Venkatanatha [Vedantadesika]: Nyayaparisuddhi, bhumika

Intro

Venkatanatha [Vedantadesika]: Nyayaparisuddhi, bhumika

Venkatanatha [Vedantadesika]: Nyayaparisuddhi, bhumika

Input by members of the Sansknet Project
(www.sansknet.ac.in)

This GRETIL version has been converted from a custom Devanagari encoding.
The text is not proof-read.

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:

पाठः

॥ भूमिका ॥

॥ श्रीमते भगवद्रामानुजाय नमः ॥

॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥

श्रीमद्वेङ्कटनाथदेशिकमणिप्रज्ञासरित्तरङ्गपरम्परापरिणामभूतं न्यायपरिशुद्ध्यभिधानं प्रबन्धरत्नमिदं जयति जीवितमिव न्यायविस्तरस्य विद्यास्थानस्य श्रीभगवद्रामानुजमुनिवरक्षुण्णवर्त्मनो ब्रह्ममीमांसाशास्त्रस्य च ।
अनुपजीव्य चेदं विद्यास्थानं को विभवः सपन्दितुमपि शेषस्य विद्यास्थानजातस्य ? ।
सर्वमेव हि लोके श्रुतं संशयविपर्ययाभ्यामाहितपारिप्लवं वात्यास्पृष्टमिव तृणशकलं न कथञ्चिदपि प्रतितिष्ठति ।
प्रमाणपरीक्षया तु यथावदुपपादितया दृषदेव व्यपोढविक्षोभं निष्कम्पमवतिष्ठते ।
प्रमाणपरीक्षैव च प्रथमावतारपदवी न्यायविस्तरस्य ।
पदवाक्यप्रमाणभेदेन हि त्रेधा विभजन्ति शास्त्रं शास्त्रविदः ।
तत्र तदं नाम —शब्दानुशासनं पाणिन्यादिप्रणीतम् ।
वाक्यं च—विचारपूर्वकश्रौतवाक्यार्थनिर्णयरूपं कर्मब्रह्मात्मकविषयविभागविभक्तमुभयं मीमासाशास्त्रम् ।
प्रमाणं तु—क्वचिदप्यर्थेष्वनवगाढावष्टम्भां स्वात्मन्यप्यनुपजातविस्रम्भां डोलायमानां बुद्धिं करेणुमिव तर्कशृङ्खलाभिरालानयन्मननव्यपदेशं शास्त्रम् ; यस्य सञ्ज्ञान्तरं न्यायविस्तरः तर्कशास्त्रम् इत्यादि ॥
तदेतत् प्रमाणप्रधानमपि प्रमाणगतेः प्रमेयस्वरूपविवेचनपर्यवसानतया प्रमेयेपि न्यस्तपदं प्रवृत्तम् ।
इतरेतरविसंवादसंरब्धोद्धुरैरास्तिकैर्नास्तिकैश्च बहुधा वादिभिः स्वस्वच्छन्दानुरोधेनान्यथा चान्यथा च प्रमेयं प्रतिपद्यमानैरितस्ततः परिकृष्यमाणानि प्रमाणान्यपि परावृत्तरूपतया लक्षणतो दुर्ग्रहाण्यभूवन् ।
मानाभासव्यामिश्राणि हि मानानि न सुकराणि विवेक्तुम् ।
तदेवं शास्त्रमेव पङ्किलीकृतं चक्षुरिव तिमिरोपसृष्टं विगलितार्थग्रहणापाटव संवृत्तम् ।
अविपर्यस्तलक्षणं प्रमाणवर्गं परिगृह्णाद्भिरपि सौगतार्हतकापिलचार्वाकजैमिनीयादिभिरङ्गेष्ववान्तरभेदेषु चन्यूनातिरेकमास्थितैरनेकधोपयोगादनेकान्तीकृतमतयः कृतमतयोपि स्वस्वोपदेशपारम्परीप्रत्ययादेकतमं पक्षमभिमन्यमानाः स्परिग्रहावसादकातरतया पक्षान्तरेषु साभ्यसूयाश्चिरायापि गरुकुलेषु परिश्रम्यालब्धबुद्धिप्रसादा विभ्राम्यन्त एवानुभूयन्ते ।
अतः सर्वोपयोगाय दोषगुणहानोपादानाभ्यां शिक्षणीयस्यास्य न्यायविस्तरस्य पृथक्प्रस्थानं न्यायदर्शनं नाम सूत्रजातं गौतमेन मुनिना प्रथमं प्रणीतम् ; यत्र प्रमाणाप्रमाणादिविवेचनया तत्त्वनिर्णयोपायास्तत्र च सम्भवन्तो गुणदोषाः कथासु च ग्राह्यापरिहार्यविभागाः सविशेषं प्रदर्शिताः ॥
तच्च न्यायदर्शनं प्रथमं प्रमाणप्रमेयादिसूत्रेण षोडशधा पदार्थान् विभज्य तत्परीक्षणेन चरितार्थम ।
तत्र प्रमेयत्वस्य केवलान्वयिनः सर्वपदार्थसाधारणतया विभाजकत्वमनुपपद्यमानं मन्यमानेन कणादेन मुनिना कृत्स्नमेव प्रमेयजातं द्रव्यादिसप्तपदार्थपरिसङ्ख्यानेनासङ्कीर्णं विभक्तम् ।
तत्र च सामान्यविशेषसमवायाभावान् वितथमेवापदार्थान् पदार्थयता तथाविधमेव चान्यदन्यदालपता ग्राह्यमगृह्णता त्याज्यं चात्यजता कणभक्षेण दूरमपथीकृतः शास्त्रपथ इति ब्रह्मसूत्रकारादिभिः प्रतिक्षिप्तो वैशेषिकः पक्षः ।
न्यायपक्षस्तु शङ्क्यमानोपसर्गोपि कथञ्चिद्व्याख्यानाधेयसंस्कारतया नात्यर्थपरिवर्जनीयः इति मन्यमानाः कतिपयसंस्कारसंस्कृतमिमं पक्षं परिगृह्य निबन्धान् निबबन्धुः पूर्वे केचिदाचार्याः ।
ते च निबन्धा एषु दिवसेषु नाम्नैव केवलमवशिष्यन्तोतद्यथा–श्रीमन्नाथमुनिमिश्रप्रणीतं न्यायतत्त्वम्, श्रीमत्पराशरभट्टारककृतिस्तत्त्वरत्नाकरः, श्रीभगवद्यामुनाचार्याणामाचार्यैः श्रीमन्नाथमुनिचरणाश्रयाणां श्रीपुण्डरीकाक्षाणां शिष्यैश्च श्रीराममिश्रगुरुभिर्विरचितं विवरणं षडर्थसङ्क्षेपश्चेति ग्रन्थद्वयम्, अविदितप्रबन्धृव्यपदेशं न्यायसुदर्शनं प्रज्ञापरित्राणां चेति प्रबन्धयुगलम्, श्रीमन्नारायणमुनिविरचितत्वेनाचार्योपात्तं नाम्ना चानुद्दिष्टं किमपि प्रबन्धरत्नम्, अस्यैव च न्यायपरिशुद्धिप्रणेतुराचार्यस्याचार्येण मातुलेन च वादिहंसाम्बुवाहः इति प्रशस्तिनामाङ्कितेन आत्रेयरामानुजाचार्येण कृतं स्वप्रतिभाद्रविणनिक्षेपायमाणं न्यायकुलिशाभिधानं चेत्येते निबन्धाः न्यायपरिशुद्धिकृतैवाचार्येण तत्र तत्र भूयिष्ठमुदाह्रियन्ते ।
