अथ शब्दाध्यायः ॥
१ अथानुमोदयं स्मृत्या हेतुत्वेनापि संस्थित्म् ।
मध्ये तयोरिहेतदानीं मानं शब्दं प्रचक्ष्महे ॥
अनाप्तानुक्तवाक्यजनितं तदर्थविज्ञानं तत् प्रमाणम्; कारणदोषबाधकादर्शनात् ।
नचानाप्तोक्तवाक्यं प्रमाणम्, कारणदोषबाधकदर्शनात्, न च वाक्यत्वादिभिर्बाधः; स्ववचनविरोधात् ।
यदि बाधकोपन्यासवाक्यमयथार्थम्, तदा कथं बाधः ।
अथ यथार्थम्, तस्यापि पक्षीकारे तद्बाधः ।
बहिष्कारे तेनैवानैकान्त्यम् ।
न चातिप्रसङ्गः; भ्रान्तादिवाक्यानां दोषमूलत्वस्य दुरपह्नवत्वात् ।
अत्र तु तदभावात् ।
उत्स्वप्नायितघुणक्षताक्षरादीनां तु विशिष्टतात्पर्यविरहेण बोधकत्वेप्यनाश्वसनीयत्वात्, व्यभिचारदर्शनाच्च ।
नित्येपि वेदे नित्येश्वरशासनात्मनि तत्तदर्थतात्पर्यानपायात् ।
तस्य चात्राभावात्, क्वाचित्कदोषदर्शनस्य च प्रत्यक्षादावपि असमत्वात्, स्वतः परतो वा प्रामाण्ये च ततो विशेषाभावात् ॥
२ तच्च वेद्यांशे प्रत्यक्षातिरिक्तम्, असाक्षात्कारित्वात्, अनुमानवत् ।
अनुमानातिरिक्तम्, पक्षलिङ्गपरामर्शाद्यदृष्टेः, पदवाक्यतत्सम्बन्धादीनां च विशिष्टवाक्यार्थं प्रत्यसिद्धव्याप्तिकत्वेनालिङ्गत्वात्, दृष्टान्ताभ्युपगमे सर्वत्राविशेषात्, व्युत्पत्तौ च स्वतन्त्रतयैव बोधकत्वसिद्धेः ।
अत एव वक्तृज्ञानानुमानाभ्युपगमेपि शब्दप्रामाण्यं सिद्धम् ।
आगमिकबुद्धिरनुमा, प्रत्यक्षेतरप्रमितित्वात्, सम्प्रतिपन्नवदिति चेन्न, उक्तोत्तरत्वात् ।
अन्यथा शब्दरसगन्धादि बुद्धिरनुमा, अचाक्षुषप्रमितित्वात्, सम्प्रतिपन्नवत्, इत्यपि प्रसङ्गात् ।
“प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
दृष्टानुमानागमजम्” इति मन्वादिमहर्षिसम्मतेश्च शब्दानुमानयोर्भेदोदृश्यते ।
न चात्र गोबलीवर्दनयः; अन्तर्भावादर्शनात् ।
आगामोनुमानम्, सम्बन्धग्रहणे सत्येव बोधकत्वादिति चेन्न; बोध्य बोधकभावातिरिक्तसम्बन्धग्रहणापेक्षिण्यनुमानत्वनियमात् ।
न चात्र तदतिरिक्तः सम्बन्धः, यद्ग्रहणं नियमेनापेक्ष्येत ।
अन्यथा सम्बन्धसापेक्षतया तयोः प्रत्यक्षत्वस्यापि सुसाधत्वादिति ॥
न च स्मृतिः; अपूर्वविषयत्वात् ।
पदसन्दोहविशेषो वाक्यम् ।
प्रामाणिकपदव्यवहारविषयः पदम् ।
तस्य सुप्तिङन्तत्वादिकल्पनयापि व्यक्तिः क्रियते ।
अत एव ह्यन्यथान्यथा प्रकृतिप्रत्ययादिकं व्याकरणान्तरेषु कल्प्यते ।
तच्च न साङ्केतिकम्; सङ्केतयितृपुरुषासम्भवात् ।
अत एव न भाषान्तरवत् तत्क्लप्तिः, नित्यवेदगतत्वाच्च ।
यानि वैदिकानि पदानि तान्येव लौकिकनीति “वेदशब्देभ्य एवादौ” इत्यादिवचनादपि सिद्धम् ।
भाषाच्छन्दसोस्तु कतिपयशब्दानां लक्षणभेदस्तत्तदानुपूर्वीप्रतिनियमापेक्षः ।
भाषाप्रयुक्तः सर्वोपि वेदे क्वापि प्रयोगवान् ।
वेदैकनियतः शब्दो नान्यत्रेति व्यवस्थितिः ॥
उक्तं चैतद्वेदार्थसङ्ग्रहेपि— “वैदिका एव सर्वे वाचकाः शब्दाश्च—” इत्यादिना ॥
३ वाक्यं द्विधा—पौरुषेयापौरुषेयभेदात् ।
पुरुषस्वातन्त्र्याधीनरचनाविशेषविशिष्टं पौरुषेयम् ।
तद्द्विधा, अन्वितार्थमनन्वितार्थं च, आद्यं यथा—अग्निरुष्णः, आपो द्रवाः, इति ।
द्वितीयं यथा—अग्निरनुष्णः, आपः कठिनाः, इति ॥
४ अत्रैकदेशिनो वदन्ति—अनन्वयाग्रहादन्वितव्यवहारः क्वचिज्जायत इति ।
अत एव लौकिकवाक्ये दृष्टव्यभिचारस्य न झटति वाक्याद्वाक्यार्थाध्यवसायः; योग्यताविमर्शसाकाङ्क्षत्वात् ।
सामान्ययोग्यताग्रहणेपि व्यक्तियोग्यतायाः वक्तृज्ञानानुमानमन्तेरणासिद्धेः—इति प्रमेयसङ्ग्रहादिषु समर्थितम् ।
तथा—सन्मात्रग्राहिप्रत्यक्षनिराकरणाय शास्त्रस्यानुवादकत्वप्रसङ्गे विवरणकारैरुक्तम्— “अबुद्धबोधनस्वरसस्य शब्दस्यातथात्वं दोष इत्यभिसन्धिः ।
अथवा अनुवादकत्वमेव स्यात् ।
न हि मानान्तरप्रतीतेर्थे शब्दः प्रमाणम् ।
