श्रीः श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः । अथ परमतभङ्गे न्यायविस्तरविरोध निस्ताराधिकारः षोडशः । [१६] श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ कोदम नूल्गळैक् कुऱ्ऱमिलावगै कूट्टलुमाम् कोदुगऴित्तु ऒरु कूऱ्ऱिल् कुणङ्गळैक् कॊळ्ळवुमाम् श्रीः श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः श्रीमते रामानुजाय नमः । श्रीमते वेदान्तगुरवे नमः । अथ परमतभङ्गव्याख्यायां देशिकाशयप्रकाशाभिख्यायां न्यायविस्तर विरोधनिस्ताराधिकारः षोडशः ॥ १६ ॥ यत्सूक्तिशुकवत् पाठात् शोभन्ते बालिशा अपि । वादगोष्ठीषु, वेदान्तगुरुरिन्धे स सर्वदा ॥ १ ॥ न्यायविस्तर इति प्रथितं यच्छास्त्रमत्र कृतवाद विभेदम् । विस्तृणोतु निगमान्तगुरुस्तत् षोडशाधिकृतिमेत्य पुनर्मे ॥ २ ॥ उद्देशो मानमेयाद्यवगतिविषये लक्षणं तत्परीक्षा भाषावैदग्ध्यमर्थावगतिगहनतेत्यादिनानाविशेषैः ॥ एतत्तन्वं ह्यशेषोत्तममतमिति यद्वादिनो व्यर्थमाहुः तन्नेत्यस्मिन् विभङ्गे श्रुतिशिखरगुरुर्निर्भ्रमं विब्रवीति ॥ ३ ॥ इत्थमधस्तात् काणादतन्त्रमुन्मूल्य तत्समानागमत्वेन नवीनैः परिगणितं गौतमीयमपि मतं विचिचारयिषुः - विद्यास्थानतया परिगणिततन्निरोधे विद्यास्थानानां चतुर्दशत्वं विलीयेतेति मन्दसन्देहमपाकरो- त्यारम्भगाधया Girgo इति । गौतमसूत्राणि सर्वाणि यथा वेदान्ताविरुद्धानि भवन्ति तथा योजनीयानीत्येकः पक्षः । कचिद्वेदान्तविरोधस्य दुष्परिहरत्वेत्याह- की। इति । Gar = दोषः - वेदान्तविरोधाख्यः । ९६ on = कचिद् भागे, कचिदुक्तौ वा । बाधितानंशान् परिहायान्यत्र गुणदर्शनस्थळे प्रामाण्यं स्वीकार्यं भवतीत्यपरः ॥ परमदबङ्गम् न्यायविस्तर विरोद निस्तारादिगारम् [१६] तमिऴ् मॊऴि पॆयर्प्पु। (पासुरक् करुत्तु) गौतमरुडैय नूलैक् कुऱ्ऱम् नीक्कि वेदान्दङ्गळुडऩे कूट्टलाम्। अल्लदु कुऱ्ऱमुळ्ळ पगुदिगळैत् तळ्ळि कुणङ्गळै मट्टिल् कॊळ्ळलाम्।न्यायविस्तरविरोधनिस्ताराधिकारः (१६) । यादुम् इगन्दु ऒरु नीदियै यामे वगुक्कवुमाम् वेदियर् नऩ्ऩय वित्तरम् ऎऩ्बदु मॆय्युळदे। वैनाशिकादिमत “GwgmLi४। " Gur अर्धवैनाशिकमतapii अपन्यायमूलi क्र समानतन्त्र LDIT & सङ्ग्रहिक्रं न्यायसिद्धान्तिक निरसिक m। २२३ on १ली। गुणदोषविभागस्याशक्यत्वेऽप्याह - wri का = इति । श्रीलङ्का परित्यज्य । कलङ्का इति पाठेऽप्ययमेवार्थः । तथाचापादचूडं गौतमीयं निबन्धं निराकृत्यापूर्वतयाऽबाधितप्रामाण्यं प्रबन्धान्तरं प्रणेष्याम इति तृतीयः पक्षः । अत एव श्रीमन्नाथमुनयः न्यायतत्त्वाख्यं शास्त्रं प्राणैषुः, स्वयं चाचार्याः न्यायपरिशुद्धिमिति भावः ॥ पक्षत्रयेणापि फलितमंशमाह - Gouri इति । सर्वथाऽपि शिष्टपरिगृहीतचतुर्दश विद्यास्थानान्तर्गत- सन्न्यायविस्तराख्यं शास्त्रं सत्यं जीवत्येवेति न तल्लोपनेऽस्माकं प्रवृत्तिरिति भावः । एतदभिप्रेत्यैवास्याधिकारस्य " न्यायविस्तरविरोधनिस्तार” इत्यभिधानमाचार्यैः चक्रे । नतु पूर्वापरवत् – " न्यायविस्तरभङ्ग” इति । न्यायविस्तरस्य वैदिकैर्विद्यास्थानत्वेन परिगणनं विरुध्यते । गौतमकृततच्छास्त्र निबन्धनस्य दूषितत्वादिति प्राप्त- विरोधस्य अत्राधिकारे त्रेधा निस्तारादिति नामार्थो भाव्यः ॥ अथ वृत्त-वर्तिष्यमाणे सङ्घटयति – वैनाशिकेति । विनाशं विदन्तीति वैनाशिका बौद्धाः । सर्वत्र तैः क्षणभङ्गाङ्गीकारात् ॥ देह - दीपज्वालादिषु केषुचित् तदङ्गीकारात् अर्धवैनाशिकप्रसिद्धिं प्राप्ता वैशेषिकाः । एतेन वृत्तेषु प्राक्तनाधिकारैः वैशेषिकभङ्गाधिकारस्य सङ्गतिरुक्ता भवति । सम्प्रति तेनास्याधिकारस्य प्रसङ्गसङ्गतिं विवक्षुः स्मारकं सम्बन्धमाह – ८ इति । वैशेषिकमित्यर्थः । सङ्ग्रहिॐ इति । उपात्तवत इत्यर्थः । स्वोक्तप्रमाण- प्रमेयादिपदार्थवर्गपरित्यागेन कणभक्षोक्तसप्तपदार्थङ्गीकारात् परमाणुकारणत्वाद्याश्रयणाच्च बह्वंश साम्यदर्शनेनो- भयोरनयोरेकतन्त्रत्वं प्रसिद्धमित्यर्थः । अत एव ह्यर्वाचीनाः मणिकारप्रभृतयः वैशेषिकमनुरुध्य प्रमेयवर्ग, गौतमानुसारेण प्रमाणप्रक्रियां चोपजीव्य न्यायशास्त्रं नाम नवीनपद्धतिं प्रस्थापयामासुरिति च बोध्यम् । उक्तं हि " काणाद - न्यायमतयोः बालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥ " इति । न्यायमतं - गौतमीयं तन्त्रम् । न्यायसिद्धान्तिक निरसिङ्क इति । यद्यप्यस्मिन्नधिकारे गौतमीयन्यायसिद्धान्तस्य कथचि - दादर्तव्यत्वमप्युच्यते । तथाऽपि तत्रापि योजनातात्पर्य शिक्षणादेः कर्तव्यतया तदभिप्रायेण निरासोक्तिसङ्गतिर्बोध्या ॥ अऩ्ऱेल् मुऱ्ऱवुम् निरागरित्तु विट्टु वेऱॊरु नीदि नूलै यामे वगुक्क लाम्। आग इम् मूऩ्ऱत्तॊरुबडियिल् न्यायविस्तरम् ऎऩ्ऱ वित्यास्तानम् मॆय्यागवे वाऴुम्। ऎल्लाम् क्षणिकम् ऎऩ्ऱ पॆळत्तर् मुदलियोरैक् कण्डित्त पिऱगु सिल वऱ्ऱै क्षणिकम् ऎऩ्ऱु कूऱिऩ वैशेषिगरैयुम् कण्डित्तोम्-तवऱुगळैक् काट्टि। इप्पोदु इन्द वैशेषिगत्तोडु ऒरे शास्त्रम् ऎऩ्ऩलाम्बडि निऱ्किऱ न्यायमदत्तैयुम् निरागरिक्किऱोम्। शुभं ४ roio, juri, ४, ५, २२४ देशिकाशयप्रकाशसहिते परमतभङ्गे “पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदा: स्थानानि विद्याया धर्मस्य च चतुर्दश ॥” ६ miii “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥" ६ miळं मन्वादिमहर्षिकां धर्म विद्यास्थाना काळ परिगणिक्रं क्रीन्ना न्यायशास्त्र कुंलग्र निरसिकं ] Lor ?
