विध्यदृष्टेश्च । न हि प्रपद्येतेति [क्वा ]काऽपि चोदना दरीदृश्यते । प्रपत्तिस्वरूपं तु
प्रतिवेदं शतशः श्रुतमिति चेन्न, तथाऽपि विध्यभावस्यापरिहृतत्वात् । ‘यो ब्रह्माणम्’, इत्यारभ्य ‘शरणमहं प्रपद्ये’ इत्यन्तेन मोक्षसाधनतया प्रपत्तिः प्रतीयत इति चेन्न, तत्रापि विध्यभावादेव । ततो विधिकल्पनमस्त्विति चेन्न, मन्त्राणां विधिपरत्वे प्रमाणाभावात् । एतेन गर्भोपनिषदादिवाक्यान्यपि निरस्तानि । “तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति” इति विधिपरमेवेदं वाक्यमिति चेन्न, पात्नीवतक्रियाविशेषादिप्रतिपादनपरत्वात् । ‘विधिस्तु धारणेऽपूर्वत्वाद्’ इति न्यायेनात्रापि विधिरङ्गीकार्य इति चेन्न; तथाऽप्यत्र विघेः प्रपदनविषयत्वासिद्धेः; अपि तु प्रपन्नं न परित्यजेदिति प्रपन्नपरित्यागनिषेध एव सिध्यति । तत एवार्थात् प्रपत्तेरिष्टसाधनत्वसिद्धिरिति चेन्न; अतिथिं नावमन्येतेत्युक्तेऽप्यतिथित्वस्येष्टसाधनत्वनियमाभाववदत्रापि तन्नियमाभावात् । अनियमश्च, निषिद्धकारिषु प्रयुक्तायास्तस्यास्तदभावत् । ईश्वरस्तु रागद्वेषादिरहितत्वान्निषिद्धं न करोतीति चेन्न; ईश्वरत्वादेवास्य निषेधविधिकिंकरत्वाभावात्, सर्वेषां विधिनिषेधशास्त्राणां तदाज्ञारूपत्वात्, स्वस्य च स्वाज्ञावशंवदत्वायुक्तेः । शास्त्रवश्यत्वे वा स्वस्ति सर्वेश्वरत्वाय ।
[[११]]
‘ओमित्यात्मानं युञ्जीत’ इति साक्षाद्विधीयत इति चेन्न; ‘युज् समाधौ’ इति, ‘युजिर्योग’ इति वा धातोर्निष्पन्नस्य युञ्जीतेत्यस्य पदस्य प्रपत्तिविधायकत्वासंभवात् । प्रकरणवशाद्विघेयस्य भावार्थस्य न्यासरूपत्वं सिद्धमिति चेत्, किमतः प्रस्तुतस्यायातम्?
