वेङ्कटार्य-सिद्धान्त-रत्नावली

Source: TW

[[TODO: Proofread]]

Tanjore Sarasvati Mahal Series No. 187

SIDDHANTA RATNĀVALĪ OF SRI VENKATACHARYA

Edited with Introduction By
Vedartha Ratnakara, Veda Vachaspati, Srutismrti, Itihasa, Mimamsadvaya Kalpasutra Visarada,
AGNIHOTRAM RAMANUJA TATACHARYA
(Receipient of President Award for Sanskrit)

TANJORE MAHARAJA SERFOJI’S SARASVATI MAHAL LIBRARY, THANJAVUR.

सरस्वतीमहाल ग्रंथमालयाः पुष्पम् - १८७.

श्रीमत्पण्डितताताचार्यसूनु - श्रीवेङ्कटाचार्ययज्वना विरचिता

॥ सिद्धान्तरत्नावली ॥

संपादकः

भारतीय राष्ट्र पतिना सम्मानिता:

वेदार्थरत्नाकरः, वेदवाचस्पतिः श्रुतिस्मृत्येतिहास मीमंसादय कल्पसूत्र विशारद

श्री अग्निहोत्र रामानुजताताचार्याः

तंजापुरी महाराजा शरभोजी सरखतीमहालय ‘थालय निर्वाहकसमितिः ।

१९-२] ॥

तंजापुरी ||

First Edition:

Published by

THE ADMINISTRATIVE COMMITTEE,

T. M. S. S. M. LIBRARY, THANJAVUR.

Published with the financial assistance from the Ministry of Education and Social Welfare,

Govt. of India.

प्रथमावृत्ति

१९८२.

प्रकाशक :

तंजापुरी महाराजा शरभोजी सरस्वतीमहाल-ग्रंथालय-निर्वाहक-समितिः ।

संजापुरी ॥

PREFACE

I introduce this book with great pleasure

to the scholars under the series of

the series of publications

of

of rare and valuable Sanskrit manuscripts of

this Library. The book Siddhanta Ratnavali is

a treatise on the accepted conclusions

supremacy of Vishnu following the Visistadvaita

Philosophy.

The author of this work “Venkatacharya”

was a native of Kumbakonam and his father

was the Rajaguru of Naik Kings of Tanjore.

The publication of Siddhanta Ratnavali is in the 187 series of manuscripts of Sanskrit literature edited and published by this Library with the aid of the Government of India special grant Rs, One Lakh.

The editor of this work Agnihotram Thiru Ramanuja Tatachariar of Kumbakonam is

ii

a recipient of President Award for his erudition

and meritorious service to Sanskrit Language. This eminent traditional scholar has cdited this

book with great care and in a

a commandable

His elaborate and lucid introduction

in Sanskrit, English and Tamil will be useful to

the scholars and readers. Our sincere thanks

are due to him for his invaluable service.

manner.

It becomes our duty to thank the

Government of India for their timely grants, for

bringing out this useful work under the publication of valuable books available in this

Library.

Our thanks are due to the Sarada Vilas

Press, Kumbakonam for their neat execution of

printing and good get up and also to the staff

member of this Library.

Thanjavur, 18-9-82.

S. MEIKANDA DEVAN, I. A. S.,

DISTRICT COLLECTOR & CHAIRMAN,

T. M. S. S. M. Library Administrative Committee.

TANJORE SARASVATI MAHAL LIBRARY,

SOME OF THE SANSKRIT PUBLICATIONS.

AN APPEAL

Manuscripts on Palm Leaf or Paper of the ancient works of the wise men of the past, are the great treasures. solely inherited by the Nation, and it is the moral obligation of persons who possess them to preserve them safely for the future generations of mankind.

Probably you have some of these in your possession or you know friends or neighbours who possess them. You can make a great contribution to the cause of the preservation not only of our National Culture but also of the Culture of Humanity as a whole by arranging to present such manuscripts to the famous T. M. S. S. M. Library, Thanjavur.

The manuscripts so presented will be accepted and acknowleged with pleasure and gratitude by the authorities of the Library, preserved with meticulous care and made available to successive generations of readers and scholars for study and research. The hitherto unpublished works found among them, will be printed and published in due course, as facilities occur, with the expression of the

Library’s gratitude for your gift.

The great Scholar-King of Tanjore. Rajah Serfoji, has attained immortal fame by dedicating enormous time and wealth to the expansion and firm establishment of this world-famous Sarasvati Mahal Library’. It is open to you to share the honour of Serfoji, in your own measure, by contributing your manuscripts to the great institution built by him.

This great Honour is beckoning to you to accept it, will you hasten to take it up?. The Library waits for

your answer.

Administrative Officer,

T.M.S.S.M. Library.

भूमिका

अथेदानीं विदुषां पुरस्तात् सिद्धान्त - रत्नावली - नामकोऽयं ग्रन्थ उपस्थाप्यते । अस्य ग्रन्थस्य विष्णूत्कर्ष प्रतिपादनमेव परमोद्देशः । श्रुतिस्मृतीतिहास पुराणेषु विष्णोः पारम्यमेव प्रतिपाद्यत इति अयं ग्रन्थकर्ता मीमांसान्यायावलंबनेन निरूपयति । अयं च रामानुज सिद्धान्तानुसारी ग्रन्थः । तत्र तत्र आचार्यवेदान्तदेशिके महतीं भक्ति प्रकटयति । अत्र चत्वारः परिच्छेदाः । प्रथमे परिच्छेदे स्वाचार्य मतानुसारेण श्रुत्यादिषु विष्णोः पारम्यमेव प्रतिपाद्यत इति निरूपयति । द्वितीय परिच्छेदे विष्णोः पारम्यं अनभ्युपगच्छतां परेषां पक्षं प्रतिक्षिपति । तृतीय परिच्छेदे सर्व - परविद्यो - पास्यत्वं सर्वोपनिषत् - प्रतिपाद्यत्वं च नारायणस्यैवेति विवृणोति । चतुर्थे परिच्छेदे नारायणस्यैव परम प्राप्यत्वमिति विशदयति । अत्र च बहवो बेद-भागाः सुप्रसिद्धा उपनिषदः अष्टादश पुराणान्युपपुराणानि भगवगीतादयः बहवो प्रन्याः समालोचिताः । परस्पर विरुद्धवत् दृश्यमानानां वचनानां समीकरणाय मीमांसा न्यायाश्च प्रदर्शिताः । मीमांसान्याय - जटिलोऽयं ग्रन्थः । विष्णोः पारम्य - प्रतिपादनार्थं प्रवृत्तोऽयं मन्यः अन्यपारम्यवादिनां पक्षमपि महता प्रयत्नेन निराकरोति ॥

·

शिवतत्त्वविवेक, शिवार्क (आदित्य) मणिदीपिकादिग्रन्थेभ्यः प्रतिपक्षा अनूच्चन्ते । वेदेषु कस्य पारम्यमुच्यत इति निर्णयं कर्तुं वेदोपबृह्मणभूतइतिहास - पुराणानां अवलम्बनेन, विष्णोः पारम्यं संस्थाप्यायमेव वेदार्थः इति निरूपयति । वेदमन्त्रेषु शिवस्य वा विष्णोर्वा पारम्य प्रतिपादकानां वचनानां

अदर्शनात्, तथा उपनिषत्स्वपि कस्याश्चित् देवताव्यक्तेरप्यनुल्लेखात्, विचार: पुराणमात्र - विश्रान्तो दृश्यते । प्रसिद्धोपनिषत्सु सत् - ब्रह्मादिशब्दैः कारणतत्त्वप्रतिपादनात् काश्विदेवोपनिषदः सुबालोपनिषत् - महानारायणोपनिषत् - अथर्वशिखोपनिषत् - श्वेताश्वतरोपनिषत् - आत्मप्रबोधोपनिषत्ब्रह्मबिन्दुपनिषत् - मैत्रायणीयोपनिषत् - मैत्रेयोपनिषत् - नृसिंहपूर्व ता

F-A

2

पिन्युपनिषत् - नृसिंहोत्तरतापिन्युपनिषत् - प्रभृतयः प्रमाणत्वेनादृताः नारायणपरत्वस्थापनार्थम् । तथा अथर्बशिखा - अथर्वशिरःश्वेताश्वताराद्युपनिषत्सु स्थूल दृष्टया प्रतीयमानशिवजगत्कारणत्वस्य विष्णुपारम्यप्रतिपादन एव तात्पर्यमिति प्रकाशयति । पुरुषसूक्तस्य सर्वैरंगीकृतस्य, भगवन् मुखारविन्दात् उत्पन्नायाः भगवद्गीतायाश्च विष्णुपारम्य प्रतिपादन एव तात्पर्यमिति महता प्रयासेन निरूपयति । गीताविचारावसरे अनुगीता च समालोचिता । असकृत् स्वगोष्टयन्तर्गत महाचार्याणां वेदान्तविजयाख्यप्रन्यादपि स्वोक्तार्थावष्टंभार्थं व्याख्याप्रकारच आदृतः ॥

विष्णुपारम्य निरूपप्रवृत्तोऽयं ग्रन्थकर्ता भगवता रामानुजेन प्रदर्शितमेव मार्ग अनुसरति ॥

विदितमेवेदं विदुषां यत् - जिज्ञासाधिकरणे ब्रह्मशब्दार्थ - निरूपणावसरे ब्रह्मशब्दार्थ निरूप्य " स च सर्वेश्वर एव ’ इति वदन भगवान् रामानुजो ब्रह्मशब्दार्थस्य सर्वेश्वरे भगवति नारायण एवं उपसंहार इति वदति 1 तथाजैव - अत्रेदं तवमिति प्रकरणे - बृहदारण्यके ऽन्तर्यामि - ब्राह्मणे सामान्यतया श्रूयमाणस्य आत्मशब्दार्थस्य विशेषे नारायण एबोपसंहार इति, सुबालोपनिषत् - श्रुत्यनुसारेण निर्णयः कृतः ( चिदचितोः परमपुरुष - शरीरतया तनियाम्यत्वेन तदपृथक् सेद्धिः परमपुरुषस्य च आत्मत्वेन ) इति ॥

तथा परैरन्यथा व्याख्यातं लिंगभूयस्त्वाघिकरणं - तैत्तिरीय - दहरविद्यासमनन्तरश्रूयमाण नारायणानुवाकानुसारेण नारायणस्य सर्वपरविद्योपास्यत्व - प्रतिपादन - परमिति च निरूपितम् । एतन्मार्गानुसारेण सद्मलादि - शब्दवाच्यः नारायण एवेति महता प्रबन्धेन विवृतम् ॥

भगवद्गीता यद्यपि नारायणमुखारविन्दात् उद्गता, तथाप्यत्र बहुषु स्थलेषु ईश्वर ब्रह्मादिशब्दानां दर्शनात् ( पश्य मे योगमैश्वरम्

4

सर्वभूतानां हृदेशेऽर्जुन तिष्ठति

मयि सर्वाणि कर्माणि संन्यस्य

घाय कर्माणि ) गीताया, नारायणपरत्वे

ईश्वर:

