१ पत्युः संयमिनां प्रणम्य चरणौ तत्पादकोटीरयोः सम्बन्धेन समिध्यमानविभवान् धन्यांस्तथान्यान् गुरून् ।
शुद्धं संश्रितबादरायणतनोर्नारायणस्योक्तिभः श्रीमान् वेङ्कटनायकः स्थितिपदं निर्माति नीतेः शुभम् ॥
विद्यास्थानेषु धर्म्येषु गण्यते न्यायविस्तरः ।
स च विप्लावितस्तैस्तैस्ततो ऽत्र परिशोध्यते ॥
२ ॥
गौतमसूत्रबहिष्कारपक्षः ॥
यद्यपि कथञ्चिदाक्षपादं सत्पक्षे निक्षेप्तु शक्यम्; न च कणभक्षपक्षनिक्षेपवत् क्लेशः; नापि तत्कर्ता गौतमस्तामसेषु परिपठ्यते; नापि च विप्रलम्भकत्वख्यातिः; तथापि ब्रह्मसूत्रकारादिबहिष्कृतत्वान्नातीव वयमाद्रियामहे ।
न खल्वार्षत्वादिभिस्तदादरः, अतिप्रसङ्गात् ।
प्राज्ञानां प्रथमेनैव गुरुणा हि स्वयं पुरा ।
लोकायतमतं प्रोक्तं लोकविप्लवकारणम् ॥
अथवा पितामह एवात्र प्रमाणम्, य इन्द्रविरोचनायोश्चार्वाकमतमुपदिष्टवान् ।
तथा गौतमो ऽपि सम्भाव्यते ।
अथापि
“काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः ।
त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी” ॥
इति स्मृतेः,
“बहवः पुरुषा राजन् साङ्ख्ययोगविचारिणः ।
नैत इच्छन्ति पुरुषमेकं कुरुकुलोद्भव ॥
समासेन तु तद्व्यासः पुरुषैकात्म्यमुक्तवान् “।
इति महाभारतोक्तेश्च युक्तं तत्तद्बहिष्कारः ।
इह तु न तथेति चेन्न, तुल्यन्यायतया वचनस्योपलक्षणार्थत्वात् ।
न खलु तद्वा तादृग्वेति कश्चिद्विशेषः ।
यद्यपि काशकुशावलम्बन्यायेन पक्षान्तरादाधिक्यमस्य पक्षस्य, अथापि न तद्वेदान्तसन्निधौ; न खलुमशकाद्बलिष्ठो ऽपि मातङ्गः कण्ठीरवमुपरुणद्धि ॥
“यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद ।
कुतार्किकाज्ञाननिवृत्तिहेतुः कारिष्यते तस्य मया निबन्धः” ॥
इति वाक्यमक्षपादपक्षपातेनोक्तमित्यनास्थेयम् ॥
उक्तं च पूर्वाचार्यैः—
“काणादमाक्षपादं वा कापिलं तन्त्रमेव वा ।
तन्त्राण्येतानि सर्वाणि न तन्त्राण्यात्मनिर्णर्य” ॥
इति ॥
अत एव हि “एतेन शिष्टापरिग्रहा अपि व्याख्याताः” इति सूत्रे भाषितम्—“एतेन—वेदापरिगृहीतसाङ्ख्यपक्षक्षपणेन, शिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिपक्षाः क्षपिता वेदितव्याः” इति ।
न च सूत्रनिबद्धं सर्वं विद्यास्थानमिति नियमो दृष्टः; न चैक एवैकस्य विद्यास्थानस्य सूत्रकृदित्यपि वा ऋषिरित्येव वा राजाज्ञा, अन्यैरपि च तत्करणदर्शनात् ॥
प्रमाणशब्दस्य भावे करणे च व्युत्पत्तिः ।
१ एवं च प्रमैव प्रमाणमित्येके ।
२ प्रमाकरणमेवेत्यपरे ।
३ तयोरन्यतरदित्यन्ये ।
४ यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम् ।
५ यदज्ञानात् संसारो यज्ज्ञानात् तन्निवृत्तिस्तत् प्रमेयं मुमुक्षुभिः प्रकर्षेण मेयत्वात् ।
६ तद्द्विविधं द्रव्याद्रव्यभेदात् ।
७ सामान्यतो वा प्रमाविषयः प्रमेयम् ।
८ आगन्तुकधर्माश्रयो द्रवयम् ।
९ अतथाभूतमद्रव्यम् ।
१० द्रव्यं द्वेधा जडमजडमिति ।
