यच्चोक्तं विधिरेव न दृश्यत इति, तत्किं विधिप्रत्ययाश्रवणात्? उत विधिपरत्वाभावात्?
नाद्यः, अर्थवादादपि विधिकल्पनाभावप्रसङ्गात् । न द्वितीयः, ‘यो ब्रह्माणम्’ इत्यस्य विधिपरत्वात् ।
यत्तूक्तं मन्त्राणां विधिपरत्वे प्रमाणं नास्तीति; तदसत्, यच्छब्दाद्यनुपहतविधिशक्तीनां मन्त्राणामपि विधिपरत्वस्य स्थापनात् । प्रपञ्चितं चैतदस्माभिस्सच्चरित्ररक्षायां सुदर्शनादिधारणाधिकारे । यच्च “तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति इत्यत्र प्रपत्तिविधिर्न दृश्यत इति; तत्रापि तात्पर्यतः प्रपन्नसंरक्षणं कारुणिकानां स्वभाव इत्येतत् सिध्यति । तावति सिद्धे कैमुतिकन्यायेन लब्धं अपारकारुण्यजलधेरीश्वरस्य प्रपन्नसंरक्षणम्; ततश्च प्रपदनविधिवाक्यान्तरमप्यनुसृत्य तत्प्रपदनं रक्षणायैव भवति ॥
यत्तूक्तम् ‘ओमित्यात्मानं युञ्जीत’ इत्यत्र युजेः प्रकरणगतन्यासार्थत्वेऽपि न्यासशब्दस्य प्रपदनैकान्त्याभावात्
प्राकरणिकानां गतिचिन्तनाद्यङ्गानां तत्रासंभवाच्च न प्रपदनपरत्वनिर्णय इति; तदप्यसत्; “तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम्”, “इदं महोपनिषदं देवानां गुह्यमुत्तमम्” इत्यादिवचनैः न्यासविद्यागततत्तच्छब्दार्थशालिभिस्तामेव प्रत्यभिज्ञाप्य भगवच्छास्त्रसंहितासु स्पष्टतरमुपबृंहणात् ।
ननु अहिर्बुध्न्यसंहितायां सर्वाधिकारतान्त्रिकमन्त्रान्तरविधानात् न्यासाङ्गतया श्रुतपुरुषाश्रययज्ञकल्पनस्य
सुदर्शनात्मकभगवदाश्रयतया विपरिणामाच्च भेदसिद्धेः प्रत्यभिज्ञाभङ्गान्न तदुपबृंहकत्वमिति चेन्न; मन्त्रादिभेदेऽपि प्रपदनरूपत्वमात्रप्रत्यभिज्ञाभङ्गाभावेन तावन्मात्रोपबृंहणस्याविरोधात्, तत्तद्गुणविग्रहविभूत्यादिपरिकर्मितभगवदाकारानुरूपप्रपदनमन्त्रभेदस्याप्युपपत्तेः । विवाहोपनयनसीमन्तचौलादयोऽपि मात्रया भिन्नमन्त्रक्रियादयः कल्पसूत्रभेदेन दृश्यन्ते । न च तावता विवाहादिसंस्कारविशेषरूपत्वमपहाय कर्मान्तराणि भवन्ति । न च अधिकारिवैचित्र्यादन्यथा, यथा अर्चनादि
तान्त्रिकसंज्ञिकविभवादिमन्त्रान्तरप्रभवं सर्वाधिकारं, तथा न्यासोऽप्यहिर्बुध्न्यसात्यकितन्त्रादिपठिततान्त्रिकमन्त्रान्तरकरणकः तद्योग्यस्सर्वाधिकार इत्यत्रापि न विरोधः।
वसुरण्यादिप्रणवपर्यन्तमन्त्रानुबन्धी तु न्यासो निषादस्थपत्यादिवद्विशेषवचनाभावादधीतवेदानां त्रैवर्णिकानामेव
इति नापशूद्राधिकरणविरोधोऽपि । एवं वैदिकतान्त्रिकमन्त्रेष्वपि यथाविधानमधिकारात् तैरपि कैश्चित् स्वाधिकारानुरूपो न्यासो युक्तः । अमन्त्रकविधानेऽपि क्वचित्तथैव तन्त्रशास्त्रार्थ इति । अत एव हि प्रपत्तिशास्त्रस्य वर्णचतुष्टयसाधारण्यमुक्तम् श्रीसात्त्वततन्त्रे
त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः । अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे ॥
