अनुष्ठानदर्शनाभावाच्च । तथा हि - यद्यपि ये केचिदर्वाचीना विमन्यमानमप्यनुतिष्ठन्तो दृश्यन्ते, तथाऽपि प्राचीनेषु महत्तरजनेषु न कश्चित्प्रपत्तिमात्रेण मुक्त इति श्रुतिस्मृतीतिहासादिपु श्रूयते । भक्तियोगादिभिस्तु लब्धसिद्धयः कतिकति कथ्यन्ते । सन्ति हि विभीषणद्रौपदीप्रभृतय इति चेन्न, तेषामपि सांसारिकफलविशेषमात्रसिद्धेः ।
धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते । वर्णावरत्वे संप्राप्ताः संसिद्धिं श्रमणी यथा ॥
इति भक्तियोगानधिकारिणामपि मुक्तिः श्रूयत इति चेन्न; ‘पूर्वाभ्यासाद्’ इति तेषामप्युपासकत्वश्रवणात् । क्षत्रबन्धुमुचुकुन्दादिषु का वार्तेति चेत्, भक्तियोगाधिरूढेषु तत्प्रकरणपठितार्तिविशेषशरणागतिशब्दादयोऽपि भक्तिनिष्ठत्वेऽपि न विरुध्यन्ते । भक्तिनिष्ठत्वानुक्त्या तदभावसिद्धिरिति चेन्न, तदभावानुक्त्या तत्सिद्धेरेव प्रसङ्गात् । तथाऽपि किमनन्तेषु शास्त्रार्थेषु प्रतिशास्त्रार्थमनुष्ठातारः कथ्यन्त इति चेन्न; प्रभूतफलोपायेषु प्रायशो दर्शनात् ॥ किमत्र प्रायिकानुष्ठानदर्शनाग्रहेण, विधेरेवानुष्ठेयत्वे प्रमाणत्वादिति चेन्न, शिष्टानुष्ठानबहिष्कृतेषु शास्त्रार्थेषु तेष्वनाश्वासदर्शनात् । स्मरन्ति च “अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु”, इति ॥