११ जडं च द्वेधा प्रकृतिः काल इति ।
१२ अजडं च तथा प्रत्यक् परागिति ।
१३ प्रत्यगपि द्विविधं जीवर् इश्वर इति ।
१४ परागपि तथा धर्मभूतज्ञानं नित्यविभूतिश्चेति ।
१५ अथवा द्रव्यं द्विविधमात्मानात्मभेदात् ।
१६ त्रेधा वा भोक्तृभोग्यनियन्तृश्रुत्यनुसारात् ।
१७ षोढा वा त्रिगुणकालजीवेश्वरशुद्धसत्त्वमतिभेदात् ।
१८ अस्वयम्प्रकांशं जडम् ।
१९ स्वयम्प्रकाशमजडम् ।
२० मिश्रसत्त्वाश्रयः प्रकृतिः ।
२१ कालः क्षणलवादिव्यवहारहेतुः ।
२२ स्वस्मै भासमानं प्रत्यक् ।
२३ परस्मै भासमानं पराक् ।
२४ परतन्त्रचेतनो जीवः ।
२५ स्वतन्त्रर् इश्वरः ।
२६ अर्थप्रकाशो बुद्धिः ।
२७ प्रकृतिव्यतिरिक्तत्वे सति सत्त्वाश्रयो नित्यविभूतिः ।
२८ अद्रव्यमनेकधा सत्त्वशब्दादिवैचित्र्यात् ।
२९ एकं वेतरविशिष्टं प्राधान्यतः प्रमेयं परं ब्रह्म ।
३० इतरेषां स्वनिष्ठब्रह्मैकनिष्ठत्वात् ।
३१ तस्यैव च तथात्वेन मुमुक्षुभिः प्रकर्षेण मेयत्वश्रुतेः ।
३२ अव्यवस्थितव्यवहारकारणं ज्ञानं संशयः ।
३३ अयथाव्यवहारकारणं ज्ञानं विपर्ययः ।
३४ संस्कारमात्रजं ज्ञानं स्मृतिः ।
३५ तद्व्यतिरिक्तं ज्ञानमनुभवः ।
३६ पुरुषप्रवृत्त्युद्देश्यं प्रयोजनम् ।
३७ व्याप्त्यधिगमस्थानं दृष्टान्तः ।
३८ प्रामाणिकत्वाभिमतैः परिगृहीतोर्ऽथः सिद्धान्तः ।
३९ परार्थप्रमाणप्रयोगवाक्यावान्तरवाक्यान्यवयवाः ।
४० व्याप्याङ्गीकारेण व्यापकानिष्टप्रसञ्जनं तर्कः ।
४१ तर्कानुगृहीतप्रमाणपूर्वकतत्त्वावधारणं निर्णयः ।
४२ वीतरागकथा वादः ।
४३ पक्षद्वयसाधनवती विजिगीषुकथा जल्पः ।
४४ प्रतिपक्षस्थापनहीना तु सा वितण्डा ।
४५ हेत्वङ्गैकदेशविकला हेत्वाभासाः ।
४६ अविवक्षितशब्दार्थारोपेण दूषणं छलम् ।
४७ स्वव्यापिदूषणं जातिः ।
४८ कथकाशक्तिलिङ्गं निग्रहस्थानम् ।
४९ इत्येतादृशानि वाक्यानि किं न सूत्राणि स्युः ? तदिह सङ्क्षिप्तं लक्षणादिवाक्यं सूत्रम्; तदुदाहरणादिवाक्यं तु भाष्यादिकमिति विभाव्य सन्तोष्टव्यम् ।
न च पूर्वप्राबल्यव्यवस्था, तत्पूर्वसम्भवात् वार्तिकस्य चानवतारप्रसङ्गात् व्याकरणादिष्वन्यथाकरणस्वीकाराच्च ।
न च जैमिनेः प्रमाणलक्षणादिष्वौदासीन्यमात्रेण गौतमोक्तेषु काश्यपोक्तेषु वा निःशेषानुमतिसिद्धिरिति मन्तव्यम्, अन्यपरतया लोकप्रसिद्धोपजीवनात्, परकल्पिततटाकोपजीवनवत् ।
कर्मकाण्डवृत्तिकारादयो ऽपि हि लोसिद्धां प्रमाणादिव्यवस्थां यथायथमन्यथा सञ्जगृहुः ।
अतो यावदिह युक्तियुक्तं तावदुपजीव्यते; न खलु तटाकस्थःपङ्को ऽप्यपङ्किलबुद्धिभिस्ततदवगाहिभिरुपजीव्यते ।
अतः सिंहवनगुप्तिन्यायेन यथावस्थितन्यायानुगृहीतं वेदं वेदानुमतं च न्यायमनुसरामः, न पुनर्न्यायमात्रम् ॥
यत्तु “ज्ञातसम्बन्धस्य” इत्यादिग्रन्थमुपादायानन्तरमुक्तं श्रीविष्णुचित्तेः—- “व्याप्तिधीगर्भानुभवो ऽनुमानमित्यर्थः ।
न्यायशास्त्रे तु तद्विशेषनिर्णयः” इति, तदपि तन्निरूपणाधिकृतविद्यास्थानख्यापनपरम् ।
