न्यायकुलिशे सामानाधिकरण्य-वादस् सप्तमः ।
विस्तारः (द्रष्टुं नोद्यम्)
शास्त्रेष्व् असकृज् जीवब्रह्मणोर् ऐक्यम् उक्तम्। अद्वैतिन इदं स्वरूपैक्यं मन्यन्ते। विशिष्टाद्वैतिनो विशिष्टैक्यम् मन्यन्ते विवक्षितम्। तत्समर्थनाय सामानाधिकरण्यम् अधीयते।
भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिस् सामानाधिकरण्यम् इति लक्षण-वाक्यम्।
भिन्न-प्रवृत्ति-निमित्तानाम् एकस्मिन्नर्थे वृत्तिः
“तद् इदम् असम्बद्धम् इव दृश्यते । प्रवृत्ति-निमित्त-भेदो ह्य् अर्थभेदः। कथं तेषाम् एकस्मिन्न् अर्थे वृत्तिस् सम्भवति ? सा चेद् अङ्गीकृता - कथं निमित्त-भेद ?” इति ॥
अत्र केचिद् आचक्षते-
भिन्न-प्रवृत्ति-निमित्तानाम् अपि केषाञ्चिद् एकार्थ-वृत्तित्वं सम्भवति, यथा शुक्लो गौर् इति।
न चात्रार्थैकत्वासम्भव इति वाच्यम् - निमित्तयोर् मिथो भेदेऽपि - विशेष्येणाभेदात्, तस्य चैकत्वाद् एकार्थत्वाऽविरोधात् ।
एक-वस्तु-तादात्म्ये भेदः
“यद्य् एक-वस्तु-तादात्म्यं, तयोः कथं मिथो भेदः ? स +++(मिथो भेदश्)+++ चेत् कथम् एतत् - न ह्य् एकस्य, विशेष्य-मात्रस्य, स्वात्मना ऽभिन्नस्य भेदो दृष्ट” इति चेत् ,
सत्यम् ; अत्र तु दृश्यत एव ।
अतो +++(तेन)+++ दर्शन-बलेन +++(एकत्वम् => अभेदः इत्यस्य)+++ व्याप्तिम् अवधूय
भेदाभेदयोर् अविरोधम् अभ्युपगच्छामः।
दृश्यते ह्य् “अयं गौर्” इत्य् अभेदेन जातिः। “अयं शुक्ल” इति च गुणः।
नात्र सामानाधिकरण्योपन्यासः
+++(“अयं गौर्” इत्यत्र)+++ “सामानाधिकरण्यार्थ एव निरूप्यत” इति चेन् न; प्रत्यक्षोपन्यासात् ।
यः खल्व् “अयम्” इति प्रतिभातः पिण्ड-विशेषः, स एव हि “गौर्” इति प्रतिभाति ।
जाति-विशेषण-भेदः
न च “दण्डीत्यादि-वद् गोत्वादि-विशिष्टे विशेषणतयैव गोत्वादयश् च भान्ती"ति वाच्यम् ;
व्यतिरेकेणाऽनुपलब्धेः +++(- उदाहरणम् वक्ष्यते)+++।
यद् +हि विशेषणं दण्ड-कुण्डलाऽऽदि, तस्मिन् पृथग् अनुभूयमाने ऽपि1 तद्-व्यतिरेकेण पुरुषोऽवगम्यते ।
(अतः?) तत्र युक्तं व्यतिरेकेणोपलब्धयोर् विशेषण-विशेष्ययोस् तथा व्यवस्थापनम् ।
इह तु-
यद् एवैकदा व्यक्ति-रूपेणावसितं, तद् एवानन्तरं जाति-रूपेणापि नित्यम्।
दर्शने ऽबाधा
अवश्याभ्युपगमनीयं दर्शन-वशाद् एव द्वैरूप्यम् ।
न चात्र दर्शने बाधकं किञ्चित् ज्ञानम् उत्पद्यते।
“गुण-जात्योर् भेद-दर्शनम् एव +++(दर्शने)+++ बाधकम्” इति चेन् न; +++(दर्शनयोर्)+++ भिन्न-विषयत्वात् 2।
ततो +++(“गुण-जाती स्वाश्रय-व्यक्ति-भिन्ने, मिथो भिन्नत्वाद्” इत्य्)+++ ऽनुमानम् +++(बाधकम्)+++ इति3 चेन् - न ; उपलब्धि-विरोधात्4 ।
गुणगुणिनोरेव भेदोपलम्भो बाधक इति चेन्न; तस्याविरोधापादकस्य बाधकत्वानुपपत्तेः, यथा शुक्लो गौरित्युपलम्भो गोत्वशुक्लत्वयोः। विरोधे सिद्धे बाधक एवेति चेत् , कथमत्र विरोधः ? भिन्नाधिकरणत्वनियमात् (इति चेन्न ;) न हि घटपटयोरभेदो दृष्टचरः। तर्हि घटस्य खात्मना भेद इति चेन्न ; व्यतिरेकदृष्टान्तमात्रत्वादस्य विरोधस्थानत्वानुपपत्तेः। तथा शुक्लस्य पटस्यागोत्वं गोः कृष्णस्य चाशुक्लत्वं किं न पश्यसि ? गोश्शुक्लस्य चोपलम्भाद्यदि तत्राविरोधनिश्चयः, एवमत्रापि भवान् समदृष्टिस्स्यात् ; कृतमभिनिवेशेन ।।
तथापि कस्यचित्केनचिद्विरोधः कथं निश्चय इति चेत् , किमनेनोक्तेन ? सौहार्द तु वदामः। वैयधिकरण्यनियमादुपलम्भमात्रस्य नियमः। शुक्तिकायामपि रजतावभासादर्थस्य क५ निश्चयः, विपरीतनिश्चयो वेति चेन्न ; शुक्तिकायां रजतस्य प्रतिक्षेपात् । नेदं रजत स्मति हि तत्र स्फुटः प्रतिक्षेपः। यदि च प्रतिक्षेपमन्तरेण शुक्तिरजतत्वयोरेकत्रावभास स्यिात् , कस्तत्र विरोधमुद्भावयेत् ?
४. अत्र ‘इति चेन्न’ इति अर्थसामञ्जस्याय पूरणीयमिति भाति । तदा चायमर्थः—गुण गुणिनोभिन्नाधिकरणत्वनियमाद्विरोध इति चेत् , तर्खेकाधिकरणत्वेऽविरोधादभेद इति सिद्धयति । एवञ्च घटपटयोः कदाचिदेकाधिकरणत्वादभेदस्स्यात् । ननु एकाधिकरणत्वेऽपि भेदाङ्गीकारे घटस्य खात्मनोऽपि भेदस्स्यादिति चेन्न ; एकाधिकरणत्वेऽभेद इति नियमभञ्जनार्थ घटपटरूपव्यतिरेकदृष्टान्तकथनात् एकाधिकरणत्वादेर्भेदप्रयोजकत्वस्यास्मदनुक्तत्वादिति । विमृश्य निर्धार्यम् ।
५ व निश्चय इति पा०.
