03 स्वरूपानुपपत्तिसमर्थनम्

तथा हि

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥

इत्येतावन्मात्रबलेन हि सुप्रतिष्ठितसकलशास्त्रार्थसंक्षोभः सिषाधयिषितः । अस्य चायमर्थस्त्वन्मत-
रहस्यवेदिभिरादिश्यते - सर्वधर्मपरित्यागपूर्वकं तमेकमेव शरणं गतस्य स एव भगवान् मोक्षसाधनमिति ।
तत्र किमियं शरणागतिः सिद्धरूपा प्रतिपिपादयिषिता - उत साध्यरूपा वा ?। न तावत्सिद्धरूपा,
अविधेयत्वप्रसङ्गात् । कर्तृव्यापारसाध्यमेव हि विधीयते । इष्टप्रसङ्गोऽयमिति चेन्न;
अविहितत्वेनाशास्त्रीयत्वप्रसङ्गात् । शास्त्रोपात्तत्वमात्रेण शास्त्रीयत्वमिति चेन्न,
निष्प्रयोजनोपादानस्यैवासम्भवात् । ब्रह्म तु सिद्धमपि स्वतः प्रयोजनरूपत्वात्परंपरया
प्रयोजनपर्यवसानाच्चोपादीयते । अधिकारिविशेषणतया तदुपादानमपि सप्रयोजनमङ्गीक्रियत इति चेन्न,

श्लो - फलादिभ्यो विभिन्नत्वात्प्रपत्तिर्विध्यनन्वयात् । विधेयान्तरहानेश्च नाधिकारिविशेषणम् ॥ २ ॥

अधिकारिविशेषणता हि फलकामनारूपतया, फलतया, निमित्ततामात्रेण वा स्यात्? न पूर्वः, असिद्धेः । न द्वितीयः, फलस्य स्वरूपेणाधिकारिविशेषणत्वाभावात् । यथोक्तमागमप्रामाण्ये

सिद्धमेव हि सर्वत्र नियोज्यस्य विशेषणम् । जीवनादि तथैवेह कामनैव विशेषणम् ॥

इति ।

काम्यमानतया विशेषणत्वेऽपि तदर्थसाधनविधानादर्शनात् । स्वर्गादिवत्स्वतो वा पश्वादिवत्फलान्तरसाधनतया वा फलवत्त्वासिद्धेश्च । न तृतीयः, हिंसादिवन्निमित्तत्वे निषिद्धानुष्ठानतया परिहरणीयत्वप्रसङ्गात् । जीवनपुत्रजन्मादिवत्केवलनिमित्तत्वकल्पने विधिप्रत्यययोगः परिपन्थी, विधेयान्तरासिद्धेश्च ॥
तद्विशिष्टस्य ब्रह्मस्वरूपं मोक्षसाधनतया विधीयत इति चेत्, कोऽयं विधिः? किं कर्तव्यतया बोधनम्, उताज्ञातज्ञापनमात्रम्? नाद्यः, नित्यस्य ब्रह्मणः कृतिसाध्यत्वासिद्धेः ॥ प्रसन्नत्व (प्रसादन) रूपेण साध्यत्वमस्तीति चेत्, तर्हि विशिष्टोपादानस्यात्र विशेषणार्थत्वात्प्रसाद एव साध्य इत्यायातम् । तथा सति स एव विधेयः स्यात्, न ब्रह्म । अस्त्विति चेन्न, कर्तृव्यापाररूपत्वाभावेन साक्षात्कृतिसाध्यत्वेन विधेयत्वासिद्धेः, देहादिव्यापाररूपत्वाभावेन पारम्पर्येण साध्यत्वेऽप्यौचित्यात् स्वर्गादिवत्फलत्वस्य तद्धेतुभूतावान्तरव्यापारत्वस्य वा प्रसङ्गात् । न चेह तद्युक्तम्, नैमित्तिकतया कामनाधिकारत्वासिद्धेः, संवलिताधिकारत्वे ज्ञापकाभावात्, तदर्थविधेयान्तराभावे साध्यत्वस्यैवासिद्धिप्रसङ्गाच्च । नापि द्वितीयः, “अमृतस्यैष सेतुः” इत्यादिभिस्तदविशिष्टस्यापि तज्ज्ञानदर्शनेन तद्विशिष्टस्यैव तदधिकारित्वासिद्धेः? न च यथावस्थितशास्त्रश्रवणवेलायामेव प्रपन्नः श्रोता, प्रपत्तेः शास्त्राधिगम्यत्वेन श्रवणप्रपदनयोरन्योन्याश्रयणात् । हितकारिवचनात् प्रपदनसंभवेऽपि निरर्थकं पुनरिदमज्ञातज्ञापनम् । यदि हि प्रपन्नस्य ब्रह्म मोक्षसाधनम्, [[३]] किमस्य पुनस्तथात्वज्ञानेन? तदन्तरेणापि फलसिद्धेः ॥ सिद्धप्रपदनेनैव (पुरुषेण) साधनतया ज्ञायमानं ब्रह्मैव साधनमिति चेत्, तर्हि साधनतया ज्ञानमेव विधेयतया साधनमिति स्यात्; ततश्च गतं ब्रह्मणः साधनत्वम् । एवं चासाधने ब्रह्मणि साधनत्वदृष्टिरेवेति मिथ्याज्ञानान्मोक्षप्रसङ्गः । फलप्रदत्वाकारेण ब्रह्मणोऽपि साधनत्वमस्त्येवेति चेन्न, तावन्मात्रज्ञानस्य श्रवणमात्रसंपाद्यत्वेन विधिव्यापारविषयत्वायोगात्, अविधेयज्ञानस्यापि मोक्षसाधनत्वे कुदृष्टिमतोत्थानप्रसङ्गात् । समर्पणपर्यन्तसाधनत्वबुद्धिविशेषस्यैव प्रपत्तित्वाभ्युपगमादधिकारिविशेषणविधेययोः ऐक्यप्रसङ्गश्च । तच्चायुक्तम्; सिद्धत्वसाध्यत्वरूपविरुद्धधर्माध्यासात्, तत्सिद्ध्यैव तत्सिद्धिरित्यात्माश्रयप्रसङ्गाच्च । रक्षापेक्षा प्रपत्तिरिति नैक्यमिति चेत्, तथा सत्यन्योन्याश्रयणम्, रक्षकत्वबुद्धिपूर्वकत्वाद्रक्षापेक्षायाः रक्षापेक्षाविशिष्टमधिकारिणं प्रति रक्षकत्वोपदेशात् । रक्षकत्वातिरिक्तं साधनत्वमुपदिश्यत इति चेत्, किमत्र साधनशब्देन कर्तृतदितरसाधारणं हेतुमात्रं विवक्षितम्, उत कर्तृव्यतिरिक्तं किमपि कारक[न्तर]मिति? पूर्वत्र स्थितमेवत्योन्याश्रयणादिकम्; विशेषप्रतिपत्तेः सामान्यप्रतिपत्तिमन्तरेणासिद्धेः । उत्तरत्र कर्तरि ब्रह्मणि कारकान्तरत्वोपचारमात्रं वा स्यात्, पूर्ववन्मिथ्याप्रत्ययादपवर्गप्रसङ्गो वा । स्वतन्त्रतयोत्कृष्टे कर्तरि ब्रह्मणि अस्वतन्त्रतया अपकृष्टकारकान्तरदृष्टेर्महापराधरूपत्वम् । ततो दृष्टिविधिनयस्याप्यत्रानवकाशः । कर्तरि ब्रह्मणि करणत्वादिबुद्धौ करणत्वादेश्च कर्तृनिरूपितस्वरूपत्वेन कर्त्रपेक्षया परिशेषादौचित्याच्चाधिकार्येव कर्तेति प्रतीयेत । ततश्च आकर्मयोगमनुवर्तमानस्यात्मन्यकर्तृत्वानुसंधानस्य प्रपदनदशायां परित्याग इति सम्यक् संप्रदायः परिरक्षितः । अत्यन्तपारतन्त्र्यानुसंधाननिष्ठां हि प्रपत्तिनिष्ठामातिष्ठन्ते । कर्तर्येव ब्रह्मणि सहकारिनैरपेक्ष्यमात्रं साधनशब्देन विवक्षितमिति चेन्न, तस्यापि शास्त्रश्रवणवेलायामेव ज्ञाततया तज्ज्ञानविधानानुपपत्तेः, निरपेक्षरक्षकत्वबुद्धिपूर्वकत्वाच्चात्र रक्षापेक्षायाः प्रागुक्तदोषानतिलङ्घनात् । प्रपत्तेरधिकारिविशेषणत्वे च “तेनतेनाप्यते तत्तन्न्यासेनैव महामुनेः” इत्यादिमूलस्य प्रपत्तेः साधनत्वव्यपदेशस्यामुख्यत्वप्रसङ्गश्च । अतो नास्याः सिद्धरूपता विवक्षिता ॥

साध्यरूपत्वेऽपि, न प्रागुक्तनयेन फलरूपता । करणादिरूपायास्तु वाक्कायव्यापाररूपत्वे, स्तुत्यादिवदेव ज्ञानात्मकत्वाभावेन भक्त्यङ्गत्वादिप्रसङ्गः, ज्ञानादेव मोक्ष इति परित्यागप्रसङ्गो वा । अत एव भक्तिज्ञानव्यतिरिक्तं किमपि कर्मैतदिति कैश्चिदुक्तं निरस्तम् । मनोव्यापाररूपत्वेऽपि, दृष्टिवत्सा भ्रान्तिरूपा, तत्त्वज्ञानरूपा वा? पूर्वत्र अपवर्गसाधनत्वासिद्धिः । उत्तरत्र, किं शास्त्रमात्रजन्या, हेत्वन्तरजन्या वा? आद्ये कुमतिमतोपनिपातादिप्रसङ्गः । हेत्वन्तरजन्यत्वे तु, स हेतुः किं योगाभ्यासादिरूपः, तदन्यो वा? प्राच्ये गुरुतरभक्तितुल्यतया तद्वदेव सौकर्यासिद्धिः । पश्चिमस्त्वनुपलम्भनिरस्तः, इन्द्रियलिङ्गादेस्तथाविधज्ञानोत्पादकत्वादर्शनात् ॥

