20 संप्रदायविरोधभङ्गः

यत्तु संप्रदायविरोधत इति, तदपि मुजनवरिवस्यादवीयसे देवानांप्रियाय रोचते ।
प्रपदनस्य पृथगुपायत्वसंप्रदायो नास्तीति वदतां किं तत्र उपदेशानुष्ठानपारंपर्यं नास्तीति मतम्, उत निबन्धपारंपर्यं
नास्तीति? नाद्यः, असिद्धेः; श्रुतिस्मृत्याद्यनुसारेण यथोक्तार्थोपद्शनुष्ठानयोर्महात्मसु तथाविधैः परिदृश्यमानत्वात् ।
न द्वितीयः, निबन्धनाभावेऽप्युपदेशादिपारंपर्येणापि धर्मसंप्रदायस्यान्यत्रापि सिद्धेः; अन्यथा विशिष्टाचारविलोपप्रसङ्गात् ।
अविरोधात् परिग्रहाच्च तदङ्गीकार इति चेत्; तुल्यमत्रापि, तयोरुभयोरपि पूर्वमेव समर्थितत्वात् । विपरीतनिबन्धनात्
विरोध उक्त इति चेन्न, वैपरीत्यासिद्धेः । तथा हि-न तावत् भाष्यादिष्वङ्गप्रपत्तिवचनमात्राद्वैपरीत्यम्, उभयाकार-
योगित्वेन प्रकरणोपयुक्तान्यतराभिधानोपपत्तेः । नच स्वातन्त्र्यं नास्तीति क्वचिदुक्तम् ॥ श्रीभद्गीताभाष्ये तु * सर्व-
धर्मान् परित्यज्येत्यस्यानेकार्थाभिधानात् अन्यतरानादरस्सूच्यते । अर्थस्वभावाच्च योजनाद्वयपरामर्शिनाम् अतिरहस्यतया
गोपितं प्रपत्तिस्वातन्त्र्यं स्वयमेवोन्मज्जतीत्याचार्यमुखादधिगच्छामः । द्वितीयायां तु योजनायां भक्तिसाधनैर्गुरुतरैर्मिथ-
स्तारतम्यवद्भिः अनन्तैर्विकल्प्यमाना प्रपत्तिः कण्ठोक्तसमानत्यायतया मुक्तिसाधनभूतया भक्त्याऽपि विकल्प्येतेति
अर्थतो गभीरमभाष्यत । सर्वपापेभ्य इति ह्युपायविरोधिवत् प्राप्तिविरोधिपापवर्गमपि संग्रहीतुमलम् । सर्वधर्मानित्यपि च
साधनसाधनवत् साक्षात्साधनमपि नंच्चभरम्। च ।[[नंच्चभरम् च]] यच्च * तमुवाचेति श्लोके भाष्यम्-* आत्मपरमात्मयाथात्म्यतत्प्रा-
प्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरम्, *न त्वेवाहं जातु नासमित्यारभ्य * अहं त्वा सर्वपापेभ्य इत्येवमन्तं वच
उवाचेति; एतदपि चरमश्लोकस्य सामान्यतः स्वतन्त्रपरतन्त्रप्रपत्तिसाधारण्यादिति मन्तव्यम् ॥ *कृत्स्नस्य गातोशास्त्रस्य
सारार्थो भक्तियोग हत्येते अर्थाः प्रतिपाद्यन्त इत्यष्टादशाध्यायप्रारंभभाष्यमङ्गाधिकारे प्रपत्तिं प्रत्यपि भक्तेः प्राधान्यात्
स्वतन्त्रप्रपत्तिशास्त्रार्थेऽपि मुख्यार्थामुख्यार्थभेदेन वैषम्याच्चेति न विरुद्धम् । अपिच वचनान्तरेषूपात्तेषु नान्यथासिद्धि-
श्शङ्कितुं शक्यते, अधिकारिविशेषविवेकपूर्वकमव्यवहितोपायत्वस्य व्यक्तमुक्तत्वात् । अतो यद्यपि भाष्यादिषु यथाधिकारं

