12 स्वरूपसमर्थनम्

॥ अथ सिद्धान्तः ॥
तत्र राद्धान्ती प्रक्रमते -

श्लो - अत्रानभिमतांशस्य दूषणं किं नु दूषणम् । तथाऽभ्युपगतांशस्य दूषणं किं नु दूषणम् ॥ ९ ॥

तथा हि - यत्तावच्छास्त्रमात्रजन्यत्वावधि दूषणम्, तन्निपुणानभ्युपगतविषयमिति नास्माभिः परिहरणीयम् । यत्तु तथाविधज्ञानोत्पादकमिन्द्रियलिङ्गादिकं न दृश्यत इति; तत्र पृच्छामः - आनुकूल्यसंकल्पाद्यात्मकज्ञानसमुदाये कस्यांशस्य त्वया हेतुर्न दृश्यते? न तावदानुकूल्यसंकल्पस्य, तस्य संकल्पान्तरवदेव सहकारिविशेषसहकृतमनःकरणकत्वोपपत्तेः । प्रातिकूल्यवर्जनमपि संकल्पपर्यवसितं चेत्, तदेकयोगक्षेमम् । अभिसंधिविराममात्ररूपत्वेऽपि निषेधशास्त्रवशंवदं तदेव करणम् । यथा राजविद्विष्टव्यवसायनिवृत्त्यादिषु । रक्षिष्यतीति विश्वासः शास्त्रप्रामाण्यव्यवसायवतां प्रथमं तद्धेतुकः । पश्चात्तु तदनुस्मरणमात्रं संस्कारसहकृतमनःकरणकम् । तत्र तु क्रियाविशेषान्तर्गतसमन्त्रकदेवतास्मरणादिवत्तन्नियमे विधिव्यापार इति न वैयर्थ्यादिदोषः; अनध्यवसितशास्त्रप्रामण्यानां तु नास्त्येवेति किं तत्करणगवेषणया । गोप्तृत्ववरणमपि रक्षणाभ्यर्थनरूपम्, यतःकुतश्चिद्बिभ्यतो दुर्बलस्य गुणवत्प्रबलदर्शने संभवल्लोकेऽपि दृष्टमिति तद्वदेवात्रापि सुगमो हेतुः । आत्मनिक्षेपोऽपि,

तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता । केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥

इति वचनात्तेन संरक्ष्यमाणस्य तदेकशेषभूतस्य स्वरक्षणनैर्भर्यतत्फलस्वाम्यवियुक्ततादिरूपः । स च लोके दास्याभ्युपगमात्मा, गत्यन्तरशून्यस्य स्वेच्छाहेतुकः । भगवति तु, यथाचोदनं हविरन्तरसमर्पणसमानयोगक्षेमः सेतिकर्तव्यताकप्रामाणिकार्थपरिग्रहमात्ररूपः, [[१८]] तत्प्रत्याख्यानविनिवृत्तिरूपो वेति तत्रापि किमन्यत्करणं गवेषणीयम्? इदं चात्र समर्पणतत्त्वम् -

श्लो - स्वनिर्भरत्वपर्यन्तरक्षकैकार्थ्यभावनम् । त्यक्तरक्षाफलस्वाम्यं रक्ष्यस्यात्मसमर्पणम् ॥ १० ॥

इति ।

कार्पण्यं तु यदि कृपाजनककृपणवृत्तिनिरतत्वम्, तत्रापि यथालोकं सुगमो हेतुः । अथ कथंचिदपि गत्यन्तराभावरूपम्; तदपि गत्यन्तरप्रागभावरूपं चेत्, न हेतुसाध्यम्, अनादित्वात् । भावान्तराभाववादेऽपि तत्तदवस्थाप्रवाहे सामग्रीप्रवाहोऽनादिः । प्रध्वंसरूपं चेत्, तत्तदन्वयव्यतिरेकशास्त्रादवगता बहवो हेतवः सन्ति । गत्यन्तराभावानुसंधानमपि तत्तद्गत्यन्तरग्राहकप्रमाणाभावहेतुकम् । स च प्रमाणाभावो योग्यानुपलम्भात्मा प्रत्यक्षसहकारी वा प्रमाणान्तरात्मा वेति यथाभिमानं परिगृह्यताम् । यत्तूक्तम् - शास्त्रजन्यज्ञानादधिकविषया, अनधिकविषया वेति; तत्राधिकविषयेति ब्रूमः; विषयविशेषविशिष्टबुद्धिर्हि प्रपत्तिः, तस्या एव निश्रेयससाधनतया कर्तव्यत्वं शास्त्रवेद्यमिति विषयभेदः। यद्यपि विषयविशेषविशिष्टं ज्ञानं विधीयत इति विषयविशेषोऽपि विधिवाक्यवेद्यः; तथाऽपि स विषयस्तद्विषयतयैव शास्त्रवेद्य इति न साक्षाद्विधिवाक्यार्थः, उपासनाविषयवत्, यागादिशब्दाभिलप्यद्रव्यत्यागात्मकबुद्धिविषयवच्च । नन्वेवमपि नाधिकविषयम्; अपि तु न्यूनविषयम् । अतः शास्त्रश्रवणवेलायामेव बुद्धिविशेषरूपं प्रपदनं सकृत्कृतमेव स्यादिति चेन्न; न हि यागरूपबुद्धिविशेषविषयविधिवाक्यार्थश्रवणमात्रेण यागः कृतः स्यात् । प्रपदनमपि ह्यत्र प्रार्थनापूर्वकं परस्यै देवतायै प्रत्यगात्मरूपस्य हविषस्त्यागः, इन्द्रायेदं न ममेत्यादिवत् भगवत एवाहमस्मि न ममेति ।

