अथ परमतभङ्गे वैयाकरणभङ्गाधिकारः ॥ सायामऱैगळिल् सत्तन्दॆळिन्दिडच् चाऱ्ऱुदलाल् तूयारिवरॆऩ्ऱु तोऩ्ऱ निऩ्ऱे पल सूदुगळाल् मायामदमुम् मऱुसिऩवादुम् पवुत्तमुम् सेर् वैयागरणर् सॊल्लुम् मऱुमाऱ्ऱङ्गळ् माऱ्ऱुवमे। श्रीः श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः श्रीमते रामानुजाय नमः ॥ [१४] श्रीमते वेदान्तगुरवे नमः ॥ अथ परमतभङ्गव्याख्यायां देशिकाशयप्रकाशाभिख्यायां वैयाकरणभङ्गाधिकारः चतुर्दशः ॥ नतयस्सन्तु नश्शश्वत् अन्तकालेऽपि मुह्यताम् । गुरुमालामध्यमध्यासीने वेङ्कटनायके ॥ १ ॥ वृषगिरिमस्तकनिस्तुलवस्तुदयापात्रमेष गुरुवर्यः । अस्यत्यधिकारेऽस्मिन् चतुर्दशे शाब्दिकान् बहुधा ॥ २ ॥ लोके वेदे च सम्यग् व्यवहृतिविषयं शुद्धशब्दानुपूर्व्याः पाणिन्याद्या मुनीन्द्रा विदधुरिह युगे शब्दसञ्ज्ञं हि तन्त्रम् । तत्रार्वाग्भिः कुग्भिर्हठघटितबहुस्फोटवादे स्फुटार्थान् दोषान् सन्दर्शयन्त्या दिशतु मम मतेः कौशलं देशिकेन्द्रः ॥ ३ ॥ अथ वैयाकरणभङ्गं गाधया प्रथमं सन्तनोति - Tranॐ इति । स्वरसगतिमती श्रुतिरिति प्राचीनव्याख्या । वयं तु " अपतिता, नित्येति यावत्" इत्यपि ब्रूमः । तथाच - अनादिनिधनेष्वागमेषु शब्दसाधुत्वमनुशासतां वैयाकरणानां यद्यपि बहुशो वैदिकत्वमेव सर्वत्र सङ्घष्यते ; तथाऽप्यर्वाचीनैः हर्यादिभिः बौद्ध - शाङ्कर - जैनादिपक्षकक्षीकरणेन बह्वी वैयाकुली व्याकृतौ कृतेति, तामेनामत्र कृत्स्नशो निकृन्ताम इत्यर्थः । एतेन बौद्धभङ्गादि - भास्करादिभङ्गान्ताधिकारानन्तर्यम् अस्याधिकारस्य युक्तमिति दर्शितं भवति । इयञ्च तत्तन्मत- साम्यमूलकैतन्मतस्मृतिघटिता अवसरसङ्गतिः अनन्तरवाक्य एव स्फुटीभविष्यति ॥ १४८ बौद्ध जैन निराकरणक्रम क्रं श्री कॊण्डु ईमुम् @ विपरीतं देशिकाशयप्रकाशसहिते परमतभङ्गे “HOLPmm नाकं " ब्रह्मविवर्तपरिणामवाद का निराकरि ॐ Gr। वेदवादक चुकच्छ- मागा आi Gur Gov वेदाङ्ग निर्वहणवारवाणसंवृत रत्तिऩुडैय ऎसमॊदल् पुरिरासमादल् (आम्) ऎऩ्ऱु सॊल्लुम् कक्षा निरसि की। अथ पूर्वोत्तरे सङ्गमयति- बौद्धजैनेति । ब्रह्मविवर्तवादः अद्वैतिनाम् । तत्परिणामवादः भास्करादीनाम् । भास्करमतेऽपि अचेतनप्रकृत्यादीनां ब्रह्मपरिणामत्वमङ्गयकारीति पूर्वमेवोक्तं, न विस्मर्तव्यम् । तथाच चतुर्विधबौद्ध-निराकरणानन्तरं तद्वद्विवर्तवादिनां शाङ्कराणां पक्ष एवोपस्थितः ; नत्वन्येषाम् । ततः पश्चात् सङ्गतिविशेषेण जैनपक्षे प्राप्ते, निराकृते च तस्मिन् तदनन्तरमेव परिणामवाद साम्यात् भास्कराद्युपस्थितिरिति बौद्ध - जैनवादयोर्निराकरणे यः क्रमः पौर्वापर्यरूपः, स एव तत्समयोरद्वैति भास्कराद्येोर्निराकरणेऽपीत्युक्तं भवति ॥ एवं च पूर्वं प्रवृत्तयोबद्ध - जैनमतयोरनन्तरं प्रत्येकं तत्तत्समयोर द्वैति - भास्कराद्योः प्राप्तौ सत्यां वक्ष्यमाणरीत्या एतत्सर्वमतसाम्यमापन्नस्य वैयाकरणमतस्य एतत्सर्वानन्तर्यमेव युक्तमिति अवसरसङ्गत्या इदमिदानीं प्रस्तूयत इति भावेनाह– वेदवादेति । प्रतिबन्धकीभूत-शिष्यजिज्ञासानिवृत्त्युत्तरकालवक्तव्यत्वम् अवसरसङ्गतिरुच्यते । तत्र प्रथमं अद्वैतिभास्कर दिसाम्यमस्मिन् दर्शयति– वेदवादेति । = अद्वैति - भास्कराद्याः । वेदाङ्ग- निर्वहणेति । " शीक्षा व्याकरणं च्छन्दो निरुक्तं ज्यौतिष तथा । कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः ॥” इति व्याकरणस्य वेदाङ्गत्वात् तन्निर्वहणव्याजेनापार्थजातं तत्र परिकल्प्य भर्तृहर्यादयः प्रपञ्चं वञ्चयन्तीति गोमुखद्वीपि- न्यायेन वैदिकवेष संवृतातिविप्रलम्भकत्वरूपं साम्यं एषां परस्परमस्तीति भावः । वारवाणम् = कञ्चुकः । अथ बौद्ध-जैनतौल्यमपि अस्मिन् तुलयति — सर्व इति । अत्र मूले । मूले॥। शुक्र आदल् ऎऩ्ऱु Gargi इत्यत्र आदल् शुक्रम् ॥। शुक्र म् । शुकं न इति पठनीयम् । शब्दब्रह्म = शब्दाख्यं ब्रह्म । अत्र वैयाकरणेष्वेव भर्तृहर्यादीनां विवर्तवादः, हलायुधादीनां परिणामपक्षः ; इति उपरिष्टात् स्पष्टम् । ॥।
॥ परमदबङ्गत्तिल् वैयागरणमदबङ्गादिगारम् [१४] ६६ (पासुरत्तिऩ् करुत्तु) तवऱाद (नित्यमाऩ) वेदङ्गळिल् सॊल्लिलक्कणम् कूऱ वन्द पडियाल् इवर्गळ् तूयवरे” ऎऩ्ऱु पिऱर् निऩैक्कुम्बडि निऱ्कुम् वैयागरणर्गळ् - पल सूदुगळाल्-मायावादम् जैनसमयम् पौत्तमदम् इवै कळैक् कॊण्डु कुऴप्पिच् चॊल्लुम् वार्त्तैगळै इव्वदिगारत्तिल् विलक्कु Court। पौत्तर्गळैयुम् जैनर्गळैयुम् तळ्ळिऩ मुऱैयिल् अवरवर्गळैयडि यॊऱ्ऱिय अत्वैदिगळ् पास्करादिगळ् अवरवर्क्कु अडुत्तबडि तळ्ळुण्डार्गळ्। वेदविसारम् ऎऩ्ऩुम् पोर्वैयिल् मऱैन्दु विपरीतमाग विळक्किऩ इवर्गळैप् पोले-वेदाङ्गम् सॊल्लुगिऱोमॆऩ्ऱ वेषत्तिल् वन्दु - ऎल्लाप्पॊरुळुम् सप्तप्रम्हत्तिऩ् पॊय्प्पुऱत्तोऱ्ऱमो - परिणाममो आगुम् ऎऩ्ऱ वैया करणर् इदिल् विसारिक्कप्पडुगिऱार्गळ्। वैयाकरणभङ्गाधिकारः (१४) ‘प्रत्यक्षमल्लाद स्पोड कल्पऩै वीण्" याङ्कनां प्रत्यक्षसिद्धवर्णक muji वर्णसङ्घातविशेषरूपपद / rujii अर्थविशेषबोधकLDIT & स्फोट १०१ १४९ पदसङ्घातविशेषात्म का नाग वाक्या । कटे कं कLGठा साध्व- साधुविवेकार्थ शब्दप्रक्रियादिकं उपकारकLD DI।, " शब्द क्रं अर्थ क्रंल Amur Bogo" उपादानसमसत्ताकोऽन्यथाभावः परिणामः, यथा मृदादेर्घटः । तद्विषमसत्ताकस्सः विवर्तः, यथा रज्ज्वादेश्सर्पादिरिति अद्वैतवादे विवृतम् ॥ निरसिङ्की Gii इत्युक्तम् । सच स्फोटादिविषयको निरासो विस्तरेणाग्रे भविष्यति । इदानीं स्फोटक्कॢप्तेरेतच्छास्त्रप्रमेयं प्रति मनागप्युपकारकत्वाभावेन तत्कल्पकानां वादिनामचातुर्येकफलं प्रयासमुपहसति- यान्ना इति । प्रत्यक्षसिद्धेति विशेषणं वर्णवत् पदवाक्ययोरप्यभिमतम् । एतेन स्फोटप्रत्यक्षान्यथासिद्धौ वक्ष्यमाणायां हेतुर्दर्शितो भवति । स्फोटशब्दस्य – " बर्णपदादिभिः स्फोट्यते " इति व्युत्पत्तिमभिप्रयन्, तया फलितं वर्णपदाद्यतिरिक्तत्वं तस्य प्रकाशयति - प्रत्यक्ष सिद्धे त्यारभ्य - वाक्य (irayi इत्यन्तेन अर्थविशेषबोधकेति—“ स्फुटत्यस्मादर्थः " इति व्युत्पत्तिपक्षाभिप्रायेण । साध्वसाध्विति । तत्त्वातत्त्वे च अत्र धर्माधर्मजनकत्वरूपे । प्रकारान्तरस्य दुर्वचत्वात् । साध्वसाधुशब्दयोः प्रयोगस्य धर्माधर्मजनकत्वे प्रमाणञ्च - एकश्शब्दस्सम्यग् ज्ञातः (शास्त्रान्वितः ) सुष्ठु प्रयुक्तस्स्वर्गे लोके कामधुग् भवति " " नाकमिष्टसुखं यान्ति सुयुक्तैर्बद्धवाग्रथैः । अथ पत्काषिणो यान्ति ये चिक्कमितभाषिणः ॥ " इत्यादि । सुयुक्तैः सुष्ठुप्रयुक्तैः । बद्धवाग्र्यैः= सुबद्धशब्दरूपैः रथैः । इष्टसुखमिति बहुव्रीहिः । चिक्कमितभाषिणः = अपशब्द प्रयुञ्जानाः पुरुषाः । पत्काषिणः = तन्नामकान् नरकान् यान्ति । पादेन कषन्तीति पत्काषिणः । " हिमकाषिहतिषु " इति सूत्रात् पादशब्दस्य पदादेशः । पादकषणं महदूदुःखमिति हि प्रसिद्धिः । शब्दप्रक्रियादीत्यादिना स्वरप्रक्रियादिग्रहणम् । उपकारक) इति । स्फोटस्य सत्त्वेऽसत्वे वा एतच्छास्त्रप्रमेयस्य शब्दप्रक्रियादेर्न किश्चिदपहीयत इत्याशयः ॥ नन्वेवमपि स्फोट: प्रत्यक्षप्रमाणसिद्धत्वादवश्यमङ्गीकार्य एव । नच व्यर्थस्य न प्रत्यक्षगम्यतेति वाच्यम् । लोष्टादेरिव तत्सम्भवात् । नहि लोष्ट पश्यतः प्रयोजनं मन्दमिति तदर्शनस्य सुवर्णदर्शनता कल्प्यते ? इत्यत्र प्रत्यक्षस्य स्फोटे प्रमाणतामेव प्रणुदति शब्द इति वाक्यद्वयेन । ते हि तत्र स्फोटे प्रत्यक्षस्य प्रामाण्यं द्वेधा वर्णयन्ति । " गोशब्दादर्थं प्रत्येमि " इति आपामरं प्रसिद्धं प्रत्यक्षम् । गौरित्यत्र च गकारौकारविसर्जनीया इति त्रयस्सन्ति वर्णाः इति भगवानुपवर्षो व्याचष्टे । च एकवचनेनैकश्शब्दः प्रतिभाति । ततश्च वर्णाद्यतिरिक्तेन एकेन शब्देन भाव्यम् । नामेत्येके वर्णयन्ति । अन्ये तु यदेतत् कर्णावपिधायान्तः महान्तं घोषं शृण्वन्ति ; तदेतत् स्फोटस्य ६६ शब्दात् " इति स एव च स्फोटो इवर्गळ्, प्रत्यक्षमाऩ अक्षरङ्गळ् - अवऱ्ऱिऩ् तॊगुप्पाऩ पदङ्गळ् अवऱ्ऱिऩ् तॊडराऩ वाक्यङ्गळ् - इवै ऎल्लावऱ्ऱैयुम् ऒदुक्किविट्टु, ‘‘पॊरुळैच् चॊल्लवल्लदु स्पोडम् ऎऩ्ऱ नित्य सप्तम् ताऩ्" ऎऩ्ऱु सॊल् वदु विन्दैयिलुम् विन्दै। इदु इवर्गळ् मेऱ्कॊण्ड इलक्कणप्पणिक्कुप् पाङ्गाऩदऩ्ऱु।" सॊल्लालऱिगिऱेऩ्" ऎऩ्ऱ पोदु सॊल्लालॆऩ्ऱ ऒरुमैप् न्यो १५० देशिकाशयप्रकाशसहिते परमतभङ्गे काकी की कत्वप्रत्यक्ष अन्यथासिद्ध। निपुणनिरूपण गळणी वैयाकरणां केट्टुप् पार्त्तालुम् ऎळिगमाग ऒरु ईगम् तोऩ्ऱुगिऱदिल्लै। सद्भावे प्रत्यक्षं प्रमाणम् । निपुर्णं निरूपयद्भिस्तावधानः प्राणायामपरायणै र्नित्यमेष निशम्यत इति, सोऽयं शब्दब्रह्मसाक्षात्कार इति । तदुभयं क्रमेण निरस्यति । तत्र प्रथमस्य निरासः -शब्द इति प्रथमवाक्येन । अत्र सर्वकोशेष्वपि “॥। श्री तत्वप्रत्यक्ष " इत्येव दृश्यते पाठः । सचाशुद्धः । ॥॥ Q५ की कत्वप्रत्यक्ष इति तु भाव्यम् । “श्री - एकत्वप्रत्यक्ष " इति पदच्छेदः । अन्यथासिद्ध इति । शब्दादर्थं प्रत्येमीत्यादौ एकवचनार्थैकत्वस्य अक्षरसमुदायैक्यरूपतयाऽप्युपपत्त्या न तावता वर्णपदाद्यतिरिक्तस्फोट सिद्धिरिति भावः । एवमेव " गौरित्येक शब्दः " इत्येकब्दस्यापि तात्पर्यं भाव्यम् ॥ इत्यत्र ननु तत्र हि समुदायव्यपदेशः — यत्र बहवः पदार्था एकत्र एकदा संहतौ व्याप्रियन्ते । यथा सेना - वनादौ । वर्णाश्च प्रतिक्षणमुत्पाद - विनाशशालिनः नैकदा एकत्र समत्रयन्ति । ततश्च तेषां समुदायभावमेवा- प्राप्तानां कथं समुदायगतैकत्वं प्रसिद्ध्यति ; यद्विवक्षयोक्तप्रयोगोपपत्तिरिति चेत् न । एकत्रैकदा अमिलत्स्वपि पूर्वापरीभूतेषु वर्णेषु “एते वर्णाः - इदं पदम् " इति तत्र तत्र नियतबुद्धिविशेषेणोपग्रहसम्भवात् तद्विषयत्वरूपस्य समुदायत्वस्य तेषु अक्षतत्वात् तद्गतैकत्वोपपत्तेः । न च - " शुकां शोभमानां गामानय " प्रतिपदं वर्णसमुदायेषु अन्यूनानतिप्रसक्तविषयतावच्छेदका कारस्यादर्शनेन नियततया बुद्धिविशेषविषयत्वं तेषां न सम्भविष्यतीति वाच्यम् । तत्तदेकार्थबोधकत्व तत्तद्विभक्तयन्तत्वादेश्तादृशस्य बुद्धिविशेष विषयतावच्छेदकत्व सम्भवात् । नच स्फोटस्यैवार्थबोधकत्वादक्षराणाम् इदमसिद्धमिति वाच्यम् । उत्तरत्र स्फोटस्यैव निराकरिष्यमाणत्वात् । न चैवं समुदायभावप्राप्तौ सत्यां अक्षराणां अर्थबोधकत्वम् ; तस्मिंश्च सति तेषां सेति परस्पराश्रयप्रसङ्ग इति वाच्यम् । अक्षराणां अर्थबोधकत्वाभावेऽपि त्वन्मते तैस्फोटाभिव्यञ्जनाय तेषां तत्तद्विभक्तयन्तत्वादिना समुदायत्व- प्राप्तेरवश्यवक्तव्यत्वेन तया तदनपेक्षणात् तयोः अन्ययोन्यम् आश्रयणाभावात् । तथाहि पदघटकानामनेकेषामक्षराणां प्रत्येकं स्फोटाभिव्यञ्जकत्वं वा ? आहो- नियतपूर्वापरीभावापन्न समुदायतः ? इति विकल्पे तत्र न प्रथमः वन - नवेत्यनयोः, लता - ताल इत्यनयोश्च पदयोस्समानाक्षरवत्त्वश्रवणात् समाने स्फोटे तस्य अर्थविशेषव्य- वस्थापकत्वदौस्थ्यापत्तेः । अतस्तत्राक्षराणां नियतसमुदायभावप्राप्तिः स्फोटाभिव्यञ्जनाय आश्रयणीयेति द्वितीय एव कल्पः कल्पनीय इति समस्समाधिरिति भावः । अथ द्वितीयं कर्णघोष प्रत्यक्ष प्रामाण्यमपि प्रत्याख्याति - निपुणनिरूपण इति । वैयाकरण - इति । इतरेषां श्रौत्रानुभवे विप्रतिपत्त्या एतेषां स्त्रश्रोत्रोपादानम् । GLQiuni इति । तथाच तत्र स्वानुभवोऽपि वक्ष्यमाणरीत्या शपथनिर्णेयः इति भावः । ९ वाचक की क्र०० इति । यद्यपि अन्तर्घोषस्सन्ततं श्रूयते, तथापि स प्राणानां ६६
पाडु उणर्चि-पल ऎऴुत्तुक्कळिऩ् कुवियल् ऒऩ्ऱाऩमै पऱ्ऱियदागैयाले स्पोडम् ऎऩ्ऱ ऒऩ्ऱुक्कु अदु सादगमागादु। वैयागरणर्गळ् तङ्गळ् पाम्बुच् चॆवियाले उऱ्ऱुक्केट्टालुम् ऎऴुत्तु मुदलिय प्रसिद्ध सप्तमल्लदु - ऒरु पुदु स्पोडम् पुलप्पडुवदिल्लै। वर्ण/कं वैयाकरणभङ्गाधिकारः (१४) “स्पोडत्तिल् अनुमाऩमुम् कडप्पडादु’’ १५१ अर्थबोधकत्व कम अनुपपत्तिका Gir Comp बोधक LI &LG की थी - वर्णविशेषाणां कृणां ग शक्र स्फोट क्रं की लण्ठ विशेष- ऩणगङ्गळागक् कॊळ्ळुगैयाले - इवऱ्ऱुक्कु असत्तिल् सॊऩ्ऩ अााङ्गळॆल् GOLD स्फोटव्यञ्जन ॐ क्रीम् । देहधारणार्थानां घोषो भेर्यादीनामित्र निरर्थकनादमात्ररूपः इति न तावता त्वदिष्टा अतिरिक्तवाचकस्फोट प्रत्यक्षत्व- सिद्धिरिति भावः ॥ अथ रफोटे प्रत्यक्षस्यासम्भवेऽपि वर्णानां अर्थबोधकत्वानुपपत्त्या तदतिरिक्तस्फोटकल्पनात् अनुमान प्रमाणमस्तु । " गौरित्यादौ अर्थबोध: वर्णपदाद्यतिरिक्तकरणजन्यः, तदजन्यत्वे सति जन्यत्वात् ; घटवत् । " इति । ततः परिशेषात् स्फोटसिद्धिः । एतदुक्तं भवति — गौरित्यादावेकैकस्याक्षरस्यार्थबोधकत्वे वर्णान्तर- वैयर्थ्यम् । नच समुदितानां तेषां तथात्वम् । क्रमेणोच्चारितानां तेषां उत्तरोत्पत्तौ पूर्वनिरोधादेकदैव एकत्र अनवस्था- नेन वृक्षादीनामित्र समुदाय भावानुपपत्तेः पूर्वमुक्तत्वात् । नच तथात्वेऽपि एकार्थबोधकत्वेनै कबुद्धिबोध्यतया तेषां समुदायत्वोपपत्तिः, एकार्थबकत्वेन समुदाय भावः तेन एकार्थबोधकत्वम् इत्यन्योन्याश्रयणात् । नापि पूर्वपूर्ववर्णजनित ध संस्कारस ध्रीचीनोऽन्त्यो वर्णः वाचको भविष्यति । विकल्पासहत्वात् । पूर्वपूर्ववर्णसंस्काराणां किं साक्षादर्थप्रत्यय- हेतुत्वं ? किंवा तैस्सर्ववर्ण विषयकैकस्मृतौ जातायां तद्द्वारा तथात्वम् ? । नाद्यः - अर्थबोधस्य साक्षात्संस्काराजन्य- त्वात् । अन्यथा शाब्दबोधः स्मृतिमात्रान्नातिरिच्येत । न द्वितीयः -तत्तद्वर्णविषयक संस्काराणां स्वस्वसमानविषयक - स्मृतिमात्रं प्रत्येव हेतुतया वर्णान्तरविषयकैकसमूहालम्बनस्मृतिहेतुत्वानुपपत्तेः । ततश्च वर्णपदाद्यतिरिक्तस्फोटक्लप्तिरनिवा- र्येत्यत्राह-वर्ण/iळकं इति । =स्फोटः । विशेषव्यञ्जक इति । वर्णानामुच्चारणप्रयत्नादिः स्फोटस्य सामान्यतो व्यञ्जकः । वर्णास्तु तस्य विशेषतो व्यञ्जका इति तन्मतम् । स्फोटव्यञ्जन ॐ इति । तथाहि न तावत् गौरित्यादौ एकैको वर्णस्स्फोटमभिव्यनक्ति । वर्णान्तरवैयर्थ्यादेव । नापि तत्समुदायः- पूर्ववत्समुदायभावानुपपत्तेः । नवा पूर्वपूर्ववर्णसंस्कारसहितचरमवर्णः । पूर्ववदेव संस्कारस्य साक्षाद्वा सर्ववर्णविषयकैक- स्मृतिद्वारा वा स्फोटाभिव्यक्तिकारणत्वायोगात् इत्यादयो दोषाः पूर्वमुक्ताः स्फोटाभिव्यञ्जनेऽपि समाना इति । नचार्थबोधस्येव स्फोटाभिव्यञ्जनस्य साक्षात्संस्कारजन्यत्वे काऽनुपपत्तिरिति वाच्यम् । तदभिव्यञ्जनस्य शब्द ब्रह्मसाक्षा त्काररूपतायास्तन्मतसिद्धत्वेन तस्य साक्षात् संस्कारजन्यत्वे स्मृतित्वापत्तेरेव बाधकत्वात् ॥ I अथ स्यान्मतम् - प्रत्येकमेव वर्णास्स्फोटमभिव्यञ्जयन्ति । नचैवमुत्तरवर्णवैयर्थ्यमिति वाच्यम् । पूर्वो वर्णः स्फोटमस्फुटं व्यञ्जयति । तदुत्तरे पुनः स्फुटं स्फुटतरं स्फुटतममिति नोत्तरेषां वैयर्थ्यम् । तदुक्तं हरिणा- " नादैराहितबीजायामन्त्येन ध्वनिना सह । आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ " इति । वर्णानां अर्थ ऎऴुत्तुक्कळ् पॊरुळै उणर्त्तुवदिल् सिल सङ्गडङ्गळ् उण्डॆऩ्ऱु कॊण्डु-वेऱु पुदु स्पोडत्तै अत्तगैयदाग कऱ्पित्ताल् अन्दस्पोडत्तै। ऎऴुत्तुक्कळ् सिऱप्भाग वॆळियिडुगिऩ्ऱऩ-ऎऩ्ऱ तङ्गळ् कक्षियिल् मुऩ् अवै पॊरुळै उणर्त्तुम् विषयत्तिल् सॊऩ्ऩ अदे सङ्गडम् वरुम्। १५२ देशिकाशयप्रकाश सहिते परमतभङ्गे “स्पोडत्तिऩ् विषयत्तिल् सप्तमुम् आदारमागादु’’ वर्ण संश्रयLDIT & स्फोट व्यासादिमहर्षिकनां मनाएं - वर्ण / Lu स्वार्थस्फुटीकरणशक्तिमाuji। प्रत्यायकत्वपक्षे तु नैवं वक्तुं शक्यम् । अभिव्यक्ताविवोत्पत्तौ तरतमभावाभावात् । “नद्युत्पन्नम् उत्पन्नतरम्” इत्यादि व्यवहारोऽस्ति इति । तन्न । यद्येवं, तर्हि य एवोत्तरे वर्णाः स्फुटतरस्फोटाभिव्यक्तिसमर्थाः, तैरेव भवितव्यम्, अलं पूर्वैः ॥ ननु न कश्चिदपि वर्णः स्वतोऽस्य स्फुटामभिव्यक्तिं करोति । किन्तु प्रत्येकं ते सर्वे तद्व्यञ्जकाः । स तु न द्रागेव स्फुटमवभासते । प्रथमम् अस्फुटावभासितः सन् पुनः पुनः शोश्रूयमाणः स्फुटो भवति । यथा दूराद् गृहीतः सहकारः प्रथयं हस्ति-पलालकूटसाधारणरूपेण प्रतिभातः पुनः पुन- दृश्यमानो वृक्षात्मना सहकारात्मना च स्फुटो भवति । तथेदमपीति चेत् तदपि न साधु । यतः पूर्वैरेव वा वर्णै: पुनः पुनरभ्यस्यमानैरीदृशी तस्य स्फुटाभिव्यक्तिः स्यात्, उत्तरैर्वा केवलैरभ्यस्यमानैरिति तदापि अन्यतरवैयर्थ्यमेव । ततश्च पूर्ववर्णसंस्कारसनाथश्चरमवर्णसंस्कार एव स्फोटव्यञ्जक इति स्फोटवादिभिरभ्युपेत्यम् । ततोऽपि वरं तादृशादेव तस्मात् अर्थप्रतीतिरिति । स्फोटवादेऽधिकतया तद्वयञ्जकसंस्काराश्रयणात् । अस्मन्मते च स्मृति- हेतु संस्कारेणैवोपपत्तेः । संस्काराणां स्वस्वविषयमात्रस्मृतिजनकत्वेऽपि युगपत् तैः सम्भूय अर्थसमाजप्रस्तपदार्थनीत्या सर्ववर्णविषयकैकसमूहालम्बनस्मृत्युत्पादनसम्भवात् । " न हि स्वाङ्गं स्वव्यवधायकम् " इति न्यायेन वर्ण- स्मृतेर्द्वारमात्रतया " शब्दादर्थं प्रत्येमि " इत्यनुभवाविरोध श्चेति ॥ अत्र केचित् – “पूर्वपूर्ववर्णजनितसंस्कारसचिवोऽन्त्यो वर्णः अर्थप्रत्ययकारकः” इति शावर भाष्यादि स्वारस्यात् अन्त्यवर्णमात्रस्यैवार्थप्रत्यायकत्वम् । पूर्वपूर्ववर्णानां तु कारणीभूतान्त्यवर्णविशेष प्रति स्वस्वविषयक- संस्कारद्वारा कथश्चिदुपकारकत्वमेव । तत एव " शब्दात्” इत्येकवचनोपपत्तिरपि । तदुक्तं श्लोकवार्त्तिके- " यदि चापूर्वसंस्कार इतिकर्तव्यतेप्यते । वर्णोऽन्त्यो गमकस्तस्य शब्दत्वान्मुख्यता भवेत् " । इति । अत्रैव वार्त्तिके- स्फोटाभावे तस्य वाचकत्वाभावे अर्थप्रत्ययस्य वर्णजन्यत्वे च प्रयोगाः प्रदर्शिताः । " वर्णा वा ध्वनयो वाऽपि स्फोटं न पदवाक्ययोः । व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥ सत्त्वाद् घटादिवच्चेति साधनानि यथारुचि । नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः ॥ घटादिवन्न दृष्टेन विरोधो धर्म्यसिद्धितः । वर्णोत्था वाऽर्थधीरेषा तद्ज्ञानानन्तरोद्भवा । तादृशी धीस्तदुत्था हि धूमादेरिव वह्निधीः” इति ॥ अत्रोक्तं चार्थजातं विस्तरेणोपपाद्य शास्त्रदीपिकाव्याख्यातृभिश्चान्ते सोपहासमुपसंहृतम् – " अबोधदहनोद्भतस्फोटवादनिराक्रिया । चिकित्सेव कृता शब्दविदां मीमांसकैरियम् " ॥ इति ॥ एवमनुमानस्य स्फोटे प्रामाण्यं प्रतिषिध्य, अथ शब्दप्रामाण्यमपि निराकुर्वन् प्रथमं व्यासवाक्यस्य स्फोटसद्भावे तात्पर्याभावं दर्शयति - वर्णसंश्रयLDIT इति । तथा च " स्फोटस्त्वं वर्णजुष्टः " इत्यत्र व्यासर् मुदलिय महर्षिगळ्-‘वर्णत्तिल् इडङ्गॊण्ड स्पोडम् नी’, ऎऩ्ऱु भगवाऩै वर्णिक्कुमिडत्तिल् सॊऩ्ऩदऱ्कुक् करुत्तॆऩ्ऩवॆऩिल्-वर्णङ् गळुक्कुळ्ळ पॊरुळ् विळक्कुम् सक्तियै अप्पडिच् चॊऩ्ऩदागक् कॊळ्ळलाम्, इप्पडि इवर्गळ् ऒरुमिडऱागच् चॊल्लुम् स्पोडम् उण्मैयिल् इल्लामैयाल्वैयाकरणभङ्गाधिकारः (१४) १५३ “शब्दब्रह्म यदेकं यचैतन्यञ्च सर्वभूतानाम् । निर्मूल शब्द काroor चैतन्य ़ ging पराभिमतस्फोटरूपशब्द की प्रमाणbour यत्परिणामं त्रिभुवनमखिलमिदम् ॥” । हलायुधळा माळा ६- त्रिभुवनः शब्दपरिणाम ६७ - सर्वसम्प्रतिपन्नश्रुत्यादिविरुद्ध स्वाभिमत देवतास्तुति- मात्रार्थLDIT कल्पनै ग ११० - “देवतां काञ्चिदुद्दिश्य भक्तया यो वक्ति किञ्चन । तस्य दोषं न यत्किञ्चित् मनसाऽपि विचिन्तयेत् ॥” ६७६० । आलङ्कारिक गाgu उपेक्षिकं की । S । • भारतस्थ भगवत्स्तोत्रे स्फोटशब्दस्य यथालोकमर्थप्रत्यय हेतु भूतशक्ति विशेषपरतायाः स्वीकर्तुमुचितत्वेन तस्याश्च पुण्यो गन्धः पृथिव्याञ्च तेजश्चास्मि विभावसौ । रसोऽहमप्सु कौन्तेय " इत्यादाविव भगवद्विभूतित्वं वक्तुं तथा स्तवनमिति न स्फोटसद्भावे तत्तात्पर्यमिति भावः । एवं व्यासवाक्यान्यथासिद्धिं प्रदर्श्य हलायुधोक्तिमपि निराकरोति - g इति । प्रमाणurro इति । महर्षिवाक्यस्य- अन्यथासिद्धत्वात् हलायुधाद्यर्वाचीनवचनानाञ्च प्रामाण्य सन्देहात् पराभिमतस्फोटे प्रत्यक्षादिप्रमाणत्रितयमपि न प्रवर्तत इत्येव निर्णय इत्याकृतम् । यत्-शब्दब्रह्मकं भवति — यत् सर्वभूतानां चैतन्यरूपञ्च भवति- इदमखिलं त्रिभुवनं यत्परिणामं यत्परिणामभूतं च भवति । ‘जयति सा वाणी’ इति श्लोकशेषः । हलायुधळा इति । अयं कश्चन नैखण्डुकः । तत्र निखण्डौ अयं मङ्गलश्लोकश्च भवति । निर्मूल इति । अयमाशयः- अत्र शब्दब्रह्मेति किं प्रसिद्ध एव शब्दो विवक्षितः ? आहो तदतिरिक्तस्स्फोटरूप इति पृच्छयते । आद्ये सर्वसम्प्रतिपन्नश्रुत्यादिविरोधोऽनन्तरमेव वक्ष्यते । द्वितीये – एतदीयवाक्यस्य प्रामाण्याविश्वासात् सम्प्रतिपन्न- प्रमाणान्तरस्य चानुपलम्भात् निर्मूलतैवेति । इदानीं प्रसिद्धशब्दपरत्वे श्रुत्यादिविरोधदोष उच्यते—शब्दकं कृGor इति । अचेतनविशेषतया प्रथितशब्द एवेत्यर्थः । श्रुतिः = " यतो वा इमानि भूतानि " इत्यादिश्रुतिः । तत्र चेतनाचेतनात्मकजगतः स्वान्तर्गताचेतनशब्दकार्यत्वायोगात् तद्विरोध इति भावः ॥ ६६ ननु " देवीं वाचमुपासते हि बहवः " –— इत्यादाविव “शब्दब्रह्म यदेक” मित्यादावपि देवतात्मा शब्दः जगत्कारणतया प्राप्नोति । तथाच सर्वमिदं तस्मिन्नुपपद्यत एवेत्यत्राह – स्वाभिमतेति । " दाक्षिण्यरम्या गिरि- शस्य मूर्तिः देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यापदेश्यवाचस्फुरन्ति सर्वे तत्र शक्तिलेशैः ॥ " इत्युक्तरीत्या भगवद्विभूतिवाग्देव्याम् अपि परदेवतासम्बन्धि-जगत्कारणत्वादिधर्मयोगस्यासम्भवात्- ‘ब्रह्मदृष्टिरुत्कर्षात्’ इति न्यायेन- ’ इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥” इति दण्डयुक्त प्राधान्यमभि- श सन्धाय शब्दस्तुत्यर्था कल्पना काचित् कृतेत्यर्थः । देवतामिति । किञ्चन परमार्थम् - अपरमार्थं वा । यत्किञ्चित् स्वल्पं महद्वा । न मनसापि विचिन्तयेत् । तथासति किमु वाचा वक्तव्यमित्याशयः । उपेक्षिक इति । “स वा एष एवं पश्यन् एवं मन्वानः एवं विजानन्नतिवादी भवति " इति स्वोपास्यवस्तु पारम्यवादरूपस्यातिवादस्य विधिबलप्राप्ततया – “यो यो यां यां तनुं भक्तश्श्रद्धयाऽर्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् “, “न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।” इत्यादिरीत्या अदृढचित्तविषये तस्यास्माभिरनपनोदनीयत्वेन हलायुदऩ् ऎऩ्बाऩ्-“ऎदु सप्तप्रह्ममाय् अत्विदीयमाय् उळदो - ऎदु ऎल्ला उयिर्गळिऩ् उणर्वाग आगियुळ्ळदो-ऎदऩुडैय परिणामम् इव्वुलग मुऴुमै युमो (अन्द वाणी विळङ्गुगिऱदु।) ऎऩ्ऱु कूऱियदुम् आदारमऱ्ऱदु। २० १५४ देशिकाशयप्रकाशसहिते परमतभङ्गे Quinig “शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपतेः " ६Tळाळी साम्बवचन कुंgi शब्दार्थ मिध्यात्वस्थापन पण्णवॊण्णादु। सर्वथा तत्र वयं उदास्महे इत्याशयः । तथाच - " शब्दब्रह्मे " त्यादेः अतिशयोक्तयलङ्कारादितुल्यत्वेन तस्य च बाघज्ञान कालोत्पन्नाहार्यज्ञानवत् तत्त्वज्ञानाचाध्यतया, तत्र तत्त्वबोधनेनास्माभिर्दूषण करणं व्यर्थम् इति पर्यवचन्नम् ॥ एवं शब्दब्रह्मपरिणामविषयं हलायुधवचनं निरस्य, तद्विवर्तीविषयं साम्बवचनमपि निराकरोति- इति । अयञ्च साम्यकृतसूर्यशतकस्य (पञ्चाशतः) प्रथमश्लोक इति शतदूषणीशब्दावेद्यत्वभङ्गवाद- चण्डमारुते दृश्यते । अत्र मूले “शब्दतव विवर्तLD IT – ज्योतिरुचः " इति कचिदशुद्धः पाठः । शुद्धतया पूर्णः श्लोकस्त्वेवं पठनीयः । " शब्दार्थत्व विवर्तमानपरमज्योती रुचो गोपतेरुद्गीथोऽभ्युदितः पुरोऽरुणतया यस्य त्रयीमण्डले । भास्वद्वर्णपदक्रमेरिततनुः सप्तस्वर वैर्वियद्विद्यास्यन्दनमुन्नयन्निव नमस्तस्मै परब्रह्मणे ॥ " इति । अयमर्थः - शब्दरूपेणार्थरूपेणच विवर्तमानाः परमाः निरतिशया ज्योतीरूपाः रुचः प्रकाशाः यस्य, तस्य गोपतेः- वाक्पतेश्शब्दब्रह्मणः ज्योतिषां पत्युः सूर्यस्य च यस्य सम्बन्धिनि त्रयीमण्डले=” अंशुमाली त्रयीतनुः " इति रीत्या तत्सम्बन्धिवेदभागे उद्गीथः = साम्नो भक्तिविशेष: अरुणतया पुरोऽभ्युदितः, तस्मै परब्रह्मणे नमः इत्युपरितनेनान्वयः । स पुनः कथं भूतः ? भास्वद्भिर्वर्णपदक्रमैः ईरिततनुः उच्चारितवेदस्वरूप इति तस्मिन् सामाभेदोपचारः । सप्तस्वरा एव सप्ताश्वाः तैर्वियति ब्रह्मविद्याख्यं स्यन्दनमुन्नयन् इव भासमानः । तस्मै स्फोटरूपाय शब्दब्रह्मणे आदित्यमण्डलस्थाय नम इति । साम्बेति । अयं कश्चन वैयाकरण इति प्रतिभाति । इदानीं पाकिस्थानदेशान्तर्गत मूल्टान् (pr) नगरे स्वस्य कुष्ठादिरोगपरिहाराय सूर्यदेवस्यालयं निर्माप्य सूर्यशतक (पञ्चाशत्) नामक ग्रन्थं च चकारेति नवीनका लैतिहासिका वदन्ति । क्रैस्तव सप्तमशतकस्थ-मयूर- कविनाऽपि कृतं सूर्यशतकमन्यत् प्रसिद्धमस्ति । इमं च भगवतः कृष्णस्य कुमारेष्वन्यतमं जान्बवतीसूर्त साम्बं, ग्रन्थं च सूर्यपञ्चाशन्नामकं केचिद्वदन्ति ॥ इदमत्र बोध्यम् - यद्यपि वैयाकरणकूटस्थेन भर्तृहरिणा “अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥” इति जगतश्शब्दब्रह्म विवर्तरूपत्वमेवोक्तम् । तथाऽपि तदर्थमनुवदता शान्तरक्षितेन " नाशोत्पादा समालीढं ब्रह्म शब्दमयञ्च यत् । यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥” इति य। विवर्तपदस्थाने परिणामपदप्रयोगात् वैयाकरणेष्वेव परिणामवादिनोऽपि सन्तीति ज्ञायते । न्यामञ्जर्यादौ उभयेषामपि खण्डनदर्शनाच्च । शान्तरक्षितस्यायमाशयः विवर्तशब्दं परिणामपर्यायमपि प्रयुञ्जते कवयः । यथोत्तररामचरिते भवभूतिः = “एको रसः करुण एव निमित्तभेदाद्भिन्नः पृथक्पृथगवाश्रयते विवर्तान् । आवर्त - बुद्बुद - तरङ्गमयान् विकारान् अम्भो यथा सलिलमेव हि तत् समस्तम् ॥” इति । आवर्तादयो हि सलिलपरिणामा एव न तु विवर्ताः । तदुक्तलक्षणायोगात् । तल्लक्षणं तु – “अतत्त्वतोऽन्यथा प्रथा विवर्त इत्युदीरितः । सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीर्यते ॥” इति । अधिष्ठानसमसत्ताक कार्यापत्तिः परिणामः । यथा दुग्धादधि । तद्विषमसत्ताका सा त्रिवर्तः, यथा - शुकौ रजतमिति वा तल्लक्षणम् । तथाच साम्बः विवर्तवादी, हलायुधः परिणामवादीति मिथ्यात्वस्थापन L१६०ग गग । इति । यद्विवर्ततयाऽर्थजातस्य मिथ्यात्वं स्थापनीयं तस्यैव शब्दब्रह्मणोऽप्रामाणिकत्वादिति भावः ॥
वैयाकरणभङ्गाधिकारः (१४) ‘पर्तृहरियिऩ् कुयुक्तिगळुम् कुदिरा’ १५५ सर्वप्रपञ्च pii शब्दविवर्त ६७।कां की पक्ष (pi - भर्तृहरिग्रन्थादिकन मारा युक्तयाभासतूल- जाल (pi rai प्रच्छन्नबौद्धादिदूषणन्याय क्रं कृ १ निरस्त- अथ भर्तृहरिप्रपञ्चितवञ्चनायुक्तिषण्डमपि खण्डयति - सर्वप्रपञ्च इनि । तदुक्तं भर्तृहरिणा - ॥।” शब्देष्वेवाऽऽश्रिता शक्ति: विश्वस्यास्य निबन्धिनी । यन्नेत्रः प्रतिभात्माऽयं भेदरूपः प्रतीयते ॥ षड्जादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्मादर्थविधास्सर्वाः शब्दमात्रासु निश्श्रिताः ॥ " इति । कारिकार्थश्व-अस्य- विश्वस्य निबन्धिनी = व्यवहारकारणभूता, शक्तिः = वाच्यवाचकभावरूपा, शब्देष्वेवाश्रिता = सूक्ष्मं वा वाक्तत्त्वम् गवादिपदार्थरूपेण गोशब्दादिरूपेण च विवर्तते । अधिष्ठानस्य पिण्डपरिणामेनाभिव्यक्ताः गोत्वादिजातयो वाच्याः, गवादिशब्दपरिणामेनाभिव्यक्ताः गोशब्दत्वादिजातयो वाचकाः यः शब्दः नेत्रं ज्ञापकं यस्य सः तथाभूतः, प्रतिभात्मा कुणप :- कामिनी भक्ष इति तिस्रो विकल्पनाः " इति बाह्यार्थशून्यकेवलज्ञप्तिमात्ररूपः भेदप्रपञ्चः प्रतिपुरुषं प्रतीयते । तादृशस्यास्य विश्वस्य शक्तिरिति पूर्वेणान्वयः । तत्र सदृष्टान्तं युक्तिर्निरूप्यते – षड्जेति । षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम- दै (धै)वत-निषादाः शब्देन व्याख्याता यतो निरूप्यन्ते उत्कृष्यन्ते, तस्मात् शब्दमात्रासु शब्देषु सर्वा अर्थविधाः निश्श्रिता-आश्रिताः शब्दतादात्म्यमापन्नाः इति ॥ ६६
एतदुक्तं भवति – असमाख्येयाषड्जादयः समाख्येया गवादयश्च सर्व एवार्थारशब्देष्वध्यारूढाश्शब्द- तादात्म्यमापन्नाः, शब्दानुविद्धधीप्रकाश्यमानत्वात् । गोपालाविपालादयोऽपि हि गवामवीनां च सञ्ज्ञापदानि प्रकल्प्यैव गवादीन् आकारयन्ति । तस्मात् सर्वा अर्थघियः समाख्येयाः असमाख्येयाः वा शब्दमात्रासु निश्श्रिाता इति । युक्तयाभासतूलजालेति । अनेन तद्युक्तीनां सुनिरसत्वमुक्तं भवति । प्रच्छन्नबौद्धेति । शुक्तिरूप्यकादेः अभावादेव वित्रर्तवादे दृष्टान्तदुर्भिक्षत्वं पूर्वमद्वैतिभङ्ग एव प्रदर्शितम् । सर्वबुद्धीनां शब्दानुवेधश्चानन्तरमेव निराकरिष्यत इति न किञ्चिदिह निरसनीयमवशिष्यत इत्यर्थः ॥ ननु सिद्धान्ते प्रणवाद्याक्षरभूतादकारात् समस्तस्य वेदवैदिकवाङ्मयस्योत्पत्तिः कथ्यते १ " यद्वेदादौ स्वरः प्रोक्तः वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥” इति श्रुतेः । यद्वेदादौ स्वरः = ताङ्गळे ऒप्पिऩ वेदप्रमाणत्तिऱ्कु इवैयत्तऩैयुम् विपरीतम्। “ऒरु तेवदै। यिऩ्बाल् ईडुबाट्टाले पुगऴ्न्दुरैयाग सिलकल्पऩैगळै ऒरुवऩ् सॆय्दाल्- अदिल् ऒरु कुऱैयुम् नाम् निऩैक्कलागादु” ऎऩ्ऱु अलङ्गारशास्त्रम् अऱिन्दार्। कूऱिऩबडि, याम् इदैप् पॊरुट्पडुत्तादु सॆल्वोम्। इव्विदमे - साम्बऩ् ऎऩ्बाऩ् - वाक्पदियिऩ् ऒप्पऱ्ऱ ऒळिये सप्तमायुम् पॊरुळायुम् विरिन्दुळ्ळदु’’ ऎऩ्ऱदैयुम् नम्बि इवर्गळ् स्वमद स्ताबनम् सॆय्यविडोम्, ऎल्लाप् प्रबञ्जमुम् सप्तत्तिऩ् पॊय्त्तोऱ्ऱम् ऎऩ्ऱ पक्षमुम् - पर्तृ हरियिऩुडैय क्रन्दङ्गळिल् सॊल्लुम् पऴुदाऩवादप्पञ्जुक्कुवियलुम् कीऴे मायावाद कण्डऩम् सॆय्द मुऱैयिल् निरागरिक्कप्पट्टदु। १५६ ६४ देशिकाशयप्रकाशसहितें परमतभङ्गे ‘इङ्गु चित्तान्द रीदियैच् चुट्टिक् काट्टलागादु।” ऱु ९ शब्द की ६० Lojjgjनान्ना शब्दप्रपञ्च न की । । वेदवैदिकवाक्यसिद्ध माऩाल् - इप्रियाले अबिरसाम् ऎल्लाम् ऎऩत्तिले पिऱक्किऱदाग अमैयादो? ढग - सम्भावनामात्रवचन L प्रमाण शुक्र का कङ्क शुक्रं अनुमानLDIT & Curl प्रमाणविरोधळं वर्णान्नी वर्णान्तरोत्पत्ति माङ्ग २४pii - नित्य का OT मन्त्रा (६५) कं बीजकूलुप्ति कङ्गणीला काळं - “स्युः शक्तिशालिनो मन्त्रा एवं सृष्टिविचिन्तनात् " ढाका की p Liqu भावनादिविशेषविधिपर॥ ऎऩ्गिऱ प्रणवः प्रोक्तः, तस्य प्रकृतिलीनस्य = तत्प्रकृतितां प्राप्तस्य वेदप्रकृतिभूते तस्मिन् प्रणवे लीनस्य वा, अकारस्य यः परः = वाच्यार्थः स महेश्वर इत्यर्थः । तथा " समस्तशब्दमूलत्वादकारस्य स्वभावतः । समस्त शक्तिमूलत्वाद् वाच्यस्य परमात्मनः ॥ वाच्यवाचकभावश्च तयोरर्थात् प्रतीयते । " इति वामनपुराणवचनं च श्रूयते । एवञ्चानया प्रक्रिययाऽर्थप्रपञ्चस्यापि शब्दब्रह्मण एवोत्पत्तिरिष्यतामिति शङ्कामनुभाष्य परिहरति शब्द इति । अकार इत्यर्थः । श्रका = त्वदुक्तमेतत् । प्रमाणLDI । इति । सम्भावनायास्संशयकल्पत्वात् तस्य चार्था- साधकत्वादित्यर्थः । नन्वर्थप्रपञ्चः शब्दब्रह्मण एव प्रसूतः; प्रपञ्चत्वात् ; शब्दप्रपञ्चचत् इति वयमनुमास्यामः इति चेदाह-ñक्र इति । त्वदुक्तमित्यर्थः । अनुमान Loir & = अनुमानरूपेण । काले । प्रमाणविरोधळं इति । जगतो ब्रह्मकार्यताबोधकप्रचलश्रुतिप्रमाणविरोध इत्यर्थः । Gur = कल्पन- ननु शब्दादेः सर्वस्य जगतो ब्रह्मकार्यत्वे प्रामाणिके कथं अकारस्य सर्वशब्दोपादानत्ववचनमुपपद्यते ! तथा-“अकारञ्चाप्युकारश्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहत् भूर्भुवस्सुवरोमिति ॥ " इति कथनं च कथं घटते ? नचाकारादिशरीरकब्रह्मण एव शब्दजातोत्पत्तिपरतया निर्वाहे न विरोध इति वाच्यम् । शब्दस्य द्रव्यत्वे अद्रव्यत्वे वा अहङ्कारादिशरीरकब्रह्मण एव तदुत्पत्तेर्यथाप्रमाणं वक्तव्यतया तथाऽपि विरोधापरिहारात् । एवं मन्त्रशास्त्रेषु अष्टाक्षरादीनां अङ्कारादिबीजकत्वप्रतिपादनं दृश्यमानं कथं निर्वाह्यम् ? । नहि निध्यानां वेदभाग विशेष- भूतानां मन्त्राणां बीजक्लृप्तिरित्यत्राह – वर्णन इति । तथाच मन्त्राणां फलप्रधान प्रदेश विशेषस्य तदनुगुण- शक्तिसम्पत्तये एवं सृष्टिबीजादिभावनाया मन्त्रशास्त्रेषु विधानात् न तत्र तात्त्विकताबुद्धिः कार्येति नैवं चोदनीयमित्यर्थः ॥
ऒरु अक्षरत्तिले मऱ्ऱुमुळ्ळ अक्षरङ्गळ् अत्तऩैयुम् पिऱक्किऩ्ऱऩ ऎऩ्ऱु वेदम् - अदैच् चार्न्द क्रन्दङ्गळ् कूऱुमागिल् -इक्कणक्किले पॊरुट्प्रबञ्जमुम् सप्तत्तिलिरुन्दु पिऱप्पदाग नाङ्गळ् कूऱलागादो ऎऩ्ऩिल् - इदु वॆऱुम् हेष्यमागिल् प्रमाणमागादु। इदै अनुमानमागक्कट्टिऩाल् प्रबल प्रमाण विरोदम् वरुम्। ऒरु अक्षरत्तिऩिऩ्ऱुम् मऱ्ऱ अक्षरङ्गळिऩ् पिऱप्पु कूऱिऩदुम् - नित्यङ्गळाऩ मन्त्रङ्गळुक्कु पीजाक्षरकल्पनम् सॆय्ददुम् “मन्त्रङ्गळै इव्वि तम् उण्डावदाग त्याऩित्ताल् अवै सक्तिबॆऱुगिऩ्ऱऩ” ऎऩ्ऱ प्रमाणप्पडि अव्विदम् ऎण्णवेण्डुम् ऎऩ्ऱ करुत्तिलागिऩ्ऱऩ। वैयाकरणभङ्गाधिकारः (१४) “ऎल्ला ज्ञानङ्गळिलुम् पॆयर्च्चॊल् ऊडुऱुवुगिऱदु ऎऩ्बदु तवऱु।’’ “न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ १५७ पशु मृग बाल- मूकादि ज्ञानाङ्कन शब्दानुवेध कूडामैयालुम् - अङ्गुम् इदै
