निषेधतश्च । तथा हि " तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते" इति भक्तिव्यतिरिस्मोक्षोपायप्रतिषेधो हि दृश्यते । भक्तिप्रपत्तिव्यतिरिक्त इति तु स्यात्, वेदनशब्दस्योभयविषयत्वाविरोधादिति चेन्न; एवं विद्वानिति प्रकृताखिलाकारविशिष्टब्रह्मगोचरवेदनस्य प्रतीतेः, प्रपत्तेश्च स्वापेक्षितज्ञानशक्तिकरुणादिगुणविशिष्टमात्रगोचरत्वस्वीकारात् । साऽपि तत्रत्यसमस्ताकारविशिष्टगोचरा अस्तु; तथा च गद्ये स्वरूपरूपगुणविभवचेष्टितादिसमस्ताकारविशिष्टमनुसंधाय प्रापद्यत भगवान् भाष्यकार इति चेन्न; अन्योन्याश्रयणात्, तस्यास्तथाविधाकारविशिष्टगोचरत्वसिद्धौ वेदनशब्दस्य उभयविषयत्वसिद्धिः, तत्सिद्धौ च तस्यास्तत्सिद्धिरिति । तर्हि विद्यान्तरेष्वपि का वार्ता? विधिरेव । हन्त तर्हि विधिनिषेधाभ्यां व्याघात इति चेन्न; विधिबलादेव हिंसानिषेधवद्विहितव्यतिरिक्तविषयत्वान्निषेधस्य । अत्रापि तथाऽस्त्विति चेन्न, विधेरेव निरस्तत्वात् । किं च,
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमण्नुयात् ॥
इति समाधिरहितस्य ब्रह्मप्राप्तिर्निषिध्यते । न च समाधिः प्रपन्नानामिष्यते; तदभ्युपगमे च भक्त्यनतिरेकः । न च प्रज्ञानशब्दस्तत्र भक्तिमात्रविषयोऽस्त्विति वाच्यम्, संकोचकाभावात्। विधिस्तु निरस्त एवेति न ततस्तत्संकोचः । यच्चात्र दुश्चरितविरतिबाह्यान्तरकरणोपरमरहितस्य ब्रह्मप्राप्तिर्नास्तीत्युच्यते, तदप्यशक्ताधिकारतयाऽभिमतस्य प्रपदनमात्रस्य मोक्षोपायतां प्रतिरुणद्धि । यो हि दुश्चरितेभ्य उपरतः, उपशान्तनिखिलकरणग्रामश्च स्यात्; का तस्याशक्तिर्भजने?
किं च,‘नाहं वेदैः’ इत्यारभ्य ‘प्रवेष्टुं च परंतपे’ इत्यन्तेन हेत्वन्तरनिषेधपूर्वकमनन्यया भक्त्या प्राप्तिरुच्यते । न चाधिकारिविशेषमाश्रित्यैते निषेधा इति वक्तुं शक्यम्; अधिकारिनियमस्य प्रागेव दूषितत्वात्, तथा च सति कर्मयोगादेरप्यधिकारिविशेषमाश्रित्य पृथगुपायत्वप्रसङ्गाच्च । न चैवमस्त्विति वाच्यम्, भक्तियोगाङ्गभूतात्मावलोकनफलकत्वेन तयोर्भाष्ये निर्णीतत्वात् । एवम्,
पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु । भक्त्येकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः ॥
इत्यादिकमपि द्रष्टव्यम् । भगवत्पराशरशौनकादिभिश्च मोक्षोपदेशप्रकरणेषु स्पष्टमेवोच्यते । यथा सस्मार भगवान्पराशरः खाण्डिक्यं प्रति केशिध्वजवचनम् -“क्लेशानां च क्षयकरं योगादान्यन्न विद्यते” इति । तत्र च योगशब्दोऽष्टाङ्गयोगविषय इति प्रकरणवशात्, तत्रत्ययोगशब्दार्थविवरणवशाच्च सिद्धम् । तथा हि - तत्रैवानन्तरं खाण्डिक्येन योगस्वरूपमनुयुक्तः केशिध्वजः प्रतिवक्ति
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम । तत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मुक्त्यै निर्विषयं मनः ॥
विषयेभ्यः समाहृत्य विज्ञानं मानसं मुने । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥
आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने । विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ [[१५]] आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥
एवमत्क्यवैशिष्ट्ययुक्तधर्मोपलक्षणः । यस्य योगः स वै योगी मुमुक्षुरभिधीयते ॥
योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते । विनिष्पन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ॥
यद्यन्तरायदोषेण दूष्यते चास्य मानसम् । जन्मान्तरैरभ्यसतो मुक्तिः पूर्वस्य जायते ॥
विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगाग्निदग्धपूर्वकर्मचयोऽचिरात् ॥ इति ।
ततश्च ‘ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान्’ इत्यारभ्य अष्टाङ्गयोगः प्रपञ्चितः । श्रीविष्णुधर्मे च-
तदाचक्ष्व महाभाग प्रसादसुमुखो यदि । संक्षयो येन भवति मूलोद्वर्तेन कर्मणाम् ॥
इति शतानीकेन पृष्टो भगवान् शौनकः प्राह
न कर्मणां क्षयो भूप जन्मनामयुतैरपि । ऋते योगात्कर्मकक्षं योगाग्निः क्षपयेत्परम् ॥ इति ।
स च पुनः परमनिःश्रेयसार्थिभिर्देवादिभिरनुयुक्तस्य महर्षेः कपिलस्य वाक्यमुदाजहार -
इत्युक्ते ऋषिभिः सर्वैर्देवैर्देवर्षिभिस्तथा । नास्ति योगात् परं श्रेयः किंचिदित्युक्तवान्पुरा ॥
इति । तमिमं योगं साधिकारि[विशेषं]विषयं पुनः प्रपञ्चयन्, स्त्रीशूद्राणां जन्मान्तरप्रक्रान्तयोगप्रतिसंधानमात्रेण योगनिष्ठामुदाहृत्य निगमयति स्म
तस्माद्योगः परं श्रेयो विमुक्तिफलदो हि सः । विमुक्तौ सुखमत्यन्तं संमोहस्त्वितरत्सुखम् ॥
एतत्ते सर्वमाख्यातं मया मनुजकुञ्जर । श्रेयः परतरं योगात्किंचिदन्यन्न विद्यते ॥
इति ।
मनुश्च - प्रशासितारं सर्वेषामणीयांसमणीयसाम् । रुक्माभं स्वप्नधीगम्यं विद्यात्तु पुरुषं परम् ॥
इति । अत्र स्वप्नधीगम्यमिति पदम्, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्यमित्यर्थ इति भाष्यकारैर्व्याख्यातम् । एवमन्येषामपि महर्षीणामध्यापत्मशास्त्रेषु योगातिरिक्तमोक्षोपायनिषेधो ग्राह्यः ॥