॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥

द्वितीयमाह्निककम् ।

२० अथ पौरुषेयापौरुषेयविभाग एवानुपपन्नः, सर्वस्यापि वाक्यस्य पौरुषेयत्वे वाक्यत्वादिलिङ्गसद्भावात्—सर्वज्ञप्रणीता वेदाः, वेदत्वात्, इति व्यतिरेकिसम्भवात्; “मन्त्रकृद्भ्यः” “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः” “ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् ।
यजुस्तस्मादजायत” इत्यादिश्रवणात्, “प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते” इत्यादिस्मृतेश्च;“अधिकृत्य कृते ग्रन्थे” इति पाणिनिस्मृतिसिद्धार्थकाठककालापकादिसमाख्याविशेषयोगात्; कादाचित्ककथाविशेषसन्दृष्टेः, अनित्ययोगात्, तत्पूर्वोत्तरकालयोस्तदनन्वयापत्तेः, शब्दस्य भूतगुणस्य नश्वरत्वात्, इति चेत्, तन्न, वाक्यत्वानुमानस्य विपक्षे बाधकाभावात् ।
अकारणकार्योत्पत्तिप्रसङ्गः, इति चेन्न, कार्यत्वस्यैव साध्यमानत्वात्, अकारणत्वमात्रस्यापाद्यमान स्येष्टत्वात् ।
क्रमविशेषेणानुच्चार्यमाणानां वर्णानां कथं पदत्वं वाक्यत्वं वेति चेन्न, परकृतप्रबन्धपाठवदकर्तृभिरुच्चारणेपि तत्सिद्धेः ।
आदिममुच्चारणं कर्त्रभावे कथं स्यादिति चेन्न, आदिमत्त्वस्यैवासिद्धेः, दर्शनानुगुण्येन अद्यत्ववदेव सर्वदा परतन्त्रोच्चारणस्यैवाभ्युपगन्तुमुचितत्वात्, ततश्च सर्वदोच्चारयितृपुरुषापेक्षत्वेपि पूर्वपूर्वाधीतप्रकारस्यानुसरणादनादित्वसिद्धेः ।
अपौरुषेयत्वे घुणक्षताक्षरवदूबोधकत्वेप्यभिप्रायविरहादर्थपरत्वं न स्यादिति चेन्न, प्रतिपन्ने निर्बाधे चार्थे प्रधाने बोधकत्वस्यैव तात्पर्यरूपत्वात्, प्राधान्यादेर्लौकिकवाक्यवदाख्यातादिस्वभावादेव सिद्धेः, अस्मदिष्टे च सेश्वरमीमांसापक्षे नित्येश्वराभिप्रायसम्भवात् ।
स्वयमेव ह्याह— “श्रुतिः स्मृतिर्ममैवाज्ञा” इति ।
तथा भाष्यम्— “स्वशासनावबोधि शास्त्रमिति नित्यं श्रुत्यैव नियुङ्क्ते परः” इति ।
नित्यापि सा तदाज्ञा ।
गीतादिरपि श्रुत्यर्थोपदेशरूपतया प्रवर्तते ।
साक्षात्तु श्रुतिस्तदादोशः ।
तदनुविधानाच्च स्मृतिरपि ।
अज्ञातकर्तृकत्वे गन्धर्वभाषितादिवदाप्तकर्तृकत्वनिश्चयाभावादप्रामाण्यशङ्का स्यादिति चेन्न, दोषाभावनिश्चयादेव तन्निवृत्तेः ।
अनाप्तकर्तृकत्वशङ्कायां कथं दोषाभावनिश्चयः ? इति चेन्न, महाजनपरिग्रहादेवानाप्तकर्तृकशङ्कोन्मूलनात् ।
बाह्यागमपरिग्रहवत् किं नस्यात् ? इति चेन्न, बहुजनपरिग्रहादिमात्रस्य महाजनपरिग्रहत्वेनाविवक्षितत्वात्, तत्परिप्रहविशेषस्यैव विवक्षितत्वाच्च ।
तयोः को वा विशेषः ? इति चेन्न, हेतुदर्शनादर्शनाभ्यां विशेषात् ।
अनन्यगतिकैः स्वैररसिकैः सुखजीविकार्थिभिः कुहकवञ्चितैर्वा तत्परिग्रहः, इह तु न तथा, तद्वैपरीत्यस्य सुप्रसिद्धत्वात्, इति ॥
२१ अपि च बाह्यागमप्रतिबन्दिः किं वदेप्रामाण्यमाप्तप्रामाण्यनिबन्धनमितीच्छद्भिर्वैशेषिकादिभिरुच्यते ? उत सौगताद्यागमप्रामाण्यमिच्छद्भिः ? अथ वा परित्यक्ताशेषपारलौकिकागमैर्लोकायतिकैः ? इति ।
नाद्यः, रिश्वरकृतत्वेपि वेदस्यैवंविधपरिग्रहविशेषमन्तरेणाद्यतनरेबाह्यागमेभ्यो (?) विवेकस्याशक्यत्वात्, सर्वज्ञप्रणीतत्वाद्यभिमानस्य तदनुमानप्रक्रियायाश्च सर्वत्र दुर्वारत्वात् ।
न द्वितीयः, अभ्युपगतप्रामाण्ये स्वागमेपि प्रसङ्गात् ।
दृष्टफलसंवादस्य विसंवादान्यथासिद्धेश्च सर्वत्र समचर्चत्वात्, अस्मदुक्तस्य निरुपाधिकपरिग्रहस्य स्वमते दुर्वचत्वात् ।
अत एव न तृतीयः, प्रामाण्यस्य परोक्षप्रामाण्यस्य वाक्यप्रामाण्यस्य च स्थापितत्वेन वैदिकवाक्ये ह्यौत्सर्गिके प्रामाण्ये प्राप्ते निरुपाधिकप्रेक्षावदनन्तपुरुषपरिग्रहादेवानाप्तकर्तृकत्वशङ्कोन्मूलने च वक्तृदोषशङ्कानुत्थानात्, वचसि चस्वतः काचादिवद्दोषादर्शनात् ।
आप्तकर्तृकत्वाभावेप्यौत्सर्गिकं प्रामाण्यमनपोदितम्, इति ॥
२२ अत एव हि प्रेक्षावन्तरश्चोदितेषु बहुवित्तव्ययायाससाध्येषु निशङ्कं प्रवर्तन्ते, प्रतिषिद्धेषु च सुखतरेष्वपि विषसंसृष्टान्नभोजनादिवन्निवर्तन्ते ।
प्रयोगश्च—पारलौकिकी महाजनप्रवृत्तिः सफला, प्रेक्षावत्प्रवृत्तित्वात्, कृष्यादिप्रवृत्तिवत्; न ह्यनन्तैःप्रेक्षावद्भिरविसंवादेनाफलमनुष्ठीयते इति शङ्कितुं शक्यम् ।
दुःखरूफलदर्शनेन सिद्धसाधनतेति चेन्न, अनभिप्रेतोपालम्भात्, प्रवृत्तिदुःखादधिकपुरुषार्थपर्यवसानस्य सिषाधयिषितत्वात् ।
तथापि लाभपूजाख्यातिरूपदृष्टप्रयोजनेनैव सार्थतेति चेत्, तदप्यसत्, अतदुद्देशेन तेषां प्रवृत्तिदर्शनात्, तदुद्देशेन प्रवृत्तेश्च डाम्भिकत्वेन शास्त्रैस्तन्निष्ठैश्च विगर्हणात् ।
ये च तदुद्देशेन प्रवर्तन्ते, तेप्यतदुद्देशेन प्रवृत्तानामनुकुर्वाणा एव ख्यात्यादि प्राप्नुवन्ति, अन्यथा ख्यातिलाभपूजादेर्निर्निमित्तत्वप्रसङ्गात् ।
न हि यत्किञ्चिदनेन कृतमिति मत्वा कश्चित् कृच्छ्रसम्पादितान् धनादीन् ददाति, पूजयति, गुणान्वा आरोप्य स्तौति; अपि तु कुतश्चित् प्रमाणात् सिद्धं प्रशस्ताचरणमभिमत्यैव ।
समरसामर्थ्यादिमूललाभ जादिकमप्यन्ततोर्थशास्त्रादिमूलप्रशस्तप्रवृत्तिप्रसूतम् ।
अतः सन्मर्यादाप्रवृत्तान् दानमानादिभिरभ्यर्चयन्तोष्पदृष्टबुद्ध्यैव प्रवर्तन्ते ।
जनरञ्जनार्थमेव दानादि, जनो दातरि मानयितरि च रज्यते, “जनानुरागप्रभवाश्च सम्पदः” इति प्रसिद्धेः, इति चेन्न, प्रत्युपकाराद्यनर्हप्रव्रजिततपस्विजडान्धबधिरदीनानाथादिषु दानमानादिभिरनुरञ्जितेष्वपि तन्मूलदृष्टसम्पत्प्रसङ्गाभावात्; अत एव हि नीतिनर्मसचिवेष्वेव तदर्थदानादिव्यवस्थापनम् ।
प्रतारणपटुभिर्वैन्दिकैः प्रतारितास्तान् पूजयन्तीति चेन्न ।
किं ते स्वात्मानमपि प्रतारयन्ति? ये नाम समस्तभोगाविमुखा यावज्जीवमात्मानं परिक्लेशयन्ति; यैश्च पटुप्रज्ञाः सर्वे लोकाः प्रतारिताः, ते कथं लोकोत्तरप्रज्ञेन त्वया प्रतारका इत्युन्नीताः ।
अन्धपरम्पराकल्पस्तर्ह्ययमनुष्ठानप्रवाहः इति चेन्न, प्रमाणस्वरूपफलयोरबाधस्य च प्रत्यक्षत्वात् धर्मबुद्ध्यैव च निरुपाधिकपरिग्रहस्य त्वदुक्त्यैव सिद्धः ।
अनादिनिधनेस्मिन्नाम्नायमूले अनुष्ठाने प्रवहति प्रक्रियान्तरमाश्रित्य प्रतारकैरीश्वरैरर्वाचीनैश्च प्रतिच्छन्दप्रवर्तना श्रुतिस्मृतिसिद्धा युक्तिमती चेत्येषा दिक् ॥
२३ वेदानित्यत्वानुमानानां प्रतिप्रयोगाश्च—पर्वापरकल्पाः एतद्वेदसन्दर्भपाठवन्तः, कल्पत्वात्, अद्यतनकल्पवत् ।
ऐश्वरं वेदप्रवर्तनमप्रच्युतप्राचीनसन्दर्भम्, आप्तकर्तृकवेदप्रवर्तनरूपत्वात्, अद्यतननिपुणोपाध्यायवेदप्रवर्तनवत्; न चाश्रयाद्यसिद्धिः, पौरुषेयत्वेपि प्रामाण्यमिच्छतस्तत एव तत्सिद्धेः ।
अप्रामाण्यमिच्छतोपि महाजनपरिग्रहान्यथानुपपत्त्यैव प्रामाण्यं प्रसाध्य तत एव तत्साधनात् ।
न चास्ति वेदप्रवर्तनस्य सारस्वतपाठेनानैकान्त्यम्, तथैव तत्प्रवाहस्य तत्तच्छाखाप्रणयनवदनादित्वात्, मन्त्रब्राह्मणादिवाक्यस्वरूपवैयाकुलीविरहाच्चेति ।
एवंविपक्षे बाधकाभावादेव केवलव्यतिरेक्यपि निरस्तः, अनुमानाध्याये तस्य सामान्यतो दूषितत्वाच्च ।