प्रमाणादिसूत्रमुपादाय व्याचक्षाणैस्तत्पक्षनिष्ठैरपि पूर्वैः क्वचित् सूत्राणि निराकृतानि ।
तन्न्यायस्य नास्मासु सर्पमारः, नापि दण्डनिवारणम् ।
ततश्च, यथालोकं यथावेदं लौकिके वैदिके ऽपि च ।
यो वक्ता स परिग्राह्यः प्राक्तनो ऽद्यतनो ऽपि वा ॥
विवक्षितार्थावैशद्यं व्याकुलत्वमपूर्णता उल्लोकतेत्यमी दोषा गुणकोटौ जडैः कृताः ॥
भगवन्नार्थमुनिभिर्न्यायतत्त्वसमाह्वया ।
अवधीर्याक्षपादादि न्यबन्धि न्यायपद्धतिः ॥
तदर्वाग्भिस्तथाचायैर्यथेष्टं मतमास्थितैः ।
प्रणिन्ये बहुधा तैस्तैः प्रमाणादिविचारणा ।
तदयं भाष्यस्वःससिद्धो बहिष्कारपक्षः ॥
३ ॥
गौतमसूत्रस्वीकारपक्षः ॥
अङ्गीकारकाङ्क्षिणामक्षपादीयमप्यस्मदुक्तैकान्ततया स्थास्यति; तथैव स्थापयिष्यामः ।
अतो वयमपि महतामयुक्तार्थतात्पर्यकल्पनेन नापराध्येम, न्यूनाधिकविरुद्धव्यपदेशादीनामलक्षणलक्षणोक्तीनां चाध्याहारान्यपर्याम्यां तद्भक्तेरपि निर्वाहात् ।
तथास्मिन् यत्र स्फुटः श्रुतिस्मृतिशारीरकविरोधः, स उद्देशतो निरुह्यते ॥
यत्तावत्सूत्रितं प्रथमाध्याये — “घ्राणरसनचक्षुस्त्वक्छ्रोत्राणीन्द्रियाणि भूतेभ्यः” इति; अत्र ज्ञानेन्द्रियपञ्कोपादानं नेन्द्रियान्तरप्रतिक्षेपार्थम्, मनसः पृथक्प्रमेयतया उद्देशात् अनन्तरमेव च “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” इति लक्षणकरणात् अभ्युपगमसिद्धान्तन्यायेन च तदिन्द्रियत्वपरीक्षणात् ।
अतश्चोक्तेन समानयोगक्षेमयुक्तिप्रमाणकः कर्मेन्द्रियवर्ग उपलक्षणीयः, “प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः” इति सूत्रे वाचः कण्ठोक्तेः पाण्यादिचतुष्टयस्य शारीरव्यापारकरणतया सूचनादिति ॥
शरीरके तु “सप्तगतेर्विशेषितत्वाच्च” इति पूर्वपक्षमुपक्षिप्यासाधयच्च हस्तादीनामपीन्द्रियत्वं भगवान् बादरायणः— “हस्तादयस्तु स्थिते ऽतो नैवम्” इति ।
“भूतेभ्यः” इति च नोपादानाभिप्रायम्, अहङ्कारोपात्तानामाप्यायकभूतविवक्षयापि तदुपपत्तेः ।
तथा च वेदार्थसङ्ग्रहे—“एवमाहङ्कारिकाणामिन्द्रियाणां भूतैश्चाप्यायनं महाभारत उच्यते” इति ।
समाधानम् ऋष्यन्तरवाक्यस्यापि समानन्यायस्य निर्वाहार्थम् ।
परस्परविरुद्धप्रमाणवाक्येषु तात्पर्यविशेषपरिकल्पनया परिहार एव हि पण्डितकृत्यम् ।
अनित्यमनोवादिभिरपि हि “अन्नमयं हि सोम्य मनः”— इति श्रुतिराप्यायनपरतयैव योज्या ।
तुल्यमिदमन्यत्रापीति ॥
यत्तु—“बाधनालक्षणं दुःखम्” “तदत्यन्तविमोक्षो ऽपवर्गः” इति, तत्र दुःखात्यन्तनिवृत्तेरपवर्गत्वं सर्वाङ्गीकृतम् ।
न च तत्रानन्दः श्रौतः कण्ठोक्त्याः प्रतिषिध्यते ।
तदभिप्राये चानन्यथासिद्धं किमपि न लिङ्गं पश्यामः ।
अत एव हि भूषणमते नित्यसुखसंवेदनसम्बन्धसिद्धिरपवर्गे साधिता ।
एतेन “तस्मात्सर्वदुःखविमाक्षो ऽपवर्गः” इति चतुर्थाध्यायवाक्यमपि निर्व्यूढम्, तत्राप्यानन्दनिषेधाभावात् ॥
यच्च शारीरकद्वितीयाध्यायविरुद्धमिह द्वितीयाध्याये अवयविसमर्थनमिवाभाति, तदपि तदेकार्थं योजयितुं शक्यम् ।