ब्रह्मण्या-

संशयमुद्बोषयतां पक्षोऽपि निरस्यते ॥3

महाभारते आश्वमेधिके पर्वणि दृश्यमान - अनुगीता - प्रमाणेन भगवद्गीतायाः अन्यार्थ वर्णयतां मतमपि खण्डितम् । पुरुषसूकं यद्यपि नारायणपरमिति आपस्तम्बादिमि: निर्णीतं ( सहस्रशीर्षा पुरुष इति उपहितां पुरुषेण नारायणेन उपतिष्ठते ) अथापि पुरुष - शब्दस्य वेदादिषु बहुषु स्थलेषु शिवेऽपि प्रयोग-दर्शनात् पुरुषसूक्तं न नारायण - पारम्य - पक्षस्य प्रमाणं भवितुमर्हति इति वदतां वादा अपि दूरीकृताः ॥

वेदेषु यद्यपि विचारो न विस्तरेण कृत:; अथापि उभाभ्यां अपि वादिभ्यां वेदात् केचन अभिप्रायाः स्वस्वपक्षस्थापनार्थ आदृता दृश्यन्ते । अजायमानो बहुषा विजायते इति उत्तरनारायणानुवाके पठ्यते । अन अजस्य नारायणस्य बहुधा जायमानत्वं षर्ण्यते । अत्रोत्पत्तिश्रवणात् नारायणस्यापि उत्पत्तिर्भवितुमर्हतीति कृत्वा नारायणस्योत्पत्तिमतः न पारम्यं वक्तुं युज्यत इति पूर्वपक्षिणो बदन्ति । परन्तु अयं ग्रन्थकर्ता अनेन वाक्येन श्रूयमाणमुत्पत्तिमत्त्वं अंगीकृत्य तादृशोत्पत्तेरवतार - परत्वं वर्णयित्वा नारायणस्य उत्पत्तिः न कर्मकृता, अपि तु स्वेच्छाकृता, यदि उत्पत्तिः कर्मकृता स्यात् तदैव परत्वस्य भङ्गः स्यादिति निरूपयति ॥

हृदं च सुस्पष्टमेव यत् वेदेषु रुद्र - शब्देनैव काचन देवता प्रतिपाद्यते न शिव-शब्देन । तथा विष्णु-शब्दश्च सुप्रसिद्धो मन्त्रब्राह्मणेषु देवताविशेषप्रतिपादकत्वेन । अथापि शतरुद्वीये ’ नमः शिवाय ’ इति दर्शनात् रुद्रशिवशब्दयोः एकार्थत्वं वदन्तो शिवपारम्यवादिनः वेदेऽपि शिवपाम्यं वर्तत इति प्रतिपादयन्ति । तथा विष्णु - शब्दस्य नारायण - शब्देन एकार्थत्वं वदन्तो वादिनः नारायणशब्दवाच्यस्य विष्णोः पारम्यमेव वेदे प्रतिपाद्यत इति वदन्ति । नारायण - शब्दः शतपचत्राह्मण एव दृश्यते, नान्यत्र । अयं चाल नारायणशब्दः केनचित् इतिहासेन संबद्धो दृश्यते । नारायण - शब्दस्य अत्रास्तित्वं अंगीकृत्यैव उभौ विवदेते । तथा अन्यस्मिन् इतिहासे रुद्र - संबद्धः कश्चन इतिहासोऽपि वर्तते । अत्रापि इतिहासास्तित्वं रुद्रशब्दस्य देवताविशेष - वाचित्वं

4

चांगीकृत्य स्वस्व - पक्षानुसारेण वादं कुर्षाते । यतोऽयं विषयः अत्यन्तमपूर्व:, अतस्तद्विवरणं कुर्मः ॥

शतपथ ब्राह्मणे ( ६-१-३१) अष्टमूर्तिब्राह्मणं अथवा कुमारब्राह्मणमिति किञ्चन प्रकरणं वर्तते । तत्र प्रजापतिना पृष्टो रुद्र: “अहं अनपद्दतपाप्मा " इति वदति । ( अनपहतपाप्मा वा अहं अस्मि ) तथा अहीनपाश्चरात्रनामक - यज्ञसम्बन्धे नारायणः पश्चरात्रयागमनुष्ठायैव सर्वाधिपत्यं प्राप्तवानिति प्रतिपाद्यते । पूर्वप्रकरणस्य वाक्यमादाय वैष्णत्राः ब्रह्माऽसाधारणानपहतपाप्मत्वं रुद्रस्य नास्तीति वदन्तः तस्य परदेवतात्वं प्रतिषेधन्ति । तथा पश्चरात्रयागानुष्ठानानन्तरमेव सर्वलोकाधिपत्यं नारायणः प्राप्तवानिति श्रवणात् नारायणस्य आधिपत्यं कर्मकृतमिति वदन्तः शैवाः नारायणस्य परदेवतात्वं प्रतिषेधन्ति । एतद्विवृणुमः अग्निचयन - प्रकरणे पृथिवीपरिणाम प्रकारं क्रमश: प्रतिपाच पृथिवीपर्यन्त - परिणामानन्तरं भूतानां भूतपतेश्च उत्पत्तिमुक्त्वा भूतानां पतिः उषसा पत्न्या साकं संवत्सराय दीक्षां कृतवान् । भूतानाच पतिः उषसि रेतो असिञ्चत् । ततः कश्चन कुमारोऽजायत, सोऽरोदीत् । कुमार ! किमर्थ रोदिषि इति प्रजापतिः पप्रच्छ । तत्र अयं कुमारः अनपहतपाप्मा वा अस्मि अहितनाम नामघेहि इत्यब्रवीत् । तस्य प्रथमं रुद्र इति प्रजापतिः नामाकरोत् । ततः स्वस्य सर्वापेक्षया ज्यायस्त्वं मन्यमानो रुद्रः पूर्वनाम्नि असंतुष्टः पुनरपि नाम घेहीत्यब्रवीत् । ततः शर्वः इति नाम प्रजापतिरदात् । एवं पशुपति उग्र अशनि-भत्र महादेव ईशान नामभिः प्रजापती रुद्रं भूषयामास । कुमार इति नाम नवमं चाकरोत् इति प्रतिपादितम् । उत्पत्त्या स्वस्य अनपहत-पाप्मत्वम् रुद्रोऽपि प्रथयति । अत्र श्रूयमाणरुद्र-शब्दः न पुराणप्रसिद्ध रुद्रपरः । तान्येताति अष्टावभिः रूपाणि " इति नाम्नां - अग्ने रूपत्वं सुस्पष्टमुक्तम् । तथा नामकरणेन पाप्मानां अपहृतिश्च उच्यते । अथापि अनपहतपाप्मत्वं रुद्रेणैव अंगीकृत मिति - कृत्वात्र विचारः प्रवर्तते । पुराणेषु प्रसिद्धा रुद्रव्यक्तिः अन्यादृशी खलु ॥

"

·

·

तथा पुरुषमेध प्रकरणे पुरुषमेध - पश्चरात्र - नामको यागो

5

( १३-५-१-१ ) पुरुषेण नारायणेन

दृष्टः तेनायजता । तेनेष्टा अत्यतिष्ठत्

सर्वाणि भूतानि, स इदं सर्वमभवत् इत्युक्तम् । एतत्स्थलादन्यत्र नारायणशब्दो न प्रयुक्तः । अतः नारायण-शब्देन किं प्रतिपाद्यत इति न ज्ञायते । अथापि कस्याश्चित् देवतायाः अयं प्रस्ताव इत्यंगीकारे नदोषं पश्यामः । पुरुषो ह वै नारायण इति नारायण - शब्द - विशेषणत्वेन पुरुष - शब्दः प्रयुक्तः । परन्तु पुरुष - शब्दस्य सर्वपुरुषसाधारणत्वात् अनेन पुरुष - शब्द - विशेषणेन किं लभ्यत इति न ज्ञायते । परन्तु अस्मिन् यागे पुरुषसूक्तस्य सम्बन्धोऽपि दृश्यते । पुरुष सूक्ते जगत्कारणतत्त्वं पुरुषत्वेन वर्ण्यते । तदनुसारेण व्याख्याने, नारायणशब्दस्य पुरुषसूक्त - वाक्यस्य पुरुषेण संबन्धश्च वक्तुं शक्यते । ऋग्वेदीयसर्वानुक्रमण्य पुरुषसूक्तस्य द्रष्टा नारायण इत्युक्तम् । यथा तथा वा भवतु । अत्र प्रमाणान्तर प्राप्तमहिस्रो जगत्कारणीभूत - नारायणस्य वाच्यत्वम् अंगीकृत्यैव शिवपारम्य - वादिमि: दूषणं कृतम् । विष्णुपारम्यवादिभिः समाधानं च कृतम् । परन्तु अयमितिहास: पुरुषमेधविध्यर्थवादे श्रुतः । अर्थवादानुसारेण विशिष्य इदमित्थमिति निर्णयः कर्तुं न शक्यत इति वैदिकैः अंगीक्रियते । एवमेव वेदान्त प्रसिद्ध - ब्रह्मविषये, विष्णुविषये च इतिहासाः सन्ति । ब्रह्म अमिजिन्नक्षत्रेष्टिं कृत्वा ब्रह्मलोकमजयत् इत्युच्यते । (ब्रह्म वा अकामयत ब्रह्मलोकम् अमिजयेयमिति । तदेतत् ब्रह्मणे ऽभिजिते चरुन्निवपत् । ततो वै तद्ब्रह्मलोकमभ्यजयत् ( तै. ब्रा. ३१-२ ) तथा विष्णुरपि खदेवता केष्टिं कृत्वैव पुण्यं श्लोकं श्रुतवान् । पापकीय

। अस्पृष्टोऽभवत् इति श्रूयते ( विष्णुर्वा अकामयत पुण्यं श्लोकं शृण्वीय न मा पापी कीर्त्तिरागच्छेदिति, स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरवपत् तै. ब्रा. ३ - १-२ ) इति । एतादृशा इतिहासास्तत्तद् त्तयाग - प्रशंसापराः । प्रशंसायां प्रवृत्तानि ब्राह्मणानि बहुधा वदन्तीति भगवता यास्केनापि सूचितम् । ( बहुभक्ति वादीनि हि ब्राह्मणानि भवन्ति ) अत्रोक्तं ब्रह्म वा तथा विष्णुर्वा न वादिमि: प्रमाणान्तरानुसारेण अंगीकृतं ब्रह्म