सा किं शास्त्रजन्यज्ञानादधिकविषया, अनधिकविषया वा? न तावदधिकविषया; अधिकप्रकाशकस्य योगादेरभावात्, भावे वा भक्त्यविशेषत्वस्योक्तत्वात् । नाप्यनधिकविषया, शास्त्रजन्यज्ञानाविशेषेण स्वारसिकसकृत्स्मरणमात्रानतिरिक्तायास्तद्वदेवाविधेयत्वप्रसङ्गात् । तस्यैवावृत्तिवेषेण विधेयत्वोपपत्तिरिति चेन्न, ध्यानसमानरूपतया भक्त्यतिरेकासिद्धेः ॥

सा किमितिकर्तव्यतावती, न वा? इतिकर्तव्यतावत्त्वे निरपेक्षोपायत्वविरोधः । इतिकर्तव्यतारहितत्वे कार्यकरत्वहानिः । तदुक्तमभियुक्तैः-

न हि तत्करणं लोके वेदे वा किंचिदीदृशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥

इति । [[४]] इतिकर्तव्यताविशेषवदेव इतिकर्तव्यतानैरपेक्ष्यमिति चेन्न, तत्रापि कथन्ताकाङ्क्षायाः गत्यभावादेवोपशमात् । क्वचित् क्लिष्टगतिस्वीकारे सर्वत्र तथेति नियामकाभावात् ॥ सर्वधर्मपरित्याग एव इतिकर्तव्यतेति नैरपेक्ष्यवाचोयुक्तिः, करणत्वोपपत्तिश्चेति चेन्न, विध्यनुवादविकल्पानुपपत्तेः । सर्वधर्मपरित्यागो ह्यत्र किं विधेयः, उतानुवाद्यः? न प्रथमः, सर्वस्य धर्मस्य परित्यक्तुमशक्यत्वेन सागरतरणोपदेशवदप्रमाणत्वप्रसङ्गात् । यदृच्छयाऽपि हि क्रियमाणानि कानिचित्कर्माणि धर्मा एव भवन्ति । अत एव ह्यज्ञातसुकृतमवकाशं लभते ॥ बुद्धिपूर्वकरणाभावोऽत्र विवक्षित इति चेन्न, नियामकाभावात् । तथा च सत्याचायोंपसदनभगवत्सेवादेरपि परित्याज्यत्वप्रसङ्गः; तदनुष्ठानेऽङ्गवैकल्येन प्रपत्तिवैकल्यप्रसङ्गात् । नात्र धर्मबुद्ध्या तदनुष्ठानमिति चेत्, कुतस्तर्हि? प्रपन्नेतरलोकसंग्रहार्थमिति चेत्, किं स्वाधिकारविरुद्धानुष्ठानेन लोकसंग्रहः, तथा सत्यूर्ध्वरेतसामपि गृहस्थाश्रमधर्मानुष्ठानप्रसङ्गात् । लोकसंग्रहणमपि किं धर्मबुद्ध्या, केवलदृष्टार्थं वा? आद्ये व्याघातः, तस्यैव बुद्धिपूर्वधर्मानुष्ठानात्मकत्वात् । द्वितीये लोकायतिकरहस्यावतारः, धर्मानुष्ठानस्य परवञ्चनामात्रप्रयोजनत्वात् । धर्मबुद्ध्यभावेऽपि दृष्टप्रयोजनविरहेऽपि कारुण्यपरतत्रतया धर्मलोपमूलपरानर्थपरिजिहीर्षया तत्संग्राहकधर्मानुष्ठानमिति चेन्न, प्रपत्तिधर्मविपरीतानुष्ठानेन तन्निष्ठाकृत्स्नवैदिकवर्गसंग्रहासिद्ध्या संग्राह्यतमपरानर्थपरत्वेन परमनैर्घृण्यप्रसङ्गात् । स्वरूपतः पुरुषार्थतया रागवशात् तदनुष्ठानमिति चेन्न, तथाविधरागसंभवे भक्त्यधिकारितया “न भक्तिमांस्त्वच्चरणारविन्दे” इत्युक्ताधिकारविरोधप्रसङ्गात्, अल्पशो रागप्राप्तस्यापि निषिद्धस्यानुष्ठानायोगाच्च । ननु धर्मो हि धृतिसाधनम् - श्रेयःसाधनमित्यर्थः ।ततश्च धर्माणां त्यागोऽत्र श्रेयःसाधनत्वत्याग इति चेन्न, अन्यस्वभावस्यान्येन त्यक्तुमशक्यत्वात्, नित्यत्यक्तत्वेन वा त्यागविध्यनुपपत्तेः । तद्बुद्धित्यागोऽत्राभिमत इति चेन्न, लक्षणाप्रसङ्गात् ।“न विधौ परः शब्दार्थः” इति न्यायविदः । यथावस्थितवस्तुवेदिनस्तद्बुद्धेरपि परित्यक्तुमशक्यत्वाच्च । स्वापेक्षया श्रेयःसाधनत्वबुद्धित्यागोऽत्र विवक्षित इति चेत्,किमसौ क्रियमाणेषु धर्मेषु, उत अक्रियमाणेषु? पूर्वत्र, सर्वप्रकारश्रेयःसाधनत्वबुद्धिनिषेधे भ्रान्तत्वप्रसङ्गः, तेषामेव धर्माणां स्वरूपेणानुष्ठेयत्वस्यावर्जनीयत्वेन यत्रकुत्रचित् श्रेयसि पर्यवसानात् तद्बुद्ध्यभावे चाननुष्ठेयत्वप्रसङ्गात् । आहुश्च- “प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति।” ईश्वरप्रीत्यै तत्पारतन्त्र्यादिमात्रचिन्तने तु कर्मयोगाद्यनतिरेकः । उत्तरत्र, स्वरूपेऽपि परित्यक्ते प्रसङ्गाभावेन निष्प्रयोजनलदुपायताबुद्धिनिषेधः स्यात् ॥