नन्वियं भवतां न्यायविस्तराख्यशास्त्र निराकरणप्रतिज्ञा निजचेतननिहितहुतवहज्वाळायते । तस्य तन्त्रस्य बहुधा महर्षिभिः महितत्वेन, चतुर्दश विद्यास्थानान्तर्गतत्वेन चापरित्याज्यप्रमाणत्वादिति शङ्कते -पुराण-न्यायेति- सङ्ग्रहिñलका नाणी) इत्यन्तेन महाप्रकरणेन । तत्र प्रथमं अस्य शास्त्रस्य विद्यास्थानेषु परिगणनं तावत् प्राह पुराणेति । इदं याज्ञवल्क्यवचनम् । अष्टादशानामपि पुराणत्वेनैकताऽत्र विवक्षिता । उपपुराणानामपि । एवमेव वेद - तदङ्गादिष्वपि बोध्यम् । ब्राह्म- पाद्म वैष्णव शैव भागवत नारदीय मार्कण्डेय - आग्नेय - भविष्य - ब्रह्मवैवर्त - लैस वाराह स्कान्द वामन कौर्म मात्स्य गारुड - ब्रह्माण्डानि इति पुराणान्यष्टादश । अत्रायं तेषां सङ्ग्रहश्लोको देवीभागवते - " मद्वयं भद्वयं चैत्र बत्रयं वचतुष्टयम् । अ-ना- पलिङ्गकूस्कानि पुराणानि पृथक् पृथक् ॥” इति । शैवस्यैव वायुपुराणत्वेनापि योगसूत्रवाचस्पतीयादिषु प्रसिद्धिरस्तीति वचतुष्टयत्वोपपत्तिः । तथाच विष्णु- वायु वारह- वामनपुराणानि चत्वारीत्युक्तं भवति । अनापा:- अग्नि-नारसिंह-पाद्मानि । लिङ्गेत्यत्र लिङ्ग इति पदच्छेदात् लैङ्ग - गारुडपुराणयोर्ग्रहणम् । कूस्के = कूर्मस्कान्द- पुराणे । पूर्वोत्तरमीमांसयोरैकशाख्यस्य सिद्धान्तसिद्धतया तदनुसृत्य “मीमांसा" इत्येकत्वोक्तिः ॥
१ धर्मशास्त्रेति । " मन्वत्रिविष्णुहारीता याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायन- बृहस्पती । पराशर - व्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रवर्तकाः ॥” इति याज्ञवल्क्य- स्मृत्युक्तर्षिकर्तृकान्यनेकानि धर्मशास्त्राणि तत्त्वेनैकतां प्राप्तानि इह विवक्षितानि ॥ I अङ्गानि " शीक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्याहु- र्मनीषिणः ॥ " इत्युक्तानि षट् । वेदाश्चत्वारः । विद्यानां धर्मस्य च स्थानानि चतुर्दशेत्यन्वयः । धर्मस्य बोधकानि, विद्याया उत्पादकानीति षष्ठ्यर्थो यथासम्भवं विभज्य बोध्यः । अङ्गानीत्यादि मनुवचनम् । चत्वारः इति विशिष्य वेदसङ्ख्याकथनेन अङ्गानीति तेषां सामान्यतो बहुत्वसङ्ख्याबोधनेन च पूर्वापेक्षया स्पष्टार्थत्वादिदमप्यु- पात्तम् । विद्योत्पादकस्थानत्वादेषां विद्यात्वम् i स्थानका ॥ मन्वादिमहर्षीति । आदिना पूर्वोक्तयाज्ञवल्क्यग्रहणम् । अत्र क्रमोऽविवक्षितः । अत्र " धर्मविद्या- परिगणित न्यायशास्त्र इति निर्देशेनास्य शास्त्रस्य वैशेषिकात् व्यावृत्तिर्थोत्यते । तत्तु पूर्वाधिकारे धर्मशास्त्रनिन्दिता वैशेषिक" इत्युक्तम् । ततश्च तस्य निरसनीयत्वेऽपि अस्य तथात्वं न सम्भवतीति शङ्का प्रदर्शिता । ण न्यायशास्त्र इति । गौतमीयमिदमेव शास्त्रमत्र वचनयोः न्याय-विस्तरशब्दाभ्यां विवक्षितमिति पूर्वपक्षिणोऽभिमानः ॥
giarivjris, Fmsap, nursrio, jiv r, ५५, uri, कल्पसूत्रम्, रुक्, यजुस्, साम, अदर्वण वेदङ्गळ् ऎऩ्ऱु पदिऩाऩ्गु धर्म वित्यास्ता नङ्गळ् - याज्ञवल्क्यर्, मनु मुदलियवर्गळाल् कूऱप्पट्टुळ्ळऩ। न्यायम् अदिल् ऒऩ्ऱु। अदै निरागरिक्कलामा? ऎऩ्ऱु केळ्वि ऎऴुगिऱदु। न्यायविस्तरविरोध निस्ताराधिकारः (१६) क्रं निरसित की Logiनान्ना विद्यास्थान iis orruptio यथारुचि निरसिळलं BLGL६OT? न्याय शास्त्रत्तिऩ् सिऱप्पु" २२५ लोक- वेदोपयुक्त व्यवहारLDIT GOT प्रमाणादि प्रस्थान क्रं क्री वेदबाह्याङ्कन अनुपजीव्य i कना शुल- वैदिकोत्तम, अथापि न्यायशास्त्रस्य निरासे बाधकं दर्शयति - लं निरसिळङ्की इति । यथारुचीति । यस्य यच्छास्त्र निराकरणेच्छा तस्य तन्निराकार्यं स्यात् । तत्र स्वेच्छातिरिक्तनियामा का दर्शनादित्यर्थः । BLLGL६or ? = किं निवारकम् ? ॥ प्रत्युत न्यायशास्त्रमतिप्रबलमिति तस्य न सर्वथा निराकरणं युज्यत इत्याह- लोक- वेदेति । उपयुक्तः व्यवहारः येषां प्रमाणादीनामिति बहुव्रीहिरयम् । आदिना प्रमेयग्रहणम् । प्रस्थानं= प्रवृत्तिः । वेदबाह्याश्चार्वा- कादयः । “अनुपजीव्यान्ना शुल= अनुपजीव्यत्वाद्धेतोः । अस्याग्रे - “गौतमपक्ष कुं उपेक्षि- CUT CLOIT " इत्यत्रान्वयः । लोकवेदोपयुक्तप्रमाणप्रमेयव्यवस्थायां अवश्यं कस्यचित् पक्षस्य समाश्रयणी- यत्वे सिद्धे - वेदबाह्यपक्षस्यानुपजीव्यतया परिशेषतो गौतममतस्यैवादरणीयत्वेन तत्पक्षोपेक्षा न क्षोदक्षमेत्याशयः ॥ एतेनात्र अनुपजीव्य (कोळना शुल” इति तृतीयान्बयोपपत्त्यर्थं " उपेक्षितं " इति क्रियाऽध्याहर्तव्येति व्याख्या प्रत्याख्याता । पूर्वं “कनां " इति प्रथमान्तशब्द- प्रकृततया तेषां मार्गाणां अध्याहृतोपेक्षणक्रियायां कर्मतयाऽन्वयायोगेन पुनः द्वितीयान्तकर्मवाचिपदान्तराध्याहारप्रसङ्गाच्च ॥
अलका " इति वैदिकोत्तमेति । ऋग्वेदादिषु राहूगणस्यर्षेः पुत्रतया सूक्तद्रष्टतया पुरोहितत्वेन चायं गौतमः कथ्यते । छान्दोग्य – बृहदारण्यकादिषु च । श्रीरामायणे च एतत्पुत्रः शतानन्दः मैथिलस्य पुरोहितः इति श्रवणात् अस्यापि तथात्वं नानुपपन्नम् । तत्रैव " गौतमं सन्ददर्शाथ प्रविशन्तं महामुनिम् । देवदानव- दुर्धर्षं तपोबलसमन्वितम् ॥” इति चायमुपवर्ण्यते । परं त्विदमत्र वक्तव्यम् - एषु सर्वेषु प्रकरणेषु प्रतिपाद्य- मानो गौतमः किमेकः ? आहो भिन्न ? इत्यत्र विनिगमकं दुर्लभम् । एवं तन्नाम्न्यपि गौतमः उत गोतम इति ॥ कार
अत्र केचित् -” एषा मुनिप्रवरगोतमसूत्रवृत्तिः” इति विश्वनाथन्यायपश्चाननोक्तया, माधवीय सर्व- दर्शनसङ्ग्रहे - भगवता गोतमेन प्रणीतं प्रमाणादिपदार्थनवकलक्षणम् इति वाक्यदर्शनेन च " गोतम " इत्येव नामेति वदन्ति । तदिदं न साधनसमर्थम् । तत्र गौतमेत्यौकारपाठेऽप्युपपत्तेः । वस्तुतस्तु - नैषधीये इत्तै निरागरित्ताल् मऱ्ऱ वित्यास्तानङ्गळैयुम् अवरवर् विरुप्पप्पडि निरा करिक्कत्तट्टॆऩ्ऩ ? उलगम् वेदम् इवैगळुक्कु वेण्डिय प्रमाण प्रमेयवर्गत्तिल् लोका- यदादिमदक्कारर्गळ् सॊल्लुवदॆल्लाम् वॆऱुम् पुरट्टाग इरुप्पदाल्- मिगवुम् २९ २२६ मंवादितुल्य LDIT & महास्मत अक्षपादा गौतम (देशिकाशयप्रकाशसहिते परमतभङ्गे । Cui Quini, पक्ष उपेक्षिकं ९६५५० परिगृहीत(ii, महेश्वरवादवृत्तान्तविशेष लोके पक्षिल (६०) की महर्षि भाष्य गg सूत्र ग Curlor ? (१७-७५) श्लोके " मुक्तये यशिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमं तमवेत्यैव यथा वित्थ तथैव सः ॥ " इति हर्षो वदति । पाषाणकल्पं कैवल्यं कल्पयन्नयं न्यायशास्त्रकारः न नाम्ना परं रूढेन गोतमः । किन्तु योगतः- अत्यन्तं गौः = गोतमः, पशुप्रायः - जड इति विचार्य यथा यूयं तं जानीथ, तथैव सः तादृश एव स इति तदर्थः । तदनेनानन्यथासिद्धेन प्रमाणेन तस्य गोतमनामकत्वं सिद्धयतीति तु युक्तम् । एवं चोभयथाऽपि व्यवहारोऽस्तीति यथारुचि परिग्राह्यम् ॥ १ " मन्वादितुल्येति । इदञ्चानुपदमेव " पराशरव्यासशङ्खलिखिता दक्षगौतमौ ” इति याज्ञवल्क्य- । वचनेन विवृतम् । गौतमस्य विशिष्य कञ्चन विशेषं व्यपदिशति - महेश्वरेति । अयमत्र वृत्तान्तः किं वदन्ती- मात्ररूपो बोध्यः । पुरा पुरारिः मोहनशास्त्राणि प्रणीय विश्वं सकलं विप्लावयामास । तदेतदसहमानो गौतमः तत्खण्डनं कर्तुं सूत्राणि न्यायनिबन्धनरूपाणि निबबन्ध । तच्छ्रुत्वा कोपकलुषे पुरत एत्य तमृषिं दग्धुका कामवैरिणि, परमर्षिरयमपि तपसा भावितात्मा चरणे सव्ये चक्षुरुन्मील्य प्रतिकर्तुमैहत । तदुद्वीक्ष्य क्षणं भीतया पार्वत्या कृताश्वासौ कृतमैत्रौ च तौ ततो विरम्य यथागतं जग्मतुरिति । केचित्तु - अस्यामेव कथायां पशुपतिस्थाने पाराशर्यं निवेश्य कारणान्तरेण परस्परस्पर्धां प्रवदन्ति । उभयथाऽपि एतदनुरोधेनैवाक्षपादसमाख्या- सिद्धिः । अक्षं पादे यस्य स इति ॥ ५७ गौतमस्यैव विशेषान्तरमप्याह – लोके पक्षिलेति । लोके इत्यस्याग्रे - भाष्य N "
सूत्र Gीा इत्यत्रान्वयः । आर्षस्य सूत्रस्यार्थमेव भाष्यामितीयं स्थितिरन्यत्र दुर्लमेत्याशयः । यद्यपि न्याय- भाष्यान्ते – “योऽक्षपादमृषिं न्यायः प्रत्यभात् वदतां वरम् । तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् ॥” इति स्वस्य वात्स्यायन इत्येव नामोट्टङ्कितम् । तथाऽपि न्यायवार्त्तिकतात्पर्यटीकायां वाचस्पतेः – “ अथ भगवता अक्षपादेन निश्श्रेयसहेतौ शास्त्रे प्रणीते – व्याख्याते च भगवता पक्षिलस्वामिना ” इत्याद्युक्तया - माधवीयसर्व- दर्शनसङ्ग्रहे - " पक्षिलस्वामिना सेयमान्वीक्षकी विद्या प्रमाणादिभिः पदार्थैः प्रविभज्यमाना " इति वचनेन च तस्य पक्षिलनामत्वमपि बोध्यम् । अयं च कश्चिदृषिरित्यत्र " यदक्षपादप्रतिभो भाष्यं वात्स्यायनो जगौ । अकारि महतः तस्य भारद्वाजेन वार्त्तिकम् ॥ " इत्युद्योतकरवचने अक्षपादप्रतिभत्वोक्ति प्रमाणयन्ति । ऋषित्वेन साजात्यविवक्षणादिति ॥ वैदिगराय् - मन्वादिगळुक्कुत् तुल्यमाग महास्मृतिगारर्गळिल् ऒरुवराय्- महेच्वरऩोडु विवादम् पुरिन्दु वॆऩ्ऱदाल् “अक्षबादर्” (काल् कण्णर्) ऎऩ्ऱु पॆयर् पॆऱ्ऱवराय्-उलगिल् पक्षिलर् ऎऩ्ऱ ऒरु परमरुषि पाष्यम् सॆय्युम् अळवु उयर्न्द सूत्रङ्गळैच् चॆय्दवराय् - इरुक्कुम् कॆळदमर् मदत्तै मदिक्कादिरुक्कलामो? न्यायविस्तरविरोधनिस्ताराधिकारः (१६) “इदऱ्कु उरैयिट्टवर्गळ् तवऱु सॆय्दऩर्।’’ २२७ शुगा उद्योतकर वाचस्पतिप्रभृतिकनां उपन्यासिकं कुएं अर्थ / काङ्कf pomp उपेक्षि सूत्रभाष्यकटेशा स्वीकरिकं क Go१६ Lour?
