्वं तु उभयोरपि नास्ति, व्यभिचाराभावेनानधिगतार्थं प्रमाणमिति विशेषणस्यायुक्तत्वात् ।
प्रमिते प्रमित्यनुपपत्तिः क्व दृष्टा ? ।
स्मृतौ चेत्, प्रतिज्ञैव दृष्टान्तः स्यात्; ज्ञानान्तरे चेन्न नुजानामि” इत्यादि ।
तत्त्वरत्नाकरे च— “यथार्थनिश्चयो मानं तद्धेतुश्चेति सूरयः ।
नातिव्याप्तिः स्मृतौ व्याप्तिर्यथार्थेन हि सा प्रमा” ॥
इत्युक्त्वा अस्योत्तरार्धविवरणेप्युक्तम्— “अनुभूतविषयासम्प्रमोषः स्मृतिः; यथा—स घट अति ।
ननु तामपि व्याप्नोति लक्षणम्य ; सत्यम्; तद्व्याप्तौ नातिव्याप्तिः, तस्यापि लक्ष्यपक्षे निक्षेपात् ।
“लक्ष्यालक्ष्ये अनालक्ष्य क्षिप्यते लक्षणं कथम् ।
लोकधीव्यवहारं हि लक्ष्यालक्ष्यावधि विदुः” ॥
इत्यादि ।
यत्तु— “अनुभवः प्रमाणम् ।
स्मृतिव्यतिरिक्तं ज्ञानमनुभवः” इत्यादिना स्मृतेरप्रामाण्यमुक्तमिव श्रीविष्णुचित्तैः, तन्नूनं परमतान्वारोहेण ।
अत एव हि तैः स्वतः प्रामाण्यनिर्णयदशायामन्यथा व्यवहृतम् ।
तथाहि— “तस्मात् सिद्धमेतत् प्रमाणानां यथार्थत्वलक्षणं प्रामाण्यं गुणज्ञानानपेक्षात् स्वप्रमाणादेवावसीयते, स्वकीयात् कारणादेव ज्ञायत इति च” इति ।
तथा “अर्थतथात्वं गुणसंवादज्ञानानपेक्षज्ञप्ति, तदभावेपि ज्ञायमानत्वात्” इत्यादौ ।
“न च हेतोरसिद्धत्वम्; तथाहि— रजतज्ञानस्यार्थतथात्वं नाम रजतविषयत्वम्; तच्चासति बाधके रजतग्राहिणैव ज्ञानेनावगम्यते” इत्यादि ।
अतो यथावस्थितवस्तुनिश्चयात्मकत्वमेव प्रामाण्यं प्रमाणज्ञानानामात्मीयात् कारणाज्ज्ञायते, न गुणसंवादज्ञानमपेक्षते, इति ।
तथा प्रमाणानां यथावस्थितवस्तुनिश्चयात्मकत्वमेव प्रामाण्यम् ।
तदाभासयुक्तयः पूर्वपक्षिणोच्यन्ते ।
सिद्धान्तेपि विवेकप्रदर्शनमेवेति ।
यदि चानुभव एव प्रमाणम्, तन्न युक्तमुपयुक्तं वा ।
न च सर्वमनुभवं प्रमाणतया व्यवहरन्ति, पीतशङ्खभ्रमादिष्वदर्शनात्; नापि सर्वां स्मृतिमप्रमाणतया, प्रमाणमूलस्मृतिषु तदभावात् ।
“अगृहीतग्रहणशक्तं प्रमाणम्” इति वरदविष्णुमिश्रोक्तिरपि परमतान्वारोहेण नेतव्या ।
यत्तु आगमप्रामाण्ये प्रोक्तम्— “प्रमाणान्तरदृष्टार्थविषयव्यापिशेमुषी ।
प्रमाणमेव तत्पूर्वं न चेत् स्वार्थं विगाहते” ॥
इति, इदमप्यनुवादवाक्यस्यान्यपरतया स्वार्थप्रामाण्यव्यवच्छेदार्थम्; अन्यथा स्मृतिप्रमोषे प्रमुषिततदंशे पूर्वानुभवपुरस्कारेण स्वार्थावगाहनासिद्धेः कथं तत्र स्मृतित्वनिबन्धनमप्रामाण्यं भविष्यति ? ॥
५० यत्तु भाष्ये सन्मात्रग्राहिप्रत्यक्षनिराकरणदशायामुक्तम्– “अश्वे हस्तिनि च संवेदनयोरेकविषयत्वेनोपरितनस्य गृहीतग्राहित्वाद् विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात्” इति, न तत्र स्मृतेरप्रामाण्यं सूचितम्, प्रकारान्तरेणापि वैलक्षण्यसिद्धेः, तदपेक्षया च प्रसङ्गोपपत्तेः ।
यच्चापरं भाष्यम्— “इन्द्रियजन्मनः प्रत्यक्षस्य ह्येष स्वभावनियमः, यत् स्वसमकालवर्तिनः पदार्थस्य ग्राहकत्वम्, न तु सर्वेषां ज्ञानानां प्रमाणानां च, स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्तरवर्तिनोपि ग्रहणदर्शनात्” इत्यादि, तत्रापि परस्यानिष्टप्रसङ्गाय तदभिप्रायानुधावनेन विभज्योदाहरणं युक्तम् ।
यच्च शास्त्रयोन्यधिकरणे भाषितम्— “भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्यक्षता ?” इति, इदमपि न साक्षात् सिद्धान्तस्थम्; न च याथार्थ्यं तत्र प्रतिक्षिप्तम् ।
एवमन्यदपि भाव्यम् ।
स्मृत्यप्रामाण्यवादिनोपि वैशेषिकास्तां यथार्थ्याद्विद्याकोटौ पठन्ति ।
तत एव च तदेकदेशिभिरपि तत्प्रामाण्यं स्वीकृतम्, इति ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ स्मृत्यध्याये प्रथममाह्निकम् ॥