किंच, अत्र त्यागः प्रपदनं चेति द्वयविधानाद्वाक्यभेदः स्यात् । न चासौ युक्तः, “संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते” इति न्यायात् । विशिष्टविधिरस्त्विति चेन्न, तस्यापि गत्यभावविषयत्वात्, अकिंचनतयाऽभिमतेऽधिकारिणि त्यागविधिवैयर्थ्याच्च । नह्यशक्तं प्रति निषेधापेक्षा । शक्तं प्रति[तु]निषेधे धर्माणामधर्मत्वप्रसङ्गः । नचाश्रमभेदेन तत्तद्धर्मनिषेधवदिति वाच्यम्, तत्रान्यस्य निषिद्धानामन्यैरनुष्ठानसंभवात्; इह तु मोक्षोपायानां मुमुक्षोरेव निषेधे अधिकार्यन्तरासिद्धेः । न च मुमुक्षुविशेषमधिकृत्य निषेधः, तद्विशेषादृष्टेः । न च प्रपदनप्रतिपत्तिमात्रं विशेषः, तथा
सति “विकल्पोऽविशिष्टफलत्वादिति” न्यायेनैव विद्यान्तरत्यागसिद्धौ तद्विधिनैरपेक्ष्यात् । न च स्वरूपयाथात्म्यज्ञानवत्त्वं विशेषः; परोक्षस्य तस्य कर्मयोगादिनिष्ठेष्वपि सिद्धत्वात्, अपरोक्षस्य प्रपित्सावप्यसिद्धेः; सिद्धावपि वा “नचात्मवेदीत्यादिकथितकार्पण्यविशेषणवैकल्पप्रसङ्गात् ॥”

अनुवादपक्षेऽपि प्रागुक्तनयेन निःशेषपरित्यागानुवादो न शक्यः । कतिपयविवक्षायां तु नियामकनिर्मुक्तः सर्वशब्दः परिपन्थी । परित्यागोऽनूद्यमानश्चात्र गत्यन्तरासंभवात् लशुनभक्षणादिवन्निमित्ततां गाहेत, न पुनरङ्गताम् । [[५]]
तथा सति प्रपत्तेर्धर्मपरित्यागरूपपापप्रायश्चित्तत्वमात्रसिद्धेर्मोक्षसाधनत्वासिद्धिः । नात्र त्यागमात्रमनूद्यते, अपि त्वशक्तिः । ततश्चावगाहनाद्यशक्तस्याग्नेयादिस्नानविधिवत् भक्तियोगाद्यशक्तस्य प्रपदनविधानमिति चेन्न, अशक्तेरशाब्दत्वेन लात्क्षणिकत्वप्रसङ्गात्, अशक्तिलक्षणालिङ्गासिद्धेश्च । तथा च प्रपत्तेरमुख्योपायत्वप्रसङ्गः । त्यागश्च इतिकर्तव्यता न स्यात् ॥

