17 ऐक्यभङ्गः

ऐक्यान्यप्युक्तानि सात्यकितन्त्राहिर्बुध्यसंहितालक्ष्मीतन्त्रादिषु पृथक्त्वेन प्रपञ्चनेन निरस्तानि ।
किंच मोक्षोपायविधिवाक्यावगतवेदन, प्रपदनोपासनरूपं सर्वं परविद्यावर्गं सग्रहीतुमलम्, तत्रान्यतरपरित्यागे छे
न पश्यामः । अनावृत्तविशेपे संभवति गौरवादावृत्तं विशेषं परित्यजेत्; अथ गौरवमनुमत्य तत्र न पर्यवस्येत्, तदा
तद्वैयर्थ्यप्रसङ्गादनावृत्तं नासी३दिति चेत्; तन्न, अधिकारिविशेषप्रतीतिनियमेन गुरुलकुयवस्थायाः स्थापितत्वात् ।
यथा स्नानादिसामान्यशब्दास्तत्तदधिकारिविशेषोचितं तत खानादिविशेषं गुरुं लघुं च संगृह्णन्ति, तथाऽत्रापि । यथा

  • वसन्तेवसन्ते ज्योतिषा यजेत, ऽज्योतिष्टोमेन स्वर्गकामो यजेतेति विनियोगपृथक्त्वेनावृत्तानावृत्तज्योतिष्टोभयोः
    ज्योतिष्टोमSD°दः, [तथाऽत्राप्यावृत्तानावृत्तयोः प्रपदनोपासनरूपयोः ब्रह्मविद्ययोः वेदनादिशब्दपर्यवसाने को विरोधः?
    अधिकारिभेदश्चात्रापि दर्शितः । ननु वेदनशब्दस्य तस्यामेव विद्यायां विहितैः विशेषैः विशेषितत्वात् न
    न्यासावस्त्रवनसामर्थ्यमस्तीति चेत्, तर्हि सिद्धं नस्तमीहितम् । तत्र वचसां तदुपासनपर्यवसानान्न्यासस्य च
    विद्यान्तरवत् स्वशब्देनैव साङ्गस्य विधानात् । तथाच सति शब्दार्थपर्यालोचनादेव न्यासस्यापि ३दनरूपत्वं सिद्धमिति
    न कश्चिद्दोषः । एवं च सति ३ नाना शब्दादिभेदादिति सूत्रमत्रैव निस्ङ्कुशप्रसरम् । अतो नात्र सूत्रभाप्यादिविरोधः ।
    नच कुमतिमतावतारः; सकृत्करणेऽपि वाक्यार्थज्ञानादतिरिक्तत्वात्, ईशेशितव्यादिविशेषजालगर्भत्वात्, कर्माद्यङ्गकत्वा-
    भावेऽपि नित्यनैमित्तिकाद्यनुपरोधस्य दर्शितत्वात्, अधिकार्यन्तरसद्भावेनासकृदावृत्तानुसंधानप्रतिक्षेपाभावाच्च ॥
    यत्तु भगवत्पराशरादयो योगमेव विदधिरे दधिरे चेति; तदपि तच्छक्तिमधिकृत्योक्तेः, स्वयमपि तच्छक्तत्वाच्चा-
    विरुद्धम् । न चात्यन्तं भगवत्पराशरादिभिरपि प्रपत्तेरनुक्तिः; ऋपरिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणां न वैष्णवानाम्,
  • कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण
    तानपापान् ॥ -सोऽहं त्वां शरणमपारमप्रमेयमित्यादिषु प्रपत्तेरपि तैः बहुलमभिधानात् । अङ्गाङ्गिविपयतया भक्ति-
    शास्त्रार्थैक्यं भक्त्यविशिष्टार्थत्वं वा तत्रतत्रास्त्विति चेन्न; सर्वत्र तथेति नियन्तुमशक्यत्वात् । अङ्गाङ्गिभावबलादेव
    स्तुत्सिद्धिरिति चेन्न, विनियोगपृथक्तेनाङ्गत्वस्वतन्त्रत्वयोर्यथाधिकारमुपपत्तेः । अतोऽङ्गस्याप्यधिकारिविशेषविषयतयाऽङ्गि-
    तुल्यफलत्वेन विकल्पोऽपि युक्त एव । यदि तत्र गुणान्तरमपेक्षितमिति मन्यसे, तच्चात्रापि भूयिष्ठमसयेव-विद्ध्यवाक्ष-
    मत्वम्, उपायान्तरभीरुत्वं, भगवद्गुणवत्ताप्रकर्षानुसंधाननिमग्नत्वमित्यादि । अतः फलतारतम्यमत्राप्रयोजकगेव । अथवा
    तदप्यत्र विद्यते, प्रपत्तेरविलम्बितप्रापकत्वेन फलातिशयात् । अथ लघीयसः फलन्यूनत्वमपेक्षितमिति, तदप्यसत्;
    दयालोस्मार्वभौमस्य चिरसेवारहितेष्वपि आर्तेध्विवाकिंचनेष्वनन्यगतिषु प्रपन्नेषु भगवतोऽपि दयालोर्दयनीयत्वातिशय-
    संभवेन अविलम्बितफऊवोपपत्तेः । यः खल्वीश्वरमेव तादृशमौपनिषदमभ्युपेयात्, स कथमस्मिन्नर्थे सहृदयो विमन्येत ।
    तथा च स्मर्यते-
    भ्रसर्वज्ञोऽपि हि विश्वेशस्सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते ॥ इति ।
  • यद्येन कामकामेनेत्यादि च प्रतिसंधानीयम् । यत्पुनरुक्तम्, अङ्गाङ्गिभावे संभवत्यष्टदोषदुष्टो विकल्पो न न्याय्य
    इति, तदपि वालिशजाह्मतम्, विनियोगपृथकवस्य स्थापितत्वात् । अन्यथा विद्यान्तराणामपि परस्परमङ्गाङ्गिभावप्रसङ्गात्
    न क्वचिदङ्गमिति, सर्वत्र तथाऽतिप्रसङ्गात् । सूत्रितं च तेषामाअमकर्मणामङ्गलं स्वतन्त्रत्वं च-* विहितत्वाच्चाश्रम-
    कर्मापि, * सहकारित्वेन चेति ।