त्वन्मतेप्यायुर्वेदादिसपक्षसद्भावेन तस्यासाधारण्यम्; नहि तेभ्यो व्यावृत्तमपौरुषेयत्वादिलक्षणं वेदत्वं त्वयाभ्युपगम्यते ।
वेदशब्दप्रयोगविषयतामात्रेण तेषामपि पक्षीकारे स्वेच्छागृहीतरूपस्येश्वरस्य तत्तदवतारसंव्यवहारा वेदव्यतिरिक्ताः सन्ति सपक्षाः ।
न च ते त्वयापि नेष्यन्ते, वेदतया वा स्वीक्रियन्ते, गीतादिषु भगवदुक्त्यंशानां श्रीविष्णुस्मृतिप्रभृतीनां च वेदत्वानभ्युपगमात् ।
धर्मशास्त्रतयैव हि वैष्णवस्मृत्यादिप्रसिद्धिः ।
अवक्तृकसन्दर्भा वेदाः, वेदत्वात्, यः सकर्तृकसन्दर्भः, नासौ वेदः, इति प्रतिहेतुश्च सिद्धः ।
अप्रसिद्धविशेषणत्वादिचोद्यं त्विह न त्वया स्मर्तव्यम् ।
सन्दर्भः कथमववतृकः स्यादिति चेन्न, वर्णक्रमनियममात्रविशेषस्य सन्दर्भशब्देन ग्रहणात्,तस्य च प्रागुक्तनयेन यथापूर्वप्रवर्तनमात्रेणापि व्यवस्थानात् ।
माभूदवीतहेतुः ।
वीतस्तु स्यात् विगीतं वाक्यं सर्वज्ञप्रणीतम्, प्रमाणत्वे सत्यलौकिकार्थविषयवाक्यत्वात्, “न त्वेवाहं जातु नासम्” इत्यादिवाक्यवत्, इति चेन्न, वेदार्थविषयैः कल्पसूत्रकारादिवाक्यैरस्मदादिवाक्यैरेव वानैकान्त्यात् ।
अतीवकर्तृकत्वे सतीति विशेषयिष्यामः इति चेन्न, तथापि यथापूर्वप्रणयनमात्रेणापि तत्प्रणीतत्वसिद्धौ सिद्धसाधनात् ।
यथापूर्वमेव हि विश्वमीश्वरः सृजति; यथा अधीमहे— “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इति ।
एवं तर्हितुल्ययोगक्षेमतया वेदवज्जगतोप्यकर्तृकत्वं प्रसक्तमिति चेन्न, यथापूर्वं घटादिनिर्माणे कुलालकुविन्दादेः कर्तृत्वसिद्धेः; हन्त ! वेदस्य एवं स्यादिति चेत्, हन्त ! स्यादेव ।
न हि कल्पान्तरवर्णव्यक्तिसमुदायमेवेदानीन्तनवेदराशिं ब्रूमः, अपि तु तादृक्क्रमयोगितामात्रम् ।
सर्वत्र वाक्येषु यथेष्टक्रमकल्पने पुरुषस्य स्वातन्त्र्योक्तिः, न पुनर्यथापुरोच्चारणे, इति काव्यादिष्वपि प्रसिद्धम् ।
यदि त्वया अयथापुरप्रणीतत्वं साध्येत, तत्र यथापुरप्रणयने कमिव दोषामालक्ष्यैवं विशेषयसि ? मन्त्रादिषु क्रमभङ्गानुपपत्तिश्च कल्पान्तरेपि तच्छक्त्यनपायादेव, तथात्वेपि वा यथापूर्वोच्चारणेपि तदनपायात्, अन्यथा कल्पनागौरवात्, इति ॥
२४ तथापि सर्गप्रलयसम्भवात् सम्प्रदायविच्छेदे सर्ववेदोच्छेदात् पश्चादीश्वरस्तत्स्रष्टा स्यात् ।
न स्यात्, तथापि प्राचीनवेदसाक्षात्कारिणस्तस्य तत्प्रवर्तनमात्रौचित्यात्, शक्तस्यापि तज्जातीयवेदान्तरकल्पने गौरवात्, शक्तावपि सिद्धोपजीवनस्यास्मदादिषु दृष्टेः, एषामेव च मन्त्राणां कल्पान्तरेपि मन्त्रत्वाविरोधात् ।
एवं मन्त्रनित्यत्वे च तुल्यन्यायतया ब्राह्मणनित्यत्वस्यापि दुस्त्यजत्वात्, तद्दृष्टान्तेन वा तन्नित्यत्वसाधनात् ।
सारस्वतपाठादावपि मन्त्रादिस्वरूपभेदाभावस्योक्तत्वात् ।
“या ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
" “वाचाविरूपनित्यया"“पूर्वे पूर्वेभ्यो वच एतदूचुः” “अजान् ह वै प्रश्नींस्तपस्यमानात् ब्रह्म स्वयं भ्यभ्यानर् षत् त ऋषयोभवन् तदृषीणामृषित्वम्” “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा” “व्यस्य वेदं सनातनम्” इत्यादिभिरीश्वरस्याप्यनीश्वरवद्वेदप्रवर्तनमात्रसिद्धेः कुतश्च सर्गप्रलयसिद्धिः ? विश्वसन्ततिरत्यन्तमुच्छिद्यते, सन्ततित्वात्, प्रदीपसन्ततिवत् ।
विश्वसन्तानोयं दृश्यसन्तानहीनैः समवायिभिरारब्धः, सन्तानत्वात्, आरणेयाग्निसन्तानवत् ।
वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः, नित्यत्वे सति तदारम्भकत्वात्, प्रदीपपरमाणुवत् ।
पर्वता अपि चूर्णीभविष्यन्ति, अवयवित्वात्, घटवत् ।
समुद्रा अपि शोषमुपयास्यन्ति, जलाशयत्वात्, पल्वलवत् इत्याद्यनुमानतः, इति चेन्न, केषां चिन्नित्यसंसारपक्षे प्रथमस्य हेतोस्तथा तत्प्रतिपादकैरागमैरंशतो बाधः, तद्वहिष्कारे च अनैकान्तः; सर्वेषां च श्रुतिशतसिद्धैर्नित्यविभूतिनिष्ठैरीश्वरनित्यविग्रहादिभिस्तैस्तैरनेकान्तः ।
न च तत्पक्षीकारः, बाधासिद्ध्योरन्यतरापातात् ।
प्रतिप्रयोगाश्च—गणितविशेषादिसिद्धद्विपारार्धसङ्ख्यापूर्वोत्तरकालो न लोकशून्यः, कालत्वात्, अद्यतनकालवत्, इत्यादयः स्वयमूह्याः ॥
२५ विपक्षे बाधकं न सम्यग्दृश्यते ।
यच्चागमानुग्रह एषां बलमित्यभिमतम्, तदागमप्रमाणत्वोपजीवनम्, तथा चागमत एव प्रलयादिसिद्धिः ।
ततश्चागमादेवागमनित्यत्वं सिद्धम् ।
उक्तं च प्रज्ञापरित्राणे— “वेदतः पौरुषेयत्वशङ्का वेदे न शाम्यति ।
हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता” ॥
इति ।
सर्गादौ वेदपरिग्रहप्रकारश्चैवमुपपादितः— “व्यवहारिजनाभावाद्गिरां व्युत्पत्त्यसम्भवात् ।
वेदार्थो नैव शक्येत बोद्धुं तस्येति चेन्न तत् ॥
बहवः सम्भवन्त्येव शब्दार्थव्यवहारिणः ।
मुक्ताद्या रिशितुर्यद्वा बहुरूपपरिग्रहात् ॥
प्राच्यविज्ञानसंस्कारानुवृत्त्या वास्य वेधसः ।
सर्वशब्दार्थविज्ञानं सुप्तोत्थितवदुद्भवेत् ॥
न गर्भवासस्तेषां न वयोवस्थादयोपि च ।
सर्वविज्ञानसम्पन्नाः सृष्टास्त इति वेदधीः ॥
ऽयो ब्रह्मणऽमिति श्रत्या सृष्ट्वा ब्रह्माणमीश्वरः ।
अस्मै वेदानदत्तेति प्रतीतिर्न उदेति हि ॥
शब्दार्थवेदिने वेदप्रदानं सार्थकं भवेत् ।
अन्यथा व्यर्थमित्यर्थापत्त्या शब्दार्थवेदिता” ॥
इति ॥
२६ सूत्रकाण्डमन्त्रकृत्त्वजन्मादिवाक्यानामपि प्रथमद्रष्टृत्वस्मर्तृत्वसम्प्रदायप्रवर्तनादिभिरेव निर्वाहः ।
इदमप्यागमानुरोधादेव सिद्धम् ।
“स्वयम्भ्वभ्यानर्षत्” इत्यादि हि श्रूयते ।
प्रजापतिनियोगाच्च तदाहितमहिमानो महर्षयोनधीतानेव वेदभागान् पश्यन्ति ।
तन्न्नियोगश्च तत्तदृषिकत्वेनानुसन्धानादेः कर्मौपयिकत्वात् ।
तेषामपि प्रवाहानादित्वान्नानित्यसंयोगादिदोषः ।
“यद्वै किञ्च मनुरवदत्” इत्यादौ प्रवाहानादित्वं परैरुक्तम्; तदुपाख्यानान्तरादिष्वपि तुल्यम् ।
उक्तं च भगवता व्यासेन— “युगान्तेन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा” ॥
इति ॥
इतिहासोत्र तत्तद्वृत्तान्तः ।
उक्तं च तेनैव धर्मशास्त्रेपि— “धर्ममूलं वेदमाहुर्ग्रन्थराशिमकृत्रिमम् ।
तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम्” ॥
इति ।
शाखाप्रणयनं च द्वापरान्ते भाविपुरुषशक्तिपरिक्षयाद्वेदवृक्षैकदेशोद्धरणम् ।
एतेन समाख्या निर्व्यूढा, प्रवचनविषयत्वात् ॥
इदं च सर्वं प्रसाधितं प्रज्ञापरित्राणे— “यादृक्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु ।
तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयम्भुवा ॥
अतस्तेभ्यः पुरा वेदसत्त्वाद् वेदस्य नित्यता ।
अनधीत्यैव वेदानामाविर्भावयितृत्वतः ॥
तपसा प्राप्पय संस्कारात् तत्सूक्तत्वादिसम्भवः ।
तपःप्रभावान्मत्राणामृषिदर्शनसंस्कृतेः ॥
शक्तिराधीयते काचिद्यथास्माकमधीतितः ।
अर्थावबोधकत्वं तु शब्दशक्त्यान्यशब्दवत् ॥
ऋषिदर्शनतोधीतेपरपि शक्त्यन्तरोद्भवः ।
अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः ॥
काठकादिसमाख्याया निमित्तं चेदमेव वा ।
प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता” ॥
इति ॥
२७ वर्णानित्यत्वं क्रमानित्यता वा नाभिमतवेदनित्यत्वविरोधि ।
न च वर्णनित्यत्वं वेदनित्यत्वहेतुः, काव्यादिष्वपि तुल्यत्वात् ।
शब्दाधिकरणं चानुपयुक्तवर्णानित्यत्वपरं नानुमन्यामहे ।
शारीरकदेवतानधिकरणे च— “शब्द इति चेन्न, अतः प्रभवात् प्रत्यक्षानुमानाभ्याम् ।
अत एव च नित्यत्वम् ।
समाननामरूपत्वाच्च, आवृत्तावप्यविरोधो दर्शनात्, स्मृतेश्च” इति सूत्रैरिदं सर्वं समर्थितम् ॥
२८ वेदार्थसङ्गहे तु—वेदाः प्रमाणं चेत्, विध्यर्थवादमन्त्रागतं सर्वमपूर्वमर्थजातं यथावस्थितमेव बोधयन्ति ।
प्रामाण्यं च वेदानाम् “औत्पत्तिकस्तु शब्दस्यार्त्थेन सम्बन्धः” इत्युक्तम्” इति मन्त्रार्थवादयोरपि याथार्थ्यं प्रक्रम्य, शब्दशक्तेरसाङ्केतिकत्वम्, तत एव शब्दानुमानविवेकः पौरुषेयापौरुषेयादिविभागादिकं च व्यक्तं प्रदर्शितम् ।
तथाहि—यथा अग्निजलादीनामौष्ण्यादिशक्तियोगः स्वाभाविकः; यथा चक्षुरादीनामिन्द्रियाणां बुद्धिजनकत्वशक्तिः स्वाभाविकी, तथा शब्दस्यापि बोधकत्वशक्तिः स्वाभाविकी ।
न च हस्तचेष्टादिवत् सङ्केतमूलं शब्दस्य बोधकत्वमिति वक्तुं युक्तम्, अवनाद्यनुसन्धानाविच्छेदेपि सङ्केतयितृपुरुषाज्ञानात् ।
यानि सङ्केतमूलानि, तानि सर्वाणि साक्षाद्वा परम्परया वा विज्ञायन्ते ।
न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम्; तेषु साक्षाद्वा परम्परयां वा सङ्केतो ज्ञायते ।
गवादिशब्दानां तु अनाद्यमुसन्धानाविच्छेदेपि सङ्केताज्ञानादेव बोधकत्वशक्तिः स्वाभाविकी ।
अग्न्यादीनामौष्ण्यादिशक्तिवदिन्द्रियाणां बोधकत्वशक्तिवच्चशब्दस्यापि बोधकत्वशक्तिरवश्याश्रयणीया ॥
२९ ननु च इन्द्रियवच्छब्दस्यापि बोधकत्वं स्वाभाविकं चेत्, सम्बन्धग्रहं बोधकत्वाय किमित्यपेक्षते ?; लिङ्गवदित्युच्यते; यथा ज्ञातसम्बन्धनियमं धूमादि अग्न्यादिबुद्धिजनकम्, तथा ज्ञातसम्बन्धनियमः शब्दोप्यर्थविशेषबुद्धिजनकः ।
एवं तर्हि शब्दोप्यर्थविशेषस्य लिङ्गमित्यनुमानमेव स्यात्; मैवम्; शब्दार्थयोः सम्बन्धो बोध्यबोधकभाव एव ।
धूमादीनां तु सम्बन्धान्तरमिति, तस्य सम्बन्धस्य ज्ञापनद्वारेण बुद्धिजनकत्वमिति विशेषः ।
एवं गृहीतसम्बन्धस्य बोधकत्वदर्शनादनाद्यनुसन्धानाविच्छेदेपि सङ्ङ्केताज्ञानात् बोधकत्ववं शक्तिरेवेति निश्चीयते ॥
एवं बोधकानां पदसङ्घातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानामुच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकः, ते पौरुषेयाः शब्दाः इत्युच्यन्ते ।
यत्र तूच्चारणक्रमः पूर्वपूर्वोच्चारणक्रमजनितसंस्कारपूर्वकः सर्वदा, अपौरुषेयास्ते वेदाः इत्युच्यन्ते ।
एतदेव वेदानामपौरुषेयत्वं नित्यत्वं च, यत् पूर्वोच्चारणक्रमजनितसंस्कारेण क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् ।
तेनानुपूर्वीविशेषेण तमेव संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदेन भिन्नाः अनन्तशाखा वर्तन्त इति ॥
३० अत्राङ्गिरसानुक्तिरथर्वानुप्रवेशविवक्षया ।
एवं त्रिवेदीव्यपदेशेपि विवक्षाभेदो ग्राह्यः ।
सर्वोप्यसौ पुनर्मन्त्रार्थवादादिरूपेण त्रिविधः ।
तत्र प्रामाणिकमन्त्रव्यवहारविषयो मन्त्रः ।
स चानुष्ठेयार्थप्रकाशनादिनोपकारोति ।
न चेदमेव तल्लक्षणम्, “वसन्ताय” इत्येवमाद्यव्याप्तेः ।
“वसन्ताय कपिञ्जलानालभन्ते” इत्यादयस्तु मन्त्रा अपि विधिपरा एव मीमांसिताः ।
सकिल मन्त्रः क्रियमाणानुवादिस्तोत्रशस्त्रजप्यादिभेदभिन्नः ।
पैशाचमागधादितत्तद्भाषामन्त्राणां फलप्रदत्वे तत्तद्बीजजात्यादिकं निदानम् ।
श्रद्धेयदेवतानामाङ्कमात्रं तु न तदक्षरशक्तिप्रतिबन्धकम्; क्षिप्रक्षुद्रफलप्रकाशनेन विप्रलम्भार्थं तथैवेश्वरादिभिः सृष्टम् ।
गरुडादिनामाङ्कभाषामन्त्रेषु तु तत्तद्देवतास्मृत्युपकारकत्वमप्यस्ति ।
एतेन मन्त्रव्याकरणं निर्व्यूढम् ।
ये तु सप्तकोटयो महामन्त्राः इत्याप्तशास्त्रप्रतिष्ठिताः, ते तु प्रणवयोगायोगादिभिर्वैदिकाः तान्त्रिकाः इति विभज्यन्ते ।
तत्र शूद्राधिकारत्वसिध्यर्थं तान्त्रिकपरिभाषा; न पुनरवैदिकतया, श्रौतस्मार्तादिभेदव्यपदेशवत् प्रमाणसिद्धत्वाविशेषात् ।
सर्वेषां च मन्त्राणां सद्वारकमद्वारकं च परमात्मैव प्रतिपाद्यः फलप्रदश्च ।
सद्वारकेषु तावत् विनियोगभेदाद् बहुधाब्रह्मणि पर्यवसानम् ।
तत्तद्देवशरीरत्वात् तत्तदंशतया स्थितेः ।
ऐन्द्षादिन्यायतश्चैषां सर्वेषामीश्वरे स्थितिः ॥
३१ विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषो ह्यर्थवादः ।
सो ऽपि प्रत्यक्षाद्यविरुद्धे स्वार्थे प्रमाणम्, स्वतः प्रामाण्यस्यानपायात् ।
यत्र विरोधधीः, तत्राप्यविरुद्धार्थोपचारेण तत्प्रामाण्यम् ।
स च क्वाचिद् विध्येकवाक्यतया प्रमाणीभवतीत्यर्थवादाधिकरणादिषु स्थापितम् ।
स्वतः प्रयोजनभूतार्थविशेषविषयस्तु स्वतन्त्रतयापि प्रामाण्यं प्राप्नोतीति समन्वयसूत्रसिद्धम् ।
तत्प्राप्त्यभिलाषे तु तदुपायवाक्यप्रवृत्तिः ।
स चतुर्धा—निन्दाप्रशंसापरकृतिपुराकल्पभेदात् ।
निषेधादिशेषभूतो निषेध्यादिदोषवादोत्र निन्दा ।
विध्यादिशेषभूतो विधेयादिगुणवादः प्रशंसा ।
एकानुबन्धी कथाविशेषः परकृतिः ।
अनेकानुबन्धी तु पुराकल्पः ॥
३२ हितानुशासनरूपं वाक्यमिह विधिः ।
स च बहुविधः— नित्यनैमित्तिककाम्यसंवलितविधिनिषेधादिभेदात् ।
नियमपरिसङ्ख्ये अपि विधिभेदावेव ।
तत्रैवं विवेकः— अप्राप्तस्य विधौ प्राप्तिर्नियमे प्राप्तपूरणम् ।
बाधस्तु परिसङ्ख्यायां प्राप्तस्यैवैकदेशतः ॥
३३ अथात्र को नाम लिङादिप्रत्ययार्थः ? न तावदपूर्वम्, तस्मिन् प्रमाणान्तरागोचरे व्युत्पत्त्ययोगात्, तद्गोचरत्वे तु अपूर्वत्वव्याघातात्, लिङादिबोधिते व्युत्पत्तावितरेतराश्रयप्रसङ्गात् ।
विमर्शतः सिद्धिः स्यादिति चेन्न, विमर्शस्य स्मृत्यनुभवातिरिक्तस्यानम्युपगमात्, क्रियाकार्येव्युत्पन्नस्य चान्वयायोग्यतायामपि लक्षणादिभिरेव निर्बाह्यत्वात्, अभिधानान्यथाकरणायोगात्, प्रथमव्युत्पत्तेरपि सर्वत्र कार्य एवेति नियमाभावात् ।
तथा—गामानयेत्यादिप्रयोजकवृद्धवाक्यश्रवणसमनन्तरं गवानयने प्रवृत्तं पुरुषमालोक्य पार्श्वस्थो व्युत्पित्सुश्चेतनप्रवृत्तेः कार्यताबुद्धिपूर्वकत्वात् प्रयोज्यवृद्धकार्यताबुद्धेश्च कारणान्तरादर्शनात् यदनन्तरं यत् दृश्यते तत्तस्य कारणमिति प्रयोजकवृद्धवाक्यमेव प्रयोज्यवृद्धकार्यताबुद्धेः कारणमित्यध्यवस्यति ।
तथा कस्यचित् “पुत्रस्ते जातः” इति केनचिदुक्ते प्रतिपन्नपुत्रोत्पत्तेस्तस्य प्रियत्वं च ज्ञायते ।
व्युत्पित्सुः पुत्रजन्मवाक्यश्राविणः पुरुषस्य मुखविकासमालोक्य तस्य प्रियार्थप्रतिप्रत्तिनिमित्तत्वानुमानात् तत्प्रतीतेश्च कारणान्तरादर्शनात् पुत्रजनमवाक्यमेव कारणं कल्पयति ।
न च पुत्रजन्मनः प्रियत्वं बालेनाज्ञातमिति वाच्यम्, प्रज्ञातपुत्रजन्मनस्तस्य प्रौढस्य भाषान्तरवत् प्रथमव्युत्पत्तावेवं सम्भवात्, नोदाहरणमादरणीयमिति च न्यायविदः ॥
