॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
९ ॥
द्वितीयमाह्निकम् ॥
तदिहान्यथाख्यातिपक्षे विपर्ययस्य संशयस्य च व्यवच्छेदार्थम् “यथावस्थितव्यवहारानुगुणं ज्ञानम्” इति प्रमाणलक्षणे यथावस्थितादिविशेषणम् ।
अख्यातिपक्षे ऽपि तत्सामग्र्यनुप्रविष्टं ज्ञानं तचछब्देन व्यपदिश्यते ।
तच्च तत्राप्रमाणमिति लोकसिद्धत्वाद्व्यवच्छेद्यमेव ।
तत्रापि प्रत्येकांशे याथार्थ्यं न विहन्यते ॥
१० ॥
विपर्ययनिरूपणम् ॥
तत्राद्ये पक्षे अन्यस्य अन्यथाध्यवसायो विपर्ययः ।
द्वितीये तु पक्षे सामान्यतो धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधविरुद्धविशेषाध्यवसाय इति ॥
स चायमनेकविधः—एकानेकविरुद्धविशेषस्फुरणात् ।
तत्र एकविशेषस्फुरणं यथा— पीतः शङ्ख इत्यादि ।
अनेकविशेषस्फुरणं यथा—एकमेव भिन्नमभिन्नं चेत्याद्यनेकान्तवादिनाम्, प्रपञ्चः सद्विलक्षणो ऽसद्विलक्षणश्चेत्याद्यद्वैतवादिनाम् ।
परस्परविरुद्धानेकविशेषवतर् इदृशस्य विपर्ययस्य संशयाद्भेदो मिथोविरोधाभिमानविरहेण समुच्चिताध्यवसायः ।
धर्मविरोधे परस्पराविरुद्धानेकविशेषस्फुरणं यथा— विपुलत्वैकत्वविशिष्टे चन्द्रे अल्पत्वद्वित्वादिग्रहः ।
विपर्ययमेव धर्मान्तरधर्म्यन्तरभेदादन्यथाख्यातिविपरीतख्यातिभेदेन क्वचिद्व्यवहरन्ति ।
यथा पीतशङ्खरज्जुसर्पभ्रमौ ।
तयोश्च रजस्तमसी मूलमिति गीयते —
“यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥
अधर्मं धर्ममिति या मन्यते तमसा वृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी” ॥
इति ॥
यद्यपि रज्जुसर्पादिभ्रमे रज्जुत्वादिधर्मविपरीतसर्पत्वादिधर्माध्यास एव, तथापि स्वरूपनिरूपकधर्मत्वेनान्तरङ्गतया धर्मिवैपरीत्यव्यपदेशः ।
श्वैत्यादेस्तु निरूपितस्वरूपविशेषकत्वमेव ।
विवरणे त्वेवमुक्तम्— “त्रिविधमज्ञानम्—स्वरूपाज्ञानम्, अन्यथाज्ञानम्,विपरीतज्ञानमिति ।
स्वरूपाज्ञानं नाम वस्तुनो ऽप्रतिपत्तिः ।
अन्यथाज्ञानं वस्तुनो वस्त्वन्तरतया भानम्; यथा—शुक्तेः रूप्यतया ।
विपरीतज्ञानं तु यथावत् वस्तुनि भासमाने युक्तिभिस्तस्यान्यथोपपादनम्; यथा—ज्ञातृतया अहन्त्वेन आत्मनि भासमाने ऽपि कुयुक्तिभिरस्यभ्रान्तितोपपादनं कुदृशाम्” इति ।
अधर्मेन्द्रियदोषदुस्तर्काभ्यासदुर्व्याप्त्यनुसन्धानविप्रलम्भकवाक्यश्रवणादिभिस्तत्त्वाग्रहसहकृतैर्विपर्ययस्य यथासम्भवमुद्भवः ॥
११ ॥
संशयनिरूपणम् ॥
सामान्यधर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधप्रतिपन्नमिथोविरोधानेकविशेषस्फुरणं संशयः ।
यथा—ऊर्ध्ववस्तुमात्रग्रहणे सति तद्विरोधितयाननुसन्धीयमानयोर्मिथःस्फुटविरोधयोः स्थाणुत्वपुरुषत्वयोः स्फुरणम्—अयं स्थाणुर्वा पुरुषो वेति ।
मिथो विरोधाग्रहणे तयोर्विकल्पो न स्यात् ।