यत्तूक्तं भजनप्रपदनशव्दौ स्थानतस्तमानार्थतया क्वचित् प्रयुज्यमानौ दृश्येते इति, तदसिद्धम्; प्रपदनशब्दस्य
लक्षणतो भिन्नार्थस्याप्यङ्गिनाऽनतिदूरविप्रकर्षात् अजहल्लक्षणया तत्स्थाने प्रयोगोपपत्तेः । यथा राजकुलं गच्छति, राजान-
मभिगच्छति, राजानं सेवते, राज्ञि वर्तत इति । अत एवाश्वमेधिके श्रीवैष्णवधर्मशास्त्रे सहप्रयोगाद्भिन्नार्थत्वमवगम्यते-
भतस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च भावतः । युष्मदीयान् परान् धर्मान् पुण्यान् कथय मेऽच्युत ॥
इति । यदि च स्थानवलादैक्यमवश्यमन्युपगन्तव्यम्, तथाऽपि सुदृढनिरूढशब्दार्थभेदाबाधेन जहल्लक्षणयाऽप्युपचार
एवाङ्गीकार्यः । अन्यथा क्वचिदपि उपचारवृत्तिर्न स्यात् । न क्वचिदङ्गाङ्गिभावेनोपचारवृत्त्या समानार्थत्वाश्रयणमात्रेण
सर्वत्र तथेति नियमः, अतिप्रसङ्गात् । अतो नैक्यैरूयुक्तरूपैः स्वतन्त्रप्रपत्तिप्रतिक्षेप इति ॥