अशक्तेश्च । अशक्यरूपत्वादित्यर्थः ।
तथा हि - “भगवत्प्रवृत्तिविरोधिस्वप्रवृत्तिनिवृत्तिः प्रपत्तिरिति” श्रीराममिश्रवाक्यमनुस्मरन्ति भवन्तः । तत्र कथं प्राकृतशरीरसंबन्धिसत्त्वरजस्तमोगुणवश्यः पुरुषः
उपरतसर्वव्यापारः स्यात्? अतः समुद्रमध्यपतितस्य प्रबलतरसमीरणवेगोल्ललदनन्तकल्लोललोलस्य निष्पन्दभावोपदेशवदशक्यविधानरूपत्वादप्रामाण्यं त्वदभिमतप्रपत्तिशास्त्रस्य स्यात् । यद्यपि मात्रया शक्यत्वं (शक्यत्वात्प्रामाण्यम्), तथाऽपि कर्मयोगादिवत्प्रवृत्तिरूपाद्भक्तियोगात् निवृत्तिरूपस्य प्रपदनस्य ज्ञानयोगस्येव दुष्करतमत्वादशक्तं प्रत्यशक्यतमोपदेश इति निरर्थकं प्रपत्तिशास्त्रमिति ॥