तत एव “डोलावेगवदत्र स्फुरणक्रमः” इत्येके, एकस्मिन् युगपदन्योन्यप्रतिक्षेपस्य धीविरुद्धत्वात् ।
अत्र “चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः ।
तस्यैव बहुभिर्युगपददृढसंयोगः संशयः” इत्यात्मसिद्धिग्रन्थो ऽपि न विरुद्धः; इतरथा ज्ञानार्थयोर्दृढादृढसंश्लेषनिरूपणानुपपत्तेः ।
युगपदिति तु शैघ्षमात्रपरम् ।
यौगपद्याभ्युपगमे ऽपि अदृढत्वं परस्परप्रतिक्षेपप्रकारविशेष एव; अन्यथा अयमूर्ध्वो वा स्थाणुर्वेत्यादिसंशयप्रसङ्गः ।
यद्यप्यविरुद्धेष्वपि केषुचिदधर्मादिमूलकविरोधग्रहणात् केषाञ्चिदीदृशो ऽपि संशयः सम्भवति; यथा— आत्मा ज्ञानं वा ज्ञाता वेति, ज्ञानं धर्मो धर्मि वेत्यादि; तथाप्याभिमानिकं परस्परप्रतिक्षेपित्वं तत्राप्यस्त्येव ।
अस्य च समानधर्मविप्रतिपत्तिभ्यामेवासाधारणकारणाभ्यामधर्मादिसहिताभ्यां यथासम्भवमुद्भवः ।
तदुक्तं तत्त्वरत्नाकरे— “कश्चैष संशयः कतिविधश्च? एकस्मिन् धर्मिणि विरुद्धानेकविशेषावभासः संशयः ।
स च द्विविधः—” इत्यादिना ।
तत्र समानधर्मः साधारणो धर्मः ।
तज्जनितो यथा—ऊर्ध्वत्वाविशेषात् स्थाणुर्वा पुरुषो वेति ।
अगृह्यमाणबलतारतम्यविरुद्धानेकज्ञापकोपस्थापनमिह विप्रतिपत्तिः ।
सा च सजातीयविजातीयाभासरूपद्वित्रिचतुरादिज्ञापकभेदाद्बहुप्रकारा ।
प्रत्यक्षतदाभासविप्रतिपत्तेः संशयो यथा— चक्षुषा समुखं प्रतिभाति दर्पणतलम्, स्पर्शनेन त्वन्यथा; किमिदं समुखं निर्मुखं वेति ।
अनुमानतदाभासविप्रतिपत्तेर्यथा— धूमवत्त्वात् पर्वतो ऽग्निमान्, निरालोकत्वादनग्निरित्यत्र साग्निरनग्निर्वेति ।
श्रुतिविप्रतिपत्तेर्यथा—भेदाभेदव्यपदेशाभ्यां जीवो ब्रह्मणो भिन्नो ऽभिन्नो वेत्यादि ।
वादिविप्रतिपत्तेर्यथा—वैशेषिकौपनिषदवाक्यद्वयश्राविणो मध्यस्थबुद्धेः किमिन्द्रियाणि भौतिकानि, आहङ्कारिकाणि वेति ।
एवं पामरादिवाक्यविप्रतिपत्तेरपि —नद्यास्तीरे फलानि सन्ति, न सन्ति वेत्यादि ।
प्रत्यक्षानुमानविप्रतिपत्तेर्यथा—चक्षुषा पीतशङ्खभ्रमे शङ्खत्वाच्च सितत्वानुमाने, किमयं शङ्खः पीतः सितो वेति ।
प्रत्यक्षागमविप्रतिपत्तेर्यथा—किमहमर्थः स्थूलो ऽणुर्वे ऽति ।
अनुमानागमविप्रतिपत्तेर्यथा — किं परमाणूपादानं जगत्, उत ब्रह्मोपादानमिति एषा दिक् ॥
केचित्तु विप्रतिपत्तिशब्दमात्रे मुह्यन्तो वादिविप्रतिपत्तिमेव विप्रतिपत्तिं मन्यन्ते, तदयुक्तम्, विशेषाभावात् ॥
यदुक्तं प्रज्ञापरित्राणे — “साधारणाकृतेर्दृष्ट्यानेकाकारग्रहात्तथा ।
विपश्चितां विवादाच्च त्रिधा संशय इष्यते” ॥
इति ; तदपि नूनं परानुकारमात्रम्, द्वितीयतृतीययोरकैराश्यात् ग्राहकावान्तरभेदस्यातिप्रसङ्गित्वात् अप्रयोजकत्वाच्च ।
अत्र चानेकाकारग्रहो नानाकारग्रहो विवक्षितः, न त्वनेकव्यावृत्तासाधारणाकारग्रहः, अनन्तरम् “अर्थेष्वेष्वविशेषेण द्व्याकारग्राहिधीद्वयम् ।