यत्तु इतिकर्तव्यतावत्त्वे निरपेक्षोपायत्वविरोध इति, तन्न, प्रमाणासिद्धस्वेतिकर्तव्यतानैरपेक्ष्यस्य विवक्षितत्वात्; प्रमाणसिद्धस्वेतिकर्तव्यताभिरपि नैरपेक्ष्यस्याविवक्षितत्वात्; भक्तियोगादित्रयेतिकर्तव्यताभूतगुरुतरकर्मनैरपेक्ष्यमात्रं ह्यत्र विवक्षितम्, न पुनः स्वप्रकरणसिद्धस्वेतिकर्तव्यतानैरपेक्ष्यमपीति । अत एव सर्वधर्मशब्दोऽपि न तद्विषयः । यच्चात्र दृष्टान्तितो ब्रह्मास्त्रबन्धः, सोऽपि न स्वेतिकर्तव्यतानिरपेक्षः, अपि तु “अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते” इति अन्यबन्धासहत्वमात्रमेव हि समर्थ्यते । यत्पुनः, इतिकर्तव्यतारहितत्वे कार्यकरत्वहानिरिति, तदपि न, चरमेतिकर्तव्यतायां व्यभिचारात् । यद्यपि तत्र गत्यभावात्कथन्ताकाङ्क्षोपगमः, तथाऽपि प्रस्तुतेऽपि यदि इतिकर्तव्यताविधिर्न स्यात्, तदा गत्यभावादेवेतिकर्तव्यतानैरपेक्ष्यं कक्षीकार्यम् । तद्विधिसंभवे तु न शङ्काऽपीति । यत्तु सर्वधर्मपरित्यागे विध्यनुवादविकल्पानुपपत्तिरिति, तदप्यसत्; तत्र हि किमस्य वाक्यस्याप्रामाण्यमभिमतम्, अन्यपरत्वं वा? नाद्यः, अतिसाहसत्वात् । प्रत्यक्षमुत्याद्यनुसारान्न दोष इति चेन्न, तदविरोधेन नेतुं शक्यत्वात् । न च प्रपन्नस्य निःशेषधर्मलोपो निपुणैरभ्युपगतः; येन विरोधः स्यात् । नापि द्वितीयः, तत्रापि लक्षणासंकोचादेरवश्याभ्युपगन्तव्यत्वात् । तथा च सति अस्मदभिमतेऽपि
न कश्चिद्विरोधः, सर्वधर्मशब्देन प्रस्तुतमोक्षोपायान्तराणां विवक्षितत्वात् । तेषां च नानात्वं तद्विधायकैरेव सिद्धम् । यथाधिकारं नानाप्रकारकर्मज्ञानभक्त्युपदेशात् । ‘नानाशब्दादिभेदाद् इति’ विद्याभेदस्य सूत्रितत्वाच्च । ततश्च सर्वशब्दोपपत्तिः, सर्वनामशब्दानां संनिहितग्राहित्वात् । अत एव सागरतरणवत् अशक्योपदेशचोद्यमप्यपास्तम् । यादृच्छिकानां केषांचिद्धर्मत्वे सत्यपि मोक्षोपायत्वासिद्धेः । पारंपर्येण तदुपकारसामर्थ्येऽपि तन्निरपेक्षसाधनान्तरसद्भावेन ‘इतरस्याप्येवमसंश्लेषः पाते तु’ इति न्यायेन तस्यासंश्लेषविषयत्वात् । यत्पुनः आचार्योपसदनभगवत्सेवादेरपि परित्याज्यत्वप्रसङ्गः, तदनुष्ठाने वा प्रपत्तेरङ्गवैकल्यमिति; तत्र तन्निष्ठस्य वक्ष्यमाणसेतिकर्तव्यताकविधिबलादेवावश्यंभाविना तद्वैकल्यमिति -सिद्धान्तः महदिदमुपपादनम् । [[१९]] अत्र च तथाविधधर्मविषयत्वं सर्वशब्दस्य नास्तीति भावय । लोकसंग्रहाद्युक्तिरपि अवश्यकर्तव्यताभिप्रायैव । अन्यथा तदसंग्रहेऽप्यदोषत्वप्रसङ्गात् ।
यत्तु, क्रियमाणेषु श्रेयस्साधनत्वबुद्धित्यागस्येश्वरपारतन्त्र्यादिमात्रानुसंधानरूपत्वेन कर्मयोगादिसमानयोगक्षेमत्वमिति, तन्न, प्रपन्नावश्यंभाविभ्यः शक्त्यनुरूपनित्यनैमित्तिकेभ्यश्चातिरिक्तदुष्करतपःप्रभृतिक्लेशाभावेन वैषम्यात् । प्रपन्नधर्मेऽपि असमर्थं प्रति प्रपत्तेरनुपदेशात् । त्यागविषया अशक्तिस्तु परिहरिष्यते । विशिष्टविधिस्वीकारे च न वाक्यभेददोषः । यद्यपि चासौ गत्यभावविषयः; तथाऽपि अत्रापि यदि गत्यन्तराभावः स्यात् तदाऽसौ स्वीकार्य एव, भक्तियोगशेषत्वपक्षेऽपि तथैव निर्वाह्यत्वात् । यत्तु शक्तं मुमुक्षुं प्रत्येव मोक्षोपायान्तराणां निषिद्धत्वादधिकारिविशेषासिद्धेश्च अधर्मत्वप्रसङ्ग इति, तदप्ययुक्तम् । एतस्मिन्नेवोपाये अधिचिकीर्षतामेव तन्निषेधात् । ‘विकल्पोऽविशिष्टफलत्वाद्’ इति न्यायेन गतार्थत्वान्निरर्थकस्तन्निषेध इति चेत्, सत्यम्; न्यायप्राप्तविकल्पसिद्धमर्थं ज्ञापयितुमेवायं निषेधः । तर्हि विद्यान्तरेष्विव अत्रापि न्यायसिद्धे तदितरविद्यात्यागे विधिरनपेक्षित इति चेन्न; विद्यान्तरेषु तदितरविद्यात्यागो नैरपेक्ष्यात्, इह तु विरुद्धत्वादिति ज्ञापनेन सप्रयोजनत्वात् । तदेकशरणव्रज्या हि तदितरोपायपरिग्रहेण विरुध्येत । एवं च सर्वपापमोक्षणफल्वत्याः शरणव्रज्यायाः संनिधावफलतया तदङ्गभूतस्य त्यागस्य दृष्टोपकारे संभवत्यदृष्टपरिग्रहायोगाल्लिङ्गानुसारोऽपि न बाधितः । इह महताम् “अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते” इति ब्रह्मास्त्रबन्धोदाहरणमपि एतदभिप्रायेणैव ।
यद्वा प्रपदनाङ्गभूताकिञ्चन्यपुस्स्कारविरुद्धोपायान्तराशाप्रहाणमेवात्र त्याग इति न विरोधः । संकोचोपचारादिरवर्जनीय इत्युक्तम्; भवदभिमतपक्षेऽपि कथंचित्तदनुप्रवेशात् । दर्शितं च सात्यकितन्त्रे प्रपत्त्यध्याये प्रपित्सोरुपायान्तरनैराश्यं प्रश्नप्रतिवचनाभ्याम् । तथा हि-

ब्रह्मोवाच - भगवन् हितमाख्यातमात्मना पततामधः । त्वत्प्रापकं महत् कर्म कारुण्यविवशात्मना ॥
अधीता बहवो मन्त्राः श्रीमदष्टाक्षरादिकाः । एभिः कर्मभिरीजानस्तान्मन्त्रान् सततं जपन् ॥
त्वामाप्नोत्येव पुरुषः पुरुषं पुरुषोत्तमम् । एतान्यालोच्यमानानि कर्माणि करुणाकर ॥
दुर्विज्ञेयस्वरूपाणि दुष्कराणि विभागशः । मन्त्राण्येकैकशस्तावत् जपमानस्य माधव ॥
उक्तेनैव च मार्गेण गच्छत्यायुरपक्षयम् । तस्मात्सकृत्कृतेनैव कर्मणा येन मानवः ॥
सकृज्जप्तेन मन्त्रेण कृतकृत्यः सुखी भवेत् । तद्ब्रूहि कर्म तन्मन्त्रं दयार्द्रहृदयो ह्यसि ॥