६६ तदपरे न सहन्ते । अस्य अनृषित्वेऽपि तत्सदृशप्रतिभावत्त्वेन तत्प्रतिभत्वोक्तिसामञ्जस्यादिति । किञ्च - स्वामीत्युपनाम्नः प्रायो द्रविडदेशव्यवहार एव श्रवणात् न्यायभाष्ये (२-१-४२) “ पचतीति स्थाल्यधि- श्रयणं- उदकासेचनं तण्डुलावपनं - एधोपसर्पणम् - अग्न्यभिज्वलनं दवघट्टनं मण्डस्रावणम्-अधोऽवतरणम्” इति ओदन- पाकोदाहरणात् - द्रविडदेशीयानामेवौदनान्नत्वाच्च अयं कश्चिन्महात्मा द्रविडदेशीय इति निश्चीयते । तार्किकरक्षायां- च वरदराज कृतायां – पक्षिलमुनिप्रभृतय इत्युक्तिरपि मननशीलत्वाभिप्राया । न तु ऋषित्वजातिपरेति ॥ पक्ष परिग्रहे " इति धातुनिष्पन्नपक्षशब्दात् पक्षोऽस्यास्तीति विग्रहे “लोमादिपामा दिपिच्छादिभ्यः शनेलच: " इति सूत्रेण इलचि तद्धिते " पक्षिल " इति सिद्धयति । पिच्छादिराकृतिगणः । तत्त्वज्ञानवानित्यर्थः पर्यवचन्नः ॥ यद्वा – " पक्षिणः दयया लाति आदत्ते” इति पक्षिलः । “ला = आदाने” इति धातुः । वत्सस्य युवा गोत्रापत्यं वात्स्यायनः । " जीवति तु वेश्ये युवा " इति तच्छन्दसङ्केते पाणिन्यनुशासनम् ॥
ननूत्कृष्टस्याप्यस्य प्रस्थानस्य व्याख्यातृभिः बहुव्याकुलता सञ्जातेति सर्वमिदं सन्त्यक्तव्यमेवेत्यत्राह —— शुाळा इति । सूत्रभाष्यकृन्महर्षिद्वयस्य महामहित्वकथनेनेत्यर्थः । उद्घोतकरेति । अयं न्यायवार्त्तिक- कारः । यद्यपि न्यायवार्त्तिकान्ते – “यदक्षपादप्रतिभः " इत्युक्तपूर्वश्लोके स्वस्य " भारद्वाज " इत्येव नाम कथितम् । तथाऽपि –न्यायवार्त्तिकतात्पर्यटीकायां वाचस्पतिना " इच्छामि किमपि पुण्यं दुस्तरकुनिबन्ध- पङ्कमग्नानाम् । उद्योतकरगवीनाम् अतिजरतीनां समुद्धरणात् ॥” इति कथनेनैवमपि अभिधानं तस्यास्तीति बोध्यम् कुनिबन्धाः = बौद्ध-न्यायग्रन्थाः । तैरस्य शास्त्रस्य दूषणात् तद्रूपपङ्कनिमज्जनोक्तिः । उद्द्योतकरगवीनां = तद्वाचाम् । गवामित्यपि लभ्यते । अतिजरतीनामिति तासां अवश्यं संरक्षणीयत्वं सहायान्तरसापेक्षत्वं चोच्यते । एतेनात्र- उद्योताख्यस्य कस्यचन ग्रन्थस्य रचयिता वाचस्पतिरिति " उद्योतकर वाचस्पति " शब्दयोरेकव्यक्तिपरतया व्याख्यानं व्युदस्तम् । प्रभृतिशब्देन न्यायवार्त्तिकतात्पर्यटीका परिशुद्ध यादि विधातुरुदयनाचार्यस्य ग्रहणम् ॥ Amp इति । कर्मेन्द्रियाद्यभाव - इन्द्रियभौतिकत्व - परमाणु कारणत्वादीन् कांश्चनार्थानित्यर्थः । स्वीकरिकङ्क Guru ? इति । सोऽयं व्याख्यातृणामेत्रापराध इति सूत्रभाष्ययोः स्वीकरणीयतैवेति भावः ॥ आगैयाल् उत्त्योदगरर्, वासस्पदि मुदलिय व्याक्यानगारर्गळ् वऴुविच् चॊऩ्ऩ सिल वार्त्तैगळै नाम् विट्टिट्टालुम्, रुषिगळ् इरुवर् सॆय्द सूत्रम् पाष्यम् ऎऩ्ऱ इरण्डैमट्टिलावदु एऱ्कवेण्डामा? वेदार्त्त सङ्ग्रहम् २२८ वेदार्थसङ्ग्रह की सह निरस्ता: " देशिकाशयप्रकाशसहिते परमतभङ्गे “चावकि शाक्यलुक्याक्षपाद क्षपणक कपिल पतञ्जलिमतानुसारिणो वेदबाह्या वेदाबलम्बिकुदृष्टिभिः । तत्तन्मतानुसारिकाला अर्वाचीन निरसिहा। Qium बुद्धि Lucing अभियुक्त ५० “शीक्षायां वर्णशिक्षा, ढाका की श्लोक क्रं की विद्यास्थान & Go कङ्क न्याय muyi परमार्थज्ञानोपयुक्त वेदोपकारकLDIT & सङ्ग्रहि कङ्क्राळा ग “इच्चास्त्रत्तिऩिडमुम् गौतमरिडमुम् नमक्कुक् कोबमिल्लै।’’ न्यायविस्तर ii Tग की विद्यास्थान कुङ्कृ निरसिळङ्की प्रभाव कुंलक अपह्नविuji Gau Curio joori, गौतम Lur अस्मिन्नर्थे श्रीभाष्यकारसम्मतिमाह – वेदार्थसङ्ग्रह की बुळं इति । " मतानुसारिणः” इति । तत्तन्मतनिष्ठानां नवीनानामेवानुपादेयत्वकीर्तनादित्यर्थः । भट्टपराशरपादानामपि सूक्तिमत्र संवादयति- iu बुद्धि गळा इति । व्याख्यानानां प्रत्याख्यातव्यत्वेऽपि आर्षयोः सूत्रभाष्ययोरादर्तव्यत्वं बुद्धौ कृत्वा किलेत्यर्थः । श्रीरङ्गराजस्तवे उत्तरशतके परमतनिराकरणानन्तरं वेदाङ्गानां उपकारप्रकारं प्रतिपादयन्नयं श्लोको दृश्यते । " शीक्षायां वर्णशिक्षा पदसमधिगमो व्याक्रिया - निर्वचोभ्यां छन्दश्छन्दश्चितौ ग) स्याद् गमयति समयं ज्योतिषं रङ्नाथ ! । कल्पेऽनुष्ठानमुक्तं उचितगमितयोर्न्याय-मीमांसयोः स्यात्, अर्थव्यक्तिः पुराणस्मृतिषु तदनुगास्त्वां विचिन्वन्ति वेदाः ॥” इति पूर्णश्लोकः । शीक्षायां वर्णशिक्षा भवति फलम् । " शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ” इत्यादिश्रुतेः । पदसमधिगमो ज्ञानम् । स्वरूपतोऽर्थतश्च स इह विवक्षितः । तत्र व्याक्रियया व्याकरणेन पदस्वरूपावगतिः । निवचसा निरुक्तेन तु अर्थावबोधो भवति । छन्दः = गायत्र्युष्णिगादि छन्दोबृन्दम्, छन्दश्चितौ = छन्दोविचितिनामके शास्त्रे ज्ञायते ॥ समयं = कर्मानुष्ठानकालम् । कल्पे= कल्पसूत्रेषु । अनुष्ठानं = प्रयोगप्रकारः । उचितगमितयोः=उचितं यथातथा-वेदाविरुद्धतया, गमितयोः = नीतयोः । इदं न्याय मीमांसयोर्विशेषणम् । अस्मिन् श्लोके इदमेव विशेषणं प्रकृतानुगुणतयाऽभिसंहितम् । उभयत्र व्याख्यातृभिरपराद्धत्वेऽपि तदापादितवैयाकुलीप्रशमनपूर्वकं शेषपरिग्रहस्य- उचितगमितपदेन विवक्षितत्वात् । मध्ये - अर्थव्यक्तिपदं देहलीदीपन्यायेन पूर्वापरयोरन्वेति । तथाचार्थव्यक्तिः न्याय-मीमां सयोः, पुराण- स्मृतिषु च स्यादित्यन्वयः । अर्थव्यक्तिश्च वाक्यार्थबोधः । पदार्थावगमस्य प्रागेव निरुक्तकृत्यत्वोक्तेः । तानि अनुगानि अङ्गानि येषां ते तदनुगा वेदाः । परमार्थज्ञानोपयुक्तेति । षण्णामप्यङ्गानां वेदोपकारकत्वे समेऽपि कानिचन शब्दज्ञानजननेनोपकारकाणि, यथा शीक्षाव्याकरणादीनि । अपराण्यर्थज्ञानजननेन, यथा न्यायविस्तर-मीमांसादीनीति विभागमभिप्रेत्यैवमुक्तिः । इत्यन्तेन मध्यस्थशङ्का सन्दर्शिता ॥ इमामाशङ्कामुपशमयितुं प्रथमतः स्वस्य सामान्यतो न्यायविस्तरशास्त्रे गौतममहिनि चाद्वेषं दर्शयति- न्यायविस्तर ं इति वाक्यद्वयेन । अन्यथा विद्यास्थानसङ्ख्याविलोपो भवेदित्याशयः । अपह्नविugi GavGuró इति । तन्महिमबोधकपुराणादिप्रामाण्यादिति भावः ॥ ऎऩ्ऱ तमदु क्रन्दत्तिलुम् नम् श्री पाष्यगारर् - तन्मदानुसारिगळाऩ नवीनमदत् तवर्गळैत्ताऩ् तळ्ळच् चॊऩ्ऩार्। इदै निऩैत्तुत्ताऩ् परासरबट्टरुम् ‘सीक्षायाम् वर्ण सिक्षा” ऎऩ्ऱ च्लोकत्तिल् इन्द शास्त्रत्तै वेदत्तिऱ्कु उपकारकमागक् कुऱिप्पिट्टदु, ऎऩ्ऩिल्- ६६ न्यायविस्तरविरोधनिस्ताराधिकारः (१६) २२९ वेदविरोध २__ior ITI - प्रजापति - पशुपति बृहस्पति (६१५६०LUI वाक्या कटेगा वेदाविरुद्ध LDIT & निर्वहि कङ्क २१ निर्वहि ji, प्राचुर्येण संवाद २ नान्ना प्रबन्धा की विरोधाधिकरणन्याय ॐ ॐ
