१९ योगसिद्धान्तभङ्गाधिकारः

श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ अथ परमतभङ्गे योगसिद्धान्तभङ्गाधिकारः एकोनविंशः [१९] ताविप् पुवऩङ्गळ् ताळिऩै सूट्टिय तन्दैयुन्दिप् पूविल् पिऱक्किऩुम् पूदङ्गळ् ऎल्लाम् पुणर्त्तिडिऩुम् श्रीमते रामानुजाय नमः । श्रीः श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः । २०००७ श्रीमते वेदान्तगुरवे नमः । अथ परमतभङ्गव्याख्यायां देशिकाशयप्रकाशाभिख्यायां योगसिद्धान्तभङ्गाधिकारः एकोनविंशः ॥ १९ ॥ दयातरङ्गितापाङ्ग-पात्रं बाल्ये च योऽभवत् । वात्स्यश्रीवरदार्यस्य तं वेदान्तगुरुं भजे ॥ १ ॥ यमादिकरणोपेतसमाधिसुखसम्प्लुतम् । समाधिकदरिद्रं तं आगमान्तगुरुं गतः ॥ २ ॥ एकोनविंशे द्यधिकार एषः तोकेन नाभीनलिनोदितेन । विष्णोर्विधाता विहिते हि तन्त्रे वेदान्तसूरिर्वितनोति शिक्षाम् ॥ ३ ॥ अथ कापिलतन्त्र नियन्त्रणानन्तरं योगसिद्धान्तमपि शिक्षयिष्यन् तदुपज्ञातुर्हिरण्य- गर्भस्य बहुविधमहिमवत्त्वेऽपि सर्वक्षेत्रज्ञसाधारणभ्र मविप्रलिप्सादेश्तस्मिन्नप्यवर्जनीयत्वात् सम्भावितान् तन्मतदोषान् सामान्यतः उपन्यस्यति इति । समस्त- लोकान् अप्याक्रम्य । अनेन क्वाचित्क-प्रादेशिकस्पर्शव्यावृत्तिः । कृशी इत्यनेन निरतिशयेन उत्साहेन क्वचिदप्यपर्यवस्य ततोऽपि ततोऽपि इत्यूर्ध्वम् उद्गमनं भगवत्पादपद्मयोः सूच्यते । तदुक्तं देहलीशस्तुतावाचार्यै:- “भक्तप्रिय ! त्वयि तथा परिवर्धमाने मुक्तावितानविततिस्तव पूर्वमासीत् । हारावलिः परमथो रशनाकलापः तारागणस्तदनु मौक्तिकनूपुरश्रीः ॥ " इति ॥ २- प्रमाणेङ्गितचेष्टितैः परस्परस्य सदृशौ श्रीमच्चरणौ । qu"ab LOLI gu♚४♚ $२v Gाम् ।” - “चराचरमचीकरश्चरणपङ्कजेनाङ्कितम्” इत्युक्तरीत्या आप्तानाप्तविभागं विना एकमपि वस्त्वविहाय समस्तलोकमस्तकोपरि स्वपादपद्मं निधाय स्वलङ्कृतवत इति पिण्डितार्थः । निरुपाधिकपितृत्ववतः । २ पुश कं की-तादृशस्य भगवतो नाभीपद्मे जन्म लब्ध्वाऽपि । एवञ्च सर्वज्ञ- नाभी- नळिन स्थित्युक्त्या ५४ देशिकाशयप्रकाशसहिते परमतभङ्गे नाविऱ्‌पिरिविऩ्ऱि नामङ्गै वाऴिऩुम् नाऩ्मऱैयिल् पावित्तदऩ्ऱि उरैप्पदु पाऱुम् पदर्त् तिरळे। स्वस्य ज्ञातत्र्यार्थेषु उपदेष्ट्रन्तरानपेक्षत्वं द्योत्यते । ततः स्थितेऽपि सर्वज्ञसन्निकर्षे तदुपदेशम् अलब्ध्वा तदाशयविरुद्धभाषणं, ‘गवां पयोधरस्थोऽपि गोपीडो लोहिताशनः ।’ इतिवत् अस्माकं विस्मापकमेवेति भावः । तदुक्तं “Canon sugॐ ५०० कुङ्कु नानी (५) , का ढाङ्ग की जाका- ॐ गण का भाव-कङ्कण " इति । इदञ्च भगवदपदानद्वयं भक्ताग्रगण्यानां परस्परपरिपोषकतया निध्यानुभाव्यं भवति । तथाच श्रीशठकोपसूरिः- “ p पडैत्त पऱ्‌पनाबावे! पामरु मूवुलगुमळन्द पऱ्‌पबादावो, “तामरै की कुणी ! Guru” इति ॥ thi@mraanó इति । पृथिव्यादिभूतोपलक्षितचतुर्दश भुवन निर्माणप्रावीण्ये सत्यपीत्यर्थः । सञ्ज्ञामूर्तिक्लुप्त्यधिकरणे व्यष्टिसृष्टेर्जीव समष्टिरूपचतुर्मुखशरीरकपरब्रह्म- कर्तृकत्वोक्त्या चतुर्मुखस्य द्वारकर्तृत्वमस्तीति एवमुक्तिः । एतेनेश्वरस्येवास्यापि स्रष्टृत्व- प्रसिद्धिर्दशिता । अथापि तत्त्वार्थेषु भ्रमोदय इति विचित्रमेतदिति हृदयम् । ॐ इत्यादि । ‘यी Lis’ इति, यथा भगवतो वक्षसि लक्ष्मीविभाति, ‘अंmmuyi इति च यथा क्षणमपि भगवद्विरहम् असहमाना सहैव वर्तते, तथैव वागाधिष्ठात्री देवी सरस्वती अस्य जिह्वाप्र सिंहासनासीना नित्यं सन्निधत्त इत्यर्थः । तथाऽपि ज्ञातव्येष्वस्य संशयो महान् अस्तोति, उक्तः सर्वोऽप्यस्य महिमा मुधा जात इति भावः । एवं चतुर्मुखस्य महामहिमत्वेऽपि तेन प्रणीते योगसिद्धान्ते कथितं सर्वं निस्सारं बल्बजञ्चेति रूपकप्रक्रियया विन्यस्थति - BTD इत्यादि । तेननित्यमधीयमानेषु चतुर्ष्वपि वेदेषु प्रतिपादितान् अर्थान् विना यद वान्यदुत्प्रेक्ष्योक्तं, सत्स व प्रशिथिल - निस्तण्डुल-धान्यकणगण कल्पम् - अल्पञ्चेत्यर्थः । ‘ॐ’ इति भाषायां प्रसिद्धम् । तथाच तदुक्तं सर्वं वादे द्वित्रकक्ष्यामप्यधिरोढुम् Lungiii - विनश्यत् । अशक्नुवत् प्रथमपर्वण्येव प्रभग्नप्रायं भविष्यतीति भावः । इति शेषः ॥ ug’ इत्यत्र चतुर्मुखः श्रीमते लक्ष्मी न्रुचिम्ह परप्रह्मणे नम: परमदबङ्गम्-योगचित्तान् दबङ्गादिगारम्-तमिऴ् मॊऴिबॆयर्प्पु।