इति । [[३०]] न च वचनविरोधे न्यायः (प्रवर्तते) । तथाऽपि प्रत्यक्षश्रुतिसिद्धन्यासविपरीताकारन्यासोपदेशो बाधित एव स्यादिति चेन्न; तच्छायानुकारिणो न्यासान्तरस्य विधानोपपत्तेः तद्बाधायोगात् । श्रुतिशिरश्शेखरेण स्वतः सर्वज्ञेन भगवता निखिलजगदुद्धरणाय प्रणीते विप्रकीर्णानन्तशाखनिगमसंग्रहात्मके पञ्चरात्रशास्त्रे प्रणीतानां श्रुतिद्वयविरोधवत् विकल्पतः स्थापनीयत्वात् । अत एव अङ्गभूतपुरुषविद्यायां यज्ञावयवादिकल्पनभेदोऽपि निर्व्यूढः । भाष्ये ब्रह्मविद्याङ्गभूतपुरुषविद्योक्तिरप्यविरुद्धा, प्रपदनस्यापि ब्रह्मविद्यात्वाविशेषात् । यदा तु ‘तस्यैवं विदुषो यज्ञस्य’ इत्यादिकं न्यस्तात्मनो नैरपेक्ष्यप्रतिपादनार्थवादरूपमभिमतम्; तदा तु भगवत्सुदर्शनाश्रययज्ञादिकल्पनमपि नैरपेक्ष्यपरमिति फलतः समानार्थमेव । तथा
पुरुषविद्यासूत्रस्य शाखान्तरगतपुरुषविद्यातस्तैत्तिरीयपुरुषविद्याया भेदमात्रे तात्पर्यम्, भाष्येऽप्यङ्गशब्दो विध्यङ्गार्थ-
वादपरत्वेऽपि अविरुद्ध
इति भाव्यम् ।अत्यन्तानङ्गत्वाभ्युपगमादेव मन्त्रविशेषविधिश्चिन्तनीयगतिविशेषविधिश्चोपपन्न एव । तदावृत्त्यनावृत्ती तु तदङ्गकेन न्यासेन समानयोगक्षेमतया तन्निष्कर्षादेव निष्कर्षणीये ।
‘सकृदेव प्रपन्नाय’ इत्यत्रापि प्रपदनविध्यभावेऽपि, अभयप्राप्तिकामो मां प्रपद्येतेति वाक्यतात्पर्यस्य सिद्धत्वात्, रामगुणविशेषप्रतिपादनपरत्वेऽपि वाक्यस्य गुणविशेषश्रुत्यर्थापत्त्यैव प्रपदनीयत्वसिद्ध्या प्रपत्तिसिद्धेः, तस्यैव गुणस्य शास्त्रान्तरैः,
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥
इत्यादि तत्रत्यवचनबलाच्च परव्यूहविभवादिसर्वावस्थासाधारणत्वात्, सर्वदा सर्वैः प्रपदनीयत्वस्यापि सिद्धौ सिद्धं भगवत्प्रपदनविधावेव ‘सकृदेव’इत्यादिवाक्यतात्पर्यम् । आह च शरणागतपरित्राणस्य महापुरुषमात्रसाधारण्यम्
श्रूयते हि कपोतेन शत्रुश्शरणमागतः । अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥
स हि तं प्रतिजग्राह भार्याहर्तारमागतम् । कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ॥
इति । एवं च ‘वेदोपबृंहणार्थाय तावग्राहयत प्रभुः इति’ वेदोपबृंहणतया प्रवृत्ते श्रीरामायणे वेदसारभूतोऽयमर्थश्चोपबृंहितो भवति । अत एव ह्याहुः भगवन्तं प्रति यामुनाचार्याः
ननु प्रपन्नस्सकृदेव नाथ तवाहमस्मीति च याचमानः । तवानुकम्प्यः स्मरतः प्रतिज्ञामिति ।