सप्तमो वादः
१२९
ननु कोऽयं प्रतिक्षेपः ? यदि तत्राभावप्रत्ययः तर्हि तत्र प्रतिपन्न इति भवता मविरोधमर्हतीति चेत् , स्यादेतदेवं, यदि भावनिषेधमन्तरेणाभावस्य रूपान्तरमुपलभ्येत । न तु प्रतियोगिनं प्रत्युदासीनमभावस्य स्वरूपं पश्यामः । भावे तु रूपान्तरेण प्रतिपन्ने सामानाधिकरण्यप्रतीतिवि (रवि ?) रोधमेव स्थापयेत् । अन्यथा हि कथञ्चिदेकाधिकरणा पेक्षया भावान्तरप्रतिपत्तिरेव पूर्वस्य बांध इत्यापद्येत। २भावाभावात्मकावेव भेदाभेदाविति चेन्न ; भेदस्य स्वरूपलक्षणस्य भावात्मकत्वात् ; अभेदस्यापि तादात्म्यरूपस्याभावत्वानुप पत्तेः । न चेतरेतराभाववत्तामात्रेण विरोधः ; अतिप्रसङ्गात् । न चाक्षेपकत्वेन ; शुक्तिका रजतत्ववदविनाभावासिद्धेः। अत्रैव प्रत्यक्षेण बाधात् । ३प्रत्यक्षबलादविनाभावभङ्गस्तद्भङ्गेन तद्वलमिति चेन्न, ४अनन्यथासिद्धेः प्रत्यक्षस्य । न हि सामान्यामन्यत्र प्रत्येतुं शक्यम्; येन रजतादिवदारोपादिकल्पना स्यात् । न च ‘अयं न गौः गौर्वा नायम्’ इति बाधः । न चार्थक्रियावतोरनयोधिशङ्कापि सम्भवति। कार्यवर्गस्तत्साजात्यञ्चार्थक्रियेति द्रष्टव्यम् । ६सामान्यविशेषात्मकञ्च विश्वम् ; तद्बाधे किं भविष्यति। अतो भेदाभेदयोरविरोधाज्जाति गुणादयस्खाश्रयेण भिन्नाभिन्नाः ॥
विशेषणविशेष्यभावाच्च । न खल्वत्यन्तभिन्नयोः कचिदपि विशेषणविशेष्यभावा दृश्यते । दण्डी देवदत्त इति दृश्यत इति (चेन्न ?) संयोगद्वारको हि तत्र विशेषणविशेष्य भावः ; तेनैव चाभिन्नता, संयोगतद्वतोरनतिभेदात् । अत एव चौपाधिकाभेदापगमे
T
१. तत्रेयस्य प्रतिपन्ने, प्रतियोगिमत्तया ज्ञाते इत्यर्थ इति भवन्मतेऽविरोध एव, प्रतियोग्य भावयोस्सामानाधिकरण्यादिति.
२. तर्हि भेदाभेदयोरपि परस्परनिषेधरूपतया विरोध एवेति शङ्कते-भावेति । ३. अन्योन्याश्रयं शङ्कते-प्रत्यक्षेति । ४. प्रत्यक्षबलमनन्यथासिद्धत्वादेव सिद्धमिति नान्योन्याश्रय इत्याह–अनन्येति. ५. सादृश्यमित्यर्थः
६. अयं गौरित्यत्र जातेय॑क्तेर्वा आरोपितत्वस्वीकारे विनिगमनाविरहेण सर्वबाधे किं स्थास्य तीत्यर्थः।
18
17
१३०
न्यायकुलिशे विशेषणतावगमः। ननु सम्बन्धाभावादिति चेत् , किमभिन्नानां विशेषणत्वे सम्बन्धित्वं
प्रयोजकम् ? न तर्हि सम्बन्धः खाश्रयं विशिष्यात् ; सम्बन्धान्तराभावात् ।
___ अस्ति हि समवाय इति चेत् तर्हि समवायीति प्रत्ययो न स्यात् । न हि तस्यापि समवायान्तरमस्ति। स्वपरनिर्वाहकोऽयमिति चेत्, किमयं स्वस्खाश्रयघटकस्वयमेव, अथ घटकस्सम्बन्धान्तरात्मा, विशेषणत्वे घटकान्तरनिरपेक्षो वा। नाद्यः ; कर्मकर्तृविरोधात् । आकारभेदादात्मवदविरोध इति चेन्न ; १तस्यापि सम्बन्धान्तरापेक्षायामनवस्था स्यात् । न द्वितीयः; तत्रैव भेदाभेदप्रसङ्गात् । तद्वरं प्रथममेवाभ्युपगमः। एवं हि तत्कल्पना न स्यात् । न च तृतीयः ; आदावेव प्रसङ्गादतिप्रसङ्गाच ।
न स्वभावतो व्यवस्था ; एकस्यैव समवायस्यानन्तैस्सम्बन्धिभिर्विरोधेन वैशिष्टया वैशिष्टययोर्निवोढुमशक्यत्वात् । नानात्वे चानन्तकल्पना। अतस्तादात्म्यमेव वैशिष्टय निर्वहणाय गत्यन्तराभावादभ्युपेतम् । इदञ्च सर्वत्र साक्षात्परम्परया वा यथासम्भवमूह नीयम् ॥
सहोपलम्भनियमाच्च। न च साहित्यमेकस्यैव सम्भवति। न च नियमः (मतः ?) पृथगनुपलम्भलक्षणो भेदोर दृश्यते। ननु न पृथगनु (गु ?) पलम्भोऽत्यन्तभेदव्यापकः, यत्तन्निवृत्त्याऽत्यन्तभेदनिवृत्तिस्स्यात् ; पृथक सिद्धेपाधित्वादिति चेन्न ; साधनव्याप कत्वात् ॥
का चेयं पृथक्सिद्धिः ? न ३तावद्भिन्नदेशकालत्वम् ; भिन्नदेशानां भिन्नकालानाञ्चा पृथक्सिद्धिप्रसङ्गात् । न चैकैकम ; भिन्नदेशानां भिन्नकालानां वा अपृथक्सिद्धिप्रसङ्गात् ।
१. आकारस्यापीत्यर्थः, आकारिणीति शेषः
२. अत्यन्तभेदः नियमेन पृथगनुपलम्भसहचरितो न भवति । भेदे पृथगुपलम्भस्स्यादित्यर्थः.
३. अयं भावः-भिन्नदेशकालोभयकत्वं पृथक्सिद्धिरिति चेत्, देशमात्रभेदे कालमात्रभेदे चा पृथक्सिद्धिस्स्यात् । भिन्नकालत्वं पृथक्सिद्धिरिति चेत् , देशभेदेऽपृथक्सिद्धिस्स्यात् । भिन्नदेशत्वमिति चेत्, कालभेदे। मिन्नदेशभिन्नकालान्यतरत्वमित्यपि न, सकलविभ्वाद्यपृथक्सिद्धिप्रसङ्गादिति.