किंच, विधिपक्षे अनुवादपक्षेऽप्यभावरूपाणां केषांचिद्धर्माणां परित्यागस्यावश्यंभावात्, तत्त्यागस्य च प्रतियोगिभावानुष्ठानात्मकत्वेन निषिद्धानुष्ठानप्रसङ्गो दुष्परिहरः । अभावरूपाणामहिंसादीनां न धर्मत्वम्, अपि तु पापाभावमात्रमिति चेन्न, तेषामेव नियमसहकृतानां धर्मत्वात् । अतो विहिताननुष्ठानं निषिद्धानुष्ठानं चावश्यंभावीति स्वैरदोषो दुष्परिहरः ।ये पुनः सर्वशब्दधर्मशब्दयोः संकोचमनुमत्य धर्मशब्दः प्रस्तुतमोक्षोपायमात्रपर इति वर्णयन्ति, तन्मतेऽपि स्वैरदोषो दुष्परिहर एव, अङ्गिपरित्यागे अङ्गानुष्ठानस्य प्रयोजनाभावात् । स्वतन्त्राधिकारात्तदनुष्ठानमिति चेन्न, मोक्षाभिलाषिणि फलान्तरसाधनत्ववेषेण स्वातन्त्र्यासिद्धेः, नित्यनैमित्तिकत्वमात्रेण स्वातन्त्र्यसंभवेऽपि कर्मान्तराधिकारापादकत्वमात्रेण परित्यक्तधर्मान्तरस्य तदनुपयोगात्, प्रपत्तिस्वरूपस्य तु धर्मस्य सकृदेव निष्पन्नत्वेन तदुत्तरभाविनां तादर्थ्यायोगात् । न चारादुपकारकत्वम्, अनभ्युपगमात् । अभ्युपगमे च प्रपदनानन्तरं मुच्यमानशरीरस्य पुरुषस्य उपायवैकल्यप्रसङ्गात् । न च जीवति तत्सापेक्षम्, अन्यत्र नेति नियामकमस्ति । अत एव न प्रतिबन्धकनिवर्तकत्वम्, प्रपत्तिरूपपरमधर्मस्य सर्वप्रतिबन्धकनिवर्तकत्वेनाभिमतस्य प्रतिबन्धान्तरासंभवाच्च । एतेन प्रत्यवायपरिहारार्थत्वमपि गतम् । न च प्रपत्त्यङ्गभूतानुकूल्यसंकल्पप्रातिकूल्यवर्जनविधिबलात् स्वैरपरित्यागः; “आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता” इत्यादिना तत्रैव तयोरर्थान्तरतया व्याख्यानात् । न च स्वेच्छामात्रेण नित्याद्यनुष्ठानम्, अव्यवस्थितिप्रसङ्गात् । नापि वासनावशात्, काम्यनिषिद्धयोरपि प्रसङ्गात् । न च ईश्वराज्ञानुवर्तनव्यसनेन; त्याज्यतयोक्ते तदाज्ञाया एवासिद्धेः ॥

अस्तु स्वैरप्रसङ्गः । तथाऽपि प्रामाणिकानां यथाश्रुतस्वीकारे सर्वधर्मपरित्यागपूर्वकप्रपदनविधिरपरिहार्यः । कति कति दृश्यन्ते कर्मब्रह्मकाण्डयोः अन्यत्रात्यन्तनिषिद्धानामप्यनुप्रवेशमनुमन्यमानाः शास्त्रार्थभेदा इति चेन्न, तद्वदङ्गत्वेन विधानाभावात्, “सर्वधर्मान्परित्यज्य” इत्यस्याद्यापि संदिग्धार्थकतया सर्वोपप्लावकार्थपरत्वनिर्णयसाहसायोगात्, सर्वाविरुद्धस्य चार्थस्य वक्ष्यमाणत्वात् । “अपि चेत्सुदुराचारः” इत्यादिकमप्यस्तीति चेन्न, अनन्यभजनप्राशस्त्यपरत्वात्, - “क्षिप्रं भवति धर्मात्मा इत्यनन्तरमेवाभिहितत्वाच्च” ।

दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा । समाश्रयेदादिदेवं श्रद्धया शरणं यदि ॥
निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः ॥

इति स्मर्यत इति चेन्न, पुराकृतविषयत्वकण्ठोक्तेः । राजकुमारापराधवत्, वानरगणमधुवनभङ्गवत्, तपनसुतताराभोगादिवच्च प्रपन्नापराधानां क्षन्तव्यत्वमिति चेन्न; प्रतिदृष्टान्तसमजातित्वप्रसङ्गात्, हेतुसद्भावाभिमानेऽपि वचनविरोधे न्यायानवतारात् । श्रूयते च “नाविरतो दुश्चरितादित्यादि” । इदं च शतदूषण्याम्अलेपकभङ्गे प्रपञ्चितमस्माभिः ॥ उपासनविषयतया इयं श्रुतिर्व्यवस्थाप्येति चेन्न, “प्रज्ञानेनैनमाप्नुयादिति” प्राप्तिहेतुभूतज्ञानमात्रस्य प्रज्ञानशब्देनोपादानात् । न च “नाशान्तो नासमाहितः” इति शमादिसमभिव्याहाराद्विशेषविषयता; शमादिरहितस्य मोक्षोपायस्याद्याप्यसिद्धेः । उक्तं च
यानसन्धौ सञ्जयेन -“अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः” इति । एतेन उत्पन्नज्ञानस्य किं ज्ञानार्थैः शमादिभिरित्यपि निरस्तम् । अत एव तेषां “तेजोविशेषेण प्रत्यवायो न विद्यते” इति न्यायस्यात्रानवतारः । [[६]]

दृष्टो धर्मव्यतिक्रमः, साहसं च पूर्वेषाम्, तेषां तेजोविशेषेण प्रत्यवायो न विद्यते; तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः (सीदत्यवरको जनः)

इति तत्रैवोच्यते ।अतस्त्वदभिमतयोजनायां धर्मशब्दस्य धर्मसामान्यविषयत्वे भक्तियोगादिविशेषविषयत्वेऽपि स्वैरदोषो दुष्परिहरः ॥

किञ्च, प्रपदनरूपं ज्ञानं स्मृतिरूपम्, अनुभवरूपं वा? नाद्यः, सकृदसकृद्विकल्पानुपपत्तेः । सातिशयश्रवणमननसंस्कारसमुन्मेषसंभवितत्वेन सकृत्स्मृतेरविधेयत्वप्रसङ्गात् । अत एव न सारस्वतस्रोतः समानच्छिदुरस्मृतिसंततेरप्यविधेयत्वमेव। तैलधारावदविच्छिन्नस्मृतिसंततिरूपत्वे तु ध्यानरूपतया भजनसीमानतिलङ्घनप्रसङ्गः । नापि द्वितीयः, अलौकिकार्थविषयत्वेनार्वाचीनप्रत्यक्षादिफलत्वायोगात् । शास्त्रफलत्वे तु अविधेयज्ञानवादप्रसङ्गात्, योगपरिकर्मितस्वान्तजन्यत्वे भक्तिकुक्षिनिक्षेपात् । करणनिरपेक्षस्य तु आत्मस्वरूपमात्रातिरिक्तप्रकाशस्य संसारदशायामसिद्धेः ॥

अपि च, गुरुलघुविकल्पानुपपत्तेर्नात्र लघूपायसंभवः । यदि लघुतरेणोपायेनापवर्गः समासाद्येत, कः खलु दीर्घकालनैरन्तर्यादरसेवनीये निरन्तरान्तरायसंतते नितरां दुर्व्यसनशालिनि प्रवृत्तिलक्षणे धर्मे नयनाञ्चलं चालयेत्? ज्योतिष्टोमाग्निहोत्रादिषु गुरुलघुषु स्वर्गाद्येकफलसाधनेष्वपि साध्यस्वर्गाद्यवान्तरभेदोऽस्त्येव । लौकिककृषिवाणिज्यादिधनसाधनविकल्पोऽपि लोकसिद्धाधिकारिभेदनियतः । अत्रापि लघूपायस्य अज्ञातत्वात्, तत्परिज्ञानेऽप्यविश्वासात्, विश्वासेऽपि दुर्निर्वहनिर्वहणगर्वेण वा गुरूपायपरिग्रह इति चेन्न; अङ्गतयाऽपि प्रपत्तिमभ्यस्यतां श्रुतसकलशास्त्राणामुपासकानां शास्त्रकाराणां च व्यासादीनां तदज्ञत्वासंभवात्। न च ज्ञातेऽपि तेषामविश्वासः संभवति; शास्त्रप्रामाण्यस्य सुदृढनिरूढत्वात् । अन्यथा भजनादावपि अविश्वासप्रसङ्गात् । निर्णीतशास्त्रप्रामाण्यस्यापि अर्थविशेषेषु संशयो दृष्ट इति चेत्, सत्यम्; स तु यदा निर्णयपर्यन्तो भवति, तदा निरर्थकमेव गुरूपायविधानं स्यात् ॥ निर्णयासमर्थं प्रत्यस्तु भजनशास्त्रमिति चेन्न, बहुतराङ्गोपाङ्गनिबिडभजनशास्त्रनिरूपणसमर्थस्य कियदिदं प्रादेशमात्रपरिमितैकवाक्यनिरूपणम् । यदि चोपासकः प्रपत्तावनाश्वस्तः, स कथमङ्गप्रपत्तिमाददीत ॥ स्वातन्त्र्यमात्रे तस्यानाश्वास इति चेन्न, तत्प्रभावस्याङ्गतावस्थायामेव विदितत्वात् । सर्वधर्मस्थाननिवेशेन समस्ताभिमतसाधनत्वे निश्चिते विषयव्याप्तेरविरोधात् । गुरूपायनैरर्थक्यप्रसङ्गादेव लघुतरे तस्मिन्न विस्रम्भ इति चेत्, हन्त तर्हि त्वमेवास्मदभिमतं ब्रवीषि । एवं सर्वेषामप्यविस्रम्भ एवेति न स्वतन्त्रप्रपत्तिसिद्धिः । तत्सिद्धौ वा गुरूपायान्तरविध्यनुपपत्तिरिति । न च तद्विश्वासेऽपि दुर्निर्वहनिर्वहणगर्वः शमदमादिशालिनां मुमुक्षूणां संभवति ॥ स्वरूपानुरूपत्ववेदिनां प्रपत्तिः, इतरेषां भजनमिति व्यवस्थेति चेन्न; व्यासादीनां तदज्ञानासंभवस्योक्तत्वात्, इतरेषां तदज्ञानेऽपि लघुत्वमात्रेण शीघ्रं तदेकपरिग्रहस्य दुर्वारत्वात् ॥