ततश्च स्वातन्त्र्येण वा फलप्रदत्वं, धर्मान्तरानुबन्धेन वेत्येतावदवशिष्टम्; तत्र वक्तव्यमुक्तप्रायम् । वक्ष्यते च ।अस्यायमर्थः - सकृदेवेत्यावृत्तिनैरपेक्ष्यमुच्यते । प्रपन्नायेति प्रार्थनाद्यंशो विवक्षितः । तवास्मीत्यात्मनिक्षेपः । प्रपन्नायेत्यनेनैव साङ्गशास्त्रार्थस्संगृहीतः । तवास्मीत्यनेन त्वौचित्यात्तवाहं स्यामिति फलप्रार्थनमभिप्रेतम् । उपलक्षणं चैतदभिमतस्य फलान्तरस्य । अथवा प्रपन्नायेति मानसं, याचत इति वाचिकं प्रपदनमुच्यते । “अभयं सर्वभूतेभ्यो ददामि” - सर्वभूतनिमित्तस्य भयस्य निवृत्तिं ददामीत्यर्थः ॥ “सर्वपापेभ्यो मोक्षयिष्यामि” इतिवत् ॥
केचित्तु सर्वभूतनिमित्तभयाभावं सकृदेव ददामीत्यन्वयमिच्छन्ति । तत्रावधारणसामञ्जस्येऽपि व्यवहितान्वयत्वमयुक्तम् । पक्षान्तरे चावधारणं प्रगुणमेव, ‘सकृदेव प्रपन्नस्य’ इत्यादिशास्त्रप्रपञ्चितप्रपदनावृत्तिप्रतिषेधज्ञापनेन अधिकोपकारात् । सकृदेवाभयं ददामीत्युक्ते तु सहसा समस्तभयनिवृत्तिरुक्तास्यात्; तच्च सर्वभूतेभ्योऽभयं ददामीत्येतावति निर्दिष्टेऽपि फलतीति मन्दप्रयोजनं तदभिधानम् । प्रस्तुताया विभीषणकृतायास्सकृत्प्रपत्तेः फलाविनाभावप्रतिपादनं चोचितम् । “ननु प्रपन्नस्तकृदेव” इति भगवद्यामुनाचार्यवाक्ये च सकृदेवानुकम्प्य इत्यन्वयः प्रसज्येत; तच्चात्यन्तास्वरसम्; न चान्यथा [[३१]] तैरनूदितमिति वक्तुं वाग्देवताऽपि क्षमते । अतो यथास्थानमेवात्वय इति अन्तर्वती संवित् । ‘अभयं सर्वभूतेभ्य’ इत्यत्र प्रकृतानुपयोगमुपसर्जनान्त्यमुपपदविभक्तिं च कारकविभक्तिसंभावनायाममृष्यमाणाः कतिचन सर्वभूतेभ्य इति चतुर्थीं व्याचक्षते । तत्र च पक्षे प्रपत्तेस्सर्वाधिकारत्वं फलिष्यति । वाक्यभेदस्तु विवरणकारप्रपञ्चितप्रक्रियया पञ्चमीपक्षेऽपि भवन् प्रकृतोपकारभूयस्त्वादिबलाच्चतुर्थीपक्षे सोढव्यः; एकवचनबहुवचनयोस्सामानाधिकरण्यासंभवात् । संभवत्यां गतौ अगत्या वाक्यभेदाश्रयणं चायुक्तम् । नच सर्वभूतेभ्य इति गोबलीवर्दन्यायात् प्रपन्नेतरविषयम्, येनैकवाक्यता स्यात्; प्रपन्नेतरेषामभयप्रदानं च प्रकृतानुपकारकं प्रमाणविरुद्धं च । अतो न विषयव्यवस्था शक्या । अतः प्रपपन्नायाभयं ददामि, तच्च सर्वभूतेभ्य इति वाक्यभेद एव । प्रपन्नायाभयप्रदानं सिद्धं कृत्वा वा तदनुवादेन सर्वभूतेभ्य इति विधिः । यत् सकृदेव प्रपन्नाय तवास्मीति च याचते अभयं ददामीति, तत् सर्वभूतेभ्यः, न केवलमनपकारिभ्यः सुग्रीवविभीषणादिभ्यः, अपि त्वाद्रापराधेभ्यो रावणवायसादिभ्योऽपीत्युक्तं भवति । तथाच स्वयमेवाह-
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् । आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥
इति ।भवतु वाऽत्र श्लोके या काचिद्योजना; प्रपत्तिसंज्ञकः शीघ्रलाभहेतुर्निष्प्रमादः स्वाभिमतफलोपायस्तावदिह सिद्ध इत्यलमतिक्षोदेन ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज, मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यास्यसि ह्यकुतोभयम् ॥