कल्पिकं लळकं प्रमाणं DWT निरस्त। एवमेकस्माच्छब्दात् अन्येषां शब्दानामुत्पत्तिं निदर्शनीकृत्य सर्वप्रपञ्चस्यापि शब्दादुत्पत्त्या शब्दविवर्तत्व- शङ्कायां दृष्टान्तासिद्धिः उक्का । अथार्थानां शब्दानुविदूधिया प्रकाशमानत्वेन शब्दतादात्म्यापत्त्या शब्द विवर्तत्व- शङ्कामपि भर्तृहर्यादिभिः कृतां निराकर्तुं सर्वज्ञानेषु शब्दानुवेधं विध्यति - “न सोऽस्ति” इति । सः = तादृशः प्रत्ययः = ज्ञानं लोके नास्ति । यः प्रत्ययः शब्दानुगमादृते = शब्दानुवेधं विना स्यात् । तत्र प्रमाणमाह- अनुविद्धमिवेति । सर्वं ज्ञानं शब्देनानुविद्धमित्र गृह्यत इत्यर्थः । बालमूकादिविज्ञानेषु सूक्ष्मशब्दानुवेधस्य सतोऽपि स्फुटमनवगमात् अनुविद्धमिवेत्युक्तम् । अत्रायमभिसन्धिः - सर्वेऽर्थास्सर्वाणि च ज्ञानानि सर्वदा सर्वत्र नामधेयसमानाधिकरणा एव प्रतीयन्ते । “गौरिति ज्ञानम्, गौरिति अर्थः” इत्यादौ । अयमेत्र च शब्दानुवेधः । तथाचोत्पलसामानाधिकरण्येन भासमानस्य नीलस्योत्पलतादात्म्यवत् अर्थानां ज्ञानानाश्च नामधेयतादात्म्यं सिध्यति । नच नामधेयानां अर्थादिप्रतीत्युपायत्वात् नामधेयसामानाधिकरण्यमर्थादीनां भवति । नतु तादात्म्यात्; इति वाच्यम् । रूपादिप्रतिपत्त्युपायभूतचक्षुरादिसामानाधिकरण्यस्य रूपादावभावेन व्यभिचारात् । नच ज्ञायमान एवोपायः उपेयसा- मानाधिकरण्यं भजते । चक्षुरादि तु न ज्ञायमानं सदुपायः । अपितु स्वरूपसदेवेति वाच्यम् । तथाऽपि ज्ञायमानोपाय- भूतधूमादिसामानाधिकरण्यस्य अनुमेयवह्वयादावदर्शनेन व्यभिचारात् ॥ यतः- नन्वेवमपि यद् यत्समानाधिकरणतया भासते तत् तदभिन्नमिति न वक्तुं युक्तम् । अस्ति हि पुरोवर्तिशुक्तिसामानाधिकरण्यानुभवो रजतादिके । नहि तावता शुक्ती रजताद्यात्मिका भवतीति चेत् न - तत्र सामानाधिकरण्यानुभवो विसंवादी नार्थसद्भावसाधकः । अत्र तु यथार्थीभवन् सः नामार्थयोः तादात्म्यं साधयेदेव । अयञ्चार्थः- योगसिद्धान्तेऽपि - " शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः” इत्यत्र व्यासभाष्य- वाचस्पत्यादिषु विशदमनुसन्धेयः । शब्दज्ञानानुपाती = शब्दानुविद्ध इत्यर्थः । नच बालमूकादीनां विज्ञानेषु शब्दानुवेधाभावात् इदमसिद्धमिति वाच्यम् । तत्रापि भवान्तरीयवासनावशात् सूक्ष्मशब्दानुवेधोऽस्त्येवेति सिद्धान्तात् । अतएव चक्षुषा दृश्यमानमपि अज्ञातसञ्ज्ञापद विशेषं वस्तु “किमिति मया न ज्ञायते " इत्येव व्यवहरन्ति । नतु सामान्यतः अज्ञातम् " इति । सूक्ष्मयत्किञ्चिच्छन्द । नुवेधस्य पूर्वमेव तत्र ज्ञातत्वात् । अत एव च- पिकपदशक्तिग्रहवतः " कोकिलोऽयम्” इति नानुव्यवसायः । तत्पदानुविद्धप्राक्तनज्ञानाभावात् । तव मते तु पिकत्वकोकिलत्वयोरभेदात्तथाऽप्यनुव्यवसायप्रसङ्ग इति । शब्दानुवेध murgi इति । तत्र प्रत्यक्षविरोधादितिभावः । यद्यपि तत्रापि भवान्तरीयसूक्ष्मशब्दानुवेधो ऽस्तीत्युक्तम् । सत्यम् । दुरुक्तं तु तत् । यतः तेषामपि ज्ञानं यदि वाच्यानुगुणसञ्ज्ञाशब्दानुविद्धं भवति, तदा तेषां व्युत्पन्नपुरुषतुल्यतापातः । अव्युत्पन्नस्यापि शब्दो बोधक इत्येतत्तु अनन्तरमेव परिहरिष्यते ॥ ६६ ननु - अन्यत्र सर्वज्ञानेष्वपि शब्दाकारोल्लोखदर्शनात् अत्रापि बालमूकादिज्ञानेषु ज्ञानत्वादिहेतुना सोऽनुमीयत इत्यत्राह — ९ इति । बालमूकादिविज्ञानेष्वपि इत्यर्थः । क्र शब्दानुवेधम् । इदं तु । ह १५८ देशिका शयप्रकाशसहिते परमतभङ्गे अव्युत्पन्नावस्थैकं वाचकशब्द कण्ठाळंल बोधकत्व ं स्वभावसिद्ध OLD [५] - अनुपलम्भ क्रं व्युपत्तिनैरपेक्ष्यप्रसङ्ग का अनुपपन्न शब्द की सूक्ष्मतेंur Go अनुपलम्भLD TOT - jivulg। अनुपलब्धशब्द क्रम्माकं बोधकत्व govario
बोध्यम् – “ गौरित्यर्थः – अश्व इत्यर्थः " इत्यादौ “व्यपदिश्यते” इत्यादेरध्याहर्तव्यत्वेन शब्दप्रयोगादिरूपे व्यपदेशाद वेत्र अश्व इत्याद्यानुपूर्वी विशेषावच्छिन्नाभिन्नत्वं इतिकारेण लभ्यते । न स्वर्थे । “नच गौरिति ज्ञायते " इत्यपि प्रयोगदर्शनात् तत्र शब्दज्ञानयोरपि इतिशब्देन अभेदो लभ्यत इति वाच्यम् । तत्र इतिशब्दस्य प्रकारवाचि- तथा ज्ञाने गोत्वादिप्रकारकत्वस्यैव तावताऽपि लाभेन ज्ञाने शब्दतादात्म्यासिद्धेरिति भावः ॥ अत एव यदुक्तं - " अत एव चक्षुषा दृश्यमानमपि " इत्यादि - तदसाधु । " किमिति मया न ज्ञायते " इत्यादौ वस्तुस्वरूपज्ञानेऽपि, तत् किंशब्दवाच्यमिति मया न ज्ञायत इत्येव तदाशयात् तात्रता त्वदिष्टासिद्धेः । अज्ञातम्” इति सामान्यतो व्यपदेशाभावोऽपि । स्वरूपज्ञानस्य पूर्वं सत्वात् । यदपि च- " पिकपदशक्तिग्रहवतः " इत्यादि - तदप्यसङ्गतम् । । अनुव्यवसायस्यान्तरज्ञानरूपस्य “ कोकिलोऽयम् " इत्याकारक बाह्य शब्दरूपताया अद्यावधि असिद्धत्वेन तदापादनायोगात् । पिकपदशक्तिग्रहवतः कोकिलविषयकानु- व्यवसायापत्तिस्तु इष्टैव । पिककोकिलयोः धयैक्यात् । तदानीं कोकिल इति व्यवहाराभात्रस्तु तत्पदव्युत्पत्त्यभावा- देवोपपादनीयः ॥ ननु बालमूकादिविज्ञानेष्वपि सूक्ष्मशब्दानुवेधोऽस्ति । नच तात्रता तेषां व्युत्पन्नपुरुषतुल्यत्वम् । अव्युत्पन्नानां विषयेऽपि शब्दस्यार्थबोधकत्वस्वा भाग्यात् तदंशे इष्टापत्तेः । इदंव स्वरूपपरशब्ददृष्टान्तेन अनन्तरमेव दर्शयिष्यत इत्यत्राह – अव्युत्पन्नावस्थै इति । अनुपलम्भ इति । स्त्ररूपपरशब्दोऽपि व्युत्पन्नानामेत्रार्थबोधक इत्यस्यापि वक्ष्यमाणतया अव्युत्पन्नावस्थायां शब्दस्यार्थबोधकत्वं लोकेऽनुपलब्धमिति भावः । त्रा ननु सूक्ष्मतयाऽपि सतरशब्दस्यानुपलम्भो भवति, नत्वभावात् इत्याह-व्युत्पत्ति नरपेक्ष्य इति । तदुक्तं तवमुक्ताकलापे - " वक्त्री व्युत्पत्तितः प्राग् यदि निजविषयं वाग् विभक्तयन्वयाद्यैः किं व्युत्पत्त्या तिरश्चामपि न ? कथमितो बालकानाञ्च बोध: ?” इति । वस्तुतस्तु शब्दस्य सूक्ष्मतयाऽनुपलम्भपरिहारोऽपि तत्र वित्रक्षितप्रतिकूल इत्यनुत्रादपूर्व कमाह - शब्द की इति । बोधकत्वं umr इति । शब्दस्य ज्ञायमानतयैव बोधकत्वादिति भावः ॥ “पॆयर्च्चॊल् ऊडुऱुवाद ज्ञानमे उलगिल् इल्लै। आगैयाल् ऎल्ला अऱिवुगळुम् सॊऱ्कळुडऩ् सेर्न्दे तुलङ्गुगिऩ्ऱऩ” ऎऩ्ऱदुम् - पसु म्रुगम्, कुऴन्दै, ऊमै मुदलियवर्गळिऩ् ज्ञानत्तिल् अव्विदम् काणामैयालुम् - अङ्गुम् इदु उण्डु ऎऩ्ऱु ऊहिक्कैक्कु इडम् इल्लामैयालुम् तवऱु। पुलमै पॆऱाद निलैयिलुम् मऩिदऩिडम् सॊल्लुक्कुक् कूऱुंसक्ति इयऱ्कै यिलेये उण्डु ऎऩ्बदुम् - अप्पडिक्काणामैयालुम्, पुलमैये अप्पोदु अना वच्यगमागि विडुवदालुम् सरियऩ्ऱु। सप्तत्तिऩ् सूक्ष्म निलैयाले काणामैया किऱदु ऎऩ्ऩिल्-अप्पडिक् काणाद सप्तत्तुक्कुक् कूऱुम् सक्ति कूडादु। सप्तङ्गळुक्कु- वैयाकरणभङ्गाधिकारः (१४) सूक्ष्मै - पश्यन्ती - मध्यमै - वैखरी” । शब्द की म अवस्थाविशेष/jbir क्रं १५९ ननु बोधक एव शब्दः सूक्ष्माद्यात्मना शास्त्रेषु सङ्कीर्त्यते । तथा हि-” या सा मित्रावरुणचेतनाद् उच्चरन्ती त्रिषष्टिं वर्णानत्र प्रकटकरणैः प्राणसङ्गात् प्रसूते । तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरीश्च प्रपद्ये ॥ " इति । अयञ्च श्लोकः – भागवते —– ( ११-१२-१७) “ स एव जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ " इति श्लोकस्य व्याख्याने श्रीधरेणोदाहृतः । अयमेव चार्थः पादुकासहस्रे आचार्यैरप्युक्तः " अन्तयस्तैर्मणिभिरुदितं पादुके ! रङ्गबन्धौ मन्दं मन्दं निहितचरणे मञ्जुलं ते निनादम् । पश्यन्त्यादिक्रमपरिणतेः प्राक्तनीं तां पराया मन्ये मित्रावरुणविषयादुच्चरन्तीं अवस्थाम् ॥” इति । अत्र भागवतश्लोकार्थः एवम् वित्ररेषु = आधारचक्रादिषु । प्रसूतिः=अभिव्यक्तिः यस्य स एष जीवः = नादमयः आत्मा, घोषवता प्राणेन, गुहाम्=आधारचक्रादिकं, प्रविष्टः । सूक्ष्मं मनोमयं रूपं पश्यन्तीमध्यमाख्यां अवस्थां उपेत्य, स्वर वर्ण मात्रारूपेण - वैखर्याख्येन स्थविष्ठः - स्थूलो भवति इति ॥ व्याख्यानश्लोकार्थस्तु – या सा-येत्यर्थः । या पराख्या योगिध्येया परावस्था शब्दप्रकृतिः । मित्रावरुणयोः = प्राणापानयोः । " प्राणो वै मित्रः “, " अपानो वरुणः " इति श्रुतेः । " देवताद्वन्द्वे च " इध्यानङ् । तयोः चेतनात् = देशात् - नाभेः, उच्चरन्ती प्राणसङ्गात् त्रिषष्टिं वर्णान्, प्रकटकरणैः इन्द्रियैः प्रसूते, तां प्रथमां पश्यन्तीं बुद्धिस्थां मध्यमां, वक्त्रे करणैः स्पष्टां वैखरीं च प्रपद्ये इति ॥ पादुकासहस्रश्लोकार्थस्तु – हे पादुके ! त्वयि रङ्गनाथे निहितचरणे सति, अन्धर्मणिभिः उदितं मञ्जुलं ते निनादं पश्यन्त्यादिक्रमेण परिणतेः प्राक्तनीं नाभेः उच्चरन्तीं परायाः अवस्थां मन्ये, इति ॥ ततश्च सूक्ष्मोऽपि शब्दो बोधक एवेत्यत्राह - सूक्ष्मै इति । अत्र मूले सर्वत्र “ सूक्ष्मैः पश्यन्ति वैखरी " इत्येत्र पाठो दृश्यते । स त्वनवबोधमूलः । “सूक्ष्मै- पश्यन्ति वैखरी " (Dip D । wj;लयका इत्येवं द्राविडभाषानुकारेण कृतं ग्रन्थलिपिविन्यासं दृष्ट्वा तत्र च श्लोकत्वबुद्धया तदनुगुणां कामपि शिक्षां कुर्वाणाः कुपाठकाः " सूक्ष्मैः पश्यन्ति वैखरी " इति व्यलिखन्निव । वस्तुतः " सूक्ष्मै - पश्यन्ती-मध्यमा-वैखरी ” इत्येवात्र पाठो भाव्यः, सर्वार्थसिद्धयनुसारात् । नतु - " मध्यमा " पदं परित्यज्य । अत्र च मूले क्रमो न विवक्षितः । तासामुत्पत्तिक्रमस्त्वेवम् अन्यत्र प्रतिपादितः । प्रथमा पश्यन्ती । स तु ग्राह्यभेदोच्चारणक्रमादिरहिता स्वप्रकाशा संविद्रूपा । ततो द्वितीया मध्यमाख्या । सा हि अन्तस्सङ्कल्प्यमानोच्चारण- क्रमयत्नवती । ततस्तृतीया वैखरी करणाद्युच्चारणक्रमवती श्रोत्रप्राह्या । विखरे= शरीरेन्द्रियसङ्घाते भवा - वैखरीति ख निरुक्तेः । अयञ्च क्रमः पूर्वोदाहृत-श्रीधरीय पादुकासहस्र-श्लोकाद्यनुगुणः ॥ १ ’ सूक्ष्मै, पच्यन्दी, मत्यमै, वैगरी’ ऎऩ्ऱु सिल पडिगळ् मुऩ्ऩुम् पिऩ्ऩुम् उण्डॆऩ्ऱु आप्तर्गळ् वचनङ्गळिल् काणप्पट्टालुम् सूक्ष्म तसैयिल् अच्चक्ति इरादु। इम्मादिरि सप्तङ्गळुक्कुप् पिरिविऩै कूऱिऩदुम् वेऱु करुत्तुडैयदु। १६० देशिका शयप्रकाश सहिते परमतभङ्गे आप्तवाक्यसिद्ध/१६/T (@ळं सूक्ष्माद्यवस्यैकनी वाचकत्व घटिका। यं विभागोपदेश अन्यार्थ। अर्थकाpp म अनुमान कटेगा कशा अल उपलम्भोपपत्तिविरुद्ध॥ स्पष्टोपलम्भक्रमानुसारेण - वैखरी - मध्यमा - पश्यन्तीत्यपि प्रतिलोमपाठो दृश्यते कचित् । यदाह भर्तृहरिः- “वैखर्या मध्यमायाश्च पश्यन्त्या श्वेतदद्भुतम् । अनेकतीर्थाभिन्नायास्त्रय्या वाचः परं पदम् ॥” इति । वैखर्यादीनां अद्भुततमा परा अवस्था नानाविधप्रस्थानशाल्यङ्गोपाङ्गसहितायाः श्रुतेः प्रकृतिरित्यर्थः । अत एव च मध्यमाया मध्यमात्वम् । उभयविधक्रमादरणेऽपि मध्ये स्थितेः । नाभि वक्त्रमध्य- हृदयदेशभवत्वाच्च । सूक्ष्मेति पश्यन्तीतोऽपि प्राक्तनी - योगिध्येया शब्दब्रह्माभिधाना काचिद्दशा वर्तते । तया सह गणने वैखरी तुरीया भवति । तथाच श्रुतिः - " तुरीयं वाचो मनुष्या वदन्ति " इति । यन्मनुष्या वदन्ति, तत् वाचस्तुरीयं पर्व इत्यर्थः । परन्तु साऽवस्था अत्यन्तानुपलब्धेति पश्यन्त्यादित्रितयस्यैव अव्यक्त व्यक्त व्यक्ततरोपलम्भविषयत्वात् प्रायशः त्रित्वकथनम् । सूक्ष्माद्यवस्थै इति । सूक्ष्मस्यैव शब्दस्य वैखरीदशायां बोधकत्वेऽपि सूक्ष्मतादशायां तन्नास्तीत्यर्थः । तर्हि बोधकस्य शब्दस्य तत्तारहितसूक्ष्मताद्यवस्थाकीर्तनं किमर्थमित्यत्राह - विभागोपदेश इति । उत्त्पत्तिक्रम निरूपणेन तया भावनया मन्त्राणां शक्तिविशेषसम्पादनार्थमित्यर्थः ॥ ननु सूक्ष्मोऽपि शब्दो बोधक एव । नच तदा व्युत्पत्तिनैरपेक्ष्यापत्तिः । इष्टत्वात् । कथं तर्हि अन्युत्पन्न शब्दो बोधक इति चेत्-इत्थम् - अव्युत्पन्ना अपि गवाद्यर्थपराश्शब्दा बोधकाः; शब्दत्वात् । स्वरूप- परशब्दवत् । “अग्नेर्दक्” इत्यादौ हि अग्निशब्दः स्वं रूपं अग्निशब्दमेव बोधयति । नतु तेजोद्रव्यरूपमर्थम् । । ततश्च तत्र तस्य शक्तिग्रहणरूपव्युत्पत्तिर्नापेक्ष्यते । एवञ्चानेनानुमानेन शब्दस्य सूक्ष्मस्याप्यव्युत्पन्नस्य बोधकत्वं सिद्ध्यतीत्यत्राह - यं अर्थ का इति । उपलम्भेति । अव्युत्पन्नस्य शब्दस्य बोधकत्वं न कचिदपि दृष्टचरम् शब्दस्याभिधेयेऽर्थे सम्बन्धग्रहणापेक्षानियमात् । स्वरूपपरशब्देऽपि “स्वं रूपं शब्दस्याशब्दसञ्ज्ञा” इति सूत्रकृतसङ्केत- ग्रहणापेक्षादर्शनात् । तस्य शब्दशास्त्रे या सञ्ज्ञा कृता - “क्त तवतू निष्ठा” इत्यादिका तां विना अन्यस्य शब्दस्य स्वं रूपमेवार्थ इत्यर्थः । तादृशव्युत्पत्तिरहितानां " अग्नेर्दक्" इत्यादौ अग्निशब्दस्वरूपोपस्थित्यभावात् । तथाच स्वरूपपरोऽपि शब्दः व्युत्पत्त्यैवार्थं गमयति, शब्दत्वात्, अर्थपरशब्दवदिति । प्रत्यनुमानबाधितञ्चेदमित्यर्थः । तदुक्तं तत्वमुक्ताकलापे - “स्वार्थश्शब्दस्तथा चेत् तदपि न विषयैस्तस्य साम्यात् तदन्यैः, अव्युत्पन्नत्वतो वा स्वयमपि न गमयेदेष तद्वत् स्ववाच्यम्" इति । अत्रानन्तरं कचित् कोशेषु दृश्यमानं " वेदान्तप्रस्थानविरुद्ध / i sorrib" इति वाक्यम् अधिकम् - अनन्वितञ्च । तथैवोत्तरवाक्यान्तरारम्भात् ॥
इदै अनुमानत्ताल् सादित्तालुम् - अदु अनुबवत्तिऱ्कुम् प्रमाणङ्गळुक्कुम् मुरणागुम्। वैयाकरणभङ्गाधिकारः (१४) १६१ वेदान्तप्रस्थान- विरुद्धLDIT & शब्दस्वरूप नित्यत्वादिकनां ५६६ अनपेक्षितLDIT ON Bur Go वैभववाद शब्दतवम् " गण कु/ वाचकत्व ॐ ॐ । ॐ का ५६, वचेतनित्यत्वादि अलग। ; अथास्तु कामं अन्या कल्पना साध्वी असाध्वी वा प्रथमं तावत्- " अनादिनिधनं ब्रह्म इत्यादिना शब्दनित्यत्ववचनमेव वेदान्तप्रस्थानविरुद्धं व्यर्थञ्चेत्याह-वेदान्तप्रस्थानेति । " अस्य महतो भूतस्य निःश्वसितमेतद् यद् ऋग्वेदः" इत्यादिना वेदादेः सर्वस्य जगतो ब्रह्मकार्यतावगमात् तद्विरुद्धमिति भावः । शब्दस्वरूपनित्यत्वादीत्यादिना विभुत्वपरिग्रहः । वाचकत्वेति । यथा अर्थस्य नित्यत्वेऽपि वाच्यत्वोपपत्तिः, तथा शब्दस्यानित्यत्वेऽपि वाचकत्वोपपत्तिः । अन्यथा शब्दस्येवार्थस्यापि वाच्यत्वाय नित्यत्वमापद्येतेति भावः । वचेतनित्यत्वादीति । आदिना प्रामाण्यपरिग्रहः । अनपेक्षित इति । तथाच तत्त्वमुक्ता- कलापः - " शब्दानित्यत्वतोऽपि श्रुतिषु न विलयः स्यात् क्रमव्यक्तिनीत्या तन्नित्यत्वे च काव्यादिकमपि न कथं नित्यमित्यभ्युपैषि " इति । वर्णनित्यतामात्रेण चेद् वचेतनित्यत्वं, तदा काव्यादिकमपि वर्णमयं नित्यं स्यात् । तत्र वर्णानां उच्चारणक्रमनैयत्याभावेन, वेदे च तन्नैयत्येन तेषामनित्यत्वं अस्य नित्यत्वञ्चेति यदि तर्हि तत एव काव्यादिविलक्षणतया वचेतनित्यत्वोपपत्तौ वर्णानां नित्यताश्रयणं व्यर्थमिति " क्रमव्यक्तिनीत्या " इत्यादेर्भावः । श्रुतिषु न विलयः - तन्नित्यतायाः, प्रामाण्यस्य चेति शेषः । काव्यादीनामिव अनित्यत्वेऽपि वेद- प्रामाण्यमुपपद्यत इति भावः । वैभववादेति । तथाच " देवतां काञ्चिदुद्दिश्य भक्तया यो वक्ति किञ्चन " इत्यादिरीत्या एवमादेरतिशयोक्तिरूपतया वयं तत्रोदासीना एवेत्यर्थः । अथवा तत एव मन्दमतीनां तत्र तात्त्विकत्वबुद्धिवारणायाधिकारेऽस्मिन् प्रतिविहितमित्यर्थः । इदञ्चाधिकारावसानगाधायां स्फुटीभविष्यति ॥ । ननु तर्हि भर्तृहर्यादिभ्योऽपि तव सन्निकृष्टो वेदार्थनिष्कष्टा जैमिनिर्मुनिनिजद्वादश लक्षण्यां कथं शब्दनित्यतां स्थापयामास ? । तथाहि - पूर्वाधिकरणे “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः” इति शब्दार्थ सम्बन्धस्यौत्पत्तिकत्वं नित्यत्वं प्रतिपाद्य सामयिकत्वं निरस्य अनन्तरमाक्षेपसङ्गत्या चोदयति-" कर्मे के तत्र दर्शनात् - अस्थानात् करोतिशब्दात्" इत्यादिभिः षड्भिः सूत्रैः शब्दानित्यत्वम् । एके=नैयायिक्ादयः शब्दस्य कर्म कारणमाहुः । कुतः ? तत्र = कर्मणि सत्येव शब्ददर्शनात् । अतः कर्मजन्यः शब्द इति प्रथमसूत्रार्थः । उच्चारणानन्तरं क्षणमप्यस्थानादिति द्वितीयस्य " शब्दं गुरु, शब्द मा कार्षीः " इत्यादि करोतिशब्दाच्चेति तृतीयस्य चार्थः । एवं पूर्वपक्षितं शब्दानित्यत्वं षड्भिर्निरस्यति - " समं तु तत्र दर्शनम् - सतः परमदर्शनं विषयानागमात् प्रयोगस्य परम् " इत्यादिभिः । तत्र - कर्मण्येव शब्ददर्शनं समं उत्पत्त्यभिव्यक्तिपक्षयोस्तुल्यमिति प्रथमसूत्रस्य, सत एव शब्दस्योच्चारणात् परम् अदर्शनं, विषयस्य शब्दस्य वायुना श्रोत्रदेशानागमनादिति द्वितीयस्य, शब्दं कुर्विति व्यपदेशः प्रयोगकर्तव्यातार्थः, न तु शब्दोत्पत्त्यर्थः । सिद्धस्यापि हि करोतिना व्यपदेशो दृश्यते—पादौ गुरु शिरः गुरु इत्यादौ, इति तृतीयस्य चार्थः ॥ A वेदान्द चित्तान्दत्तुक्कु विरुत्तमाग-“सप्तम् नित्यमागुम्।’’ ऎऩ्ऱदु - सप्तम् पॊरुळै पोदिक्कुमिडत्तुक्को - वेदत्तिऩ् नित्यत्तऩ्मैक्को वेण्डाद विषयमागैयाल् मिगैयाऩवादमागुम्। २१ १६२ देशिकाशयप्रकाशसहिते परमतभङ्गे “जैमिनियिऩ् सप्तनित्यत्व वादम् इवर्गळुक्कु उदवादु” जैमिनिशब्दाधिकरण (pii अम्यपर। wpmii बौद्धi Garg शब्दाध्यासादिककं - बौद्धगन्धि वैयाकरणादिकनां Gargळं प्रतिभावाक्यवाक्यार्थादिवाद । (६१५५ळं उक्तप्रकारका Gov उचितोत्तराग नांया। एवमप्युभयोः पक्षयोः समत्वेन सत्प्रतिपक्ष एवेति सिद्धान्तासिद्धिं मन्यमानः सिद्धान्तेऽधिकयुक्तीः आह नित्यस्तु स्यात् दर्शनस्य परार्थत्वात् " इत्यादिभिः षभिः सूत्रैः शब्दनित्यत्वम् । तुशब्दः पक्षं परिवर्तयति । शब्दः नित्यः स्यात् । दृश्यते अनेनेति दर्शनं उच्चारणं, तस्य परार्थत्वात् = अर्थप्रत्ययार्थत्वात् । यदि शब्दः उच्चारितमात्र एव विनश्येत् तर्हि सोऽर्थप्रत्यायनार्थं नोच्चार्येतेत्यर्थः । तथाच तदनुसारेण शब्दनित्यत्वमङ्गीक- रणीयमेवेत्यत्राह - जैमिनीति । अन्यपर इति । वर्णानित्यत्वे वचेतनित्यत्वं कथं सिद्धयतीति अत्यन्तभीतस्य अत्यास्तिक्यनिमित्तमिदं वर्णनित्यत्ववैभववचनमित्याशयः । तथाच तत्त्वमुक्ताकलापः- “ परमतिचकितैर्वर्णनित्य- त्वमुक्तम्” इति । परेषां मत्या चकितैः परं अतिचकितैरिति वा पदच्छेदः । अस्य च विस्तरः मीमां- सकमतभङ्गे भविष्यति । अत्र बौद्धा आहुः - शब्दार्थयोः परस्परमध्यासः । “पीतश्शङ्खः " पीतशङ्खः " इत्यादौ शङ्खपीति- म्नोरिव । तथाच सर्वेषां विकल्पानां शब्दानुविद्धार्थाध्यासरूपत्वाद् विकल्पाप्रामाण्यमिति । अन्ये च वैयाकरणाः बौद्धेर्विप्रलब्धाः ताननुसृत्य प्रतिभैव वाक्यवाक्यार्थरूपेण विवर्तते । तथाच प्रतिमैव परमार्थः । न तदतिरिक्त- किञ्चिदस्तीत्यपि वदन्ति । तदुभयमपि असमञ्जसमिति दर्शयति - Logo इति । बौद्धगन्धिनः- तत्सदृशाः । गन्धः सादृश्यम् । ‘सर्वः सगन्धेषु विश्वसिति’ इतिवत् ॥ दयात्, तत्वमुक्ताकलापे शब्दाध्यासश्चैवं निरस्तः- “शब्दात् प्रागर्थसिद्धेः परमपिच, तयोरक्षभेदादिबोधात् शब्दैक्येऽप्यर्थभेदात् अपि बहुषु पदेष्वेकवाच्यप्रसिद्धेः । साम्यासत्त्याद्ययोगात् युगपदवगतेय तिजात्यादिशब्दैः शब्दाध्यासो न युक्तः प्रथयति विषयं किन्तु सञ्ज्ञा तटस्था " इति । अयमर्थः कचिच्छन्दात् पूर्वं परचार्थज्ञानो- तयोरेकेन्द्रियग्राह्यत्वाभावात् शब्देक्ये ऽप्यनेकार्थसद्भावात् एकस्यार्थस्य बहुभिः पर्यायशब्दबधनात्, तयोः साम्य-सामीप्याद्यभावात्, कचित् तयोर्युगपदुपलब्धेश्च शङ्खपीतिम्नोरिव शब्दार्थयोर्नान्योन्याध्यासः । किन्तु शब्दस्तटस्थज्ञानविषयस्सन् बोधक इति । प्रतिभावाक्यवाक्यार्थत्ववादोऽपि अनूद्य खण्डितः तत्रैव- “यत् प्रत्येकादिकल्पे गमकविषययोरप्रतीत्यादिदोषात् बौद्धाः शाब्दाश्च बुद्धिं कतिचिदभिदधुर्वाक्यवाक्यार्थरूपाम् । नैतद्, बाह्येन बाह्यो विधित इति मतेर्बाधकोक्तेश्च साम्यात् वाक्यादावैक्यबुद्धेरनुकथितनयात् अन्यथा- सिद्धितश्च" इति ॥ तदर्थश्चेत्थमुक्तः- प्रत्येकादिकल्पः = घटपदेषु अनेकेषु गमकेषु किमेकमेवार्थबोधकम् ? ३३ जैमिनिमहर्षियिऩ् - सप्तादिगरणमुम् वेऱुगरुत्तिल् वन्ददु। पौत्तर् सॊल्लुम्-‘सप्तत्तिल् पॊरुळ् कऱ्पऩैक्कुम् ’’ अवर्गळुक्कुत् तुणैबोऩ सिल षैयागरणर् सॊल्लुम् “पुत्तिये वाक्यमाय् वाक्यार्त्तमाय् विरिगिऱदु ” ऎऩ्ऱ वादत्तुक्कुम् कीऴ्च् चॊऩ्ऩ विदङ्गळिल् परिहारम् पार्प्पदु।वैयाकरणभङ्गाधिकारः (१४) इप्पडिगळाल् काणमाग “पाणिनि पदञ्जलि मुदलियोर्क्कु इदु करुत्तऩ्ऱु” मॆऩ्ऱॊऩ्ऱैक् कट्टिऩवर्गळ् अनादरणीय। शब्दार्थ / कणां गGळं स्रष्टाQUIT or परमपुरुष Cor परब्रह्म अर्थान्तर कन ब्रह्मशब्द औपचारिक १६३ मुम् उत घटपदसमुदायः ? इति विकल्पः । आद्ये घटपदान्तरादर्थाप्रतीतिप्रसङ्गः । अन्त्ये वाचकानन्त्यम् । एवं विषयस्यार्थस्यापि विकल्पेन दूषणं भाव्यम् । अनेकेषु घटेषु किं एक एव स घटपदार्थ: : उत समुदायत: ? प्रथमे घटान्तरे घटपदप्रयोगव्यभिचारः । द्वितीये पुनरानन्त्यम् इत्यादिदोषात् प्रतिभैव वाक्यवाक्यार्थात्मना विवर्तत इति बौद्धा वैयाकरणाश्च केचिदाहुः । तन्न । यतः बाह्येन जडेन बाह्यो जडरूपोऽर्थो विधित इति लोकव्यवहारविरोधो भवति । किं नानाप्रतिभासु एकैव सा वाक्यवाक्या- र्यात्मना विवर्तते ? समुदायतो वा ? पूर्वत्र प्रतिभान्तरस्य घटादिप्रकाशकत्वं न स्यात् । उत्तरत्र तदेवानन्त्यम् ; इति दोषश्च उभयोरावयोः पक्षयोस्तुल्यः । तस्य त्वया कथश्चित् परिहारे मयाऽपि तथा करिष्यते । कथं तर्हि पदपदार्थयोः क्रोडीकारेण वाच्यवाचकभाव इति चेत् आनुपूर्वी विशेषावच्छिन्नत्व-तत्तत्संस्थानवत्त्वा- दिनेति पूर्वमेवोक्तमिति ॥ ततश्च यथैकस्याः प्रतिभाया वाक्यवाक्यार्थदि सर्वाध्यासाश्रयत्वासम्भवः, तथैव शब्दब्रह्मणोऽपि तत्सम्मतस्य सर्वकारणत्वानुपपत्तिरेवेत्याह-igor इति । उक्तेन प्रकारेणेत्यर्थः । " अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्तते " इत्यादि भर्तृहर्युक्तविवर्तवादस्य सर्वथाऽनुपपत्तेरिति भावः । ६६ अत्र " सर्वकारणLDIT & शब्दब्रह्म " इति सविशेषणनिर्देशात् सिद्धान्ते तद्रहितशब्दब्रह्माङ्गीकारानुमतिद्यत्यते । तथाहि – " जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते “, " शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति " इत्यादौ शब्दब्रह्म निर्दिष्टम् । अत्र प्रथमेऽतिवर्तितव्यतोकेः शब्दब्रह्म = प्रकृतिः भवति । द्वितीये च आगमोत्थं ज्ञानम् । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् " इत्युत्तरोक्तेः । तथाच शब्दब्रह्मशब्दः सिद्धान्ते सर्वथाऽर्थान्तरपर एव । नतु सर्वकारणपरब्रह्मविषय इति दर्शितं भवति, इति । यदि शब्दस्य ब्रह्मरूपतया शब्दब्रह्मेत्येकं तत्त्वं नाङ्गीक्रियते, तर्हि ब्रह्मेति किं भविष्यति ? इत्यत्राह शब्दार्थ [i] air@ror Gigळं इति । “पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यं " इत्युक्तेरिति भावः । ननु यदि स एव ब्रह्म भवति, तर्हि “निर्दोषं हि समं ब्रह्म”, “तस्मादेतद् ब्रह्म नाम रूपमन्नञ्च जायते " इत्यादौ जीवप्रकृत्यादावपि ब्रह्मशब्दप्रयोगः कथमित्यत्राह - अर्थान्तरकन इति । तथाच ब्रह्मणो जीवप्रकृत्यादिभेदस्य प्रबल प्रमाणसिद्धतया जीवादौ कथश्चिद् बृहत्त्वगुणमादाय ब्रह्मशब्दप्रयोगः औपचारिक एवेति भावः । बौद्धगन्धिनो नीरन्ध्रकायासिनः केचिद्वैयाकरणा यद्यप्ययुक्तं बह्वकल्पयन् । तथाऽपि ङ्गळ् इव्विदमाग सप्तप्रह्मम् ऎऩ्ऱॊऩ्ऱैक् कट्टिऩवर् वाक्यमुम् तळ्ळुण् डदु। सप्तम् पॊरुळ् इरण्डैयुम् सृष्टि सॆय्द परम पुरुषऩे परप्रह्मम्। वेऱु पॊरुळिल् प्रह्म सप्तम् प्रयोगिक्कप्पट्टालुम् अदु मुक्यमागादु। १६४ शारीरकनिर्णीतDI का परमार्थ क्रं देशिकाशयप्रकाशसहितें परमतभङ्गे सूक्ष्मचिदचिद्विशिष्ट (०) ळा औपनिषदपरमपुरुषळा का स्थूलचिदचिद्विशिष्ट (६) in G परिणमिमं की ग प्रतिक्षेपिकं कु०/- पाणिनि - कात्यायन पतञ्जलि प्रभृति परमर्षिपरिषॐॐ G SOLUTLIT ऐन्द्र चान्द्र-माहेश दौर्ग- कौमारापिशल्यादि कन्तु अभिप्रेतLDIT]ITा। QGur व्याकरण की विरुद्वांशङ्का गG TOMI "” अष्टादशपुराणानि अष्टौ व्याकरणानि च । ऩालुम् ६६