गुरूपायप्रवर्तनाधिकृतेषु *न बुद्धिभेदं जनयेदिति न्यायेन न प्रपत्तिः स्वतन्त्रतयोक्ता; तथाऽपि गद्यरूपायां स्तुतौ

  • शरीरपातसमये तु केवलं मदीययैव दययाऽतिप्रबुद्ध इत्यादिना व्यक्तमेव तस्याः पृथगुपायत्वमुक्तम् । तत्र गुणवश्यता-
    परिहरणरूपमायातरणपरभक्त्यादिप्रार्थनं तु फलोपायसाधारण्यान्नान्यतरपक्षपाति । एतेन * भक्तिमपि प्रयच्छ मे इत्यादिक-
    मपि निर्व्यूढम् ॥ भक्तेश्चात्र फलत्वं स्वरूपतस्सुखरूपत्त्वात्; तच्च विषयवैशिष्ट्यात् । नचोपायकोटिनिविष्टभक्तिरूपफलान्तर-
    प्रार्थनायामुपायान्तरफलान्तरत्यागलक्षणप्रपत्तिनिष्ठाविरोधः; प्रपन्नगताया भक्तेः प्रपत्त्यविच्छेदहेतुत्वेन तदनुप्रवेशात् ।
    नच सकृत्कृतस्योपायत्वे किमविच्छेदेनेति वाच्यम् । तस्य स्वकार्यकरणे बाधाभावस्यापेक्षितत्वात् । बाधितज्ञानस्यापि
    संस्कारकरणवत् प्रतीकोपासनानामारोपगर्भाणां तेनाकारेण बाध्यानामपि फलप्रदानवच्च किं न स्यादिति चेन्न; * महा-
    विश्वासपूर्वकमिति विशेषविधानात् । तादात्विकमहाविश्वासेनापि तच्चरितार्थमिति चेत्सत्यम्; तदेव तु विश्वासविशेषणं
    महत्त्वं यावज्जीवं विमर्शकाले बाधाभावे पर्यवस्यतीत्यनुश्रूयते । तच्च महत्वं यद्यपि स्वरूपत उपादातुं न शक्यते;
    तथाऽप्यादावेव यथावस्थितप्रपत्तिशास्त्रार्थनिश्चयसंस्कारद्रढिमसंपादनद्वारा तत्कार्यस्य विश्वासमहत्वस्यापि विधिविषयता
    युज्यते । तर्हि तदर्थं भक्त्यपेक्षणमपि निरर्थकमिति चेन्न; तस्यापि तस्या इव तत्फलत्वात्; संस्कारदार्ढ्यसंदेहाद्वा
    तदविच्छेदाय तत्प्रार्थनोपपत्तिः । ज्ञानपूर्त्या ह्यनन्योपायत्वं भक्तिपूर्त्या चानन्यप्रयोजनत्वं स्थिरीभवति । अस्तु वा
    तदनुपयोगः, तथाऽपि न भक्तिप्रार्थनस्यानन्यताविरोधित्वम्, भगवदानुकूल्याभयादिप्रार्थनात्मकत्वात्, गद्योक्तेस्तस्यैव च
    काष्ठाप्राप्तस्य निःश्रेयसरूपत्वेन तदनुप्रवेशात्; निवृत्तसमस्तारिष्टस्य निरतिशयानन्दब्रह्मानुभव एव हि मोक्ष। यद्वा
    महापराधवर्गः प्रपत्तिमपि प्रतिबद्धुमलम् । स च परिपूर्णे ज्ञाने भक्तौ च सत्यां ब्रह्मविद्वेषादेरसंभवाद्दरोत्सारितो
    भवतीति, तदर्थं तत्प्रार्थनम् । बुद्धिर्थोत्तराघस्य भगवत्प्रीतिप्रतिवन्धकत्वमुपासनवत् न्यासेऽपि समानमेव । अत एव
    प्रपन्नस्याचारलङ्घनमधिकृत्योच्यते-* प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनादिति । तथा निषिद्धकाम्यपरिग्रहे च
    निष्ठाहानिरुच्यते-
    -एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा । उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ इति ।
    नच तर्हि सकृत्कृतस्य फले व्यभिचारशङ्का स्यादिति वाच्यम्; उपायापायसंप्लवरहितेषु निश्चितफलत्वात्, अन्येष्वपि
    प्रायश्चित्तस्य तत्रैव प्रतिपादनात्-

