16 निषेधभङ्गः

तदेवमीदृशैर्वचनशतैः स्फुटव्यवसितस्य प्राक्तनैर्विशिष्टाधिकारिभिरनुष्ठितचरस्य प्रत्यक्षिताभिमत-
फलस्य अद्ययावदतिप्रसिद्धधर्मभावानुष्ठानस्य निषेधोऽपि न संभवति । यश्चासौ निषेध उक्तः ऋ नान्यः पन्था इति;
सोऽप्युत्सर्गापवादनयेन विहितव्यतिरिक्तविषयत्वात्, विधेश्च अनुपदमेव समर्थितत्वात्, प्रकृतविद्या(न्य)व्यतिरिक्त-
विद्यदिवन्यासविद्यामपि न निषेहुमलम् ॥
यद्वा, * तमेव विद्वानमृत इह भवतीत्येतदपि सर्वविद्यापूर्वरङ्गतत्त्वज्ञानमात्रपरत्वाभावेऽपि सर्वविद्यास्वरूपमैव
ब्रह्मवेदनात्मत्वेनाविशेषादभिधायोत्तरपूर्वाघाश्लेषविनाशज्यणमिहामृतत्वं वदतीति न कश्चिद्दोषः । एवंशब्दश्च प्रकृत-
माहात्म्येन सह तत्तद्विद्यावेद्याकारं सर्वमुपस्थापयति । किंच * नान्यः पन्था इत्यत्र प्रकृतमपि वेदनमन्यत्वस्य प्रतियोगि-
त्वेन नान्वेति; अपितु तमिति प्रकृतः परमपुरुष एव; तस्मात्परमपुरुषादन्यः पन्था न विद्यते, स एव तु पन्था इति
वाक्यार्थस्तु प्रपत्तेरत्यन्तान्तरङ्गण्ढः । श्वेताश्वतरास्तु -महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तक इति तमेव महापुरुषमधी-
यानास्तस्यैवान्यत्वप्रतियोगित्वमदधारणनिदेशेन सष्टमामनन्ति- वेदाहमित्यारभ्य ७- तमेव विदित्वाऽतिच्छमेति,
नान्यः पन्था विद्यतेऽयनायेति । तस्मात् ऽ अमृतस्यैष सेतुरिति न्यायेन परमफुषस्यैवामृतत्वोपायत्वमिह प्रतिपाद्यते ।
वेदनेतरनिषेधभाष्यं तु फलिताभिप्रायेणेति अधिकरणदर्पणे दर्शितमस्माभिः । अतो नैवंविधेषु विद्यान्तराणामिव
प्रपदनस्यापि निषेधप्रसङ्गः ॥
यत्तु * नाविरतो दुश्चरितादित्यादिना समाधिरहित[स्य]साधननिषेधसिद्धिरिति; तदपि न, प्रज्ञान शब्देन
मोक्षोपायतया तत्तत्प्रकरणोदितसमस्तविद्यासंग्रहात् । ततश्च तत्तदनुरूपचित्तसमाधानादेरत्र विवक्षिततया प्रपदनविरोधा-
भावात् । प्रपदनमपि स्वसिद्ध्यनुरूपं स्वविषयगोचरं चित्तसमाधानविशेषमपेक्षते, तत्सिद्ध्यनुरूपां च बाह्यान्तर-
करणोपरतिम् । अन्यथा कारणाभावे कार्याभाव इति स्यात् । दुश्चरितविरतिस्तु भगवदाज्ञानुवर्तिषु सर्वेषु सामान्यतः
प्राप्ता; प्रपन्ने तु सर्वपापपरिहाराशक्तिनिमित्तशोकाविष्टे परमैकान्तिनि कैमुतिकन्यायसिद्धा । अत एव प्रपन्न
मधिकृत्यैवमादिष्टम्-* मनीषी वैदिकाचारं मनसाऽपि न लङ्घयेदिति । देशकालादिदोषसंभव तु दुश्चरितमुषस्ताविव
चाक्रायणे सप्तर्विविश्वामित्रादिष्विव च सर्वेष्वपि धार्मिकेषु संभवतीति न प्रपन्नस्य कश्चिद्विशेषः । अतोऽनया श्रुत्या न
प्रपदननिषेधः फलति
यत्त -नाहं
वेदनतपोदानेज्यावत्
तत्संकोचस्योक्तत्वात्

  • क्कुषस्त परः पार्थ

    वेदैरित्यादिना समस्तहेत्वन्तरनिषेधपूर्वकमनन्यया भक्त्यैव प्राप्तिरुच्यत इति; तत्रापि न तावत्
    प्रपदनमपि कण्ठोक्त्या प्रतिक्षिप्तम् । नचानन्ययेत्यनेन सामान्यतस्तस्यापि निषेधः, विधिबलादेव
    । अपिच नात्रानन्ययेत्युपायान्तरं व्यवच्छिद्यते; प्रयोजनान्तरादिनैरपेक्ष्यस्य विवक्षितत्वात्,
    भक्त्या लभ्यस्त्वनन्यया, इत्यादिवत् । नच तत्रापि तथैवेति वाच्यम् । ऐश्वर्याद्यर्थिभक्तेरेव व्यव-
    च्छेद्यत्वेन प्रकरणादिसिद्धत्वात् । तथाऽपि च तत्र भाष्यम्-* अनन्यचेतास्तततमित्यनन्यया भक्त्या लभ्य इति । एतेन
  • नायमात्मा प्रवचनेन लभ्य इत्यादिश्रुतिरपि निर्व्कुा । * भक्त्येकलभ्य इत्यादिषु तूपायान्तरमेव साक्षान्निषिध्यत इति
    चेत्; सत्यं तथाऽपि संकोचः पूर्वोक्तः । अपि चात्र प्रीतिमात्रलभ्यो भगवानिति तत्सौलभ्ये तात्पर्यम् । तच्च प्रपदनस्यापि
    साहाय्यमाचरति । एवं हि तत्रतत्रोच्यते-
  • पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ।
    भक्त्येकलभ्ये पुरुषे पुराणे मुक्सै किमर्थं क्रियते न यत्नः ॥ इति ।
    किंच फलार्थिभन्तरेणापि१ न सर्वत्रोपायाधिकारः, फलं चात्र परं ब्रह्मैवेति प्रपलैवीत्यापि परमात्मनि
    रागावश्यंभावात्, तावत एव भक्तिशब्दप्रवृत्तिनिमित्तत्वात्, समाधिरहितोऽपि प्रपन्नो भक्त एवेति को विरोधः?
    अतो न क्वचिदपि श्रुत्यादिसिद्धस्य न्यासाख्योपायस्य निषेधसंभिवोभावनावकाश इति ॥
    ३-६