यच्चान्यदुक्तं लक्षणानुपपत्तेश्चेति, तदपि बालिशभाषितम्; नहि लक्षणस्य दुर्वचतामात्रेण लक्ष्यमपह्नोतुं शक्यम् । तथा सति इक्षुक्षीरगुडादिमाधुर्यभेदस्य महदन्तरस्यापि दुर्वचतामात्रेणापह्नवप्रसङ्गात् । न ह्येवंविधाः प्रतिवस्तुनियता विशेषास्त्वयाऽपि वक्तुं शक्यन्ते । तदुक्तं दण्डिना
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथाऽपि न तदाख्यातुं सरस्वत्याऽपि शक्यते ॥
इति ।
सर्वलोकप्रसिद्ध्या तत्सिद्धिरिति चेत्तुल्यम् । भक्तिसाधारणानन्यतामात्रेणात्र प्रसिद्धेः पृथक्सिद्धिर्नास्तीति चेन्न; “यद्येन कामकामेनेत्यादिषु भक्तेः पृथगुपायत्वेनैव न्यासोपादानात्” । ऐक्यप्रसङ्गपरिहारादौ चैतत् स्पष्टं भविष्यति । तथाऽपि लक्षणमन्तरेण लक्ष्यव्यवहारसिद्धिर्न स्यादिति चेन्न; व्युत्पत्तिवशादेव तदुपपत्तेः, बालादिव्यवहारवत् । व्युत्पत्तिरेव लक्षणमन्तरेणात्र न स्यात्, प्रत्यक्षादिमूलस्फुटप्रतीत्यभावादिति चेन्न; यत्किञ्चिदुपलक्षणमात्रेणापि प्रतीत्युपपत्तेः, वायसादिना देवदत्तगृहादिपरिज्ञानवत् । तच्च यद्यव्याप्तम्, इदमपि तच्छब्दार्थ इत्युदाहरणान्तरमपि पृथक् व्युत्पाद्यम् । यदि पुनरतिव्याप्तम्, इदं तु न तथेति स्वरूपतः प्रतिक्षेप्यम्, वृद्धप्रयोगगम्याश्च शब्दार्थाः सर्व एव नः इति न्यायात् । अपिचाहुः
सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥
इति ।
अतो यत्रयत्रानन्यथासिद्धः प्रयोगः, तत्रतत्र मुख्यता; तत्रानुवृत्तनिमित्तसंभवे त्वेकार्थता, अन्यथाऽनेकार्थतेति विभागः । अनेकार्थेष्वपि एकशब्दसंग्रहवशाद्विधिनिषेधव्यवस्थासिद्धिः,
शर्करां पादजिह्वाभ्यामक्षिरोगी विवर्जयेत् । स्नेहमाहारदारादौ प्रमेही परिवर्जयेत् ॥
इत्यादिवत्, तकारपूर्वे तकारोत्तरे च तपरसंकेतवच्च । इदञ्च तत्रतत्र तात्पर्यवशादवसीयते । ततश्च काककपोतवृत्तान्ताविरोधः, [[२८]] एकस्मिन्नेव वाचिकमानसिककायिकत्वाद्यविरोधश्च । नमस्कारेऽपि हि तथा त्रैविध्यं प्रसिद्धमेव । अत्र सौहार्दे त्वव्याप्त्यादिरहितं लक्षणं वदामः - अनन्यसाध्यस्वाभीष्टसाधनसमर्थवशीकरणं शरणागतिरिति ॥
यत्पुनगोप्तृत्वोपायत्वयोः क्षोदः, तत्र प्रपत्तव्येश्वरगतं गोप्तृत्वम् “रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा” इत्यादिभिः प्रतिपाद्यते । “इदं शरणमज्ञानामित्यादिषु” प्रपत्तिविषयश्च शरणशब्दः “उपायार्थैकवाचकः” इति निष्कृष्यत इत्येके । प्रपत्तव्येश्वरविषय एवायं शरणशब्दो व्याक्रियते,
तत्र गोप्तृत्व-समानार्थ एव -
गोप्तृत्व-बहिष्ठोपायत्वस्य दुर्निरूपत्वात् ।
कथं तर्हि रक्षितृत्व-व्युदासेन
‘‘साम्प्रतं त्व् एष उपायार्थैक-वाचकः’’
इति निष्कर्ष
इति चेत् – श्रूयताम् अवधानेन ।
उपायान्तर-शून्यस्य हि प्रपदने अधिकारः ।
भगवतश् च रक्षितृत्वं उपायान्तरवति तद्-रहिते च समानम् ।
प्रपद्यमानेन च स्वस्य निरुपायत्वं पुरस्कार्यम् ।
तद्-अभिप्रायेण हि
‘‘अहम् अस्म्य् अपराधानाम्
आलयो ऽकिञ्चनो ऽगतिः’’,
‘‘त्वम् एवोपाय-भूतो मे
भवेति प्रार्थना-मतिः’’
इत्य्-आदिकम् उच्यते ।