तथा हि—“न चैकदेशोपलब्धिरवयविसद्भावात् ।
साध्यत्वादवयविनि सन्देहः ।
सर्वाग्रहणमवयव्यसिद्धेः ।
धारणाकर्षणोपपत्तेश्च ।
सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ।
" इत्येतानि हि तत्सूत्राणि; न तानि विरुध्यन्ते, सेनावनादिव्यावृत्तावयव्यारम्भकतया तदसमवायिकारणत्वाभिमतावस्थाविशेषापन्नः सङ्घातविशेष एवावयविशब्देन निर्दिंश्यत इत्यविरोधात् तावतैव उपलम्भव्यवहारविशेषादेश्चरितार्थत्वात् ।
अतीन्द्रियाणुवचनमपि प्रदीपावयवानामिवैन्द्रियिकाणामेवावस्थाविशेषेणातीन्द्रियत्वाभ्युपगमादविरुद्धम् ।
अव्यक्तमेव हि त्रिगुणद्रव्यमवस्थाविशेषाद्रव्यक्तं भवतीत्यागमिकाः ।
प्रत्येकमुपलम्भायोग्यानामपि संहतिविशेषरूपावस्थाभेदादैन्द्रियिकत्वतत्तारतम्यादिकं हिमानीचूर्णपुञ्जादिष्वनारब्धावयविषु लोकसिद्धम् ।
उपमानाख्यप्रमाणान्तरसमर्थनं तु न्यायैकदेशिभिरेवोपमानस्यानुमानान्तर्भावप्रतिक्षेपमात्रपरतया निर्व्यूढम् ॥
यच्च—“पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः” इति शब्दार्थसम्बन्धाभावमुपक्षिप्य परिहरता “शब्दार्थव्यवस्थानादप्रतिषेध्ः” ।
“न सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य” इत्यादिना सामयिकत्वमुक्तम्; तदपि सम्प्रतिपन्नसामयिकत्वद्वारा अनुमानादिविलक्षणसम्बन्धविशेषख्यापनार्थमिति योज्यम्, अनादिनिधनाविच्छिन्नसम्प्रदायवेदवर्तिनां पदानां मन्वादिवचनविरुद्धसाङ्केतिकत्वोपपादनकॢप्त्यसम्भवात् ।
यच्च “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” इति, एतदप्यनादिनिधनस्यैव वेदस्य प्रतिकल्पमीश्वरेणाप्ततमेन यथापूर्वं प्रवर्तनमभिसन्धायेति सुगमम् ॥
वर्णानित्यत्ववर्णनं तु न श्रुत्यादिविरुद्धम्; प्रत्युतानुकूलमेव ।
शारीरकदेवताधिकरणे वर्णानित्यत्वमभ्युपगम्यैव हि “अत एक च नित्यत्वम्” “समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च” इति वेदनित्यत्वं साधितम् ॥
यत्तु जैमिनीये शब्दाधिकरणे वर्णनित्यत्वसमर्थनं व्याचख्युः; स तु व्याख्यातॄणामेवापराधः, असाङ्केतिकवाचकाकारनित्यत्वपरत्वेनान्यपरत्वात्तस्याधिकरणस्य ॥
यच्च द्वितीयाध्यायान्ते “व्यक्त्याकृतिजातयस्तु पदार्थः"इत्युक्तम्, तत्रापि न वैशेषिकाभ्युपगतजातिस्वीकारे लिङ्गं पश्यामः; नह्यत्र द्रव्यगुणादिपदार्थपरिसङ्ख्यानं क्रियते, “ते विभक्त्यन्ताः पदम्” इति प्रतिपादितपदवाच्यप्रदर्शनपरत्वात् ।
अनन्तरं चतिसृणामेव लक्षणमाह—“व्यक्तिर्गुणविशेषाश्रयो मूर्तिः"“आकृतिर्जातिलिङ्गाख्या” “समानप्रसवात्मिका जातिः” इति ।
इह तु वस्तुस्वरूपनिरूपितस्वरूपविशेषकधर्मस्वरूपनिरूपकधर्मविषयतया यथासम्भवं योज्यम् ।
अतो न द्वितीयाध्याये ऽपि वेदान्तविरोधः ।
तृतीये “दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्” इत्यादिकं बाह्यान्तरिन्द्रियादिनिरूपणादिकं चात्यन्तोपयुक्तम् ।