सप्तमो वाद:
१३१
५
नाप्यन्यतरत्वम् ; समदेशकालानां विभ्वादीनामपृथक्सिद्धिप्रसङ्गात् । नापि पृथगाश्रयाश्र यित्वम् ; गुणत्वादावतिव्याप्तेः। नापि १पृथग्गतिमत्वं तद्विशिष्टं वा ; रूपरसयोरव्याप्तेः। न चानाश्रितस्य सत्ता ; सा चासम्बन्धयोर्विद्यमानता ; सम्बन्धस्यैवाकृत्यादावभावात्। तथा चोपपादितत्वात् । न च विशेषणादिभावमपहायावस्थानम् ; विशेषणत्वस्य तादात्म्यनिबन्ध नत्वेन तदभावस्य भेदपर्यायत्वात् । भिन्नतयावस्थानमेव पृथक्सिद्धिरिति चेत्, आगतोऽसि मदीयं पन्थानम् । त्यजेदानीमुपाधिव्यसनम् । आत्मानं प्रत्यात्मन एवोपाधित्वायोगात् ।
अयमपि गौरिति प्रत्ययाच। न ह्ययमिति प्रागननुभूतविशेषोल्लेखोऽन (?) नु भूततया गोत्वेन प्रतिसंधानञ्च केवलभेदेऽभेदे वा घटते। न चैवं व्यक्तिजातिगोचरो (रौः) भेदाभेदः (दौ?); व्यक्तिश्च जातिश्चेति प्रतीतिप्रसङ्गात् । सम्बन्धे च सति सम्बन्धश्चेति प्रतीतिप्रसङ्गः।
अवयवावयविनोस्समानदेशत्वाच्च । मूर्तद्रव्यमत्यन्तभिन्नमूर्तान्तरोपष्टब्धावकाशमनुप लब्धमित्यवयवसमानदेशोऽवयवी घटस्तदनतिरेकीति लभ्यते ।
अनुमानोदयाश्च (याचः)। कथमपरथा चार्वाकपरिपाटी पराक्रियेतः। न खल्वेकेन प्रतिबन्धोपलम्भेऽपरममनुमेयं भवति ; अतिप्रसङ्गात् । न च गृहीतमात्रावधारणायानुमान मिति प्रमाणान्तरमाश्रयणीयम्।
अतो भेदाभेदयोरपि विरोधाश्रयणेनैवमादिविरोधसहस्रपरिहारास्खयमूहनीयाः। अत एव जातिगुणादिनिमित्तानां शब्दानामसङ्कोचेनैकार्थवृत्तित्वं सम्भवत्येवेति ॥
अत्रोच्यते–
प्रत्यक्षं तावद्भिन्नाभिन्नगोचरमिति न पश्यामः ।
१. पृथग्वृत्तिमत्त्वम् पा०.
न्यायकुलिशे एकैकस्मिन्विशिष्टे वा बुद्धिर्जात्यादितद्वतोः ।
भिन्नाभिन्नत्वमन्योन्यं न समर्थयितुं क्षमा ॥ तथा हि-न तावदेकैकालम्बना बुद्धिर्भेदाभेदव्यवस्थापनाय पर्याप्ता ; तत्तन्मात्र मग्नत्वादर्थान्तरे व्यापाराभावात्। यद्यपि तत्त्वतो निराश्रयजात्यादिमात्रालम्बना निधर्मक धर्मिमात्रावगाहिनी च न काचित्प्रत्यक्षा बुद्धिश्चकास्ति; तथापि तत्तदंशमाकृष्येयं व्यावय॑ते। न हि तत्र जातिमात्रस्फुरणे व्यक्तितादात्म्यप्रकाशस्सम्भाव्यते ; जातिमात्र गोचरत्वव्याघातात् । एवं व्यक्तिमात्रस्फुरणांशेऽपि द्रष्टव्यम् ।
ननु जातिरूपान्तर्गता व्यक्तिः, तत्स्वरूपान्तर्गता च जातिः तत एवान्यतरप्रति भास एवेतरमिश्रगोचर इति चेन्न ; प्रतीतिस्वरूपमपहाय तथाकल्पनानुपपत्तेः । इतरे तरान्तर्भाव मिश्रगोचरम् , मिश्रगोचरत्वे चान्तर्भाव इत्यन्योन्याश्रयापत्तेः। एकैकस्वरूपस्यैव व्यतिरिक्तप्रतियोगितया स्वात्मनो भेदात्मकत्वात्तत्रैव तदभेदप्रकाशानुपपत्तेश्च । उपपत्तौ विश्वात्मतैव स्यात् । तथापि जातिसंविदो व्यक्तिविषयः कटाक्षः कश्चिदुन्नेयः, येन तत्रैव वेदनमुपपद्यत इति चेत् , अहो भवतां संविदभिप्रायरहस्यवेदनम् ; यत् स्फुरणखरूप मपहायार्थसम्बन्धमस्यास्स्वगतमध्यवस्यति (न्ति!) तत्रैव वेदनन्तु तत्रैव तस्यास्सत्त्वात् । न ह्यन्यत्र विद्यमाना जात्यादयोऽन्यत्र प्रत्यक्षेणानुभवितुं शक्याः। स्फुरणं त्वर्थान्तरवत्परस्पर मपि भेदं प्रतिपादयत्येवेत्युक्तम्। तत एव भेदाभ्युपगमः, अभेदस्तु यदेव वस्तु जात्यात्मना पूर्व गृहीतं तस्यैव पश्चाध्यक्त्यात्मनोपलम्भादिति चेन्न ; तस्यैवेत्यत्र प्रमाणा भावात् । प्रत्युत न तस्यैवेत्येव हि स्फुरणमुन्नीतम् । तथापि यदि तस्यैवेति न स्यात्, तर्हि तदानीं योग्यानुपलब्ध्या निरासः प्रसज्यत इति चेन्न ; तुल्यत्वात् । न तावदेकज्ञानवेद्ययो रंशस्य योग्यानुपलम्भस्सम्भवति ; उपलम्भविरोधात् । क्रमेणोपलम्भे तु भवतोऽपि तुल्यम् ।
आकारभेदप्रकाशाभ्युपगमादेकाकारोपलम्भवेलायामाकारान्तरस्य प्रकाशाभावेन निरास प्रसङ्गात् । एकतरमग्नत्वादपरस्यानिरास इति चेन्न ; साक्षादनुपपत्तेः (दनुवृत्तेः) न हि व्यक्तिस्साक्षादनुवृत्तिपदम्, जातिर्वा व्यावृत्तः (ता.), उन्मज्जनाभावप्रसङ्गात् । अथ तत्र सह कारिसन्निधानम्, सन्तु वा सहसं विरोधाः, स्फुरणं तु न तस्यैवेति दुरपह्नवम् । इतरथा सर्वस्य सर्वविषयत्वप्रसङ्गात् ।