श्रीभगवानुवाच - सत्यमुक्तमशक्यानि कर्माणि कमलासन । मन्त्राणां च यथाशास्त्रमनुष्ठानं न शक्यते ॥
इज्यते येन तत्कर्म कृतमात्रेण कर्मणा । मामाप्नोति नरो ब्रह्मन् ममात्मा च भविष्यति ॥

इति ॥

एवं जितन्तास्तोत्रेऽपि स्पष्टमुपायान्तरनैराश्यम् । किंच,

श्लो - प्रपत्तौ भक्तिवन्नास्ति तत्तद्धर्मान्तराङ्गता । इति बोधयितुं तत्तत्त्यागोक्तिरिह युज्यते ॥ ११ ॥
न चान्यानङ्गतामात्रादननुष्ठानसंभवः । स्वतत्त्रविधिसिद्धत्वादन्यथाऽतिप्रसङ्गतः ॥ १२ ॥

अतः सर्वशब्दासकोचेऽप्यविरोधः, वेदनचोदनालिङ्गकातिदेशप्राप्ताङ्गविशेषमात्रप्रतिषेधैकपरत्वात् त्यागोक्तेरिति ।

यत्तु अनुवादपक्षे अनुवाद्यार्थविशेषानिश्चय इति - तदपि न, अभिमतफलविशेषलाभे दुष्करसाधनान्तरनैराश्यनिमित्तशोकाविष्टस्यानूद्यमानत्वात् । एतच्च ‘सर्वधर्मान् परित्यज्य’, ‘मा शुचः’ इत्यनयोः सामर्थ्यादवसीयते । [[२०]] संभवति च दुष्करतरेषु चिरकालसाध्येषु प्रतिबन्धकशतनिरन्तरेषु अभिमतोपायेषु परिमितशक्तेर्विलम्बाक्षमस्य च तीव्रः शोकवेगः; तद्विशिष्टश्चात्राधिकारीति न किंचिदपहीनम् । सर्वशब्दोऽप्यत्र ‘सर्वत्वमाधिकारिकम्’ इति न्यायेन संनिहितफलविशेषसाधनतयाऽभिमत -प्रस्तुतधर्मसामस्त्यपरः । अत एव सङ्कोचोऽप्यत्र न दोषः । न च पश्चाच्छक्तिसंभवे सर्वधर्मशब्दार्थस्य पुनरनुष्ठानप्रसङ्ग; परिगृहीतेनोपायान्तरेण फलसिद्धौ पुनरितरानुष्ठानस्य निरर्थकत्वात्; अन्यथाऽन्यत्राप्यनुष्ठितानुकल्पस्यापि संजातशक्तेर्मुख्यकल्पानुष्ठानप्रसङ्गात् । न चात्र फलभूयस्त्वापेक्षया समुच्चयः संभवति, विकल्पोऽविशिष्टफलत्वादिति सूत्रितत्वात् ।

यच्च अशक्तिलिङ्गासिद्धिरिति, तदपि न; ‘मा शुच’ इत्यनेनैव द्योत्यमानत्वात् । न च वाच्यम् - उपक्रमावगतबन्धुवधनिमित्तशोक एवात्र मा शुचः इत्युपसंहारेऽपि निवार्यत इति; तस्यैव शोकस्य सर्वत्रानुवृत्तेर्नियामकाभावात् । अन्यथा

दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥

इत्यत्रापि तस्यैव शोकस्य प्रसङ्गात् । न च तद्युक्तम्; तत्र तत्प्रस्तावाभावात्, “संपदं दैवीमभिजातोऽसि” इत्यनेन तत्परिहारासंभवाच्च । ‘निबन्धायासुरी मतेति’ शोकहेतोरन्यस्य प्रस्तावेन तन्मूलशोकापनोदनं ह्यत्र क्रियते । तद्वदत्रापि ‘सर्वधर्मान् परित्यज्येति’ निर्दिष्टनिमित्तान्तरप्रभव इति युक्तम् । यत्तु अशक्ताधिकारत्वे प्रपत्तेरमुख्योपायत्वप्रसङ्ग इति तत्र किं फलफल्गुत्वाभिप्रायेणामुख्यत्वोक्तिः, अकिचनाधिकारत्वमात्रेण वा? नाद्यः, असिद्धेः । नापि द्वितीयः, इष्टप्रसङ्गरूपत्वात् ।
यत्तु अनुवादपक्षे त्यागस्येतिकर्तव्यतात्वासिद्धिरिति, तत् तस्मिन् पक्षे गुण एवेति नानिष्टप्रसङ्गावकाशः । इतिकर्तव्यतान्तरं तु यथाप्रमाणं स्यादेव ।
यत्पुनरुक्तम्, विधिपक्षे अनुवादपक्षे चाभावरूपधर्मपरित्यागावश्यम्भावात्तद्विरोधिभावानुष्ठाने स्वैरदोष इति, तदपि मन्दम्, तत्तदभावमात्रस्य पापाभावमात्ररूपत्वात् । यद्यपि नियमसहकृतस्य तत्तदभावस्य धर्मत्वमपि, तथाऽपि तेनाकारेणानुवादो विधिर्वेति नियममात्रपरित्याग एव स्यात् । निषिद्धवर्जनं तु निषेधशास्त्रसिद्धं तावता नापैति । भवतु च निषिद्धाकरणमपि धर्मः । तथाऽपि सर्वधर्मशब्दस्य संनिहितमोक्षोपायविषयत्वान्न नित्यनैमित्तिकत्यागनिषिद्धानुष्ठानयोः प्रसङ्गः । अङ्गिपरित्यागेऽङ्गानुष्ठानस्य प्रयोजनाभाव उक्त इति चेत्सत्यमुक्तम्, दुरुक्तं तु तत्, ‘विहितत्वाच्चाश्रमकर्मापि’, ‘सहकारित्वेन च’, इति सूत्रकारेणैव कर्मणां विनियोगपृथक्त्वेनाश्रमाङ्गत्वविद्यासहकारित्वयोः पृथक्समर्थितत्वात् । ततो यद्यपि विद्याङ्गत्वेन नित्यनैमित्तिककर्माणि नोपादीयन्ते, तथाऽपि केवलाश्रमिणामिव वर्णाश्रमादिमात्रप्रयुक्तत्ववेषेणोपादेयान्येव । यद्यपि कर्मान्तराधिकारापादकत्वमेव तेषाम्, तथाऽपि शक्तस्याकरणे प्रत्यवायः श्रूयमाणो न परित्याज्यः । अतः शक्तस्य कर्मान्तराभावेऽपि यथार्हं प्रत्यवायपरिहारार्थं कैङ्कर्यरूपकर्मसद्भावेन शौचादिवद्योग्यतासिद्ध्यर्थं च यथाशक्त्यवश्यानुष्ठेयान्येव । अशक्ताधिकारत्वं तर्हि कथमिति चेत्, फलपर्यन्तमोक्षोपायान्तरासामर्थ्यादिति भाव्यताम् । सकलाङ्गोपसंहारे हि काम्यं कर्म फलति । यथाशक्त्यनुष्ठानमात्रेणापि नित्यनैमित्तिकशास्त्रं चरितार्थ भवति । प्रपत्तिबलादेव सर्वप्रत्यवायपरिहारे किमन्येनेति चेन्न; प्रपन्नस्यापि पुनर्मर्यादालङ्घनायोगस्य “दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा” इत्यनेनैव समर्थितत्वात् । पूर्वाघस्येवोत्तराघस्यापि प्रपत्त्यन्तरमेव प्रायश्चित्तं भवतीति चेत्; कि कृतस्योत्तरस्य, करिष्यमाणस्य वा? आद्ये तु प्रायश्चित्तसाकांक्षतया मर्यादालङ्घनं परित्याज्यमेवेति सिद्धम् । प्रायश्चित्तविशेषं तु यथाशास्त्रमङ्गीकुर्मः । द्वितीये तु निमित्तानुदयादेव प्रायश्चित्तानवकाशः । शङ्कितभविष्यन्निमित्तापेक्षया भवतु प्रायश्चित्तमिति चेन्न, एष्यन्महापातकादिशङ्कया तत्तत्प्रायश्चित्तानामेव नित्यमनुष्ठानप्रसङ्गात् । [[२१]] अतो निमित्तोदये सत्येव नैमित्तिकशास्त्रोदयः । भविष्यत्पापारम्भकपापान्तरप्रायश्चित्तं तु संभवत्येव;अन्यथा “कृतान् क्रियमाणान् करिष्यमाणांश्च सर्वानशेषतः क्षमस्व”, “वर्तिष्यमाणं च सर्वं क्षमस्वेति” भगवद्भाष्यकारोक्तिः कथमिति चेत्, इत्थमेव अबुद्धिपूर्वपापादिमात्रविषयतयाऽपि तदुपपत्तेः, तदारम्भकपापलक्षणया वा तन्निर्वाहात् । अन्यथा ‘नाविरतो दुश्चरिताद्’ इति शास्त्रविरोधादेव । तदुक्तं लक्ष्मीतन्त्रेऽपि प्रपत्त्यध्याये - “मनीषी वैदिकाचारं मनसाऽपि न लङ्घयेदिति” । अतः सर्वधर्मशब्दस्यासंकोचेऽपि न स्वैरदोषप्रसक्तिः । आनुकूल्यादिमति च प्रपत्तिरिति कुतः स्वैरावकाशः । यद्यपि च “आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता” इति तत्रैव व्याख्यातम्; अथापि तदेव सर्वभूतानुकूल्यं शिष्टतया व्यपदेश्यानां स्वैरदोषतामुन्मूलयति । अन्यथा “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः” इति सर्वभूतप्रातिकूल्यमेव हि कृतं भवति । अत एव हि “आनुकूल्येतराभ्यां तु विनिवृत्तिरपायतः” इत्यनन्तरमेवाह । एतत्प्रकरणोपक्रमे चानन्यगतिकजनसंरक्षणोत्सुकया देव्या संचोदितो भगवानाह-

उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया । विहिता य उपायास्ते निषिद्धाश्चेतरे मताः ॥
अधो नयन्त्यपायास्तं य एनाननुवर्तते । ऊर्ध्वं नयन्त्युपायास्तं य एनाननुवर्तते ॥
उपायापायसत्यशी मध्यमां वृत्तिमास्थितः । मामेकं शरणं प्राप्य मामेवान्ते समश्नुते ॥
षडङ्गं तमुपायं च शृणु मे पद्मसंभवे । आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ॥
रक्षिष्यतीति विश्वासो गोप्तृत्ववरण तथा । आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ॥
एवं मां शरणं प्राप्य वीतशोकभयक्लमः । निरारम्भो निराशीश्च निर्ममो निरहंकृतिः ॥
मामेवं शरणं प्राप्य तयेसंसारसागरम् । सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा ॥
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥

इति ।

आनुकूल्यादिस्वरूपं च शक्रेणानुयुक्ता देवी स्वयमेव व्याचकार -

आनुकूल्यभिति प्रोक्तं सर्वभूतानुकूलता । अन्तः स्थिताऽहं सर्वेषां भावानामिति निश्चयात् ॥
मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत् । तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ॥
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः । अङ्गसामग्र्यसम्पत्तेरशक्तेश्चापि कर्मणाम् ॥
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात् । उपाया नैव सिध्यन्ति ह्यपायबहुलास्तथा ॥
इति या गर्वहानिस्स्यात् दैन्यं कार्पण्यमुच्यते । शक्तेः सूपसदत्वाच्च कृपायोगाच्च शार्ङ्गिणः ॥
ईशेशितव्यसंबन्धादनिदंप्रथमादपि । रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः ॥
स विश्वासो भवेच्छक्र सर्वदुष्कृतनाशनः । करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ॥
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः । गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् ॥
तेन संरक्ष्यमाणस्य फले स्वत्यवियुक्तता । केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । सन्न्यासस्त्याग इत्युकतः शरणागतिरित्यपि ॥
उपायश्च चतुर्थस्ते प्रोक्तः शीघ्रफलप्रदः । अस्मिन्हि वर्तमानानां विधौ विप्रनिषेविते ॥
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः ॥ आनुकूल्येतराभ्यां तु विनिवृत्तिरपायतः ॥ [[२२]]

कार्पण्येनाप्यपायानां विनिवृत्तिरिहोदिता । रक्षिष्यतीति विश्वासात् अभीष्टोपायकल्पनम् ॥
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम् । सर्वज्ञोऽपि हि विश्वेशः सदा कारुणिकोऽपि सन् ॥
संसारतन्त्रवाहित्वात् रक्षापेक्षां प्रतीक्षते । आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते ॥
हिंसास्तेयादयः शास्त्रैरपायत्वेन दर्शिताः । अपायोपायसन्त्यागी मध्यमां वृत्तिमास्थितः ॥
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः । बुध्यते देवदेवं तं गोप्तारं पुरुषोत्तम ॥

इति ।

एवमुक्तो मध्यमस्थितिस्वरूपं पप्रच्छ

उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके । अपायोपायतामेव क्रिया सर्वाऽवलम्बते ॥ स्वीकारे व्यतिरेके वा निषेधविधिशास्त्रयोः । दृश्यते कर्मणो व्यक्तमपायोपायरूपता ॥