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥
इति न्यासनिक्षेपसंन्यासत्यागशरणागतिशब्दाः पर्याया अहिर्बुध्न्यादिभिः स्मर्यन्त इति चेन्न; तत्रत्यपरिभाषयाप्येतस्य करणस्थन्यासशब्दस्य प्रपदनवाचित्वे नियामकभावात् । न ह्ययमेकान्ततस्तद्विषयः शब्दः,
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥
इत्यादिष्वर्थान्तरेष्वपि प्रयोगदर्शनात् । तथाऽपि युञ्जीतेति विहितयोगार्थवादरूपसमनन्तरानुवाकतात्पर्यावसितनैरपेक्ष्यापुनर्भवाभ्यां न्यासस्यप्रपदनरूपत्वं सिद्धमितिचेन्न, तथविधं प्रपदनमित्यत्रैवार्थे प्रमाणाभावात् । भक्तावप्यवताररहस्यचिन्तनादिसहकारिवशादपुनर्भवदृष्टेः, समनन्तरानुवाकस्य च पुरुषविद्यापरत्वमात्रं स्वीकृत्यैव छान्दोग्यपुरषविद्यातो विद्याभेदस्य सूत्रितत्वात् ‘पुरुषविद्यायामपि चेतरेषामनाघ्नानाद्’ इति । तत्र प्रस्तुतब्रह्मविद्याङ्गभूतपुरुषविद्यापरत्वं हि भाष्येऽप्युक्तम् । ‘वसुरण्य’ इत्यादिको मन्त्रविशेषश्च तत्रत्यन्यासकरणतयोच्यते । गतिविशेषश्च चिन्तनार्थस्तत्रोपदिश्यते । तेनापि चात्र न्यासस्य साङ्गता । ततश्च अनङ्गतयाऽत्युपेतात् प्रपदनात्साङ्गोऽयं न्यासापरनामधेयो योगोऽर्थान्तरमिति प्रकरणमेव परिकरतयोपात्तं प्रत्यनीकमायुष्मतः । अनङ्गतां तर्हि परित्यजाम इति चेत्, किं तर्हि न परित्यक्तम्? उपासनव्यतिरिक्तस्य न्यासस्य फलप्रदत्वमिति चेन्न, व्यतिरेकस्याद्यापि मनोरथमात्रप्रमाणकत्वात्; न तत्र द्वैरथं बध्नीमः । अस्तु तर्हि ।
सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम ॥
इति सर्वलोकशरण्यस्य भगवत एव वाक्यात्प्रपदनविधानसिद्धिरिति चेन्न, तत्रापि विघेरनुपलम्भात् । अभयप्राप्तिकामो मां प्रपद्येतेति वाक्यतात्पर्यावसितमिदमिति (वाक्यतात्पर्यात् विहितमिति) चेन्न, रामगुणविशेषप्रतिपादनमात्रपरत्वाद्वाक्यस्य । तस्य तात्यर्यार्थभूतगुणविशेषपरत्वे तदुक्तेश्च श्रोतॄणां कर्तव्यविशेषोपदेशार्थत्वे श्रुतार्थापत्त्या प्रपत्तिसंपत्तिरिति चेन्न; तथाऽपि प्रपन्नो रामेण न परित्याज्यः, अतस्तद्वद्वर्तितव्यमित्येतावत एव सिद्धत्वेन प्रपदनस्य धर्मतया कर्तव्यत्वे प्रमाणाभावात् । प्रपन्नमसौ न परित्यजतीत्यपि सिद्धेरर्थात्सिद्धैव तत्प्रपत्तिकर्तव्यतेति चेत्, एवमपि परिणीतमानुषसंस्थानस्य क्षत्रधर्माभिनयव्यसनिनो भगवतस्तथाविधस्वभावनिर्णये तदातनानां तदीश्वरत्वमविदुषां तत्प्रपदनं सिध्येत् । ईश्वरयाथात्म्यविदां तु मुमुक्षूणामपवर्गाव्यवहितसाधनतया तत्प्रपदनकर्तव्यत्वे न किंचित्प्रमाणं सिद्धम् । तर्हि रामाद्यवतारेषु याथात्म्यवेदनरहितानामिदानीमपि समीहितसिद्धये तत्प्रपदनं स्यादिति चेन्न; मानुषभावनायामिदानीं तत्प्रपदनासंभवात्, यथाकथंचिद्देवतात्वभावनायाशयुक्तदोषानतिलङ्घनात् ।