न च मनोनित्यत्वादिकं तत्र सूत्रितम्; येन तदुत्पत्त्यादिश्रुतिकोपः ॥
यच्चात्रोक्तम्—“गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं श्रुतिप्रामाण्याच्च” इति, एतदेव यथाश्रुतं सिद्धान्ततया स्वीकार्यम् ।
यदपि “गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः” “अप्तेजोवायूनां पूर्वपूर्वमपोह्याकाशस्योत्तरः” इति गुणव्यवस्थापनम्, तत्र तु तथैवाभ्युपगमे ऽपि न वस्त्वन्तरविरोधः ।
तथाप्याकाशादिषु शब्दादेरेकद्वित्रिचतुष्पञ्चक्रमेण पुराणेषु पाठात्, आकाशानुप्रवेशादन्यत्र शब्द इति निर्वाहे वारूवाद्यनुप्रवेशादुत्तरोत्तरेषु स्पर्शादिरिति निर्वोढुं शक्यत्वात्, उपलम्भान्वयव्यतिरेकाभ्यां व्यवस्थापनस्यापि समत्वात्, गन्धादिसूत्रं पृथिव्यास्ते सन्त्येवेत्ययोगव्यवच्छेदेन निर्वाह्यम् ।
“आकाशस्योत्तरः” इत्यत्र तु तस्य स एवेत्यन्ययोगव्यवच्छेदेन ।
कति कति चैवं सूत्राणि क्लिष्टानि परैरपि निरुह्यन्ते ॥
यच्च—“स्वगुणान्नोपलभन्त इन्द्रियाणि कस्मादितिचेत्” “सगुणानमिन्द्रियभावात्” इत्यत्र “न शब्दगुणोपलब्धेः” इत्युक्तम्; तत्रापि श्रोत्रेन्द्रियस्य आकाशाप्यायितात्वादाप्यायकगुणस्य तद्गुणतां पटनैल्यपानीयसौरभादिवत् प्रकल्पोक्तमुत्तरम् ।
अथवा यथागममाहङ्कारिकत्वमिन्द्रियाणामजानतश्चोद्ये भूताप्यायितेन्द्रियपक्षे स्थित्वैवेदमुत्तरं गूढाभिप्रायेण ददीय इति ।
एतदुक्तं भवति—भवता किमिन्द्रियगुणोपलम्भाभाव उच्यते, किं वा तदाप्यायकगुणोपलम्भाभावः ? पूर्वत्राङ्गीकार एवोत्तरम्, शब्दादीनामनिन्द्रियगुणत्वात् ।
उत्तरत्र व्यभिचार इति ।
अतो न वेदान्तविरोधप्रसङ्गः ॥
चतुर्थे ऽध्याये–प्रवृत्तिरागद्वेषादिनिरूपणम्, आत्मनित्यत्वादिना प्रेत्यभावादिप्रतिपादनम्, अनिमित्तभावोत्पत्तिसर्वानित्यत्वसर्वनित्यत्वादिनिरूपणं चात्यन्तानुगुणम् ।
अवयविप्रसङ्गश्च प्रागुक्तन्यायेन नेतव्यः ।
पञ्चमस्तु जातिनिग्रहस्थानमात्रोपक्षीणो न क्वचित्तत्त्व उपकरोति ।
व्यवहाराङ्गविमर्शसौन्दर्यासौन्दर्यादिकं तु वास्तवलक्ष्यलक्षणयुक्त्यादिपरामर्शवैज्ञानिकैरर्थस्थितिमात्रानुसारादनादरणीयम् ।
यत् पुनरर्वाग्भिरक्षचरणपञ्चाध्याय्यां कुशकाशावलम्बेन कणचरणकथां निवेश्य नैगमिक्यः पदव्यो निरुध्यन्ते, तत्र तु नूनं स एव गौतमः स्वयमन्तः प्रहसति ॥
इति स्वीकारपक्षः ॥
यद्वा नातीव च बहिष्कारो नातीव च परिग्रहः ।
साङ्ख्यादिवदिहापि स्यात् समाधिस्तौषतण्ण्डुलः ॥
उपजीव्यबहुत्वेन विद्यास्थाननिवेशनम् ।
विरुद्धांशैकविषया सूत्रादिषु बहिष्क्रिया ॥
४ ॥
अधिकारिविवेचनम् ॥
नियताधिकारश्चायं न्यायविस्तरः ।
अधिकाराच्च नियतः स्यादयं न्यायविस्तरः ।
अप्रत्यवायो माहात्म्याद्दयालुः शास्त्रमब्रवीत् ॥
सर्वाधिकारमित्येतदसमीक्षितभाषितम् ।
कथमागमवृत्तान्तमनधीतागमा विदुः ॥
निषिद्धे प्रेरयंस्तान्वा कथं कारुणिको भवेत् ।
न च शक्या नरशिरःपावित्र्याद्यनुमाक्षतिः ॥
