लक्षणानुपपत्तेश्च ।
तथा हि - ‘अनन्यसाध्ये’ इत्यादिना प्रपत्तिः शरणागतिरित्यनर्थान्तरमिष्यते ।
तथा च पठ्यते
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥ इति ।
ततश्च प्रपत्तिलक्षणं शरणागतिशब्दप्रयोगविषयसर्वोदाहरणनिष्ठमनितरनिष्ठं च प्रतिष्ठाप्यम् । तथा च दृश्यते,
अनन्यसाध्ये स्वाभीष्ठे महाविश्वासपूर्वकम् । तदेकोपायतायाञ्चा प्रपत्तिः शरणागतिः ॥
इति सामान्यलक्षणमिति चेन्न, अव्याप्तेः, कपोतोपाख्याने तदभावात् । श्रूयते हि “कपोतेन शत्रुः शरणमागतः” इत्यादिभिः शरणशब्दवाच्यगृहोपलक्षितसमीपागमनमात्रमेव प्रतीयते ॥ न तत्र मुख्या शरणागतिरिति चेन्न, शरणागतसंरक्षणनिदर्शनतया शरण्यादिभिर्निर्दिश्यमानप्रसिद्धोदाहरणस्याप्यमुख्यत्वे मुख्यस्यैवासिद्धिप्रसङ्गात् । गृहागतो न परित्याज्य इति स्फुटोक्तिनिदर्शनाच्च ॥ शरणागतिस्तत्रापि कल्प्यत इति चेन्न, तत्र तथाविधलिङ्गाभावात् । समीपागतस्य परिक्लिष्टस्य परिक्लेशादेव रक्षोपायसाकाङ्क्षत्वं कल्प्यत इति चेत्, किं रक्षणेच्छामात्रं शरणागतिः? हन्त तर्हि तापत्रयाभिहताः संसारिणस्तन्निवृत्तिसाकाङ्क्षाः संनिहिताश्च रक्षितुर्व्याप्तस्य सर्वेश्वरस्येति सर्वेऽपि जन्तवः शरणागता इति सर्वेषां सर्वदुःखोच्छेदप्रसङ्गः । महाविश्वासोपायत्वप्रार्थनादिनैरर्थक्यप्रसङ्गश्च । कपोतं प्रत्यश्रुताऽपि बाधकाभावात्किरातस्याप्यपेक्षापर्याययाञ्छा कल्प्यत इति चेन्न, तिर्यङ्मात्रतया प्रतिपन्ने कपोतेऽनुन्मत्तस्य तथाविधप्रतिकूलतमस्य स्वरक्षणज्ञानशक्तीच्छासंभावनाऽसंभवेन प्रार्थनारूपबुद्धिविशेषकल्पनस्य बाधितत्वात् ।
एवं गोप्तृत्ववरणेऽप्यव्याप्तिः । राघवं शरणं गतः इत्यादिषु गोप्तृत्ववरणमेव ह्यौचित्यादवसीयते । अभियाचाम वैदेहीमेतद्धि मम रोचते । अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥
इत्यादिभिश्चेदमवगम्यते । तदर्थतत्त्ववेदिभिश्चोक्तम् - “मातर्मैथिलि राक्षसीस्त्वयि तथैवार्द्रापराधास्त्वया रक्षन्त्या” इत्यादि । दूरगतद्रौपदीप्रपदनमपि - “रक्ष मां शरणागताम्” इत्येवं रूपमेव प्रसिद्धम् ॥
अस्तु तर्हि गोप्तृत्ववरणमेवोपायतायाञ्छाशब्देन विवक्षितमिति चेन्न;
उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते सांप्रतं त्वेष उपायार्थैकवाचकः ॥
इति वचनविरोधात् । तर्हि तदविरोधाय सर्वत्रोपायार्थत्वमात्रं निष्कृष्यत इति चेन्न;
[[९]]
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ॥
इति स्फुटप्रतिपन्नरक्षितृत्ववरणस्य दुरपह्ववत्वात् । यदि च विरोधभयादैकार्थ्यं कल्प्यते, तदा विशदार्थगोप्त्वृत्ववचनविरोधाद्भगवति च गोप्तृत्वातिरिक्तोपायत्वस्य दुर्निरूपत्वादुपायप्रार्थनाशब्दोऽपि रक्षापेक्षापरपर्याय एव कल्पयितुं युक्तः ।अस्त्वेवमिति चेन्न, रक्षितृव्युदासेन “सांप्रतं त्वेष उपायार्थैकवाचकः” इति निष्कर्षविरोधादेव । अत्यन्तव्यहतावन्यतरपरित्यागेनार्थव्यवस्थाऽस्त्विति चेन्न; किं परित्याज्यम्, किं वा परिग्राह्यमिति नियामकाभावेनोभयपरित्यागप्रसङ्गात् ।तथा च सति कृतं व्यसनेन ॥
नन्वनिष्टनिवर्तकत्वापेक्षया गोप्तृत्ववरणम्, इष्टप्रापस्त्वापेक्षयोपायत्ववाचोयुक्तिः । उभयसाधारणं तु स्वरूपमपेक्षितप्रदातृत्वमात्रत्वम्, इष्टप्राप्तेरनिष्टनिवृत्तेश्चापेक्षितत्वाविशेषात् । तथा च शिष्यानुयुक्तस्य भगवतो भाष्यकारस्यानुशासनमिति संप्रदाया[नु]गतम्, “प्रपत्तिः-विश्वासः; सकृत्प्रार्थनामात्रेण अपेक्षितं दास्यतीति विश्वासपूर्वकं प्रार्थनमिति यावदिति” । तथा च स्तुतिव्याजेनानुसन्दधे, “नित्यदास्यं दास्यतीति” विश्वासपूर्वकं भगवन्तं नित्यकिंकरता प्रार्थये इति । अतो न विरोध इति; तदपि न, “सांप्रतं त्वेष उपायार्थैकवाचकः” इति प्रागुक्तविरोधादेव । इष्टप्रापकत्वलक्षणोदाहरणविशेषापेक्षयेदं वचनमिति चेन्न; “मोक्षार्थप्रकरणादनिष्टनिवृत्तेरपि तत्रावश्यंभावित्वात् उपायार्थैकवाचकः” इति निष्कर्षायुक्तेः ॥