सप्तमो वाद:
१३३
M
यत्तु न सामान्यरूपं विशेषरूपं वा निर्विकल्पके चकास्ति, सम्मुग्धमेव भिन्नाभिन्न वस्तु भासत इति वदन्ति ; तदतिस्थवीयः, विकल्पमन्तरेण तत्र भिन्नाभिन्नगोचरत्वस्य व्यवस्थापयितुमशक्यत्वात्। यद्धि विकल्पेन विविच्यते, तदेव हि पूर्वमपि गृहीतमिति वक्तव्यम्। अन्यथा अतिप्रसङ्गात् । ततावान्विशेषः-सविकल्पकेन सप्रकारं गृह्यते प्राङ्न तथेति। इदञ्चान्वारुह्य वचनम् । परमार्थतस्त्वविशिष्टालम्बनं न किञ्चिदपि विज्ञानं भवतीति ।
स्यादेतत् । यद्यप्येकैकस्फुरणं न शबलप्रकाशनसमर्थमिति न तेन तत्सिद्धिः, तथाप्ययं गौरिति विशिष्टविषयकमेकं विज्ञानमनन्यथासिद्धेर्भेदाभेदमनयोरावेदयतीति। नैतत्सारम् । यतः
विशेषणविशेष्यत्वे भिन्नाधिकरणे स्फुटम् ।
विशिष्टत्वं कथं न स्यादभेदे धर्मधर्मिणोः ॥ विशेषणविशेष्यातिरेकि न विशिष्टं नाम किञ्चिद्वस्त्वस्ति । ते तु मिथो भिन्ने संहत्य विशिष्टतया अनुभूयेते । न च संहतिरित्यर्थान्तरम् । तथाप्यनयोरभेदासिद्धेश्चा (द्धेः,१ असि
द्धेश्च । अ) नयोरेवाभिन्न रूपं संहतिरिति चेन्न ; दण्डकुण्डलादेरपि तथाभावप्रसङ्गात् । न हि त्वन्मतेऽपि तत्र साक्षादभेदः। विशेषणत्वं तु साक्षात् । ज्ञानादीनामर्थेन तादात्म्य प्रसङ्गाच्च । अत एव न तादात्म्याद्विशेषणत्वम् । न च जातिस्वात्मनो विशेषणं विशेष्यं वा भवतीति दृष्टम् । न च तथात्वे किं कस्य विशेषणमिति व्यवस्था सिद्धयति । अतस्वभावा देव कस्यचित्प्रतिपन्नगुणभावेन यत्प्रतीयमानमुपयुज्यते तत्तस्य विशेषणमिति। इतरत्त्वद्योगार दपाक्षिकमिति। एतावता तयोः परस्परमेकप्रतिपत्तावन्तर्भूतयोरुपकार्योपकारिभावमात्रं सिद्धयेत् ; न त्वभेदसम्भावनागन्धोऽपि ।
१. संहतेरन्तरत्वेऽपि न विशेषणविशेष्याभेदसिद्धिः । वस्तुतस्तदर्थान्तरत्वमेवासिद्धमित्यर्थे इयं पङ्क्तिस्स्यात् । शङ्कते—-अनयोरिति ।
२. इतरत्त्वयोगा. पा०
न्यायकुलिशे ननु दण्डादिषु विशेषणत्वमानं ‘जात्यादौ तु तादात् यमपि प्रतीयते। इतरथा तच्छब्दे मत्वर्थीयप्रत्ययनिर्देशस्स्यादिति चेन्न ; प्रतिबन्धासिद्धेः । पृथक्सिद्धेरुपाधित्वात् । यद्धि यद्विशेषणतैकवरूपं तेन तदपृथक्सिद्धम् ; इतरत्पृथक्सिद्धमिति विवेकः। अपृथ क्सिद्धमपि कर्म जात्यादिकं वा कदाचिन्मत्वर्थीयप्रत्ययापेक्षमिति चेत् , अभिन्नमपि तथेति तुल्यम् । नियमराहित्यमेव विवक्षितम् ; तच्चानिन्नेषु केषुचिदनपेक्षत्वदर्शनमात्रेण सिद्धयतीति चेत् , तपृथक्सिद्धेष्वित्यपि तुल्यम् । न च भिन्नत्वादपेक्षानियमादभि (मः ; भिः) न्नेष्वपि शरीरेषु तदनपेक्षत्वदर्शनात् । न च तत्र गङ्गादिपदवल्लक्षणेति वाच्यम् ; मनुष्यश्शरीरमिति सामानाधिकरण्यप्रसङ्गात् । यश्चापि तथा प्रयुङ्क्ते, सोऽपि निष्कर्ष विवक्षया। ततोऽपि मनुष्यो ज्ञातेत्येवमादिप्रकारैरात्मसामानाधिकरण्यमेव दृश्यते । तथा देवत्वं मनुष्यत्वमिति निष्कर्षदर्शनाच्च । न हि लाक्षणिकशब्दानां लक्ष्यार्थ (थः!) तत्सम्ब न्धो वाल्लभ्यो निष्कृष्यमाणो दृश्यते । अतो भेदो विशेषणतावगमयोग्यतेत्येव वक्तुं युक्तम् । ननु (तु:) तादात्म्ये किश्चित्प्रयोजनं पश्यामः ।
एतदुक्तं भवति–विशेषणं द्विविध, खाभाविकं तदुपाधिकञ्च। तत्र खाभाविक वाचकत्वं (चकं.) द्विविधं, निष्कर्षकमनिष्कर्षकञ्च। तत्र निष्कर्षकं विशेषणोपाधिकञ्च वाचकं मत्वर्थीयापेक्षम् ; इतरत्तदनपेक्षमिति नात्र कश्चिद्भेदाभेदोपयोग इति। अत एव विशेषणविशेष्यभावाच्चेत्यनुमानं निरस्तम् ।
यदि च प्रत्यक्षेण भेदाभेदावेकाधिकरणतया प्रतिपन्नौ, तथापि तयोरन्यतरेणेतर बाधान्नोभयप्रामाण्यमध्यवसितुं युक्तम् । यत्त्वविरोधांदवाधनमिति, तन्न ; भेदाभेदयोरितरे तराभावात्मकत्वान्नेदं रजतमितिवद्विरोधस्य दुरत्वात् । विलक्षणत्वं भेदः, तदभावोऽभेद इति हि सम्प्रदायः। यद्यप्युभयमर्थान्तरम्, तथापि विरोधो दुष्परिहरः ।