यदेव यावदेव चाचार्येण क्वचित् क्वचिदुदाहृतं वाक्यं वाक्यखण्डं वा, तदतिरिक्तं कियदपि टीकाकृतामपि दृष्टिविषयीभूतं नोपलभ्यते ।
अयमत्र हेतुः प्रतिभाति—आचार्यसन्निहितकालेष्वप्यनतिसङ्क्षेपविस्तररमणीयानि प्रस्फुटार्थानि नित्यप्रकाशान्याचार्यश्रीसूक्तिरत्नान्यवमृश्य रसास्वादवादिविजयशिष्यप्रवचनाद्रिप्रवणेषु उपर्युपरि व्याख्यानादिप्रणयनैरविस्तृत्य शास्त्रं वितथमेवातिपातितकालेषु शिष्यप्रशिष्यवर्गेषु कुमारवेदान्ताचार्यादिषु, अतीते च गणरात्रे कैश्चिदर्वाचीनैराविर्भूतैर्ग्रन्थकृद्भिरज्ञातपूर्ववृत्तान्तैर्यथाकथञ्चिद्व्याख्यानेन कश्चिदुपकारः कृत इति ॥
हन्त ! निःशेषक्षालिताखिलकलङ्कस्याप्यस्य श्रीभगवद्रामानुजसिद्धान्तस्येदमेकं शोचनीयं वैशसम् ; यत् तावदाचार्यपदाभिषिक्तैरप्यर्वाचीनैर्बुधवरैः काणादगौतमीयादिसामान्यशास्त्रपरिश्रमेण व्ययितवयोभिरन्तिमे वयसि कथञ्चिदुपजातवेदान्ततृष्णैः शिष्यसङ्ग्रहणकृतक्षणैरवश्योपादेयोपदेशश्रीभाष्यादिकतिपयग्रन्थग्रहणचरितार्थैरनादृताः प्राचामाचार्याणां वाग्विस्तरा एतर्हि श्रोतुमपि दुर्लभतां गमितार्ः ।
इदृशोयं विद्यावधः कस्य वा विद्याव्यसनिनो न दूनोति मानसम् ? ।
अथवा कृतं प्राचां प्रबन्धप्रणाशचिन्तनेन ।
अस्यैवाचार्यस्य वाङ्मधुनिष्यन्दो मुधैव कियान् न विस्रंसितः ।
सर्वतन्त्रस्वतन्त्राणामाचार्यचरणानां शताधिकाः प्रबन्धा हारविमलाः प्रसिद्धाः ।
संस्कृतप्राकृतद्राविडभाषाभिस्त्ररौशिकानि काव्यनाटकस्तोत्राणि, लोकशास्त्रव्यवहारनिरूढसंस्कृतव्यतिकीर्णद्राविडभाषामयानि च चतुर्थराशिनिविष्टानिलौकिकानामप्यनुग्राहकानि परीक्षकाणामपि सुग्रहसाम्प्रदायिकतत्त्वहितपुरुषार्थान्यादर्शविमलानि मणिप्रवालशब्दितानि नियतश्राव्यतया रहस्यसञ्ज्ञितानि सिद्धान्तनिष्कर्षणेदम्पराणि लोकश्रेयसे जातानि ग्रन्थजातानि ।
तत्र वेदान्ते तावत् तत्त्वटीका नाम श्रीभगवद्रामानुजमुनिवरविरचितस्य शारीरकमीमांसाभाष्यस्य विवृतिरपूर्वार्थविशेषविन्यासपरिभूषिता त्रैकाल्यसम्भावनीयानामशेषाक्षेपाणामचलनिश्चयान् परिहारानुपदर्शयन्ती गङ्गेन गौरीगुरोरेतस्मादाचार्यवर्यादाविर्भूता ।
सा च प्रथमसूत्रमात्रमपि यावदसमग्रोपलब्धप्रचारा वेदान्तविद्याविचारकाङ्क्षिणां चिन्ताव्यसनायैव खण्डभूता परिदृश्यते ।