इति ।

तत्र पुनः प्रत्युक्तम्

त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् । निषेधविधिशास्त्रेभ्यस्तां विधाञ्च निबोध मे ॥ अनर्थसाधन किञ्चित्किञ्चिच्चाप्यर्थसाधनम् । अनर्थपरिहाराय किंचित्कर्मोपदिश्यते॥
त्रैराश्यं कर्मणामेव विज्ञेयं शास्त्रचक्षुषा । अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत् ॥
तृतीयो द्विविधो राशिरनर्थपरिहारकः । प्रायश्चित्तात्मकः कश्चिदुत्पन्नानर्थनाशनः ॥
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् । क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते ॥
अक्रियावदनर्थाय कर्म तत्तु समाचरेत् । एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा ॥
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् । सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम् ॥
उपायापायसंयोगे निष्ठया हीयतेऽनया । अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत् ॥
प्रायश्चित्तिरियं साऽत्र यत्पुनः शरणं व्रजेत् । उपायानामुपायत्वस्वीकारेऽप्येतदेव हि ॥
अविप्लवाय धर्माणां पालनाय कुलस्य च । संग्रहाय च लोकस्य मर्यादास्थापनाय च ॥
प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः । मनीषी वैदिकाचारं मनसाऽपि न लङ्घयेत् ॥
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् । लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम् ॥
लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति । एवं विलङ्घयन्मर्त्यो मर्यादां वेदनिर्मिताम् ॥
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ।उपायत्वग्रहं तत्र वर्जयेन्मनसा सुधीः ॥
चतुर्थमाश्रयन्नेवमुपायं चरणाश्रयम् । अतीत्य सकलं क्लेशं संविशत्यमलं पदम् ॥
उपायापायनिर्मुक्तां मध्यमां स्थितिमास्थिताः । शरणागतिरग्र्यैषा संसारार्णवतारिणी ॥
इदं शरणमज्ञानामिदमेव विजानताम् । इदं तितीर्षतां पारमिदमानन्त्यमिच्छताम् ॥
प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे । मामेकां देवदेवस्य महिषीं शरणं व्रजेत् ॥
अपायाद्विरतः शश्वन्मां चैव शरणं व्रजन् । तनूकृत्याखिलं पापं मां प्राप्नोति नरः शनैः ॥
अथोपायप्रसक्तोऽपि भुक्त्वा भोगाननामयान् । अन्ते विरक्तिमासाद्य विशते वैष्णवम् पदम् ॥
उपायः सुकरः सोऽयं दुष्करश्च मतो मम । शिष्टैर्निषेव्यते सोऽयमकामहतचेतनैः ॥

इति ॥ [[२३]]

एवमध्यायान्तरेऽपि प्रपन्नस्यानुसंधानमधिकृत्योक्तम्-

प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् । अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ ॥
तथाऽप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः सा विनश्यतु । अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ॥
उपायाश्चोदिताः शास्त्रैर्न मे स्युस्तारकास्त्रयः । तथाऽप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु तत् ॥
अतोऽहमनुपायत्वात् कृपणोऽकिञ्चनोऽगतिः । छायामाश्रित्य वर्तेय त्वदीयां तापहारिणीम् ॥

इत्यादि । अनन्तरं चोक्तम्-

सकृदेव प्रपन्नस्य कृत्यं नैवान्यदिष्यते । उपायापायमुक्तस्य वर्तमानस्य मध्यतः ॥
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ॥

इति

तथाऽन्यत्राध्याये - “प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरावृताम् इत्युपक्रम्य”, “प्रातिकूल्यम् इत्यादि” पूर्ववत् ।
समाप्तौ चोक्तम् अत्रिणा –

भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया । श्रुत्वा च कुरु यत्नेन रक्षा चाप्यप्रमादिनी ॥
लक्ष्मीनारायणाकारा भवित्री ते मनस्थितिः । अपायान्सपरित्यज्य स्वीकृत्याप्यनुकूलताम् ॥
लक्ष्मीनारायणौ विश्वमिति भावे कृतस्थितिः । अपायान् संपरित्यज्य पातकान्भवसागरे ॥
दैवाद्वा यदि वा मोहादपायस्य परिप्लवे । भजमानाऽथ तावेव त्सीनारायणावुभौ ॥
शश्वच्चासुकरान्सर्वानुपायान् जहती स्वयम् । अलिप्ता करणे तेषां लोकसंग्रहचेतसा ॥
आकिञ्चन्यं समालम्ब्य बुद्ध्यैव दृढया स्वयम् । सर्वथा सर्वदेशेषु सर्वावस्थासु सर्वदा ॥
रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात् । आत्मात्मीयभरं सर्वं निक्षिप्य श्रीपतेः पदे ॥
उपायं वृणु लक्ष्मीश तमुपेयं विचिन्त्य च । इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥
दर्शितं परमं तत्त्वं गोपाय स्वेन तेजसा ॥

इति ।

अहिर्बुध्न्येन नमश्शब्दव्याख्यानव्याजेन अयमेव शास्त्रार्थः प्रपञ्चितः । तथा हि –

प्रेक्षावतः प्रवृत्तिर्या प्रह्वीभावात्मिका स्वतः । उत्कृष्टं परमुद्दिश्य तन्नमः परिगीयते ॥
लोके चेतनवर्गस्तु द्विधैव परिकीर्त्यते । ज्यायांश्चैव तथाऽज्यायान्नैवाभ्यां विद्यते परः ॥
कालतो गुणतश्चैव प्रकर्षो यत्र तिष्ठति । शब्दस्तं मुख्यया वृत्त्या ज्यायानित्यवलम्बते ॥
अतश्चेतनवर्गोऽन्यः स्मृतः प्रत्यवरो बुधैः । अज्यायांश्चानयोर्योगः शेषशेषितयोच्यते ॥
अज्यायांश्चापरे सर्वे ज्यायानेको मतः परः। नन्तृनन्तव्यभावेन तेषां तेन समन्वयः ॥
नन्तव्यः परमश्शेषी शेषा नन्तार ईरिताः । नन्तृनन्तव्यभावोऽयं न प्रयोजनपूर्वकः ॥
नीचोच्चयोः स्वभावोऽयं नन्तृनन्तव्यतात्मकः । उपाधिरहितेनायं येन भावेन चेतनः ॥
नमति ज्यायसे तस्मै तद्वा नमनमुच्यते । भगवान् मे परो नित्यमहं प्रत्यवरः सदा ॥
इति भावो नमः प्रोक्तः नमसः कारणं हि सः । नामयत्यपि वा देवं प्रह्वीभावयति ध्रुवम् ॥
प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन् । अतो वा नम उद्दिष्टं यत्तन्नामयति स्वयम् ॥

[[२४]]