तादात्म्यमभेद इति चेन्न; तादात्म्यश (त्म्याभेदश?) ब्दयोर्भेदाभावविवक्षामन्तरेण पुनरुक्तयोरर्थान्तराभावात् । न हि भेदमपहाय गोत्वाश्वत्वयोस्तादात्म्यविरोधे निबन्धनं किञ्चि दुपलभ्यते । बहिरेवं न त्वत्रेति चेन्न ; नियामकाभावात् । शौक्लयदैर्ध्यादिषु बहिरपि तथा विरोधानुपलब्धः। क्वचिद्विरोधितायां सामान्यतस्सिद्धौ सर्वत्र तत्स्वभावानपायात् ।
सप्तमो वादः वैजात्यं (त्यात्?) नियम इति चेत् , कुंत एतत् ? । अत्र सामानाधिकरण्या दिति चेत् , शुक्तिरजतत्वादावपि तथाभावप्रसङ्गात् । वैजात्ये वा (चा?) विरोधः ; अविरोधे च वैजात्यमिति परस्पराश्रयणञ्च। न हि रूपान्तरेण वैजात्यमुपलभ्यते । किञ्च
तत्रेतरेतराभावो यत्र भेदः प्रतिष्ठितः ।
तत्र चेत्स्यादभेदोऽपि खयं खाभावभाग्भवेत् ॥ न च भेदे सत्यपीतरेतराभावो नास्तीति वाच्यम् ; व्यक्तौ रजतारोपो न शुक्तिकायामिति विवेकस्य विलयप्रसङ्गात् । ततश्च… इतरेतराभा]वभाजोर्जातितद्वतोर्मिथस्तादात्म्ये स्वयमेव
खाभावभाजनमिति भावाभावयोरविरोधस्स्यात् ।
१ततस्सामानाधिकरण्यप्रतीतावपि नाविरोधसिद्धिः। आकारभेदादविरोधसिद्धिरनव स्थादुस्था ॥
__ यत्तु जातिव्यक्त्योरन्यत्राप्रतीतेरत्यन्तबाधः प्रसज्यत इति, तत्रोत्तरम् –कस्तयो धिमारचयति ? न हि वयं जाति व्यक्ति वा बाधामहे ; किन्तु तयोस्तादात्म्यम् । · प्रती तिश्च तयोरेकत्रैव देशे भवतु कामम् ; अविरोधित्वात् ; नैतावता तादात्म्यमिति।
RAANI
__ यत्तु सहोपलम्भनियमादिति, तन्न ; विरुद्धत्वात् । साहित्यस्यात्यन्तभिन्नैकनिष्ठ त्वात् । तद्द्वोचरस्य नियमस्य च तत्स्थापकत्वमेव । पृथगनुपलम्भस्तन्नियम इति चेत् , तत्रेदं विकल्पनीयम् —स किं भिन्नाकारतया ग्रहणाभावः, अथ भिन्नाश्रयतया, आहोखिद्भिन्नप्रदेश तया, उत ज्ञानद्वयेन, प्रत्यक्षेण विशेषणविशेष्यभावमपहायेति वा। तत्र नाद्यः पक्षः ; असिद्धत्वात्। सिद्धौ वा भेदविरोधात् । न हि भिन्नानामपि भिन्नकारण (भिन्नाकारेण!) बुद्धयभावः। न द्वितीयः ; तत एव। न हि जात्यादिसोमानाधिकरण्या (समानाधि करणाः) व्यक्त्यादयः ; जातिगुणयोर्मिथस्तादात्म्यप्रसङ्गाच्च । न तृतीयः ; एकप्रदेशवर्ति नामाकाशकालादीनां भेद(नामभेद?)प्रसङ्गात् । ज्ञेयभेदस्य ज्ञानभेदं प्रत्यप्रयोजकत्वेन चतुर्थोऽपि
१. क्वचिद्विरोधितायामिति पूर्वोक्तमुपसंहरति-तत इति.
न्यायकुलिशे पक्षोऽनादरणीय एव । पञ्चमस्तु विरुद्धः ; विशेषणविशेष्यमावस्य भेद एवोपपत्तिरित्युक्त त्वात्। तथा सोपाधिकः । न खलु तादात्म्याभावाद्धटपटौ पृथगुपलभ्येते ; अपि तु पृथगवस्थानात् । तदपि तादात्म्याभावेन साधयाम इति चेन्न ; भेदेन प्रतिपन्नयोरपि गुण गुणिनोः पृथगनवस्थानसिद्धौ तत्र पृथगुपलब्धेरैवोपाधित्वात् । ततश्शङ्कितोपाधित्वं वा। अतस्तादात्म्याभावस्य पृथगुपलम्भेन व्याप्त्यभावात्कथं पृथगनुपलम्भेनाभेदसिद्धिः। तादा म्याभावस्थानेऽत्यन्तभेदपदप्रयोगेऽप्ययमेव न्यायोऽनुसन्धयः ।
__ अयमपि गौरिति तु प्रतिसन्धानमेकोपाधिविशिष्टवदेकजातिवैशिष्टयादुपपद्यते । अयं गौरिति सामानाधिकरण्यं विशेषणविशेष्ययो भेद एवोपपद्यत इति युक्तम् ।
यच्चावयवावयविनोः (नोरिति !) भेदेऽप्यभेदसाधनायोपन्यस्तम् , तद्भेदानभ्युप गमादेव परिहरणीयम् । न हि वयमन्योन्यसंश्लेपविशेषभाजमवयवकलापमन्तरेणावयविन मपरमभ्युपगच्छामः । अभ्युपगमे वा ये वाभ्युपगच्छन्ति, तेषाममूर्तत्वसमानदेशत्वयोर्विरो धोऽन्यत्रेति व्यवस्थापनीयम् । न च भेदाभेदपक्षेऽपि समाधानमन्यथा सम्भवति ; भेदांशे विरोधस्यावर्जनीयत्वात् ।
अनुमानोदयान्यथानुपपत्तिरपि नात्र भेदं साधयितुमर्हति । सामान्यविशेषयोर्विशेषण विशेष्यभावेनैवोपपत्तेरतिप्रसङ्गः खल्वेवमेव परिहर्तुं शक्यते । यश्चैषां कश्चिदुद्घोषः एकैकत्र प्रसक्ता दोषा न समुच्चये सम्भवन्तीति-तदपहास्यम् ; उभयदोषोपसंहारस्यैव सिद्धेः ।