विचित्रायोधनाकुण्ठशक्तौ तेजस्विनि स्वां शक्ति समग्रमदर्शयित्वैव नियतियैयात्येनाकस्मादुपरतं योधरत्ने तटस्थदृष्टे कस्य वा वीरधर्ममनुतिष्ठतो हृदयं न दूयेत ।
सोयमस्य निबन्धरत्नस्य लोपे दृष्टान्तः ।
केचिन्मन्येरन् आचार्यैरेव न समापूरितायं ग्रन्थ इति, तदेतत् स्वोपमानेन सर्वत्र शक्तिपरिच्छेदं कलयतां प्रलपितमत्र न क्रमते ।
त्रिविधाः खलु लोके प्रबन्धकृतः—केचिद्गुरुकुलचिरपरिश्रमैरनेकशः श्रुतान् यथाश्रुतमर्थान् पत्रेषु विनिवेश्य प्रकाशयन्तो लोकमनुगृह्णन्ति ।
अथेतरे, ये पुनर्जात्यैव स्फटिकावदातबुद्धयः सत्त्वविशेषाविर्भावनिस्तुषाशयाः स्वतः स्वान्तमुकुरतलस्फुटसङ्क्रान्तसर्वार्थप्रतिच्छन्दा अपि सम्प्रदायपरिरक्षणश्रद्धलुतया गुरूपदेशदर्शितां पदवीमवर्जयन्तश्चित्तघण्टापथेषु समसमयसञ्चरदखिलप्रमाणतर्कगुरूपदेशसम्प्रदायविशेषा एकहेलया भूयसोर्थानयत्नेन ग्रहीतुं प्रणेतुमप्यर्हन्ति ।
अन्ये तु निरन्तरभजनकृतप्रसदनेन भगवता सर्वेश्वरेण दूरप्रत्यूढप्रत्यूहविप्रुषो निःश्रेयसावधीनि कुशलजातान्यनुभवितुं निजचरणशरणानप्यनुभावयितुं चाकुण्ठशक्तयस्तृतीयकक्ष्यानिविष्टाः ।
त एते व्यासपराशरवाल्मीकिप्रमुखैर्महर्षिगणैरपि गणनीयानुभावा विलक्षणाः प्रबन्धकृतः; येषामेकप्रतिभासूत्रस्यूतानि प्रमेयरत्नानि पुनः पुनः परिशीलितान्यपि नवनवानीव प्रज्ञावतां हृदयेषु कमपि चमत्कारमावहन्ति न च कदाचित् पुराणचित्रवद् विच्छायानि भवन्ति ।
न्यापरिशुद्धिकृदाचार्यस्तु द्वितीयतृतीययोरुभयोरप्रि कक्ष्ययोः हारावल्योरिव नायकमणिः प्रकाशत इति तत्त्वविदामपरोक्षम् ।
प्रकृतिसिद्धं च प्रक्रान्तस्यान्तगमनं शक्तिमताम् ।
लोकानुग्रहमात्रफला येषां सर्वाः प्रवृत्तयः, तादृशानामयत्ननिर्वर्तनीये लोकोपकारार्थे समारम्भे चिकीर्षितविच्छेदः कथमुपपद्यते ? ।
एवङ्गुणेन चाचार्यचूडामणिपवना शिष्यबुद्धिं प्रसादयितुमारब्धा कृतिरसमाप्य मध्ये अपविद्धा भवतीति को नुखलु प्रभाववेदी प्रतिपत्तुमर्हति ? ।
अपि च “निखिलनिगमश्रेणीचूडापरिष्कृतिरूपिणी निपुणमनसामाशासौधस्थलीषु निबध्यते ।
यतिपतिभुवो भाष्यस्यासौ यथाश्रताचिन्तित– प्रवचनविधावष्टाविंशे जयध्वजपट्टिका” ॥
इति स्वकृतस्य भाष्यप्रवचनस्य अष्टाविंश्यामावृत्तौ तत्त्वटीकानिबन्धप्रणयनमाचार्यस्तत्त्वटीकाप्रारम्भे स्वयमेव स्पष्टमाह ।
सङ्कल्पसूर्योदयप्रस्तावनायां च— “विंशत्यब्दे विश्रुतनानाविधविद्य- स्त्रिंशद्वारं श्रावितशारीरकभाष्यः ।
