यत्पुनररव्यातिवशेन शङ्कांसभवान्महाविश्वासासिद्धेः प्रपत्तिस्वरूपासिद्धिरिरयुक्तम्, तदपि
तवैवाख्यातिमापादयति । तथा हि-किमख्यातिशब्देन प्रपदनस्वरूपस्यैवा[प्र]सिद्धिर्विवक्षिता? उत पृथगुपायत्वस्य?
न प्रथमः, प्रागेव प्रतिक्षेपात् । न द्वितीयः, अहिर्बुध्न्यसंहितादिषु पृथक्त्वेनैव स्पष्टमुपदेशस्योक्तत्वात् । न चात्र भूयसां
न्यायावतारः; भूयोभिरनुपदिष्टत्वमात्रेण कतिपयोपदिष्टप्रतिक्षेपायोगात्, अन्यथा अतिप्रसङ्गात्; प्रपत्तेः पृथगुपायत्वं
नास्तीति तु भूयोभिरनुपदेशात् । इदं च विध्यभावचोद्यपरिहारेण दत्तोत्तरमिति किमत्र प्रयासेन ॥
यत्तु सांख्ययोगादिष्वस्यानुपादानम्, किं तेन, सर्वैः सर्वस्यानुपादानात्? न हि कापिले कर्मयोगः, पातञ्जले
वा ज्ञानयोग उपादीयते । नच तावता तयोः प्रतिक्षेपः । नचात्यन्तं वयं सांख्यादीननुवर्तामहे । ये तावदीश्वरमेवाप-
ह्नुवते, इच्छन्तोऽपि प्रतिफलनसमानं तस्यैश्वर्यमभिमन्यन्ते, कथं तान् यथावस्थितेश्वरप्रपदने प्रमाणीकुर्मः? प्राचेतस-
पराशरपाराशर्यशुकशौनकादयस्तु परमर्षयो निबध्नन्त्येव भूयसा प्रबन्धेषु प्रपत्तिमिति किमन्यैः कार्तान्तिकप्रायैः मितंपचै-
र्मुनिभिः? उक्तं च श्रीविष्णुचित्तैः श्येनकपोतीयकपोतोपाख्यानकाकविभीषणक्षत्रबन्धुभुचुकुन्दगजेद्रद्रौपदीतक्षक-
शतमखादिषु मोक्षार्थतया क्षणकालनिर्वर्त्यप्रपदनार्थदर्शनात् अबधिराणा तत्र मुख्यत्वमिति । ततश्चाब्रह्मतिर्यगतिप्रसिद्धमेव
प्रपत्तिरूपमुपायमप्रसिद्धमभिमन्यमानः धर्ममेव नूनमपह्नोतुमीहते । आह च भगवान् व्यासः धर्माधर्मप्रसिद्धेर्दुरपहवताम्-
- इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये । आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥ इति ।