10 अख्यातिसमर्थनम्

अख्यातेश्च । अप्रसिद्धेरित्यर्थः । न हि अष्टादशस्वपि विद्यास्थानेषु सांख्ययोगादिषु वा चतुर्षु तन्त्रेषु शिल्पशास्त्रेषु कल्पलाग्रन्थेषु वा केषु चित्प्रपदनमिति कमप्युपायं पृथक्परिगण्यमानमुपलभामहे । न चैतेषु सर्वेषु प्रतिपक्षेषु केनचित् श्लोकशकलादिना प्रत्यवस्थातुं शक्यम् । अतः कथंभूतं प्रपदनमिति शङ्का तावद्दुर्निवारा । अत एव च महाविश्वासासिद्धेस्तत्स्वरूपासिद्धिरिति ॥