___तदेवं भेदाभेदयोरविरोधः प्रमाणपथपरिभ्रष्ट इति कथमेतदवलम्बनेन सामानाधि करण्यम् ?
अन्ये तु वदन्ति-समानाधिकरणं वाक्यमखण्डार्थ प्रतिपादयति। अपरथा कथे मेकार्थवृत्तित्वम् ? न तावत्प्रवृत्तिनिमित्तमेकम्, पर्यायत्वप्रसङ्गात् । न च तद्विशिष्टम् ; विशेषणभेदेन विशिष्टताभेदात् । नापि प्रधानार्थकत्वम् ; व्यधिकरणवाक्यस्यैव तथात्वात् । ननु लक्षणवाक्यस्थप्रवृत्तिनिमित्तभेदपरित्यागेनैकार्थत्वनिबन्धनः (न्ध::) किकृत इति ?सप्तमो वादः
१३७
अहो भवतां लक्षणवाक्यार्थाभिज्ञता ! न खल्वस्मिन्वाक्ये प्रवृत्तिनिमित्तभेदोऽर्थत्वेन विवक्षितः ; एकार्थवृत्तित्वविरोधात् ; अपि तु पर्यायपदव्यावृत्त्यर्थः । भिन्नप्रवृत्तिनिमित्तत्वेन व्युत्पन्नानां शब्दानां यत्रैकार्थवृत्तित्वं तत्र सामानाधिकरण्यमिति लक्षणवाक्यार्थः । न चैकार्थतैव सर्वथा हेया ; एकवाक्यताविरोधात् । एवमेकार्थवृत्तित्वविधानात्पर्यायत्वमेव प्रसज्यत इति चेत् , स्यादेतदेवम् , यदि समभिव्याहारलब्धैकार्थत्वात्पर्यायत्वमुच्यते। व्युत्पत्तिलब्धात्तु तत् । तथापि किं पर्यायव्यवच्छेदेन। एवमप्येकार्थवृत्तिसिद्धेरिति चेन्न ; (यतः) फलभेदः । न हि घटः कुण्ड इति पदद्वयप्रयोगे प्रतिपदं प्रयोजनभेद उपलभ्यते। नीलमुत्पलमित्यत्र त्वनीलानुत्पलव्यावृत्तिलक्षणफलोपलम्भादपर्यायत्वं बहुमन्यामहे । न चैतावता अर्थभेदापातः। यदि च पदान्तरं न प्रयुज्येत, विशेषणान्तरान्वयस्स्यात् । तत्परिहाराय तत्प्रयोगः । यदि च निमित्तविवक्षा आश्रीयेत, ततो विशेषणविशेष्यभावेनान्वये जातिगुणादीनामन्योन्यसमवाय स्स्यात् । एकपदोपात्तस्य ह्यन्येन विशेषणम् । अतश्च निमित्तानादरः । यद्यपि नीलमुत्पल मित्यत्र निमित्तभूतविशेषणान्वयः प्रतीयते, तथापि नासौ शब्दशक्तिकृतः। प्रमाणान्तर सिद्धस्य तु शब्देना (ब्देन) बाधमारचयति, अन्यपरत्वात् । यथा गामनयेत्युक्ते तद्गतगुण जात्यन्तरेष्वपि प्रतिलब्धानयनेषु गोत्वातिरेकी न शब्दार्थः॥
अत एव हि सत्यज्ञानादिवेदान्तवाक्येषु शब्दैकसमधिगम्यमखण्डैकरसं ब्रह्म सिद्धयति। तत्र हि जगत्कारणतयोपलक्षितस्य ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इति सजातीयविजातीयवगतनानात्वरहितस्य कारणत्वकृतविकाराश्रयत्वादिदोषपरिजि हीर्षया स्वरूपशोधनाय प्रवृत्तानि निष्प्रत्यूहमखण्डवाक्या बोधयन्त्येव साक्षादपि च कति चिन्निषेधन्ति निश्शेषमभेदजातम् ॥ अतश्शोधकवाक्यान्तरानुरोधात् , कारणवाक्यैकार्थ्यात् , सामानाधिकरण्यस्वाभाव्याच शब्दैकसमधिगम्यं ब्रह्म सत्यज्ञानादिवाक्यैनिश्शेषविशेषशून्य मेवेति ज्ञायते। न च तत्तन्निषेधवशादभावरूपविशेषणसमुन्मेषप्रसङ्गः ; अशेषभावनिषेधेऽ भावस्यापि तत्त्वता निवृत्तेः। भावप्रतियोगिको ह्यभावः। स च भावस्य क्वचिद्वत्तावास्पदं लभते। इह तु सर्वथा सर्वभावेषु विलीनेषु को निषेधार्थ इति ?
19
१३८
न्यायकुलिशे
अत्रोच्यते
एकोक्तानतिरेकश्चेन्निष्फलं स्यात्पदान्तरम् । अतिरेके कथन्नु स्यादखण्डार्थाभिधायिता ॥
P
TA
यदि हि नीलमुत्पलमित्यादिपदेष्वेकपदप्रतिपन्नात्पदान्तरप्रतिपन्नं नातिरिच्येत, ततो निष्फलमेव पदान्तरमापद्येत ।
यदुक्तं व्यावृत्तिभेदः फलमिति, तन्न ; व्यावर्त्यभेदाभावात् । तदभेदश्च प्रतिपाद्य भेदाभावात् । प्रतिपाद्यप्रतियोगी हि व्यावृत्तो युक्तः ; अन्यथा अतिप्रसङ्गात् । यदि च नीलपदस्य नीलिमविशिष्टार्थो न विवक्षितः, किमित्यनीलव्यावृत्तिरेव फलति । नीलपीत साधारणं हि विशेष्यम् । ततोऽपीतव्यावृत्तिरपि फलमित्यापद्येत। अविवक्षितमपि यमर्थ स्मारयति तत्प्रतिव्या (तियोगि व्या?) वर्तत इति चेत् , तर्हि गौशुक्ल इत्युक्ते दशानामपि प्रतियोगिनो व्यावा भवेयुः । व्याघातादेक एवेति चेन्न ; निमित्ताविवक्षायामव्याघातात् । तद्विवक्षायां हि सास्नादिमत्त्वबाणत्वादेरेकत्र विरोधः । अविवक्षायान्तु सास्लादिमतामबा णादीनाञ्च१ केषाञ्चित्संभवात्तद्वयवच्छेदो युज्यत एव ।
निश्शेषव्यवच्छेदप्रतियोगिव्यवच्छेदो दुर्भणः । २स च विवक्षितः । तस्मादसमुच्चय इति चेन्न ; भवत्पक्षे तदसम्भवः । न ह्यखण्डवाक्यार्थपक्षे नीलपदस्य सकलानीलव्यवच्छि न्नार्थता सम्भवति ; तस्यापि वाक्यार्थस्य नीलगुणत्वाभावेनानीलत्वात्तद्वयवच्छेदस्य तस्मि न्ननुपपत्तेः । यद्यपि प्रमाणान्तरगम्येषु नीलादिषु लोके वैशिष्टयावगमात्प्रतियोगित्वाभावः , तथापि वेदे शब्दैकसमधिगम्यस्स खल्वखण्डार्थस्सकलविशेषशून्य इति सर्वपदव्यवच्छेद्य तामहतीति कथं तत्तत्पदार्थत्वम् । अतस्तत्तन्निमित्ताविवक्षायामेकार्थ एव न सिद्धयति ।
.