" इत्यादिना तस्यैवोदाहरणात् ॥
असाधारणधर्मादपि केचित् संशयमाहुः; यथा—गन्धवत्त्वात् पृथिवी नित्या अनित्या वेत्यादि ।
अत्र गन्धवत्त्वस्य नित्यात्मादिव्यावृत्तेः कृतकत्वादिवदनित्यत्वस्मारकत्वम्, अनित्याबादिव्यावृत्तेर्निरवयवत्वादिवन्नित्यत्वस्मारकत्वमिति विरुद्धविशेषद्वयान्वितसमानधर्मस्येव तदुभयव्यावृत्तासाधारणधर्मस्यापि संशयहेतुत्वमुपपन्नमिति, तदयुक्तम्; न हि तत्र गन्धवत्त्वादिना संशयोत्पत्तिः, अपि तु व्यतिरेकनिरूपणविलम्बाप्रागेव गन्धादिविशिष्टद्रव्यस्य नित्यानित्यसाधारणतया भासमानैर्द्रव्यत्वादिभिरेव ।
तत्रान्यतरशिरोनिर्णिनीषया विशेषकधर्मचिन्तायां तु गन्धवत्त्वमुभयानन्वितत्वादुभयोरप्यनिष्कर्षमित्येतावदेव चिन्त्यते ।
केवलव्यतिरेकिभङ्गे चैतद्विशदं भविष्यति ।
गन्धवत्त्वात् पृथिवी नित्या वा अनित्या वेति तु यदा कश्चिद्व्यवहरेत्, तत्रापि गन्धवत्त्वं नित्यत्वानित्यत्वयोरन्यतरस्य प्रयोजकं न वा इत्येव सन्देहः ।
सो ऽपि धर्मत्वादिलक्षणसमानधर्मादेव ।
अथ नित्यव्यावृत्तधर्मवत्त्वादनित्यत्वम् अनित्यव्यावृत्तधर्मवत्त्वाच्च नित्यत्वं पुरस्कृत्य नित्या अनित्या वेति संशते; तदापि हेतुभूतधर्मद्वयनिमित्तो ऽयं संशयः ।
न ह्येक एवात्र हेतुः ।
गन्धस्तु तत्र सामान्यरूपस्तटस्थः; न तु हेतुः ॥
विप्रतिपत्तिमपि केचित् समानधर्म एवान्तर्भावयन्ति ।
यथा हि ऊर्ध्वत्वमुभयसाधारणम्, तथा वादिपरिगृहीतत्वादेरपि साधारणत्वात् विमतिविषयस्य धर्मिणो वा सामान्यवेषस्य तदुभयसाधारण्यादिति ।
तथापि साधारणधर्मस्य सहानुभूतस्थाणुत्वपुरुषत्वस्मारकत्ववत् विप्रतिपत्तेरपिसमानधर्मोन्नीतिनिरपेक्षाया एव तदुपजीव्यतया तत्पूर्वभाविन्याः साक्षात्तद्विशेषस्मारकत्वसिद्धेर्द्वैधमुक्तमस्माभिः ॥
पुनश्चायं द्वित्रिचतुरादिशिरोधिकरणभेदाद्बहुविधः; यथा— अयं स्थाणुर्वा पुरुषो वेति, घटः सत्यो ऽसत्यो निर्वचनीयो ऽनिर्वचनीयो वेत्यादि ।
तथा इमौ स्थाणू वा पुरुषौ वा, एते पदार्थाः सत्या असत्या निर्वचनीया अनिर्वचनीया वेत्यादि ।
यस्तु द्वयोरन्यतरस्य चोरत्वे सिद्धे अयं चोरः अयं वा चोर इति सन्देहः, स तु अयं चोरो न वा इत्येवंरूपसंशयद्वयसमाहारः ।
यद्वा यश्चोरः, सः अयम् अयं वा इत्येक एव ।
अथ वा चोरत्वमेतन्निष्ठम् एतन्निष्ठं वेति ।
यद्यप्युभयव्यतिरिक्तपुरुषचोरत्वाभावो तयोरन्यतरस्य चोरत्वे वा तात्पर्यान्निर्णयगर्भत्वम्, तथापि उभयोरन्यतरविशेषनिर्णयाभावात् तस्मिन्नंशे संशय एव ।
न चैकस्यापि ज्ञानस्य संशयनिर्णयात्मताविरोधः, सर्वस्मिन्नपि संशये धर्म्यशादौ निर्णयस्य दुस्त्यजत्वात् ॥
पुनर्द्विविधो ऽयम्— अन्यतरकोटिपरिशेषयोग्यत्वतदयोग्यत्वभेदात् ।
पूर्वो यथा–स्थाण्वात्मके वस्तुनि स्थाणुः पुरुषो वेति ।
उत्तरस्तु पलालकूटे द्विरदो गिरिशिखरं वेति ।