तर्हि गौतमीये किं चिकीर्षितं ? भवतेति प्रश्नं, महावाक्येन गौतमसूत्राणां कात्स्न्येन स्वीकार:- विरुद्धांशत्यागपूर्वकमविरुद्धभागाङ्गीकारः - कृत्स्नशो निराकरणश्चेति कर्तव्यं त्रिधा कृत्वा समाधास्यन् - तत्र प्रथमपक्षस्य तत्रतत्र प्रसिद्धत्वेन दृष्टान्तानपेक्षणात् द्वितीय-तृतीययोरेव पक्षयोरनुगुणं दृष्टान्तद्वयं दर्शयति - वेदविरोध इत्यादिना प्राप्त इत्यन्तेन । तत्र प्रथमस्य कृत्स्न स्वीकारपक्षस्य सात्त्विकपुराणादिकमेवोदाहरणं प्रसिद्धमिति तन्नोक्तम् । द्वितीयस्यांशिकत्यागस्वीकारोभयपक्षस्यात्रोदाहरणमुच्यते - वेद विरोधळं २नान्ना Girl प्रजापति॥। वाक्यानां इति । वेदविरोध = अंशतः प्रतिपन्नो वेदविरोधः । तेन कृत्स्नशः प्रधानतात्पर्यस्य वेदविरोधरूपतृतीयपक्ष हेतुतोऽस्य व्यावृत्तिः । प्रजापतिवाक्यं = योगशास्त्रम् । पशुपतेः = पाशुपततन्त्रम् । बृहस्पतेस्तु = लोकायतसूत्राणि ॥ यद्यपि एतानि मतानि कृत्स्नशो निराकर्तव्यान्येव । तथैव च वेदान्तसूत्रकृता योग- पाशुपतशास्त्रे कृत्स्नशो निराकृते । एवं अग्रे अत्रैव बृहस्पतिसूत्रानुसारिचार्वाकमतं- “लोकायतशास्त्र miGuroo प्रबन्धLoIT उपेक्षि- कङ्क प्राप्तLoopur " इति तृतीयस्य सर्वथा परित्यागपक्षस्यैव निदर्शनतया वक्ष्यते चेति कथमेषां सूत्राणाम् अंशतः त्यागस्वीकारोभयपक्षनिदर्शनीकरण मिति भवति सन्देहः । तथाऽपि तत्रापि व्याख्यात्रपराधमात्रेण नार्षाणां सूत्रग्रन्थानां सर्वथा निराकरणमुचितम् । अपित्वविरुद्धांशस्स्वीकार्य एवेत्याशयादत्रादोषः । अन्यत्र कृत्स्नं तत्तन्मतं निराकृतवतां वेदान्तसूत्रकृदादीनां तु लोकायता दिसूत्र - तद्व्याख्यातृमतिभेदानादरेण एकामिप्रायतां मत्वा वा, आर्षस्य मूलमात्रस्य स्वीकारेऽपि नवीनकृतन्त्र्याख्यानादीनां निराकार्यत्वं बुद्धा वा कृत्स्नखण्डने प्रवृत्तिरिति च बोध्यम् । निर्वहिकंळ६०/६०७६००१ निर्वहिoji इनि । निर्वोढुं शक्यानामंशानां निर्वाहकरणमित्यर्थः ॥ एवं वेदाविरोधेन निर्वोढुं शक्यानामर्थांशानां स्वीकारमुक्त्वा - अथ प्रतिकूलांशपरित्यागे वक्तव्ये तत्र प्रमाणं-“ विरोधाधिकरणन्याय” इत्यादिना वक्ष्यन् चार्वाकादिषु कुतोऽनेन न्यायेन विरुद्धांशं परित्यज्य - अवशिष्टांश स्वीकारश्शिष्टैर्नानुष्ठीयत इति शङ्कां प्रथमतो निराचष्टे - प्राचुर्येण सम्बाद २नान्ना प्रबन्धक৷ इति । चार्वाकादिशास्त्रेषु पुनः वेदविसंवादप्रचुरेषु संवादिनामंशानां मात्रयाऽप्यभावादेव न स्वीकरणीयांशसद्भाव इति भावः । विरोधाधिकरणेति । “विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम् " इति जैमिनिसूत्रम् । विरोधे - प्रत्यक्ष- श्रुतिविरोधे सति, स्मृतिवाक्यमनपेक्ष्यम् = अनादरणीयं अप्रमाणं स्यात् । यथा - “औदुम्बरीं स्पृष्ट्रवोद्गायेत् । इति श्रुतिविरुद्धा - “औदुम्बरी सर्वा वेष्टयितव्या " इति स्मृतिः । वाससा सर्ववेष्टने हि औदुम्बर्याः न स्पर्शनं सम्भवतीति तयोर्विरोधः । ततश्च सा स्मृतिरध्वर्यो र्वासोलाभलोभमूलेत्यनादर्तव्येति सिद्धान्तः ॥ १ १ ’ १९ नाम् इङ्गु न्यायविस्तरम् ऎऩ्ऩुम् वित्यास्तानत्तैये वॆऱुक्किऱोम् अल्लोम्, गौतमरुडैय पॆरुमैयिलुम् नमक्कोर् पॊऱामै किडैयादु। वेदत्तोडु मुरण्बट्ट पोदु-प्रजाबदि मुदलियवर्गळुडैय योगादि शास्त्रङ् गळिल् निर्वहिक्कक् कूडियवैगळै निर्वहित्तुम्, पॊदुविल् वेदत्तोडु अदिग आनुकूल्यम् उडैय नूल्गळिल् विरोदमुळ्ळदैत् तळ्ळियुम्। २३० ६६ (१) देशिकाशयप्रकाशसहिते परमतभङ्गे " मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते” । नियमिकं ६० प्रधानतात्पर्य विरोधळं २ नान्ना Gural लोकायतशास्त्रकुंm sir ♚urv- ७ " प्रतिकूलां शक्रं की, प्रबन्धDITक उपेक्षिकं कoji प्राप्तLDIT ‘इन्द शास्त्रत्तिऩिडम् नमदु कॊळ्गैगळ् मूऩ्ऱु। ३३ सर्वसूत्र orruptio समीचीनार्थविषयLDIT] योजि४५०, निवैहिकं श्रfluoro Tor एकदेश/i] IT उपेक्षि४५, १०० ननु स्मृतीनां श्रुत्यनुमापकतयैव धर्मप्रमाणत्वात् एतयाऽपि सर्ववेष्टनस्मृत्या तत्समानार्था श्रुतिः काचिदनुमातव्या भवति । ततश्च नायं श्रुतिस्मृतिविरोधः । अपितु श्रुतिद्वयविरोध एव । तत्र च षोडशिग्रहणा- ति ग्रहणवद् विकल्प एव भविष्यति । नान्यतराप्रामाण्यमिति चेदाह - असति ह्यनुमानमिति । प्रत्यक्षाविरोधेऽसति हि स्मृत्या श्रुत्यनुमानम् । नतु तस्मिन् सतीत्यर्थः । एवं न केवलं प्रत्यक्षश्रुतिविरोधेनैव प्रतिकूलांशत्यागः, किन्तु - " यद्वै किश्च मनुरवदत् तद्वेषजम्” इति श्रुतिसिद्ध - महामहिम मनुवचनविरोधेनापीत्याह - मन्वर्थेति । मनुस्मृत्यर्थे त्यर्थः । न शस्यते =न प्रशस्यते । अत्र " प्रतिकूलांश कुङ्कृ की " इत्येव पाठः । न तु “कंल इति । तृतीयानन्वयात् । " निर्वहिकं काय निर्वहिकंjib प्रतिकूलांश क्रकं की कङ्क प्राप्त Lo इत्येव ह्यन्वयक्रमः । यद्यपि - " निर्वहिकं omromo निर्वहिकङ्क०ji” इत्यनेनैवान्यांशत्याग उक्तो भवति । ततश्चान्यतरकोटिनिर्देश एव पर्याप्तः । अत एव दान्तिके " एकदेश/i][b] उपेक्षि” इति अन्यतरदेवोपात्तम् । तथाऽपि विरुद्धांशस्य त्यक्तव्यत्वे समीचीनवचन- न्यायाद्यनुग्रहं प्रदर्शयितुं पृथगुक्तिः । सर्वांशत्यागरूपस्य तृतीयपक्षस्योदाहरणमाह - प्रधानतात्पर्येति । जगदुपादानभूतनारायणैकनिष्ठत्वेत्यर्थः । इदमेव हि सर्ववेदतात्पर्यम् । तदुक्तं मोक्षधर्मे - “ सर्वेषु च नृपश्रेष्ठ ! ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुः ॥” इति । यथान्यायं = न्यायानुगृहीतवेदानतिक्रमेण निष्ठा-तात्पर्यपर्यवसानभूमिः । लोकायतशास्त्रñogir इति । इदञ्च दृष्टान्तस्य दृष्टान्तः । साक्षाद् दृष्टान्तस्तु पाशुपतादिः । प्रबन्ध Lor = कृत्स्नशः ॥ ६६ का । । एवं प्रदर्शितमर्थं प्रकृतेऽतिदिशति - इति । अत्र गौतमसूत्रे ऽपीत्यर्थः । योजि४५= योजनम् । अस्याग्रे-“ Grums उपपन्नम्” इत्यनेनान्वयः । अयं च पक्षो न्यायपरिशुद्धौ विशदीचक्रे - अङ्गीकारकाङ्क्षिणां आक्षपादीयमप्यस्मदुक्तैकान्ततया स्थास्यति । तथैव स्थापयिष्यामः । अतो वयमपि महतामयुक्तार्थतात्पर्य कल्पनेन नापराध्येम " इति । तथा " यत् पुनरर्वाग्भिरक्षचरणपञ्चाध्याय्यां कुशकाशावलम्बनेन कणचरणकथां निवेश्य नैगमिक्यः पदव्यो निरुध्यन्ते, तत्र तु नूनं स एव गौतमः स्वयमन्तः प्रहसति” इति च । निर्वहिकं श्रा एकदेश का इति । " घ्राण रसन-चक्षुस्स्त्वक्-श्रोत्राणीन्द्रियाणि भूतेभ्यः " / on “ नचैकदेशोपलब्धिरवयविशद्भावात् " इत्यादीनि सूत्राणीत्यर्थः । उपेक्षिक इति । अस्यापि पूर्व- “मऩुविऱ्कु विरुत्तमाऩदैक् कॊळ्ळऱ्क” ऎऩ्ऱु नियममिरुप्पदाल् निर्व हिक्क मुडियाददैक् कऴित्तुम्, मुक्यमाऩ करुत्तिलेये वेद विरोदमुळ्ळ पोदु लोकायद मदत्तैत्तळ्ळुवदु पोल् मुऴुदुम् तळ्ळियुम् पोवदु उण्डु।