तदेवं गोप्तर्य् एव भगवति
प्रपित्सोर् उपायान्तर-निवृत्तिम् अभिसन्धाय
उपायत्व-वाचो युक्तिः ।
तेन निरपेक्ष-रक्षकत्वम् अनुसंहितं भवति॥
अतः ‘उपायार्थैक-वाचकः’ इति च तत्-परम् एव ।
ततश् चाङ्गि-प्रपत्तौ
उपाय-भूताया भक्तेः स्थाने निवेश्य
भगवान् उपदिश्यते ।
भक्त्याऽपि हि भगवत्-कृपैवोत्तभ्यते ।
सा चेद् अकिञ्चने प्रपन्ने
स्वयम् एवोत्तिष्ठेत।
अतो “भक्ति-साध्यां ताम्
ईश्वर-स्वभाव एव निर्वर्तयती"ति
अनुपायानां स एवोपायः ॥
यत्तु ‘आनुकूल्यस्य संकल्पः’ इत्यादौ विकल्पितम्, तत्र विभागपरत्वं लक्षणपरत्वं च नाभ्युपगच्छामः । प्रकारप्रतिपादनपरत्वेऽङ्गतायां यदुक्तं नैरपेक्ष्यवादविरोध इति, तत् प्रागेव परिहृतप्रायम् । कर्मान्तराङ्गकत्वमात्रं हि प्रतिक्षिप्यते, न पुनः स्वाङ्गैरपि निराकाङ्क्षत्वमिष्यते । यत्तु प्रातिकूल्यवर्जनादिना भक्तेरपि दुष्करतमत्वमिति, किं तावता ब्रूयाम् (श्रूयमाणः) उपायः परित्यक्तुं शक्यः? तथा सति अतिप्रसङ्गात् । तर्हृशक्ताधिकारत्वमस्य न स्यादिति चेन्न;अन्यत्राशक्तस्यात्राधिकारात् । न पुनरस्मिन्नेवाशक्तस्याधिकार उच्यते । न ह्यनुकल्पेष्वाग्नेयादिस्रानेष्वप्यशक्तस्य तद्विधिः ।
“अवगाहनाद्यशक्तस्त्वाग्नेयादि समाचरेद्” इति हि स्मरन्ति ॥
यत्तु षडतिरिक्ताङ्ग्यसिद्धिरिति; तत्तथैव, षट्स्वन्यतमस्य निक्षेपस्य आङ्गित्वव्यपदेशात्, अङ्ग्यन्तरानुपलम्भाच्च । प्रार्थनायां शरणागतित्ववादस्तु प्रधानाङ्गभूतायास्तस्याश्शरणागत्यन्तर्भावमात्रादप्युपपद्यते । न हि तत्राङ्गित्वादिविभागोक्तिरस्ति । ‘न्यासः पञ्चाङ्गसंयुत’ इत्यत्र तु विभागः स्फुटतया नान्यथाकार्यः । सात्यकितन्त्रे च
कथं त्वां शरणं गच्छेत्कीदृशी शरणागतिरिति ब्रह्मणा पृष्टो भगवान् सकृज्जप्तव्यमन्त्रविशेषोपदेशपूर्वकं निक्षेपस्य प्राधान्यमदर्शयत्-
अनेनैव तु मन्त्रेण स्वात्मानं मयि निक्षिपेदिति । अतो न न्यासे अङ्गित्वव्यपदेश औपचारिक इति वक्तुं शक्यम् ।
तर्हि ‘अनन्यसाध्य’ इत्यादिलक्षणवाक्यं कथं संगच्छेतेति चेन्न; उपलक्षणपरतयाऽपि तदुपपत्तेः, पृथिवीत्वाद्युपलक्षणगन्धवत्त्वादिवत् । अभेदोपचारस्त्वन्तरङ्गतयाऽप्युपपद्यते । अन्यथा ‘षड्विधा’ शरणागतिरित्यनेनैवाङ्गान्तराणामपि पृथक् प्रपत्तित्वप्रसङ्गात् । अङ्गिनो न्यासस्य स्वरूपं तावत् दुर्ज्ञानमिति चेन्न, तत्स्वरूपव्याख्यानेनैव तद्व्यक्तेः; यथा
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता । केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥ इति ।
अयं तु मुमुक्षोरनुष्ठेयो निक्षेपः; तत एव सामान्यस्वरूपं च प्रतिपन्नमिति न कश्चिद्दोषः । भवतु वा वचनान्तरवशात् प्रार्थनाया एवाङ्गित्वमन्येषां वा; तन्निर्णयाभावेऽपि षण्णामनुष्ठानादेव शास्त्रार्थपौष्कल्यसिद्धिः । [[२९]] अत एव समुदायस्य व्यारव्यानविभागे निक्षेपरक्षासिद्धान्तः यस्य करणत्वेऽपि न दोषः । संभावितस्वभावपक्षे विभागवचनविरोधरूपभवदभिमतदोषवशादतिप्रसङ्गाच्च तन्नाद्रियामहे । तदेवं प्रपत्तेर्लक्षणतः प्रतिपत्तिसिद्धेरनुष्ठानसंभवान्न विधेयत्वहानिः ।