तत्र निरूपकाणां प्रायशः पूर्व एव भवति ।
तेनैव च प्रवृत्तस्य पाक्षिकोर्ऽथलाभः ।
यद्वा निरीहस्यैव कदाचित् द्वितीयेन संशयेन विपर्ययेण च प्रवृत्तस्य दैवात् तदातनार्थसन्निपातेनाभिमतलाभ इति ॥
पुनरपि इमौ संशयविपर्ययौ सामान्यधर्मिणो विशेषाणां चानुभूयमानत्वस्मर्यमाणत्वादिभेदात् बहुविधावूहनीयाविति ॥
किंसज्ञको ऽयं वृक्ष इत्येवमादिरूपो ऽनध्यवसायो नामान्यो ज्ञानविशेष इति केचित्; तदसारम्, तस्य सञ्ज्ञादिविशेषसन्देहसमनन्तरभावितद्विशेषबुभुत्सात्मकत्वात् ।
अथवा अवच्छेदकादर्शनादनवच्छिन्नकोटिविशेषः संशय एव ॥
ऊहस्तु प्रायः पुरुषेणानेन भवितव्यमित्यादिरूप एककोटिसहचरितभूयोधर्मदर्शनादनुत्कटान्यकोटिकः स एव ।
प्रायः पुरुषेण भवितव्यमिति पुरुष एवेत्यभिप्रायश्चेत् यथोचितं प्रत्यक्षानुमानादिष्वनुप्रवेशः ।
तर्करूपमूहं तु अनुमाने वक्ष्यामः ॥
त्रिविधं प्रमाणम्—प्रत्यक्षानुमानशब्दभेदात् ।
भगवतामनुनाप्युक्तम् — “प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सता” ॥
इति ॥
आह च भगवान् शौनकः— “दृष्टानुमानागमजं ध्यानस्यालम्बनं त्रिधा ।
" इति ।
भाष्यकारेण च प्रत्यक्षादित्रयं स्वशब्देनोपादाय “प्रमाणसङ्ख्याविवादे ऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः” इत्यन्येषामनादरः कृतः ।
सर्वाभ्युपगतप्रमाणानामिति च पराभ्युपगममात्रं द्योतयति, तत्र प्रतिवादिनः षट्प्रमाणाभ्युपगमात् ।
प्रत्यक्षानुमानागमानामेव च मिथो भेदो वेदार्थसङ्ग्रहे विशदमुपपादितः ॥
यत्तु “मत्तः स्मृतिज्ञार्नमपोहनं च” इत्यत्र भाष्यम्— “ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः” इति, तत्रापि योगजस्य प्रत्यक्षस्य प्राधान्यात् पृथग्व्यपदेशः ।
अन्तर्भावं च वक्ष्यामः ।
उक्तं च श्रीविष्णुचित्तैः प्रमेयसङ्ग्रहे— “प्रमाणसङ्ख्याविवादे ऽपीत्यत्र त्रिप्रमाणत्वं भाष्योक्तम्” इति ।
भाष्ये च केषुचित् कोशेषु यथार्थख्यातिसमर्थनदशायाम्— “अथवा किमनेन बहुनोपपादनप्रकारेण ।
प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तनिखिलदोषगन्धमनवधिकातिशयासङ्ख्येयकल्याणगुणगणं सर्वज्ञं सत्यसङ्कल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति किं नोपपद्यते—” इत्यादिः पाठो दृश्यते ॥
यद्यपि स्मृतिरपि यथार्था प्रमाणमिति वक्ष्यते, तथापि प्रत्यक्षादिमूलतया तदविशेषात् पृथगनुक्तिः ।
उक्तं च तत्त्वरत्नाकरे — “प्रत्यक्षादिमूलानां स्मृतीनां स्वस्वमूले ऽन्तर्भावविवक्षया प्रमाणत्रित्वाविरोधः ।
चतुष्ट्वे च वैदिकानुवादो दर्शितः” इति ।
स चाचमनुवादः पूर्वोपात्तः— “स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्” इति प्रत्यक्षाद्यविशेषेण वेदानुवादाच्च—इति ।