6

विष्णुर्वा । परन्तु वेद-संप्रदायानुसारि देवतात्ववन्त एव । देवता प्रशंसापरेषु ब्राह्मणोक्तेतिहासेषु च देवतायाः शरीरादिकं अंगीकृत्यैव व्यवहियते । परन्तु इदं शरीरादिकं स्वाभाविकं वा अन्यार्थ आरोपितं वेति विचारावसरे जैमिनिना एतेषां अर्थवादत्व - प्रकटनेन, अन्यार्थत्वं स्थापितम् इति गम्यते । परन्तु ऐतिहासिकैः यथार्थत्वमेव स्वीकृतम् । सर्व सत्यवादी भगवान् रामानुजोऽपि अर्थवाद - प्रतिपादितस्यापि सत्यत्वं अंगीकृत्य स्त्रसिद्धान्तं निरूपयति । वेदार्थसंग्रहे भगवतः शरीरादिसत्त्वे मन्त्रार्थवादा एव प्रमाणमित्युक्तम् । अतः रामानुज - मतानुसारिना अनेन ग्रन्थकारेण पूर्वोक्त स्थलेषु विग्रहादिमदेवतैव प्रतिपाद्यत इति अंगीक्रियते ॥

तथा सर्वैरपि प्रतिदिनं कालत्रयेऽपि जप्यमानो गायत्री मन्त्रः सवितृदेवताकत्वेन ऋग्वेदे वैश्वामित्रमण्डले ( ३-६२ - १० ) पठ्यते । अथापि तन्मन्त्रस्य अन्यादृशं प्राधान्यं वर्तत एव । अत एव प्रतिदिनं सर्वैः जप्यते । तत्रापि शिव विष्णु पारम्य - वादिनस्तन्मन्त्र - प्रतिपाद्यार्ये महान्तं विचारं

कुर्वन्ति । अयं मन्त्रो विष्णु - पर इति वैष्णवाः, तथा शिव - पर इति शैवाश्च वदन्ति । प्राचानेः अस्य मन्त्रस्य व्याख्याने महान् परिश्रमः कृतः । स्मृतिषु तथेतिहास पुराणेष्वेतन्मंत्र - विवरणात्मकानि बहूनि वचनानि सन्ति । तत्रैव अस्य मन्त्रस्य विष्णुपरतया शिवपरतया च व्याख्यानस्य आरम्भः कृताः । परन्तुः विष्णु - शिवपारम्यवादिनौ उभावपि कस्य पक्षस्य साधुत्वम् कस्य पक्षस्यासाधुत्वमिति विवादे प्रवृत्तौ दृश्येते ॥

तथा ब्रह्मसूत्रकाराः जगत्कारणभूत ब्रह्मतत्त्व - निरूपणे प्रवृत्ताः । परन्तु तत्र सांख्यादय एव प्रतिवादिनः । अत्र न शिव विष्णु - पारम्य-विषये कश्चन विचारः कृतः । यद्यपि ब्रह्मसूत्रस्य वेदोक्त - देवता - तत्त्व - निर्णये न

प्रवृत्तिः, ब्रह्म - शब्दार्थ - निरूपण एव नैर्भर्य पश्यामः ।

प्राकृत तत्त्वानां अभिमानि देवता काचन वर्तत इति

( अमिमा निव्यपदेशस्तु

अथापि अचेतन -

विशेषानुगतिभ्यां २-१-५) तथा

तैरंगीक्रियते ।

इतिहास -

7

पुराणोक्तरीत्या देवान् देवलोकं च अंगीकुर्वन्ति । कर्म विषयेऽपि तादृशदेवता - प्रसादादेव फलोत्पत्तिर्भवतीति च तैः प्रतिपादितम् । ( फलमत उपपत्तेः ३-२-३८ ) । अत्र जैमिनिना नेदमङ्गीकृतमित्यपि तत्रैव सूचितम् । धर्मं जैमिनिरत एव ३-२-३९) । ब्रह्मसूत्रस्य सद्ब्रह्मादि - शब्दार्थ - निरूपण एव तात्पर्यमिति सर्वसंप्रतिपन्नम् । परन्तु वादिनावुभावपि स्वस्ख - सिद्धान्तानुसारेण अर्थ वर्णयन्तौ अन्यतर पारम्य प्रतिपादन एव ब्रह्मसूत्रस्यापि तात्पर्यमिति निरूपयन्तौ विवदेते ॥

सर्वेषामपि वचनानां प्रामाण्यमङ्गीकृत्य, तदूव्याख्यायामेत्र वादिनो विवदन्ते । परन्तु अन्यतरपारम्यनिर्णयो नानुष्ठाने किमपि भेदं जनयितुं शक्नोति । श्रुतिस्मृतिविहितकर्मसु कल्पसूत्राणामेव प्रमाणत्वात्, कल्पसूत्रेष्वन्यतरपारम्यचर्चाया एवानुल्लेखात् ॥

एतादृश - प्रन्धकरणस्य किं मूलमिति विचारे बहवः विषयाः समापतन्ति । उभाभ्यां वादिभ्यां वेदप्रामाण्यं तथा स्मृतीतिहासपुराणानामपि प्रामाण्यं चाङ्गीकृतम् । अथापि शिवपारम्यविषये वा विष्णुपारम्यविषये वा वेदेषु विचारस्य न अतीव अवकाशः वर्तते । कुत: ? तत्र शिवस्य विष्णोश्च देवतान्तर - साधारणं देवता त्वमेवास्ति । न तयोर्मध्येऽन्यतरस्य उच्चनीचभावाक्काशः । अथापि इतिहासपुराणेषु सृष्टिस्थितिसंहाराख्य - कार्यनिर्वाहार्थ मूर्तित्रयकल्पनं कृतम् । सृष्टिकर्तृत्वेन ब्रह्मा प्रतिपादितः, तथा स्थिति - कर्तृत्वेन विष्णु:, संहारकर्तृत्वेन शिवश्च । परन्तु उपनिषत्सु एकस्यैव तत्त्वस्य ब्रह्मणः सृष्टिस्थितिसंहारकर्तृत्वमुक्तम् । भृगुवल्ल्यां श्रयमाण इतिहासे अयमर्थस्सुस्पष्टः । वरुणः ब्रह्मलक्षणोपदेशकाल एवं वदति । यतः वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्ति अमिसंविशन्ति तद्ब्रह्मेति [ यतो वा इमानि मूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यमिसंविशन्ति । तद्विजि - झासख तद्ब्रह्मेति । ] एतदनुसृत्यैव ब्रह्मसूत्रकाराः व्यासाचार्यपादाः स्वकीये ब्रह्मसूत्रे जन्मायधिकरणे जन्मस्थितिलयकारणत्वं एकस्यैव तत्त्वस्य वदन्ति ।

,

}

8

[ जन्माद्यस्य यतः । १-१-२] परन्तु पुराणेषु त्रयाणामेषां कर्मणां एकस्थत्वे विरोधं पश्यन्तः मूर्तित्रयकल्पनं कृतवन्त इति ज्ञायते । व्यासाचार्यपादानां अष्टादशपुराणकर्तृत्वात् कथमिमं विभागं ते सहन्त इति न जानीमः । अथापि पुराणेषु मूर्तित्रयकल्पनवत् त्रिमूर्त्यतीत-तत्त्वस्याप्यङ्गीकारात् कथश्चित सामञ्जस्य कल्पनस्यावकाशो वर्तत एव । अथापि त्रिमूर्त्यतीत-तत्त्वस्य शिवत्वं वा विष्णुत्वं वा इति तत्रापि विचारो भवत्येव । पुराणेष्वपि कानिचित् विष्णुपारम्यवादीनि, कानिचित् शित्रपारम्यवादीनि । तथा कानिचिद्वचनानि शिवविष्ण्वोरभेदं च प्रतिपादयन्ति । कचित् विष्णुना शिवस्तवः कियते, तथा कचित् शिवेन विष्णुस्तवश्च । तथा विष्णु शिव शब्दानां देवताविशेषे रूढत्वेऽपि योगार्थ - प्रतिपादनेन शिवसम्बन्धिस्तोत्रे विष्णुशब्दतत्समानार्थक शब्दानां प्रयोगस्तथा विष्णुसम्बन्धिस्तोत्रे शिवशब्द तत्समानार्थक शब्दानां प्रयोगश्च वर्तते । विष्णुसहस्रनामस्तोत्रं एकमेवात्रोदाहरणाय पर्याप्तम् । विष्णुगुणकीर्तनार्थं प्रवृत्ते अस्मिन् स्तोत्रे " सर्वः शर्वः शिवः स्थाणुः” इति प्रसिद्धशिवनामभिः विष्णुविशेषितः । अतश्च अन्यतर - पारम्यनिरूपणं न सहसा विचारमन्तरा कर्तुं शक्यते । अतो विचारकाले मीमांसान्यायाः, निर्णयार्थ उभाभ्यामपि वादिभ्यां उद्धृताः वर्तते । मीमांसान्यायस्य वाक्यशास्त्रत्वात् तदनुसारेण अर्थनिर्णयार्थ उमे अपि प्रयतेते। शिवपारम्यं विष्णुपारम्यं वा यदि स्वकीयदर्शनानुसारेण निरूप्येत तदा विचारस्य अवकाश एव न भवेत्, दर्शनभेदस्य स्वाभाविकत्वात् । तथा प्रमाणवचनेषु यदि च शिवविष्णुतत्त्वयोरन्यतरस्यैव उल्लेखनं स्यात्, तदाऽपि विचारावकाशो न स्यात् ॥

यदा वादिनः स्वदर्शनस्य प्रामाणिकत्वं प्रकटीकर्तुं सर्वसम्मत प्रमाणग्रन्थान् स्वपक्षसाधनार्थ उद्धरन्ति तदैव क्षोभो भवति । तथा स्वपक्षस्थापनेन यदि ते विश्रान्ता भवेयुः, तदाऽपि न क्षोभस्यावकाशः । परन्तु परपक्षनिराकरणपूर्वक स्वपक्षस्थापनस्यैव म्यायवित्सम्मतत्वात् प्रतिपक्षखण्डनमपि आवश्यकं भवति । अतश्च विचारपूर्वक निर्णयस्यैव साधुत्वमङ्गीकृत्य वादिभिः विचारः क्रियते । अस्मिन् ग्रन्थे प्रारम्भ एवं एवं लिख्यते । " इह खल्लु

·

….