  • अपायसंभवे सद्यः प्रायश्चित्तं समाचरेत् । प्रायश्चित्तिरियं साऽत्र यत्पुनश्शरणं व्रजेत् ॥
    उपायानामुपायत्वस्वीकारेऽप्येतदेव हि ॥
    प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे । मामेकां देवदेवस्य महिषीं शरणं व्रजेत् ॥ इति ।
    यथोक्तं श्रीरामायणेऽपि-

  • कृतपराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बध्वा लक्ष्मणस्य प्रसादनात् ॥ इति ।
    तथा * विदितस्य हि धर्मज्ञश्शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥ इति ।
    तथा * प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा । अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ इति ।
    उक्तं च श्रीसात्त्वतेविभवमूर्तिपरिच्छेदे लक्ष्मीपतिध्याने लक्ष्मीपुरस्करणमनायासशीघ्रसंसारतरणकारणमिति-

  • यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् । निस्तरन्त्यचिरेणैव व्यक्तं ध्यानपरायणाः ॥ इति ।
    ऐतिहासिकश्चायमर्थः । यथोक्तं भगवता शौनकेन-* वाचः पर प्रार्थयिता प्रपद्येन्नियतः श्रियमिति । एवमन्यदप्यनु-
    संधेयम् । तर्हि प्रतिसमाधाने विद्यमाने किं भक्त्येति चेन्न; * प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्यायात्।
    नच वाच्यम् * शरीरपातसमये तु केवलं मदीययैव दययाऽतिप्रबुद्ध इत्यादिकमुपायभूतभक्तियोगपर्यवसानमन्तिमप्रत्यय-
    मुदाहरतीति, पूर्वस्मिन् वाक्ये हि * आध्यात्मिकाधिदैविकाधिभौतिकदुःखगन्धरहितस्त्वं द्वयमर्थानुसंधानेन सह सदैवं
    वक्ता यावच्छरीरपातमत्रैव श्रीरङ्गे सुखमास्स्वेति यावच्छरीरपातं प्रपत्तिप्रतिसंधानपारपर्यस्यैव प्रतिपादितत्वात्, अत्रापि च
    केवलं मदीययैव दययेत्युपायान्तरनिषेधव्यक्तेश्च । उक्तं च गद्यान्तरेऽपि- एवमवस्थितस्याप्यर्थित्वमात्रेण परम-
    कारुणिको भगवान् स्वानुभवप्रीत्योपनतैकान्तिकात्यन्तिकनित्यकैंकर्यरतिरूपनित्यदास्य दास्यतीति विश्वासपूर्वकं भगवन्तं
    नित्यकिङ्करतां प्रार्थय इति । नचैवमाशङ्कनीयम्, यावच्छरीरपातं भगवत्साक्षात्काररहितस्य तदानीमेव झटिति कथं
    तत्संभव इति; ईश्वरस्वभावस्यापर्यनुयोज्यत्वात् । श्रीसात्त्वते च सप्तमपरिच्छेदे व्रतिनां स्वयव्यक्तसैद्धवैष्णवरूप-
    भगवक्षेत्रवासमधिकृत्योक्तम्-