इत्यनयोस्तावद्विध्यभावचोद्यं बाधिर्यकृत्यम्; प्रथमपुरुषवन्मध्यमपुरुषेऽपि विधिशक्तेरनपायात्, अर्जुनाद्युद्देशेन प्रपत्तावप्यर्थतस्सर्वसाधारण्यात् । अन्यथा एवंविधेषु सर्वेष्वप्यनाश्वासप्रसङ्गात् । परित्यागांशे तु विध्यनुवादविकल्पानुपपत्त्यादयः परिहृता एव । अङ्गप्रपत्तिविधिरित्यादि तु परिहरिष्यते-‘सर्वगुह्यतमम्’ इत्यादिना । पूर्वप्रस्तुतशास्त्रसारार्थविषयेण कथमस्य संगतिरिति चेत्तदवहितमनाः शृणु-
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतमं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥
इत्युक्तेऽर्जुनस्य विषादमालोक्य स भगवान्वासुदेवश्चिरकालसाध्यदुष्करापवर्गोपायश्रवणेन शोचतोऽस्याविलम्बितफलप्राप्तिसापेक्षतत्साधनसमर्थेपुरुषविषयमुपायान्तरम् * सर्वगुह्यतममित्यादिनोपदिशति । तत्र भूयश्शब्दः श्रवणावृत्तिमात्रपरः, तावत्येव तदुपपत्तेः, प्रयुक्तेश्च । अत एव नात्रास्वारस्यम् । ‘मन्मना भवेत्यादिना’ तु वक्ष्यमाणप्रपत्तिनिष्ठस्य मध्यमां वृत्तिमनुतिष्ठतः बुद्धिविशेष उच्यते । यावज्जीवमनुष्ठेयेषु सर्वेषु नित्यादिकर्मसु मन्मना भव-भगवानेव स्वशेषभूतेन मया स्वात्मानं प्रीतं कारयतीत्यनुसंधत्स्व । मद्भक्तः-सर्वशेषिणः सर्वभूतसुहृदः समाराधनमिदमिति प्रीतिपूर्वकमनुतिष्ठ । मद्याजी-नित्यकर्मस्वनुप्रविष्टान् देवानृषीन् पितृन्मदात्मकान्यथावत्पश्यंस्तद्यजनेऽप्यनन्ययाजी भव । मां नमस्कुरु-मां प्रति वाङ्मनःकायैः प्रह्वीभव । एवंभूतो वक्ष्यमाणप्रपत्तिनिष्ठस्त्वं सर्वपापेभ्यो मया मोचितो मामेवैष्यसीति । एवं च नवमाध्यायोक्त एव शब्दः प्रकृतोपयुक्तं प्रमाणान्तरसिद्धमर्थं प्रतिपादयतीति न प्रत्यभिज्ञाविरोधः । स्पष्टश्चैवं प्रकृतोपयोगः ॥
यद्वा, ‘यथेच्छसि तथा कुरु’ इत्यस्यानन्तरमर्जुनस्य विषादमवलोकयन् स भगवान् पूर्वोक्तेष्वर्थेष्वेतदेव हिततमम्, अत इदमेव त्वया कर्तव्यमित्यनिर्धारणाद्वा प्रागुक्तानां दुष्करत्वादेर्वा शोकोऽस्य संवृत्त इति विवेक्तुं प्रथमं प्रागुक्तेष्वर्थेषु सारमंशं निष्कृष्य ‘सर्वगुह्यतमम्’ इत्यादिना श्लोकद्वयेनाह ।तावताऽप्यनुपशान्तशोकमर्जुनमाशुकारिसर्वाधिकारसर्वेष्ठसाधनसर्वान् [[३२]] इष्टनिवर्तनक्षमब्रह्मास्त्रतुल्यसकृत्कर्तव्यसुकरनिष्प्रतिबन्धोपायोपदेशेन ‘मा शुच’ इति पर्यवस्थापयतीति किं नोपपद्यते? एवं सत्युपदिष्टे प्रपत्तिशास्त्रार्थेऽर्जुनस्य निष्ठा कथं न जायत इति चेत्; किं श्रुतं सर्वं श्रोतारोऽनुतिष्ठन्ति,प्रतिसंदधते वा? विस्मृतार्थस्य ह्यर्जुनस्य पुनः प्रतिबोधनाय अनुगीतावतारः । तर्हि “स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव” इत्यादिकं कथं सङ्गच्छते? इत्थम्-कर्मयोगज्ञानयोगभक्तियोगप्रपदनाख्येषु चतुर्ष्वपि पर्वसु वर्णाश्रमधर्माणामपरित्याज्यत्वं हि