भगवान् बादरायणः परमकारुणिकः परमपुरुषार्थार्थिजनानुजिघृक्षया मानान्तरागोचरं वेदान्तैकत्रेयं परं ब्रह्म " जन्माद्यस्य यतः " इति सूत्रेण " यतो वा इमानी" त्यादिश्रुत्यर्थाविष्करणमुखेन निर्धारयाञ्चकार जगत्कारणं ब्रह्मेति । स च को देवः इति संशये एकैकवाक्य पर्यालोचनसन्तुष्टाः ते ते वादिनः शिव हिरण्यगर्भादिषु अन्यतरस्य परत्वमाहुः श्रीमदाचार्यास्तु सर्वेशाखाप्रत्ययन्यायेन एकार्थविषयत्वावश्यम्भावेन छागपशुन्यायेन सामान्यशब्दस्य विशेषे पर्यवसानात् सच्छब्दस्य बृहदबृहत्साधारणस्य ब्रह्मशब्दामिद्दिते विशेषे, तस्य च चेतनाचेतनसाधारणतया उपयुज्यमानस्य आत्मशब्दाभिहिते विशेषे, तस्यापि जीवपरसाधारणस्य नारायणशब्दामिहिते च विशेषे तात्पर्यं कल्पन्ते । तस्य च जातिशब्दत्वाभावात् अनेकार्थत्वाभावाच्च विशेषणशब्दमूर्धन्यत्वात् तेनैव इतरेषां शब्दानां विशेषे निर्धारणं युक्तम् । अनेन एतत् ज्ञायते । उपनिषत्सु श्रूयमाणः सच्छन्दः सामान्यः, ततोऽपि ब्रह्मशब्दो विशेषः, ब्रह्मशब्दोऽपि सामान्य:, अतोऽपि आत्मशब्दो विशेषः, सोऽपि सामान्यः, तादृशशब्दस्य नारायणशब्दामिहिते विशेषे तात्पर्य कल्प्यते इति । प्रायः इयमेत्र रीतिः शिवपारम्यवादिमिरपि अङ्गीकृता दृश्यते । परन्तु नारायणशब्दस्य अथवा शिवशब्दस्य कुत्र वा रूढिरिति वादिभिरेव निर्णेतव्यम् । भवति अत्र च तत्तन्सतमेव प्रमाणम् । नान्यत्किश्चन । इदं तावदवश्यं ज्ञातव्यम् ऋग्वेदे अग्रीन्द्रसोमादिशब्दाः देवता तत्वप्रतिपादनार्थ निर्दिष्टाः । अत्र दशसहस्राधिकऋक् अग्नेः इन्द्रस्य च किश्चिन्यूनषट्सहस्राधिकऋचः वर्तन्ते । सोमस्य सहस्राधिकऋचः, अन्येषां पुनः उषाविष्णुरुद्वादीनां शतपरिमितसंख्याका एत्र ऋचो दृश्यन्ते । यद्यपि मन्त्रसंख्यानुसारेण देवतायाः न्यूनत्वं अधिकत्वं वा वक्तुं न शक्यते । मन्त्रसंख्या संहिताकाराणामेत्र अमिप्रायं प्रकटयति न मन्त्रद्रष्टृणाम् । अथापि ऋग्वेदे या या देवताः प्रतिपादिताः ता एव तैरेव शब्दैः कर्मसु देवतात्वेन गृह्यन्ते । परन्तु अग्नीन्द्रादिशब्दाः न वेदेष्वेव एव दृष्टाः, अपि तु इतिहासपुराणेष्वपि । परन्तु इतिहासपुराणादिषु दृश्यमानाः देवाः परिमितशक्तिमन्तः उपास्य देवतात्वेन ग्रहीतुं

F-B

10

1

योग्याः । ऋग्वेदे परं श्रूयमाणाः अग्नीन्द्रादिशब्दवाच्याः यागोद्देश्याः देवताः सर्वज्ञाः सर्वशक्तियुक्ताः । अतो महानयं विषयः समायाति यत् वेदानुसारेण पुराणदेवतानां

व्याख्या वा पुराणानुसारेण वेदस्यदेवता शब्दानां

व्याख्या वा इति ॥

1

श्रुतेः प्रबलत्वात् श्रुत्यर्थानुसारेणैव स्मृतिभूतइतिहास पुराणस्थ देवतावाचिशब्दानां अर्थवर्णनं युज्यते । यद्यपि " इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् " इति वचनेन इतिहासपुराणानुसारि अर्थवर्णनमेत्र युज्यत इति प्रतिभाति । अथापि कस्मिन्नंशे पुराणादीनां उपबृंहणत्वं इति विचारे अविरुद्धांशे एव उपबृंहणावकाशः वक्तुं शक्यते, न विरुद्धांशेषु । वेदोक्तधर्मादीनां उपबृंहणे चरितार्थस्यास्य प्रमाणस्य न देवता तत्वोपबृंहणविषयत्वं अङ्गीकतु शक्यते । विरोधाधिकरणन्यायेन यदि वेदोक्तो अर्थः पुराणोकार्थेन विरुध्यते तदा स्मृतिभूतपुराणोकार्थत्याग एव न्याय्यो भवति । अथवा ऽन्यपरत्वं वक्तव्यं । वेदेषु प्रयुक्ता अम्मीन्द्रादिशब्दाः सर्वज्ञं सर्वशक्तिमन्तं तत्वं देवतात्वेन वदन्ति । इतिहासपुराणेषु श्रूयमाणाः देवाः असर्वज्ञाः असमर्थाश्च । अतश्च इतिहासपुराणोक्तशब्दार्थत्वेन ग्रहीतव्याः देवताः न वेददेवताः; अपि तु विजातीया एव इतिहासस्वरूप सम्पादनार्थं कल्पिताः इत्यपि वक्तुं शक्यते । जैमिनिरिममर्थं मनसि निधायेत्र ‘परन्तु श्रुतिसामान्यात्’ इति वदति । अत एत्र भगवता यास्केन स्वकीये निरुके ऐतिहासिकपक्षेण वेदस्य व्याख्यानं मतान्तरत्वेन सूचितम् । वृत्रशब्दव्याख्यानावसरे इन्द्रवृत्रयुद्धवर्णनं ऐतिहासिकानां पक्षं मतान्तरमिति निर्दिशति । ( अथ को वृत्रः, मेघ इति नैरुक्ताः, त्वाष्ट्र: असुर इति ऐतिहासिकाः ) अत: इतिहासानुसारेण वेदार्थत्रण नस्य पृथच्यतत्वेन निर्देशात् इतिहासपुराणानुसारेणैव वेददेवतातत्वव्याख्यानं कर्तव्यमिति न निर्बन्ध इति दृश्यते । तथा जैमिनिरपि स्वकीयमीमांसाशास्त्रे विग्रहवदेवताः नाङ्गीकरोतीत्येतत्प्रसिद्धमेव । वेदानां इतिहासपुराणैः यदि सम्बन्धो न स्यात् नात्र देवतातत्व विचारो भवेत् । इतिहासपुराणानि हि वेदार्थविशदीकरणार्थमेव वयं प्रवृत्तानि इति वदन्ति [ वेदोपबृंहणार्थाय ताव-

भगवान्

11

यत प्रभुः । वेदोपनिषदां सारात् जाता भागवती कथा] अतश्च इतिहासपुराणानि वेदव्याख्यानत्वेनैव अङ्गीकृतानि । व्याख्येयभूतवेदार्थे सन्देहे सत्येव व्याख्यानानुसरणं सम्भवति । न हि व्याख्यानं एव निर्णायकं भवितुमर्हति । जनश्च बहुषु वेदव्याख्यानपक्षेषु पुराणरीत्या व्याख्यानं एकमेव पक्षं प्रकाशयेत् । नान्यव्याख्यानं प्रतिक्षिपेत् ॥

अत्रेदं विचार्यते । अन्यमतेषु देवतातत्वं सुस्पष्टमेव तत्तन्मतग्रन्यैः मनपाद्यते । मूलभूत देवतातत्वे विचारावसर एव न दृश्यते । परन्तु ऋमिति वैदिकमते परं एवंविधविचारस्य अवकाशः भवति इति अवश्यं चिन्तनीयम् । ऋग्वेदे प्रतिपाद्यमानाः देवताः प्राकृततत्वापेक्षया अतिरिक्ताः

अप्राकृता: ) अथवा प्राकृततत्वादनतिरिक्ता वा इति विचारावसरे उपास्यत्वेन झनशक्तिमतां देवतानामेव अङ्गीकारार्हत्वात् न जडानां प्राकृतवस्तूनां देवता त्वं नवितुमर्हति । परन्तु कथं अग्निसोमसूर्यादिप्राकृततत्ववाचिशब्दपुरस्कारेण देवताः स्तूयन्ते इति चिन्तायां प्राकृतवस्तुद्वारा देवतायाः स्तवः क्रियते इत्येकः रक्षो भवति । अन्यः पक्षः पुनः सर्वज्ञत्वसर्वशक्तिविशिष्टदेवताया एव उपास्यत्वं इति । परन्तु प्राकृतवस्तुतत्स्वरूपस्वभावनिरूपकपदानां अन्यपरत्वमेव वर्णनीयं भवति इति । अयमेव पक्षः जैमिनिनाऽप्यङ्गीकृतः । यद्यपि देवताबहुत्वं स्थूलदृष्टया युक्तमिति प्रतीयेत । अयापि सूक्ष्मेक्षिकया विमर्शने नायं मस्समीचीनः इति प्रतिभाति । देवतासत्वस्य एकत्वं नङ्गीकृतम् । [ य एको अस्ति दंसना, स्वधया तदेकं एक एव ] अतो ज्ञायते एकमेव देवतातत्वं बहुमि: नाममिः व्यवहियत इति । ऋग्वेदे एव सुस्पष्टं अयमर्थः विवृतः, एकं सद्विप्रा बहुधा वदन्तीति । दशमे मण्डले अतिस्पष्टतया अयमर्थः उक्तः । एकत्वमेव देवतायाः न बहुत्वं, एकत्वं स्वाभाविकं बहुत्वं काल्पनिकमिति । [ कवयो वचोमिरेकं सन्तं बहुधा कल्पयन्ति ] एतादृशैकदेवता तत्वस्य किं लक्षणमिति ऋग्वेदादपि ज्ञातुं शक्यते । जगत्स्रष्टृत्वं जगद्धारकत्वं जगद्रक्षकत्वं इत्यादिकं देवता तत्त्वनिरूपणावसरे तत्न तत्र प्रतिपाद्यते । तथा सृष्टयनन्तरं देवतातत्वस्य स्वसृष्टवस्तुषु अन्तः

ऋग्वेदे एव सुस्पष्ट-

यो देवानां नामधाः

12

प्रवेशश्च प्रतिपाद्यते । [ अत्ररान् आविवेश ] परन्तु एतादृशदेवतात्वं पुरस्कृत्यैव अम्मीन्द्रादयः सर्वा अपि स्वयन्ते । अनेन ज्ञायते देवतात्वं परमेकमेव । परन्तु तादृशदेवतात्वं तत्र तत्र पुरस्कृत्य स्तुवन्ति इति । एतादृशसूक्ष्मदर्शनाभावेन पाश्चात्यविमर्शकाः अस्मिन् विषये भ्रमन्ति - कथं वा सर्वा अपि देवताः जगत्स्रष्ट्यो भवेयुरिति । एतादृशदेवतातत्वं ब्राह्मणभागेषु प्रजापतिशब्देन निर्दिष्टम् ॥