श्रेयः श्रीमान् वेङ्कटनाथः श्रुतिपथ्यं नाथप्रीत्यै नाटकमर्थ्यं व्यधितैतत्” ॥
इति सूत्रधारवाचा शारीरकभाष्यप्रवचनं सङ्कल्पसूर्योदयनिर्माणकाले त्रिंशद्वारकृतं प्रथयति ।
तदानीमेव त्रिंशद्वारं शारीरकभाष्यप्रवचनमासीद्यदि, ततः पश्चात् प्रवचनावृत्तयस्ततोपि हि भूयस्यो भवितुमर्हन्ति ।
कृष्णमिश्रसमागमकालो हि सङ्कल्पसूर्योदयनिर्माणसमयः ।
ततश्चाष्टाविंश्यामावृत्तौ तत्त्वटीकानिर्माणं कृष्णमिश्रसमागमात् पूर्वतरं भवति ।
शतदूषण्याः समनन्तरं तत्त्वटीका कृतेति च प्रतीयते ।
उक्तं हि स्वयमेवाचार्यैस्तत्त्वटीकां प्रक्रममाणैः— “शातितः शतदूषण्यां शङ्करादिमुधाग्रहः ।
शरीरकशरीरं तु व्यक्तमत्र प्रदर्श्यते ॥
" इति ।
“श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता ।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥
" इति कुमारवेदान्ताचार्यकृतमङ्गलाशासनपरामर्शने श्रुतप्रकाशिकाप्रवचनतत्परत्वमाचार्याणां तत्त्वटीकापूरणविघाताय जातं स्यादिति चापातरमणीयम् ।
श्रुप्रकाशिकाचार्यस्य हिम्लेच्छबलोपमर्दलग्नस्य निजगुरुसब्रह्मचारिणो मुमूर्षतः प्रार्थनया तद्ग्रन्थरक्षणप्रवचनयोरङ्गीकारेपि नैतावता स्वकीयं महीयांसं प्रबन्धप्रणयनप्रयत्नमाचार्यो वितथीकरिष्यति ।
न ह्मत्रत्यमपूर्वमर्थजातं ग्रन्थान्तरेण चरितार्थं भवति ।
तदिदमाचार्यग्रन्थे कृतश्रमाणां स्वत एव सुव्यक्तम् ।
इदानीमुपलभ्यमानपर्यन्तेपि तत्त्वटीकाग्रन्थखण्डे ये विषयाः प्रतिपाद्यन्तु, नैते श्रुतप्रकाशिकायामन्यत्र वा ग्रन्थान्तरे प्रतिपत्तुं सुलभाः ।
किञ्च स्वाचार्यैर्वादिहंसाम्बुवाहार्यैः प्रणीते विद्यमान एव हि न्यायकुलिशाख्ये न्यायनिबन्धरत्ने न्यायपरिशुद्धिमाचार्यः स्वयं निबबन्ध ।
अवश्यवक्तव्येषु चार्थेषु जोषम्भावः कथञ्चिदपि शास्राचार्यतायाः सदृशो न भवति ।
न च नवनवार्थाविष्करणमर्वाचां प्राचीनाचार्यपरिभवाय ।
अपि च, “निखिलनिगमश्रेणीचूडापरिष्कृतिरूपिणी निपुणमनसामाशासौधस्थलीषु निबध्यते” ॥
इति प्रबन्धोपक्रमप्रतिज्ञानमेव प्रदर्शयति ग्रन्थान्तरैरचरितार्थस्य सर्ववेदान्तार्थसंस्कारस्य महामतिभिरपि सर्वज्ञसकाशात् शुश्रूषितस्य प्रतिपादनार्थमपूर्वायाः कृतेः समारम्भ इति ।
स कथं न परिपूर्येत ? ।
किञ्च निजनिबन्धस्य श्रुतप्रकाशिकारक्षणाङ्गीकारसमय एव लब्धप्रसरतामनुस्मृत्य परकीयग्रन्थप्रवचनमङ्गीकृतमाचार्यैरिति शक्यमभ्यूहितुम् ।