विहायागममक्षाद्यैर्द्विधा तत्रापि विप्लवः ।
श्रुत्यां ह्यनधिकारित्वात्तदन्यत्राव्यवस्थितेः ॥
धर्मक्षोभामुमाभङ्गे कथं शूद्रादयः क्षमाः ।
अथ त्रैवर्णिकैरुक्ते त्वन्यो विश्वसितीत्यपि ॥
स्वयं न्यायविचारे ऽस्य फलत्यनधिकारिताम् ।
प्रत्यक्षानुमयोर्यत्र नित्यं वेदानपेखता ॥
तत्रापशूद्रभाष्योक्ता शूद्रादेरप्यधिक्रिया ।
चतुर्दशापि स्थानानि भगवान् धर्मविद्ययोः ॥
न स्प्रष्टव्यानि शूद्रैरित्यब्रवीदाश्वमेधिके ।
“अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत ।
उत्पन्नानि पवित्राणि पावनार्थं तथैव च ॥
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि कथञ्चन ।
" इति ॥
तस्मादेतानि त्रैवर्णिकैरध्येतव्यानि ।
तत्र ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि ।
क्षत्रियवैश्याभ्यां धर्मानुष्ठानायैव ।
तथा शङ्खेन विद्यास्थानान्यनुक्रम्योक्तम्— “एतानि ब्राह्मणो ऽधिकुरुते ।
स च वृत्तिं दर्शयतीतरेषाम्” इति ।
एवमेव धर्मशास्त्रसङ्ग्राहकैः समर्थितम् ।
ततश्च येषां कर्मब्रह्ममीमांसावसेयतत्त्वहितरूपप्रमेयचिन्ताधिकारः, तेषामेव तात्पर्यपर्यवसायितया धर्मविद्यास्थानाभिमतन्यायंविस्तरान्धिकारप इति सिद्धम् ॥
५ ॥
प्रयोजननिरूपणम् ॥
प्रत्यक्षादिप्रमाणेन शुद्धिः पदतदर्थयोः ।
मानमेयादिनियतिर्निर्देषोक्तेश्च मानता ॥
ग्रावप्लवनवाक्यादावान्यपर्यं विरोधतः ।
चित्रापशुफलत्वादावबाधद्वारसङ्ग्रहः ॥
अनुवादविधानादिचिन्ता प्राप्त्यादिपूर्विका ।
प्रत्यक्षादिष्वसिद्धेषु न कल्पेत कथञ्चन ॥
एवमाद्युपयोगेन मुनिभिर्न्यायविस्तरः ।
वेदानुग्रहणाद्धर्मविद्यास्थानतयोदितः ॥
आगमाख्यप्रमाणे तु संशुद्धे न्यायविस्तरात् ।
तद्विशेषस्य मीमांसा साधयेद्धर्ममानताम् ॥
प्रमेयस्यापि संशुद्धिरन्ततो ब्रह्मचिन्तनात् ।
इह तस्य निवेशस्तु तादर्थ्यादिप्रसिद्धये ॥
प्रमाणमेवास्य शास्त्रस्य प्राधान्यतो विषयः ।
तत्र प्रेक्षावदधिचिकीर्षासिद्ध्यर्थम्—प्रमेयतत्त्वज्ञानं हानोपादानद्वारा निःश्रेयसहेतुः, तच्च सपरिकरात् प्रमाणात्—इति परम्परया प्रयोजनज्ञापनाय प्रदर्शनमात्रमिहाभिमतम् ।
अतः प्रधानविषयतया, प्रमेयादिसाधकतया च प्रमाणं प्रमेयादपि पूर्वमुच्यते ।
तत्र व्यवच्छेद्यत्वाङ्गत्वादिमुखेन संशयादयो ऽपि चतुर्दश यथायथं निरूप्यन्ते ।
न च षोडशत्वे निर्बन्धः, अतथात्वविपर्ययत्वाद्युपाध्यन्तराधीनसङ्ग्रहविभजनाभ्यां न्यूनाधिकोद्देशस्यापि शक्यत्वात् उपयोगानुपयोगाविशेषाच्च ।
एतावदेवगौतमस्यापि हृदयमिति ॥
६ ॥
प्रमाणाप्रमाणव्यवस्थापनम् ॥
अस्ति तावदिदं प्रमाणमिदमप्रमाणमिति प्रसिद्धो लौकिकपरीक्षकव्यवहारघण्टापथः ।
तदनादरे तु निराश्रयतया परीक्षणस्याप्यनुदयः ॥
व्यवहारो हि जगतो भवत्यालम्बने क्वचित् ।
न तत्सामान्यतो नास्ति कथन्ता तु परीक्ष्यते ॥
सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते ।