उपनिषत्सु सद्ब्रह्म-आत्मादिशब्दैः निर्दिष्टम् । परन्तु इतिहासपुराणेषु विष्णुशिवादिशब्दैर्निर्दिष्टम् । कथं वा वैविकं मार्ग विहाय इतिहासपुराणेषु शिवस्य विष्णोर्वा प्राधान्यं कल्पितमिति विचारणीयमेव भवति । इतिहासपुराणेषु त्रिमूर्तीनां सृष्टिस्थितिसंहारकर्तृत्वं विभज्य दत्वा पुनः तत्र सङ्कुचितं अधिकारदोषं विभाव्य त्रिमूर्त्यतीततत्वं किश्चन अङ्गीकृत्य तस्यैव जगत्सृष्ट्यादिकर्तृत्वं अङ्गीकृतं तादृशमूलतत्वावतारभूत त्रिमूर्तिषु सृष्टयादिविभागश्च कृत इति यदि देवताः बह्वयः स्युः तदैव कस्याः पारम्यं कस्या वा अपारम्यमिति विचारो भवेत् । वेदेषु देवताबाहुल्यस्यादर्शनात् कस्योत्कृष्टत्वं कस्य वापकृष्टत्वं इति विचारावकाश एव नास्ति । कर्मदेवतात्वेन, प्रतिपादनावसरे अग्नीन्द्रादिदेवानां विष्णोश्च साधारण्यमेत्र अङ्गीकृतम् । अतश्च कर्मस्वपि न उत्कर्ष - अपकर्षावकाशः | सर्वोऽपि विचारः एतत्ग्रन्थस्य : पुराणमात्रविश्रान्तः दृश्यते । यतः बह्वयः देवताव्यक्तयः तत्राङ्गीकृताः, अतश्च बह्नीनां मध्ये कस्या देवतायाः पारम्यमिति चर्चा अपि भवति । अस्मन्मतप्रन्येषु स्मृतिषु देवतातत्वविषये न अतीव विचारः कृतः । ब्रह्मसूत्रे ब्रह्मशब्दार्थविचारः तदुपासनविचारश्च दृश्यते । दार्शनिकसूत्रेषु तत्तदर्शनसम्बन्धिविचारा एव दृश्यन्ते । नात्र वेदे प्रतिपाद्यमाना देवता का? इति विचार: कृतः । अतः इतिहासपुराणानुसारेण शिवव्यक्तेः विष्णुव्यक्तेर्वा प्राधान्यं ये अङ्गीकुर्वन्ति तेषां मतानुसारेणैव शिव विष्णुपारम्यप्रतिपादकानां वचनानां ऐककण्ठ्य सम्पादनार्थं विचारावकाशः प्रसज्यते । यदि च मतभेदेन देवताभेदमङ्गीकृत्य अत्र विचारः क्रियेत, तर्हि द्वयोरपि मतयोः समञ्जसत्वसंभावनया क्षोभ एत्र न स्यात् ॥13

परन्तु वादिनः उभयपक्षीया अपि परस्परविरुद्धानां वचनानां ऐकमत्यसंपादनाय सर्वशाखाप्रत्ययन्यायेन एकार्थत्वप्रतिपादने प्रवृत्ताः स्वोक्तार्थ एव वेदतात्पर्यभूतः नान्योक्तः इति विस्रमेण वदन्ति ॥

देवतातत्वविचारावसरे एते वक्ष्यमाणा अपि विषयाः अस्मञ्चिन्तनामाकर्षन्ति । यद्यपि ऋग्वेददेवतातत्वं सुस्पष्टं, अथापि कैश्विन्महर्षिभिः तन विचारः कृतो दृश्यते । बृहदारण्यके शाकल्ययाज्ञवल्क्यसंवादे अयं

प्रश्नस्समागतः । ’ कत्येव देवा याज्ञवल्क्य’ इति शाकल्येन पृष्टम् । याज्ञवल्क्येन त्रयस्त्रिंशदधिकत्रिशता: तथा त्रिसहस्राः देवाः इति प्रत्युक्तम् । असन्तुष्टश्शाकल्यः पुनरपि इममेव प्रश्नं कृतवान् ’ कत्येव देवा याज्ञवल्क्य’ इति । याज्ञक्ल्क्यः पूर्वोक्तसंख्या न्यूनसंख्यां देवतानां अवदत् । एवं बहुवारं आम्रेडिते प्रश्न यदा त्रिसंख्या आगता तदा शाकल्येन पुनरपि कति देवाः इति प्रश्नः कृतः । याज्ञवल्क्यः त्रिसंख्यायाः अर्धभूतां अध्यर्धसंख्यां प्रतिवचनत्वेन प्रकटीकृतवान् । एतच्छ्रुत्वा शाकल्यो विरराम । को वा अभिप्रायः अत्र इति विमर्शने अध्यर्धशब्दः लोकातीत - एकदेवतायां पर्यवसन्नः । अत ऊर्ध्वं प्रश्नावकाश एव नासीत् । वेदेषु श्रूयमाणं देवताबाहुल्यं एक देवे एव पर्यवस्यतीति निर्णयत्सञ्जातः । परन्तु अत्रैव वसुरुद्रादिशब्दानां देवतावाचकानां शब्दानां विमर्शनकाले आध्यात्मिकपरतया तेषां शब्दानां अर्थवर्णनं कृतम् । किञ्च देवतातत्वविचारावसरे त्रयो ग्रन्थाः अस्माकं पुरस्तात्तिष्ठन्ति । जैमिने: मीमांसाशास्त्रं, सङ्कर्षदेवताकाण्डं, तथा यास्कनिरुक्तञ्च । एतेषु त्रिषु ग्रन्थेषु वेदार्थविचारावसरे देवता तत्वविचारः प्रसक्तः । तत्र जैमिनिः अन्यादृशं देवतातत्वमङ्गीकरोति । नास्या देवतायाः रूपं वा निग्रहानुग्रहशक्तिर्वा अस्ति । परन्तु यागस्वरूपसम्पादनार्थ अङ्गीकृततत्वस्यैव देवतात्वं इति वदति । यद्यपि संकर्षकृतो ग्रन्थः उत्सन्नः । अथापि तत्र तत्र उदाह्रियमाणवचनानुसारेण ज्ञायते अयं ग्रन्थः तत्तद्यागेषु का देवता इति विचारार्थ प्रवृत्तः इति । परंतु यास्कः स्वकीये

14

निरुक्ते देवताकाण्डे विस्तरेण वेददेवतातत्वं विचारयति । अनेनऋग्वेददेवताः सर्वा अपि समाहृत्य ताः त्रेधा विभज्य अग्नीन्द्रसूर्यत्वेन, तासां पृथिवी - अन्तरिक्षघुस्थानानि च कल्पितानि । सुप्रसिद्धविष्णोः रुद्रस्य च वेदमार्गेणैत्र स्थानं कल्पयति । विष्णोः स्थानं रुद्रस्यान्तरिक्षस्थानञ्च दत्तम् । अग्नीन्द्रसूर्यादितत्वानां भौतिकत्वं अङ्गीकृत्यैव देवतात्वमपि यास्कः प्रतिपादयति । भौतिकस्य पदार्थस्य देवतात्वाभावं मनसि निश्चित्य भौतिकत्वपुरस्कारेणैव देवतातत्वं वर्णयति । तासां सर्वशक्तिमत्त्वं सुस्पष्टमेत्रं प्रतिपादयति । ( आत्मा सर्व देवस्य )

देवतानां आकारो अस्ति वा न वा इति पूर्वपक्षसिद्धान्तरूपेण विचार्य अन्ततः उभयमपि तेनाङ्गीकृतम् (७-७) आकारवत्त्वं तथा तदभावश्च । आकाराभावः स्वाभाविक आकारवत्त्वं कल्पितमिति वदति । किंच देवतातत्वविचारावसरे अन्यत् इदमवशिष्यते । यश्च प्रसिद्धदेवशब्दार्थविषयो विचारः । देवशब्दः न किञ्चिदपि तत्वं व्यक्ति वा वदति । परन्तु अस्य शब्दस्य महत्प्राधान्यं वर्तते इति ज्ञायते । तत्र तत्र देवताशब्दप्रयोग एव तत्र निदर्शनम् । अनेन न काऽपि व्यक्तिरुल्लिखिता वर्तते । देवशब्दनिर्णयाधीनस्तल्लोकनिर्णयः । वेदेष्वेव देवशब्द: एकवचनान्तः बहुवचनान्तश्च प्रयुक्तः । परन्तु कस्सः इति वा के ते इति वा वक्तुं न शक्यते । परन्तु अग्नीन्द्रादितत्वं देवतात्वेनैवाङ्गीक्रियते । अतश्च देवशब्दः किञ्चित्तत्वप्रतिपादक एव, न व्यक्तिविशेषे विश्रान्त इति ज्ञायते । विष्णोश्शिवस्य वा महिम्प्रतिपादनावसरे देवशब्दः प्रयुक्तः । विष्णुर्देवः रुद्रो देव इति । अन्यश्च पुराणेषु विष्णोश्शिवस्य च देवेषु आधिपत्यञ्च दत्तम् । देवानां स्थानविशेष: (देवलोकः) स्वरूपस्वभावविशेषाश्च महताऽऽडम्बरेण विवृताः । एतादृशदेवेष्वेव अग्नीन्द्रादीनां अन्तर्भावश्च कृतः ।

I

परन्तु किं कारणं पुरस्कृत्य अरूप - अनाम - देवतत्वस्य रूपनामादिकं कृतमिति न वयं जानीमः ।

15

इतः परं एतद्विचारणीयमवशिष्यते । किमिति युक्त्या निर्णयः क्रियते इति । सर्वेष्वपि मतेषु स्वस्त्रतत्वप्रतिपादनं विचारं विनैव क्रियते । अस्मिन् मते परं किमिति तत्वनिर्णयार्थ विचार: क्रियते ।

विचारै: तत्वनिर्णयः कर्तु शक्यते इति न केनापि प्रतिज्ञातुं शक्यते । विचारः विद्वन्मात्रविश्रान्तः । परंतु तत्वं सर्वजनापेक्षितम् । देवतातत्वे विश्वास: तथा देवतातत्वप्रीत्यर्थ कर्माणि च सर्वैरपि अङ्गीकियन्ते । जनानां विश्वासः परम्पराप्राप्तः विद्वद्भिः स्वसामर्थ्येन अन्यथाकर्तुं अकर्तु वा न शक्यते । अतश्च किमर्थमेतादृशविचारः क्रियते इति ज्ञातव्यमेव । प्रायः अस्मन्मते सर्वेष्वपि प्रतिष्ठितेषु विषयेष्वपि विचारं कुर्वन्ति विद्वांसः । विचारस्य किं प्रयोजनमिति प्रश्ने ज्ञानवैशद्यमेव प्रयोजनमिति ते वदन्ति । परंतु नेदं ज्ञानवैशद्यसंपादनं सर्वजनसाधारणम् । विचारेण वैशषसंपादनं विद्वन्मात्रे विश्राम्यते पुनः विचारमन्तरेणैव परंपराप्राप्तविश्वासेनैव कर्मादिकं अनुतिष्ठन्ति । तेषां विचारः नोपकरोति । अथापि विचारः नावश्यकः इति न केनापि वक्तुं शक्यते । बुद्धिवैशद्यमपेक्षमाणानां विदुषां विचारस्यापेक्षितत्वात् । अतः विश्वासः विचारथ न विरुध्यते परस्परम् । मिन्नविषयत्वात् । वेदान्ततत्वनिर्णये विचारस्यातीव अवकाशो वर्तते । यतस्तत्न कस्याप्यप्रतिष्ठितत्वात् विचारेणैव निर्णेयत्वात् अतस्तत्र विचारे न दोषः । परंतु सुप्रतिष्ठितदेवतातत्वविषये तथा अनुष्ठानविषये च विचारः उत्साहजननार्थमेव भवति । मनुनोक्तं -