३४ ततश्च ये बालानां प्रियत्वेन सम्प्रतिपन्ना भक्ष्यभोज्यादयः, तद्दर्शी व्युत्पित्सुस्तत्सम्पत्तिश्राविणः पुरुषस्य मुखविकासदर्शनादिप्रक्रियया व्युत्पद्यत इति किं नोपपद्यते ? प्रियान्तरस्मृत्यादिभिरपि मुखे विकासः सम्भवतीति चेत्, तथैव स्वयं तदधीनप्रयोजनान्तरस्मरणादिनापि गवानयनकर्तव्यताबोधः सम्भवेत् ।
आसत्ति विशेषवशादनेकप्रयोगानुगतेश्च व्यवस्थेति चेत्, तुल्यम् ।
तथापि तत्तत्प्रियानुबन्धिसुलग्नजन्मसुखप्रसवस्वादुवाक्त्वादिहर्षहेत्वर्थान्तरसम्भावनया विशेषो दुर्निश्चयः इति चेन्न, गवानयनेपि वत्ससंयोजनक्षीरसम्पादनादिकर्तव्यताबोधकेपि वाक्ये तदर्थगवानयनसम्भवाद् गामानमेत्यादिवाक्यं गवानयनकर्तव्यतैकबोधकमिति कथं निश्चिनुयात् ? अन्वयव्यतिरेकमहिमवशाद् दृष्टानुग्रहाच्चेति चेत्, तुल्यम् ।
तदेवं पुत्रजन्मवाक्योदाहरणसमीकारस्य मन्दमतीनां दुरारोहत्वात् तदुपेक्षणेन स्पष्टतरव्युत्पत्तिप्रकारो यादृच्छिको बुद्धिपूर्वश्च भाष्यकारैर्दर्शितः; तदत्र लिख्यते— “एवं किल बालाः शब्दार्थसम्बन्धमवधारयन्ति; मातापितृप्रभृतिभिरम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसरीसृपादींश्च एनमवेहि, इमं चावधारय, इत्यभिप्रायेणाङ्गुल्या निर्दिश्य निर्दिश्य तैस्तैः शब्दैस्तेषु तेषु बहुशः शिक्षिताः शनैः शनैस्तैरेव शब्दैस्तेषु तेष्वर्थेषु स्वात्मनां बुध्द्युत्पत्तिं दृष्ट्वा शब्दार्थयोः सम्बन्धान्तरादर्शनात् सङ्केतयितृपुरुषाज्ञानाच्च तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धन इति निश्चिन्वन्ति ।
पुनश्च व्युत्पन्नेतरशब्देष्वस्य शब्दस्यायमर्थ इति पूर्ववृद्धैः शिक्षिताः सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधि वाक्यजातं प्रयुञ्जते ।
प्रकारान्तरेणापि शब्दार्थसम्बन्धावधारणं सुशकम्—केनचित् पुरुषेण हस्तचेष्टादिना “पिता ते सुखमास्ते, इति देवदत्ताय ज्ञापय” इति प्रेषितः कश्चित् तज्ज्ञापने प्रवऋत्तः “पिता ते सुखमास्ते” इति शब्दं प्रयुङ्क्ते; पार्श्वस्थोन्यो व्युत्पित्सुर्मूकवच्चेष्टाविशेषज्ञः तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वानुगतः तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा, अयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोतीति कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निर्निबन्धनः” इति ॥
न्या। प। श ३५ अत्र पिता ते सुखमास्त इति वाक्यस्य स्थाने अपवरके दण्डः स्थितः इत्युदाहरणान्तरमात्रमन्यत्रोक्तम् ।
अतः सिद्धासिद्धेप्याद्यव्युत्पत्तिः ।
भवतु वा प्रथमव्युत्पत्तिः कार्य एव, तथापि प्रयोगान्वयव्यतिरेकवशादेव शब्दशक्तिर्विवेचनीया ।
प्रयुज्यन्ते च सिद्धपरा एवाविवक्षितकर्तव्यैः शब्दाः; यथा— कोसौ राजा ? कौरवः ।
कौतुकमात्रादेव ह्यत्र प्रश्नः, प्रतिवचनं च तदनुविधाय्येव ।
अतो यथा पदानां प्रातिस्विकी शक्तिः सिद्धे कार्येपीति यथासम्भवं निष्कृष्यते, तथा तात्पर्यमपि, यथायोगमेव व्युत्पत्त्युपायत्वेपि च कार्यस्य सर्वशब्दतात्पर्यविषयत्वायुक्तेः ।
कार्यवाक्येपि प्रवर्तकत्वादिलक्षणं च प्राधान्यमपूर्वस्य मृग्यम्, सुखदुःखाभावाभ्यामतिरिक्तस्य स्वतः स्वस्मिन् प्रवर्तकत्वायोगात्, व्युत्पत्तिदशायामप्यसुखरूपस्यानयनादेरन्यशेषतयैव प्रवृत्तिशेषत्वावगमात् ।
अतः सुखे दुःखनिवृत्तौ वा साक्षात् कार्यत्वबोधः; तदर्थतया तत्साधने ।
अपेक्षितत्वेन च साधनवत् साधनसाधनेपि कार्यताबोधोपपत्तिः ।
न च सुखादित्वमपूर्वस्य; न च तत्साधनतया तत्प्रवर्तकत्वमभ्युपगतम् ।
अभ्युपगमेपि लौकिकसेव्यप्रीत्येव देवताप्रीत्यैव श्रुत्यादिसिद्धया कालान्तरभाविफलसिद्धौलिङ्वाच्यतया स्वरूपेण वा तत्कल्पनायोगात्, रात्रिसत्रादिनयाच्च ।
प्रतिष्ठादेशविशेषशतयातनासाधनत्वघृताञ्जनच्छागादिपरिग्रहवत् विध्यपेक्षितं प्रतीतं च देवताप्रीत्यात्मकमेवापूर्वं लिङ्वाच्यतया स्वरूपेण वा द्वारमुपकल्प्यताम्; किमन्येन ? ॥
३६ यच्च जल्पन्त्यर्धलोकायतिकाः— “विग्रहो हविरादानं युगपत् कर्मसन्निधिः ।
प्रीतिः फलप्रदानं च देवतानां न विद्यते” ॥
इति, तदपि जैमिनिहृदयानभिज्ञतानिबन्धनम्; न हि स्वतः प्रमाणाम्नायस्मृतिपुराणादिसिद्धाः साधकबाधकप्रमाणागोचराः देवताविग्रहादयो हातुं युक्ताः ।
न चायोग्येष्वनुपलम्भमात्रेण बाधः शङक्यः, अतिप्रसङ्गित्वात्, साक्षाल्लोकायतिकवादप्रसङ्गात् ।
स्तुत्या विधिशेषभूतेष्वप्यर्थवादेषु तदर्थतयैव स्वार्थमभिदधानेषु न वाक्यभेदादिदोषः ।
स्तुत्यादिपरत्वेपि न मुख्यार्थबाधः, स्वार्थबाधकाभावो स्वार्थप्रहाणायोगात्; न च सर्वा स्तुतिरयथार्था; न चासता गुणेन कथितेन स्तुतिसिद्धिः ।
यत्र तु मुख्यार्थबाधः, तत्राप्यैपचारिकं किञ्चिदालम्बनमभिप्रेतम्; अन्यथा विडम्बनमात्रमेव स्यात् ।
न चोपच्छन्दनमात्रता, तज्ज्ञाने पुंसः प्रवृत्त्यनुपकारात्, निरूपकस्य च तदज्ञानायोगात्, अन्यथा भ्रान्तिमूलप्रवृत्तित्वप्रसङ्गात्; समन्वयाधिकरणनयाच्च सिद्धैकपराः सन्ति भागाः ।
तदनुधाविनश्चेतिहासपुराणादयः ॥
३७ नन्वर्थवादाधिकरणे “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” इति सर्वेषामर्थवादानां विध्येकवाक्यत्वमुक्तम्; समन्वयसूत्रे तु कथं तद्विरुद्धोक्तिः ? मैवम्; अर्थवादाप्रामाण्यपूर्वपक्षप्रतिक्षेपाय विध्येकवाक्यतया प्रामाण्यं सम्भवतीत्येतावन्मात्रमर्थवादाधिकरणे स्थापितम् ।
विध्येकवाक्यत्वे ब्रह्मस्वरूपतात्पर्याभावपूर्वपक्षस्तु अपवरकनिधिसद्भावादिवाक्यवत् स्वतःप्रयोजनभूतार्थविषयवाक्यानां भिन्नवाक्यतयापि प्रामाण्यमुपपाद्य समन्वयसूत्रे प्रतिक्षिप्यत इति विरोधाभावात् ।
अपि चौत्सर्गिङ्कमापवादिकञ्च तं तमर्थं प्रतिपादयत्सु वाक्येषु विषयव्यवस्थया विरोधशमनं व्याकरणादिष्वपि दृष्टमिति ।
अत एव ब्राह्मणशेषा अर्थवादा इत्यार्षमपि वाक्यमौत्सर्गिकविषयमवगन्तव्यम् ।
या तु शब्दभावनैव लिङाद्यर्थ इति कौमारिलकुसृतिः, सा तु प्रतीतिविंसवादादिप्रतिहता; न हि विधिवाक्यश्रावी पुरुषः, लिङादि स्वव्यापारमभिधत्ते, अतो मया प्रवर्तितव्यमिति मन्यते ।
न च यागादिस्वरूपे लिङादिव्यापारे च केनचिद् वाक्येन समुच्चित्य प्रतिपादितेपि कश्चित् प्रवर्तमानो दृश्यते ।
लिङादेश्च ज्ञायमानत्वलक्षणव्यापारमात्राच्छक्तिलक्षणव्यापाराद्वा प्रवर्तकत्वे व्युत्पत्तेः प्रागपि ततः प्रवृत्तिप्रसङ्गः; व्युत्पत्तेरपि सहकारित्वे तत्सापेक्षाया निर्विषयायास्तस्या असम्भवात् तद्विषयो वाच्यः ।
न च स्वव्यापारे लिङादिः क्वचिद् व्युत्पन्नः ।
सर्वेषामपि शब्दानां स्वव्यापारातिरिक्त एव ह्यर्थे व्युत्पत्ति ।
ये चाभिधादयः शब्दाः, तेपि न शृङ्गग्राहिकया स्वव्यापारमभिदधति; अपि तु शब्दमात्रव्यापारे तत्प्रवृत्तेः सामान्योपाधिक्रोडीकारेण स्वव्यापारस्यापि निवेशः; अत एवाभिधादिशब्दाभिधेयस्य निमित्तस्य च सामान्यतः प्रतिपन्नत्वाद् व्युत्पत्त्युपपत्तिः ।