१. सानादिमतां बाणादीनां पा०
२. व्यवच्छेदप्रतियोगिनां सर्वेषां व्यवच्छेदोऽत्र विवक्षितः। तत्र अनीलव्यवच्छेदापीतव्यवच्छेदादि स व्यवच्छेदग्रहणे तत्प्रतियोगिसामान्यव्यवच्छेदो दुर्वच इत्यनीलसामान्यव्यवच्छेदपरत्वमित्यर्थः ॥
सप्तमो वादः
१३९ अथ तस्यार्थत्वादव्यवच्छेद्यत्वम् ; त्यज तर्हि निश्शेषव्यवच्छेदव्यसनम् । सर्वेषाञ्च समानाधि करणवाक्यानामेक एवार्थः परस्परार्थव्यत्ययो वेत्यापद्येत। निमित्तविरोधाविरोधयोरवि शेषेण घटः पट इति सामानाधिकरण्यं प्रसज्येत ।
व्यधिकरणवाक्यस्थानाञ्च पदानोमेकार्थविवक्षा किमिति नाश्रीयेत । न च प्रकृत्य ऑतिरिक्तप्रत्यार्थविरोधादैकार्थ्य व्यधिकरणवाक्येषु न सिद्धयतीति वाच्यम् ; ऐकार्थ्य विरुद्धानामशेषाणां त्याज्यत्वेन निर्णयात् । त्यागमन्तरेणैकार्थ्यमेव न सिद्धयतीति चेन्न; न हि समानाधिकरणवाक्यान्यपि तथा न स्युः। तथाप्यैकार्थ्यं यत्प्रकारजुषां व्युत्पत्ति सिद्धं, तत्प्रकारजुषामेव तदभ्युपगन्तव्यमिति चेन्न ; भवद्विवक्षितैकार्यस्य प्रमाणान्तरागो चरत्वात् । प्रमाणान्तरगोचरत्वेऽपि व्युत्पत्त्यगोचरत्वात् । न हि समानाधिकरणवाक्यप्रति पाद्यं तत्तन्निमित्तविरहीति कचिदुपलब्धम् । न च प्रमाणान्तरागोचरेऽपि जायमानं ‘विन्ध्याटव्यां मदमुदितो मातङ्गगणस्तिष्ठति’ इति वाक्यात् ज्ञानमविशिष्टविषयं दृष्टम् ।
अतो व्युत्पत्त्यनुसारेण वाक्यार्थनिर्णयस्तत्तन्निमित्तविशिष्टतयैव । अपरथा अतिप्रसङ्गः ॥
अपि च भावाभावयोरितरनिषेधात्मकत्वादनीलनिषेधो नीलमेवेति नीलमविवक्षि तम् , अनीलनिषेधस्तु विवक्षित इति व्याहतं को नामान्योऽभिदध्यात् ऋते देवानां प्रियात् ? यदि च तत्तन्निमित्तप्रतियोगिव्यवच्छेदं फलमभिलप्यते, तर्हि तत्तद्वयवच्छेद विशिष्टस्यार्थस्य प्रतियोगिव्यवच्छेदत्वं ( ? ) भेदादेकार्थता व्याहन्येतैव.
अथ विशेष्यमात्रत्वाद्व्यावृत्तीनां न भेदशङ्कावकाशः, तर्हि तन्मात्रस्य प्रथमपदे नैव सिद्धत्वान्निष्फलमेव पदान्तरमापद्येत । यदि च तस्याशब्दार्थत्वं, तदानीं शब्दस्य तदेव निष्फलत्वम् । अथ तस्य व्यवच्छिन्नरूपस्य लक्ष्यत्वेन मुख्यार्थभेदाभावादेकार्थतेति मतम् , तर्हि लक्ष्यस्य धर्मिणो मुख्यार्थत्वाभावादेकार्थतापि न सिद्धयेत् ; निमित्तमुख्यानुसारित्वा तन्मुख्यत्वस्य, यथा सिंहो देवदत्तः, यथा वा त्वत्पृष्टः पुरुषः स्थाणुः इत्यादिषु ॥
अथवा ( ? ) व्यवच्छेद्यस्य कुत्रचिदपि पारमार्थिकत्वाभावात्तत्प्रतियोगिनो१ व्यव
१. तत्प्रतियोगिकस्य व्यवच्छेदस्य.
१४०
न्यायकुलिशे च्छेद्य (च्छेद?) स्यापि पारमार्थिकत्वानुपपत्तेरथभेदानापादकत्वम् , तहि प्रवृत्तिनिमित्तेन किमपराद्धम् ? यत् तदपनुद्यते।
एवं समानाधिकरणवाक्यार्थमपि वाक्यार्थान्तरवद्विशिष्टमेवोपगम्य पश्चात्सर्वमिथ्या त्वमुपपाद्यताम् ; किमनेनैकार्थग्रहणेन । न चाभावस्य खगतविशेषाभावादविशेषकत्वमिति ; खगतविशेषाभावे तद्विशिष्टस्यैव व्यावृत्तेस्वरूपभेदमात्रेणैव विशेषकत्वानपायात् । न च विशेषणत्वमपि तत एव निवर्तत इति वक्तव्यम् ; विशेषणत्वस्य विशिष्टतापेक्षायामनवस्था प्रसङ्गात् । इष्ट एवायमर्थ इति चेत्, अभावेऽपि तथेष्यताम् ; स्वरूपभेदस्य प्रतिसम्बन्धि विशिष्टत्वेन वक्तुं शक्यत्वात् । न च? स्वसमवेतमिव (मेव) विशेषणमित्यभ्युपगम्यैवमेषितुं शक्यम् । न च भावान्तराभाववादिनामर्थान्तराभावाद्विशिष्टता न स्यादिति वाच्यम् ; अभा वाख्येन भावभेदेनैव विशेषणतापत्तेः। अतस्सामानाधिकरण्यं सर्वथा विशिष्टपरमेव। यदि परममुख्यार्थव्यतिक्रमो लक्षणाभ्युपगमश्च भवतामभिरुचितः,ततो व्यावृत्तिलक्षणा आश्रीयताम् । एवमाद्यभिसन्धायोक्तं भगवद्भाष्यकारपादैः-’ इयांस्तु विशेषः एकस्मिन्पक्षे पदानां मुख्यार्थता, अपरस्मिंश्च तेषां लक्षणा’ इति ।
किञ्च लक्षणवाक्यसिद्धयोनिमित्तभेदैकार्थ्ययोरन्यतरत्र किं ( ? ) कुतो भवतां पक्ष पातः। विरोधादिति चेत् ; निमित्तभेदविरोधादेकार्थतैवाप्रामाणिकी हीयताम् । किम व्युत्पत्तिसिद्धनिमित्तत्यागेन ?२ कश्चात्र विरोधः ? किमेकार्थवत्प्रवृत्तिनिमित्तभेदयोः,३ अथ गुणजात्योः परस्परसमवायप्रसङ्गलक्षणः, किं वा निमित्तयोरेव । नाद्यः ; अन्यगतभेदस्यान्य गताभेदेनाविरोधात् । विशेष्याभेदेनैकार्थत्वमिति विवक्षितत्वात् । न च तत्तद्विशेषणविशिष्ट त्वरूपस्यैकत्वानुपपत्तिदोष इति वाच्यम् ; विशिष्टत्वं हि विशेषणसम्बन्धः, कथं तद्भदस्य