वैशेषिकोक्तवस्तुव्यवस्थै न्वायविस्तरविरोधनिस्ताराधिकारः (१६) तात्पर्य का बर्णिकं की pour ulqumr वैशेषिकाला our निश्शेषLDIT & उपेक्षिi Gruins उपपन्न। ६६ ‘इदऩिडम् अऩ्बुडैयार् कडैबिडिक्क वेण्डिय वऴि।" २३१ मोक्ष कुङ्कळङ्क साक्षादङ्गकं jruroo द्रव्य-गुणादिपदार्थचिन्तै उपेक्षिलं गौतमा वैशेषिकोक्त उपजीविji Gum (कीङ्ग वाळकण्ठ प्रमाण v। ६६ वदन्वयः । अनेनैकदेशान्तरस्य स्वीकारोऽप्यर्थसिद्धः । अयमपि पक्षस्तत्रैवोक्तः- “ यद्वा-नातीव च बहिष्कारो नातीव च परिग्रहः । साङ्ख्यादिवदिहापि स्यात् समाधिस्तौषतण्डुलः ॥ उपजीव्यबहुत्वेन विद्यास्थाननिवेशनम् । विरुद्धांशैक विषया सूत्रादिषु बहिष्क्रिया ॥” इति ॥ I सूत्रादिकं = " एतेन शिष्टापरिग्रहा अपि व्याख्याताः " इति सूत्रतद्भाष्यादिकम् । इत्थं हि तत्र बभाषे एतेन वेदापरिगृहीतसाङ्ख्यपक्षक्षपणेन शिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपक्षणकभिक्षुपक्षाः क्षपिता वेदितव्याः" इति । वैशेषिकोक्तेति । स्वयं सस्याद्युत्पादनार्थं परकल्पिततटाकोपजीवनवत् गौतमेन कणादोक्त- द्रव्यादिप्रक्रियामवलम्ब्यैव स्वशास्त्रं प्रणीतमिति अस्यापि तत्रैव तात्पर्यमिति केचिद् वर्णयन्ति । तथा चेत् सेन्द्रतक्षकस्वाहान्यायेन कणादमतवदेतन्मतमपि सर्वात्मना निराकार्यं भविष्यतीत्याशयः । असावपि पक्षस्तत्र दर्शितः- “ प्रमाणादिसूत्रमुपादाय व्याचक्षाणैस्तत्पक्षनिष्ठैरपि पूर्वैः कचित् सूत्राणि निराकृतानि । तन्न्यायस्य नास्मासु सर्पमारः । नापि दण्डनिवारणम् । ततश्च यथालोकं यथावेदं लौकिके वैदिकेऽपि च । यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपि वा ॥ विवक्षितार्थवैशद्यं व्याकुलत्वमपूर्णता । उल्लोकतेत्यमी दोषा गुणकोटौ जडैः कृताः ॥ याँ भगवन्नाथमुनिभिर्न्यायतत्त्वसमाह्वया । अवधीर्याक्षपादादीन् न्यबन्धि न्यायपद्धतिः ॥ तदयं भाष्यस्वरससिद्धो बहिष्कारपक्षः " इति । नास्मासु सर्पमार इति । तन्न्यायस्य नास्मद्विषये सर्पदंशेन मरणमित्यर्थः ॥ ६६ ॥॥ १ पूर्वं " वैशेषिकोक्तवस्तुव्यवस्थै तात्पर्य ६७ वर्णिकङ्की moqumr की६) ” इति यद्यालिङ्गितपाक्षिक निर्देशेनाक्षपादभक्तानां निश्शेषतन्निराकरणपक्षेऽसम्प्रतिपत्तिः सूचिता । तामेवाद्य विविधहेतुभिर्विशदयति-मोक्ष कुङ्कुं इति । मोक्षोपायानुष्ठानस्येत्यर्थः । साक्षादङ्ग ६६ इति । साक्षादङ्गत्वाभावाभिमानेनेत्यर्थः । यद्यपि वैशेषिकोपक्रमे " धर्मविशेषप्रसृताद् द्रव्यगुणकर्मसामान्यविशेष- समवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञान्निश्रेयसम्” इति द्रव्यगुणादिपदार्थतत्त्वज्ञानस्यात्मादिविबेक - ना रूपस्य मोक्षहेतुत्वमुक्तम् । तथाऽपि तादृशस्य विवेकस्य लोकोत्तीर्णसर्वपुरुषार्थसाधनसामान्यं प्रति साधारण हेतुत्वात् साक्षादङ्गत्वस्य चासाधारण हेतुत्वरूपत्वात् तस्य तदभावाभिमानेन स्वशास्त्रे गौतमेन तदुपेक्षणमिति भावः । प्रमाण- प्रमेयादिपदार्थानां तत्त्वज्ञानस्य तु तादृशं तद्धेतुत्वमस्तीति तदभिमानः । ९ प्रमाण ० इति । अदु पोलवे इङ्गुम् गौतमरुडैय ऎल्ला सूत्रङ्गळैयुमे सीर्बडुत्ति आदरित्तुम्, निर्वहिक्क मुडियाददैत् तळ्ळियुम्, वैशेषिगत्तोडु इणैत्ते इदैक् करुदवेण्डुम् ऎऩ्ऱु सॊल्लुगिऱवर् पेच्चुप्पडिदाऩॆऩिल् - वैशेषि कत्तैप् पोलवे पूर्णमाग परित्यागम् सॆय्दुम् पोरुगै उसिदम्। 社 २३२ (देशिकाशयप्रकाश सहिते परमतभङ्गे " व्यक्त्याकृतिजातयस्तु पदार्थः" इत्यादिसूत्र / प्रसक्तLDIT OF पदार्थ कुं० लोकवेदानुसारेण शिष्याङ्का कण्डु कॊळ्गिऱार्गळ् ऎऩ्ऱु निऩैत्ताऩागवमैयुम्। तच्छास्त्रप्रधानप्रमेयस्यैवोपेक्षणेऽप्रधानप्रमेयाणां कैमुतिकन्यायकचलनात वक्ष्यमाणरीत्या गौतम कणादैककण्ठ्य प्रतीते- रन्यथासिद्धत्वाच्चेति भावः ॥
नन्वस्ति प्रमाणं तयोरैककण्ठ्ये । कथमन्यथाऽतिरिक्त जात्यवयव्यादिसद्भावं वैशेषिकवत् स्त्रसूत्रेषु तत्र तत्र गौतमः सूचयेदित्यत्राह - व्यक्तयाकृतीति । व्यक्तयादित्रितयं वक्ष्यमाणलक्षणं गवादिपदानां अर्थः- तन्निरूपित- शक्तिविषय इत्यर्थः । पदार्थ इत्येकवचनार्थैकत्वस्य प्रकृत्यर्थतावच्छेदकपदार्थत्वरूपे तच्छक्तिविषयत्वे - विषयता- सम्बन्धेन तच्छक्तौ अन्वयः । तेन घटादिशब्दानां न नानार्थकत्वापत्तिः । तत्रार्थभेदेन शक्तिभेदात् । लोकवेदानुसारेणेति । लोकानुसारेण वेदानुसारेण चेत्यर्थः । तथाच लौकिकानामेव घटपटादिशब्दानां " य एव लौकिकास्त एव वैदिकाः, त एव चामीषामर्थाः " इति न्यायेन “भाषाप्रयुक्तः सर्वोऽपि वेदे कापि प्रयोगवान् । वेदैकनियतः शब्दो नान्यत्रेति व्यवस्थितिः ॥” इत्याचार्यपादोक्तरीत्या वैदिकत्वात् तेषां लोकानुसारेण व्युत्पत्तिः । केवलवैदिकानां चषाल-चात्वालादिशब्दानां च वेदानुसारेणेति न कचिदपि वैशेषिकाद्यपेक्षा इत्यर्थः । तथाचात्र न्यायपरिशुद्धिः यच्च द्वितीयाध्यायान्ते - “ व्यक्तयाकृतिः " इत्यादि सूत्रितम्, तत्रापि न वैशेषिकाभ्युपगत- जातिस्वीकारे लिङ्गं पश्यामः । नह्यत्र द्रव्यगुणादि पदार्थपरिसङ्ख्यानं क्रियते । ते विभक्त्यन्ताः पदम् " इति प्रतिपदवाच्य प्रदर्शनपरत्वात् । अनन्तरं तिसृणामेव लक्षणमाह - " व्यक्तिर्गुणविशेषाश्रयो मूर्तिः आकृतिर्जाति- लिङ्गाख्या - समानप्रसवात्मिका जातिः " इति । इह तु वस्तुस्वरूप निरूपित स्वरूपविशेषकधर्म-स्वरूपनिरूपकधर्म- विषयतया यथासम्भवं योज्यमिति । गुण कर्मादिविशेषाणां आश्रयभूता मूर्तिः - वस्तुस्वरूपं व्यक्तिः । जातेः स्वरूपनिरूपकगोत्वादिधर्माणां लिङ्गाख्या ज्ञापकभूता आकृति:-निरूपितस्वरूपविशेषणभूत सास्नादिसंस्थानम् । समानं — गौर्गौरिति बुद्धिविशेषं एकरूपं प्रसूते- नानागोषु जनयति यो धर्मः, स एव गोत्वादिः स्वरूपनिरूपकधर्मः समानप्रसवात्मिका जातिर्भवतीति सूत्रत्रयार्थः ॥ ६६ ६६
॥
एवमवयविविषयेऽपि तत्रोक्तम् — “ नचैकदेशोपलब्धिरवय विशद्भावात् । सेनावनादिवद् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् " इत्यादीनि हि तत्सूत्राणि । न तानि विरुध्यन्ते । सेनावनादिव्यावृत्तः अवयव्या- रम्भकतया तदसमवायिकारणत्वाभिमतावस्थाविशेषापन्नस्सङ्घातविशेष एवावयविशब्देन निर्दिश्यत इत्यविरोधात् । ★ II तावतैवोपलम्भव्यवहार विशेष । देश्चरितार्थत्वात् । अतीन्द्रियाणुवचनमपि दीपावयवानामित्र ऐन्द्रियकाणामेवावस्था- विशेणातीन्द्रियत्वाभ्युपगमाद विरुद्धमिति । एवमन्येषामपि सूत्राणां अविरोधस्तत्रोपपादितो द्रष्टव्यः ॥ ६६ मोक्ष उपायानुष्टाऩत्तिऱ्कु नेरे अङ्गम् अऩ्ऱागैयाल् द्रव्यादि पदार्त्तङ्गळ् एऴिऩ् सिन्दऩै अनावच्यगम् ऎऩ्ऱु उपेक्षै सॆय्द गौतमरुक्कु - अवऱ्ऱोडु सॊल्लप्पट्ट मऱ्ऱ वैशेषिग शास्त्रप् पॊरुळिल् नोक्कुण्डु ऎऩ्गैक्कु ऒरु आदारमुम् इल्लै। ऒरु पॊरुळ्।अदऩ् अमैप्पु-अदऩ् असा तारण धर्मम् इवैगळ्दाऩ् अदैक्कुऱिक्कुम् पदत्तिऱ्कुम् पॊरुळागुम्” ऎऩ्ऱु सॊल्लप्पट्ट अम्मूऩ्ऱैयुम् लोकवेदङ्गळै अनुसरित्तु सीडर्गळे अऱिन्दु कॊळ्वार्गळ्, ऎऩ्ऱु अवर् निऩैत्तार् ऎऩ्गै पॊरुन्दुम्।