  • दुष्टेन्द्रियवशाच्चित्तं नृणां यत्कल्मषैर्वृतम् । तदन्तकाले संशुद्धिं याति नारायणालये ॥ इति ।
    तर्हि, * स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः । धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ॥
    ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् । अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥
    इत्यादि कथमिति चेत्, इत्थम्-* वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामित्यादिन्यायेन
    मुमुक्षूणां योगिनामितरेषामपि करणग्रामविलयदशायां क्षणमात्रं सुषुप्तिवत् काष्ठपाषाणसन्निभत्वस्योत्क्रान्तिपादे समर्थि-
    तत्वात् । यद्वा प्रपन्नस्य शास्त्रार्थतया स्वप्रयत्नसाध्यान्तिमप्रत्ययनैरपेक्ष्यं काष्ठपाषाणसन्निभमित्यनेनोच्यते । हार्दे
    परमात्मनि सुषुप्तवद्विश्रान्तस्य तदनन्तरं *तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च
    हार्दानुगृहीतः शताधिकयेत्युक्तरीत्या अतिप्रबुद्धत्वादिकथनम् । अथवा शरीरपातसमये त्वित्यत्रान्तिमक्षणेऽपि
    विस्त्रम्भशैथिल्याभावः, फलान्तरश्रद्धागन्धराहित्यं चाभिप्रेतमिति मन्तव्यम् । यच्चेदमुक्तं भाष्यकारैरेव भगवदाराधन-
    प्रयोगं प्रक्रम्य प्रपत्तिपरा गद्यस्तुतिस्समाराधनाङ्गतया विनियुक्तेति, तावता न प्रपत्तेः स्वातन्त्र्यमपैति । यथा प्रणवादीनां
    क्वचित्कर्माङ्गतया विनियुक्तानां विनियोगपृथक्त्वेनापवर्गादिसाधनत्वम्; तद्वदिहापि, विरोधाभावात् । नचैवं मोक्षार्थ-
    प्रपत्तेरावृत्तिप्रसङ्गः, समाराधनप्रयोगमध्यपातिन्याः प्रपत्तेः पत्रपुष्पफलतोयादिवत् भगवदिज्यार्थतया पुरुषार्थाभावात् ।
    ननु प्रपत्त्यैव चेत् सकृत्कृतयाऽपवर्गो लप्स्यते, किं बहुवित्तव्ययायासमनस्समाधानादिसाध्येन प्रपत्त्यङ्गकेन प्रतिदिवस-
    माप्रयाणादनुवर्तनीयेन भगवदाराधनप्रयोगनिर्बन्धेनेति चेत्; हन्त । प्रपन्नाः किमपवर्गार्थं भगवन्तमाराधयन्ति?
    अपि तु अनन्तगरुडविष्वक्सेनादय इव भगवच्छेषतैकरसाः शास्त्राविरुद्धेन स्वरूपानुरूपेण भगवदाराधनेन कालं
    क्षिपन्ति । पञ्चमहायज्ञादिवञ्च देवार्चनं नित्यम् । तच्च ब्रह्मचर्यप्रभृति; यथोक्तं मन्वादिभिः-

  • स्नात्वा नित्यं शुचिः कुर्याद्देवर्षिपितृतर्पणम् । देक्ताभ्यर्चनं चैव समिदाधानमेव च ॥ इति ।
    भगवदर्चनमेव त्वनन्यात्मनाम् । तच्च

  • गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः । य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥
    व्याख्यानविभागे निक्षेपरक्षा-सिद्धान्तः ३९
    इत्यादिना महाभारतादिसिद्धम् ॥ अनन्ययजनमेव हि ज्ञानिनां भगवद्गीतामोक्षधर्मादिषु प्रपञ्चितम् । उक्तं च
    श्रीमद्भागवते पुराणे-* नान्यं देवं नमस्कुर्याद्विष्णुपादाब्जसंश्रयः इति । इदं च नित्यं भगवदर्चनं शौनकबोधायना-
    द्युक्तम् तावन्मात्राधिकारिणाम्। विशिष्टाधिकारिणां तु अनन्यभगवच्छास्त्रसिद्धं, तच्च प्रपत्तिगर्भमिति, तदिह * परमैकान्तिनो
    भगवदाराधनप्रयोगं वक्ष्य इत्यारभ्योक्तम् । तत्र च स्वतन्त्राङ्गप्रपत्त्योर्वाचकविशेषाभावात् * अखिलेत्यादिकं सप्रकारानु-
    सन्धानं मनोवृत्त्युपसंहारार्थतया विनियुक्तम् । एवं हि तत्राह-* यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तार-
    मनुसंधाय तमेव शरणमुपगच्छेत् * अखिलेत्यादिनेति । अनन्तरमप्याह *एवं शरणमुपगम्य तत्प्रसादोपबृंहितमनो-
    वृत्तिरिति । यद्यप्यविशिष्टफलसाधनगुरुलघुविकल्पोऽनुपपन्नः; तथाऽप्यविशिष्ट एवोपाये गुरुलघुभेदश्शास्त्रीयः, तत्फल-
    संकल्पारख्यसहकारिभेदमाश्रित्य तदुपपत्तेः । एकैकस्यैव हि कर्मणः स्वरूपत एकरूपस्यैव विनियोगपृथक्त्वेन संकल्प-
    भेदाद्विद्याङ्गत्वाश्रमाङ्गत्वस्वर्गाद्यर्थत्वादिकं मीमांसामहे । एवं भक्तियोगेऽपि द्रष्टव्यम् । महावदान्यश्च हि पुरुषोत्तमो
    यद्यदपेक्षितं तत्सर्वम् अपरीक्षितपात्रदेयोपायतारतम्यस्सकृत्यार्थनामात्रेण कल्पद्रुम इव कौपीनं कनकराशिं च विशृंखलं
    विश्राणयतीत्यानुश्रविकोऽयमर्थः ॥ आह च भगवान् शौनकः-