तथैव हि तस्य व्युत्पत्तिः” इत्युक्त्वा “नन्वनुवादकतयैव व्युत्पत्तिः पुंवाक्येषु” इत्यादिना वक्तृज्ञानानुमानमुपपाद्य “सत्यम्, दैवात् तदनुवादकत्वमिति नाबुद्धबोधनस्वारस्यभङ्गप्रसङ्गः, यथा स्मृत्यनुमितवेदस्यानुवादकत्वेप्यर्थादिति न मानताभङ्गः” इत्यादि उक्तं च प्रज्ञापरित्राणे — “पौरुषेयगिरः शङ्काग्रस्ता न सहसा मितिम् ।
जनयन्ति न यावत् तन्मूलमानानवग्रहः ॥
अनुमाय च वक्तुस्तन्मूलयोग्यप्रमान्तरम् ।
तदुक्तवाक्यलिङ्गेन वाक्यार्थमनुजानते ॥
अन्वितार्थाभिधानाय योग्यं वाक्यमिदं सदा ।
असौ च नानृतं वक्ति सञ्ज्ञात्वार्थं तदब्रवीत् ॥
वक्तृज्ञानानुमानेन ज्ञाताज्ञातस्ववाक्यतः ।
अन्वितार्थाभिधायित्वयोग्यतामात्रधीर्गिराम् ॥
परामर्श इति प्राप्तो नार्थसंसर्गगोचरः ।
मानान्तराविरोधित्वं योग्यतेत्यभिधीयते ॥
नन्वेवं लौकिकं वाक्यं लिङ्गं चेल्लिङ्गवत् ततः ।
शब्दो गृहीतसम्बन्धात् तद्वदस्यापि लिङ्गता ॥
व्युत्पत्तिकाले व्युत्पित्सोर्लिङ्गधीर्नास्त्यसंशयात् ।
यथाव्युत्पत्तिशब्दास्तु बोधका इति चेदतः ॥
स्वत एवार्थबोधः स्यादिति नैवास्य लिङ्गता” ॥
इत्यादि ।
भगवद्यामुनमुनिभिस्तु आगमप्रमाण्ये वक्तृज्ञानानुमानं दूषितम् ।
निगमितं च ।
“तस्मादस्ति नदीतीरे फलमित्येवमादिषु ।
या सिद्धविषया बुद्धिः सा शब्दी नानुमानुकी” इति ।
अयमेव पक्षोनुसृतो वरदविष्णुमिश्रैः ।
तत्त्वरत्नाकरेप्यागमप्रामाण्यग्रन्थोपादानपूर्वकं प्रपञ्चितमेतत् ।
अपौरुषेयं तु सर्वमन्वितार्थमेवाकिन्तु आदित्यो यूपः– इत्यादिषूपचारतो निर्वाहः ।
आकाङ्क्षासत्तिवोग्यतावन्ति हि पदान्यन्वितमभिदधति, अन्वये वा विश्राम्यन्ति ।
आदित्ययूपपदयोः प्रत्यक्षसिद्धस्वार्थभेदयोरयोग्यतया मुख्यवृत्तिपरित्यागः ॥
५ वृत्तिर्द्विधा—अभिधोपचारभेदात् ।
व्युत्पत्तिसिद्धार्थ एव वृत्तिरभिधा ।
यथा सिंहशब्दस्पय मृगेन्द्रे ।
सा जातिगुणादिविषयभेदाद् योगरूढितत्समुच्चयभेदाच्च बहुविधा ।
मुख्यार्थबाधे सति तदासन्ने वृत्तिरुपचारः ।
आसत्तिश्च द्विविधा—मुख्यार्थसम्बन्धस्तद्गुणसम्बन्धश्चेति ।
तत्र पूर्वेण प्रवृत्तिर्लक्षणा, यथा—गङ्गायां घोषः प्रतिवसतीत्यत्र गङ्गशब्दस्य प्रवाहविशेषरूपवाच्यसम्बन्धिनि तीरे ।
एवं लक्षितलक्षणा ग्राह्या ।
द्वितीयेन प्रवृत्तिर्गौणी ।
यथा सिंहो देवदत्त इत्यत्र सिंह्मशब्दस्य शौर्यादिगूणण्योगिनि देवदत्ते ।
तत्त्वरत्नाकरे त्वेवमुक्तम्— “अभिधानाभिधेयत्वमतः शब्दार्थयोः स्थितम् ।
सम्बन्धोत्राभिधा द्वेधा बोध्या मुख्यजघन्यतः ॥
अभिधार्थावगत्यात्मा शब्दं व्यापारयिष्यतः ।
शब्दशक्तिनिमित्ता सा स्वार्थे मुख्याभिधीयते ॥
स्वार्थाभिधानद्वारा स्याज्जघन्यार्थान्तरे मता ।
" इति ॥
तद्विस्तरस्तत्रैव द्गष्टव्यः ॥
न च गौणलाक्षणिकप्रयोगयोरवाच्यविषयत्वादवाच्यत्वम् ।
सम्बन्धसादृश्यमात्रप्रवृत्तेप्यनादित्वात् ।
तत एव विवक्षितस्थले यथौचित्यं प्रयोगोपपत्तेः ।
एताः सर्वा अपि वृत्तयः अन्विताभिधानवृत्त्यन्तर्भूताः ।
पृथक्पदानां स्मारकत्वमेव ।
अभिहितान्वये हि पदानां पदार्थे पदार्थानां वावयार्थे पदानां च तत्रेति शक्तित्रयकल्पनागारैवं स्यात्, वाक्यार्थस्याशाब्दत्वप्रसङ्गो वा ।
पदार्थे लक्षणसमाप्तेः प्रमाणप्रसङ्गश्च ।
नचान्विताभिधानेन्योन्याश्रयणम्, मिथः स्मरणमात्रोपजीवनात् ।
यथाहुः— “पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ।
न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम्” ॥
इति ॥
नापि पौनरुक्त्यादिदोषः; तत्तदंशप्रतिनियतशक्तित्वात् ।
नापि वाक्यभेदः, एकप्रधानतया स्वार्थाभिधानात् ।
“पदार्थ एव वाक्यार्थः संसृष्टो ह्यभिधीयते” इत्युक्तं ।
तथा “नाना शब्दादिभेदात्” इत्याधिकरणे “यद्यपि ऽवेदऽ ऽउपासीतऽ इत्यादयः शब्दाः प्रत्ययावृत्त्यभिधायिनः, प्रत्ययाश्च ब्रह्मैकविषयाः; तथापि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादिविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्यवबोधिनः प्रत्ययावृत्तिरूपा विद्या भिन्दन्ति” इति ।