तथाच सति तत्त्वटीकाग्रन्थलोपनिदानमर्वाचामाचार्याणां तत्रापरिशीलनमेव, न तु ग्रन्थापरिसमाप्तिः ।
यथाहि न्यायसिद्धाञ्जनमपि जडद्रव्यपरिच्छे देनैव पर्यवसितं साम्प्रतं परिदृश्यते, अद्रव्यपरिच्छेदस्तु पतित एव ।
अशक्यं च तत्पूरणमन्यैः ।
इत्थममुमर्थं श्रीरङ्गरामानुजगुरुरेव न्यायसिद्धाञ्जनव्याख्याने “न क्वाप्यतः परमदृस्यत कोशशेष- स्तच्छेषपूरणकृतिः परिहासहेतुः ।
ज्ञातव्यमन्यदपि तैर्निरणायि सम्य- ग्ग्रन्थान्तरेष्विति न किञ्चिदिहास्ति चिन्त्यम्” ॥
इति निगमयन्निवेदयति ।
शतदूषण्यपि हि न समग्रा दृश्यते ।
षट्षष्टिरेव वादा लोके प्रचरन्ति ।
शेषे तु मिथ्यैव किमप्यैतिह्यं कल्पयित्वा कतिपये प्रजल्पन्ति ।
यत्तावत् द्वैतमतखण्डनपरः शेषो ग्रन्थः मध्वमतस्थेन केनचिद्यतिना भिक्षामटता सविनयमुपसृत्य प्रार्थितोयमाचार्यः तं तस्य भिक्षार्थे प्रायच्छिदिति, तदपि न विचारक्षमम् ।
न ह्याचार्यग्रन्थेषु क्वचिदपि मध्वमतं निरस्यते ।
तत्त्वविप्लवाभावात्, अवान्तरेषु चार्थेषु नैयायिकवैशेषिकादिप्रतिपादितस्यैव द्वैतस्यानुवादात्, अनतिप्रचुरतया तस्य मतस्य लोकविप्लवप्रसङ्गाभावाच्चानास्थैवाचार्याणां तत्र स्यात् ।
अतश्चतुस्त्रिंशद्वादा मध्वमतखण्डनपरा इति किंवदन्तीमात्रमेतत् ।
शतदूषणी च शङ्कादिकृतसूत्रव्याख्यानादिनिरासार्थमेव प्रवृत्तेति च तद्ग्रन्थमुख एव स्फुटीभवति ।
तत्र हि —- “प्राचीमुपेत्य पदवीं यतिराजदृष्टां तत्सन्निकृष्टमपि वा मतमाश्रयन्तः ।
प्राज्ञा यथोदितमिदं शुकवत् पठन्तः प्रच्छन्नबौद्धविजये परितो यतध्वम्” ॥
इति प्रतिश्रुतम् ।
अत्र ऽतत्सन्निकृष्टमपि वा मतमाश्रयन्तःऽ इत्यनेन द्वैतिनः स्वपक्षीक्रियन्ते ।
अद्वैतखण्डनमेव च ग्रन्थप्रवृत्तिप्रयोजनमिति च दर्शितम् ।
तथा च—विद्यारण्याक्षोभ्यमुनिविवादे निर्णयं ब्रुवद्भिराचार्येः “असिना तत्त्वमसिना परजीवप्रभेदिना ।
विद्यारण्यमहारण्यमक्षोभ्यमुनिरच्छिनत्” ॥
इत्युक्तम् ।
ऽशातितः शतदूषण्यां शङ्करादिमुधाग्रहः ।
ऽ इत्यत्र तु शङ्करादीत्यादिपदं यादवभास्करयोः सङ्ग्रहायेति स्थितम् ।
तस्मात् समग्रग्रन्थादर्शनमर्वाचामाचार्याणां प्रवचनविच्छेदनिबन्धनं प्रबन्धलोपहेतुरिति स्पष्टमेतत् ॥