स्वयंभूरिव भूतानां बभूव गुणवत्तरः ॥
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥
इति गुणवत्तरत्वोपपादकतया भगवदवतारत्ववर्णनादीश्वरत्वाकारे[णा]ऽपि तथाविधगुणस्य परमार्थत्वात्तत्सिद्धिरिति चेत्, अस्त्वेवम्, दुर्बलस्य प्रबलावष्टम्भवदयमर्थः सिध्यतु । न तावता भक्तिनिरपेक्षः सिध्यतीति; तद्द्वारापि मोक्षप्रदाने भगवद्गुणानामक्षतत्वात् । [[१२]]
मामेव ये प्रपद्यन्ते इत्याद्युक्तमायातरणार्थप्रपदनमपि भक्त्यर्थतयैव भष्यकारैर्निर्णीतम्; अनुज्ञातं च भवद्भिः ।
अत एव ‘सर्वधर्मान् परित्यज्य’ इत्यादिकमपि दत्तोत्तरम् । विध्यनुवादविकल्पानुपपत्त्यादयश्च प्रागेवोक्ताः । इदं च वाक्यं सात्त्विकराजसतामसभेदेन त्यागस्वरूपविवेचकाध्यायोपक्रमानुसारे तु कर्मयोगाद्यङ्गभूतबुद्धिविशेष-विधिपरम् । “सर्वपापेभ्यो मोक्षयिष्यामि” इत्येतत्स्वारस्यानुसारे तु तत्तत्प्रतिपदोक्तप्रायश्चित्तप्रत्याम्नायतया तदशक्तानां प्रायश्चित्तविशेषविधिपरमिति भाष्यस्थयोजनाद्वयविदः । एवं हि तत्र भाष्यम् -
कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिःश्रेयससाधनभूतान्मदाराधनत्वेनातिमात्रप्रीत्या यथाधिकारं कुर्वाण एवोक्तरीत्या फलकर्मकर्तृत्वादि परित्यज्य, मामेकमेव कर्तारमाराध्यं प्राप्यमुपायं चानुसंधत्स्व । एष एव धर्माणां शास्त्रीयः परित्याग इति,
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥
इत्यारभ्य
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥
इत्यध्यायादौ सुदृढमुपपादितम् । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि एवं वर्तमानं त्वां मत्प्राप्तिविरोधिभ्योऽनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वपापेभ्यो मोक्षयिष्यामि । मा शुचः - शोकं मा कृथाः । अथवा, सर्वपापविनिर्मुक्तात्यन्तभगवत्प्रियपुरुषनिर्वर्त्यत्वाद्भक्तियोगस्य, तदारम्भविरोधिपापानामानन्त्यात्तत्तत्प्रायश्चित्तरूपैर्धर्मैः परिमितकालकृतैस्तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हतामालोच्य शोचतोऽर्जुनस्य शोकमपनुदन् भगवानुवाच “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजेति” भक्तियोगारम्भविरोध्यनादिकालसञ्चितनानाविधानन्तपापानुगुणान् तत्प्रायश्चित्तरूपान् कृच्छ्र्चान्द्रायणकूश्माण्डवैश्वानरव्रातपत्त्यपवित्रेष्टि-त्रिवृदग्निष्टोमादिकान् नानाविधाननन्तान् त्वया परिमितकालवर्तिना दुरनुष्ठानान् सर्वान् धर्मान् परित्यज्य, भक्तियोगारम्भसिद्धये मामेकं परमकारुणिकं अनालोचितविशेषाशेषलोकशरण्यं आश्रितवात्सल्यैकजलधिं शरणं प्रपद्यस्व अहं त्वा सर्वपापेभ्यो यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि, मा शुचः । इति ॥
एवमनेनैव भाष्येण शङ्करादिकुमतिबालिशभाषितान्यपि निरस्तानि, निपीडितसकलशब्दार्थत्वादाकुमारमभि-
मलक्ष्यदोषाणि चेति न तत्रेदानीं प्रयस्यामः ।
ननु कर्मज्ञानभक्तीर्गुह्यगुह्यतरगुह्यतमरूपाः प्रपञ्चेनोपदिश्य, अन्ते “इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया इति तदखिलमुपसंहृत्य”, “सर्वगुह्यतमं भूयः शृणु मे परमं वचः” इत्यादिनोपक्रम्य विधीयमानं सर्वगुह्यतममुपायान्तरमेव भवितुमर्हतीति चेन्न; भूयःशब्दास्वारस्यात्, अनन्तरम् “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु” इति नवमाध्यायोक्तसंदर्भेण तस्यैव भक्तियोगस्य विधीयमानत्वाच्च । यदि “सर्वगुह्यतमं भूयः” इत्यादिश्लोकस्य समनन्तरमेव “सर्वधर्मान्परित्यज्य” इत्यादिकमुक्तं स्यात्, तदा आशङ्क्येतापि उपायान्तरत्वम्। अत्र तु भक्तियोगमुपदिश्यैवानन्तरं प्रपत्तेरुपदेशात् (प्राक्प्रायश्चित्ततया) प्राक्प्रपञ्चिता तदङ्गभूतेयं प्रपत्तिस्तदुपसंहारानन्तरं उपसंह्रियत इति प्रतीयते ।
निष्प्रयोजनादुपसंहारादपूर्वविधायकत्वमुचितमिति चेत्, तर्हि “मन्मना भवेत्” इत्यादिनापि उपायान्तरविधानं किं न स्यात्? प्रत्यभिज्ञाबलादिति चेत्, तुल्यम् । भूयःशब्दस्वारस्यादिति चेत्, तदपि तुल्यम् । न हि तदेकश्लोकावधिकमित्यत्र नियामकं पश्यामः ।
ननु ‘मन्मना भवेत्यादिरूपो’ भक्तिविधिः; ‘सर्वधर्मान्परित्यज्येति’ तन्निषेधः । अतो विरोधादेव अर्थान्तरपरत्वम् । भूयःशब्दस्य चैकश्लोकार्थावधिकत्वं सिद्धमिति चेन्न; विरोधादेव उत्सर्गापवादनयेन निषेधस्यान्यविषयतया व्यवस्थापयितुं युक्तत्वात्,
[[१३]]
सामान्यविशेषशब्दरूपतया तस्य शक्यत्वात्। भाष्योक्तछायया च त्यागस्यान्यार्थत्वस्थापनात्, त्याज्ये चैवमभिसंरम्भस्यायुक्तत्वाच्च ।
तर्हि वक्ष्यमाणप्रपत्त्यङ्गतयैव भक्तिरपि ‘मन्मना भवेत्यादिना’ विधीयत इति चेन्न; नियामकाभावात् । वैपरीत्यस्य तु नियामकमस्ति; भूयःशब्दबलात्, ‘मन्मना भवेत्’ इत्यादिनवमाध्यायोक्तप्रत्यभिज्ञानात्, कॢप्तकल्प्यविरोधे कॢप्तपरिग्रहस्यैव युक्तत्वात्, त्वदभिमतपरित्यागस्याप्यसिद्धिप्रसङ्गात्, त्याज्यान्तरविवक्षायामस्मदिष्टस्यैव युक्तत्वात्, प्रथमप्रतीतिप्राबल्यात् । फलवादेऽपि अनिष्टनिवृत्तेरिष्टप्राप्तिशेषत्वस्थिताविष्टप्राप्तिसाधनतया निर्दिष्टस्यैव प्राधान्योपपत्तेश्च ।
एतेन “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ” इति न्यायेन प्रपत्त्यर्थमाचार्योपसदनम् ‘मन्मना भवेत्यादिना विधीयत’ इत्यपि निरस्तम्, मच्छब्दस्योपदेष्टृविवक्षालिङ्गाभावात् । अन्यथा प्रागुक्तसमस्तस्वात्मभजनस्यापि गुरुभजनत्वकॢप्तिप्रसङ्गात्, “मद्याजी मामेवैष्यसीत्यनयोरस्वारस्याच्च” । “पादमूलं गमिष्यामि यानहं पर्यचारिषमिति” न्यायेन गुरुपरिचरणतत्प्राप्त्योरिहोक्तिरविरुद्धेति चेन्न, दत्तोत्तरत्वात् । न हि तद्वदत्र गुरुविषयत्वे प्रमाणमस्ति । न चास्वारस्यं परिहृतम् । एवं प्रपत्त्यन्तर्भूतमात्मसमर्पणं प्रथमश्लोके विधीयत इत्यपि निरस्तम् । ‘मद्याजी इत्यादेः’ अनपेक्षणाच्च । ततश्चास्मदुक्तमेव श्लोकयोरैकरस्यमुचितम् ॥
अस्तु तर्हि ‘सर्वधर्मान्परित्यज्येति’ त्यागविध्यर्थोऽयम् ‘मन्मना भवेत्यादिरनुवाद’ इति चेन्न, भूयःशब्दास्वारस्यादिदोषादेव । न चैवं त्यागविध्यर्थानुवादेऽत्यादरो युक्तः, ‘सर्वधर्मानित्येतावतैव चरितार्थत्वात्’ । न च ‘मन्मना भवेत्’ इत्यत्रानुवादलिङ्गं किमपि दृश्यते; प्रत्युत अत्यादरलब्धप्रतिष्ठोऽङ्गिस्वरूपनिष्कर्षात्मा विधिरेव प्रतीयते । ततश्च तदर्थैव प्रागुक्ता प्रपत्तिरत्राप्यङ्गेषु सारनिष्कर्षार्थमुपसंहारात्मना विधीयत इति सिद्धम् । न च ‘सर्वधर्मान्परित्यज्य’ इत्यत्र प्रस्तुतकर्मज्ञानभक्तिपरित्यागविधानात् तदङ्गत्वमनुपपन्नमिति वाच्यम्; उदाहृतभाष्यातिलङ्घनेनार्थान्तरगवेषणेऽपि सर्वधर्मशब्दस्य समानाधिकरणवृत्त्या व्यधिकरणवृत्त्वा वा देवतान्तरभजनरूपधर्माणामेव प्राङ्निन्दितानामत्रापि परित्यागवचनोपपत्तेः । तथा च सति मामेकमित्याद्युक्तं तदेकप्रपदनं प्रति दृष्टोपकाराल्लिङ्गानुसारः । ततश्च कर्मयोगज्ञानयोगभक्तियोगरूपाणां त्रयाणामपि साधारणं भगवदैकान्त्यमेव ‘मामेकं शरणं व्रजेति’ संगृहीतं भवति । अत एव ह्युक्तं
भगवद्यामुनाचार्यपादैः
ऐकान्त्यं भगवत्येषां समानमधिकारिणामिति । अधिकारिशब्देन तत्रैश्वर्यकैवल्यभगवदर्थभक्तियोगनिष्ठविवक्षायामपि तुल्यन्यायतया कर्मज्ञाननिष्ठयोरप्यैकान्त्यं दर्शितमेव ।
एतेनैतदपि व्याख्यातम्
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यास्यसि ह्यकुतोभयम् ॥ इति ।
यत्तु,
शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥
इति ब्राह्मवचनम्, तदपि शरणागत्यर्थवादमात्रपरमिति अपिशब्दादिलिङ्गैरवसीयते । न च क्रमेण मृत्युतरणादावप्यस्य वाक्यस्य विरोधः; यथा
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥
इत्यादिषु; अन्यथा तादृशेषु बहुष्वव्यवहितसाधनत्वप्रसङ्गात् । यत्पुनः, [[१४]]
त्यज धर्ममधर्मं च त्यज सत्यानृते अपि । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥
इति महाभारतवचनम्, तत्र न तावदापाततः प्रपत्तिप्रतीतिः । निपुणनिरूपणे तु तत्रैव तदर्थव्यारव्यानान्न वक्तव्यमस्ति ।
तथा हि त्यज धर्ममसकल्पादधर्मं चाप्यहिंसया । उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥ इति ।
न चात्र प्रपदनविधिसंभवः । एवमीदृशानि वाक्यान्तराण्यपि नेतव्यानीति ॥