किं च, ‘आनुकूल्यस्य संकल्पः’ इत्यादिकं किं प्रपत्तिविभागोद्देशपरम्, उत व्यणपरम्, यद्वा प्रकारमात्रप्रतिपादनपरमिति? न प्रथमः; षण्णां साधारणस्य लक्षणस्यादृष्टेः । न द्वितीयः; एकानेकविकल्पानुपपत्तेः । न ह्येतदेकं लक्षणम्, प्रतिपदं व्यवच्छेद्यासिद्धेः; अन्यथा ‘अनन्यसाध्ये’ इत्यादेरपूर्णत्वप्रसङ्गात् । अस्त्विदमपूर्ण[त्व]मिति चेन्न; तस्मिन् प्रकरणे
अहमस्म्यपराधानामालयोऽकिंचनोऽगतिः । त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः ॥ शरणागतिरित्युक्ता सा देवेऽस्मिन्प्रयुज्यताम् ॥
इति तस्यै.[क].व लक्षणत्वेन निर्देशात् । तदप्येकदेशतयाऽशेषोपलक्षणमिति चेन्न; नियामकाभावात् । प्रत्युतविशेषणान्तरव्यवच्छेद्यासिद्धिश्च प्रागेवोक्ता । नाप्यनेकं लक्षणम्, सर्वेषां यथायथमव्याप्त्यादिदोषात् । नापि तृतीयः, तथा हि - किमिदं प्रकारप्रतिपादनं प्रयाजादिवदङ्गतया व्यापकत्वेन, यद्वा आग्नेयादिषट्कवत्करणभूतसमुदायैकदेशनिष्कर्षात्मना, उत व्यापकत्वपरस्परव्यभिचारित्वाभ्यां संभावनामात्रेणेति? आद्ये नैरपेक्ष्यवादविरोधः; प्रातिकूत्त्ववर्जनादिना भक्तेरिव दुष्करत्वम्; षडतिरिक्ताङ्ग्यसिद्धिश्च । अङ्गपञ्चकेन अङ्गिना च षाड्विध्यमिदमिति चेत्, किमत्र प्रमाणम्? उक्तानुपपत्तिरिति चेन्न; कस्याङ्गित्वम्, केषामङ्गत्वमिति विवेचकाभावात् ॥
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । सन्न्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥
इति वचनमेवास्तीति चेन्न, प्रार्थनायाः शरणागतित्वं वदद्भिरनेकैर्विरोधात् । अङ्गभूतायामपि तस्यामङ्गित्वव्यपदेश औपचारिक एवेति चेन्न, न्यासेऽपि तथा प्रसङ्गात् । अन्यतरस्य तहिं अङ्गित्वमस्त्विति चेत्, तत्किमेकस्यात्यन्तप्रतिक्षेपेण, उत ‘उदिते जुहोति’, ‘अनुदिते जुहोति’ इतिवत् व्यवस्थितविकल्पवदुभयोर्व्यवस्थापनया? यद्वा ‘व्रीहिभिर्यजेत’, ‘यवैर्वा यजेत’ इतिवत् यथारुचि प्राधान्यविकल्पनेनेति ॽ नाद्यः; कस्य प्रतिक्षेप इति नियामकाभावेनानिर्णयात् ।
[[१०]]
न द्वितीयः; व्यवस्थापकाभावात् । न तृतीयः; वाकाराद्यभावे गत्यन्तरे च सति प्रयोगद्वयफलितप्रतिपत्त्यनुष्ठानापूर्वफलबाधयुगलेन वा, प्रयोगत्रयफलितप्रामाण्यत्यागाप्रामाण्यस्वीकार-त्यक्तप्रामाण्यस्वीकारस्वीकृताप्रामाण्यपरित्यागयुगलेन वा प्रसिद्धाष्टदोषविकल्पस्वीकारानुपपत्तेः । समुदायैकदेशनिष्कर्षस्तु अङ्गाङ्गिभाववचनान्तरविरुद्धः । यस्तु संभावनामात्रपक्षः, सोऽपि निष्प्रयोजनोपदेशतयाऽतिमन्दः; ‘षड्विधा शरणागतिः’, ‘न्यासः पञ्चाङ्गसंयुतः’ इति वचनाक्षरवैघट्याच्च । तदयं संग्रहः
श्लो. अतिप्रसङ्गादङ्गाङ्गिनियमात्षड्विधोक्तितः । संभावितत्वं नैतेषां तर्कमात्राव्यवस्थितेः ॥ ८ ॥
ननु किमनेन लक्षणक्षो[देन]भेण? श्रुतिस्मृतिलोकेषु बहुशः प्रयुज्यमानः प्रपत्तिशब्दस्तावन्न निरर्थको भवितुमर्हतीति चेत्, सत्यम्, वक्ष्यमाणप्रकारेणानन्यभजनमात्रेण चरितार्थोऽसौ न त्वदभिमतार्थपर इत्येतावदेवाभिदध्महे ॥ तदेवं त्वदुक्तप्रपत्तेर्लक्षणाभावेन प्रतिपत्तुमशक्यत्वात्, अप्रतिपन्नस्य दुरनुष्ठानत्वाच्च न तद्विधेरपि संभवः ॥