(१९) (पासुरत्तिऩ् करुत्तु) मूवुलगळन्दु तऩ्ऩडियैच् चॆऩ्ऩिक्कु अणि यागच् चूट्टिय सर्व लोक पिताविऩ् नाबीगमलत्तिल् पिऱन्दिरुन्दुम्, इव् योग सिद्धान्तभङ्गाधिकार : ( १९ ) ‘सेच्वरसाङ्ग्यमाऩ इम्मद प्रवर्त्तगर्च् चिऱप्पु” निरीश्वरसाङ्ख्या निराकरिgiri। अनन्तर सेश्वरसाङ्ख्यकी की हैरण्यगर्भ सिद्धान्त की विरुद्ध अविरुद्धांश विभाग की कपिलादि Gur ऒरु समॆऩ्ऱिक्के ५५ अथ वृत्त वत्तिष्यमाणौ घट्टौ सङ्घटयति- निरीश्वरेति वाक्यद्वयेन । सेश्वरसाङ्ख्येति । यद्यपि योगसिद्धान्ते प्रायः साङ्ख्यतन्त्रवदेव तत्त्वकल्पना क्रियते इति तन्निरासादेवैतन्निरा- सोऽपि फलितप्राय एव, तथाऽप्यतेश्वराभ्युपगमादिकतिपयदन्धनदर्शनेनाल्पज्ञाः कतिचन प्रामाण्यमत्र मन्येरन्नित्यधिकाशङ्कानिरासायेदं प्रकरणमारभ्यत इति भावः । तथाच साङ्ख्यवदिदं न प्रतिक्षेप्यमित्याक्षेपः सङ्गतिरिति बोध्यम् । इदश्च योगशास्त्र कृत्स्न प्रमाण$G६२१६००७ – Gou? इत्युत्तरग्रन्थेन स्फुटी भविष्यति । going m♚की इति कीर्तनभङ्ग्या - अनं यथावस्थितेश्वरस्वरूपानङ्गीकारात् सेश्वरसाङ्ख्यमिति नाम ख्यातिमात्रे स्थितमिति द्योत्यते । हिरण्यस्य - हिरण्मयाण्डकोशस्य गर्भभूतः अन्तर्वर्ती हिरण्यगर्भश्चतुर्मुखः । तदुक्तं - ‘तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ’ इति । ‘हिरण्यगर्भो योगस्य वक्ता’ इति तदुक्तसिद्धान्तः योगशास्त्रम् । विरुद्धाविरुद्धांश- विभागळं इति । एतन्मतनिरासस्य पूर्वमतनिरासेनैव फलितत्वात् नात्र किञ्चिन्निराकरणीयम् अवशिष्यत इति उक्तातिदेशेन विरुद्धाविरुद्धांश विवेचनमात्रमत्र क्रियत इत्यर्थः । अत एव शारीरकसूत्रकृदपि ‘एतेन योगः प्रत्युक्तः’ इति साङ्ख्यमतदूषणमेवात्रातिदिदेश ॥ अथातिदेशफलभूतामधिकाशङ्कां तत्परिहारञ्चाह - कपिलादि इति महावाक्येन । ७ ऋषिमात्र इति मात्रपदेन ‘ऋषि प्रसूतं कपिलम्’ इत्युक्तकपिलादिव्यावृत्तिः सिद्धयति । एतादृशवक्तृवैलक्षण्यञ्च तदुक्तमतवैलक्षण्याय भवति । कपिलस्य केवलषित्वादेव हि मन्वादितुल्यतया एककपिलस्मृत्युपादाने मन्वाद्यन्यबहुस्मृति- निरवकाशत्वप्रसङ्गदोषः अन्यस्मृत्यनवकाश दोषप्रसङ्गात्’, ‘इतरेषाञ्चानुपलब्धेः ’ इत्यादिभिः सूतैर्बादरायणेन दर्शितः । चतुर्मुखस्य तु तपोबलसमन्वितत्वेनर्षित्वे तुल्येऽपि ऋष्यपेक्षया अधिकत्वस्यापि सत्त्वेन न तन्मते कपिलमत इव मन्वादिस्मृतिप्रतिबन्दी सम्भवतीति इयमेवाधिकाशङ्काऽवेति भावः ॥ वुलगत्तैप् पडैत्तिरुन्दुम्, तऩ् नाविल् पिरियादु नामङ्गैयाम् सरस्वदि वाऴ्न्दिरुप्पिऩुम् प्रह्मदेवऩ् योगमदत्तिल् उरैत्तदु-वॆऱुम् पदर्त्तनॆल्लैप् पोल् सारमऱ्‌ऱदेयागुम्। ५६ देशिकाशयप्रकाशसहिते परमतभङ्गे जगद्व्यापारविशेषाधिकृत तिमूर्ति प्रथम (@ju, सर्वेश्वर (क औरसपुत्र uii, अव्यवहितशिष्य (iii सकल वेदप्रवर्तनाधिकृत (Cous रुद्रादिकं उभयविधगुरु, ॥। एवं तस्य बहुविधमहिमान्तरश्चाह- जगद्व्यापारेति । ‘त्रिविधां मूर्तिमाविश्य सृष्टिस्थित्यन्तकारिणीम् । ब्रह्म-विष्णु-शिवात्मिकाम् ॥ ’ इति प्रमाणादिति भावः । चतु- र्मुखस्य व्यष्टिसृष्टिकर्तृत्वं पूर्वोक्तरीत्या बोध्यम् । रुद्रस्य संहारकरत्वमपि तथैव । अत्र प्रथमव्यापाराधिकृतचतुर्मुखोक्तयोगशास्त्रस्याप्रमाणत्वे द्वितीयव्यापाराधिकृतनारायणप्रणीत- पञ्चरात्त्रस्यापि तथात्वापत्तिः, अविशेषात् इति प्रतिबन्दी, द्वितीयापेक्षया प्रथमस्य मुख्यत्वेन तस्यैवाप्रामाण्यप्रसङ्गेऽस्य तथात्वं प्रति किमु वक्तव्यमिति कैमुत्यन्यायावतारो वा अभिप्रेतः । नन्वेतादृशसृष्टिव्यापाराधिकृतत्वं नवानां प्रजापतीनामप्यविशिष्टमित्यताह सर्वेश्वर इति । औरसेति । मातुरुदरसम्बन्धं विना, पितुरुदरमानादुत्पत्तिरस्य अहो विचि- वेति भावः । एतेन लम्बोदर विषये ‘मातामहमहाशैलं महस्तदपितामहम् । कारणं जगतां वन्दे कण्ठादुपरि वारणम् इति एवंरीत्या कस्यचित् कवनं प्रत्युक्तम् । तथात्वे प्रमाणा- । भावात् । पुत्रेति । चतुर्मुखस्यानुत्पत्तौ तस्य भगवतोऽपि पुन्नाम्नि नरके नियतः पातो भवेदिव । ‘पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ’ इति हि पुत्रशब्दो निरुच्यते इति भावः ॥ ॥ ,

वेधस औरसपुत्रत्वेऽपि श्वेतकेतोरिव किमन्यस्य सकाशेऽध्ययनम् ? - नेत्याह-अव्य- वहितशिष्य इति । अत्र " यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इति श्रुत्यर्थोऽभिप्रेतः । रुद्रादयो हि चतुर्मुखद्वारा गृह्णन्ति । न तथायमित्यर्थः । अथ चतुर्मुखेण “स्वाध्यायोऽध्येतव्यः” इतिवत् - " अध्यापयीत" इति शास्त्रमप्यनुष्ठितमित्याह सकलवेदेति । अत एव हि चतुर्वेदसमीरण-चतुर-चतुराननत्वं तस्येह क्लृप्तमिति भावः । अथ स्वतुल्यं तृतीये संहारकर्मणि अधिकृतस्य रुद्रस्याप्ययं पितेत्यध्याह - रुद्रादीति । आदिना प्रजापतीनां ग्रहणम् । उभयविधेति । " स हि विद्यातस्तं जनयति । तद् द्वितीयं जन्म" इति विद्यादातुरपि जनकत्वेन परिगणनात् । चतुर्मुखस्य रुद्रादिविषये उभयविधमपि पितृत्वमस्ति कीऴे निरीच्वरवादियाऩ साङ्ग्यऩैच् चाडिऩोम्। पिऱगु “ईच्वरवादि याऩ वेऱॊरु साङ्ग्यऩो इवऩ्?” ऎऩ्ऩलाम् पडियुळ्ळ योग मदस्तऩै युम् मऱुत्तु अदिल् नऩ्ऱु तीदु आराय्गिऱोम्। कबिलर् मुदलाऩोरैप् पोल् वॆऱुम् रुषि मात्रमल्लामल् उलगिऩ् पडैप्पु मुदलिय मुत्तॊऴिल् पुरियुम् मुम्मूर्त्तियरुळ् मुदल्वऩायुम्, सर्वेच्वरऩुक्कु वयिऱ्‌ऱिल् पिऱन्द मगऩायुम्,मुदल् माणाक्कऩायुम्, अगिलवे तक्कलैगळै प्रसारम् सॆय्बवऩायुम्, योगसिद्धान्तभङ्गाधिकारः (१९) सर्वमास्थापकला भगवा दत्तवरा हिरण्यगर्भां - “@ing in Cows anuy” ५७ वेदोक्ततत्वाचारविपर्यास मळाण योगशास्त्र क्रं भ्रप्रमाण D७०५ साहस msung, प्रकृतिपुरुषेश्वरविभागा दिसत्यत्व क्रंm @mamsung, क्लेश कर्माद्यपरामृष्ट, इत्यर्थः । “उत्पादकब्रह्मदातोः गरीयान् ब्रह्मदः पिता ।" इति विद्योपदेष्टृत्वरूपस्य तस्यैवाभ्य- हिततया तन्त्रतः तद्वाचकगुरुशब्देने हो भयोपादानम् । प्रधानं महिमान्तरमप्याह - सर्वमर्या- देति । “मर्यादानाञ्च लोकस्य कर्ता कारयिता च सः ॥” इति श्लोक इहाभिप्रेतः । तत्र भगवतः स्वयं कर्तृत्वं, चतुर्मुखद्वारा कारयितृत्वं चेति विभागो बोध्यः । दत्तवरेति । “प्रसाद- सुमुखः सोऽहं इमं यच्छामि ते वरम् । प्रजाः सृज महामते ।” इति रीत्येत्यर्थः ॥ ॥ एवं वक्तृवैलक्षण्यमुक्त्वाऽथ तदुक्तमतस्य तदाह - वेदोक्तेति । साङ्ख्येन वेदोक्त- प्रकृति-पुरुषतत्त्वयोरङ्गीकारेऽपि प्रधानेश्वरतत्त्वानभ्युपगमात्, वेदोक्तयाग-दानाद्याचारा- ङ्गीकारेऽपि, “ध्यायीत, उपासीत” इत्यादिश्रुतिविहितपरमधर्मभूतभगवद्भजनबहिष्काराच्च तन्मतमर्दनेऽपि, योगतन्त्रे वक्ष्यमाणरीत्या ईश्वर-तत्प्रणिधानादिस्वीकारदर्शनात् नात्र तत्त्वा- चारयोर्मातियाऽपि वेदोक्तविपर्यासः शक्यशङ्क इति भावः । अप्रमाण साहस इति । सहसा कृतं - साहसम् । अनालोच्योक्तमिति यावत् । अत्रानया व्यतिरेकोक्तया तत्प्रामाण्यस्य सार्वत्रिकत्वेन द्रढीकारः फलितः । अन्यथा - " इदं प्रमाणम्” इत्युक्तेः क्वाचित्कप्रामाण्य- विषयत्वेनाप्युपपत्तेः ॥

कानि तानि वेदोक्तानि तत्त्वानि? इत्यत्राह प्रकृतीति । सत्यत्व क्रं murgi इति तन्मिथ्यात्ववादिमा मितव्यावृत्तिः । ईश्वरस्तेन कथं कुत्रा ङ्गीकृतः १ इत्य- वाह - क्लेशकर्मादीति । तथाच पातञ्जलयोगसूत्रम् - “क्लेश-कर्म विपाकाशयैः अपरामृष्टः पुरुषविशेष ईश्वरः” इति । क्लेशाश्च तत्रैवोक्ताः- “अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः” इति । क्लेशयन्ति पुरुषं दुःखीकुर्वन्तीति क्लेशा उच्यन्ते । अविद्या च उत्तरेषामस्मितादीनां सिवऩ् मुदलोरुक्कॆल्लाम् इरु विदत्तिलुम् तन्दैयायुम्, ऎल्ला उलग नियदिगळैयुम् निऱुविऩ श्रीमन् नारायणऩाले वरम् अरुळप्पट्टवऩायुमाऩ मां का - वेद मुऱैप्पडि तत्वम्-आचारम् इवैगळैप् पिऴैयऱप् पेसिय योग मदत्तैत् तवऱु ऎऩ्गै कूडाददालुम्, प्रकृति - पुरुषऩ्-ईच्वरऩ् इवर्गळिऩ् वेऱुबाट्टै उण्मैयिलेये इसैगैयालुम्,‘क्लेसम्, कर्मम् मुदलियऩ अऱ्‌ऱु, ओङ्गारप् पॊरुळाय्-सर्वलोक प्रदम गुरुवागिय B-८ ५८ देशिकाशयप्रकाशसहिते परमतभङ्गे प्रसुप्ततनुविच्छिन्नोदाररूपेणावस्थितानां चतुर्णां क्षेत्रम् उत्पत्तिस्थानं भवति । अविद्या- मूलत्वात् तेषां तन्नाशे नाशाच्च । अस्मितादीनां पुरुषोपतापकत्वाभावदशायां प्रसुप्तत्वम् । अभ्यासयोगेन चित्तजये सत्यपि विश्वामित्रस्य मेनकादर्शन इव स्वल्पसामग्र्यैव क्वचिद् रागोदयदशायां तनुत्वम् । एवमुत्पन्नस्य रागस्य ततोऽप्यधिकभयदर्शनेन विच्छेदे, एवं तत्र उत्पन्नस्य द्वेषस्य कदाचिदधिकरागोत्पत्त्या विच्छेदे च विच्छिन्नत्वम् । एवं रागद्वेषादीनां स्वस्वसहकारिसन्निधौ स्वस्वकार्यकरत्वमुदारता । “अनित्याशुचिदुःखानात्मसु नित्यशुचि- सुखात्मख्यातिरविद्या” इति अविद्यास्वरूपं दर्शितम् । अनित्ये नित्यबुद्धिः, देवा अमरा इति । अशुचौ काये शुचिबुद्धिः ॥ कायस्याशुचित्वञ्च - “स्थानाद्वीजादवष्टम्भान्निष्यन्दान्निधनादपि । कायमाधेय- शौचत्वात् पण्डिता ह्यशुचि विदुः ॥” इति व्यासभाष्ये विवृतम् । विण्मूत्रसङ्कुल मानुदरं स्थानम् । शुक्लशोणिते बीजम् । श्लेष्मादिधातवः अवष्टम्भः । मलादिनिःसरणं निष्यन्दः । निधनं मरणम् । कायस्य स्नानानुलेपनादिना शुचित्वाधानाद् आधेयशौचत्वम् । आगामि दुःख- जनके सुखत्वभ्रमः । अनात्मनि देहेन्द्रियादिष्वहम्प्रत्ययः । ‘दृग्दर्शनशक्त्योरेकात्मतेवास्मिता’ इति सूत्रम् । आत्मतैवेति च पाठान्तरम् । अत्र - राजमार्ताण्डवसौ भोजराज आह - दृक्शक्तिः पुरुषः । दर्शनशक्तिः रजतस्तमोभ्यामनभिभूतः सात्त्विकपरिणामोऽन्तःकरणरूपः । तयोर्भोग्यभोक्तृरूपेण जडाजडरूपेण चात्यन्तभिन्नयोरेकात्मता भ्रमः अस्मितेत्युच्यते” इति । ‘सुखानुशायी रागः दुःखानुशायी द्वेष:’ इति सूत्रम् । सुखानुभवदशायां तदनुषाती तत्सजातीय- सुखसाधनेषु रागो भवति । एवं दुःखानुभवदशायां तदनुसृत्य स्मृततत्कारणवस्तुद्वेषश्च भवतीत्यर्थः ॥ “स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः " इति सूत्रम् । अत्रैवं व्यासभाष्य- वाक्यं दृश्यते - “सर्वस्य प्राणिन एवमात्माशीनित्या भवति - ‘मान भूवं, भूयासम्” इति । नचाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते । सचाय- कृ मभिनिवेशः क्लेशः क्रमेरपि जातमात्रस्येति । ॥। यथा चायमत्यन्तमूढेषु दृश्यते क्लेशः, तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः” इति । ‘आत्माशीः - आत्मनि प्रार्थना’ इति वाचस्पतिः । एवं क्लेशा निरूपिताः । अथ कर्म । तानि त्रिविधानि विहित प्रतिषिद्ध-व्यामिश्र- रूपाणि । अथ विपच्यन्त इति विपाकाः, कर्मफलानीति यावत् । ते च जात्यायुर्भोगाः । जातिर्मनुष्यत्वादिः । आयुः - शतवर्षञ्जीवित्वादिकम् । भोगः - इन्द्रियविषयानुभवादिः ।योगसिद्धान्तभङ्गाधिकार : ( १९ ) ५९ प्रणवप्रतिपाद्यं सर्वलोकगुरु पुरुषा ईश्वरा ढाळा । योग सिद्धान्तविषय पातञ्जक सूत्रभाष्य a “हिरण्यगर्भो योगस्य वक्ता, ढाळी । महाभारतपरिगृहीतLDIT GOT की प्रतिपादिकं @ig योगशास्त्र कृत्स्न (pli प्रमाणLOTS LTT ? कानी- अथाशयः । आफलविपाकात् चित्तभूमौ शेरत इति आशयाः - वासनारूपाः संस्काराः । एवं क्लेशकर्मादिभिरपरामृष्टः - कालत्रयेऽप्यसंस्पृष्टः पुरुषविशेषः - अन्येभ्यः पुरुषेभ्यो विलक्षणः, ईश्वरः - अनाद्यैश्वर्यवान् इति सूत्नार्थः । एवमेव- ‘क्लेशकर्माद्यशेषदोषासंस्पृष्टम् ’ इति गद्यव्याख्याने रहस्यरक्षायामाचार्योक्तिरपि भाव्या ।

एवं पूर्वोक्ततत्त्वाचारयोर्मध्ये ईश्वरतत्त्वाङ्गीकारं तन्मते प्रदर्श्य, अथोपासन- रूपाचाराभ्युपगममपि तन्मते अर्थतो दर्शयति प्रणव प्रतिपाद्य इति । ‘तस्य वाचकः प्रणवः’ इति हि पातञ्जलं सूत्रम् । तथाच वाचस्पति:- “तदनेन प्रबन्धेन भगवान् ईश्वरो दर्शितः । सम्प्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकमाह” इतीदं सूत्रमवतारयामास । तत्प्र- णिधानञ्च - ‘तज्जपस्तदर्थभावनञ्च’ इति सूत्रेण वक्ष्यति । ‘पुरुषविशेष ईश्वर:’ इति पूर्व- सूत्रे ईश्वरप्रस्तावात् ‘तस्य वाचक:’ इत्यत्र तच्छब्देनेश्वरोऽभिधीयते । ‘ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्’ । इति हि ईश्वरप्रणिधानं विहितमिति भावः । अत्र सूत्रे वाचक प्रणव- प्राधान्यकथनेऽपि आर्थं प्राधान्यमीश्वरस्यैवेति दर्शयितुं मूले प्रणवप्रतिपाद्य इत्युक्तम् । अर्थ एव व्यासभाष्ये - ‘वाच्य ईश्वरः प्रणवस्य’ इत्युक्तम् । सर्वलोकगुर्विति । ’ पूर्वेषामपि गुरुः कालेनानवच्छेदात्’ इति योगसूत्रमिहाभिप्रेतम् । ‘यो ब्रह्माणं विदधाति पूर्वम्’ इति चतु- र्मुखादीनां कालपरिच्छेदप्रतीत्या य इत्युक्तसर्वेश्वरस्यैव तदभाव इति कालानवच्छेद- शब्दाभिप्रायः । पातञ्जलेति । एतत्सिद्धान्तानुसारेण पतञ्जलिः सूत्राणि प्रणिनाय । तथाच स्मर्यते- “योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन । योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलि प्राञ्जलिरानतोऽस्मि ॥” इति । व्यासदेवाख्येन केनचिन्महात्मना तेषां प्रौढावगाढं भाष्यमभाषि । बादरायणो वेदव्यास एवात्र भाष्यकृदित्यपि केचिन्मन्यन्ते । तत्त्रौचित्यं मृग्यम् । महाभारतपरिग्रहमपि शास्त्रस्य तस्य विशेषमाह - हिरण्यगर्भ इति । पुरातनः” इति भारतस्थं वचनम् । याज्ञवल्क्यवचनमिति वाचस्पतिराह । कृत्स्न ॥॥ ॥ नान्यः प्रमाण इति । तथाच विरुद्धाविरुद्धांश विभाग १। इत्यधिकारा- पुरुषोत्तमऩे ईसऩ्’ ऎऩ्ऱु इम्मदत्तिऱ्‌कु सूत्रमियऱ्‌ऱिय पदञ्जलियुम् पाष्यमिट्ट व्यासरुम् करुदुवदालुम्, महाबारदत्तिल्-“हिरण्यगर्बऩ् त ६० देशिकाशयप्रकाशसहिते परमतभङ्गे “बहवः पुरुषा राजन् साङ्ख्ययोगविचारिणः” इत्यादिना “ LI QUẢ ५ % Il GÓT ६) LI५६०L, GoQLIE क्षेत्रज्ञ दस्तोत्तर। ! ।” हिरण्यगर्भ कं परमपुरुष सङ्कल्पानुगुणLDIT & भ्रमादिकना GST, रम्भोक्तिः कथम् इति तात्पर्यम् । समाधत्ते - इति । दत्तोत्तर इति । भारतेनैवेति शेषः । अयञ्चार्थः भगवच्छास्त्रविरोधभङ्गाधिकारे-“साङ्ख्ययोग २ ० प्रशंसिॐ Biguji- “बहवः पुरुषा राजन्! साङ्ख्ययोगविचारिणः । नैनं इच्छन्ति पुरुषं एकं तं गुरुकुलोद्वह । समासेन तु यद् व्यासः पुरुषैकात्म्यमुक्तवान् । तत् तेऽहं सम्प्रवक्ष्यामि प्रसादात् अमितौजसः ॥” इत्यादिना साङ्ख्ययोग व्यासमतविरुद्धांशळं २६००७६ GT Gं इति वक्ष्यते । तत्रैवैतद्विस्तरो भविष्यति । तथाच विरुद्ध- अविरुद्धांश विभागः कार्य एवेत्याशयः ॥ दत्त- इत्य- अथ योगसिद्धान्ते वेदविरुद्धांशसद्भावमुद्भावयिष्यन् प्रथमं - “भगवा वरण” इत्युक्तां कर्तृप्रशस्ति निरस्यति-क्षेत्रज्ञ इत्यादिना Gog न्तेन । क्षेत्रज्ञः - गुणत्रयमयशरीरवान् जीवः । इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥” इत्युक्तेः । हिरण्यगर्भस्य क्षेत्रज्ञान्तर्भावश्च- “आ- ब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥” इत्यादि- प्रमाणसिद्धः । अत्र आब्रह्मेत्याङ् अभिविध्यर्थकः, ब्रह्माणमभिव्याप्येति । नचात्त्राङ् मर्या- दार्थक एवास्तु,‘आङ्-मर्यादाभिविध्योः ‘इत्युभयत्र तद्विधानात् । ततश्च तं विनाऽन्येषामेव कर्म- वश्यत्वसिद्धिरिति वाच्यम् । उपरि स्तम्बपर्यन्त शब्देनोत्तराभिविधिकीर्तनात् पूर्वमपि आब्रह्मेत्यत्र पूर्वाभिविधेरेव विवक्षणीयत्वोपपत्तेः । हिरण्यगर्भेत्यप्येतदभिप्रायमेव । अण्ड- मध्यस्थत्वेन जगदन्तर्वर्तित्वसूचनात् । एवञ्चाभ्यां पदाभ्यां चतुर्मुखस्य कर्मवश्यत्वकथनेन भगवतश्चतुर्मुखादिभ्रम हेतुत्वे द्वारलाभः । अन्यथा तस्य वैषम्यनैर्घृण्यादिदोषप्रसक्तेः । परम- पुरुषेति । “मत्तः स्मृतिर्ज्ञानमपोहनञ्च” इति तत्तदधिकारिषु ज्ञानाज्ञानादीनां तत्तदीय- कर्मानुगुणपरमपुरुषेच्छाधीनतया, विशिष्य हिरण्यगर्भस्य “यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।” इति गुणत्रयोन्मेष कृत भ्रमप्रमातादिप्रतिपादनाच्च न कर्तृप्रशस्तिरिति भावः । भ्रमादीत्यादिना विप्रलिप्सादिग्रहणम् ॥ योग शास्त्रम् सॆय्दाऩ्" ऎऩ्ऱु ओदप्पट्ट पॆरुमैयुडैय इन्द योग मदम् मुऴुवदुम् प्रमाणमाग वेण्डावो? ऎऩ्ऩिल्- योगसिद्धान्तभङ्गाधिकार : ( १९ ) ६१ प्रकृतिपुरुषशरीरक (०६० परमात्मा कण्ठ जगदुपादानत्वा उपपन्न। To ml वेदान्तस्थापितार्थविरुद्ध LOIT ५ केवलनिमितेश्वरपक्ष कुं परिग्रहि कङ्ग, ईश्वरला काळा क्रियाशक्तिविक्षेपरहित तैIT साङ्ख्य- पुरुष [LLING निव्यापार सन्निधिमात्रोपकारकळा Tugjo अथ पूर्व “वेदोक्ततत्त्वाचारविपर्यास अ” इत्युक्तं प्रतिवक्तुं प्रथमं तत्त्वविप- र्यासं दर्शयन् वेदविरोधं व्यञ्जयति प्रकृतिपुरुषेति । प्रकृतिपुरुषयोर्ब्रह्मशरीरत्वं अन्तर्यामि- ब्राह्मणसिद्धम् । तच्छरीरकस्य परमात्मनो जगदुपादानत्वञ्च “सदेव सोम्येदमग्र आसीत्”, “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” इति श्रति-सूत्राभ्याम् प्रतिपन्नम् । ततश्चेश्वरस्य केवल- जगन्निमित्तत्वं तद्विरुद्धमित्याशयः । यद्यपि केवलनिमित्तत्वमीश्वरस्य योगशास्त्रे न क्वापि कण्ठोक्तम् । तथाऽपि तत्र तस्य वैशेषिकादिवदानुमानिकत्व स्वीकारात् वक्ष्यमाणदिशा साङ्ख्यादिवत् सन्निधिमात्रोपकारकत्व - योगसिद्धैश्वर्यादिस्वीकाराच्च जगन्निमित्तत्वमेव तस्य तदभिमतमिति भावः । लोकसिद्धव्याप्तिकं ईश्वरानुमानञ्च लोकवत् तस्य केवलनिमित्तत्व- मेव हि बोधयेत् । न तु निमित्तोपादानयोरैक्यम् । तथा लोकेऽदर्शनात् इति । ईश्वरानुमानश्च “तत्र निरतिशयं, सार्वश्यबीजम्” इति सूत्रे व्यासभाष्ये एवमूचे - “अस्ति काष्ठाप्राप्तिः सा- र्वश्यबीजस्य, सातिशयत्वात्, परिमाणवत्” इति । यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेषः" इति ॥ एवमीश्वरविषय एव विपर्यासान्तरमपि विशदयति ईश्वरका का इति । ईश्वरश्चेत्यर्थः । क्रियाशक्तिविक्षेपरहिततेति । अयं भावः - “स्वाभाविकी ज्ञानबलक्रिया च”, “सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यम लुप्तशक्तिः । अनन्तशक्तिश्च विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥” (वायुपुराणम्) इत्यादिप्रमाणगणेनेश्वरस्य क्रिया । शक्तयभ्यु- पगमेऽपि, तस्याः कार्योपधायकत्वरूपो विक्षेपो नाङ्गीकार्यः । तथा सति तस्य सव्यापारत्व- प्रसङ्गात् । नचायमिष्टः प्रसङ्गः । व्यापारस्य रागपूर्वकत्वावश्यम्भावात् रागस्य च क्लेश- विशेषत्वेनेश्वरस्य क्लेशाद्यसंसृष्टत्वहानेः । अतः स साङ्ख्यतन्त्रे पुरुष इव सन्निधिमात्रेण प्रकृत्यादिभ्य उपकरोतीति । इदश्च विज्ञानभिक्षुकृतविवृतौ विशेषतो द्रष्टव्यम् ॥ इक्केळ्वियुम्-अङ्गेये मेले-“पलर् साङ्ग्य योग शास्त्रङ् गळै विमर्चित्तुळ्ळऩर्। (इवर्गळ् परम पुरुषऩिऩ् उण्मैयै व्यास् भगवाऩैप् पोलक् कण्डिलर्)” ऎऩ्ऱु कूऱुगैयाल् मऱुक्कप्पट्टदायिऱ्‌ऱु। संसारत्तिल् कट्टुण्डवर्गळिल् ऒरुवऩागिय सदुर्मुगऩुक्कु ईच्वर सङ्कल्पा तीनमाग मयक्कम् मुदलिय मदिगेडु कूडुगैयालुम्, प्रकृति-जीवर् कळैच् चरीरमागक् कॊण्ड-अन्तरात्मावाऩ भगवाऩुक्कु जगत् उबादान ६२ देशिकाशयप्रकाशसहिते परमतभङ्गे शु “योगी च काक्वा प्रतिफलन मिवैश्वर्यमूचे कयाचित् ’’ ६७ की mig Gu ऐश्वर्यó उपाधिविशेषप्रयुक्त ं suing, तत्वसृष्टिक्रमकान्नी महाकाल अहङ्कार तन्मात्र का विशेषण, अहङ्कारलं काळं एकादशेन्द्रियाणां विशेष कनां तन्मात्रै कलकण्ठ पञ्चभूतानां रिसऩङ्गळ् ऎऩ्ऱाप् पोले सॊल्लुमवै ईश्वराभ्युपगमेऽन्यमपि वक्रिमाणं व्यनक्ति-योगी चेति । एतच्छ्लोकार्थः पूर्वाधिकार एव प्रसङ्गात् विवृतो द्रष्टव्यः । उपाधि विशेषप्रयुक्तेति । साङ्ख्यमत इव मुखाद्याभिमुख्योपाधिक- दर्पणच्छायान्यायेन प्रकृतौ पुरुषाभिमुख्योपाधिकत्वात् ज्ञानाद्यैश्वर्याणां अन्तःकरणधर्मत्वेन ईश्वरस्वभावत्वानऊगीकारादित्याशयः । तथाच ‘क्लेशकर्मे ‘ति सूत्रे वाचस्पतिरुवाच- ‘प्रकृष्ट- सत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः” इति भाष्यवाक्यमुपादाय - “नेश्वरस्य पृथग्जन- स्येवाविद्यानिबन्धनश्चित्तसत्त्वेन स्वस्वामिभावः । किन्तु तापत्रयातुरान् प्रेत्यभावमहार्णवा- ज्जन्तून् उद्धरिष्यामि ज्ञानधर्मोपदेशेन इति । न च ज्ञानक्रियातिशयसम्पत्तिमन्तरेण तदुपदेशः । न चेयं अपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विनेत्यालोच्य सत्त्वप्रकर्षमुपादत्ते भगवान् अपरामृष्टोऽप्यविद्यया । अविद्याभिमानी चाविद्यायास्तत्त्वमविद्वान् भवति, न पुनरविद्यां अविद्यात्वेन सेवमानः । न खलु शैलूषो रामत्वमारोप्य तास्ताश्चेष्टा दर्शयन् भ्रान्तो भवति, तदिदं अस्य आहार्यं रूपं न तात्त्विकम् इति’ इति ॥ एवं परतत्त्वप्रक्रियाविरोधं प्रदर्श्य, अवरतत्त्वसृष्टिक्रमविरोध मपि दर्शयति तवसृष्टीति । विशेष - विकृतयः । प्रकृतिर्हि सर्वविकाराणां सामान्यं द्रव्यम् । तदुक्तं - ‘विशेषाविशेषलिङमात्रालिङ्गानि गुणपर्वाणि’ इति सूत्रमणिप्रभावृत्तौ “अहङ्कारात् पञ्चतन्मा- वाणि इति साङ्ख्याः । अहङ्कारस्यानुजाः बुद्धेरपध्यानि तन्मात्राणि इति योगाः । तत्र पञ्च तन्मात्राणि शब्दस्पर्शरूपरसगन्धाख्यानि स्थूलभूतानां प्रकृतयः । अहङ्कारः सत्त्वेन रजसा उभयेन च ज्ञानकर्मेन्द्रियमनसां प्रकृतिः” इत्यादिः । run इत्यनेन एवं योगैरुक्तमन्यदपि उपेक्षणीयतया उपलक्षणीयमिति ज्ञाप्यते ॥