"

आर्ष धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः ॥ ’ इति ।

अत एव

नहि विचारेण सन्ध्यादिकं कर्तव्यं इति निर्णेतुं शक्यते अपितु सन्ध्यावन्दनतत्वमङ्गीकृत्य मूलहानिं विना विचारकरणे न दोषः इति मनुः अभिप्रैति । विचारं विना विदुषां मोदो न भवेत् । अत एव दीघितिकृता रघुनाथशिरोमणिना प्रत्यक्षसिद्धमप्यर्थ अनुमानेन बुभुत्सन्ते तर्करसिकाः ’ इति उक्तम् । एतच्च लौकिक विषये समंजसं भवति । परन्तु अलौकिकविषये नेदं

16

संगच्छेत । विचारविषयस्य सर्वथा अलौकिकत्वात् । मततत्वविषयः युक्त्यैव स्थापयितुं शक्यत इति वावदूकाः वदन्ति । युक्त्या सर्वमपि साध्यते इति विद्वद्भिरपि उदूधुष्यते । अस्मन्मते विदुषामेव वावदूकानां प्राधान्यदर्शनात् युक्त्या सर्व स्थाप्यते इति बहोः कालात् पूर्वमारब्धः अयं प्रवादः इदानीमपि वर्तते । प्रसिद्धदार्शनिकेषु विना वेदान्तिनः बौद्धादयस्सर्वेऽपि युक्त्यवलम्बेनैव स्वस्वसिद्धान्तं स्थापयन्ति । चार्वाकः प्रत्यक्षमेकमेत्र प्रमाणं अङ्गीकरोति । प्रत्यक्षातिरिक्तस्य न कस्याप्यर्थस्य प्रामाण्यं वर्तते इति तस्यामिप्रायः । अन्येषु बौद्धजैनसांख्यन्यायवैशेषिकदर्शनेषु युक्तेरेव प्राबल्पमङ्गीकृम् । बौद्धादयः युक्तिशरणा एव स्वार्थ स्थापयन्ति । सांख्या: मूलप्रकृतेः तथा जीवस्य च आनुमानिकत्वमेव अभ्युपगच्छन्ति । तार्किकाः ईश्वरस्यापि अनुमेयत्वं वदन्ति । एतेषां युक्त्या सर्वार्थसाधनं कर्तुं शक्यते इति धैर्यमपि वर्तते । वेदान्तिनः पुनः युक्त्या न किमपि स्थापयितुं शक्यते इति निश्चित्य शब्दप्रमाणशरणा एव स्वपक्षं स्थापयन्ति । ब्रह्मसूत्रकारेण ’ शास्त्रयोनित्वात् ’ (१-१-३) इति शब्दप्रमाणकत्वं जगत्कारणस्य ब्रह्मणः उक्तम् | युक्तेरस्थिरत्वात् तदवलम्बनेन अर्थनिर्णयः न साधीयानिति एषामाशयः । परन्तु शब्दार्थनिर्णयविषये युक्त्यवलम्बनं तेषामप्यावश्यकं भवति । यतः शब्दार्थनिर्णयविषये प्रमाणान्तरवचनैः निर्णेतव्ये न्यायाबलम्बनं अगत्या अङ्गीकर्तव्यं भवति ।

"

37 66

अतएव वेदान्तिनोऽपि परस्परं शब्दार्थनिर्णयेऽपि विदन्ते । ब्रह्मसूत्रकारा अपि अन्यदर्शनखण्डनकाले “ नेतरोऽनुपपत्तेः अनुपपत्तेस्तु न शारीरः " इति युक्तिमेत्र प्रदर्शयन्ति । परन्तु स्त्रमतप्रदर्शनकाले शब्दप्रमाणमेव शरणीकरोति श्रुतेस्तु शब्दमूलत्वादिति ” (२-१-१७) । तर्कदूषणकाले सूत्रकारैः महान् आवेशः प्रदर्शितः " तर्काप्रतिष्ठानादपि (२-१-११७) इति । युक्तेः अस्थिरत्वं उत्तरसूत्रेणापि सूचितम् । आचार्य - वर्य - कवितार्किकसिंह - बेदान्ताचार्याः पुनः तर्केण यलभ्यते तस्यास्थिरत्वेऽपि परिप्रात्वं वदन्ति स्वकीये न्यायपरिशुद्धौ । " नापूर्वाः तीर्थङ्कराः

99

17

न भवन्ति इति राजाज्ञा" इति । वेदान्तवित्रा रेषु युक्त्यवलम्बनं न दोषाय भवेत् । यतः युक्त्यैव निर्णेतव्ये अंशे वेदान्ततत्वे प्रमाणान्तरेण कार्यं किञ्चिदेव

वर्तते ।

एतादृशवादप्रतिवादपरैर्ग्रन्यर्बुद्धिकौशलं अभिवर्धते इत्यत्र न कोऽपि सन्देहः । वादग्रन्थेषु कस्य साधुत्वं कस्या साधुत्वं इति न केनापि वक्तुं शक्यते । परन्तु मध्यस्थैः प्रमाणानुसारिणोः वादिप्रतिवादिनोः उभयोरपि पक्षयोः साधुत्वमेव वक्तव्यं भवति । यतः उभयोरपि पक्षयोः सम्प्रतिपन्नत्वात् तत्र विचार: केवलं मोदायैव भवति ।

अस्मिन् ग्रन्थे इतिहासपुराणेभ्यः परश्शतानि वचनानि उदाहृतानि । कृत्स्नो भारतमन्थः समालोचितः । तत्र तत्र श्रूयमाणवचनेषु सामञ्जस्यसम्पादनार्थं अन्यादृशी व्याख्यापद्धतिरादृता । देवता तत्वविमर्शे उत्सुकानां अयं ग्रन्थः महदुपकुर्यात् । कस्मिन् कस्मिन् काले कयं वा कथं वा देवतातत्वमभूदिति, तथा कथं वा वेददेवतातत्वं पश्चात्काले परिणतमिति ज्ञातुञ्चायं ग्रन्थः उपकरोति ।

अस्य ग्रन्थस्य कर्ता ताताचार्यसूनुः वेङ्कटाचार्य: A. D. सप्तदशशतकालिकः इति ज्ञायते । अयं यज्वा इति लिख्यते । एतदूप्रन्यमातृकायां शतकतु चतुर्वेदी इति निर्देशः कृतः - अतः अयं सोमयाजीति गम्यते । अत्रैव बुक्कपट्टणस्य निर्देशः कृतः । आन्ध्रप्रदेशे बुक्कपट्टणे ये ताताचार्याः आसन् तद्वंश्योऽयं इति ज्ञायते । (विख्यातो भुवि बुक्कपट्टणमहावंशः) परन्तु P. P. S. शास्त्रिमहोदयः स्वकीये Descreptive Catalogue of T. M. S. S. L. ग्रन्थे इमे वेङ्कटाचार्याः कुम्भघोणे पाट्टराचार्या इति ये इदानीं प्रथन्ते ताताचार्यत्रश्याः तेषां मूलभूतस्य अय्या कुमारताताचार्यस्य पुन इति वदति । एतद्ग्रन्थकर्तुः पिता राजगुरुरासीत् इति ग्रन्थकर्तेत्र लिखितम् ।

F-C

18

( " तातार्यो यस्य तातः क्षितिपतिमकुटी राजिनीराजिताङ्घिः " )

अनेनैव वेङ्कटाचार्येण कृते सिद्धान्तवैजयन्त्याख्यग्रन्थे ब्रह्मशब्दार्थनिरूपेणनामकतृतीयप्रकरणे अन्ते एवं लिखितम् " अग्निष्टोम - वाजपेय - याजिनः वेङ्कटाचार्यस्य कृतिषु " इति (Govt. Oriental Manuscript Library D. No. 5067 Leaf)

पठितॄणां सौकर्याय तत्रतत्र मीमांसान्यायविवरणं तथाऽनुबन्धे अपूर्वा उपनिषदः पुरुषसूक्तं च प्रकाशिताः । एतद्मन्यनिर्माणे तञ्जावूर् महाराजा सफजी सरखती महाल Library स्थाने वर्तमानाः मातृकाः, तया मदपुर्या राजकीयप्राष्यकोशालयमातृकाश्च समालोचिताः (Govt. Oriental Manuscript Library)

प्रथमद्वितीयपरिच्छेदौ सरखती महाल् मातृकानुसारेण लिखितौ । तृतीयचतुर्थ परिच्छेदौ मदपुरीप्राच्यकोशालयमातृकानुसारेण लिखितौ ।

एतादृशग्रन्थप्रकाशने नियोजकानां सरस्वती महालू कोशालय - सभ्यानां विशिष्य तञ्जावूर् कलक्टर् महाशयानां तथा सफजि राजवंश्यानां सभाध्यक्षाणां अन्येषाञ्च सबहुमानं धन्यवादान् बितरामः ।

SIDDHANTA RATNAVALI

·

Siddhanta Ratnavali, as the name implies, is a fine collection of gems of thoughts establishing Visishtadvaita siddhanta and Srivaishnava theology. Numerous passages from sruti (veda-vedanta) and secondary scriptures, namely smritis, ithihasas and puranas are cited to support the view that Vishnu Narayana is the supreme Deity. Since the Upanishads are the primary authority for the knowledge of ultimate Reality (tattva), for the jagatkarana quite an array of texts are presented from the entire range of the Upanishads, including minor Upanishads such as Atharvasikhaa, Atharvasiras. Subalopanishad, Brahmabindu Upanishad, Atmaprabodhopanishad and Nrsimhapurva and uttara tapaniyopanishads. The Bhagavad Gita as also the Anugita arc quoted to substantiate this thesis. Purushasukta and Gayatri mantra are explained fully, and interpreted with the help of Itihasas and puranas as establishing the supremacy of Vishnu. Throughout his interpretation of sruti texts the author follows scrupulously mimamsa nyayas (the rational canons of interpretation set forth by the mimamsakas). At the outset, it is well to remember that the identity of Vishnu - Narayana is a basic doctrine of the Visishtadvaitin. The Vaishnava acharyas have, however, a preference for the name Narayana, as it has a greater philosophical importance. It brings out the special features of the relation between the Supreme Lord and the finite souls and stresses, the aspects of God’s immanence (indwelling presence) and transcendence apra-

20

kritatva. Besides, this name is specifically mentioned in crucial texts specially intended to determine the nature of the Supreme, the one and only cause of the universe. (Eko Ha Vai Narayana asit.)