  • रत्नपर्वतमारुह्य यथा रत्नं नरो मुने । सत्त्वानुरूपमादत्ते तद्वकृष्णान्मनोरथान् ॥ इति ।
    अतः प्रपत्तेरपि स्वरूपतो विशेषाभावेऽपि फलापेक्षाभेदेन सर्वफलसाधनत्वान्मोक्षार्थतया समाराधनाद्यर्थतया च विनियोगो
    न विरुध्यते ।
    अतिसूक्ष्मो विशेषो यथासंप्रदायमनुसंघेयः, यमेनमधिकृत्य शरण्यश्शरणागतपरित्राणाय तद्विरोधिनिरसनोन्मुख-
    स्सापराधशराणागतसहोदरपरित्यागिनं शक्रतनयं प्रत्याह *सूक्ष्मः परमदुर्ज्ञेयस्सतां धर्मः प्लवङ्गमेति । इदं च सूक्ष्मत्वं
    नानाविधेषु धर्मेषु एकस्मिन्नपि वा विनियोगपृथक्त्वेन च समानम् । अतः प्रपत्तिस्ततन्त्र्ये न क्वचिद्भाष्पकारोक्ति-
    विरोधः । उक्तेनैव न्यायेनान्येषामप्याचार्याणां प्रबन्धाः पूर्वापरपरामर्शेन प्रकृताविरुद्धतया प्रतिसन्धेया इति न कश्चित्सं-
    प्रदायविरोध इति ॥
    उपसंहारः ॥ तदेवं स्वरूपाद्यनुपपत्त्यभावात् न्यासोपासनशास्त्रार्थभेदस्सिद्धः । अङ्गाङ्गिभावोऽप्यधिकारि-
    विशेषविषयः । अदूरविप्रकर्षात् भक्तिप्रपत्त्योर्व्यतिकरितप्रयोगः । कर्माद्यनङ्गत्वात् श्रीमतो नारायणस्य गुणगणमनु-
    संदधतां व्यवसायविशेषादेः स्वरसतया च लधूपायत्वसिद्धिः । आसंसारं प्रसिद्धेः श्रुत्यादिबलाच्च नातिशङ्कावकाशः ।
    संप्रदायश्च योगसंप्रदायवदुपदेशानुष्ठानप्रबन्धैरधिकारिष्वद्यत यावदनुवर्तत इति स्थिते, केषुचिदधिकारिषु प्रपत्तिः भक्ति-
    साध नान्तरैर्विकल्प्यमानाभक्तिद्वारा मोक्षं साधयति; केषुचिद्गुणविशेषवत्सु स्वयमेव । यथा कर्मयोगः केषांचित् ज्ञान-
    योगद्वारा आत्मावलोकनसाधनम्; अन्येषां तु सुकरोपायसक्तानां विशिष्टतया व्यपदेश्यानां ज्ञानयोगव्यवधानमन्तरेण,
    तथेहापि । धर्मानधिकारिस्त्रीशूद्रादिकमुद्दिश्य मोक्षोपायतया शरणागतिविधानमिति वदन्तस्तु प्रागेव निरस्तप्रायाः;
    त्यागविधिपक्षे तेषां प्राप्त्यभावेन प्रतिषेधायोगात्; अर्जुनोद्देशेन वचनप्रवृत्तेरसङ्गतत्वात् । नासावर्जुनः स्त्री, शूद्रादिर्वा ।
    ततः एतेषु त्यागानुवादपक्षोऽपि निरस्तः; नचार्जुनस्य सर्वधर्मानधिकारित्वं सिद्धम् । एतेन * भुक्त्वा चान्द्रायणं चरे-
    दित्यादिवद्विहितकर्मपरित्यागप्रायश्चित्तार्थमात्रं शरणागतिविधिरिति वादोऽपि प्रत्युक्तः; धर्मप्रवणेऽर्जुने सर्वधर्मपरित्याग-
    रूपनिमित्तानुदयेन नैमित्तिकशास्त्रासङ्गतेः, तदाभिमुख्येन प्रवृत्तस्य वचनस्य तदन्यविषयत्वकल्पनायोगात्, *मा शुच