वेदार्थसङ्ग्रहेपि— “शोधकेष्वपि ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ ऽआनन्दो ब्रह्मऽ इत्यादिषु सामानाधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्ठैकार्थाभिधानमविरुद्धमिति सर्वविशिष्टं ब्रह्मैवाभिधीयते” इति ।
अत्रैव पूर्वभागे “समभिव्याहृतपदान्तरवाच्यान्वययोग्यमेवेतरपदप्रतिपाद्यमित्यन्विताभिधायिपदसङ्घातरूपवाक्यश्रवणसमनन्तरमेव प्रतीयते ।
तच्च स्वर्गसाधनत्वरूपम् ।
अतः क्रियावदनन्यार्थता विरोधादेव परित्यक्ता” इति ।
एषां स्वारस्यमन्विताभिधाने ।
न चात्र पराभ्युपगमेनोक्तमिति ज्ञापकमस्ति ।
वरदविष्णुमिश्रैरपि “सत्यज्ञानादिपदानामखण्डैकरसार्थत्वे अन्विताभिधानानुपपत्तेश्च” इत्यादिषु बहुषु प्रदेशेषु अन्विताभिधानमेव मायावादिनं प्रत्युक्तम् ।
उक्तं चागमप्रामाण्ये— “अन्यान्विताभिधानेपि व्यवहारोपपत्तितः ।
अवश्याश्रयणीयेयमन्वितार्थाभिधायिता” ॥
इत्यारभ्य, “तस्मादाकाङ्क्षितासन्नयोग्यार्थान्तरसङ्गते ।
स्वार्थे पदानां व्युत्पत्तिरास्थेया सर्ववादिभिः” ॥
इति ।
तत्त्वरत्नाकरेपि— “अवश्याश्रयणीयेयमन्वितार्थाभिधायिता ।
इत्याहुर्यामुनाचार्याः पदैरेवान्विताभिधाम् ।
" इत्यारभ्य प्रपञ्चेनोपपाद्योपसंहृतम्— “षड्भिः प्रतीतिप्रमुखोपपत्तिभि- र्निर्धूतचोद्याभिरिहान्विताभिधा ।
सिद्धा पदैर्नाभिहितान्वयस्थिति- र्विपर्ययादित्यखिलं समञ्जसम्” ॥
इति ॥
प्रज्ञापरित्राणन्यायसुदर्शनयोश्च बहुश उक्तम्— “अन्वितार्थाभिधायित्वं शब्दशक्तिनिबन्धनम् ।
व्युत्पत्त्यवगतं पुन्धीदोषतोस्य विपर्ययः” ॥
इत्यादिना ॥
नन्वभिहितान्वयद्योतकान्यपि वाक्यानि विद्यन्ते ।
वेदार्थसङ्ग्रहे तावत् “एवं बोधकानां पदसङ्घातानां संसर्गविशेष बोधनेन वाक्यशब्दाभिधेयानामुच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकः” इत्याद्युक्तम् ।
तथा तत्रैव “प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषणगर्भत्वात्, अनेकपदार्थसंसर्गबोधकत्वाच्च वाक्यस्य” इति ।
भाष्येपि “शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्, पदवाक्यरूपेण प्रवृत्तेः ।
प्रकृतिप्रत्यययोगेन हि पदत्वम्; प्रकृतिप्रत्ययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् ।
पदभेदश्चार्थभेदनिबन्धनः ।
पदसङ्घातरूपस्य वाक्यस्यानेकपदार्थसंसर्गाविशेषाभिधायित्वेन” इत्याद्युक्तम् ।
एवं व्युत्पत्तिनिरूपणे वेदार्थसङ्ग्रहे “सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणमत्यन्तसुकरम्” इत्युपक्रम्य, “अपवरके दण्डः स्थितः” इति वाक्ये यादृच्छिकव्युत्पत्तिप्रकारमुपपाद्य, “तथा बालः ऽतातोयम्, अन्बैषाऽ इत्यादिना बुद्धिपूर्वव्युत्पादनेन तत्तत्पदानां तत्तत्पदार्थेष्वेव बोधकत्वशक्तिग्रहणमुपपाद्य, पुनरपि “अस्य शब्दस्यायमर्थ इति पूर्ववृद्धैः शिक्षितः” इत्यादि चोक्त्वा, “एवमेव सर्वपदानां स्वार्थाभिधायित्वं सङ्घातविशेषाणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानाति” इत्याद्युक्तम् ॥
भाष्येपि प्रथमसूत्रपूर्वपक्षनिराकरणे— “एवं किल लौकिकाः शब्दार्थसम्बन्धमवधारयन्ति—मातापितृप्रभृतिभिः अम्बातातमातुलादीन्” इत्यादिना पदव्युत्पत्तिः पूर्वमुपपादिता ।
तत्र च “तेषु तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धनः इति निश्चिन्वन्ति” इत्याद्युक्तम् ।
पुनश्च “व्युत्पन्नेतरशब्देष्वस्य शब्दस्यायमर्थः इति पूर्ववृद्धैः शिक्षिताः” इत्यादि ।
यदिनामान्विताभिधानमभिमतम्; तदा कथमिव पदमात्रे व्युत्पत्तिः स्यात् ।
यदि च सा स्यात्, कथमन्वितमभिधेयम्, व्युत्पत्तिवैपरीत्यप्रसङ्गात् ।
तस्मान्नान्विताभिधानमेव सिद्धान्त इति निर्णेतुं शक्यम्, इति केचित् ॥
६ अन्ये तु “बोधकानाम्” इत्यादिवाक्यमन्विते संसर्गविशेषसिद्धेरुपपद्यते ।