अत्र प्रसक्तानुप्रसक्तमाचार्यस्य कृष्णमिश्रसमागमचरितं किञ्चिदुपन्यस्यते—कृष्णमिश्रो हि गौडदेशीयः पण्डितचूडामणिः सर्वासु विद्यासु कलासु च सविशेषकृतश्रमः कविश्च ब्रह्माद्वैतं सिद्धन्तमातिष्ठमानो वादकुतूहलितया सर्वा दिशः पर्यटन् जितकाशी क्रमेण दक्षिणान्दिशमाचक्राम ।
तत्र श्रीरङ्गं दिव्यक्षेत्रं विदुषामावासमाकर्ण्य देवसेवापदेशेन वादसमरमर्थयमानः श्रीरङ्गराजस्य भवगतः प्रासादमासदाद ।
तदानीं तत्र भाषामयीर्गाथाः सरागतालं गीयमाना निशम्य तत्कर्तॄणां च कवीनां वर्णावराणामपि प्रतिमास्तस्मिन् देवालये देवोपचारैराराध्यमाना विदित्वा तत्र सेवासमवेतान् ज्ञानवृद्धान् श्रीवैष्णवानामन्त्र्य ऽभोः प्राज्ञाः, भवतामनेनापभ्रंशपाठेन वर्णावरपूजनेन च दूरापोढं वेष्णवं तेजः ।
किमनेनाराधनेन ? ।
अन्थथाकृतमकृतं हि भवतिऽ इति साक्षेपं पप्रच्छ ।
यदा तैर्मिलितैरपि न किञ्चिदाक्षेपसदृशमुत्तरं प्रतिपन्नम्, तदा तदातनाय तद्देशाधिपतये तमर्थमावेद्य, प्रतिष्ठाप्रभृति सर्व एवालयसंस्कारः कार्यः प्रत्यग्र एव इति च नियम्य तं दिव्यालयं गाढघटितार्गलद्वारं परित्यक्ताशेषपूजोत्सवं च कारयामास ।
लोकाचार्यप्रभृतयश्च बहवस्तत्र दर्शनगुरवस्तादृशं वैशसमचिन्तितोपनतमनुस्मृत्य दुरन्ते दुःखसागरे निमग्नास्तं च प्रतिवादिनं सर्वविद्याविशारदं वादाहवनवशूरमप्रकम्प्यमाकलयन्तः सभामभिनवां कामपि सङ्गमय्य तस्यानर्थस्य किञ्चिदपि प्रतिविधानं चिन्तयामासुः ।
तस्मिन् महति सदसि विदुषां सम्प्रदायाचार्यः श्रीमान् लोकाचार्यः सर्वेषां सभासदामवधेयवचनः समर्थामभ्यर्हितां वाचमाददे— “भोः भागवतप्रधानाः, बलवन्तं परिपन्थिनं पराङ्मुखीकर्तुमुपायः कश्चिदत्र मे प्रतिभाति ।
स तावदुच्यमानो भवद्भिरनुमन्यताम् ।
अस्ति किल काञ्च्यां नगर्यां वेङ्कटनाथार्यो नाम विदुषां प्रथमः ।
स हि वृषशैलनाथस्य घण्टाम्श एवावतीर्णः इति तत्त्वविदां ग्रहणम् ।
सोयं पञ्चवर्षदेशीयः शिशुरेव सन् निजमातुलेन वादिहंसाम्बुवाहेनात्रेयरामानुजाचार्येण शारीरकभाष्यग्रहणाय वरदगुरुसकाशं गच्छता प्रियभागिनेयेन नीतस्तत्र भाष्यविषये प्रसक्तान् बहून् सन्देहशृङ्खलाग्रन्थीन् विस्रंसयंस्तया तत्रसमवेतया प्रज्ञावृद्धपरिषदा अपूर्वप्रसादविस्मयचित्रितचित्तया सबहुमानमवलोकितः श्रीमता च वरदगुरुणा श्रीभगवद्रामानुजसिद्धान्तस्य दैवात् सम्प्रति सञ्जातमवलम्बनमिति बद्धाश्वासेन, ऽप्रतिष्ठापितवेदान्तः प्रतिक्षप्तबहिर्मतः ।