कारणत्तऩ्मै अमैयुम् ऎऩ्ऱु उपनिषत्तुक्कळ् उत्कोषिया निऱ्‌क, अदऱ्‌कु माऱुबट्टु, ईसऩ् वॆऱुम् निमित्त कारणमे ऎऩ्ऱु सॊल्लिप् पोरु वदालुम् ईसऩ् क्रिया सक्ति पॆऱ्‌ऱिरुन्दुम् अदैच् चॆलवु सॆय्यमाट्टादाऩ् ऒरुवऩागैयाले साङ्ग्यर्क्कुप् पोले सॆयलऱ्‌ऱु, तऩ् सन्निदानमात्रत् ताले उपयोगप् पडुबवऩ् ऎऩ्गैयालुम्, “योग चित्तान्दक्कारऩ् ऒरु वगैयिले ईसऩिऩ् ऐच्वर्यत्तै ओर् तोऱ्‌ऱम् पोल वर्णिक्किऱाऩ्” ऎऩ्ऱ पडियिल् अवऩुडैय महिमावै ओर् कारण मूलमाय् वन्ददाग ऒप्पुव क्लिष्टनि अऱ्‌ऱु योग सिद्धान्तभङ्गाधिकारः (१९) ६३ murgळं, मोक्षोपायDITS विधि योग श्रीनग्रा परमपुरुषाराधनत्वविवक्षै तथाहि - एतन्मते वैशेषिकादिवत् आनुमानिकेश्वराङ्गीकारात् तद्वदेव वेदस्येश्व रो- च्चरितत्वेनैव प्रामाण्यम् । तदुक्तं ‘क्लेशकर्मे’ ति सूत्रे राजमार्ताण्डवृत्तौ “वेदोऽपि निरतिशयज्ञा- नशक्तिविशिष्टेश्वरप्रणीतः । अतः प्रमाणमिति सङ्क्षेप’ इति । साङ्ख्यस्य तु मते ईश्व रानङ्गीकारत् न तदुक्ततया प्रामाण्यम्; किन्तु वेदान्तिनामिव स्वत एव । इयांस्तु विशेषः- साङ्ख्यस्य मते वेदापौरुषेयत्वेऽपि सोऽनित्यः । वेदान्तिनां तु नित्यः । ननु साङ्ख्यमतेऽपि वेदस्या पौरुषेयत्वेन नित्यत्वमेव प्राप्नोति इति चेन्न । ‘नापौरुषेयत्वान्नित्यत्वं अङ्कुरादिवत्’ इति साङ्ख्यसूत्रानुसारेण पुरुषविशेषनिर्मितस्यापि अङ्कुरस्योत्पत्तिमत्त्वदर्शनेनानित्यत्ववत्, ‘तस्मात् सेऽपानात् त्रयो वेदा अजायन्त’ इत्यादिश्रुत्या वेदस्योत्पत्त्यादिप्रतीतेरनित्यत्वस्यावश्यकत्वात् । क्लिष्टनिर्षाहेति । ‘तन्मात्राणि भूतादी लीयन्ते’ इत्यादिना तन्मात्राणां तामसाहङ्कारे लय- श्रवणात् लयस्थानस्यैवोत्पत्ति प्रत्यपि तथात्वात् तयोर्भेदकल्पनस्य क्लिष्टत्वादित्यर्थः । एवं वेदस्यानित्यत्वे - ‘वाचा विरूप नित्यया’ इत्यादिवाक्यानी क्लिष्टनिर्वाहत्वमपि बोध्यम् । वेदोत्पत्तिश्रुतिश्च तदाविर्भावपरतयाऽप्युपपद्यत इति भावः । एवं तत्कृतं तत्त्वविषयकविप्लवं वरीकृत्य, अथाचारविप्लवमपि विशदयति - मोक्षोपायेति । योगः - अष्टाङ्गसहितः अङ्गिभूतः समाधिः । यद्यपि यमनियमाद्यष्टाङ्ग- वर्गे अष्टमः समाधिरिति तस्याप्यङ्गत्वमेव प्रतिभाति, नाङ्गित्वम् । तथाऽपि तस्मिन् सबीज-निर्बीज समाधिभेदभिन्ने, प्रथमद्वितीययोर्यथाक्रमं अङ्गत्वाङ्गित्वाभ्यामुभयविधव्यव- हारोपपत्तिरिति । आराधनत्वविवक्षै इति । योगसूत्रकृतः योगे परमपुरुषाराधनता- कारतात्पयं नास्ति इत्यर्थः । अयमभिसन्धिः - पूर्वं ‘योगश्चित्तवृत्तिनिरोधः’ इति योगं लक्षयित्वा तदनन्तरं, ’ तदवस्थे चेतसि विषयाभावात् बुद्धिबोधात्मा पुरुषः किस्वभावः स्यात् !’ इत्याक्षिप्य समाधीयते - ‘तदा द्रष्टुः स्वरूपेऽवस्थानम्’ इति । ‘स्वरूपप्रतिष्ठा तदा चितिशक्तिः यथा कैवल्य’ इति तदर्थो व्यासभाष्ये वर्णितः । तथा च समाधेः केवलं स्वात्मचिन्तनरूपतया ईश्वरविषयकत्वाभावात् तदाराधनरूपत्वं परित्यक्तमिति ॥ तालुम्, महान् ऎऩ्ऱुम् तत्वत्तिऱ्‌कु अहङ्कारम् तन्मात्तिरैगळ् ऎऩ्ऱु आऱु कार्यङ्गळ्, अहङ्कारत्तुक्कु पदिऩोरु इन्दिरियङ्गळ्, तन्मात्तिरै कळुक्कु ऐम्बूदङ्गळ् कार्यङ्गळ् ऎऩ्ऱाप् पोले सॊल्लुवदॆल्लाम् सुगमे निर्वहिक्क अरियऩ आगैयालुम् मोक्ष उपायमाऩ योगत्तै ६४ देशिकाशयप्रकाशसहिते परमतभङ्गे प्रत्यगात्मदर्शनप्रधान DTS BLsrgoglio, आत्मकैवश्य मात्र GLD मोक्षा Tim ॥ “एतेन योगः प्रत्युक्तः " की Dug Gu वेदविरुद्धांशी योगदर्शन pii अनादरणीय। ननु " ईश्वरप्रणिधानाद्वा” इति सूत्रेण परमपुरुषचिन्तनस्यापि मोक्षोपायतया तैर- ङ्गीकारात् न पूर्वोक्तं युक्तमित्यत्राह - प्रत्यगात्मदर्शनेति । एतदुक्तं भवति - नाव मोक्षो- पायता ईश्वरप्रणिधानस्याङ्गीक्रियते । किन्तु तदुपायोपायत्वमेव । तदुपायश्वोक्तः समाधि- रेव । तथैव हि सम्पूर्ण सूत्रं पठ्यते - “समाधिसिद्धिरीश्वरप्रणिधानाद्वा” इति । भाष्यकृता चैवं अवतार्येदं सूत्रं व्याख्यायते - “किमेतस्मादेवास न्नतमः समाधिर्भवति । अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो नवेति । ईश्वरप्रणिधानाद्वा । प्रणिधानाद् भक्तिविशेषात् आवर्जित ईश्वरस्तमनुगृह्णाति अभिध्यानमात्रेण । तदभिध्यानमात्त्रादपि योगिन आसन्नतम: समाधिलाभः” इति । सूत्रे वाकार एवकारार्थकः सन् संशयं निवर्तयति । ईश्वरप्रणिधानस्य साक्षान्मोक्षोपायभूतसमाधिं प्रत्युपायत्वमपि न धारणादिवन्मुख्यम् । किन्तु अप्रधानमेव । तथाच वाचस्पतिराह - “ईश्वरप्रणिधानमपि ईश्वरविषयं, न सम्प्रज्ञेयगोचरमिति समाधि प्रति बहिरङ्गमेव, धारणादित्रयं तु समानविषयमित्यन्तरङ्गम्” इति । " तदपि बहिरङ्ग निर्बीजस्य” इति सूद्रव्याख्यायामप्ययमर्थः वाचस्पतिना दर्शितः । तथाचेश्वरप्रणिधानस्य अत्यन्तमप्रधानतया प्रत्यगात्मदर्शनस्यैव प्रधानता एतत्सिद्धान्त इति ॥ पूर्वं “तत्त्वाचारविपर्यास अ” इत्यत्र तत्त्वाचारपदाभ्यां प्रधानस्वरूपोपाययोः विवक्षिततया तयोर्विषये वक्तव्यमुक्त्वा, अथावशिष्टपुरुषार्थविषयेऽपि विपर्यासं सूचयति- आत्मकैवल्येति । तदुक्तं योगसूत्रे - ‘पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिष्ठा वा चितिशक्तेरिति" इति । तदर्थस्तु - “कृतकरणीयतया पुरुषार्थशून्यानां कार्यकारणात्म- कानां गुणानां यः प्रतिप्रसवः - स्वकारणे प्रधाने लयः, तत् कैवल्यमिति । यं कञ्चित् पुरुषं प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा वा पुरुषस्य मोक्ष इति” इति च । मात्रपदेन मोक्षे ब्रह्मानु- भवव्यवच्छेदः । योगसूत्रे विरुद्धांशसद्भावः व्यासेन ब्रह्मसूत्रे सूचित इत्याह- एतेन योग इति । साङ्ख्यप्रत्याख्यानेन योगसिद्धान्तोऽपि प्रत्याख्यातो भाव्य इति सूत्रार्थः । वेदविरुद्धेति । अत्र मते उक्तानां सर्वेषां अर्थानां यथा वेदविरोधोऽस्ति तथाऽऽकरादौ द्रष्टव्यः ॥ परम पुरुष समारादगमागक् कॊळ्ळामल् मुक्यमाग जीवदत्व विषयम् ऎऩ्ऱु कट्टुगैयालुम्, जीवसमादिये कैवल्य निलैक्कुक् कारणम् ऎऩ्ऱु काट्टुगैयालुम्, ‘इदऩाल् योगमुम् तलै साय्न्ददु" ऎऩ्ऱु वेदान्द शास्त्रम् कूऱुम् पडियिल्, इच् चास्त्रम् वेद विरुत्त विषयत्तिल् विरुम् पत्तक्कदऩ्ऱु। योग सिद्धान्तभङ्गाधिकारः (१९) ‘महाबारदम् कूऱियदिऩ् करुत्तुम् कबिलादिगळिऩ् करुत्तुम् " महाभारतोपादानमात्र कपिलादिक (कण्ठ Gur विरुद्धांशशोधन सह -यदिकं वेदविरुद्धान्नी तात्पर्य Div। ‘साङ्ख्ययोगबिचारिण: ’ नळी LL प्रवर्तकां वृथानिर्बन्ध ६० of जा। ६५ कपिल हिरण्य- www तर्हि “हिरण्यगर्भो योगस्य वक्ता” इति महाभारते तदुपादानं कथं घटते? आप्त- स्यैव हि ग्राह्यवचसस्तथोपादातव्यत्वमित्यवाह - महाभारतेति । उपादानमात्रमिति । तत्प्रशं सादिपरत्वं व्यवच्छिद्यते । कपिलादीत्यादिना कपिलवन्महाभारतोपात्तरुद्रादीनां ग्रहणम् । “साङ्ख्यस्य वक्ता कपिलः”, “उक्तवानिदमव्यग्रं शैवं पाशुपतं शिवः ।" इत्युक्तेः । विरुद्वांश- शोधन सहमिति । तथाच मोक्षधर्मे निष्ठानिर्णयाध्याये “साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा । किमेधान्येक निष्ठानि पृथनिष्ठानि वा ? मुने ॥” इति विचार्य साङ्ख्ययोग- पाशुपतादिषु विरुद्धार्थानामनादर्तव्यत्वमुक्तम् । साङ्ख्य माध्योपात्ते “अक्षपादप्रणीते च काणादे साङ्ख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोऽंशः श्रुत्येकशरणैर्नृभिः ॥” इति पराशरोप पुराण- वचनेऽपीदं भाव्यम् ॥

अथ ‘ऋषि प्रसूतं कपिलं’, ‘यो ब्रह्माणं विदधाति’ इत्यादिश्रुतिपुराणादिसंस्तुताना कपिल हिरण्यगर्भादीनां न मनागपि वेदविरुद्धांशे तात्पर्यं सम्भावनीयम् । तत्तत्तन्त्रेषूपलभ्य- मानस्तत्त्वाचारविप्लवस्तु अर्वाचीन व्याख्यात्रपराधमात्रविजृम्भितः । अत एव हि - ‘बहव: पुरुषा राजन् ! साङ्ख्ययोगविचारिणः । नैत इच्छन्ति पुरुषमेकं गुरुकुलोद्वह ।’ इति तत्तन्मत- विचारयितृणामेव परमपुरुषाङ्गीकारपराङ्मुखतोच्यते । नतु तत्तन्मतकर्तॄणां कपिलादीनाम् । एषां चायं वृधानिर्बन्धो न कपिलादिषु सम्बध्नाति इति कल्पान्तरमाह- कपिलहिरण्यगर्भा- दीति । तर्हि तत्र केषां तात्पर्यमित्यत्राह - साङ्ख्ययोगेति । प्रवर्तक तत्तन्मतस्य पश्चात्काले अनुष्ठान-ग्रन्थविरचनादिभिः प्रवर्तकाः- भाष्यवृत्तिकृदादयः । वृथा निर्बन्धः क्लिष्टं वेदविरुद्धां- शतात्पर्य कल्पनम् । अत्र - ‘वृथानिर्बन्ध गणीलान्ना भला’ इति,॥॥

महाबारदत्तिल् इडम् पॆऱ्‌ऱालुम् कबिलादिगळुक्कुप् पोले वेद विरुत्तक् करुत्तु इरुक्कलाम्। कबिलर्, हिरण्यगर्बर् मुदलियोरुक्कु वेद विरुत्तमाऩ करुत्तु किडैयादु। साङ्ग्य योग विसारगर्गळ् ऎऩ्ऩप्पट्ट वर्गळ् वीणे वेद विरुत्तमाग निर्बन्दित्तुप् पेसिऩर्। आग कबिलादि कळुक्कुप् पिऩ् वन्द अन्द प्रसारगर्गळिऩ् क्रन्दङ्गळे तळ्ळत्तक्कवै ऎऩ्ऩवुमाम्। B-९ ६६ देशिकाशयप्रकाश सहिते परमतभङ्गे अन्य कण्ठी नाना प्रवर्तकग्रन्थानां उपेक्षणीय / निर्विवादम् कारणऩाय् उलगळिक्कुम् कण्णऩ् तेसै कण्णाडि निऴल् पोलक् काण्गैयालुम् तारणैयिऩ् मुडिवाऩ समादि तऩ्ऩैत् तऩक्केऱ्‌ऱुम् विळक्कॆऩ्ऱु तऩिक्कैयालुम्

इत्यादयोऽपपाठाः । ‘साङ्ख्ययोगविचारिणः’ इत्युपात्तवचनविप्रतीपत्वात् । तत्र हि ‘नैत इच्छन्ति पुरुषम्’ इति प्रवर्तकानां वृथा निर्बन्ध एवोच्यते । किन्तु ॥।LIGöग oেf sir’ इत्येव पाठः । एवञ्च सति पश्चात्तनानां दुस्तात्पर्यवत्त्वेन फलितार्थमाह - श्रन्यान्ना कङ्क इति । कपिलहिरण्यगर्भादीनामित्यर्थः । अत्र व्यवहितवाक्योपात्तत्वेऽपि औचित्यात् तच्छब्देन तेषामेव परामर्शो भाव्यः । नतु समनन्तरवाक्य प्रस्तुततत्तन्मतप्रवर्तकानाम् ; प्रकरणतात्पर्यविरोधात् । ‘कङ्गना प्रवर्तकेति’ स्ववाक्य सन्दर्भविरो- धाच्च । निर्विवाद इति । इदानीं परिदृश्यमानतत्तद्ग्रन्थेषु उपेक्षणीयांशः मयेव त्वयाऽपि हि स्वीकृतः । अन्यथा उत्तरोत्तरवादप्रतिवादपरम्पराया अनुत्थानेन जगदेव जोषम्भावं भजेतेति निर्विवादमेतदिति भावः ॥ ६६ अथाधिकारारम्भगाधायां व ण्