परीक्षा ह्युचिता स्वेष्टप्रमाणोत्पादनात्मिका ॥
न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः ।
न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥
सिद्ध्यसिद्ध्यो स्वपक्षस्य सिद्धा लोकव्यवस्थितिः ।
तत्सिद्ध्यसिद्ध्योस्त्वत्पक्षो न कथञ्चन सिध्यति ॥
प्रमाणेन प्रमाणस्य बाधः स्वव्याहतेर्हतः ।
अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥
अप्रमाणात् प्रमाणाद्वा मानसिद्धिर्न चेन्न तत् ।
यतः प्रमाणतस्तस्य सिद्धिः स्वपररक्षिणी ॥
बाधाबाधव्यवस्थापि मानतः स्याद्रव्यवस्थितात् ।
अन्यथा त्वव्यवस्थाया न व्यवस्थेत्यवस्थितेः ॥
सर्वत्रानिर्णये न स्तः संशयोत्पत्तिनिर्णयौ ।
यथा तत्कोटितत्सिद्धिस्तथान्यत्रापि युज्यते ॥
धर्मिसाधारणाकारकोटीनां पूर्वनिश्चये ।
असावयमयं वेति ह्याविर्भवति संशयः ॥
सर्वत्र संशयस्तावन्न सर्वस्यापि दृश्यते ।
सर्वं सन्दिग्धमिति ते निपुणस्यास्ति निश्चयः ॥
संशयश्च न सन्दिग्धः सन्दिग्धाद्वैतवादिनः ।
दूरं गत्वापि दुर्वारः संशये निर्णयस्तव ॥
मानामानविभागे ऽतः सामान्येन व्यवस्थिते ।
क्वाचित्कसंशयोच्छित्त्यै लक्षणं सम्प्रचक्षते ॥
तत्र व्युत्पत्तिविवक्षाभेदात् प्रमितिं तत्करणं च यथेच्छं प्रमाणमाहुरित्यवोचाम, आश्रयप्रामाण्यस्यानादेशिकत्वात् ।
“आप्तप्रामाण्यात्”—आप्तोक्तत्वहेतोः प्रामाण्यादित्यर्थः ।
न हि वक्तृप्रामाण्यं वाक्यप्रामाण्य उपयुज्यते लौकिकवाक्येषु; किन्तु कारणदोषाभावः ।
द्विधापि प्रमितिरेव शोध्या ॥
७ ॥
प्रमालक्षणपरीक्षणम् ॥
तत्रास्मदीया एव केचिदन्यथाख्यातिमिच्छन्तः स्मृतेः प्रामाण्यमनिच्छन्तः सम्यगनुभवः प्रमेति लक्षयन्ति; उभयमिच्छन्तः, यथार्थज्ञानं प्रमेति; उभयमनिच्छन्तः, अनुभूतिः प्रमेति ।
एवम्प्रायाणि च वाद्यन्तरोक्तानि लक्षणानि ॥
वयं तु ब्रूमः— यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमेति ।
यथार्थख्यातिमख्यातिमन्यथाख्यातिमेव वा ।
इच्छद्भिर्न विमन्तव्यमिदं लोकानुसारतः ॥
स्मृतिमात्राम्प्रमाणत्वं न युक्तमिति वक्ष्यते ।
अबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥
बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता ॥
विशुद्धस्मृतिमूले ऽपि मानवादौ प्रसङ्गतः ॥
भ्रान्तिं प्रमातो भिन्दन्तो न चाहुः स्मृतिमानताम् ।
स्मृतित्वमेव हि व्यक्तमप्रामाण्यं भवन्मते ॥
पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते ।
चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥
ततश्च प्रतिपत्तौ वा व्यवहारोदये ऽपि वा ।
तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तितव्यवस्थितिः ॥
विपर्ययादेर्व्यावृत्तिरेवमेव हि सिध्यति ।
यत्किञ्चिदन्यथात्वं हि वैपरीत्यमितीष्यते ॥
आत्मख्यात्यादिवादेष्वप्यन्यथात्वमवारितम् ।
भ्रमप्रवृत्तिबाधादेरन्यथा न हि सम्भवः ॥
एवं सत्यन्यथाधीस्तत्सामग्री वापि लाघवात् ।