प्रज्ञापरित्राणे तु स्मृतिप्रामाण्यानभ्युपगमे ऽपि ज्ञानस्य तावत् करणभेदाच्चातुर्विध्यमेवोक्तम्— “तत्रेन्द्रियार्थसम्बन्धो लिङ्गशब्दग्रहौ तथा ।
संस्कारोन्मेष इत्येते संविदां जन्महेतवः” ॥
इति ॥
यत्तु तत्रैव— “स्वयंसिद्धिस्तथा दिव्यं प्रत्यक्षमनुमागमः ।
पञ्च सन्ति प्रमाणानि जैमिनिव्यासयोर्हृदि” ॥
इत्यादिना स्वयंसिद्धिदिव्ययोः पृथङ्निरूपणं कृतम्, तत् प्रत्यक्षावान्तरवैरूप्यबोधनाभिप्रायम् ।
यथोक्तं श्रीविष्णुचित्तैः—“भगवत्प्रसादलब्धयोगिप्रत्यक्षं दिव्यम्” इति ॥
१२ ॥
प्रत्यक्षलक्षणम् ॥
तत्र साक्षात्कारिप्रमा प्रत्यक्षम् ।
साक्षात्त्वं च जातिरूप उपाधिरूपो वा कश्चित् ज्ञानस्वभावविशेषः स्वात्मसाक्षिकः ॥
ज्ञातकारणजज्ञानस्मृतित्वरहिता मतिः ।
अपरोक्षेति निष्कर्षे नाव्याप्यादिप्रसञ्जनम् ॥
प्रमेयसङ्ग्रहे त्वेवमुक्तम्— “साक्षादनुभवः प्रत्यक्षम् ।
साक्षात्त्वं जातिः—” इत्यादि ।
तत्त्वरत्नाकरे ऽप्येवमुक्तम्— “अपरोक्षप्रमाध्यक्षमापरोक्ष्यं च संविदः ।
व्यवहार्यार्थसम्बन्धिज्ञानजत्वविवर्जनम्” ॥
इति ॥
पारोक्ष्यं चैवमुक्तम्— “पारोक्ष्यं व्यवहार्यानन्तर्गतवस्तुवेदनापेक्षा ।
तदनन्तर्गतलिङ्गाद्यपेक्षा पारोक्ष्यमनुमादौ” इति ।
वरदविष्णुमिश्रैर्मानयार्थात्म्यनिर्णये त्वेवमुक्तम्— “अपरोक्षप्रमा प्रत्यक्षम् ।
प्रमाया आपरोक्ष्यं नाम विशदावभासत्वमिति ब्रूमः ।
किमिदं वैशद्यं नाम ? असाधारणाकारेण वस्त्ववभासकत्वम्–” इत्यादि ॥
साक्षात्त्वं द्विधा—नित्यं चानित्यं चर् ।
इश्वरनित्यज्ञानादिनिष्ठं नित्यम् ।
अस्मदादिज्ञाननिष्ठं त्वनित्यम् ।
अस्मदादिप्रत्यक्षं द्विधा— योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति ।
तत्र योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजम् ।
तत् युक्तावस्थायां मनोमात्रजन्यम् ।
वियुक्तावस्थायां तु बाह्येन्द्रियजन्यमपि ।
तच्च बुभुत्सादिप्रतिनियतमागमैकसिद्धं च ।
भावनाबलजमात्रं जगत्कर्तरि प्रत्यक्षं प्रतिक्षिप्तं शास्त्रयोन्यधिकरणे, अन्यत्र भाष्यकारैरेव साक्षाद्योगिप्रत्यक्षस्य कण्ठोक्तेः, तस्य सम्भवतो ऽप्यागमिकेश्वरज्ञानमूलस्यागमानुवादत्वापादनाशक्त्या तत्रौदासीन्यात्, धर्मादयः कस्यचिदिन्द्रियग्राह्याः, प्रमेयत्वात्, घटवत्, मीमांसकानामप्रत्यक्षत्वाद्वा, अस्मत्सुखादिवदित्याद्यनुमानानां विपक्षे बाधकविरहादिभिराभासत्वात्, आगमबाधप्रसङ्गस्यैव पुरस्कारे त्वागमेनैव चरितार्थत्वात्; अन्यथा धर्मादयः कस्यचिच्चक्षुर्ग्राह्या इति वदतो बौद्धस्य किं प्रतिवक्ष्यसि ।
यश्चानुव्यवसाये सविषयव्यवसायप्रत्यक्षतामिच्छति, तस्यास्मदादिष्वपि धर्मादिव्यवसायानुव्यवसाये धर्मादिप्रत्यक्षत्वसिद्धौ कथं तदतिरिक्तयोगिप्रत्यक्षानुमासिद्धिः ।
तद्व्यवच्छेदेन प्रयोगे ।