भूयास्त्रैविद्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥
ऽ इत्याशिषं प्रयुञ्जानेन ऽअस्य कुमारस्य स्वतः प्रतिभातसमस्तशास्त्रार्थसारस्य विद्यासंस्कारमात्रफलो गुरूपदेशो भविष्यति ।
न तु ज्ञाने कश्चिदपि शक्तिलेश आधेयो भवति ।
भगवानपि हि देवकीनन्दनः विद्याग्रहणाय सान्दीपिनेराचार्यस्य सकाशे गुरुकुलवासमग्रहीत् ।
किं चास्य शैशव एवायं प्रज्ञाप्रकर्षो दाशरथेरिव विक्रमतिशयो जन्मसिद्धः ।
नासौ पुरुषान्तरदृष्टिविषयं प्रापयितुं युक्तम् ।
साभ्यसूयाः सविस्माया वा दृशो नास्मिन् बालवयसि पतितुमर्हन्ति ।
दृष्टिदोषैर्हि विषानलैरिव प्रसरद्भिस्तरव इवावलाढाः कति नाम महागुणाः पुरुषाः स्वगुणैर्लोकमनुपकृत्यैवास्तं गताः ।
भवानेवामुं सर्वशास्त्रेषु कृतप्रज्ञं कर्तुमर्हति ।
श्रीभगवद्रामानुजसिद्धान्तस्यैष जयध्वजः समुच्छ्रीयताम्ऽ इयादिश्य शिशुरसौ निजमातुले वादिहंसाम्बुदाचार्ये न्यासीकृतः ॥
अथासौ वयसा विंशतिवर्षदेशीय एव सन् सर्वतोमुखप्रसृतप्रबोधतया परेषामनभिभवनीयः संवृत्तः ।
एवमक्षय्यप्रतिभाद्रविणेन सर्वेष्वपि च तन्त्रेषु निरामयं पन्थानमवगन्तुं प्रसादयितुं चालङ्कर्मीणेन चाचार्येणा सार्धं कदाचित् काञ्चीनगरे देवदेवस्य भगवतः श्रीदेवराजस्य वैशाखमासिके यात्रामहोत्सवे विद्वत्संवादकुतूहलितया समागतः सर्वपथीनवैदुषीविभवः प्रबन्धरत्नप्रणेता चाखिलशास्त्रेषु विद्यारण्य इति कृतप्रशस्तिनामधेयो माधवाचार्यो नाम वेदभाष्यकृत् वादाहवे लग्नो निरङ्कुशनिशिततर्कशरासारवर्षिणः आचार्यस्याग्रतः प्रत्यवस्थातुमक्षमो विस्मयबहुमानभरितमना विजयनगरं प्रयातः स्वशिष्यस्य राज्ञस्तमर्थं यथावृत्तमावेद्य तथाविधविद्वद्रत्नदर्शनोत्कण्ठात्वरितस्य प्रभोः प्रार्थनया छत्रचामरप्रभृतिसमस्तराजपरिबर्हपरिबृंहितं राजौपवाह्यपुरःसरं प्रधानसचिवहस्तार्पितसबहुमानसमाह्वानलेखं च चतुरङ्गबलं प्रणीयः प्रार्थितो वैराग्यपञ्चकं तस्य प्रत्युत्तरयाञ्चकार ।
तेन च माधवाचार्येण स्वीये सर्वदर्शनसङ्ग्रहे रामानुजदर्शनमुपक्षिपता— ऽतदुक्तं वेङ्कटनाथेन तत्त्वमुक्ताककलापेऽ इत्युपक्रम्य, ॥ श्रीः ॥

॥ श्रीमते हयवदनपरब्रह्मणे नमः ॥

॥ श्रीमते रामानुजाय नमः ॥

॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
श्रीमान वेङ्कटनाथार्थः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि