संसाराध्व-गतागत-श्रम-हरः सर्वावगाह्यः स्वयं
श्री-संश्लेष-समुल्लसद्-घन-रसः शीतस् तटाको महान् ।
नेदिष्ठेन +++(प्रपत्ति-)+++महापथेन सु-गमो येषां प्रसादाद् अभूत्
तीर्थं तत्र शुभं प्रकाशयतु नस् तेभ्यो गुरुभ्यो नमः ॥
प्रायः प्रपदने पुंसां
पौनःपुन्यं निवारयन् ।
हस्तः श्रीरङ्गभर्तुर् माम्
अव्याद् अभयमुद्रितः ॥
स्थितं तावत् -
देह–बाह्याभ्यन्तर-करण–प्राण–धिषणा+++(=बुद्धि)+++-विलक्षणः,
पारलौकिक-सुख-दुःखोपभोग-योग्यः,
परम-पुरुष-नित्येच्छा-तन्त्रित-स्वातन्त्र्यः, पर-तन्त्रः,
अनादि-कर्म-प्रवाह-हेतुक–चतुर्-विध-देह-प्रवेश-जनित–
तत्-तद्-आत्माभिमान-संतन्यमान-+ अवर्जनीय–दुः-सह–दुःख–संतति-सहस्र-संततः,
सांसिद्धिक–सम्यग्-अध्यक्षित–युगपद्-अ
ध्यक्षित–
समस्त-वस्तु-वास्तवेनापि स्व-च्छन्द–पञ्च-कृत्य–नित्य-शक्ति-संपदा ऽपि
सर्व-जन-निरुपाधिक-परम-सुहृदा ऽपि
अनुकम्पनीयानुकम्पा-वात्सल्य-सौशील्यादि-
गुण-गण–प्रशमित-पितृत्वोष्मणा ऽपि
यथावस्थित-गुण-विभूति-मण्डल–परिमण्डितस्यात्मविश्राणन-महा-वदान्येनापि
पुरुषोत्तमेन परब्रह्मणा भगवता नारायणेन
अनादि-कर्म-प्रवाह-भेद-विषमित-
विविध-संसारि-मण्डल–सम-समय-समुद्धरण-प्रतिबन्धक-प्रतिबद्ध-
[साम्यगुण]-सम्यग्-गुण-गण-संरक्षण–संधुक्षित-रण-रणकेन+++(=??)+++
अपुरुषार्थ-प्रदायित्व-परिजिहीर्षया
ऽर्थतो ऽनर्थम् अप्य् अर्थितं दिशता
संसार-तन्त्र-वाहिना ऽप्य् अवसर-प्रतीक्षेण
श्रीमता पुण्डरीकाक्षेण समीक्ष्यमाणः,
कदाचिद् अहेतुक–सर्व-सम–भगवद्-अनुकम्पावसरापदेश-भूतेन
अपर्यनुयोज्य+++(=अविवाद्य)+++-+अनादि-सामग्री-चक्र-सामर्थ्य-समुद्भवेन
सर्व-सैद्धान्तिक-समालम्बनीयेन केनापि सुकृत-विशेषेण
संसार-तरु-समूलोन्मूलनानुकूल-जन्म-विद्या-वृत्त-वैराग्यादिकम् अनुप्रपन्नः,
तत्त्वोपदेश-देशिक–महत्तर-जन-चरण–परिचरण-समासादित–
प्रकृति-पुरुषेश्वर-तत्त्व–याथात्म्यावबोधः,
अनन्त-शाख-निगम-तरु-शाखा-विशेष-संभवासु
विद्यात्मिकासु छायासु विश्राम्यन्,+++(5)+++
परम-शेषि–परम-पुरुष–चरणारविन्द-युगल–निगलिताशेष-मनोरथः,
महता मनोरथ-गोचरेणार्चिर्-आदि-पथेन
परम-पदम् अधिरुह्य
स्वेन रूपेणाभिनिष्पन्नः,
भगवन्तम् अनुभवति प्रत्यग्-आत्मेति ।
तत्र च
ज्ञान-कर्म-समुच्चय+++(=??)+++– वाक्यार्थ-ज्ञानादि–पर-पक्ष-प्रतिक्षेपेण कर्म-ज्ञानानुगृहीतः,
वेदन-ध्यानोपासानादि-शब्द-वाच्यः,
दर्शन-समानाकृतिः,
निरतिशय-प्रीति-रूपतया भक्ति-शब्दाभिलप्यः,
अ-सकृद्-आवृत्तः,
आप्रयाणानुवृत्तो निरन्तर-स्मृति-संतान एव
निःश्रेयस-निःश्रेणिकेति निरणायि ॥
इदं त्वत्र चिन्त्यते -
किं तथा-भूताद् उपासन-वर्गात् [व्यतिरिक्तो] विमुक्तो
मुक्त्य्-उपायो ऽस्ति, न वेति ।
नास्तीति पूर्वः पक्षः,
अस्तीति राद्धान्तः ॥
[[१]]
नन्व् एतच्-चिन्तनम् अनर्थकम् -
तद्-अनिश्चये ऽपि
भक्त्यैव मुक्ति-सिद्धेर्
इति चेन् न,
तन्-निश्चयाभावे
तद्-अनुष्ठान-रूपस्य प्रयोजनस्यासिद्धेः ।
“तत्-फलस्यान्यतः सिद्धौ
तद्-अनुष्ठानस्य प्रयोजनत्वम् एव न सिध्यती"ति चेन् न;
अनेक-+++(उपासना-)+++विद्या-विलय-प्रसङ्गात् ।
सर्वासाम् एक-फल-साधनत्वे ऽपि
विकल्पतो यथा-रुचि यथावगमं वा
तत्-तद्-अनुष्ठानं स-प्रयोजनम् इति चेत् -
तुल्यम् +++(अत्रापि)+++ ।
+++(भक्ति-प्रपत्त्योर् विषये)+++
यथाधिकारम् इति विशेषो वक्ष्यते ।
तत एव विद्यान्तर-विशेष-चिन्तनाद् एतच्-चिन्तनस्य महत्तरं
प्रयोजनम् इति स्थितम् ॥
इत्य् उपोद्घातः ॥