अयथाव्यवहारस्य हेतुरित्यवशिष्यते ॥
सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघीयसी ।
तद्वादिनाप्यवर्ज्यत्वात् ततो ऽप्यख्यातिलाघवम् ॥
स्वारस्यमन्यथाख्यातावख्यातौ लाघवं स्थितम् ।
इति दर्शयितुं भाष्ये द्वितयं तदनुज्झितम् ।
यन्नाथमुनिमिश्राद्यैर्यथार्थख्यातिसाधनम् ।
तल्लोकबुद्ध्यनारोहाद्वैभवं केचिदूचिरे ॥
मानाद्रूप्यादिसत्त्वे ऽपि तयोरन्यतरद्ध्रुवम् ।
कार्याक्षमत्वाग्रहणात् तत्क्षमत्वग्रहेण वा ॥
ख्यात्यन्तराणां दोषास्तु तत्तत्सिद्धान्तशीलने ।
स्वयमेवोन्मिषन्त्येव सङ्ग्रहात् किञ्चिदुच्यते ॥
तत्रात्मख्यातौ तावत्— अन्यद्विज्ञानमस्तीति धीरन्यविषया न वा ।
आद्येर्ऽथस्यापि तद्वद्धीरन्यत्रैकैव धीर्भवेत् ॥
सन्तानान्तरविज्ञानं स्वसन्ताने क्षणान्तरम् ।
या धीः साधयते सा हि स्वतो बाह्यं विगाहते ॥
सहोपलम्भनियमः संविदो ग्राह्यलक्ष्म च ।
बोधे ऽप्यर्थ इवेत्येवं ज्ञानार्थैक्यं न तद्भवेत् ॥
दोषादिहेतुजालस्य मिथ्यावे ऽपि यथेष्यते ।
अधिष्ठानस्य मिथ्यावे ऽप्यनिवार्यस्तथा भ्रमः ॥
ततो माध्यमिकस्यैव पक्षस्तत्रावशिष्यते ।
न च तत्रापि निस्तारः सर्वथानुपपत्तितः ॥
असत्त्वं लौकिकं ब्रूषे लोकोत्तरमथापि वा ।
न निषेधो निरुपधिः पूर्वत्रान्यन्न धीपदम् ॥
चतुष्कोटिविमुक्तं च तत्त्वं प्रामाणिकं न वा ।
पूर्वत्र तावती सत्ता न चेत् तद्धीरसन्मतिः ॥
अन्येषां च निरधिष्ठानख्यातौ — अत्रासदेव भवतामत्रेति ख्यायते न वा ।
आद्ये सिद्धमधिष्ठानं द्वितीये ख्यात्यपह्नवः ॥
किं च स्वनेत्रनिष्ठ्यूतं तिमिरं तिमिरार्दितैः ।
केशस्तबकसादृश्यात् तथा भात्येवमीदृशाः ॥
यद्यप्यविद्यमानोर्ऽथो विद्यमानतया स्फुरेत् ।
तथाप्यसावधिष्ठानं स्वदेशादौ मितो हि सः ॥
इदन्त्वेन प्रतीतेर्ऽथे तदारोपं परे विदुः ।
तस्मिन्निदन्त्वारोपस्ते फलतस्तुल्यता द्वयोः ॥
अनिर्वचनीयख्यातौ — अनिर्वाच्यतया वस्तु निरुच्येत न वा त्वया ।
आद्ये विरोधो विविधो द्वितीये ऽस्मन्मतस्थितिः ॥
सदसद्व्यतिरेको ऽपि विरुद्धो यदि गृह्यते ।
सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥
अनुष्णाशीतवत् तुच्छाद्ब्रह्मणश्चातिरेकिता ।
साध्येत ख्यातिबाधादेर्यदि सिद्धं तदत्र नः ॥
न च विश्वस्य बाधो ऽपि स्वरसादुपजायते ।
अप्रतिष्ठितयुक्त्या तु बाधो ब्रह्मापि संस्पृशेत् ॥
नाशात् सदितरत्वं च नाशकाले यदीष्यते ।
स्वकाले यदि बाधः स्यान्नाशस्याप्यनिरूपणम् ॥
नित्यत्वेन श्रुतानां च केषां चिन्न हि नाशिता ।
भागासिद्धस्ततो हेतुर्न चैक्यं नाशबाधयोः ॥
निर्विषयख्यातौ — विषयालीकभावादौ ख्यात्यन्तरपरिग्रहः ।
अनुल्लेखस्तु रूप्यादिधीरित्युक्त्या निबर्हितः ॥
८ ॥
निगमनम् ॥
ततश्चात्रान्यथाधीर्वा तद्धेतुमतिरेव वा ।
भ्रान्तिर्वस्तुविरूपस्य व्यवहारस्य कारणम् ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रत्यक्षाध्याये प्रथममाह्निकम् ॥