पदवाक्यभेदाभिधानमपि तत्तद्विशेषवैशिष्ट्यप्रदर्शनमात्रार्थम्, पराभ्युपगमद्योतनार्थं वा ।
प्रत्येकपदव्युत्पत्त्यभिधानमप्यन्वितार्थबोधनोपयुक्तासाधारणद्वारप्रकाशनमात्रम् ।
पदार्थं स्मारयित्वैव हि पदानि वक्यार्थं बोधयन्तीत्युक्तन् ।
स्मृतेश्च स्वानुभूतिमूलत्वान्न शक्त्यन्तरकॢप्तिः ।
व्याख्यातं च भाष्यादिकमन्वितपरतया विवरणे श्रीराममिश्रैः ।
तथा षडर्थसङ्क्षेपेपि— “शब्दश्च स्वतः शक्यमन्विततया बोधयति, असम्भ्घवेर्थान्तरम्, इति हि व्युत्पत्तिः—” इत्याद्युक्तम् ।
अतोन्विताभिधानं सिद्धान्तः इति ।
एवमन्विताभिधानसामर्थ्याद्विशिष्टप्रतिपत्त्यन्यथानुपपत्तेश्च पदानामपि विशिष्टाभिधायित्वं सिद्धम् ॥
७ अत एव विशिष्टार्थाभिधायित्वेपि विशेषणमत्रे शक्तिः इत्यपि निरस्तम्; अभिधायित्वातिरिक्तशक्त्यन्तराभावात् ।
अपर्यवसानवचनमपि विशिष्टबोधनशक्तस्य विशेषणमात्रे स्थातुमशक्तत्वात् ।
विशिष्टानुप्रविष्टं हि विशेषणं परेपरञ्जकवेषमेवेति तादृगाकारो विशेष्यग्रहणमन्तरेण दुर्ग्रहः ।
तावता च तदर्थं विशेष्यग्रहणमिति व्यर्थं वचः ।
यथाप्रतीति व्यवस्थापनस्यैव युक्तत्वात् ॥
किं च— गवादिशब्दाभिहितगोत्वाद्यर्थस्वभावतः ।
व्यक्तिधीर्यदि तद्वत् स्यात् निष्कर्षकपदेष्वपि ।
गवादिशब्दा जात्यादीन् परतन्त्रान् प्रचक्षते ।
तेनाश्रयप्रतीतिश्चेत् तन्नः सिद्धः समीहितम् ।
परं कथमविज्ञाप्य पारतन्त्र्यस्य बोधनम् ।
विज्ञाप्य यदि शब्दस्य तत्र शक्तिर्न किं भवेत् ।
परस्य परतन्त्रेण तथा बुद्धेन बोधनम् ।
तद्बुद्ध्या परतन्त्रस्य बोधनेन्योन्यसंश्रयः ।
परधीनिरपेक्षं चेत् पारतन्त्र्यं प्रतीयते ।
न तेन परबुद्धिः स्यान्निष्कृष्टप्रतिपत्तिवत् ।
पारतन्त्र्यं स्वरूपं चेत् तुल्यं निष्कर्षकेपि तत् ।
अधिकं धर्मिनिष्ठत्वादन्यन्नोपलभामहे ।
पदान्तरपरामर्शनिरपेक्षप्रतीतिके ।
निरूढलक्षणावादाः पर्यायावृत्तिगोचराः ।
व्यक्तेर्गौरित्यनिष्कर्षान्निष्कर्षे त्वाद्यपेक्षणात् ।
निष्कर्षकेष्वदृष्टेश्च न जात्या व्यक्तिलक्षणा ।
आकृतावेव यः शक्तिं शब्दानामभिमन्यते ।
सत्तायामेव किं तेन सर्वेषां नाभ्युपेयते ।
अतो गवादिशब्देभ्यो विशिष्टविषया मतिः ।
शब्दशक्तिप्रसूतेति बलादभ्युपगम्यताम् ॥
८ यत्तु “न लोकव्युत्पत्तिहनिः, तत्रैव शक्तेः” इति षडर्थसङ्क्षेपे श्रीराममिश्रैरुक्तम्, तदपि तत्र शक्त्यभावप्रतिक्षेपपरम् ।
असमाप्तधीस्तु वेदान्ताश्रुतेर्भ्रमः ।
आपातव्युत्पत्त्या श्रुतेस्तत्पूर्तिरित्यनन्तरमभिधानात् ।
यच्चात्मसिद्धौ “यथा गवादिपदशक्तिरेकबुद्धिसिद्धेपि सामान्यविशेषात्मके वस्तुनि सामान्यांशेन सम्बध्यते” इति ।
तदपि पराभ्युपगतोदाहरणमन्यार्थम् ।
यथेति परसम्प्रतिपन्ननिदर्शनात् ।
गुणवाचिन्यपि पदे जातिशब्दोक्तनीतितः ।
अपृथक्सिद्धवाचित्वान्न युक्ता गुणिलक्षणा ।
स्वरलिङ्गविशेषोत्थमन्त्रलोपे न संस्क्रिया ।
विशिष्टवाचकत्वं तु तदाथत्तं न मन्महे ॥
९ अतो निष्कर्षकशब्दातिरिक्तानामपृथक्सिद्धविशेषणवाचिनां विशेष्यपर्यवसानव्युत्पत्तेः शरीरवाचिनां देवादिशब्दानामपि यथाप्रयोगं शरीरिपर्यवसानं सिद्धम् ।
अत एवचात्मपृथिव्यादिशब्दानामीश्वरपर्यन्तता ।
तेन “सर्वंस्वत्विदं ब्रह्म” “ज्योतींषि विष्णुः” “अयमात्माब्रह्य” “तत्त्वमसि"इत्यादिसामानाधिकरण्यं तत्तत्प्रकारकब्रह्मपरम् ।
नामरूपव्याकरणं च तदनुप्रवेशात् ।
अत एव च तस्य सर्वशब्दवाच्यत्वमपि श्रूयतेथ्; तदेव च व्यज्यते “तदनुप्रविश्य सच्च त्यच्चाभवत्” इति ।
स्मर्यते च— “सर्वं समाप्नोषि ततोसि सर्वः” इति ।
सूत्रितं च— “चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्” इति ।
उक्तं च वरदविष्णुमिश्रैः— “स्वर्गकामशब्देन काम्यमानस्वर्गः पुरुषोभिधीयते ।
न हीश्वरोवाप्तसमस्तकामः स्वर्गं कामयते, तस्यात्यल्पसुखत्वात् ।
अतो वाच्यैकदेशे जीवे लक्षणा, गङ्गाशब्दस्य तीर इव” इति ।