The author does not indulge in or initiate a sectarian controversy inspired by an urge to exalt one’s God and run down the God of others. There is no question of ‘my God’ and ‘your God’ because to all who believe in Vedic revelation, the many Gods proclaimed in sruti are entitled to reverence. But the Vedas while praising many Gods as the ultimate, speak of the Real as one, whom the wise call differently. (Ekam sat Vipra bahudha vadanti). Therefore, to all to whom religion matters most, the question who is the supreme one, whose manifestations are many is really of great importance. It is a vital problem of textual interpretation, especially in the context of secondary scriptures intended to clarify Vedic teachings seem to talking different voices. Therefore, books like Sidhanta Ratnavali serve a longfelt need and serve an exegetical purpose. Further, the author of this work follows the lead given by cminent vedantic writers like Appayya Dikshita and their works such as Sivatattva-viveka and Sivarkamanidipika seeking to establish the supremacy of Siva over Vishnu, taking their stand on the self-same scriptures and following mimamsa nyayas. Such works thus fulfil a necessary function in our religion.

Among vedantins, Bhagawad Ramanuja made a successful attempt to identify the Brahman of the Upanishads with a personal God (Sa Ca Sarvesvara

21

Eva). In his comments on jignasadhikarana, he identifies brahman with Narayana, a personal God, mentioned on rare occasions in the Upanishads but more frequently in the Puranas. In the Subalopanishad, Atma - Narayana identification is maintained in explanation of the antaryamitattva. This upanishad runs like the Antaryami brahmana of the Brihadaranyaka Upanishad, (3-7). It concludes by stating that the Antaryamin is none other than Narayana. (Esha ha Atma apahatapapma divyo Deva Eko Narayanah). Likewise, the Taithiriya Yajnikopanishad while referring daharavidya (daharam vipapmam paravesmabhutam yat pundarikam puramadhysamstam tatrapi daharam gaganam visokas tasmin yadantas tadupasitavyam 8-7). Immediately after this passage comes the great Narayana Anuvaka, where the word Narayana is used freely to denote the cause of the universe. Ramanuja rightly points out that on the upanishadic view the jagatkarana is Narayana and none else.

In his comments on Lingabhooyastvadhikarana of Brahmasutra (III. iii, 43) Ramanuja establishes that only Narayana is the object of upasana in all paravidyas. Brahmasutra (I. i. ii.) lays down a nyaya (Gati Samanyat) the principle that once we decide something in one place it is also applicable to all other places, as the aim of all scriptures is the So it follows when something is established, in one passage of the Upanishads it is equally applicable to other passages of the Upanishads tackling the same problem. Thus the ultimate cause of the universe is Narayana.

same.

22

Another striking feature of Ramanuja’s conception of the Deity is that Narayana is neither mere impersonal Being or thought nor a person in the ordinary finite sense of the word person. In the language of the eminent philosopher P. N. Srinivasachariar, He is personal - cum - impersonal God. Five characteristics, namely, satya, juana, ananta, ananda and amalatva constitute His distinguishing features (sarupa - nirupaka - dharmas). This essence (transcendental) is His being the home of all perfections and absolute freedom from imperfections of any kind. From this follow other auspicious qualities such as jnana, sakti etc. These are called nirupitasvarupa viseshanas. They denote His immanence and His abiding interest in finite souls. He is not a person in the ordinary sense, but is Aprakrita Purusa. God’s personality is wholly unlike that of human persons.

From the personal point of view, all attributes come such as jnana, bala, etc. only on the basis essential features of Brahman. The body of God is termed as Aprakrita, not having essence of human body (Na tasya Prakritamurtir Mamsa - Medo’sti Sambhava). Thus Ramanuja’s God is neither personal nor impersonal, but super-personal. The impersonal aspect stressed in the Upanishads and the personal aspect emphasised in the mantras Brahmanas of Karma Kanda and the Vishnu Purana. Ramanuja says so in Vedartha Sangraha. The followers of Ramanuja rely on the srutis and on the ihihasas and puranas which are said to be upabrahmanas (secondary scriptures) meant for clarifying the profound truths of sruti, too deep for easy23

apprehension. It is a matter of common knowledge that the puranas having philosophical significance - Vishnu Purana and Bhagavata explicitly identify the upanishadic brahman with Vishnu Narayana (Brahmeti Paramatmeti Bhagavan iti sabdyate - Vishnunama sa Vedeshu Vedanteshu cha Giyate Vishnu Samjnitah. Vishnos - Sakasadudbhutam jagat tatraiva cha Sthitam. Sthitisamyamakartasw

jagatosya jagat cha sa).

If all puranas had identified the Upanishadic Brahman with Vishnu - Narayana, only, there would have been no room for any controversy as to who is the Jagatkarana. Some puranas identify Brahman with Vishnu and some with Siva directly and indirectly. Some of the upanishads too, for example the Atharvasikha, the Atharvasiras and the Svetaswatara Upanishads, offer scope for doubt. They mention Siva as Jagatakarana. (Na sa nna chasat Siva eva Kevalah.) (sambhurakasa madhya dhyeyah.) Among the Puranas. some glorify Vishnu, and some Siva as the Universal cause. Sometimes in one and the same puranas, both the tendencies are noticed so, the need arises for resolving the doubt as to who is the Supreme Deity. Since both the views claim vedic sanction, the question which of these views accords best with the vedas has to be squarely faced.

The Rig Veda refers to Agni, Indra, Varuna and and other Gods. In the brahmanas, the name prajapati is more commonly used to denote the supreme. But the upanishads use commonly such terms as Sat, Atman, Jyotis and Brahman to denote the ultimate Reality. In the post-vedic period, the

24

tendency was to strengthen the personal aspect. One of the vedic Gods is chosen in preference to others and regarded as the Supreme Lord. This is the stage of the Ishtadevata. Some preferred Vishnu, and some Siva. It is not known how this tendency arose, while even today rituals intended to propitiate different Gods of the vedic pantheon continue to b observed.

According to the upanishads Srishti (creation), sthiti (sustenance) and sambara (involution) are the functions of Brahman. The widely accepted definition of Brahman offered by the Taittiriya upanishad reads: “Brahman is that from which all things are born, in which they live on being born, and into which they enter when they perish”. (Yato va Imani Bhutani Jayante Yena Jatani Jivanti, Yat prayanti - abhisamvisanti. Taitt (III. i. i) Again there is the well known dictum. That by knowing which (Brahman) all things become known emphasising the fact that Brahman is the jagatkarana. (eka-vijnanena, sarvam vijnatam Bhavati) the cause helps one to understand the effects. Following all this, the author of the Brahmasutra combines the functions of Srishti, sthiti and samhara in the definition of Brahman (Janmady asyayatah). But in the puranas, the threefold functions are divided and Brahma, Vishnu and Siva are invested respectively with the duties of creation, sustenance and destruction. Thus arose the concept of the Trinity, Brahma, Vishnu and Siva, each being in sole charge of one function. Brahma became the srishti karta, Vishnu the sthitikarta, and Siva the samhara karta. While by and large the Trimurti

25

concept found favour with the puranas, the limitation of functions did not satisfy the staunch devotees of Vishnu or of Siva.

The concept of one Supreme God taking on the threefold manifestations gained ground; and this one was identified by some with Vishnu, by some with Siva. The inevitable implication is there are two Vishnus or two Sivas - the Supreme Vishnu and the Vishnu of the trinity or the Supreme Siva and the Siva of the trinity. The trinity principle is sought to be linked up with the belief in one Supreme Deity is ultimately responsible for the three functions acting through the agency of the Trimurtis. Otherwise, the conception of each God being responsible for only one of the three functions appears truncated. This solution is often a source of confusion as to which Vishnu or which Siva is referred to in a given stotra.

Etymologically Vishnu signifies the universal pervader; and Siva, the auspicious. Proceeding on the etymological meaning one finds in the hymns addressed to Vishnu, the name Siva also occurs and would be in place; likewise in the stotras extolling Siva, the term Vishnu occurs quite naturally. Vishnusahasranama for example contains the Names. Sarvassarvas Sivasthanuh. But the doubt may arise. as to whether the etymological meaning or the conventional significance is to be adopted.

Again, the Vaishnava belief in the avataras (the descent) of the Divine is objected to by the rival as finitising the infinite. Krishna’s connection with the Pandavas is sometimes said to stand in the way of

F-D

26

His Supremacy as an incarnation of Vishnu. In the Gita, Bhagavan identifies Himself with Jagad Karana Tattva in some places; and in one place He refers to Himself as Isvara. (Aham Krtsnasya Jagatah Prabhavah Pralayastatha. Iswaras Sarva Bhutanam Hrddese Arjuna Tishtati. Psya me Yoga m Aisvaram). In some other places He identifies Himself with Brahman (Mayi sarvani karmani sa sya Brahman-yadhaya karmane). So an atmosphere of uncertainty prevails even in Gita.

The Purusha Sukta is unique in being found in all the Vedas; who is the purusha who is extolled in this Hymn? Here again, the votaries of Vishnu and of Siva put forth their rival claims.

Let us

The Puranas which are taken as clarifying the Vedic teachings are, however, the major field of conflict. They contain endless stories, some demostrating the supremacy of Vishnu and some, the supremacy of Siva.

The Itihasas which are generally assigned a greater importance relatively to the Puranas, are also not wholly unequivocal. take a few episodes such as Parasurama’s conversation with Rama; here we find a reference to the contest between Vishnu and Siva instigated by the Devas with a view to assess who among them was the supreme and their deciding that Vishnu is Banasura supreme (adhikam menire Vishnum). favoured the supremacy of Vishnu and the rishis sent Bhrigu to find out who was supreme, Bramha, or Vishnu or Siva. His verdict was that Vishnu was the highest God. No importance is (or should be ) attached to these episodes, as they are born of sectarian prejudice. The Puranas abound in stories,

27

some trying to stress the greatness of Vishnu and some extolling the supremacy of Siva. In many places the oneness of Vishnu and Siva is taught. Vishnu’s utterances at the time of Daksha Yajna stand as a compromise between these opposing tendencies. It is not uncommon to find Vishnu praising Siva and Siva in his turn, prasing Vishnu. Some Puranas are designed to establish Vishnu’s supremacy, and some, that of Siva. It is not unusual to find diametrically opposed views on this question in one and the same purana.

It is noteworthy that people in general are not upset by such conflicting views, their reverence to either of the Gods does not suffer. All the Gods of the Vedic pantheon, Vishnu, Siva, Indra, Agni, Varuna and so on are reverenced, and in the practice of rituals enjoined in the Vedas involving the propitiation of several Gods there was no slackening. The element of rivalry in selecting the supreme introduced in the puranas is alien to the Vedas. It is an exercise in exegesis, in the proper interpretation of sruti texts, because all take their stand on the Vedas.