न्यायविस्तरविरोधनिस्ताराधिकारः (१६) वैशेषिगमुम् गौतमीयमुम् वेवेऱु मदङ्गळ्।" २३३ आगम कँलक अनुमानब हि भूत ६ miii, वायुप्रत्यक्षत्वादिक aruyii Garनाङ्क mouli&&& वैशेषिक Gro न केवलं वैशेषिकोक्तद्रव्यगुण दिपदार्थानामत्रोपेक्षणमात्रम् । किन्तु तद्विरुद्धार्थ प्रदर्शनप्रावण्यञ्च - अस्तीति न गौतमस्य वैशेषिकेण निश्शेषसंवाद इत्याह-आगम इति । शब्दप्रमाणमित्यर्थः । अत्र गौतमीये त I तन्त्रे - " प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि " इति सूत्रे - प्रत्यक्षादेरिव शब्दस्यापि पृथक् प्रामाण्यं प्रतिपादितम् । तत्र तु वैशेषिके " एतेन शाब्दं व्याख्यातम् " इति सूत्रे – एतेन = कार्यकारणभावातिरिक्तस्याप्यनुमानत्वकथनेन शाब्दं = शाब्दबोधः, लैङ्गिकत्वेन व्याख्यातमिति कथनात् प्रत्यक्षानुमानयोर्द्वयोरेव पृथक् प्रामाण्यं, आगमस्थानुमाना- तर्भावश्चोतो भवति । अनुमानप्रयोगश्च – इमानि पदानि, स्मारितार्थसंसर्गज्ञानपूर्वैकाणि; आकाङ्क्षादिमत्पद- कदम्बकत्वात् । गामानयेति वाक्यवदिति बोध्यः ॥ । वायुप्रत्यक्षत्वेति । " स्पर्शश्च वायोः" इति वैशेषिकसूत्रम् । तत्र लिङ्गमिति शेषः । ततश्च योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स कचिदाश्रितः ; पृथिव्यादिस्पर्शवदिति सामान्यतो दृष्टानुमानेन स्पर्शाश्रय सिद्धौ ; तस्य नीरूपत्वेन पृथिव्यादित्रये, स्पर्शवत्त्वेनाकाशादिपञ्चके चान्तर्भावनिरासे परिशेषादष्टद्रव्यातिरिक्त- द्रव्यरूपवायुसिद्धिरिति तन्मतम् । न्यायमते तु — वायुः प्रत्यक्ष एव । तथाहि — “ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः” इति गौतमसूत्रम् । तदर्था:= इन्द्रियार्थाः ; इन्द्रियग्राह्या इति यावत् ॥
६६ तत्र न्यायवार्त्तिके उद्योतकार आह - " पृथिव्यादिगुणा इत्येतस्मिन् पदेऽनेकस्समा सस्सम्भवति । कथमिति ? पृथिव्यादीनां गुणा इति षष्ठीसमासः । पृथिव्यादीनि च गुणाश्चेति द्वन्द्वः । पृथिव्यादयो गुणा येषामिति बहुव्रीहिरिति । एवमनेकसमासोपपत्तेः संशयः - किमत्र तत्त्वमिति । द्वन्द्वस्समास इति तत्त्वमिति प्रतिज्ञाय, पृथिव्यादीनामनिन्द्रियार्थत्वप्रसङ्गेन, पृथिव्यादिपदग्रहणवैयर्थ्येन च षष्ठीसमासं पृथिव्यादिगुणकपदार्थान्तराप्रसिद्धेश्व बहुव्रीहिपक्षं प्रतिक्षिप्य द्वन्द्व एव समास इति स्थापितम् । ततश्च तेनैव सूत्रेण पृथिव्यादितुल्यतया वायोरपि प्रत्यक्षत्वमुकं भवति । पृथिव्यादिप्रत्यक्षत्वहेतोर्वायावपि अविशिष्टत्वात् । प्रत्यक्षगुणाश्रयत्वं हि द्रव्यप्रत्यक्षत्व- प्रयोजकम् । नत्भूतरूपवत्त्वम् । आत्मन्यव्याप्तेः । बहिरिन्द्रियमात्रेऽयं नियम इत्यपि न ; गौरवात् प्रमाणाभावाच्च । ततश्च वायुरपि प्रत्यक्षस्पर्शाश्रयत्वात् प्रत्यक्ष एव । तर्हि पृथिव्यादितुल्यतया प्रत्यक्षशब्दगुणाश्रय आकाशोऽपि प्रत्यक्षः स्थादिति चेन्न । पृथिवीं पश्यामीतिवत् - आकाशमवलोकयामीत्यनुभवाभावात् । कार्ये सति कारणगवेषणात । न तु कारणमस्तीति कार्यापत्तिः । वेदान्तिनस्तु तत एव हेतोराकाशप्रत्यक्षत्वप्रसङ्गे इष्टापत्तिमेव कुर्वाणाः नीलं नभ इत्याद्यनुभवबलात् आकाशः प्रत्यक्ष एवेत्याहुरित्यन्यदेतत् । वायुप्रत्यक्षत्वादीत्यादिना - उपमानस्य न्याय- मतेऽनुमान बहिर्भावग्रहणम् ॥
‘सप्तम् अनुमानत्तै विड वेऱाऩदु, वायु प्रत्यक्षमे’ ऎऩ्ऱु सॊल्लुगिऱ गौतमरुक्कु वैशेषिगत्तोडु मिगप्पॊरुत्तम् ऎऩ्बदिल्लै। अबिप्राय पेदम् ३० २३४ देशिकाशयप्रकाशसहिते परमतभङ्गे or न्याय की भूषण- उदयनादिमतभेदप्रवृत्ति यथाप्रमाणं सर्वपदार्थचिन्त निश्शेषसंवाद ७०। विवाद गग क्रं शीक्र uji गल muyi gung वरुगिऱदु। वैशेषिगर् सायैयिल् उळ्ळ सिल वेदान्दनूल्गळिल् Grujug। ?” काळा अर्थ कळना २नान्नाuji वैशेषिकच्छा ये ui Gov वेदान्तावलम्बिमतान्तर / सुवर्णश्यामिकान्याय कुंr शोधिलं किं कनायका।
निश्शेषसंवाद इति । एकदेशसंवादस्तु सर्वस्यापि शास्त्रस्य सर्वेणास्तीति न स इह उद्भावनीय इति भावः । एवञ्च कचित् कणादोक्तपदार्थेषु गौतमस्य विमतौ स्पष्टदृष्टायां तेनैव न्यायेन यथाप्रमाणं अन्येष्वपि पदार्थेषु प्रकारान्तराश्रयणं गौतमसम्मतमेवेत्याह- विवाद ११।०० क्रं कृशीकृ ४ इति । परस्परं विवादकरणे अनयोस्तन्त्रयोरप्रतिषिद्धे सति इत्यर्थः । उक्तार्थस्योपष्टम्भकमाह Quigi ग LT इति । कणादतृणीकरणन्यायेन अन्योक्तानुसारस्यावश्यकर्तव्यत्वनिर्बन्धाभावादेवेत्यर्थः । न्याय क्रাল इति । न्यायशास्त्र एवैकम्मिन् इत्यर्थः । न तु भिन्नतन्त्रयोर्द्वयोरिति भावः । भूषणोदयनादीति । जीवज्ञानस्य नित्यत्ववादी न्यायभूषणकारः । अनित्यत्ववादी उदयनः । तदुक्तं तत्त्वमुक्ताकलापे - " नित्याया एव बुद्धेः स्वयमभिदधतः केचिदद्रव्यभावं सम्बन्धं धर्मतोऽस्याः कृतकमकथयन् भूषणन्यायसक्ताः " इति । भूषणन्यायसक्ताः = न्यायभूषणमतनिष्ठाः। एवं - " अत एव हि भूषणमते नित्यसुखसंवचेतन सम्बन्ध सिद्धिरपवर्गे साधिता " इति न्यायपरिशुद्धिग्रन्थोऽपि भाव्यः । उदयनादीत्यादिना पदपदार्थेषु लेखन-प्रतिपादनादिसङ्क्षेपदक्षाणां दीधिति- कारप्रभृतीनां ग्रहणम् । तैर्ह्याकाशादीनामीश्वरस्वरूपत्वं, मनसस्त्रसरेण्वात्मकत्वं, अतीन्द्रियपरमाणु-व्यणुकाद्यभावः इत्यादिबहुस्वैरसञ्चारः कृतः ॥ अथ नैयायिकैर्वैशेषिकानुकरणस्याकरणेऽपि वेदान्तिष्वेव केचित् स्वग्रन्थान् वैशेषिकमनुसृत्य निबबन्धुः किल । तत्र का गतिः ? । इति पृच्छायामाह - वैशेषिकेति । वैशेषिकच्छायया जीवेश्वरयोरत्यन्तमेदः, ईश्वरस्य निमित्तत्त्रमात्रमित्यादीनि कल्पयित्वा प्रवृत्तं मध्वादिमतमित्यर्थः । सुवर्णश्यामिकेति । " तं सन्तः श्रोतुमर्हन्ति सदसव्यक्तिहेतवः । हेन्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा ॥” इति महाकवि कालिदासपद्यमि- हानुसंहितम् । तथाच यथा प्रदीप्तपावकार्चिषि प्रक्षिप्तस्य हेमपिण्डस्योत्कर्षनिकर्षव्यक्तिर्भवति, तथैव सत्तर्कानुगृहीत- श्रुत्यादिशण कषणेन तत्त्वातत्त्वव्यवस्था तेष्वपि स्फुटीभविष्यतीत्यर्थः । श्यामिका = ताम्रिकादिधात्वन्तरमिश्रितत्वम् । विशुद्धिः = तदभावः, शुद्धषोडशवर्णस्वर्णत्वमिति यावत् ॥ उण्डु ऎऩ्ऱ पिऱगु, प्रमाणङ्गळैक् कॊण्डु ऎल्लावऱ्ऱैयुमे वेऱाग विसारित्तु मुडिवु कट्ट वेणुम्। इदऩाल्दाऩ् न्यायसास्तरत्तिऱ्कुळ्ळेये न्याय पूषण ऩुडैयदु-उदय नरुडैयदु ऎऩ्ऱु वॆव्वेऱु सम्ब्रदायङ्गळ् उण्डायिऩ। वैशेषिग मदत्तिऩ् सायैयिले सिलर् तङ्गळ् वेदान्दत्तै अमैत्तुळ्ळ ऩर्। अदऩ् पॊरुळ्गळिलुम् नॆरुप्पिलिट्ट पॊऩ्ऩिल् पोल् सोदऩै सॆय्दु न्यायविस्तरविरोधनिस्ताराधिकारः (१६) २३५ शुभळा न्यायशास्त्रान कुश - काशावलम्बनगमनिकै ५६०, विरुद्धांशपरित्याग, अनुकूल- ग्रन्थान्तरकरणLDIT ५६० गी चतुर्दशविद्यास्थानसम्पत्ति कानान्ना। १६ GILIT विद्यास्थानपरिगणकी धर्मशास्त्राणां कृष्OG विरोध कऴिक्क का भी की। एवमेतावता गौतमीयस्य निश्शेषनिराकरणं अक्षपादभक्तानामनिष्टमिति प्रदर्श्य, बौद्धजैनादिन्यायेष्विव गौतमीये अत्यन्तवेदविरोधाद्य सामञ्जस्यादर्शनेन तस्यापेक्षिकं सम्यक्त्वमादाय तस्य कृत्स्नपरिग्रहो वा आंशिकस्वीकारो वा, एतादृश निर्बन्धाभावे - नाथमुन्यादिभिरिव तत्सर्वं सन्त्यज्य वेदानुकूल न्यायशास्त्रग्रन्थान्तरकरणं वाऽस्तु । तत एव चतुर्दश विद्यास्थानपरिगणनोपपत्तिरित्याह- इति । गौतमीयस्य कृत्स्ननिराकरणानर्हत्वे सतीत्यर्थः । अस्य च हेतोः - " गमनिकै शुक्र, विरुद्धांशपरित्याग शुक्र इत्युभयपक्षमात्र एवार्थवशादन्वयः । " नत्वनुकूलग्रन्थान्तरकरण शुक्र इति तृतीयपक्षे । एतत्परित्यागानहेत्वस्य ग्रन्थान्तरकरणपक्षप्रतिकूलत्वात् । न्यायशास्त्र /f]६) इति बहुवचनं पूर्वोक्तबद्धादिन्यायसमालोचनेन कृतम् । कुशकाशेति । मुख्यस्य कुरास्याभावे गौणकाशग्रहणवत् - अत्रापि वेदान्तशास्त्रेण सर्वांश संवादिन्यायविस्तरालामेऽपि एकदेशसंवादिनो गौतमीयस्यैव ग्रहणम् । नतु बौद्धादिन्यायानाम् । तेषु स्वल्पांश संवादस्याप्यलाभादित्याशयः । गमनिका - मार्गः, उपाय इति यावत् । अत्रापरितुष्यतामाह - विरुद्धांशपरित्याग इति । तत्रापरिदोषहेतुर्न्यायपरिशुद्धा- वभिधीयते - " यद्यपि कुशकाशावलम्बनेन पक्षान्तरादाधिक्यमस्य पक्षस्य । अथापि न तद्वेदान्तसन्निधौ । न खलु मशकाद्बलिष्ठोऽपि मातङ्गः कण्ठीरवमुपरुणद्धि । ॥। उक्तञ्च पूर्वाचार्यैः- :-" काणादमाक्षपादं वा कापिलं तन्त्रमेव वा । तन्त्राण्येतानि सर्वाणि न तन्त्राण्यात्मनिर्णये ॥” इति । आत्मनिर्णये न तन्त्राणि न कारणानि । शिष्टापरिग्रहादिसूत्रभाष्यस्वारस्य पर्यालोचयतां अत एवात्राप्यपरितुष्यतां पक्षान्तरमाह — अनुकूलग्रन्थान्तरकरण - शुक्रं ळङ्गी इति । पाकं पचतीतिवन्निर्देशः । विद्यास्थानसम्पत्तिः = तत्सम्पादनम् । विपक्षे बाधकमाह- QUOT GITL इति । उक्तेषु त्रिषु पक्षेषु अन्यतमस्याप्यनङ्गीकार इत्यर्थः । धर्मशास्त्र in Sir = एतदधिकारारम्भे प्रदर्शितमनुयाज्ञवल्क्यदिस्मृतयः ।
उण्मैयुणर वेण्डुम्। पौत्त जैनादि न्याय शास्त्रङ्गळै विड कुस।कास क्रहण नीदियाल् इन्द न्यायमे मेलॆऩक् कॊळ्ळुदल्, तवऱाऩवैगळै विडल्, पुदिय तवऱाद ऒरु नूलियऱ्ऱल् सॆय्दु पदिऩाऩ्गु वित्यास्ताऩङ्गळ् ऎऩ्ऱ सॊल्लैक् काक्कलाम्। इदल्लदु वेऱु गतियिल्लै। पदिऩाऩ्गु धर्म-वित्यास्ता नङ् गळैक् कणक्किडुम् मुऩ् सॊऩ्ऩमन्वादि स्मृतिगळोडु विरोदम् वरुम्। ल्क्या २३६ शुभ देशिकाशयप्रकाशसहिते परमतभङ्गे इदै वेदान्दङ्गळोडु पॊरुन्द विडुम् वगै। ३६
- परमाणुकारणवादळं, केवल निमित्तेश्वरवाद, वेदपौरुषेयत्व, पाषाणकल्पमोक्ष ऎऩ्ऱाप्पोलच् चॊल्लुम् १ अथापि - " यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकाज्ञाननिरासहेतुः करिष्यते तस्य मया निबन्धः ॥" इत्यादि वदतां अक्षपादभक्तानां वेदान्ताविरोधेन गौतमीयसूत्रनिर्वहणमेव न्याय्यमिति सदृष्टान्तमाह - शुभा इति । महर्षिभिर्विद्यास्थानपरिगणनस्यावश्यमविरोद्धव्यत्वे सतीत्यर्थः । परमाणु- कारणवाद इति । यद्यपि गौतमीये – “सेनावनादिवद् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम्" इति सूत्रे अतीन्द्रियपरमाणु सद्भावः प्रतीयते, अथाप्यस्य पूर्वोक्तरीत्या दृश्यस्यैवावस्था विशेषपरत्वमादायापि तथा व्यवहारोपपत्तेः, परमाणुसद्भावाभ्युपगमेऽपि तस्य जगत्कारणत्व कण्ठोक्तयभावाच्च न तत्र गौतमस्याभिसन्धिलिङ्गं पश्याम इत्याशयः । केवलनिमित्तेश्वरवादळं इति । वैशेषिके चतुर्थप्रथमे परमाणूनां जगत्कारणत्वं प्रसाध्य षष्ठप्रथमे - " बुद्धिपूर्वा वाक्यकृतिर्वेदे " इत्यादिना ईश्वरस्य केवळनिमित्तत्वमुक्तम् । न तथेह गौतमीये दृश्यत इत्यभिप्रायः । वेदपौरुषे- यत्व ं इति । यथा वैशेषिकोपक्रमे " तद्वचनादाम्नायस्य प्रामाण्यम्” इति वेदस्य पौरुषेयत्वमीश्वरोक्तत्वरूपं ज्य मुक्तकण्ठमुक्तम् - न तथा गौतमीये " मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामान्यमाप्तप्रामाण्यात् " इति हि तत्राभिहितम् । तदन्यथाऽपि सुनिर्वहमिति भावः । तथाच न्यायपरिशुद्धिः यच्च " मन्त्रायुर्वेद " इत्यादिसूत्र,
तदपि अनादिनिधनस्यैव वेदस्य प्रतिकल्पमीश्वरेणाप्ततमेन यथापूर्वं प्रवर्तनमभिसन्धायेति सुगमम् " इति । म्
पाषाणकल्पमोक्ष इति । वैशेषिके - " आत्मकर्मसु मोक्षो व्याख्यातः " – आत्मकर्मसु श्रवण- मनन- निदिध्यासनेषु मोक्षो भवतीत्युक्त्वा मोक्षे सुखाङ्गीकारे सुखसामान्यस्य दुःखसामानाधिकरण्यव्याप्ततया तस्या- प्यङ्गीकारप्रसङ्गेन सुखाद्यवच्छेदकस्य देहस्य तदानीमभावात् जीवाः कदाचिदशेषविशेषगुणशून्याः, अनित्यविशेष- गुणवत्त्वात् ; आद्यक्षणावच्छिन्नघटादिवदित्यनुमानाच्च मोक्षस्य पाषाणतुल्यतया सुखादिसामान्यशून्यत्वं कथितम् । न्यायमते तु पूर्वोक्तानुमानानां दृष्टान्तासिध्यादिदोषदूषिततया, वैषयिकसुखस्यैव दुःखसामानाधिकरण्य-देहाव- च्छिन्नत्वादिनियमवत्त्वेन – “अविनाशी वाऽरेऽयमात्मा अनुच्छित्तिधर्मा” इत्यादिश्रुतिप्रतिपन्न नित्यसुखस्यातादृशत्वेन, गौतमस्य मोक्षदशायां पाषाण कल्पत्वकण्ठोक्तयभावाच्च न तत्र तस्याभिसन्धिरिति भाव्यम् । तदुक्तं न्यायपरिशुद्धौ - यत्तु “ बाधनालक्षणं दुःखम् । तदत्यन्तविमोक्षोऽपवर्गः " इति, तत्र दुःखात्यन्तनिवृत्तेरपवर्गत्वं सर्वाङ्गीकृतम् । ६६
आऩबिऩ्बु - ‘परमाणु कारणम्’ ऎऩ्ऩुदल् - ‘ईच्वरऩ् निमित्त कारणमे आवाऩ्’ ऎऩ्ऩुदल् - ‘वेदम् ईच्वरऩ् इयऱ्ऱियदु’ ऎऩ्ऩल् - ‘मोक्षम् ऎऩ्बदु’ आत्मावुक्कु वॆऱुम् शून्य निलै’ ऎऩ्बदु पोऩ्ऱ अवरुडैय पेच्चुक्कळुक्कु अदिग मुक्यत्वम् कॊडामल् - ताङ्गळे वेऱुविदमाग करुत्तुरैक्कुम् अवरुडैय विपरीतार्थ / तात्पर्य Bf Gurovig न्यायविस्तरविरोध निस्ताराधिकारः (१६) २३७ कानान्ना ॐ भी कृक ना तात्पर्यान्तर LG सूत्रान्तर ५ वेदान्ताकना G एकरस LOIT & योजिकंलक अक्षपादभक्तां कण्ठ अनुरूप। नाऩ् मऱैक्कुत् तुणैयाग नल्लोर् ऎण्णुम् नालिरण्डिल् ऒऩ्ऱाऩ नयनूल् तऩ्ऩिल् नच तत्रानन्दः श्रौतः कण्ठोक्त्या प्रतिषिध्यते । तदभिप्राये चानन्यथासिद्धं न किमपि लिङ्गं पश्यामः । अत एव हि भूषणमते नित्यसुखसंवचेतनसम्बन्ध सिद्धिरपवर्गे साधिता । एतेन - " तस्मात् सर्वदुःख विमोक्षोऽपवर्गः " इति चतुर्थाध्यायवाक्यमपि निर्व्यूढम् । तत्राप्यानन्दनिषेधाभावात् " इति ॥
विपरीतार्थ /i१६६i=वेदान्तविपरीतार्थाः । तात्पर्य नान्ना ॐ
