॥ अथ पूर्वपक्षः ॥
अत्रैवं पूर्वपक्षी मन्यते - नास्ति भक्त्यतिरिक्तं मोक्षसाधनमिति । कुतः?
श्लो -
विश्वास-प्रस्तुतिः
स्वरूप-लक्ष्मानुष्ठान-
विध्य्-अदृष्टेर् निषेधतः।
ऐक्याद् अशक्तेर् अख्यातेः
सम्प्रदाय-विरोधतः ॥
मूलम्
स्वरूपलक्ष्मानुष्ठानविध्यदृष्टेर्निषेधतः । ऐक्यादशक्तेरख्यातेः संप्रदायविरोधतः ॥ १ ॥