अपि सौगतोक्तचाक्षुषत्वादिसाधनप्रसङ्ग स्यादिति ।
स चादृष्टविशेषो योगाभ्यासतपश्चार्यादिभिर्जायते ।
तस्मादार्षाभिमतमपि प्रकृष्टादृष्टजत्वाविशेषात् तत्रैवान्तर्भूतम् ।
यथोक्तं प्रज्ञापरित्राणे — “अत्रेन्द्रियानपेक्षं यज्ज्ञानमर्थावभासकम् ।
दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥
परमेश्वरविज्ञानं मुक्तानां च धियस्तथा ।
सञ्जयार्जुनवाल्मीकिप्रभृत्यार्षधियो ऽपि तत्” ॥
इति ॥
इन्द्रियानपेक्षमिति—अदिव्येन्र्दियानपेक्षमित्यर्थः ।
अत एव हि गीयते— “दिव्यं ददामि ते चक्षुः—” इत्यादि ।
यद्वापरमेश्वरादिविज्ञानसहपाठादिभिस्तथैव मन्तव्यम् ।
अनन्तरं चैवमुक्तम्—- “स्वाभाविकस्य ज्ञानस्य स्वतः सर्वावभासिनः ।
अविद्याप्रतिबन्धस्य प्रतिबन्धो ऽक्षयोगतः ।
अविद्याहानितो मुक्तपुरुषाणां हि संविदाम् ।
स्वाभाविकस्वरूपेण निखिलार्थावभासिता ॥
प्रतिबन्धकभावस्य प्रत्युत्तम्भकभाविना ।
परेणानुगृहीता धीरृषीणां सर्वभासिका” ॥
इति ॥
मानसप्रत्यक्षमप्यस्मदादीनां नास्त्येवेति वृद्धसम्प्रदायः, आत्मस्वरूपस्य तद्धर्मभूतज्ञानस्य च स्वयम्प्रकाशत्वात्, सुखदुःखेच्छाद्वेषप्रयत्नानां तत्तद्धेतुतयाभिमतज्ञानविशेषानतिरेकस्य वेदार्थसङ्ग्रहे समर्थितत्वात्, नित्यत्वादिविशिष्टास्मदाद्यनुभवस्य शास्त्रादिप्रसिद्धत्वात्, पूर्वानुभवादिज्ञानस्य स्मृतिरूपत्वात्, “आत्मसुखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः” इति शास्त्रयोन्यधिकरणभाष्यस्यान्वारोहेणाप्युपपत्तेरिति ॥
ततश्चादिव्यबाह्येन्द्रियप्रसूतं ज्ञानमयोगिप्रत्यक्षम् ।
तत् सामान्यादृष्टालोकविशेषादिसहकृतेन्द्रियजन्यं दृष्टसामग्रीविशेषात् प्रतिनियताविषयम् ।
तत् श्रोत्रादीन्द्रियासाधारणकारणभेदात् पञ्चधा ॥
विषयेन्द्रियसम्बन्धश्च—द्रव्येषु संयोगः, द्रव्याश्रितेषु रूपादिषु तु संयुक्ताश्रयणम् ।
यथोक्तं तत्त्वरत्नाकरे— “अत्र वृद्धा विदामासुः संयोगः सन्निकर्षणम् ।
संयुक्ताश्रयणं चेति यथासम्भवमूह्यताम्” ॥
इति ॥
पुनः प्रत्यक्षं द्विधा—सविकल्पकं निर्विकल्पकं चेति ।
सप्रत्यवमर्शं प्रतयक्षं सविकल्पकम् ।
तद्रहितं प्रत्यक्षं निर्विकल्पकम् ॥
१३ ॥
नैयायिकनिर्विकल्पकनिराकरणम् ॥
उभयविधमप्येतद्विशिष्टविषयमेव ।
अविशिष्टवस्तुग्राहिणो ज्ञानस्यानुपलम्भात् अनुपपत्तेश्च ।
बालमूकतिर्यगादिविज्ञानमपि हि सञ्ज्ञाविकल्परहितमपि विशिष्टवस्तुविषयमेव, अन्यथा तेषां हेयोपादेयविभागपूर्वकप्रवृत्तिशेषानुपपत्तेः ।
विप्रतिपन्नं विशिष्टज्ञानं विशेषणज्ञानपूर्वकम्, विशिष्टज्ञानत्वात्, सुरभि चन्दनमित्यादिविशिष्टज्ञानवदिति चेन्न, एकसामग्रीवेद्यविशेषणेषु तन्निरपेक्षत्वात्, स्वरूपसम्बन्धपक्षे स्वरूपग्रहेणैव सम्बन्धस्यापि ग्रहणात्, तावतैव विशिष्टग्रहणसिद्धेः, समवायवादे ऽपि तस्यैव गृह्यमाणस्य विशेषणविशेष्यभावरूपत्वात्, समवायविशिष्टप्रत्यये तथैवाभ्युपगमात्, तद्वैशिष्ट्यग्रहे च गुणवैशिष्ट्यग्रहस्यावर्जनीयत्वात् ।