यद्वा स्वर्गकामादिशब्दानामपि जीवादिमात्रेपि मुख्यत्वमेव, प्रवृत्तिनिमित्तापरित्यागात् ।
अत एव हि भाक्तपदस्य भक्त्या व्यपदेशार्थत्वमपि भाष्यकारैरुक्तम् ।
विशिष्टवेषस्य शक्तिविषयत्वात् तत्त्योगे कथं न लक्षणेति चेत्, अपरित्यक्तप्रवृत्तिनिमित्तस्य व्युत्पत्त्यनुप्रविष्टमात्रबोधनं मुख्यता, तदभावकृत उपचार इति व्यवस्थानात् ॥
१० ननु “तत्त्वमसि” इत्यत्र त्वमिति श्वेतकेतुमात्रनिर्देशे तदसीति सामानाधिकरण्यायोगः ।
श्वेतकेतुशरीरकेश्वरनिर्देशे तदाभिमुख्येनोपदेशायोगः ।
तदुद्देशेन त्वमर्थविधानं चासिशब्दानन्वयादिना दूरनिरस्तम् ।
प्राप्तार्थतया निगमनरूपत्वेपिपव विशेषणविशेष्यभेदो निष्कर्षणीयः ।
एवम् “अहं ब्रह्मास्मि” इत्यादिव्यपदेशोपि दुर्निर्वहः ।
“जीवेनात्मना” इत्यत्राप्यात्मशब्देन जीवात्माद्यभिधानं षाष्यकारवचनविरुद्धम्, जीवेन मयेत्यादिव्यपदेशात् ।
परमात्माभिधाने तु तृतीयानुपपत्तिः, “व्याकरवाणि” इत्यभिहितत्वात् ।
क्रियाभेदेपि कृत्वादेरुत्तरक्रियैकरस्यात् कर्त्रन्तरायुक्तिः, समानकर्तृकत्वविरोधात् ।
करणत्वविवक्षया कर्तरि तृतीयायां मुख्यत्वहानिः ।
अतश्चारेणानुप्रविश्य परबलं सङ्कलयानीतिवज्जीवस्यवै प्रविशतिकर्तृत्वम्; परस्तु व्याकरणमात्रकर्ता ।
तावता तु शब्दानां न तत्पर्यन्तत्वसिद्धिः इति ॥
११ अत्रोच्यते सम्बुद्धिस्तावदत्र आत्मविद्योपदेशेन श्वेतकेतुमात्रपर्यवसितेति नासम्बोध्यसम्बोधनम् ।
वचनव्यक्तिश्च तदसीत्येव ।
तत्र कार्यकारणभावेन, शरीरात्मभावेन वा सामानाधिकरण्यनिर्वाहः ।
उभयत्र त्वंशब्दस्यापि तच्छब्दाभिहितद्रव्यपर्यवसानं सिद्धम् ॥
धर्मान्तरविशेष्यस्य धर्मान्तरविशेष्यतः ।
स्वस्मादभेदस्तादात्म्यं स्यादुपादानदेहिनोः ॥
अतस्त्वच्छरीरकं ब्रह्मेति विवक्षायां सत्यां त्वं तदिति निर्देशमात्रमुपपन्नम् ।
मध्यमपुरुषश्च त्वंशब्दप्रयोगनिबन्धनः, “युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः” इति विधानात् ।
अतः सोपि त्वंशब्दपर्यवसानविषयपर्यवसितः ।
यद्वा तत् त्वमसीत्येवान्वयोस्तु ।
न चोद्देश्यानुगुणा तिङ्विभक्तिरिति नियमः, उपादेयानुगुणलिङ्गवचनादिनिर्देशवदत्रापि विरोधाभावात् ।
प्रयुञ्जते च पतञ्जलिप्रभृतय उपादेयानुगुणामपि तिङ्विभक्तिम्— “स पुनरावृत्तः सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवतः” इत्यादिषु ।
एतेन “अहं ब्रह्मास्मि” इत्यादिकमपि निर्व्यूढम् ।
“जीवेनात्माना” इत्यत्राप्यनेन न्यायेन स्वशब्दपर्यायेणात्मशब्देन जीवशब्दस्य सामानाधिकरण्यं तावत् सिद्धम् ।
तृतीयानुपपत्तिस्तु स्वरूपतादात्म्यपक्षे पृथक्त्वपक्षे च समाना ।
अथांशभेदादिना विभज्य करणत्वादिविवक्षया कथञ्चिन्निर्वाहः, तथा विशिष्टाकारादिभेदविवक्षया विभज्यात्रापि निर्वाहमनुमन्येथाः ।
अतः श्रुत्यादिवाक्येषु विरुद्धार्थानुबन्धिनः ।
सामानाधिकरण्यस्य न स्वरूपैक्यनिष्ठता ॥
कार्यत्वादपृथक्सिद्धेराविशादनुकारतः ।
अस्तिसृष्ट्युपकारादेः सामानाधिकरण्यधीः ॥
न च त्वद्दृष्टः पुरुषः स्थाणुरितिवत् “पुरुष एवेदं सर्वम्” “तत्त्वमसि” इत्यादौ बाधार्थं सामानाधिकरण्यमिति वाच्यम्, मुख्यवृत्तिसम्भवे तदयोगात्, प्रपञ्चसत्यत्वादेश्चाबाधितप्रत्यक्षादिबलसिद्धत्वात् ।
चिदंशसामानाधिकरण्यं तु न बाधसहम्, त्वयापि तत्सत्यत्वाभ्युपगमात् ।
स्वरूपैक्यविधाने च विरुद्धधर्मप्रतिरोधात्, तत्परित्यागे पदयोरनतिरिक्तार्थतया पर्यायपदसामानाधिकरण्यप्रसङ्गात्, द्वाराभावेन मुख्यवृत्तिबाधापत्तेः, गत्यन्तरे च सम्भवति तदयोगात्, स्वरूपमात्रनिर्देशे च पदान्तरवैयर्थ्यात्, स्वरूपभेदस्य च बहुप्रमाणसिद्धत्वात् ॥
१२ “सत्यं ज्ञानम्—” इत्यादिलक्षणवाक्यमपि सत्यत्वादिविशिष्टैकविषयम्, तथैव सामानाधिकरण्यव्युत्पत्तेः ।
न चात्र विशेषणभेदाद्विविशेष्यभेदाप्रसङ्गः, विरुद्धविशेषणाभावात्; न हि घटपटादिष्विव विरोधः ।