का तात्पर्यं परित्यज्यम् । इत्यनेनान्वयः । अत्र अस्य चाग्रे armigo वेदान्त GIF एकरसDIra योजिकंलक अनुरूप चमध्ये दृष्टान्तः - कना तात्पर्यान्तर LG सूत्रान्तरf GurG६० इति । एतदुक्तं- भवति गौतमीये द्वितीयप्रथमे “प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् " इत्यादिना पूर्वोक्तप्रत्यक्षलक्षणप्रस्तावे आत्ममनस्संयोगेन्द्रियमनस्सँयोगयोः कारणयोरनुक्तया प्रत्यक्षलक्षणन्यूनतेत्याशङ्क्य - “ज्ञानलिङ्गत्वादात्मनो नान- वरोधः - तदयौगपद्यलिङ्गत्वाच्च न मनसः" इति सूत्रद्वयेन तयोरिहार्थालाभेन न तल्लक्षणन्यूनतेति समाधीयते । तत्र खद्योत उक्तं - " अत्र सूत्रद्वयोक्तं समाधानं प्रौढिवादमात्रम् । सर्वेषां प्रत्यक्षकारणानां वचनं तल्लक्षणे नातीवा- वश्यकमित्येव पूर्वपक्षिणस्समीचीनमुत्तरमिति वार्त्तिकतात्पर्ययोः स्पष्टमिति । एवं बहुषु स्थलेषु तेषां तात्पर्यान्तर- कल्पनम् आकर एवावगन्तव्यम् । एकरस LOIT & = ऐककण्ठयेन । अक्षपादभक्त- यदक्षपादः प्रवर: " इत्यादि वदन्तः अक्षपादपक्षपातिनः । ६६ अथाधस्तादेतदधिकारोक्तरीत्या न्यायविस्तरशास्त्रस्य विद्यास्थान निवेशनं विना नान्या गतिरिति काणादमत दन्धनं दर्शयित्वा सुदृढमाह - hiroom / इति ।" ऋचो यजूंषि सामानि तथैवाथर्वणानि च" इत्युक्तच्छन्दश्चतुष्टयस्योपकारकत्वेनेत्यर्थः । स्वार्थस्याल्प श्रुतेभ्यश्च्छादनाद्वेदानां छन्दस्त्वम् । भाषायामपि तत एव Loon। D इत्याख्याकरणम् । तस्मादेव तदर्थव्यक्तीकरणायोपकारकापेक्षा । Gori । = मनु-याज्ञ- बल्क्यादिपरिगणितानाम् । mirrorg। इति । अस्य बहुधा अर्थमाहु: - ६६१९६० इति षट्स्वि- त्यर्थः । इदश्च दशसङ्ख्योपलक्षणम् । यथाश्रुते षडङ्गेषु न्याय विस्तरस्यानन्तर्भावात् । दशसङ्ख्या सम्पत्तिश्च- “BIT६OTLD ♚♚G♚$/२m & " इति प्रधानभूतवेदोपकारकप्रस्तावेन बेदान् चतुरो विहायेति बोध्यमिति केचित् । अन्ये पुनः - पुराणधर्मशास्त्रयोः स्वावगतवेदवाक्यार्थमाद्रव्यक्तीकरण हेतुत्वेन कृत्स्नवेदोपकारकत्वाभावात् मऱ्ऱ सूत्रङ्गळिऱ्पोले ऎङ्गुम् वेदान्दङ्गळोडु ऒरुङ्गविट्टु निर्वहित्तल् अवरुडैय पक्तर्गळिऩ् कडमैयागुम्। (पासुरत्तिऩ् करुत्तु) नाऩ्गु वेदङ्गळुक्कुम् तुणैयाग नल्लोर् ऎण्णिय ऎट्टुवगै शास्त्रङ्गळिल् ऒऩ्ऱाऩ न्याय शास्त्रत्तिल् वेद विरोदत्तै २३८ देशिका शयप्रकाशसहिते परमतभङ्गे कूऩ् मऱैत्तल्, कोदुळदु कऴित्तल्, मऱ्ऱोर् कोणाद कोदिल्वऴि वगुत्तलऩ्ऱि ऊऩ्मऱैत्त उयिरॊळिबोल् ऒत्तदु ऒत्तवादु उयिरिल्लाक् काणादम् उरैत्त ऎल्लाम् ते विहाय–पुराणधर्मशास्त्रयोः क्रमेण भूयिष्ठतया वेदोत्तरपूर्व भागोपबृंहणत्वतः तयोर्वेदभागयोस्ते अन्तर्भाव्य वा Jhirol।roor tq। इति अष्टसु विद्यास्थानेष्वित्यर्थ इति उक्तमिति वदन्ति । श्रीकैशिकद्वादशी - नालिरण्डिल् माहात्म्ये भट्टपराशरपादैः मीमांसाया उपकारं प्रदर्शयद्भिः - तस्याः सोपबृंहणवेदार्थावगतिहेतुत्वकथनात् तन्न्यायस्य न्यायविस्तरेऽपि तुल्यतया पुराणवर्मशास्त्रयोश्च वेदमात्रोपबृंहणयोरतादृशत्वात् तद्वयं विहाय तादृशैरेव शीक्षादिभिस्सह अष्टावेव विद्यास्थानानीति - HTTPSri Gori
६४
birgo tq।) इत्युक्तम् । अत्र - DD - सोपबृंहणवेद चतुष्टयम् । Gori भट्टपराशरादयः इत्यर्थो भाव्य इति पूर्वे । वस्तुतस्तु जयन्तभट्टकृतन्यायमञ्जय " षट्तर्की " इति पदप्रयोगदर्शनात् तर्काः षटू प्रतीयन्ते । साङ्ख्य- जैन- बौद्ध चार्वाकाः चत्वारः, वैशेषिक- नैयायिकौ द्वाविति ते परिगण्यन्ते । पूर्वे चत्वारः नास्तिकाः, इति तेषां एकराशिता उत्तरयोस्तु आस्तिकत्वात् अन्यराशिता इति सूचनायैक गाधायां progrा इति विभज्य कृतो निर्देशः समञ्जसो भवति । एषु गौतमीयं न्यायशास्त्रमेव वेदाङ्गम
महान्तो मन्यन्ते " इति वर्णनमेव वरीयः इति । - अन्यतमः ॥ Tom।öा - वेदविरोधापातप्रतीतिरूपदोषः । om p♚लं तत्परिहारेण ऋजूकरणम् । Garal= असारांश: । विरुद्धांश इति यावत् । Gars - Garm इति अस्मिन् पक्षे परिहार- क्लेशाभाव उक्तः । काकी इति विरोधाभावः । ततश्चाभ्यां पदाभ्यां प्रथम- द्वितीयपक्षव्यावृत्तिः प्रदर्शिता । नियम इति ॥ नूतनग्रन्थकरणरूप तृतीयपक्षः । तथाच सोपबृंहणवेदार्थविशदीकरणाय कस्यचिन्न्याय- विस्तरस्यापेक्षितत्वे सति एकदेशसंवादिगौतमीयपरिग्रहादपि सर्वांशसंवादिभगवन्नाथमुन्यादिप्रणीतन्यायतत्त्वाद्यनु- सरणमेव युक्तम् । होतृशाखोक्त हौत्रपरिग्रहन्यायात् । होतृधर्माणां औद्गात्रादिशाखासु पूर्णोपदेशाभावात् होतृशाखात एवापेक्षित यावदशोपजीवनं हि न्याय्यमित्युच्यते । तद्वदिति भावः । श्राली = विना । । ९♚$$url=९♚GHQ । = विद्यास्थानत्वेनैकराश्येऽपि अननुकूलतया वेदाविरुद्धविद्या स्थानान्तरेण तुल्यं न स्यादित्यर्थः । न्यायविस्तरशास्त्रमित्यध्याहारः ॥ अत्र दृष्टान्तमाह - Dar Tmn २uiii Gur इति । देहसम्बन्धसङ्कुचितजीवज्ञानव- दित्यर्थः । ज्ञानत्वेन नित्यमुक्ता दिज्ञानतुल्यमपि इदं ज्ञानं सङ्कुचितत्वाद् यथा तत्तुल्यं न भवति तद्वदिति भावः । ततश्च गौतमीयैः काणादोपजीवनं न कार्यमिति दर्शयितुं तन्मतस्य विपरीतत्वं व्यर्थत्वञ्चाह - २ इति । अडक्कुदल् अडङ्गाद पोदु अप्भागत्तैक् कऴित्तुविडल् - अल्लदु नल्लदोर् शास्त्रम् वेऱु इयऱ्ऱल् सॆय्दलिऩ्ऱि - इन्द न्याय विस्तरम् ऎऩ्ऩुम् वित्या स्ताऩम् - तऩ्ऩोडु ऒत्त मऱ्ऱ शास्त्रङ्गळोडु ऒव्वादु। जीवऩुडैय सुरुङ्गिय ज्ञान ऒळि मुक्तर् नित्यर् इवर्गळिऩ् ज्ञान ऒळियोडु ऒव्वाददु न्यायविस्तरविरोध निस्ताराधिकार : ( १६ ) वाऩ्मऱैक्क मडिगोलुम् वण्णम् ऎऩ्ऱोम् मऱ्ऱिदऱ्कार् मऱुमाऱ्ऱम् पेसुवारे। इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु परमतभङ्गे न्यायविस्तरविरोधनिस्ताराधिकारः षोडशः ॥ २३९ तदुक्तिर्वेदविपरीतेति निर्जीवा सेत्यर्थः । १०११००० कङ्क इति । आकाशमाच्छादयितुं वस्त्रान्तस्य विक्षेपण मित्र तदुक्तिरुपहास्या व्यर्थत्वादित्यर्थः । निमीलयतु लोचने नहि तिरस्कृतो भास्करः " इतिवत् न वस्त्राणि विक्षिप्य तथाच वैशेषिकारम्भे - " अथातो धर्मं व्याख्यास्यामः " इति प्रतिज्ञानमात्रेण वियत् सर्वमाच्छाद्यत इति भावः । नहि कृत्नो धर्मस्तोमः विचारितो भवतीति असङ्गतोऽयमारम्भ इति हृदयम् । = पूर्वाधिकार इति स्नो शेषः । ♚m। इत्यादि । तथाचास्मदुक्तं को वा प्रतीपयेदित्यर्थः ॥ अक्षपादपक्षपाततो दुरुक्ति मेदुरान् शिक्षयन् समक्षमत्र वेदमौलिदेशिकः । पन्नगारिपक्षजातवातवेगसूक्तिकः पद्मनेत्रपादपद्मशेखरो विराजताम् ॥ १ ॥ पक्षे गौतमकारिते श्रुतिशिरोरोधात् त्रिधा स्याद् गतिः कृत्स्नस्वीकरणं कथञ्चिदपि वा तात्पर्यनिर्वाहतः । यद्वा शोधनपूर्वकं त्वनुचितांशस्यैव निष्कासनं स्याद्वा शोधितशास्त्रसृष्टिरिति च व्याख्यातवान् देशिकः ॥ २ ॥ इति श्रीवत्सवंशायनस्य देशिकचरणपरायणस्य नारायणस्य कृतिषु परमतभङ्गव्याख्यायां देशिकाशय- प्रकाशाभिख्यायां न्यायविस्तर विरोधनिस्ताराधिकारः षोडशस्सम्पूर्णः ॥ पोल्। वैशेषिगऩिऩ् उयिरिल्लाप् पेच्चॆल्लाम् आगायप् पन्दलेयागुम्। तुणि यिऩ् नुणियाल् वाऩवॆळियै मऱैक्क यत्तनिप्पदु पोलत्ताऩागुम्, इदै नाम् ऩि मुऩ् अदिगारत्तिलेये कूऱिऩोम्। इदै यार् मऱुक्क मुडियुम् ? परमदबङ्गम् न्याय विस्तर विरोद निस्तारादिगारत्तिऩ् तमिऴ् मॊऴि पॆयर्प्पु मुऱ्ऱुम्। नू