लिङादेस्तु स्वव्यापारे प्रतीते तत्र व्युत्पत्तिः स्यात्; तत्प्रतीतिर्व्युत्पन्नेन चेत्, अन्योन्याश्रयः; अव्युत्पन्नेन चेत्, अतिप्रसङ्गः, इति ।
न चेष्टसाधनत्वमात्रं लिङादिबोध्यम्, “तवेष्ट साधनमिदम्, अतेः कुरु” इति सहप्रयोगदर्शनात् ।
न चादरादिनिबन्धना पुनरुक्तिरियम्, प्रतीतेरतथात्वात्, हेतुसाध्यनिर्देशायोगाच्च ।
ऽकर्तव्यमिदम्, अतः कुरु इत्यपि दृश्यते, इति चेन्न, ब्राह्मणस्य कर्तव्यमिदम्, अतस्तवापि कर्तव्यमितिवत् सामन्यविशेषादिविवक्षाया अविरोधात्, अत्यन्तैकार्थविवक्षायां तु तत्रापि प्रयोगायोगात् ।
अत एव आप्तस्य वक्तुरिच्छामात्रं लिङाद्यर्थः, इति प्रत्युक्तम्; आप्तस्येष्टमिदम्, अता ममेदं कार्यम् इति प्रवर्तमानपुरुषाभिलापविशेषदर्शनात् ।
न च लिङार्थत्वादेव निमन्त्रणादिवद् विधिरपि वक्त्रभिप्रायमात्रमिति वाच्यम्, सम्भावनादिभिर्विशेषविहितैश्चानैकान्त्यात्; एकशब्दवाच्यतामात्रेणैकत्वे चानेकार्थशब्दभङ्गप्रसङ्गे दृष्टान्तोपि न सिध्येत् ।
यद्यपि परमते ह्युदयनोक्ता निषेधानुपपत्तिः, तथापि न सास्मत्पक्षमवगाहते, कर्तव्यताया विध्यर्थत्वे न कर्तव्य इति नञन्वयाविरोधात्; कर्तृव्यापारसाध्यत्वमेव च कर्तव्यत्वम्; तथाहि वेदार्थसङ्गहे “लिङादेः कोयमर्थः परिगृहीतः"ऽ इति प्रश्नपूर्वकं प्रत्युक्तम्— “यज देवपूजायाम्, इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयोभिदधतीति न किञ्चिदनुपपन्नम्, कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसम्बन्धप्रकारो हि वाच्यः; भूतवर्तमानतादिमन्ये वदन्ति, लिङादयस्तु कर्तृव्यापारसाध्यतां वदन्ति” इति ।
भाष्ये चाद्यसूत्रे—“अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङादेर्वाच्यमित्यध्यवसीयते, धात्वर्थस्य च यागादेरग्न्यादिदेवतान्तर्यामिपरमपुरुषसमाराधनरूपता, समाराधितात् परमपुरुषात् फलसिद्धिश्चेति “फलमत उपपत्तेः” इति प्रतिपादयिष्यते” इति ।
अत्र कर्तृव्यापारसाध्यतामात्रमिति निष्कृष्टार्थप्रदर्शनायोक्तम्; प्रतिपत्तिप्रकारस्तु यजेतेत्यादौ स्वव्यापारसाध्ययागादिविशिष्टः इति कर्तृप्राधान्येनैव ।
यथोक्तं दीपे कर्त्रधिकरणै— “यजेत, उपासीत, इति हि कर्तरि लकारः, अतः कर्तारमेव बोधयति शास्त्रम्” इति ।
उक्तं च वेदार्थसङ्ग्रहेपि– “स्वर्गकामो यजेत, इत्येवमादिषु लकारवाच्यकर्तृविशेषसमर्पकाणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पकत्वं शब्दानुशासनाविरुद्धम्” इति ।
यद्यपि दीपग्रन्थः पुंसः कर्तृत्वं श्रुतिसिद्धमित्यत्रैव तत्परः, तथापि धात्वर्थसाध्यतापरलिङादिष्वपि कर्तप्रधानतया वृत्तिं प्रदर्श्य सांरव्यान् प्रतिक्षिपतीति तादर्थ्यात् तत्रापि तत्परत्वमेव ग्राह्यम् ।
पचतीत्यादौ पाकं करोतीत्यादिनिपुणव्याक्रियाश्च कृतिकर्मतयैव धात्वर्थस्यान्वयं व्यञ्जयन्ति ॥
३८ श्रीगीताभाष्ये चैतद् व्यञ्जितम्— “युध्यस्व” इत्यत्र “युद्धाख्यं कर्मारभस्व” इति व्याख्यानात् ।
व्याकरणात् करणतया च धात्वर्थस्यान्वये कथं क्रियाविशेषणस्य कर्मविभक्त्यन्तता ? न हि विशेष्येण विशेषणं भावयेदित्यन्वेति, फलस्यापूर्वस्य वा भवद्भिर्भाव्यत्वाभ्युपगमात्; वर्तमानव्यपदेशादिषु च साध्यान्तराभावेपि न विशेषणमात्रं साध्यम्, न च प्रथमान्तं कियाविशेषणम्; करणपक्षेपि धात्वर्थेनानन्वयप्रसङ्गात्, अनन्वितविशेषणताद्यनुपपत्तेः ।
न चाकर्मविभक्त्यन्तेन धातुना कर्मविभक्त्यन्तस्य कथं सामानाधिकरण्यमिति वाच्यम्, करणविभक्त्यन्तेनाप्यसामानाधिकरण्यप्रसङ्गात्, न च प्रपवतीयमाने कर्मत्वेनान्वये कश्चिद्दोषो दृश्यते, प्रियङ्गुकामः कृषिं कुर्यादितिवत् स्वर्गकामो यागं कुर्यादिति वाक्यार्थेपि विरोधाभावात्, तद्वदेवार्थतस्तस्य तदुपायत्वसिद्धेः केनेति करणाकाङ्क्षाया अपि शमनात् ।
नामधेयगततृतीयान्वयोपि नावश्यं सामानाधिकरण्येन, तत्तन्नामकैः कर्मविशेषैः देवतापूजां कुर्यादित्येवम्परत्वेपि स्वरसान्वयात्, सामान्यविशेषरूपेण व्यधिकरणनिर्देशोपपत्तेः ।
चाटुवादेन राजानं प्रीणयेदितिवाद् यागं कुरुष्वेत्यादौ न कृञर्थस्यापि साध्यत्वप्रसङ्गः, तस्यैव कर्तृव्यापाररूपत्वे तत्साध्यत्वायोगात्, प्रकृतिप्रत्ययोरन्यतरस्य कृतावुदासीनत्वात्, एकः, द्वौ, बहवः, इत्यादिवत् ।
तत्रापि यदा कर्मतां विवक्षति, तदापि कर्तृव्यापारान्तरमभिप्रेत्य वा, भेदोपचारेण वा निर्वाहः; यथा—उदकाहरणक्रियां करोतीत्यादौ ।
न च तावतानवस्था, प्रतीत्यनारोहेण व्यवहारस्य पर्यवसितत्वात् ।
अग्निहोत्रं जुहोतीत्यादिप्रयोगश्चास्मत्पक्षानुकूलः ।
अतः, किम्, केन, कथमिति भवत्प्रोक्तवत्, किमर्थम्, किम्, केन, कथमित्याकाङ्क्षाचतुष्टये स्वर्गादिना किमर्थमित्याकाङ्क्षापूरणम्, देवतां प्रीणयेदिति किमित्याकाङ्क्षानशान्तिः, ज्योतिष्टोमेनेत्यादिनामधेयादिभिः केनेत्याकाङ्क्षा पूर्यते, कथमित्याकाङ्क्षापूरणं तु भवतामस्माकं च तुल्यमेवेति शाब्दोयं पन्थाः ।
अतस्तत्तदधिकारिणः स्वसाध्यधात्वर्थविशिष्टताबोधिनि यजेतेत्यादौ तत्तद्धात्वर्थानुष्ठाने फलम् अननुष्ठाने प्रत्यवायश्च सर्वप्रशासितुः सङ्कल्पाद् भवतीत्यपि वाक्यादवगतम् ।
अवान्तरदेवताबुद्धिवृत्तिविशेषस्तु सद्वारकयजते श्राद्धभोजिपुरुषप्रीत्यादिवदानुषङ्गिकः, अन्यथा कल्पान्तरादिषु प्रलीनप्राचीनदेवतागणेषु पूर्वकल्पानुष्ठितकर्मफलानुत्पत्तिप्रसङ्गात् ।
अत एव ह्येकस्यैव श्रुतिराज्ञा; अन्येषां चाराधकत्ववदाराध्यत्वमपि तदायत्तमिति ।
नारायणार्यैस्त्वेवमुक्तम्— “आप्तस्य हितकामस्य नियोगं केचिदूचिरे ।
भाष्यकारोपि भगवानेतदेवान्वमन्यत” ॥
इति ॥
अत्र च “स्वशासनावबोधि शास्त्रं च प्रदिश्य” इति भाष्यमभिसंहितम् ।
इदं च विधि-निषेधानुवर्तनातिवर्तन-प्रयुक्त–निग्रहानुग्रह-वचन-बलात् सिद्धम् ।

“श्रुतिः स्मृतिर्ममैवाज्ञा
यस्तामुल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोही
मद्भक्तोपि न वैष्णवः” ॥

इति ॥

“विधिः प्रेरणम्” इति च व्याकारि वैयाकरणैः ।
प्रेरणं च शासनम् एव ।

तत्त्व-रत्नाकर-कारैश् चैवम् उक्तम्—

“क्रिया तच्-छक्तिर् वा किम् अपि तद् अपूर्वं पितृ-सुर-
प्रसादो वा कर्तुः फल- इति रङ्गेश कु-दृशः ।
त्वद्-अर्चेष्टापूर्ते फलम् अपि भवत्-प्रीति-जम् इति
त्रयी-वृद्धास् तत्-तद्-विधिर् अपि भवत्-प्रेरणम् इति ॥ "

नित्य-नैमित्तिकादि-विधि-भेदेषु च
प्रशासितुर् अभिप्राय-विशेषाः व्यञ्जिताः—

“आज्ञा ते सनिमित्त-नित्य-विधयः स्वर्गादि-काम्यद्-विधिः सोनुज्ञा शठ-चित्त-शास्त्र-वशतोपायोभिचार-श्रुतिः ।
सर्वा यस्य समस्तशासितुरहो श्रीरङ्गराजस्य ते रक्षाकूतनिवेदिनी श्रुतिरपि त्वन्नित्यशास्तिस्ततः” ॥

इति ।

अपि च वेदार्थसङ्गहेप्युपात्तं द्रविडभाष्यम्—

“स्व-शासनानुवर्तिनो ज्ञात्वा
कारुण्यात् स्वभावाच् छ्रद्धयैतद्-विद्वान् कर्म-दक्षः”

इति ।
अनन्तरं चायमेवार्थो भगवद्गीतायामपि दर्शितः— “ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥
इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्दन् पुनरपि स्वज्ञानुपालनमकुर्वतामासुरप्रकृत्यन्तर्भावमभिधायाधमा गतिश्चोक्तेतिर् इदृश एव विधिशब्दार्थो वेदान्तिभिः स्वीकृतः” इति ।
परेपि केचिदन्ववादिषुः ।
अतो मूलस्कन्धीकृतनियोगं धात्वर्थस्य कर्तृव्यापारसाध्यत्वं वा निर्विषयप्रेरणासम्भवात् तत्साध्यत्वपर्यन्तं प्रेषणमेव वा लिङाद्यसाधारणार्थः, इति स्थिते “विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्” इति समभिव्याहृतनिमन्त्रणादिसमानयोगक्षेमतया विधिशब्दार्थतया व्याकृतस्य प्रेषणस्यैव लिङादिशब्दवाच्यत्वं युक्तमिति ।
अन्यथापि प्रेषणमन्तर्गतमेवेत्यपरे ॥
३९ इदं च विधिवाक्यानामीश्वरशासनात्मकत्वं जैमिनिनापि सूचितमेव— “चोदनालक्षणोर्थो धर्मः” इति ।
चोदनाशब्दो हि चोदकं कञ्चित् पुरुषं सूचयति ।
अहृदयादपि शाबरोदाहरणादिदं व्यज्यते— “आचार्यचोदितः करोमीति हि दृश्यते” इति ॥
४० एवं चोदनाशब्दसूचितश्च पुरुषः स्ववाक्येन प्रागेव विशेषतो दर्शितः ।
अपिच औत्पत्तिकसूत्रे “तस्य ज्ञानमुपदेशः” इत्यसूत्रयत् ।
उपदेशोपि हि उपदेष्टारमाक्षिपति ।
“तत्प्रमाणं बादरायणस्य” इति सूत्रखण्डे च स्वस्य स्वाचार्यभूतबादरायणसमानाभिप्रायत्वं व्यञ्जितम् ।
स च बादरायणो जैमिनिं स्वशिष्यमभ्युपगतेश्वरादितत्त्वं “साक्षादप्यविरोधं जैमिनिः” इत्यादिषु बहुषु सूत्रेष्वदर्शयत् ।
प्रतिक्षेपस्तु क्वाचित्कः अन्यपरोक्त्यापातप्रतीतार्थमन्दमतिमोहनिरासार्थो वा क्षुद्रप्रमादमात्रस्याप्युद्धारार्थो वेति न प्रधानविरोधकल्पनलिङ्गम् ।
अर्थवादाधिकरणे च “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” इति प्रेरणरूपविधिप्रतिपादकलिङाद्यवयवद्वारा समुदायभूतं विध्युद्देशवाक्यं लक्षयित्वा तदेकवाक्यत्वमर्थवादानां वदन् कृत्स्नस्य वेदस्येश्वराज्ञारूपविधिप्रतिपादकत्वं तद्वाक्यकण्ठोक्तमसूचयत् ।
एवमन्यत्रापि भाव्यम् ॥
४१ एवं श्रुतिस्तावदीश्वराज्ञा, तदनुविधानात् स्मृतिरपि ।
ब्राह्मणमन्त्रार्थवादमया ह्यनन्ता वेदाः सङ्कीर्णा विकीर्णाः क्वचित् कदाचिदुत्सन्नाश्च ।
तत्र कृत्स्नवेदिनो मन्वादयस्तत्तद्देशकालविशेषेष्वकृत्स्नवेदिनां तत्त्वानुष्ठानविप्लवप्रशमनाय स्वानुभूतान् वेदार्थान् यथावन्निबध्नन्ति; अतस्तन्मूलोनादिवाचामर्थनिर्णयः ।
श्रुतिस्मृतिविरोधे तु स्मृत्या मूलान्तरानुमानादनुष्ठानविकल्पं केचिदाहुः ।
सर्वेषां गुणत्रयवतामाप्ततमत्वेपि क्वाचित्कभ्रमसम्भवाच्छ्रुत्या स्मृतिबाधः, इत्यपरे ।
तत्त्वविषनये तु विरोधे बाध एव, आन्यपर्यंवा, वस्तुनि विकल्पासम्भवात् ।
स्मृतिद्वयविरोधे तु परिग्रहतारतम्यादिभिर्व्यवस्था ।
न च क्वचित् स्मृतीनामप्रामाण्ये सर्वत्रानाश्वासः, बाधकादर्शनात्, कारणदोषकॢप्तेश्च नियतलिङ्गाभावात्, संवादभूयस्त्वादिभिः परिग्रहान्यथानुपपत्त्या च श्रुतेरेव मूलत्वकल्पनोपपत्तेः; अन्यथा पौरुषेयवाक्यस्य सर्वस्याप्रामाण्यप्रसङ्गे विलीनमागमेन ।
न चैतन्नानिष्टमिति वक्तुं शक्यम्, पित्राद्याप्तवाक्यं प्रमाणीकृत्य चावार्कस्य प्रवृत्तिदर्शनात् ।
न च क्वाचित्कसंवादमात्रेण बाह्यागमेष्वपि विस्रम्भावकाशः, प्रत्यक्षश्रुतिविरोधभूयस्त्वेन वैदिकपरिग्रहाभावेन वेदबाह्यत्वप्रसिद्ध्या वेदप्रतिक्षेपाच्च वेदाख्यमूलकल्पनस्याशक्यत्वात् ।
न चालौकिकं प्रत्यक्षादिमूलत्वसम्भवः ।
योगजसाक्षात्कारमूलत्वकॢप्तिरपि वेदाविरुद्धस्थले स्यात्; न च तत्रापि निश्चयः, विपरीतोपलम्भस्यापि सम्भवादिति ।
ततश्च वेदमूलाः स्मृतयस्निविधाः—धर्मशास्त्रेतिहासपुराणभेदात् ।
तत्राद्ययोरदूरविप्रकर्षादेकविद्यास्थाननिवेशः ।
अत्र चाधिकृतानधिकृतविभागेन बलाबलनियतिराभासाह्निके दर्शिता; पुराणेष्वपि सात्त्विकराजसादिविभागश्च ॥
४२ यानिपुनः साङ्ख्ययोगपाशुपतपञ्चरात्राणि, तान्यपि धर्मशास्त्रभेदा एव;परिशुद्धात्मचिन्तनरूपज्ञानयोगप्रदर्शनाधिकृतं शास्त्रं साङ्ख्यम्; समाधिपर्यन्तकर्मयोगनिष्ठं शास्त्रं योगः; प्रतिबुद्धेतरविषयपशुपतिभजनप्रतिपादकं पाशुपतम्; प्रतिबुद्धविषयभगवदनन्यभजनोपदेशप्रवृत्तं तु शास्त्रं पञ्चरात्रम् ।
एतानि च क्वचित् क्वचिदंशे परस्परोपजीवीनि ।
परस्परविरोधे तु वेदानुसारेण बलाबलव्यवस्था, वेदविरुद्धे त्वंशे बाधः ।
प्रमादस्यानीश्वरेषु सर्वेषु सम्भवात् ।
विप्रलम्भस्य तु असुरादिव्यामोहनोद्यते साक्षादीश्वरे ऽपि; यथोक्तं भगवतैव— “त्वं हि रुद्रप महाबाहो मोहशास्त्राणि कारय ।
अल्पायासं दर्शयित्वा फलं शीघ्रं प्रदर्शय ॥
अहं मोहं करिष्यामि यो मनं मोहयिष्यति ।
" इति ॥
अतो यत् साङ्ख्यर् इश्वरानधिष्ठितप्रधानादिप्रतिपादनम्, यच्चेश्वरमभ्युपगम्य केवलनिमित्तकारणत्वप्रतिफलनकल्पैश्वर्यवर्णनं योगे, यच्च पाशुपते परावरतत्त्वव्यत्ययवेदविरुद्धाचारादिकल्पनम्, तत् सर्वं व्यपोह्य शिष्टे ःंशे प्रामाण्यं ग्राह्यम् ।
न चैतत् तुषतण्डुलविभागवदल्पज्ञैः शक्यम् ।
अतो हि शारीरके त्रयाणां निरासः ।
पञ्चरात्रं तु कृत्स्नं श्रुतिवत् स्मृतिवद्वा प्रमाणम्, प्रत्यक्षश्रुत्यादिविरोधाभावात् ।
महाभारते च आप्ततम मानवधर्मशास्त्रस्यापि तन्मूलत्वोक्तेरत्यादरेण व्यासदिपरिग्रहविशेषादीश्वरदयामूलत्वेन च कारणदोषप्रसङ्गाभावात् ।
“वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम्” ॥
इति च तत्रैव व्यक्तेः ।
वेदप्रामाण्याङ्गीकारतदर्थोक्तिभूयस्त्वतद्वैशद्यहेतुत्ववचनसाधुपरित्राणार्थत्वसत्त्वोत्तरनारदादिश्रोतृकत्वादिनिबन्धनस्पष्टप्रामाण्यत्वात् ।
न च विप्रलम्भार्थं तथा निबन्धः, अन्यत्रापि प्रसङ्गात्;“अधीता भगवन् वेदाः” इत्यादेर्दुर्ग्रहत्वमात्रतात्पर्येण वेदनिन्दादिरूपत्वाभावात् ।
निन्दारूपत्वेप्युदितहोमनिन्दावन्निन्दितेतरप्रशंसनप्रवृत्तेः ।
“सङ्कर्षणो नाम जीवो जायत” इत्यादेस्त्ववतारादिगोचरत्वस्य तत्रैव सिद्धेः ।
शरीरके च— “उत्पत्त्यसम्भवात्"“न च कर्तुः करणम्” इति सूत्रद्वयेन पूर्वपक्षं कृत्वा “विज्ञानादिभावे वा तदप्रतिषेधः” “विप्रतिषेधाच्च” इति तत्प्रामाण्यप्रतिषेधः परिहृतः ।
तथा निर्मूलत्वासत्परिग्रहसत्परिग्रहाभाववौदिकसंस्कारवर्जनावैदिकसंस्कारविधानविद्यास्थानपरिगणनाभावक्षुद्रविद्याबाहुल्यादिमन्दशङ्कानां भगवद्यामुनमुनिभिः परिहारः प्रपञ्चितः इति नेह प्रतन्यते ॥
४३ एवं साक्षादीश्वरदयामूलत्वान्मन्वादिनिबन्धनेभ्योस्यातिरेकः ।
तेषां श्रुतिविरोधे सति बाध्यत्वमपि सम्भवेत् ।
गुणत्रयवश्यतया कादाचित्कभ्रमादिसम्भवात् ।
स्मृत्यादीनां हि श्रुतिमूलतयैव प्रामाण्यमिति भाष्येप्युक्तं “तदुपर्यपि” इत्यधिकरणे– “सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मंशास्त्रेतिहासपुराणेषु” इति ॥
४४ तत एव चैषां विप्रकीर्णशाखामूलत्वं सिद्धान्तः, इत्यपि सूचितम् ।
क्वचित् कदाचित् केषाञ्चिच्छाखाविशेषाणामुच्छेदः; ते च पुनर्व्यासादिभिः क्वचित् कदाचित् प्रवर्त्यन्ते, इत्येतावता उच्छिन्नशाखामूलत्वमस्तु ।