यथा च प्रत्यक्षे नीलत्वोत्पलत्वादेरविरोधो दर्शनबलात्, तथात्रापि ।
न च सत्यत्वज्ञानत्वादेर्वैयधिकरण्यनियमो दृष्टः, येन विरोधः स्यात् ।
विशेष्यैक्यपरे तु सामानाधिकरण्ये विशेषणानां विशेषणविशेष्ययोश्च मिथो भेदो गुण एव ।
न च विशेष्यैक्यवद्विशेषणविशेष्यैक्यप्रसक्तिः, विशेषणानामैक्यप्रसक्तिर्वा, लक्षणाविरोधादिदोषात्, अतथाव्युत्पत्तेश्च ।
नापि विशिष्टे विशिष्टान्तरविधानाद्विशेषणानां मिथः समवायादिदोषः, युगपदनेकविशिष्टैकाभिधानात्, अनूद्य विधानेष्वपि यथा व्युत्पत्ति धर्मप्रधानत्वाच्च ॥
१३ न च विशेषणं सर्वं विशेषणान्तरासहम्, विरोधिमात्रविरोधित्वात्, अन्यथा प्रत्यक्षविरोधात् साध्यसाधकधर्मादिविशिष्टविषयानुमानाद्यनुदयप्रसङ्गात्, एवन्त्वादिदं विशिष्टबोधकं न भवतीत्यादि व्यवहारस्यापि विलोपः स्यात् ।
न च शब्दने प्रतिपादने तथा, अविशेषात्, प्रत्यक्षादिवच्छब्देनापि यथावस्तु बोधनीयत्वात् ।
विशेषणमात्रपरत्वं तु नाभ्युपगतमेव, येन विशिष्टैक्यासिद्धिः स्यात् ।
यस्य तु विशेष्यमात्रपरत्वम्, तस्य पर्यायतुल्यत्वात् पदान्तरवैयर्थ्यलक्षणभङ्गलक्षणादिदोषः, प्रवृत्तिनिमित्तानां विशेषणानां त्यागात्, विशेष्यमात्रस्य च द्वाररहितस्यालक्ष्यत्वात् ।
इतरव्यावृत्तीनां तूपलक्षणत्वे स्वरूपत्वे च पदान्तरवैयर्थ्यादिदोषः स एव ॥
१४ एवं तासां विशेषणत्वे पक्षान्तरवद्विशिष्टभेदादिदोषस्त्वदुक्त आपतेत्, न चेन्नान्यत्रापि ।
त्यक्तप्रवृत्तिनिमित्तस्य तद्विरोधिव्यावृत्त्यभिलाषस्त्वालोकमपहाय तिमिरनिराकरणवाञ्छा ।
विप्रतिपन्नं वाक्यमखण्डपरम्, समानाधिकरणवाक्यत्वात्, सोयं देवदत्तः इति वाक्यवत्, यद्वा लक्षणवाक्यत्वात्, प्रकृष्टप्रकाशश्चन्द्रः इत्यादिवत् इति चेन्न, दृष्टान्तासिद्धेः, तत्तेदन्ताविशिष्टस्यैव देवदत्तस्य सोयमिति प्रतीतेः ।
युगपत् तयोर्व्याघात इति चेन्न, यौगपद्यस्यानभिधानात्, अनाक्षेपाच्च ।
युगपत् प्रतिपत्तिस्तु न दोषः, अन्यथा प्रत्यभिज्ञाभङ्गे क्षणभङ्गनैरात्म्यापलापादिवादा विजयेरन् ।
तथाप्यतीतत्ववर्तमानत्वे कथमेकस्य ? इति चेत्, स्वप्रध्वंसकाले हि स्वयमतीतः स्यात्, न चासौ प्रध्वस्तः, वर्तमानत्वोपलम्भात्; अतीतोपाधिविशेषसम्बन्धितया हि तत्त्वम्, न त्वतीततया ।
कथमेकं पूर्वमपरं च ? इति चेन्न, प्रतिबन्ध्युपाधिभेदेनोभयोपपत्तेः, अन्यथा क्षणस्यापि पूर्वापरमध्यवर्तिनः क्षोदप्रसङ्गात्; न हि तस्य पूर्वस्मादपि पूर्वत्वमेव, उत्तरस्मादप्युत्तरत्वमेव वा ।
क्षुद्यतां क्षणोपीति चेन्न, सर्वापह्नवप्रसङ्गात्, इति ।
तिष्ठत्त्वेतत्; द्वितीयोपि दृष्टान्तो विशिष्टपर एव, अन्यथा व्यावृत्तप्रतीत्यनुदयप्रसङ्गात्, प्रकृष्टत्वादिविशेषणवैयर्थ्याच्च ।
एवं श्रुतिबाधोप्यनुमानयोर्वक्तव्यः, पर्यायतुल्यत्वादिप्रसङ्गलक्षणप्रतिकूलतर्कश्च ।
तथा विप्रतिपन्नं वाक्यं विशिष्टपरम्, आकाङ्क्षायुक्तवाक्यत्वात्, व्यधिकरणवाक्यवत्, इति बाधकमनुमानमपि, प्रतिपत्त्यनुरोधात् दृष्टान्तसिद्धेश्चास्य बलीयस्त्वम् ।
भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति शाब्दैरेवोक्तम् ।
तत्र भिन्नप्रवृत्तिनिमित्तानामिति पर्यायव्यावृत्तिः ।
एकस्मिन्निति व्यधिकरणानां घटः पटैत्याद्यनन्वितानां च व्यवच्छेदार्थम् ।
शब्दानाम् अर्थे इति च व्यक्त्यर्थमेव, अर्थे इति विशेष्यस्य प्रधानतया वाच्यत्वसूचनार्थं वा ।
तेन व्यधिकरणवाक्येष्वेकप्रधानार्थे वृत्तिसम्भवेपिव तस्य विशेष्यतवभावाद् व्यवच्छेद्यता ।
विशेष्यबोधनव्यापारो वृत्तिः प्रवृत्तिरिति च सामान्यतो विशेषतश्चात्रोच्यते ।
प्रकृष्टा हि वृत्तिः प्रवृत्तिः ।
प्रकर्षश्चात्र विशेष्यविषयतया ।
तत्र यदुपाधिका विशेष्ये शब्दवृत्तिः, तत् प्रवृत्तिनिमित्तम् ।
भिन्नविशेषणद्वारेणैकविशेष्याभिधानं सामानाधिकरण्यमित्युक्तं भवति ॥