श्लो - प्रतिबुद्धस्वरूपस्य विरुद्धा भक्तिरित्यपि । व्यासादिगुरुविद्विष्टं श्रोतुं न वयमीश्महे ॥ ३ ॥
अधिकारविरोधाच्चेत्स्यात्स्वरूपविरुद्धता । तुल्यं भक्तिप्रपत्त्योस्तद्वैशिष्ट्यादधिकारयोः ॥ ४ ॥

अतो न भक्तेः स्वरूपानुरूपत्वाभावः; स्वरूपप्राप्तिहेतुतयैव तद्विधानात्, समस्तोपाधिविनिर्मोक्षदशायामपि स्वरूपवत्तदनुवृत्तेः । तथा च पठ्यते काश्मीरपुरनिवासिभिः-

मोक्षोपायस्य कि रूपं भक्तिरित्यक्षरद्वयम् । अथ मोक्षस्य किं रूपं भक्तिरित्यक्षरद्वयम् ॥

इति ।

इतरथा प्रपत्त्या नित्यकैंकर्यप्रार्थनस्याप्ययोगात् । स्तनंधयवत्सलान्यायेन संबन्धादेव रक्षति भगवति स्तन्यार्थभृतिप्रदानवत् स्वरूपानुचितमुपायान्तरमिति चेन्न; प्रपत्त्यन्तर्गतगोप्तृत्ववरणादेरप्यनुचितत्वप्रसङ्गात् ॥ सम्बन्धज्ञानरक्षकत्वविश्वासातिरिक्तं तत्राप्यनुचितत्वादुपेक्षणीयमिति चेन्न [[७]]

श्लो. - संबन्धादेव गोप्ता चेत्तज्ज्ञानाद्यनपेक्षणम् । तच्चेच्छास्त्रादपेक्ष्येत तुल्यं तत्प्रार्थनादिषु ॥ ५ ॥

अकर्तुः कर्तृत्वाभ्युपगमो विरुद्ध इति चेन्न, कैंकर्यकर्तृत्वस्याप्यभिमतस्य स्वरूपविरुद्धत्वप्रसङ्गात् । न च ईश्वरपरतन्त्रस्याप्यात्मनः सांख्यवदकर्तृत्वं स्वभावमिच्छामः; “कर्ता शास्त्रार्थवत्त्वाद्” इत्यादिभिस्सूत्रैस्तत्प्रतिक्षेपात् । भगवद्गीतायामपि चरमाध्याय एव शोधितमकर्तृत्वानुसंधानस्य स्वरूपम् ‘पञ्चैतानीत्यादिभिः’ श्लोकैः । अत्यन्ताकर्तृत्वाभ्युपगमे तु प्रपदनेऽपि कर्तृत्वं न स्यादिति तस्यापि स्वरूपविरुद्धत्वप्रसङ्गः । एतेन तत्त्वज्ञानवतोऽध्यवसायमात्रेण विशेषितस्य नित्यदयाविशिष्टो भगवानुपाय इति कर्तृत्वापह्नवप्रत्याशा निरस्ता, तत्रापि तत्त्वज्ञानाध्यवसायकर्तृत्वस्य दुर्वारत्वादिति ॥
तदयं संग्रहः-

श्लो - संबन्धज्ञानविश्वासकैंकर्यादिषु कर्तृता । स्वरूपस्याविरुद्धा चेद्भक्त्यादौ कोऽयमाग्रहः ॥ ६ ॥ इति ॥

अस्तु तर्हि शक्ताशक्ताधिकारभेदेन विषयव्यवस्था, अवगाहनस्नानाशक्तस्याग्नेयस्नानादिवदिति चेन्न, अमुख्यत्वप्रसङ्गस्य प्रागेवोक्तत्वात् । कीदृशीं चाशक्तिमालम्ब्येयं व्यवस्था, किमुपासनस्वरूपासामर्थ्यात्मिकाम्, उत साक्षात्परंपरया वा तन्निवर्तककर्माद्यसामर्थ्यात्मिकाममपीति । नाद्यः, कर्मयोगादिमरुकान्तारपान्थताप्रहाणप्रसङ्गात् । न द्वितीयः, तादृशाशक्तेस्तिर्यक्स्थावरादिव्यतिरिक्तेपु सर्वेष्वपि पुरुषेष्वसंभावितत्वात् । सन्ति हि स्मृतिसंकीर्तनप्रणामादयो बहवः परमीषत्कराः सुकरतमाः परंपरया तद्धेतवः । यथाह भगवान्पराशरः-“आयासः स्मरणे कोऽस्येति” । तथाह शौनकः-
“कोऽतिभारो हरेर्नाम्नि” इति । “अञ्जलिः परमा मुद्रा” इत्यादिकं द्रष्टव्यम् । अन्यथा प्रपदनेऽप्यनधिकारापातः; अविशेषात् । तस्यापि

मामेव ये प्रपद्यन्ते इत्यादिना परंपरया तन्निर्वर्तकत्वस्यावश्याभ्युपगम्यत्वाच्च ।