इत्येतच्छोकापनोदनासङ्गतेश्च । सर्वधर्मान् परित्यज्यापि मदेकशरणागतिं कुर्यादिति शरणागतिप्रशंसामात्रतात्पर्यमिति

पक्षोऽपि मा शुच इत्येतदसङ्गतेर्निरस्त; निराकाङ्क्षे वाक्ये अपिशब्दाध्याहारायोगाच्च । एतेन नित्यनैमित्तिकानि धर्मान् परित्यज्य मद्यतनैकशेषमदेकध्यानादिपरो भवेति यादवप्रकाशोक्तेऽपि निरस्तः; भावार्थान्तरस्फोट्येन पूर्व-
श्लोकार्थप्रत्यभिज्ञाविरहात्, समाख्यादिभेदाच्च भेदसिद्धेः, प्रशंसामात्रस्य प्रयोजनमान्द्यात्,अधिकस्य चानुपदेशात्। अतस्समस्ताभिमतसाधनस्वतन्त्रप्रपत्तिविषय एवायं श्लोकः ॥

एतेन नित्यनैमित्तिकानपि
भावार्थानरस्फौयेन पूर्व-
अधिकस्य चानुपदेशात् । [[एतेन नित्यनैमित्तिकानपि भावार्थानरस्फौयेन पूर्व अधिकस्य चानुपदेशात्]]

सुदुष्करेण शोचेद् यो
येन येनेष्ट-हेतुना+++(=साधनेन)+++ ।
स स तस्याहम् एवेति
चरम-श्लोक-संग्रहः ॥

इति ।

विस्तारः (द्रष्टुं नोद्यम्)

अस्य प्रेरणा शाकुन्तले -

येन येन वियुज्यन्ते
प्रजाः स्निग्धेन बन्धुना ।
स स पापाद् ऋते तासां
दुष्यन्त इति घुष्यताम् ॥२३॥

अङ्कूरत्परभक्तिकुङ्कुमलताकाश्मीरकेदारिकां जीवातुं जरदन्धपङ्गुबधिरप्रायात्मनां प्राणिनाम् ।
निष्प्रत्यूहषडङ्गयोगनिगमप्रासादिनःश्रेणिकां नित्यं चेतसि धारयन्तु सुधियो निक्षेपरक्षामिमाम् ॥

विवृतमिह रहस्यं यन्मया गोपनीयं स्खलितमपि यदीषद् भूयसा वा तदेतत् ।

निजमहिमविशेषप्रेममात्रेण नाथाः क्षमत इति विचिन्त्य क्षस्तुमर्हन्ति सन्तः ॥

गुरुचरणसपर्यास्वादवैदेशिकानां प्रलपितमवधूय प्राक्तनेनाध्वनैव ।

व्यवृणुत परमार्थं वेङ्कटेशः प्रजानां निगमगिरिनिगूढं त्यासविद्यानिधानम् ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
॥ निक्षेपरक्षा समाप्ता ॥