उक्तं च भगवता आपस्तम्बेन— “तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते” इति ।
मन्वादिवचनप्रामाण्यं न्यायमन्तरेणापि श्रुत्यैव सिद्धम्— “यद्वै किञ्च मनुरवदत् तद्भेषजम्” इत्यादिभिः ।
एवं शिष्टाचारस्यापि— “यथा ते तत्र वर्तेरन्, तथा त्रत्र वर्तर्थोः” “यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि” इत्यादिभिः ।
स्मृतिश्च— “स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनाम्” इत्यादि ।
श्रुत्यैव धर्मनिर्णये सम्भवति किं धर्मशास्त्रेण ? इत्याशङ्क्याह मरीचिः — “दुर्बोधा वौदिकाः शब्दाः प्रकीर्णत्वाच्च ये खिलाः ।
तज्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः” ॥
इति सत्यपि धर्मशास्त्रे गृह्यापेक्षां दर्शयति देवलः— “मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः ।
तत्प्रयुक्तप्रयोक्तारो गृह्यकाराः स्वमन्त्रतः” ॥
इति ।
अतो धर्मशास्त्रगृह्यादिसापेक्षत्वं वेदार्थनिर्णयस्य ।
विरोधे च यथायोगं बलाबलव्यवस्था सिद्धा ।
भगवद्धर्मशास्त्रस्य तु पञ्चरात्रस्य श्रुत्यादिविरोधे षोडशिग्रहणादेरिव देशकालाधिकार्यवस्थाविशेषविषयतया विकल्प एव, श्रुतेरिवास्यापि दोषसम्भावनाविरहादिसिद्धेः ।
आहुश्चैवमभियुक्ताः— “वेदे कर्त्राद्यभावात्” इत्यारभ्य, “तस्मात् साङ्ख्यं सयोगं सपशुपतिमतं कुत्रचित् पञ्चरात्रं सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात्” ॥
इति ।
अन्यत्र च— उपनिषदि तु बह्व्यां व्यावघोष्यामदोष- प्रतिहतगुणराशिर्घुष्यते तार्क्ष्यकेतुः ।
श्रुतिरपि तदुपज्ञैः पञ्चरात्रैर्विकल्पं न लभत इति सूक्तं भाष्यकृद्यामुनार्यैः” ॥
इति ।
तदेतत् यामुनाचार्यैरागमप्रामाण्ये सम्भावितसमस्तपूर्वपक्षयुक्तिनिराकरणेन ।
प्रपञ्चितम् ।
तदनुसारेणैव भाष्यकारैः श्रीपाञ्चरात्राधिकरणं व्याख्यातम् ।
“श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ।
" इत्यादि वचनं तु त्रय्यन्तमूलतया एकायनश्रुतिमूलतया च योज्यम् ।
न चात्र वेदत्वे सन्देग्धव्यम्, “यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
महतो वेदवृक्षस्य मूलभूतो महानयम् ॥
स्कन्धभूता ऋगाद्यास्ते शाखाभूतास्तथा मुने ।
" इत्यादिवचनात् ।
तथा ऋग्वेदपाठे पठितम्— “व्रतमेतत् सुदुश्चरम्” इति संवादप्रदर्शनात्, वेदशाखाव्यासदशायां निरुक्तशाखाया अपि गणितत्वात्, भगवच्छास्त्रसारभूतसात्त्वतपौष्करादिषु रहस्याम्नायविधाने “एकायनीयशाखोक्तैर्मन्त्रैः परमपावनैः ।
" इत्यादिभिः तच्छ्रुतित्प्रतिपादनात् ।
अत्र भगवद्यामुनमुनिभिरेवोक्तो ग्रन्थो लिख्यते— “यदप्युक्तम्— “गर्भाधानादिदाहान्तसंस्कारान्तरसेवनात् भागवतानाम ब्राह्मण्यम्” इति, तत्राप्यज्ञानमेवापराध्यति, न पुनरायुष्मतो दोषः; यत एते वंशपरम्परया वाजसनेयशाखामधीयानाः कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते, ये पुनः सावित्र्यनुवचनप्रभृति त्रयीधर्मात्यागेन एकायनश्रुतिविहितानेव चत्वारिंशत्संस्कारान् कुर्वते, तेपि स्वशाखागृह्योक्तधर्मं यथावदनुतिष्ठमाना न शाखान्तरीयकर्माननुष्ठानात् ब्राह्मण्यात् प्रच्यवन्ते, अन्येषामपि परस्परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात्; सर्वत्र हि जातिचरणगोत्राधिकारादिव्यवस्थिता एव समयाचारा उपलभ्यन्ते ।
यद्यपि सर्वशाखाप्रत्ययमेकं कर्म, तथापि न परस्परविलक्षणाधिकारिसम्बद्धा धर्माः क्वचित्, समुच्चीयन्ते ।
विलक्षणास्त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्यस्त्रय्यन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्त्येकोपायकर्माधिकारिणो मुमुक्षवो ब्राह्मणाः, इति नोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठानमब्राह्मण्यमापादयति ।
यथा च एकायनशाखाया अपौरुषेयत्वम्, तथा काश्मीरागमप्रामण्यं एव प्रपञ्चितमिति नेह प्रस्तूयते ।
प्रकृतानां तु भागवतानां सावित्र्यनुवचनादित्रयीसम्बन्धस्य स्फुटतरमु पलब्धिर्न तत्त्यागनिमित्तव्रात्यत्वादिसन्देहं सहते” इति ॥
४५ चतुर्विधं चेदं पञ्चरात्रम्— आगमसिद्धान्तः, दिव्यसिद्धान्तः, तन्त्रसिद्धान्तः, तत्रान्तरसिद्धान्तश्चेति ।
चतुर्विधं चेदं वेदमूलभूतांशस्य उपबृंहणम्; तदभिप्रायेण ह्युक्तं महाभारते— “महतो वेदवृक्षस्य मूलभूतो महानयम् ।
" इत्यादि ।
चतुर्णां चैषां लक्षणादिकं श्रीपौष्करादिषु भगवतैव दर्शितम् ।
यच्च तेषु चतुर्षु साधारण्यासाधारण्यार्चोपसंहार्यानुपसंहार्यादिकं वक्तव्यम्, तत् सर्वं श्रीपाञ्चरात्ररक्षासिद्धान्तव्यवस्थायां सर्वपरामर्शेन साधितमस्माभिरिति तत्रैव तद्विस्तरः सात्त्वतधर्मगोप्तुरनन्यैरनुसन्धेय इति नात्र प्रब्रूमः ।
एवं स्थिते केचिद् बाह्लीकप्रायाः आगमबाह्याः श्रीमद्वैखानसप्रामाण्ये विशेरते ।
तत्र तावत् कल्पसूत्रं नाप्रमाणम्, इतरवदेव कल्पसूत्रत्वात्, तत्कर्तुश्च कल्पसूत्रकारत्वप्रसिद्धेः, वेदाविरुद्धत्वात्, वैदिकमन्त्रैरेव सकलधर्मविधानात्, सूत्रान्तराणामपि कुण्डसन्निवेशलक्षणादिषु क्वचित् क्वचित् तदुपजीवनात्, वर्णाश्रमधर्माणामनुकूलं नारायणपरत्वप्रतिपादनादेरपि सत्त्वमूलत्वेन प्रामाण्यैकहेतुत्वात्, “हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेष्वपि ।
ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु” ॥
इत्यादिना शौनकादिभिरपि तथैव विधानात्, वंशपरम्परया च वैखानसैरधीयमानतया विप्लवस्याप्यनवकाशत्वात् ।
अस्तु किमपि तत्, इदं तदिति किं नियाकममिति चेत्, इतरानुपलमः तदुपलम्भश्च, अन्यथा सर्वत्र श्रुतिस्मृत्यादीनां तथा तथा संशयप्रसङ्गात् ।
अस्त्विदमेव तत्, प्रमाणं च, तथापि भार्गवादिचतुष्कस्य कथं प्रामाण्यम् ? इति चेन्न, उक्तोत्तरत्वात्, महर्षिप्रणीतत्ववेदाविरुद्धत्वादेः समत्वात् ।
पञ्चरात्रविरोधोस्तीति चेन्न, तत्त्वे तदभावात्, कर्तव्यक्रियादिभेदस्यापि प्रतिनियताधिकारिविषयत्वेनैवोपपत्तेः, कल्पसूत्रप्रक्रियाभेदवत्, आगमदिव्यतन्त्रतन्त्रान्तररूपपञ्चरात्रावान्तरचतुष्कक्रियादिविभागवच्च ।
आश्वमोधिके श्रीवैष्णवधर्मशास्त्रे द्वितयमपि समप्रामाण्यतयोपात्तम् ।
द्वयोरपि परस्परप्रामाण्यम् “विष्णोस्तन्त्रं द्विधा प्रोक्तम्” इत्यादिषु व्यञ्जितम् ।
परस्पराक्षेपवचनानि तु इक्षुभक्षकृतिचिकीर्षुभिरसहिष्णुभिरुपक्षिप्तानि वा स्वशास्त्रप्रशंसार्थवादरूपाणि वेति न ततो विरोधः ॥
४६ ननु भार्गवादीनि न तावत् कल्पसूत्राणि, तथानभ्युपगमात्, अप्रसिद्धेः, अयुक्तेश्च, ।
न स्मृत्यन्तराणि, मन्वादिष्वपाठात् तद्वत् तत्प्रसिद्ध्यभावाच्चान च स्वतन्त्रतन्त्रान्तराणि, साङ्ख्ययोगादिसहपाठादर्शनात्, वैखानसानुवर्तनाच्च ।
तत् कतमां विधामवलम्ब्यामीषां प्रामाण्यमुच्यते ? ।
मन्वत्रिभार्गवादिवत् नारदीयादिवच्च धर्मशास्त्रतयैव तेषामपि प्रामाण्यम्, अष्टादशादिपरिगणनस्य उपलक्षणतायाः प्रामाणिकैरभ्युपगमात् ।