कं प्रमाणी। I उण्डा तच्छास्त्रकर्तृ प्रथमप्रवर्तक पाणिनि कात्यायनादिभि र्न वेदान्तविरुद्धं किश्चिदभ्यधायि स्पष्टम् । नवाऽपेक्षित- त्वात् तथा कल्पनीयम् । तेषां तत्त्वप्रक्रियायामत्यन्तौदासीन्यात् । तदुक्तं भट्टपराशरपादै:- “ प्राकू प्रयोगानुसारेण प्रकृतिप्रत्ययस्वरान् । प्रकल्प्य वैयाकरणैर्व्युत्पाद्या पदपद्धतिः ॥ " इतीत्याह-सूक्ष्मचिदचिदिति । औपनिषदपरम- पुरुषेति निर्देशेन शब्दब्रह्मेति युष्माकं व्यवहारापेक्षया शाब्दब्रह्मेति अस्माकं व्यवहारो वरमिति सूच्यते । शाब्दं =उपनिषच्छब्दगम्यम् । शब्दकसमधिगम्यत्वाद्वा शाब्दं ब्रह्म । पाणिनिः पणनं पणः स्तोत्रम् । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः । तस्य युवापत्यं पाणिनिः अयं सूत्रकारः । कात्यायनः वार्त्तिककृत् । पतञ्जलिः= सर्परूपेण अञ्जलेः पतन् पतञ्जलिः । पतन्तः भक्तानां अञ्जलयो यस्मै वा । अयं च बहुगभीरभाष्यसागरभाषिता फणीन्द्रांशः ॥
नन्वेतद्देश प्रचुरपाणिनीयव्याकरणे वेद विरुद्धांशानुपलम्भेऽपि देशान्तरप्रसिद्धव्याकरणान्तरेषु स स्यादित्यत्र द्वेधा समाधानं दर्शयति - Gur इति वाक्यद्वयेन । अनेन पूर्वकालेऽस्मिन् देशे व्याकरणान्तराणामपि प्रचार आसीदिति द्योत्यते । HOLwrLrg = अप्रचुरेत्यर्थः । ऐन्द्रेति । तदुक्तं “ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम् । सारस्वतञ्चापिशलं शाकलं पाणिनीयकम् " इति । अयञ्च नवधा व्याकरणविभागः- रामायणोत्तरकाण्डे हनुमत्स्तुतौ - “सोऽयं नवव्याकरणार्थवेत्ता " इत्यादौ परिगृहीतः । अन्यत्राष्टधाऽपि तद्विभागः- कर्तृद्वारा प्रसिद्धः । यथा - “इन्द्रश्चन्द्रः काशकृस्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टा दिशाब्दिकाः " इति ॥ अत्र कचित् मूले कापिशलीत्यत्रापिशलीति पाठो भाव्यः । माहेशदौर्गयोरप्यन्यत्र प्रसिद्धिरन्वेषणीया प्रमाण इति । तद्प्रन्थानामत्र अद्यतनैरदर्शनादित्यर्थः । २६००LT = विरुद्धांशसद्भावेऽपि । अष्टादश पुराणानीति ब्राह्मं पाद्मं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयं आग्नेयं भविष्यं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं ब्रह्माण्डश्चेति पुराणविभागः । अष्टौ व्याकरणानि चेति । नवव्याकरणेषु पाणिनीयस्य सूक्ष्मसित् असित्विशिष्टऩाऩ उपनिषत्तु ओदुम् परमबुरुषऩे स्तूलसित् असित्विशिष्टऩाय्क् कॊण्डु परिणमिक्किऱाऩ् ऎऩ्ऱु वेदान्द शास्त्रम् निर्णयित्त उण्मैयै निरागरिप्पदिल् - पाणिनि, कात्यायनर्, पदञ्जलि मुदलिय परमरुषिगळ् परिषत्तुक्कुम् उडऩ्बाडु किडैयादु। इप्पोदु नमदु तेसत्तिल् नडैयाडाद - ऐन्द्र - सान्द्र - माहेस - तॆळर्ग - कॆळमार - आबिसलि मुदलियोरिऩ् व्यागर णङ्गळिल् वेदविरुत्तमाऩ अंसम् उण्डॆऩ्गैक्कु ऒरु आदारमुम् किडैयादु वैयाकरणभङ्गाधिकारः (१४) १६५ ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥” ६७६० ml Gajrui सङ्कीर्ण - राजसतामसपुराण की विरुद्धाविरुद्धांशioir] ग क्रम क्रं की निर्वाह कङ्गना। व्यासपश्चाद्भावित्वात् एकन्यूनतया व्याकरणस्याष्टविधत्वं बोध्यम् । “जयन्त्यष्टादिशाब्दिकाः” इति पूर्वोक्तमनुसृत्यैवमुक्त- मिति केचित् । तन्न । पाणिनेर्व्यासादयर्वाचीनत्वेन तदूर्घटिताष्टादिशाब्दिकानां मतानुसारस्य व्यासे दुर्वचत्वात् । वस्तुतस्तु — श्रुतिषु मन्त्रकाण्डकृदादीनामित्र तदङ्गव्याकरणादिप्रणेतृपाणिन्यादीनामपि आधिकारिक पुरुषतुल्यं प्रवाह- नित्यताया आश्रयणीयत्वेन पाणिनीयादेरपि व्याकरणस्य व्यासादिभिरपि सर्वज्ञकल्पैरवगतिरवश्यवक्तव्या भवति । अत एव हनुमतः नवव्याकरणार्थवेदित्वं रामायणोक्तं साधु सङ्गच्छते । तथाचात्र व्यासस्याष्टविधव्याकरणज्ञानोक्तिः नवमसत्त्वेऽपि अभिसन्धिविशेषेण अयोगव्यवच्छेदपरेति, एकस्यापरस्मिन्नन्तर्भावविवक्षया द्वयोरेकीकारे एकन्यूनतायां अष्टविधत्वमेवेति अन्ययोगव्यवच्छेदपरेति वा निर्वाह्यमिति भावः । । Gari Gruin इति । अनेन सर्वपुराणानामपि सामान्यतः परिग्राह्यत्वं सिद्धमित्यभिप्रायः । सङ्कीर्णेति । तथोक्तं मात्स्ये - " अग्नेश्शिवस्य माहात्म्यं तामशेषु प्रकीर्त्यते । राजशेषु च माहात्म्यधिकं ब्रह्मणो विदुः ॥ सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥ सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते " इत्यादि । कल्पेषु = कल्पप्रोक्तपुराणेषु । सात्त्विकपुराणे विरुद्धांशाभावात् मूले तदनुक्तिः । विरुद्धाविरुद्धांशी १ क्रम की इत्येव पाठः । नतु॥। क्रमी इति । तेषु पुराणेषु विरुद्धाविरुद्धांश विवेचनवत् अत्रापि व्याकरणेषु वेदान्तविरुद्धांशोऽयं - अयमविरुद्धांशः, इति विवेकतः निर्णीय तुषतण्डुलन्यायेन विरुद्धांशं विहायाविरुद्धांशः परिग्राहय इति हृदयम् । एवं वेदाङ्ग निर्वहणवारवाणसंवृतानां वैयाकरणानां मतं दूषितम् । तत्र यद्यप्येवं कृतं, तथापि तेषां भावोऽशुद्ध इत्यत्र न किञ्चित् प्रमाणं दृश्यते । बौद्धैः शब्दार्थरूपस्य सर्वस्य प्रपञ्चस्य कल्पितत्वेन अप्रामाणिकत्वे कथिते - शब्द एव ब्रह्म, तस्यैव परिणामो विवर्तो वाऽयमर्थ प्रपञ्चः इत्यादिरीत्या वैभववादस्यैतैः- अवतारितत्वेन तत्र तेषां तात्पर्याभावस्यापि वक्तुं शक्यत्वात् । अशे अन्वारुहयवादो वाऽयं भवतु । विवादे अवसिते तेऽपि सौहार्देन पृष्टास्तत्त्वं व्याचक्षीरन् । सोऽयं न्याय: श्लोकवार्त्तिके उदाहृतः - " अभीष्टार्थव्ययेनापि जयति क्षेत्रहारिणम् । लब्धक्षेत्रे ने दुष्प्रापः स्यादर्थ इति निश्चयात् " इति इत्याशयवान् गाधामाह – ०० क्री इरुन्दालुम् -“पदिऩॆण् पुराणङ्गळैयुम्- ऎट्टु व्यागरणङ्गळैयुम् आराय्न्दु व्यासर् पारदसम्हितैयैच् चॆय्दार्” ऎऩ्ऱालुम् सङ्गीर्ण - राजस - तामस पुराणङ्गळिल् विरुत्ता विरुत्तांसङ्गळैप् पिरित्तु ऎण्णुम् क्रमत्तिले इङ्गुम् विरुत्तांसङ्गळै नीक्किविडलाम्। १६६ देशिकाशयप्रकाश सहिते परमतभङ्गे कलगत्तिल् कलङ्गिवरुम् काणिक्कॆल्लाम् कण्णाऱु सदिरवऴिगाट्टुवार्बोल् उलगत्तिल् मऱैसेर्न्द उरैगळ् तम्माल् ऒरु पिऴैयुम् सेरामल् उपकरित्तार् पलगत्तुम् पवुत्तर् मुदलाऩ पण्डैप् पगऱ्कळ्ळर् पगट्टऴिक्कप्परवुम् पॊय्याम् सिल कऱ्ऱुच्चित्तान्दम् अऱियगिल्लाच् चिऱुवर् इऩि मयङ्गामल् सेमित्तोमे। इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्गटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिबु षु परमतभङ्गे वैयाकरणभङ्गाधिकारश्चतुर्दशः समाप्तः । इति । विवादास्पदस्य क्षेत्रस्य निर्णयाय यथा मध्यस्थाः । - इत्युच्यमानां व्यवस्थां कुर्वन्ति, तथा लोकेऽपि वेदादिप्रमाणशब्देषु अव्यवस्थयाऽर्थकरणक्लेशं शमयितुं पाणिन्यादयः व्याकरणतन्त्रं प्राणैषुः । एवं स्थितेऽपि तत्त्वे, बहुप्रलपतां " यथा हि चोरस्स तथा हि बुद्धः” इति दिवा चोरकृत्याचरणेन अस्मच्छास्त्रेषु तत्त्व- बाधमुत्पादयतां बौद्धानां निराकरणाय वैभववादरूपेणान्वारुह्यवादरूपेण वा किञ्चिद्विपर्यस्तं तत्र कथयतां नवीनान वैयाकरणानां आशयानभिज्ञा मन्दा यथाऽत्र न मुहयेयुः तथाऽस्मिन्नधिकारे तेषां रक्षायै कृतं किञ्चिदस्माभिरिति पिण्डितार्थः ॥ वेदोपकारकतया विहितं हितं तच्छाब्दं हि शास्त्रमिह पूर्वतनैर्महद्भिः । तत्रैव केऽपि चपलाः शलभबभूवुः स्फोटस्फुलिङ्गदहने स्वयमेव क्लृप्ते ॥ १ ॥ सुश्रव - सुस्थिर सूक्तया सूक्ष्ममधिक्षिप्य शाब्दिकाभासान् । आभाति वेङ्कटेशः श्रुतिनिकरोत्तंसवेश्मसु विहारी ॥ २ ॥ इति श्रीवत्सवशायनस्य देशिकचरणपरायणस्य नारायणस्य कृतिषु परमतभङ्गव्याख्यायां देशिकाशयप्रकाशाभिख्यायां वैयाकरणभङ्गाधिकारश्चतुर्दशः ॥ १४ ॥ (पासुरक्करुत्तु) कलगत्तिल् इऩ्ऩारदु ऎऩ्ऱु तॆरियाद काणि निलत्तिऱ्कु कण् णाऱु ऎऩ्ऩुम् तीर्प्पु कूऱुवारैप् पोल् उलगत्तिल् वेदङ्गळिऩ् सॊऱ्कळुक्कु ऒरु पिऴैयुम् नेरादु तीर्प्पु कूऱि उपकरित्तऩर् वैयागरणर् । आऩालुम् - पल वाऱु पितऱ्ऱुम् पौत्तर् मुदलाऩ पगऱ्कॊळ्ळैयर् पगट्टैयॊऴिक्क परव लागप् पॊय् पेसि सिऱिय मदियराऩ सिऱु वित्वाऩ्गळ् इऩि मयङ्गादवाऱु उण् मैप् पॊरुळैच् चेमित्तोम्। परमदबङ्गत्तिल् वैयागरणबङ्गादिगारम् तमिऴ् मॊऴि पॆयर्प्पु मुऱ्ऱिऱ्ऱु।