न च समवायस्य सविकल्पकैकविषयतेति वाच्यम्, निर्विकल्पके धर्मवद्धर्मिवच्च तत्सम्बन्धस्याप्यैन्द्रियिकत्वाविशेषेण ग्रहणसम्भवात्, योग्यस्य सन्निकृष्टगृह्यमाणसम्बन्धिनः सम्बन्धस्याग्रहणानुपपत्तेः, अन्यथा नित्यं तदग्रहापातात् ।
प्रथमाक्षसन्निपातजा बुद्धिर्विशिष्टविषया, बुद्धित्वात्, सम्प्रतिपन्नवत्, इत्याद्यपि चिन्त्यम् ॥
१४ ॥
सविकल्पकनिरूपणम् ॥
न च सविकल्पकं न प्रत्यक्षमिति वाच्यम्, साक्षात्काराबाधाद्यविशेषात् ॥
सहकारिविशेषेण न वैजात्यं प्रसज्यते ।
तज्जातीये तु यत्किञ्चिद्वैषम्यं सम्भवेदपि ॥
यत्र दृश्येत वैजात्यं तथा तत्राभ्युपेयते ।
तावता नैव सर्वत्र भवेदेतस्य कल्पनम् ॥
केवलेन्द्रियजं चापि न किञ्चिज्ज्ञानमिष्यते ।
सहकारिविशेषां हि विभिद्यन्ते प्रतीन्द्रियम् ॥
अतः संस्कारसम्भेदे ऽप्यपरोक्षत्वयोगतः ।
प्रत्यक्षत्वं विकल्पस्य न क्वचिद्विनिवर्तते ॥
“निर्विकल्पकमेकजातीयेषु द्रव्येषु प्रथमपिण्डग्रहणम्” इत्यादिभाष्यं तु उदाहरणपरं योज्यम् ।
अत एव हि श्रीविष्णुचित्तैरुक्तम्— “संस्कारोद्बोधसहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकम्, एकजातीयेषु प्रथमपिण्डग्रहणम् द्वितीयादिपिण्डग्रहणेषु प्रथमाक्षसन्निपातजं च ज्ञानं निर्विकल्पकम्” इति ।
अन्यत्र चोक्तम्— “केवलचक्षुरादीन्द्रियजन्यं निर्विकल्पकम्” इत्यादि ॥
यत्तूक्तं तत्त्वरत्नाकरे — “विशेषणानां स्वायोगव्यावृत्तिरविकल्पके ।
सविकल्पे ऽन्ययोगस्य व्यावृत्तिः सञ्ज्ञिता तथा” ॥
इति, तत्रापि संस्कारनिरपेक्षत्वसापेक्षत्वयोः प्रदर्शनपरत्वं ग्राह्यम् ।
प्रत्यक्षस्य चैवं विभागो ऽभिहितः— “द्विविधं चैतत् प्रत्यक्षम्— अर्वाचीनमनर्वाचीनं च ।
युगपदशेषविषयसाक्षात्कारक्षममनर्वाचीनम् ।
तत् योगिमुक्तेश्वराणां प्रभावविशेषाधीनमुपपादयिष्यते"इत्यादि ॥
अत एव कुदृष्टीनां सन्मात्रग्राहि प्रत्यक्षमित्यविलक्षजल्पितं निरस्तम् ।
क्रमयौगपद्यादिदूषणं तु भ्रान्तिविकल्पे ऽपि समानम् ।
भ्रान्तिरूपो ऽपि हि विकल्पः क्षणिकत्वान्न विरम्य व्यापर्तुमलम् ।
न च पूर्वज्ञानवार्तां जानाति ।
न च स्वयं धर्मिप्रतियोगिग्रहणाभावे भेदग्रहणं मन्यसे ।
तथापि यदि कल्पना भेदविशिष्टं युगपद्गृह्णाति, का प्रत्यक्षे सर्पमृतिः ? अतो धर्मिवद्योग्यत्वाज्जात्यादिरूपभेदो ऽपि युगपद्ग्राह्येः ।
अभेद इव भेदो ऽपि स्वरूपतः प्रतीतौ न प्रतियोगिसाकाङ्क्षः; भेदव्यवहारस्त्वभेदव्यवहारवत् तत्साकाङ्क्ष ।
अतः प्रथममेव भेदधीर्युक्ता ।
अत एव धर्मधर्मिणोर्धर्मिप्रतियोगिनोरन्येषां च प्रतीतावन्योन्याश्रयो निरस्तः ।
ततश्च व्युपत्तेस्तद्व्यवहारे ऽपि न तत्प्रसङ्गः ।
