ऐक्याच्च । अपवर्गसाधनविधायिनां शास्त्राणां सर्वेषां भक्तिरूपैकोपायपर्यवसायित्वेनैक्यात्,
प्रपत्तिविधायिनां च शास्त्राणामङ्गविषयतयाऽङ्गिविधायकभक्तिशास्त्रैक्यात्, क्वचित्तु भक्तिप्रपत्तिशब्दयोरर्थैक्याच्चेत्यर्थः । तथाहि – यदि प्रपदनाभिधानं सकृत्कृतं ज्ञानं मोक्षसाधनं स्यात्, तदा ‘ब्रह्म वेदे’ इत्यादिविहितवेदनस्यासकृदावृत्तोपासनात्मकत्वमन्याय्यम्, ‘वेदेत्यत्र’ आवृत्तेरश्रुतत्वात्, सकृत्कृतस्यैव च सर्वत्र शास्त्रार्थत्वात्, सामान्यवेदनशब्दस्य सकृत्कर्तव्यप्रपत्तिरूपज्ञानविशेषपर्यवसायित्वेन उपसंहारन्यायस्यापरित्यागाच्च । न चैवमस्त्विति वक्तव्यम्, “सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात् प्रयाजादिवदिति” पूर्वपक्षं कृत्वा, ‘सिद्धं तूपासनशब्दाद्’ इति त्रय्यन्तधुरंधरब्रह्मनन्दिवाक्यविरोधात् । तथा च “वेदनमुपासनं स्यात्तद्विषये श्रवणादिति”, “उपासनं स्याद्ध्रुवानुस्मृतिर्दर्शनान्निर्वचनाच्चेति” (वाक्यकारः) । “आवृत्तिरसकृदुपदेशादिति” भाष्ये च महता प्रयासेन कुदृष्टिनिरसनाय वेदनादिशब्दानामपि भक्तिविषयत्वमेव स्थापितम् । यद्यपि च प्रपत्तेरपि प्रीतिरूपतया भक्तिशब्दाभिलप्यत्वं संभवति, तथापि ध्यानरूपत्वाद्यभावात्तत्तदाकारैर्विशेषणं विरुद्धमेव । अत एव भगवत्पराशरादयो निखिलनिगमान्तोपबृंहणप्रवृत्ता निःश्रेयससाधनतया योगमेव विदधिरे, दधिरे च । न च प्रपदनस्य वेदनरूपत्वाभावात्तत्पर्यवसानाभाव इति वक्तुं शक्यम्, प्रार्थनात्मकन्यासादेर्मनोवृत्तिरूपत्वस्यैव व्यवस्थितत्वात् । अतः सिद्धं मोक्षशास्त्राणां सर्वेषामुपासनरूपैकार्थपरतयैक्यम् । तथा,
[[१६]]
त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः । अमन्वमधिकारस्तु चतुर्व्यूहक्रियाक्रमे ॥
इति प्रपन्नमधिकृत्य भक्तियोगाङ्कुरभगवदर्चाविधिर्भगवच्छास्त्रसंहिताप्रधानभूते श्रीसात्त्वते दृश्यते । एवमन्यत्र, अत्र च पूर्वं दर्शनादङ्गभूतप्रपदनविधायिनामङ्गिशास्त्रेणापृथग्भावः सिद्धः ॥
किं च, यस्य यदङ्गत्वं क्वचिन्निर्णीतम्, तस्य तत्समानफलतया तेन सह विकल्पो न दृष्टचरः । यत्र दृश्यते, तत्रापि गुणान्तरसंबन्धेनैव स्वातन्त्र्यम्, मात्रया च फलतारतम्यमस्ति । अत्र त्वङ्गतायां स्वतन्त्रतायां च न कश्चिद्गुणभेद इति अङ्गिना सह विकल्पासंभवाद्वयोरपि प्रयोगविधिना एकस्मिन्ननुष्ठातर्युपसंह्रियमाणयोरैक्यमेव । न च प्रपत्तेः स्वातन्त्र्यमिच्छद्भिरप्यङ्गत्वं परित्यक्तम् । त्यज्यतामिदानीमिति चेन्न, प्रपत्तेः सकलाभिमतसाधनत्वस्वीकारात् । ततश्च भक्तिनिष्पत्तिरपि फलं तस्या भवितुमर्हति । उक्तं चाहिर्बुध्न्येन-
यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा यत्सांख्येन योगेन न च भक्तितः ॥
प्राप्यते परमं धाम यतो नावर्तते (यतिः) पुनः । तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ॥ इति ।
अत एव तर्हि समीहितसिद्धिरिति चेन्न, पारंपर्येणापि तदुपपत्तेः प्रागेवोक्तत्वात् । अङ्गाङ्गिभावेन गत्यन्तरे च संभवति, अष्टदोषदुष्टो विकल्पो न न्याय्यः । एवमङ्गाङ्गिभावकृतपरस्परसौहार्दवशेन भजनप्रपदनशब्दौ स्थानतः समानार्थौ क्वचित्क्वचित्प्रयुज्येते, “चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन” इत्यादेः प्रतिनिर्देशरूपेण
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥
इत्यत्र भजनशब्देन प्रक्रान्तं प्रपदनशब्देनाभ्यस्तम् । “कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः” इत्यत्र प्रपदनम्, “यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति” इत्यादिना भजनमिति दर्शितम् । एवमेव सर्वत्र द्रष्टव्यम् । “आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्” इति भक्तिनिष्ठमेव प्रपन्नमङ्गीकृत्य नारायणायैरेवं व्याख्यातम्
भगवान्वासुदेवः परमप्राप्यः प्रापकश्च । नान्यत् फलं प्राप्यमस्ति । न चान्यस्तत्प्रापकः । तेन भगवानेव मे सकलः पुरुषार्थवर्ग इत्येवमास्थितः प्रपन्नः
इति । ‘आनुकूल्यस्य संकल्पः’ इत्यादयश्च श्लोकाः “तमेव चाद्यं पुरुषं प्रपद्ये” इत्यत्र तैरुदाहृताः । एवं बहुप्रकारैक्यक्रोडीकृता प्रपत्तिर्न स्वतन्त्रतामनुभवितुमर्हति ॥