यत्तूक्तमनुष्ठानदर्शनाभावादिति, तत्र किं प्रपत्तिमात्रस्यानुष्ठानं न दृश्यते? उत मोक्षार्थप्रपत्तेः? यद्वा साक्षान्मोक्षसाधनभूताया इति? न प्रथमः, विभीषणादिवृत्तान्तदर्शनात् । न द्वितीयः, क्षत्रबन्धुमुचुकुन्दादिकथाप्रसिद्धेः; “त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिण” इत्यादिसामान्यनिर्देशसामर्थ्यात् । न तृतीयः, संकीर्तनविशेषनिष्ठस्य क्षत्रबन्धोरनन्तरजन्मनि जातिस्मरत्वेऽपि भक्तियोगप्रकारप्रतिपादनादर्शनात्; प्रपदनस्य तु कण्ठोक्तेर्व्यवधानकल्पनस्य गुरुत्वात्, तद्विध्यनुसाराच्च । विधौ च सत्यनुष्ठानदर्शनाकाङ्क्षणमतिमन्दमेव । धर्मोऽपि लोकविद्विष्टश्चेत् परिहर्तव्यः; न चात्र कश्चिदपि लोकविद्वेष इत्यनुष्ठानदर्शननिरपेक्षो विधिरेवानुष्ठापयन् केन प्रतिबध्येतेति ॥