स्थापितम् । ततश्च युद्धाख्यस्य क्षत्रियधर्मस्यार्जुनाय सर्वावस्थायामवश्यानुष्ठेयत्वमुपदिष्टम् । तच्चैवं विजानताऽर्जुनेनाधिकारानुरूपे यत्र क्वचिन्मोक्षोपायपर्वणि स्थास्यामः(मि), सर्वावस्थानुवृत्तः स्वधर्मस्तावत्परिपालनीय इति मन्वानेन युद्धे प्रोत्साहयन्तं भगवन्तं प्रति * करिष्ये वचनं तवेति स्वस्य युद्धायोद्योग आवेदित इति सर्वं पूर्वापरं सुसङ्गतम् । अतः स्वतन्त्रप्रपत्तिविधिपरोऽयं श्लोकः । भाष्यानुगुण्येनाप्यस्य योजनान्तरं वक्ष्यामः । अयमत्र सर्वविधिपरामर्शसिद्धोऽनुष्ठेयार्थः । अविलम्बिताभिमतफलसिद्धौ स्वस्योपायान्तरशूयतामालोच्य महता शोकेनावसीदन् पुरुषस्तत्फलसिद्ध्यर्थमल्पशक्तेः स्वस्य दुष्कराण्युपायान्तराणि परित्यज्य तत्फलप्रदानोचितगुणगणविशिष्टे परस्मिन् [[ सकृत्प्रार्थाना ?]] मात्रेणापेक्षितं दास्यतीति संवन्धशीलसहकारिविशेषादिपरामर्शातिशयेन महान्तं तावत् फललाभमीश्वरेणाप्यक्षोभणीयं विश्वासमुपजनय्यानुकूल्यसंकल्पप्रातिकूल्यवर्जनाभ्यामपायजाते विरताभिसन्धिः आकिञ्चन्यानन्यगतित्वप्रकाशनपूर्वकं गोप्तारमेवोपाय[ान्तर]स्थाने निवेशयन्निष्टप्राप्तिपर्यन्तानिष्टनिवृत्तिलक्षणामात्मरक्षां सकृदपेक्ष्य स्वात्मानं द्रव्यान्तरवन्निश्शङ्कं निक्षिप्य मद्रक्षणे गुणादिप्रेरितस्समर्थो रक्षकः स्वावद्यनिवृत्त्याद्यर्थं स्वयमेव प्रवर्तत इति विस्रब्धः, स्वयं निर्भरस्सन् अन्तःपुरपुरन्ध्रीन्यायेनानन्यो वर्तेत । सचायं न्यायः श्रीमत्सुन्दरकाण्डहृदयवेदिनां सहृदयानां सुस्पष्टः ।
श्लो. अप्राप्तितः परिहरन् स्वपरैः स्वरक्षां तादर्थ्यधीपरिहृतस्वपरार्थभावः ।
अन्योपभोगविरहादनघः प्रपन्नः भुंक्ते स्वभोगमखिलं पतिभोगशेषम् ॥ ३८ ॥
इति ।
यत्तु शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥
इत्यत्र शरणागत्यर्थवादमात्रत्वमिति; तत्तथाऽस्तु मा वा; तथाऽपि फलकरणदर्शनात्तेनैव तद्विधिसिद्धिः । अन्यथा तदर्थवादस्यैवात्र निष्प्रयोजनत्वप्रसङ्गः । अविहिते शास्त्रार्थेऽर्थवादनैरपेक्ष्यात् वाक्यान्तरविहितप्रपत्त्यनुवादेन रात्रिसत्रार्थवात्वत्फलविधिरयम् । न च “पर्णमय्यादिवत् फलवादमात्रम्”, [[ उपासनप्रयोगबहिर्भावस्य ?]] वक्ष्यमाणत्वात् । फलसिद्धेर्व्यवधानसहत्वं चात्र परिहरिष्यते । अत एव “तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणा” इत्यादिप्रतिबन्दीनिस्तारसिद्धिः । सात्यकितन्त्रे प्रपत्त्यध्याये स्फुट एव सकृत्कर्तव्यसमन्त्रकनिक्षेपविधिः-
अनेनैव तु मन्त्रेण स्वात्मानं मयि निक्षिपेत् । मयि निक्षिप्तकर्तव्यः कृतकृत्यो भविष्यति ॥
इति । तन्मूलश्रुतौ चान्यनिरपेक्षस्स्पष्ट एव विधिः
ग्रसेत् संहारसमये जगच्च बदराण्डवत् । लीलया यस्तु भगवान् तं गच्छ शरणं हरिम् ॥
इति ।