वाचा नम इति प्रोच्य मनसा वपुषा च तत् । तन्नमः पूर्णमुद्दिष्टं अतोऽन्यत् न्यूनमुच्यते ॥
इयं करणपूर्तिः स्यादङ्गपूर्तिमिमां शृणु । शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ॥
पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा । इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनी ॥
अनादिवासनारोहादनैश्वर्यात्स्वभावजात् । मलावकुण्ठितत्वाच्च दृक्क्रियाविहतिर्हि या ॥
तत्कार्पण्यं तदुद्बोधो द्वितीयं ह्यङ्गमीदृशम् । स्वस्वातन्त्र्यावबोधश्च तद्विरोध उदीर्यते ॥
परत्वे सति देवोऽयं भूतानामनुकम्पनः । अनुग्रहैकधीर्नित्यमित्येतत्तु तृतीयकम् ॥
उपेक्षको यथाकर्म फलदायीति या मतिः । विश्वासात्मकमेतत्तु तृतीयं हन्ति वै सदा ॥
एवंभूतोऽप्यशक्तः सन्न त्राणं भवितुं क्षमः । इति बुद्ध्याऽस्य देवस्य गोप्तृशक्तिनिरूपणम् ॥
चतुर्थमङ्गमुद्दिष्टममुष्य व्याहतिः स्वतः । उदासीनो गुणाभावादित्युत्प्रेक्षानिमित्तजा ॥
स्वस्य स्वाम्यनिवृत्तिर्या प्रातिकूल्यविवर्जनम् । तदङ्गं पञ्चमं प्रोक्तमाज्ञाव्याघातवर्जनम् ॥
अशास्त्रीयोपसेवा तु तद्व्याघात उदीर्यते । चराचराणि भूतानि सर्वाणि भगवद्वपुः ॥
अतस्तदानुकूल्यं मे कार्यमित्येव निश्चयः । षष्ठमङ्गं समुद्दिष्टं तद्विघातो निराकृतिः ॥
पूर्णमङ्गैरुपाङ्गैश्च नमनं ते प्रकीर्तितम् । स्थूलोऽयं नमसश्चार्थः सूक्ष्ममन्यं निशामय ॥
चेतनस्य यदा मम्यं स्वस्मिन्स्वीये च वस्तुनि । नम इत्यक्षरद्वन्द्वं तदा मम्यस्य वारकम् ॥
अनादिवासनारूढमिथ्याज्ञाननिबन्धना । आत्मात्मीयपदार्थस्था या स्वातन्त्र्यस्वतामतिः ॥
मे नेत्येवं समीचीनबुद्ध्या साऽत्र निवार्यते । नाहं मम स्वतन्त्रोऽहं नास्मीत्यस्यार्थ उच्यते ॥
न मे देहादिकं वस्तु स शेषः परमात्मनः । इति बुद्ध्या निवर्तन्ते तास्ताः स्वीया मनीषिकाः ॥
अनादिवासनाजातैर्बोधैस्तैस्तैर्विकल्पितैः । रूषितं यद्दृढं तत्तत्स्वातन्त्र्यस्वत्वधीमयम् ॥
तत्तद्वैष्णवसार्वात्म्यप्रतिबोधसमुत्थया । नम इत्यनया वाचा नन्त्रा स्वस्मादपोह्यते ॥
इति ते सूक्ष्म उद्दिष्टः परमन्यं निशामय । पन्था नकार उद्दिष्टो मः प्रधान उदीर्यते ॥
विसर्गः परमेशस्तु तत्राथोंऽयं निरुच्यते । अनादिः परमेशो यः शक्तिमान्पुरुषोत्तमः ॥
तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान् । इति ते त्रिविधः प्रोक्तो नमश्शब्दार्थ ईदृशः ॥

इति ।

अन्यत्राप्येवमनुसंधेयम् । एवं नानाविधेषु शास्त्रेषु प्रपञ्चितस्य शास्त्रार्थविशेषस्य सक्षेपोऽयम् सर्वधर्मान्परित्यज्येति । इत्थंभूतप्रपत्तिनिष्ठस्य न क्वचिदप्युपप्लवावकाश इति यथोक्त एव त्यागशब्दार्थः। किं च, सर्वो हि शास्त्रार्थः शिष्टानुष्ठानेनैवान्ततो व्यवस्थाप्यते । यथा स्मरन्ति “अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु” इति । ततश्च प्रपत्तिधर्मप्रतिष्ठापकानां प्राचामाचार्याणां च चर्यामविचार्येदमुपप्लवचोद्यम् । तथा हि

श्लो - आत्यन्तिकी तथा भक्तिर्यथा देवे तथा गुरौ । तदुक्तिमन्त्रता तेन नित्यं स्वव्यपदेशनम् ॥ १३ ॥1

[[२५]]