भेदशब्देन व्यवहारस्य तु प्रतिसम्बन्धिनिरूपिताकारे व्युत्पन्नत्वात् तदपेक्षा ।
भेदत्वं हि भेदानां प्रतियोगिना निरूप्यम् न तु जात्यादिलक्षणं स्वरूपम्; यद्ग्रहो यत्र यदारोपविरोधी, स हि तस्य तस्माद्भेदः; गोत्वादि च गृह्यमाणं स्वस्मिन् स्वाश्रये चाश्वत्वाद्यारोपं निरूणद्धीति स्वस्य स्वाश्रयस्य च स्वयमेव तस्माद्भेदः ॥
अपि च प्रतियोगिसापेक्षत्वनिरपेक्षत्वलक्षणविरुद्धधर्माध्यासेन भेदात् स्वरूपभेदग्रहणैक्यां न सम्भवतीति वदन् भेददुषणार्थमेव भेदं साधयतीति स्ववचनविरोध इति ॥
१५ ॥
शाब्दापरोक्षनिरासः ॥
शब्दजन्यमपि प्रत्यक्षमस्तीति त एव वर्णयन्ति; तदप्ययुक्तम्, व्याघातात् ।
न हि परोक्षजननस्वभावतया सिद्धा सामग्री विशेषाभावे क्वचित् स्वभावमतिपतेत् ।
न चैकजातीयसामग्रीतः प्रसूतं कार्यं विचित्रं स्यात्, एकयैवव सामग्र्या सर्वजातीयोत्पत्तिप्रसङ्गात् एकस्य कार्यस्य विरुद्धजातियोगप्रसङ्गाच्च ।
“दशमस्त्वमसि” इत्यादिदृष्टान्ते ऽपि त्वमर्थमात्रं प्रत्यक्षम् ।
“दशमोऽहम्” इति प्रत्ययो हि नेन्द्रियस्वातन्त्र्येणोदेति, किन्तु पुरुषवचनानुरोधेन ।
तन्मूले ऽपि चेत् प्रत्यक्षता, एवम् “धर्मवांस्त्वमसि” इति कार्तान्तिकोपदेशादौ “तादृशोऽहमस्मि” इति बोधे धर्मादेरपि प्रत्यक्षत्वप्रसङ्गः ।
ततश्चाप्रत्यक्षमिति जगति किञ्चिन्न स्यात्, प्रत्यक्षभूतं यत्किञ्चिदुद्दिश्य विशेषणतयैव सर्वस्य प्रत्यक्षत्वोपपत्तेः ।
पूर्वावगतदशमभावं तु पुरुषं प्रत्युपदेशे भाषराशिप्रविष्टमषीन्यायेन पूर्वापरापरोक्षणीनैरन्तर्येण मध्यवर्तिशब्दजन्यधियो ऽपरोक्षत्वव्यवहारः कस्यचित् स्याद्वा न वा ।
अत एव तत्त्वमस्यादिशब्दः स्वविषयगोचरप्रत्यक्षज्ञानजनकः, स्वतो ऽपरोक्षार्थगोचरत्वात् “दशमस्त्वमसि” “संवित् स्वप्रकाशा” इत्यादिवाक्यवत् इत्याद्यनुमानानि निरस्तानि, दशमत्वस्वप्रकाशत्वादिविशिष्टाकारेण दृष्टान्तेष्वपरोक्षज्ञानजननासिद्धेः ।
तथा विगीतः शब्दो न स्ववाच्यगोचरप्रत्यक्षधीजनकः, शब्दत्वात्, सम्प्रतिपन्नवत्, इत्याद्यपिप्रतिप्रयोक्तव्यम् ।
उपलम्भविरोधशाब्दप्रत्यक्षलक्षणसङ्करादिप्रसङ्गो ऽत्र विपक्षे बाधकः ।
नैवं पूर्वस्य, शब्दजन्यप्रत्यक्षमन्तरेणापि योगजादृष्टजनितसाक्षात्कारात् प्रणिधानविशेषप्रसादितपरमात्मसङ्कल्पाद्वा निःश्रेयससिद्धेरिति ॥
प्रत्यक्षं चिदचिन्मयं जगदिदं यस्येत्यनुश्रूयते यश्चानन्यधियामनन्तविभवः प्रत्यक्षतामश्नुते ।
यश्चैको युगपत्सदा स्वत इदं विश्वं दरीदृश्यते प्राज्ञं तं प्रतिपन्नमोक्षणविधादक्षं दिदृक्षेमहि ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रत्यक्षाध्याये द्वितीयमाह्निकम् ॥
समाप्तश्च प्रत्यक्षाध्यायः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