प्रारब्धभोगोन्मुखो भक्तावधिकारी, तद्विमुखः प्रपत्ताविति चेन्न, प्रारब्धभोगौन्मुख्यस्य प्रपन्नानामपि संभवात्, अविरोधाच्च । प्रारब्धभोगेऽपि दुःखभावनया तत्रापि विमुखानां प्रपदनाधिकार इति चेन्न; प्रारब्धबलादेवात्यन्तवैमुख्यस्यासंभावितत्वात्, ईषद्वैमुख्यस्य उपासकेष्वपि विद्यमानत्वात् । अत एव प्रारब्धनिवृत्तिकाङ्क्षिणां प्रपत्त्यधिकार इत्यपि निरस्तम् । अन्यथा सर्वस्वारादिवत् सर्वेषां प्रपन्नानां तत्क्षणविनिपातप्रसङ्गात् । शरीरान्तरोत्पत्तिमनिच्छतां तदधिकार इति चेत्; किं तत्र दुःखैकरूपत्वनिर्णयात्, उत तत्सन्देहेऽपि ? तत्र नाद्यः; प्रमाणाभावात् । न द्वितीयः वर्तमानशरीरानुवृत्तावप्यनिच्छाप्रसङ्गात् । अस्ति साऽपि केषांचिदार्तानामिति चेन्न, सर्वेषां प्रसङ्गात् । वर्तमानशरीरे दुःखैकान्त्यानिर्णयात् भ्रमाद्वा तदनुवृत्तिक्षमत्वमिति चेन्न, वर्तिष्यमाणेऽपि तत्संभवात् । अत एवार्तदृप्तविभागोऽपि प्रत्युक्तः । कर्मवैचित्र्यात्सर्वमप्युपपद्यत इति चेत्, किमिदमविचारितचित्रं कर्मवैचित्र्यम्? तथा सति किमपराद्धम् “दुर्घटत्वमविद्यायाः भूषणं न तु दूषणम्” इत्यादिवादिभिः समन्तभद्रसमयसामन्तैः?

अस्तु तर्हि गौरवलाघवसाम्यात् तुल्यविकल्प इति चेन्न, प्रपदने ज्ञानकर्माङ्गकत्वावृत्तिरूपत्वाप्रयाणानुवर्तनीयत्वादिगौरवे भक्त्यनतिरेकात् । मुक्तौ तु तदभावलक्षणे लाघवे त्वदभिमतप्रपत्त्यनतिरेकात्, [द्वा] ताभ्यां तु साम्ये विरुद्धधर्माध्यासेन द्वयोरपि स्वरूपोच्छेदप्रसङ्गात् । मुखभेदेन भयमप्यविरुद्धमिति चेत्, कथम्? विश्वासातिरेकात्प्रपदने गौरवम्, आयासाभावात्तु लाघवम्; भक्तौ तु आयासभूयस्तया गौरवम्, विश्वासमान्द्यात्तु लाघवमिति चेन्न, उक्तोत्तरत्वात् । न हि निर्णीततत्त्वानामविश्वासः ॥

श्लो - विश्वासायासभूम्ना च विकल्पं तुल्यमिच्छताम् । व्यवस्थितविकल्पोऽयं भवेत्सूक्ष्मनिरूपणे ॥ ७ ॥

स च दूषितः । अतो व्यवस्थितत्वेनाव्यवस्थितत्वेन वा विकल्पासंभवान्नैकफलसाधनत्वम् । [[८]] त्वदुक्तप्रपत्तौ प्रारब्धस्यापि भङ्गात्फलमधिकमिति च सा कथमेकस्मिन्नधिकारिणि प्रारब्धनिवर्तनाक्षमभजनसमानतया विकल्प्येत? ननु प्रारब्धनिवर्तनेन देहान्तरविघातित्वं भक्तियोगेऽप्यस्ति; यथा-

जन्म कर्म च मे दिव्यगेव यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥

इति विहितावताररहस्यचिन्तनवत इति चेन्न, क्रतुवीर्यवत्तरत्वलक्षणफलान्तरसाधनोद्गीथोपासनवत्पृथगधिकारत्वादवताररहस्यचिन्तनस्य; अन्यथाऽङ्गत्वेन नियतत्वे सर्वेषामुपासकानां पुनर्भवाभावेन विलम्बिताविलम्वितफलत्वलक्षणवैषम्यं भक्तिप्रपत्त्योर्न स्यात् । अस्तु तर्हि प्रपत्तावपि न प्रारब्धभङ्गः । ततश्च फलानतिरेकाद्विकल्पसंभवः । अत एव “विकल्पोऽविशिष्टफलत्वाद्” इति सूत्रमुपासनावान्तरभेदवन्यासोपासनभेदमपि विषयीकरोतीति चेत्, अस्त्वेवं फलवैक्याभावः । तथाऽपि स्वरूपे तस्यानिवार्यत्वाद्विकल्पासंभव एव । तदेवं स्वरूपानुपपत्तेर्नास्ति भक्तिव्यतिरिक्तो मोक्षोपाय इति ॥