१. खसमवेतमेव विशेषणमिति नेत्यभ्युपगम्य प्रतिसम्बन्धिविशिष्टत्वेनापि स्वरूपभेद एषितुं शक्य इत्यर्थः।
२. निमित्तयागो व्युत्पत्तिसिद्धो नेति किं तत्करणेनेत्यर्थः। अव्युत्पत्तीत्यत्र व्युत्पत्तीति वा पाठस्स्यात् ।
३. एकार्थसम्बन्धिनी ये प्रवृत्तिनिमित्ते तद्गतयोमिथो भेदयोर्विरोधः किमित्यर्थः ।
सप्तमो वादः
१४१ विशेष्यभेदापादकत्वम् । तदेकत्वे च विशिष्टभेदाभावः, प्रधानगोचरत्वाद्विशिष्टशब्दस्य । न च शब्दस्य विशिष्टाभिधानं विरुद्धम् ; निमित्तविशिष्ट एव व्युत्पत्तेस्तदभाव एवाभि धानविरोधात्। न द्वितीयः ; विशेषणानां विशेष्यनिष्ठत्वापेक्षणात्। न ह्यन्यसमवाय स्यान्यविशेषणत्वोपयोगः; अतिप्रसङ्गात् । न च गुणजात्योरेव मिथो विशेषणत्वम् ; तथा अप्रतिपत्तेः। तथात्वे चानिष्टत्वाभावात् । न च शाब्दे व्यवहारे परस्परसमवायप्रसङ्ग इति वाच्यम् ; प्रसञ्जकाभावात् । १न हि शब्दस्य विशेषणत्वं तथात्वेनेति कचिदृष्टम् । तदा वा कृतं विवादेन ; दर्शनबलादविरोधोपपत्तेः। तस्मादेकेन पदेनोपस्थापितस्य विशेष्यस्यान्यानि विशेषणानि भवन्ति ; न सर्वस्य। अत एव ह्याकाङ्क्षादित्रय कारणमन्वयस्येति वदन्ति नीतिविदः । न च तृतीयः; समानाधिकरणपदोपात्तानां नीलत्वोत्पलत्वादीनामेकाश्रय सम्बन्ध विरोधाभावात् ।
नापि सोऽयं देवदत्त इत्यादिषु विरोधश्शङ्कनीयः ; तदेककाल (तद्देशकाल.) (तदेत काल?) (तदिदङ्काल?) योर्देवदत्तसम्बन्धाविरोधात् । इतरथा क्षणभङ्गप्रसङ्गात् । इदानीं तत्कालसम्बन्धो विरुद्ध इति चेत् , किमिदानीमस्यापि कालस्य संयोगः ? न हि कालस्य कालान्तरापेक्षा ; अनवस्थानात् । यत्रापि विरोधः, तत्रापि तयोरन्यतरस्यैव बाधो युक्तः । …..[न हि] पुरुषस्स्थाणुरित्युक्ते द्वयोरपि बाधो दृश्यते।
अपि चात्र प्रवृत्तिनिमित्तव्यतिरेकेण शा(श)ब्दस्याभिधानेर व्युत्पत्तिनैरपेक्ष्यं प्रस ज्येत। ततश्च समानाधिकरणवाक्यबलाना(वाक्यं बालाना ?)मखण्डार्थमवबोधयेत्। एवं तावल्लोके विशिष्टगोचरत्वम् । वेदेऽपि तथा अभ्युपगन्तव्यम् ; लोकवेदाधिकरणन्यायात् । तथा च सत्यज्ञानादिवाक्येषु व्यावृत्तिलक्षणा न सङ्गच्छते ।
न च कारणवाक्यैकार्थ्य सिद्धेऽखण्डार्थत्वं न्याय्यम् ; एतद्वाक्यानुरोधेन तेषामेव विशिष्टार्थत्वोपपत्तेः। न च तेषामप्यद्वैतपरत्वम् ; न हि निखिलजगन्निमित्तोपादानभावोप
१. शब्दाधीनं विशेषणत्वं परस्परसमवाये सत्येवेति न दृष्टमित्यर्थः । २. अभिधायकत्व इत्यर्थः
१४२
न्यायकुलिशे योगितया ज्ञानशक्त्यादिगुणसागरीभूतं निखिलचेतनाचेतनशरीरकं परमात्मानमभिदधद्वाक्यं निर्विशेषपरमिति युक्तं वक्तुम् । न च शोधकवाक्यान्तरेण निर्विशेषत्वसिद्धिः ; निषेधस्य सामान्यगोचरस्य विहितविशेषव्यतिरिक्तगोचरत्वात् , विशेषनिषेधसमानविषयत्वाच्च । तथा हि नीतिविदो वदन्ति ।
तस्मात्समानाधिकरणवाक्यार्थोऽन्यथा वर्णनीयः। स उच्यते-अयमत्र तावल्लक्षण वाक्यार्थः, प्रवृत्तिरभिधानं तस्य निमित्तं कारणम् । शब्दाः खलु कस्मिंश्चिदर्थे वर्तितुं निमित्त तया किञ्चित्सामान्यमवलम्बन्ते। एतदुक्तं भवति-~-शब्दानां वाच्योऽर्थो द्विविधः, द्वारभूतः उद्देश्यश्च । वृद्धव्यवहारे व्युत्पन्नानां व्यवहाराय प्रयुज्यमानानाञ्च तेषां व्यवहार्य द्वारिणि प्राधान्येन वृत्तिः। द्वारभूते जात्यादौ तदवच्छेदायानन्त्यव्यवहा(व्यभिचा)रपरिहाराय च तदर्थतयेति । तत्प्रवृत्तिनिमित्तं भिन्नं येषां, तेषामेकस्मिन्नर्थे वृत्तिर्यमभिधातुर्नि (तुं निः) मित्तान्वेषणं तस्मिन्नेकस्मिन्नित्यर्थः । तत्र प्रवृत्तिस्सामानाधिकरण्यमिति । अत्र भिन्नप्रवृत्ति निमित्तानामिति पर्यायपदव्युदासः। एकस्मिन्नर्थे वृत्तिरिति व्यधिकरणानामिति । एवं तावल्लक्षणवाक्यं समञ्जसं भवति। न चात्र व्युत्पत्तिव्यवहारविरोधः ; तन्निमित्तविशिष्टस्यैव सर्वत्र प्रतीतेः। इतरथैव हि विरोध इत्युक्तम् । न चात्र भेदाभेदविरोधः ; निमित्तनिष्ठ त्वाद्भेदस्य, उद्देश्यगतत्वादेकत्वस्य ।
HT ।
एवं लोके व्युत्पत्तिव्यवहारयोविशिष्टविषयतया सामानाधिकरण्यस्य सुदृढं निरूढ त्वाद्वेदेऽपि तत्तद्गुणविशिष्ट एव परमात्मा सत्यज्ञानादिवाक्यैस्सिद्धयतीति सर्व समञ्जसम् ।
इति श्रीभगवद्रामानुजमुनिवरमतधुरन्धरस्यात्रिगोत्रप्रदीपश्रीपद्मनाभायनन्दनस्य वादिहंसनवाम्बुदस्य श्रीमद्रामानुजाचार्यस्य कृतिषु न्यायकुलिशे
सामानाधिकरण्यवादस्सप्तमः.
१. प्रधानशेषतयेत्यर्थः