स्मृत्यन्तरेषु देवोत्सवादिप्रपञ्चनं नास्तीति चेत्, मा भूत् प्रपञ्चनम्, स्वरूपं तावदनुज्ञातं तत्प्रपञ्चपराणाम् ।
तथापि जीवानामन्ततोन्योन्यवैषम्यमात्रस्य च सार्वत्रिकत्वान्निकृष्टाधिकारिकाणि तानीति चेन्न, तेष्वन्येषु च ब्राह्मण्यैकप्रधानत्ववचतात्, तथोपलब्धेश्च ।
कथं तेषां ब्राह्मण्यमिति चेत्, शान्तं पापम् ।
श्रवसी पिदधीमहि ।
तथापि वक्तव्यम् ।
दृश्यन्ते ह्येते वंशपरम्परया वेदमधीयाना वेखानससूत्रोक्तवैदिकसकलसंस्कारशालिनो वर्णाश्रमधर्मकर्मठा भगवदेकान्ता ब्राह्मणाः ।
नूनममीषां ब्राह्मण्यैककारणेन भागवतत्वेनैव विपरीतं बम्भ्रमीति ब्राह्मणगर्दभः; अन्यथा वैखानसकल्पस्यापि निरधिकारित्वेनाप्रामाण्यप्रसङ्गः ।
अस्तु तत्प्रामाण्यम्; सन्तु च देशान्तरे कालान्तरे वा तदधिकारिणः; अमी तु कतमे ? इति चेत्, देशान्तरादावप्येवं वक्तुं शक्यत्वात्; विपरीतं वा कस्मान्न स्यात् ?; एवं च सति सूत्रान्तरादिष्वपि कः समाश्वासः ? ।
वैखानसानां निकृष्टजातित्ववचनविवादाभ्यां सन्देहविषयत्वमितिचेत्, आप्तग्रन्थस्थतादृशवचनाभावात्; भावेप्येतेषां निकृष्टजातित्वे प्रमाणाभावात्; आगमप्रामाण्योक्तसात्वतादिसमाख्यानिर्वाहसमत्वात्; न ह्यनेकार्थः शब्दो नास्ति, न च शब्दैक्यादर्थैक्यम्, शब्दभेदेनार्थभेदो वा; अन्यथा विलीनं तृतीयाश्रमेणापि; विवादस्य तुभवादृशजिह्वास्पन्दमात्राधीनस्य सूत्रगोत्रादावपि सुशकत्वात् ।
इतः पूर्वं तावन्नास्तीति चेन्न, अस्यापि विवादस्यानादित्वायोगात्, ततः पूर्वमभावात; तथा च भवतो भविष्यतो वा विवादस्य विवादत्वाविशेषात् ततः परं तेषामनाश्वासप्रसङ्गात् ।
अस्माकं तावत् तेषु संशयो नास्तीति चेत्, अस्माकं वा किमस्त्यमीषु ? ।
क्व तर्हि निकृष्टजात्यन्तरम् ? ।
किमस्मासु तन्न्यासीकृतम् ?; येनास्माभिः प्रदर्शनीयम् ।
न चास्माभिरनन्ता देशा द्रष्टुं शाक्याः ।
सम्भवति चोच्छेदः, इदानीं क्षत्रियवैश्यमाहिष्यादिवत् ।
तेषां केषां चिन्नामसाम्यमात्रादत्रानुप्रवेशः सम्भवतीति चेन्न, कस्या अपि शङ्कायाः सर्वत्र सुलभत्वात्; अस्ति च वर्णित्वभिक्षुत्वादीनां साम्यमन्यत्रापि ।
यश्चैवमतिशङ्कया दूयते, स तु स्वमातापितृचरितानवधारणेन स्वब्राह्मण्यमपि यथार्हमतिशङ्केतेति जितं लोकायतेन ।
उक्तं च भगवता— “अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोस्ति न परो न सुख संशयात्मनः” ॥
इति ।
तत् सिद्धं विशिष्टाधिकारिकं वेदाविरुद्धं वैखानसादिस्मरणं प्रमाणमिति ।
यच्च धर्मशास्त्रादिषु अष्टादशादिपरिसङ्ख्यानम्, न तदधिकसङ्ख्याव्यवच्छेदपरम्, अन्येषामपि शिष्टपरिग्रहादेरविशिष्टत्वात्, अनुक्तांशदर्शनादिना उपजीव्यत्वाच्चेति ।
एवं सपरिकरो वेदः प्रमाणमिति सिद्धम् ॥
“छन्दः पादौ शब्दशास्त्रं न वक्त्रं कल्पः पाणी ज्यौतिषं चक्षुषी च ।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्याहुरेतानि षट् च ॥
" एवं सपरिकरवेदार्थतत्त्वनिर्णयविषया “अथातो धर्मजिज्ञासा” इत्यारभ्य “अनावृत्तिः शब्दादनावृत्तिः शब्दात् इत्येवमन्ता विंशतिलक्षणी मीमांसा ।
“तत्र च संहितमेतच्छरीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः” इति भाष्योपात्तो वृत्तिग्रन्थः ॥
४७ तत्त्वरत्नाकरे त्वेवमुक्तम्— “कर्मदेवताब्रह्मगोचरा सा त्रिधोद्भभौ सूत्रकारतः ।
जैमिनेर्मुनेः काशकृत्स्नतो बादारयणादित्यतः क्रमात्” ॥
इति ।
अनयोर्देवताकाण्डस्य जैमिनीयत्वकाशकृत्स्नीयत्वोक्ती तादधीन्यादिविवक्षय समानार्थे गमयितव्ये ।
तत्र कर्मकाण्डार्थमेवं सञ्जगृहुः— “धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।
सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः” ॥
इति ।
“वेदार्थे न्यायचिन्त्ये प्रथममवसितं कर्म तद्देवता चा- थातः शारीरकांशे निरवधिकफलब्रह्मचिन्ता त्वसूत्रि ।
तत्राध्याये परस्मिन् स्वयमुपनिषदामन्वयोस्याविरोधो मोक्षोपायोथ मुक्तिर्विषयविषयिणौ सिद्धसाध्यौ द्विकार्थौ ॥
" “तत्राद्येत्यन्तगूढाविशदविशदतच्छायजीवादिवाचः पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः ।
दोषादोषौ तृतीयेप्यवरपरगतौ भक्तिरङ्गानि चाथो- पासानुष्ठाप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥
" विचारात् पूर्वमेवात्र प्राप्तमध्ययनं विधेः ।
अतोनधीतवेदस्य विचारः शास्त्रबाधितः ॥
क्रमो विंशतिलक्षण्या न वैधः किन्तु यौक्तिकः ।
अतो व्युत्क्रमचिन्तायामनौचित्यं प्रशिष्यते ॥
४८ एवं विंशतिलक्षणीश्रवणमननाभ्यां सुप्रतिष्ठितसमस्तशास्त्रार्थस्य मोक्षसाधनतया विधेयं निदिध्यासनं न वाक्यार्थज्ञानमात्रम्, तस्य रागप्राप्तश्रवणादिसिद्धत्वात् ।
अत एव च तस्मिन् विशेषे वेदनादिसामान्यशब्दपर्यवसानम् ।
न च निदिध्यासनादिकं निषिद्धम्, वरणीयत्वमेव विहितमिति वाच्यम्; स्वतन्त्रान्यकर्तृकवरणकर्मीभावस्यापुरुषतन्त्रेत्वेनाविधेयत्वात् ।
अतस्तद्धेतुना प्रीतिरूपत्वेन उपासनमेव विशिष्यते;तथा सति “भक्त्या त्वनन्यया” इति स्मृत्यविरोधश्च ।
तदेव च निदिध्यासनं प्रीतिरूपं प्रकरणविशेषात् समाधिः ।
च चाष्टाङ्गः शास्त्रेषु शिष्यते ।
तावति च पातञ्जलप्रामाण्यमपि ।
आगमशीलनं च आफलान्मात्रया अनुवर्तनीयम् ।
स्मरन्ति च— “स्वाध्यायाद्योगमासीत योगात् स्वाध्यायमाविशेत् ।
स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते” ॥
इति ।
यत् पुनः श्रूयते— “ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिम धान्यार्थी त्यजेद् ग्रन्थमशेषतः” ॥
इति, तत् कोशत्यागाभिप्रायम्; न च सादरपटुसंस्कारप्रचयसंसिद्धमेधासम्पदः पुरुषस्य कोशेन किञ्चित् साद्ध्यम् ।
मेधावीति च विशेष्वते ।
“धीर्धारणावती मेधा” इति च नैघण्टुकाः ।
अधीमहे च– “मेधामनीषे मा विशतां समीचीन भूतस्य भव्यस्यावरुद्ध्यै” इति ।
यद्धा मुक्तप्रायात्यन्तनिष्पन्नयोगपुरुषविषयमेतत्; न हि तस्य शास्त्रेण ज्ञातव्यं तदानीमस्ति, साक्षात्कृतसमस्ततत्त्वार्थत्वात् ।
यत्तु स्मर्यते— शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् ।
उपदेशाद्धरिं बुद्ध्वा विरमेत् सर्वकर्मसु” ॥
इति, इदं तु तीव्रसंवेगिनामलसास्तिकानां च ग्राह्मम्; बुद्धिचलनहेतूनामसच्छास्त्राणां त्यागार्थं वा; तदा विशेषणसाफल्यम्; धर्मविद्यास्थानेष्वपि हि बहिर्दलेष्वतिसंरम्भो मुमुक्षोरपोद्यते— “न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।
न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य” ॥
इति, तत् शाब्दं प्रमेयतत्त्वमधिजिगमिषतां प्रमाणेषु सारम्, तदभावे पुंसः पशुभिः समत्वप्रसङ्गात् इति ॥
यस्याज्ञा निगमैकहर्म्यवलभीवास्तव्यपारावती यद्भ्रूलास्यवशंवदा विधिशिवस्वस्थानसुस्थासिका ।
यः सर्वत्र यथापुरं वितनुते नामानि विश्वाकृति- र्नित्यं नः प्रतिभातु सर्ववचसां निष्ठा स नारायणः ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्तानचार्यस्य कृतिषुन्यायपरिशुद्धौ शब्दाध्याये द्वितीयमाह्निकम् ॥
समाप्तश्च तृतीयोध्यायः ॥