“मऱैयिल् पावित्तदऩ्ऱि उरैप्पदु uriou♚ना” इति सामान्येनोक्तं वेदविरोधम् इदानीं प्रपञ्चयति कारणऩाय् इति गाधया । जगत्कारणतया तन्निर्वाहकस्येत्यर्थः । का वा छङ्ग - नेत्रवत् निर्वाहकः । STROTHY २४] “८५६००७ (६००) GUIT GOTT ROOT OUT”:; इदं ज्ञानशक्तयादीनामप्युपलक्षणम् । ८५६००७ (६००)१४ इति । इदञ्च पूर्व - ‘योगी च काक्वा प्रतिफलनमिवैश्वर्यमूचे कयाचिद्’ इत्यत्रोक्तम् । अनेन तत्त्वविषयविपर्यासोऽदशि । कृपाल FLDIT की इति । धारणा हि ध्यानद्वारा समाधौ पर्यवस्यति । एतेन - ’ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि’ इत्युक्तयोगाङ्गेषु धारणादीनां त्रयाणां एकसम्पुटत्वेन तत्तन्त्रे - " त्रयमेकत्र संयमः” इत्युक्तसंयमसञ्ज्ञकत्व- मिहापि सूचितं भवति । तथाच योगसूत्रवृत्तिः " इह कानिचित् समाधेः साक्षादुपकारकत्वेन अन्तरङ्गाण्यङ्गानि यथा धारणादीनि । कानिचित् प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधेरुपकुर्वन्ति । यथा यमनियमादीनि । तत्नासनादीनां उत्तरोत्तरं उपकारकत्वम् । यथा- “सति आसनजये प्राणायामस्थैर्यम् । एवमुत्तरनापि ज्ञेयम् ।" इति । यमादीनां स्वरूपविवेका- दिकमपि तत एवाधिगन्तव्यम् ॥
(१९) ६७ कारणमामदु तऩक्कुप् पयऩाम् सीवऩ् कैवलिय निलैयॆऩ्ऱु कणिक्कैयालुम् कोरणियिऩ् कोलमॆऩक् कुऱिक्कलागुम् कोगऩदत्तयऩ् कूऱुम् समयक् कूऱ्‌ऱे। इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्- वेदान्ताचार्यस्य कृतिषु परमतभङ्गे योगसिद्धान्तभङ्गाधिकारः एकोनविंशः सम्पूर्णः ॥ अत्रायमाचार्याणां सङ्ग्रहश्लोकः शरणागतिदीपिकायाम् - “योग्यं यमैश्च नियमैश्व विधाय चित्तं सन्तो जितासनतया स्ववशासुवर्गाः । प्रत्याहृतेन्द्रियगणाः स्थिरधारणास्त्वां ध्यात्वा समाधियुगलेन विलोकयन्ति ॥” इति । सालम्बन-निरालम्बनरूपेण समाधिद्वैविध्यमपि तत्रैव विशदीचक्रे - “पद्माभिरामवदने क्षणपाणिपादं दिव्यायुधाभरणमाल्यविलेपनं त्वाम् । योगेन नाथ! शुभमाश्रयमात्मवन्तः सालम्बनेन परिचिन्त्य न यान्ति तृप्तिम् ॥ मानातिलङ्घि- सुखबोधमहाम्बुराशौ मग्नाः तिसीमरहिते भवतः स्वरूपे । तापत्रयेण विहति न भजन्ति भूयः संसारधर्मजनितेन समाधिमन्तः ॥ " इति । समाधिमन्तः- निरालम्बनसमाधिमन्तः । पूर्व- श्लोके एव सालम्बनस्य तस्योक्तेः । अत्रालम्बनशब्देन भगवत्स्वरूपव्यतिरिक्तरूपविभूत्या- दीनां विषयाणां ग्रहणम् । तेन निरालम्बनसमाधेः भगवत्स्वरूपमात्र गोचरत्वेऽपि न तथात्व- व्याघातः । न तु निरालम्बनत्वं सर्वथा निर्विषयत्वम् । तथाविधज्ञानविशेषसद्भावे प्रमाण- लेशानुपलब्धेः । अनयोरेव सम्प्रज्ञात असम्प्रज्ञात, - सबीज-निर्बीजशब्दैः व्यवहारोऽपि तत अळवु : ; पुरि ॥ (पासुरक् करुत्तु) कारणऩाय् उलळिक्कुम् कण्णऩ् पडिगळै क वॆऱुम् कण्णाडि निऴल् पोल पाविक्कैयालुम्, तारणै ऎऩ्ऩुम् योग नूलेणिक्कु मुडिवु माडमागिय समादियोगत्तै जीवऩाऩ तऩक्कु एऱ्‌ऱुम् विळक्काग (अदावदु जीवऩागिय तऩ्ऩैप् पऱ्‌ऱियदाग), स्ताबित्तुप् पिरिप्पदालुम्, मोक्ष कारणमागिय अन्द समादियोगत्तिऱ्‌कु जीवऩुडैय कैवल्य सुगमे पयऩ् ऎऩ्गैयालुम्, सदुर्मुगऩ् कूऱुम् समयक् कूऱ्‌ऱु कोमाळिक् कूत्तिऩ् कोलमे ऎऩ्ऱु कूऱिविडत् तक्कदागुम्। परमदबङ्गत्तिल् योग चित्तान्द पङ्गादिगारम् तमिऴ् मॊऴिबॆयर्प्पु मुऱ्‌ऱुम्। ६८ देशिकाशयप्रकाशसहिते परमतभङ्गे कृष्णकण्ठ न्र♚mळं इत्यादि । स्वस्वरूपप्रकाशनमानार्थे आरोपित दीपतुल्यतया समाधेः स्वस्वरूपमातविषयकत्वक्लृप्त्येत्यर्थः । ग्रनीळ – पृथक्करणम् । एतेनाचार- विषयविप्लवोऽपि दर्शितः । ५७ Gor Laris भय कृष्ण कण्ठ इति । परमपुरुषानुभवरूप- मोक्षकारणभूतस्य तस्य समाधेरित्यर्थः । इदञ्च विशेषणं वक्ष्यमाणकैवल्यमात्र फल- कत्वे विरोधस्फोरकम् । २- जीवस्य स्वरूपेणावस्थानम् । कटनीकं - गणनम् । अनेन पुरुषार्थविषयेऽपि विपर्यासः पर्यवसितः । Gaणा इत्यादि । विदूषकविडम्बनतुल्येत्यर्थः । नलम् । इति भाषायाम् । तस्य सामाजिकमोह- नार्थत्ववत् अस्यापि मन्दमतिव्यामोहनार्थत्वादिति भावः । Gur - अब्जयोनिः पितामहः । Dung तन्मतोक्तिः ॥ नाभिजातचतुराननोदितं नाभिजात जनसम्मतं मतम् । येऽभिजात विबुधीयसम्पदः तेऽभिजाग्रति विहाय दूरतः ॥ १ ॥ प्रथमजोऽपि विभोविन्दधत् प्रजा अपि चतुर्वदनेरितवेदवा । अपिच, तुल्यतया कपिलादिना विधिरहो अभजन्मतिमन्दताम् ॥ २ ॥ इति श्रीवत्सवंशायनस्य देशिकचरणपरायणस्य नारायणस्य कृतिषु परमतभङ्गव्याख्यायां देशिकाशय प्रकाशाभिख्यायां योगसिद्धान्तभ ङ्गाधिकारः एकोनविंशः ॥श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः श्रीमान् वेङ्कटनाथायैः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सविधत्तां सदा हृदि ॥