भक्त्या तद्वस्तुतद्वास्तुप्रभृतिष्वपि मानना । गुरुवद्गुरुवर्गस्य नित्यमेवानुदर्शनम् ॥ १४ ॥
आरभ्य स्वगुरोरा च भगवत्तो यथागमम् । तत्तदाचार्यवंशस्यासावसाविति चिन्तनम् ॥ १५ ॥
अर्थस्वभावानुष्ठानलोकदृष्टिगुरूक्तिभिः । श्रुत्या स्मृत्या च संसिद्धं घटकार्थावलम्बनम् ॥ १६ ॥
विशेषेणाविशेषेणाप्याकारत्रयशालिना । विशिष्टस्य परस्यैवोपायत्वेन परिग्रहः ॥ १७ ॥
निरुपाधिकशेषित्वतदभिव्याप्तभेदकैः । आजीवतत्त्वतद्दात्रिसत्रिविधात्माधिकत्वधीः ॥ १८ ॥
यदिच्छयैव यत्प्रीत्यै शासनं निग्रहादि च । तत्र निग्राह्यजातीयविसजातीयतामतिः ॥ १९ ॥
एकेतरसमस्तानां स्वनिष्ठैकार्थतास्थितेः ।द्विष्टं तदन्यशेषित्वे द्वैराज्यादिभयोज्झितिः ॥ २० ॥
प्रभादित्यप्रकारेण मिथोऽतिशयदायिनोः । तदन्यवस्त्वसम्भाव्यस्वतोऽतिशयदर्शनम् ॥ २१ ॥
अनन्यदेवताऽनन्योपायताऽनन्यसाध्यता । शुद्धतत्परिवारेषु सपर्या भर्तृभृत्यवत् ॥ २२ ॥ आगुरोरन्यदेवत्वे वर्जनं निष्क्रियावधि । तप्रेषणनिर्देशन्यायेन फलचिन्तनम् ॥ २३ ॥ फलकोटिनिवेशेन परोपायप्रतिष्ठितैः । न्यासविद्यानुरूपैस्तु व्यापकैर्यदि वेतरैः ॥ २४ ॥ परप्रसादमात्रात्तत्साक्षात्कारादिसंभवे । प्राचीनोपायनिष्ठायां अशैथिल्यं फलावधि ॥ २५ ॥ शुद्धेषु यद्वा मिश्रेषु संस्काराचारवर्त्मसु । अधिकारोपदेशादेरानुरूप्येनवर्तनम् ॥ २६ ॥ अन्तिमश्वासकालेऽपि शक्तितः सावधानता । अनुपप्लवपर्यन्तज्ञानिप्राधान्यसंग्रहः ॥ २८ ॥
अशेषयन्तुसौहार्दमात्ममाहात्म्यगोपनम् । अमानित्वादिसंपत्तिर्मानस्याप्यवधूननम् ॥ २९ ॥
चिरं शोधितपात्रेषु दीपवत् कृपया स्वया । आरुरुक्षुभिरध्वानं रहस्यार्थसमर्पणम् ॥ ३० ॥
इति शुश्रुम सर्वेषां प्रपन्नानां महीयसाम् । अद्यापि क्वापि केषाञ्चिदवन्ध्यं कालयापनम् ॥ ३१
तदेवमेतान्सत्त्वस्थानन्यानप्यनुपप्लवान् । प्रपन्नान्प्रतिसंधाय श्रद्धत्स्वोपायमीदृशम् ॥ ३२ ॥
त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः । विभीषणोऽपि नन्वेवं तदाज्ञामन्वर्तत ॥ ३३ त्रिवर्गकांक्षिणश्चान्ये स्वाभीष्ठे साधनान्तरम् । त्यक्त्वा प्रपेदिरे नित्यं न तु वेलामलङ्घयन् ॥ ३४ ॥
तथा सात्यकितन्त्रे च प्रोक्तं भगवता स्वयम् । प्रपत्तिमधिकृत्यैव सच्छिष्याचार्यलक्षणम् ॥ ३५ ॥
त्रिषु वर्णेषु संभूतो मामेव शरणं गतः । नित्यनैमित्तिकपरो मदीयाराधने रतः ॥ ३६ ॥
आत्मीयपरकीयेषु समो देशिक उच्यते । आस्तिको धर्मशीलश्च शीलवान्वैष्णवार्चकः ॥ ३७ ॥
गंभीरश्चतुरो धीरश्शिष्य इत्यभिधीयते ॥

इति ।

यत्तु स्मृतिरूपमनुभवरूपं वेति विकल्प्य दूषितम्, तत्रापि वदामः - प्रार्थनाद्यात्मिका बुद्धिस्तद्विधिश्च लोके दृश्यमानौ तावद्दुरपह्नवौ । इमं महावदान्यं राजानमिष्टं प्रार्थयस्वेति हितकारिणो नियुञ्जते, तद्विधेयाश्च तथाऽनुतिष्ठन्ति, लभन्ते चाभिमतं फलम् । तद्वदिहापि मोक्षाख्यं फलमुद्दिश्य प्रार्थनादिरूपा बुद्धिस्तावद्विधीयत इति तदनुष्ठानं सुस्थितम् । अनुष्ठानानुपयुक्तं स्मृतित्वादिचिन्तनं तु गुणत्वद्रव्यत्वादिचिन्तनवदनादरणीयम् । तथाऽपि वदामः - तत्र हि स्मृतिपक्षे यद्यपि स्मृतिस्वरूपमात्रं स्वतः संभवं न विघेयम्; अविच्छिन्नसंततिरूपत्वे तूपासनसमाधिः । [[२६]] तथाऽप्यात्मसमर्पणादिविशेषिता स्मृतिर्न स्वतः संभवतीति विधेयत्वमुपपद्यते । समर्पणादिकमपि शास्त्रावगतं स्मृतिमधिरोहेदिति चेत्; सत्यम्, न तु तत्कृतं भवति । यथा यागशब्दाभिलप्ये देवतोद्देशेन द्रव्यत्यागात्मके बुद्धिविशेषे कर्तव्यतया शास्त्रावगते स्मर्यमाणेऽपि न स बुद्धिविशेषः कृतो भवति; तथाऽत्रापीति न संकटं किंचित् । अत एवानुभवपक्षेऽपि न दोषः । यद्यपि साध्यसाधनभावांशस्यालौकिकत्वेन नास्मदादिप्रत्यक्षविषयत्वम्, तथाऽपि साधनस्वरूपस्य पुरोडाशादिवच्चास्मदादिकरणगोचरत्वेन तन्निष्पाद्यत्वं नानुपपन्नम् । असमर्थस्य समर्थमुद्दिश्य स्वाभिमतफलस्य तत्साध्यतयेष्टप्रकाशनं प्रार्थनमिति संक्षेपः । यत्पुनरुक्तम् गुरुलघुविकल्पानुपपत्तेश्चेति, तत्र व्यवस्थितविषयतया तदुपपत्तिरेव । अशक्ताधिकारत्वे त्वमुख्यत्वप्रसङ्ग इत्यपि प्रागेव दूषितम् । अशक्तिस्तु कीदृशीति विविच्य श्रूयताम् - इच्छावैचित्र्यं तावत्
अन्ततः कर्मवैचित्र्यहेतुकमिति सार्वभौमोऽयं प्रवादः । ततश्च केनापि सुकृतवशेन मोक्षं तावदिच्छन्ति केचित् । तेऽपि तस्य फलस्य स्वरूपेणोपादातुमशक्यत्वात्तदुपायेषु शास्त्रचोदितेषु सदक्षरदहरादिविद्याविशेषेषु यदि शक्तिरसेत्स्यत्, ततस्तत्रैव प्रावर्तिष्यन्त । यदि पुनर्न सा समस्ति, तदा कश्चिदपरिस्खलितधैर्यः परंपरयोपकारिषु दीर्घकालनैरन्तर्यादरसेवनीयशास्त्रार्थस्रोतस्तीर्थेषु कर्मयोगादिषु यथाधिकारमवतरति । कश्चित्तु तन्द्रालुप्रकृतिः शोकेनैव महता सर्वप्रकारेण गृह्यते । लौकिकफलविशेषाभिलाषिषु चायं प्रकारो दृश्यते । स च तादृशमवसादमापन्नोऽपि फलेच्छातो न निवर्तते । तदवस्थस्य तस्य स्वावस्थाप्रकाशनपूर्वं वदान्यः समर्थः कश्चित् स्वाभिलषितमुपनाथनीय इति विदधाति शास्त्रमिति व्यवस्थितोऽयमधिकारो रोचते तत्तद्रचिभ्यः । ईदृशस्य च प्रपन्नस्य एष्यति प्रारब्धकर्मफलसंसारखण्डे यावदनिष्टम् तावदपैति, शेषमनुवर्तते, पुरुषार्थमात्रप्रदायित्वात्पुरुषोत्तमस्य । ततश्च यावत्प्रारब्धं वा, यावत्तद्देहं वा, यावत्तत्क्षणं वा, इति प्रपन्नानां मोक्षावधिनियमे तदिच्छातीव्रत्वतारतम्यमेव सर्वज्ञसाक्षिकं प्रमाणमिति । अत एव आर्तदृप्तविभागोऽपि सिद्ध इति नानुपपन्नम् । प्रश्रयभयादिसदसद्भावाभ्यां वा आर्तदृप्तविभागः, प्रपत्तव्येन सर्वलोकशरण्येन दृप्तानामपि फलदायिना भयाभावाय [फलाविनाभावाय] अवश्यरक्षितव्यत्वाय च प्रपञ्चितः । देशकालावस्थाधिकार्यादिभेदेन गुरुलघुनोरेवाविशिष्टफलत्वं भगवत्पराशरादिभिरपि प्रपञ्च्यते । यथा “शूदस्साधुः कलिः साधुः स्त्रियः साधुः” इत्यारभ्य

ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥

इति । स्मरन्ति च गुरुतरद्वादशवार्षिकव्रततुल्यफलतां लघुतरस्याश्वमेधावभृथस्नानस्य । सम्राजो धर्मपुत्रस्य रत्नदानात्
सक्तुप्रस्थस्य सक्तुदानमेव श्रेष्ठमिति होचुः । एवं लोकेऽपि दर्शनीयम् ॥

यत्तुल्यविकल्पपक्षे हेतुभूतगौरवसाम्यापादकविश्वासातिरेके प्रत्युक्तम्, तदयुक्तम्; निर्णीतशास्त्रप्रामाण्यस्य प्रत्यक्षितसमस्ततदर्थस्यापि क्वचिदर्थे वस्तुवैचित्र्यवशादघटितवदवभासमाने शास्त्रार्थान्यथाभावसंभावनायाः वासनाप्रवाहे मुहुर्भुहुः परिप्लवमानायाः संभवात्, केषाञ्चिदेवातिशयितपुण्यानां तदुच्छेदः, न तु सर्वेषाम्, तथैवान्यत्रापि दर्शनात् । एकोनसहस्रन्यायविदो हि पूर्वपक्षित्वं कक्षीकुर्वन्ति मीमांसकाः । निर्णयपर्यन्तत्वे निरर्थकत्वं गुरोः प्रसज्यत इत्युक्तमिति चेत्; सत्यम्; तथाऽपि विस्रम्भविशेषसदसद्भावावुपाधीकृत्यैव निर्णयः, “यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती” इति नारदीयोक्तन्यायात् । एतदुक्तं भवति - येषां यावज्जीवं बृहस्पतिप्रभृतिभिरपि प्रतिवादिभिः [अ]संक्षोभ्यमाणानां प्रपत्तिशास्त्रार्थे शङ्काशङ्कुर्नाङ्कुरति, तेषां तदधिकारः । ईदृशस्य हि प्रपत्त्यधिकारिणो दुर्लभतमत्वमुक्तं सात्यकितन्त्रे

किं नु तस्य च मग्नस्य कर्मणः कमलासन । न लभ्यतेऽधिकारी वा श्रोतुकामोऽपि वा पुनः ॥

इति ।

[[२७]]
ये पुनरुपायलाघवम्, तत एवानादिकालसञ्चितानन्तसमस्तदुःखहेतुजालोम्लनम्, क्षोदीयसामपि स्वात्मनां विधिशिवसनकादिदुरधिगमपदाधिरोहादिकं चानुचिन्त्य सततं संदिहते, तेषां तच्छङ्कादविष्ठगरिष्ठोपायानुप्रवेश इति यथाध्यवसायमधिकार इत्ययमप्यन्ततो व्यवस्थितविकल्पभेद एव । व्यासादीनां तु तथाविधशङ्काप्रसङ्गाभावादुपायान्तरशक्त्यशक्तिभ्यां विलम्बक्षमत्वविलम्बाक्षमत्वाभ्यामेव वा अधिकारव्यवस्येति निर्वाधमेतत् । अतोऽविशिष्टफलत्वमप्युपपन्नम् ॥

यत्पुनरुक्तम्, प्रपत्तौ प्रारब्धस्यापि भङ्गास्तुपगमात्फलाधिक्येन विकल्पासंभव इति, तदप्ययुक्तम्, तन्नियमाभावस्योक्तत्वात् । अस्तु वा नियमः । प्रारब्धभङ्गोऽपि मोक्षाख्यैकफलसाधनत्वे मिथो नैरपेक्ष्यात् विकल्पवाचोयुक्तिः । न ह्येकमेव फलं प्रति क्षिप्रकारिणो विलम्ब्यकारिणश्च समुच्चयः संभवति । निरपेक्षक्षिप्रकारिणि सिद्धे किं विलम्व्यकारिणा । अतः परिगृहीतक्षिप्रकारिणः पश्चाद्विलम्बकारिपरित्याग एव । एवं गृहीतावलम्व्यकारिणोऽपि तच्छक्तस्य बुद्धिपूर्वोपक्रान्तपरित्यागायोगात्क्षिप्रकारी न परिग्रहयोग्यः । विलम्ब्यकारिण एव सहकारितया वचनबलात् कथंचिदुपादीयेतापि, उच्चावचसर्वाभीष्टसाधनतया तद्विधेः । क्षिप्रकारिणस्तु विलम्ब्यकारी न सहकारितयाऽप्युपादानमर्हति, नैरपेक्ष्यात् । ब्रह्मास्त्रबन्धन्यायात्, वचनविरोधाच्च । ईदृशविकल्पाधीननैरपेक्ष्यमपेक्ष्य सर्वधर्मपरित्यागोक्तिरिति ह्येके । तदेवं प्रपत्तिस्वरूपे न काचिदनुपपत्तिरिति सिद्धम् ॥


  1. अत्र नृसिंहराजीयव्याख्या- तथाहीत्यारभ्थ रहस्यार्थसमर्पणमित्यन्तं प्राक्तनानां सतां कारिकाः ; इति शुश्रुमे- त्यारभ्य सच्छिष्याचार्यलक्षणमित्यन्तं ग्रन्थकृद्वाक्यम् ; त्रिषु वर्णेष्वित्यादि तन्त्रवचनम् । अन्ये तु तथाहीत्यारभ्य सच्छिष्याचार्य- लक्षणमित्यन्तं प्रन्थकृद्वचनम् ; समर्पणमित्यन्तं प्राक्तनानां सांप्रदायिकार्थानुवादः; श्लोकरचना तु ग्रन्थकृत्कर्तृकेत्याहुः । सांप्रदायिकास्तु तथाद्दीत्यारभ्य शिष्य इत्यभिधीयत इत्यन्त प्राक्तनानां वचनम् ; तत्तद्वचनमपि पातितमिति वदन्ति ॥ ↩︎