11 संप्रदायविरोधसमर्थनम्

[[१७]] संप्रदायविरोधतश्च । तीर्थकरसंप्रदायसहकृतयैव ह्युपपत्त्याऽर्वाचीनानामकृत्स्नवेदिनां अर्थनिर्णयः, सिद्धान्तापसिद्धान्तव्यवस्था च । न च प्रपदनस्य पृथगुपायतायां प्राक्तनाचार्यसंप्रदायो दृश्यते; प्रत्युत अङ्गतयैव शारीरकभाष्ये श्रीमद्गीताभाष्ये च भाषितम् । यानि चान्यानि भगवद्भाष्यकाराणां रहस्यस्तुतिनिबन्धनानि, तानिप्रपदनपराण्यपि तन्मूलापादनपराण्यपि तन्मूलमायातरणापराधसहनज्ञानभक्तिप्राप्त्याद्यपेक्षाशिरस्कत्वादिलिङ्गैरङ्गपराण्येव निश्चीयन्ते । अत एव हि ‘भगवदाराधनप्रयोगं वक्ष्ये’ इत्युपक्रम्य, ‘तमेव शरणमुपगच्छेत् अखिलहेयेत्यादिना’, इति प्रपत्तिपरा गद्यस्तुतिस्समाराधनाङ्गतया विनियुक्ता । तथा च श्रीमद्गीताभाष्यमपि संगच्छते; अन्यथैकस्मिन्नेव सिद्धान्ते कथमेकेनैव महात्मना एकस्यैव ग्रन्यस्यात्यन्तविरुद्धा व्याक्रियेति। ये च, उक्तिमात्रेणापि रक्षति भगवानिति तत्रतत्र वादाः, त एव तावदतिवादरूपतया कैमुत्येन पारम्पर्यमावेदयन्ति । स्तुतिषु चाङ्गप्रधानासु तथा निर्देशो न दोषः, प्रत्युत गुण एव । एतेन भगवद्यामुनाचार्यप्रणीतस्तोत्रादयः, वकुलधरमहर्षिदृष्टविश्वजनीनोपनिषत्प्रभृतयश्च ग्रन्था व्याख्याताः । तत्रापि हि, “अकिञ्चनोऽनन्यगतिः शरण्य त्वत्पादमूलं शरणं प्रपद्ये” इत्यादिकमुक्त्वा पुनरप्युरि “भगवन् भक्तिमपि प्रयच्छ मे” इत्यादि।

ततश्चान्यपरेषु वाक्येषु उपरिप्लवमानोऽयमद्यतनानामशिक्षितसिद्धान्तानामापातार्थः संप्रदायः । अतः सिद्धं प्रपत्त्यादिक्रमपरिणता भक्तिरेवैको मोक्षोपाय इति ॥

इति निक्षेपरक्षायां पूर्वः पक्षः ॥