18 अशक्तिभङ्गः

यत्तु सर्वव्यापारोपरमापेक्षणादशक्यरूपत्वमुक्तम्, तदसत्; तथाविधोपरमस्यानन्युपगमात् ।
नहि यः कश्चिदपि प्रपन्नोऽत्यन्तनिर्व्यापारो दृष्टः श्रुतो वा । * सर्वधर्मान् परित्यज्येत्यादिकं तु प्रागेव निर्लूढम् ।
प्राञ्चोऽपि भगवत्प्रवृत्तिविरोधिस्वप्रवृत्तिनिवृत्तिः प्रपत्तिरित्याहुः; नतु सर्वप्रवृत्तिनिवृत्तिरिति । भगवत्प्रवृत्तिविरोधि-
स्वप्रवृत्तिश्च स्वरक्षणार्थं स्वातन्थयेण स्वव्यापारो वा, पुरुषान्तराश्रयणं
परित्याज्यमेव, ब्रह्मास्त्रबन्धराजसेवाराजान्तरङ्गविरोधादिन्यायात् । यानि
शरीरधारणमात्रछेकानि विहिताप्रतिषिद्धानि यानि लौकिकानि कर्माणि,
राधनत्वबुद्ध्या तत्प्रीत्यर्थं सर्वैस्मयवश्यमनुष्ठेयानि नित्यनैमित्तिककर्माणि
वा, दुस्सहब्रह्मविदपचारादि वेति तदखिलं
पुनः स्वभावप्राप्तानि निमीलनष्ट्वेमीलनादीनि,
यानि च यावच्छरीरं यथाशक्ति भगवत्समा-
न तेभ्योऽप्युपरमोऽपेक्षित इति नाशक्योप-
देशत्वमवगच्छामः । निवृत्तिसापेक्षतयाऽत्र प्रपन्ने निवृन्युपचारः ॥
यत्पुनः प्रवृत्तिरूपात्भक्तियोगान्निवृत्तिरूपस्य प्रपदनस्य दुष्कतिमत्वादशक्तं प्रत्यशक्यतमोपदेशेन प्रपत्तिशास्त्र-
नैरर्थक्यमुक्तम्, तदप्यविशेषज्ञतामभिव्यनक्ति, लोकसिद्धत्वात् तत्सौकर्यस्य । तथा हि-सार्वभौमेन राज्ञा जिघांसितः
कश्चिदपराधी कण्ठावसक्तकर्पटखण्डो कैयमभिव्यञ्जयन् भयचकितस्सगद्गदं रक्षापेक्षी स्वात्मानं पादयोः समर्पयति ।
कश्चित्तु प्रभूतप्राभृताद्युपकरणस्तुतिनतिसेवाङ्कनादिभिरात्मानमनन्ययन्नाराधयति । तत्रोभयोरपि राज्ञः क्षमा निर्विशेषा
दृश्यते; प्राक्तने वा समधिका । तद्वदत्रापि न्यासोपासनयोस्सौकर्यदौष्कर्ये भावयन् समाश्वसिहि । कथं तर्हि * उपाय-
स्सुकरश्चाय दुष्करश्च मतो ममेत्यादि वचनमिति चेच्छ्रयतामवधानेन-अनन्तापराधसन्ततो हि जन्तुरतिलघीयसा
सकृत्कृतेन केनचिन्मानसेन कायिकेन वाचिकेन समुच्चिते वा व्यापारेण कथमवधूतनिखिलापराधो विधिशिव-
सनकादोनामपि मनोरथपथातिलङ्घि पदमविलम्बितमधिरोक्ष्यामीति प्रवृद्धबुद्धिदौर्बल्यः सुदूरमपघुत्य गुरुतरोपायं मृगय-
माणो विद्यते । कश्चित्तु महीयसा भागधेयेन भगवति कमलापतौ पुण्डरीकाक्षे संतिशाविसौशीलवात्सल्यादगुणगग-
मनुसंदधानः किरातकपोतसुमुखक्षत्रबन्धुमुचुकुन्दत्वष्टृशुनश्शेफद्रौपदीविभीषणवायससुग्रीवराक्षसीप्रभृतिशरणागतवृत्तान्त-
शीलनशिक्षितान्तःकरणो निश्शङ्कमभिजिगमिषति । अतस्तथाविधगुणाध्यवसायादेर्दुर्लभत्वात् तत्प्रशंसाद्यर्थमेवोक्तम्

  • उपायस्सुकरश्चायं दुष्करश्च मतो ममेत्यादिकम् । अत एव युज्यते-
    -सकृदेव हि शास्त्रार्थः कृतस्ससारतारकः । नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ॥ इति ।
    अतः किंचित्यति दुष्करत्वोक्तिः, किंचित्प्रति च सुकरत्वोक्तिः; अतो नाशक्योपदेश इति संक्षेपः ॥