१५ ननु पौरुषेयं सर्वमन्वितार्थमिति प्रतिपादितम्, तन्नोपपद्यते, गुणवद्वक्तृप्रणीतस्यैव वाक्यस्य तथात्वदर्शनात्, इति चेन्न, स्वतः प्रामाण्यात्, स्वरसतो हि सर्वं ज्ञानसबाधितव्यवहारजनकं दृश्यते ।
भेदाग्रहादिविशेषोपाधिकं हि क्वचिद् बाध्यव्यवहारहेतुत्वम् ।
ततः स्वाभाविकमपि प्रामाण्यं प्रतिबन्धकेन दोषेण क्वचिदपह्नुतम्; यथाग्नेरौष्ण्यम् ।
तत्र तदंशापेक्षया प्रामाण्यमेव ।
गुणास्तु सम्भावितदोषस्थले दोषनिराकरणौपयिकाः, प्रमाण्यस्य तैर्व्याप्त्यभावात्, नित्यसर्वज्ञवादिनां प्रमाणभूते तज्ज्ञाने व्यभिचारात् ।
अप्रामाण्यस्य तु दोषाधीनत्वमव्यभिचरितान्वयव्यतिरेकसिद्धम् ।
अवस्तुनोप्रामाण्यस्य कथं हेतुसाध्यत्वमिति चेन्न, संशयत्वविपर्ययत्वादिरूपस्य तस्यावस्तुत्वाभावात्, भावान्तरातिरिक्तस्य चाभावस्यास्माभिरनभ्युपगमात्, अभ्युपगमेपि प्रध्वंसस्य मुद्गरादिसाध्यत्वदृष्टेः ।
तद्वत् प्रमापि सम्यङ्मिथ्याबोधसाधारणादतिरिक्तसहिता जायते, कार्यत्वे सति तद्विशेषत्वात्, अप्रमावत्; प्रामाण्यं परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वात्, अप्रामाण्यवत्, इति चेत्, तत्र प्रथमे कृत्स्नप्रमापक्षीकारे हेतोः स्वमते भागासिद्धिर्ः, इश्वरप्रमाया नित्यत्वाभ्युपगमात् ।
अनीश्वरप्रमापक्षीकारे यावदीश्वरसिद्धि व्यर्थं विशेषणम् ।
रिश्वरानुमानसमनन्तरं प्रयोगः इति चेन्न, तस्य शास्त्रयोन्यधिकरणन्यायेनानुमातुमशक्यत्वात् ।
तर्हि विशेषणं न प्रयोक्ष्यामहे इति चेन्न, स्वाभिमतेश्वरप्रमयानैकान्त्यात् ।
अनभ्युपगतेश्वरैः सौगतादिभिरेवं प्रयोगे कः परिहारः इति चेन्न, श्रुतिसिद्धनित्यप्रमासमर्थनेन बाधस्यानैकान्तिकस्य वा वक्तुं शक्यत्वात् ।
श्रुतिसिद्धनित्यप्रमाव्यवच्छेदेन कार्यत्वविशेषणं सफलं स्यात् हि चेत्, तर्हि श्रुत्या तत्सिद्धिः श्रुतिप्रामाण्यनिर्णयमन्तरेण कथं स्यात् ? ।
तत्प्रामाण्यं च नित्यनिर्देषतयाभ्युपगम्यते चेत्, कथं तत्र परतः प्रामाण्येत्पत्तिः ? वक्तृगुणाधीनं वाक्यानां प्रामाण्यमिति हि वः सिद्धान्तः ।
निर्देषतैव गुणः, इति तदधीनतया तत्र परतः प्रामाण्यमिति चेन्न, प्रतिबन्धकाभावस्य परैः कारणत्वानभ्युपगमात् ।
अभ्युपगमे च तावन्मात्रधीनत्वेपि वेदापौरुषेयत्वनित्यत्वादेरविरोधात्; वेदपौरुषेयत्वादिसिद्ध्यर्थं हि वः परतः प्रामाण्यसमर्थनारम्भः ।
तदपौरुषेयत्वादिसिद्ध्यर्थमेव चास्माभिः स्वतः प्रामाण्यं प्रतिपाद्यते ।
अथाप्तोक्ततया वेदप्रामाण्यादीश्वरसिद्धौ तत्प्रमाव्यवच्छेदाय विशेषणमितीष्यते, तदपि न, परतः प्रामाण्ये निर्णीते वदेस्याप्तमूलप्रामाण्यसिद्धिः, तत्सिद्धौ चेश्वरसिद्धिः, तत्प्रमाव्यवच्छेदाय विशेषणम्, सविशेषणश्वासौ हेतुः परतः प्रामाण्यं साधयेत्, इति चक्रकाश्रयप्रसङ्गार्त् ।
इश्वरानुमानान्यथासिद्धिपरिहाराय परतः प्रामाण्यं न्यायकुसुमाञ्जलौ समर्थ्यते ।
तत्रैव च कार्यत्वविशेषणं प्रयुज्यते ।
न चासिद्धिव्यवच्छेदाय विशेषणं युक्तम्; सिद्धत्वे तु परतः प्रामाण्यसमर्थनस्य न तदर्थतेति दुस्तरता ।
तथापि शब्दप्रामाण्यं वक्तृगुणाधीनमिति चेन्न, विशेषकाभावात्, दोषसम्भावनास्थले च तदपेक्षणात्, वेदस्य चनिर्देषत्वात् ।
दोषाभावाधीनत्वे परतः प्रामाण्यं सिद्धमिति चेन्न, तदधीनत्वाभावात्, तस्य विरोधनिवृत्तिमात्ररूपत्वात् ।
अस्तु वा तदधीनत्वम्, तथापि वेदे तु न दोषः ।
गुणमन्तरेण दोषाभावो न घटत इति चेत्, अनुष्णाशीतस्पर्शवदुभयनिवृत्तेरपि दर्शनात्, उपपत्तेश्च ।
भावान्तराभाववादिनो दोषाभावोपि गुण एवेति चेन्न, स्वाभावान्तरेण तन्निर्वाहात् ।
न हि तस्यापि शीताभाव उष्ण एव, अनुष्णाशीते तदसिद्धेः ।
उभयसङ्ग्रहणेन हि शीताभावत्वम् ।
तद्वदत्रापि सगुणेष्वाप्तवाक्येषु वक्तृगुणरहितेषु वेदवाक्येषु च दोषाभावः समानः ॥
१६ ननु शब्दानां स्वतः प्रामाण्ये बुद्धादिवाक्यमपि स्वतः प्रमाणं स्यात् ।
न स्यात्, स्वतस्त्वस्योत्सर्गरूपत्वात्, विरोधिविशेषे च तस्याननुप्रवेशात् ।
उक्तं चागमप्रामाण्ये— “नैव शब्दे स्वतो दोषाः प्रामाण्यपरिपन्थिनः ।
सन्ति किन्तु स्वतस्तस्य प्रमाणत्वमिति स्थितिः ॥
वक्तुराशयदोषेण केषु चित्तदपोद्यते ।
अङ्गुल्यग्रे हि मातङ्गयूथमित्येवमादिषु” ॥
इति ।
किञ्च, नित्ये हेतुगुणापेक्षा वेदे नास्तीशबुद्धिवत् ।
हेत्वभावान्न दोषश्चेदूवक्त्रभावादिहापि नः ॥
अकारणं यथा ज्ञानं प्रमात्वमधिगच्छति ।
अकारणं तथा वाक्यं स्वतः प्रमितिकारणम् ॥
यदि हेतुगुणाभावादप्रामाण्यं प्रसज्यते ।
तदेश्वरप्रमायामप्यनिवार्यमिदं तव ॥
१७ अथैव ब्रूषे—कारणगुणदोषयोरभावे तत्प्रयोज्ययोः प्रामाण्याप्रामाण्ययोर्द्वयोरप्यसम्भवाद्रश्यन्तरायोगाच्च निःस्वभावत्वं वेदशब्दजन्यज्ञानानां स्यादिति; इदमपि तुल्यमीश्वरज्ञाने ।
हेतुनिवृत्तिस्तत्कार्यं प्रामाण्यं निवर्तयेत्, न तु नित्यमिति चेत्, अप्रामाण्यहेतुनिवृत्तिरपि तथैव ।
अतो विरुद्धस्वभावयोगः उभयपरित्यागान्निःस्वभावैतव वा स्यात् ।
एवमनीश्वरवादिनां सौगतादीनां शुद्धसंवित्सन्तानादिष्वधिपतिसहकार्यादिकारणतद्गुणादेरसम्भवात् स्वारसिकस्वात्मगोचरप्रामाण्यस्य चाभ्युपगमात् समाश्चर्चाः ।
यद्यपि पूर्वप्रत्ययस्यकारणत्वमिष्टम्, तथापि तस्यापवर्गदशास्थस्य गुणदोषादिरूपसमस्तसंस्कारप्रत्यर्थितया न तज्जन्यस्य गुणहेतुतेति ।
यच्च, प्रामाण्यं परतो ज्ञायते, इति प्रयुक्तम्, तत्र ज्ञानान्तरेण ज्ञानान्तरस्वभाववेदनाभ्युपगमात् सिद्धसाधनता ।
परत एवेति विवक्षायामीदृशं ज्ञानं प्रमेति लक्षणतः सर्वप्रमासङ्ग्राहिणि ज्ञाने पारमेश्वरे च विज्ञाने तदसम्भवः; न हि ताभ्यां स्वप्रमात्वं न गृहीतम्, लक्षणाव्याप्तिकिञ्चिज्ज्ञत्वादिप्रसङ्गात् ।
अतोन्यत्र परत एवेति नियम इति चेत्, तदपि न, तद्दृष्टान्तेनैव प्रतिप्रयोक्तुं शक्यत्वात्-विगीतं प्रामाण्यं स्वाधारेण ज्ञायते, प्रामाण्यरूपत्वात्, रिश्वरज्ञानादिप्रामाण्यवत् इति ।
कथं तर्हि इदं प्रमाणमप्रमाणं वेति संशयावकाशः ? इति चेन्न, विशेषतो गृह्यमाणेष्वपि संशयोत्पत्तिदर्शनात् ।
भवति मुहुः शुक्तिकारजतमोहादन्धीकृतधियः कलधौतेपि तथोपलभ्यमाने यथोपलम्भमिदं रजतमेव वा पूर्ववच्छुक्तिरजतं वेति पुरतः ।
तथात्रापि गृह्यमाणेपि प्रामाण्ये किमिदं प्रमाणमेव सत् प्रमाणतयोपलम्भते ? उत, बाधात् पूर्वभ्रमवदप्रमाणं सत् ? इति संशयो युक्तः ।
तथापि सन्देहसहेन किं स्वतोग्रहणेन ? निश्चयस्तु पराधीन एवेति चेत्, किमस्मदपेक्षया ग्रहणमग्रहणं वा नियन्तुं शक्यम् ? सिद्धो हि ग्रहणप्रकारः परीक्षकैरनुसरणीयः ।
सिद्धिरेव स्वतः कथमिति चेत्, इत्थम्—ज्ञानं स्वालम्बनं प्रकाशयत् स्वयमपि ज्ञानान्तरनिरपेक्षं प्रकाशते, इति तावत् सर्ववेदान्तिसम्मतम् ।
अस्वयम्प्रकाशवादेपि स्वग्राहिणानुव्यवसायेन प्रकाशमानो व्यवसायस्तावदसंशयात्मैव दृश्यते ॥
१८ स्मृत्यप्रामाण्यवादेप्यपूर्वार्थगोचरतया स्मृतिविलक्षणश्चाविपर्ययात्मा चाबाधात्मा च, वाधादेः पूर्वं तत्प्रसङ्गाभावात् ।
ततश्च यद्विषयतयायं व्यवसायः प्रथमं प्रतिभातः, तद्विषयतयैव परस्परपरिक्षोदात् पश्चादपि ।
अतो यत् तद्विषयत्वलक्षणं प्रामाण्यं पश्चात् तेनैव व्यवस्थाप्यते, तदादावेव गृहीतमिति स्वतः प्रामाण्यग्रहः ॥
१९ नन्वेवं संशयत्वादिलक्षणमप्रामाण्यमपि स्वयम्प्रकाशेनानुव्यवसायेन वा प्रथममवे ग्रहीतुं शक्यम्; तथापि विपर्ययत्वलक्षणं न तथा, गृह्यमाणवैपरीत्यस्य स्वेन स्वग्राहिणा वा प्रथममग्रहणात्, तस्मिन्नंशे च वैदिकानामविवादात्, तत्रेममंशमादायैव चान्ततः पस्वतः प्रामाण्यसमर्थनप्रवृत्तेः, तत्र दोषाभावादेवादावप्रामाण्यानुत्पत्तेः ।
तत एव चाप्रामाण्यप्रमित्यसम्भवात्, स्वत एव च प्रामाण्यप्रमितेरबाधाच्च इत्युच्यते, इति ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ शब्दाध्याये प्रथममाह्निकम्