What is the Vedic conception of the Deity? A general study of the Rigvedic mantras would reveal that the majority of them, over six thousand hymns, are devoted to the praise of Agni and Indra. Some are addressed in about a thousand hymns. Likewise, Ushas, Vishnu and Rudra figure in hundreds of mantras. But importance of a God is not reckoned on the basis of the number of hymns devoted to His praise. The Rig Veda itself has tackled this question and declared in an unequivocal way. There is only one God, but sages describe the one God in their

28

own ways (Ekam Sat Vipra Bahudha Vadanti.) Another clear pronouncement on the question of plurality and oneness Ekam Santam Bahudha

Kalpayanti Rig Veda X - 114-5.) In reality God is one, but He is conceived differently by the aspirant. Unity in diversity is proclaimed. As against the sublimity of this approach, the puranic accounts may seem sectarian, but it is certainly not to be condemned. It is one of the different approaches subserving some limited purpose. It would be misleading to lean on it entirely in interpreting the Vedas. The right way would be to interpret the Puranas on the basis of the Vedas, because the Vedas are the supreme authority and the puranas take the rank as secondary scriptures only. Another important point is attributing many names to the one God. If there is only one God, it would seem that the name also must be one. But, in the cases of the Vedas, one God bears many names. This fact is declared in the Vedas. (Yo Devanam Namadha Eka Eva X - 82-37) The multiplicity of names does not impair the oneness of the God. Names and forms are ideal. The following mantra bears out this point; ‘Oh God. Oh Agni, thy names are many. They are given by the sages". (Agne bhurini tava ja tavedo decas-Wadhavo amrtaryanama… Purvi samdadhu prishta bandho. 5320-37). So to accept many names for one God without infringing on the oneness, it becomes necessary to interpret the many names. There are two ways of interpretation. One of them is the Vishnusahasranama way. The Vishnusahasranama declares a thousand names for one God, Vishnu. How is this? A Sloka in Sahasranama clearly states that the thousand names are based on the thousand gunas of

29

Vishnu (Yani namani gaunani Vikhyatani… Rishibih Parigitani vakshyami ……). The thousand names are thus based on the thousand qualities of Vishnu. The gunas are not limited to one thousand, but are numerous, in fact, innumerable. names also are innumerable. applicable to Siva Sahasranama. and do not affect the oneness of God.

Accordingly the
The same thing is

These names stand

The other way is accepting the theory of manifestation of the one God with many names and forms; different kinds of manifestation become necessary for different reasons. This too does not affect the

oneness of the manifesting deity.

Another feature of the Vedic conception of the deity is that God is conceived as the creator, sustainer and destroyer. He is not only the creator but also the primordial principle pervading all created beings. The pervader is the Antaryamin. This conception is basic principle in the Rig Vedic concept of the Deity. Sages of Rig Veda while worshipping God, saw the Deity in any object. So all the Gods of the Vedas ire praised as creator, sustainer and destroyer. For example Agni is described as creator and so is Indra and other Gods. Other objects of worship were also nvested with these attributes even while worshipping nimals. These adjectives were also used. Rohito visvamidam jajana, anadvan dadhara rithivim uta dyam).

The Gods are described as benevolent. Often the leity is referred by common names such as Tat (That), a (That) and Ekam (One) without employing per onal names. (Anidavatam Swadhaya tat ekam-ejat

30

dbruvam patyate visvamekam Tadevagnis Tadvayus tat Suryastat chandrama Tadeva sukram Amrtam Tat Brahma tadapah Sa Prajapatih V: 5-32-1). Rig Vedic sages use Agni, Indra, etc., for their worship exclusively. Talking about the cause of the universe, the concept of Asat is also used (Devanam purvye yuge, asatasad ajayata. R. V. X. 72-2) The Rig Vedic conception of the Deity is portrayed in the Ithihasas and puranas in their own way. Impersonal God is described in many places as having human form and human attributes and human functions. This reveals the impact of humanistic approach. The human shape is taken by some to be real and by some as imaginary. Both treat the human form as transient (Na sandrse thishtati rupamasya na chakshusha pasyati kaschanainam-hrda manishamanasabhiklipto ya yenam viduramrtas te bhavanti T.A. 10-1)

While this is the position so far as the mantras are concerned, the Brahmanas deviating from this call the same deity of Rig Veda by the name Prajapati. Prajapati is glorified as the creator, sustainer and so on. It is difficult to ascertain the cause of this change.

When we come to the upanishads, names such as Agni, and Indra of the mantras and Prajapati of the Brahmanas give place to terms such as Sat Brahman and Atman. Personal name or form is rarely referred to. The Unity of Godhood is maintained inspite of different names and forms. In the postVedic period, the idea of personal God emerges in the place of Rig Vedic gods such as Agni and Indra and Prajapati of the Brahmanas and the Sat, Brahman and the like of the Upanishads. Two of

31

the Vedic gods, are Vishnu and Siva. Some describe Vishnu as creator, sustainer and destroyer, while some look upon these as the functions of Siva. The votaries of either God want a personal God, bence arises a conflict.

The idea of the Trinity was offered in the Puranic period as a compromise. But this does not satisfy the religious need of a suprem Being exercising all the functions and notions with limited powers. The Unity of the Godhead maintained in the Vedas is disrupted. Hence the frequent attempt to conceive of the one taking three forms as Brahma, Vishnu and Siva. The Vedas seek to maintain name. less and the formless of the one Real, while all the time speaking of several Gods. In the course of evolution, Tat is replaced in the Brahmanas by Prajapati, still the impersonal, character is preserved. The Upanishads continue this tradition by using expressions like Sat, Atman, and Brahman to denote the ultimately real being. But with the tendency to give importance to the personal aspect gained ascendency, Vishnu or Siva came to the forefront. Yet the selection being from the Vedic pantheon, the Rig Vedic conception of Godhead is sought to be retained, though clothed with personal forms and attributes.

Let us inquire into the significance of the word ‘Deva’ used to denote the divine. It means the bright and the shining one. This character is shared by all the Vedic gods. Agni Deva, Soma Deva, Vishnua Deva, Indradeva; Rudrodeva and so on. But in the Puranas, the name deva is applied to

32

denote person or persons other than the Gods Brahma, Vishnu, Rudra etc. They are separate entities. In this context one is reminded of a dialogue between Yajnavalkya and Sakalya. The latter raised the question ‘How many Gods are there?’. At first Yajnavalkya replied “Three hundred and three thousand on the authority of the Nivids of Vedas (Trayascha Trica Sata. Trayacha treeni Sahasra). The conversation goes on. Ultimately the sage repeated his question about the number to Gods and Yajnavalkya replied (adhyardha) (one and a half), an answer after the number is mentioned as three. Naturally one and a half is the splitting of three into two halves. But philosophically it means ‘one above’. So the word ‘Deva’ also is impersonal.

The author of Brahmasutra devotes his attention in describing Brahman only and different varieties of Upasanas. Jaimini on the other hand explains that the deities have no form. The Sankarsana kanda, otherwise known as Devata kanda of Meemamsa sastra, explains the deities of rituals only. Yaska in his Nirukta while denying the Gods of Rig Veda says that they are both, with form and formless. (Ubhaya Vidhasyuriti Aparam). He accepts plural God with miraculous and emnipotent powers. By this we understand each author follows his own way of describing Godhood.

All sectarian religions of the post-Vedic period wanted Vedic inspiration. But to their disappointment the Vedas do not fully support their stand. But they are not prepared to denounce Vedas because they33

are very keen on keeping the Vedic relation. PostVedic thinking on religion is cofined only to the field of theology. But here also, we find some developments in religious thoughts. In post-Vedic period, religion stands divided as Saiva and Vaishnava. But in the development of their thinking, they give importance to the word Naarayana, because the word Naarayana is used in some places as the cause of Universe (Eko ha Vai Narayana asit Mahopanishat 1-1). Likewise the word Rudra is very popular in the Vedas, because the word is also in the puranas which identify Siva with Rudra of Satarudriya mantras. When both of them become mingled with Agamas, we find tremendous changes in their thinking. The author of this book and his opponents limit their area of reference mainly to the puranas and their stories.

The author of this Book is well versed in all the scriptures of Hinduism, as will be evident from the profuse quotations he makes from them.

This book serves as a mine of information on the puranas and of incidents narrated therein. So, it can serve as a source book to research scholars in the study of the evolution of the concept of God.

This Book is divided into four parichedas. The first one establishes that Narayana is the supreme God according to the Vedas, Upanishads, Purusbaasookta, Ithihasa, Puranas, Geeta, etc. In the second chapter he condemns the arguments of those who deny Narayana’s jagatkaaranatva and follow Siva’s Jagatkaaranatva. The third chapter is devoted exclusively to the Upanishads and explains

F-B

34

how the Upanishads also stand for Naarayana’s Jagatkaaranatva. The Fourth chapter explains that Naarayana’s only aim is creating the redemption of souls. He alone the creator of final release (Parama Prapya).

In preparing this Book, we have consulted manuscripts in T. S. M. Library as also the Government Oriental Manuscripts Library of Tamil Nadu and the Adyar Library manuscripts. Saraswathi Mahal Library Manuscripts possess only the first two Chapters. Government Oriental Manuscript Library Manuscripts contain the third and fourth chapters.

The author of this Book is described as Venkata Tatacharya, son of Taatacharya of Buccappatnam Taataachar family. He is described as Yajva and Agnishtoma Vaajapeya Yaji He is a profound Meemamsa scholar and a staunch follower of Ramanuja and a great devotee of Vedanta Desika

About the author of this Book P. P. S. Sastri in his descriptive catalogue of Sanskrit Manuscripts of Tanjore Maharajas Sarafoji Saraswathi Mahal Library Tanjore, Volume XIV, writes as follows :

“The manuscript is in a fairly good condition. The author of this work was a native of Kumbakonam and his father was the Rajaguru of Naik Kings in Tanjore. His descendants are still living in the Pattaracharya Street and he is the author of works like Kokilasandesa and Parijatakarana. His father’s full name was Chaturvedi Sasakratu Srinivasa Kumara Tatacharya and this author was known as Venkatacharya. His Kokilasendesa and Nigamanta Desikanamastottarasatam were published at Kumba-

35

konam but this work has not been published. Tho zuthor was a disciple of Venkata Desika. This author might have flourished in the latter part of the Seventh Century A. D.”

In

So according to P. P. S. the author of this book belongs to Kumbakonam Branch of Patraachar family. He is the son of Ayyaa Kumara Tatacharya. a Rajaguru of Naayak Kings of Tanjore. Among his sons, one is called Venkata Taataacharya. end of one manuscript of Tanjore Saraswathi Mahal Library, we find a salutation to Srimath Srisaila purana kula thilaka Sathakratu Chaturveda Srimath Venkatacharya Maha Gurum nama. Arc Buccappatnam family Taatachariya and Ayya Kumara Taataachariyas one or different? It is for historians to decide. Anyhow, we can safely say that he belongs to the well known Taataachariya family whose progenitor is Periya Tirumala Nambi. the uncle of Bhagavat Ramanuja whose descendants defended Ramanuja’s Vlshistaadvaita by writing books of polemic nature for many generations. Paatracharya is a different term of Tatacharya because in Tamil language Paatan and Taataa both lenote grandfather. According to tradition, Periya Tirumala Nambi got the name of Taataacharya from Venkateswara of Tirupati. The wife of Vijaya Raagava Nayak in her book Usha Parinayamu’ a drama written in Telugu language) glorifies Kumaara Taataacharya and his family. She seems ›f be a pucca Vishnava lady, because she refers to en Aaalwars and Vaishnava Acharya paramparas. See introduction of Paarijaata Nataka published by T. M. S. S. Library).

36

Tanjore Saraswathi Mahal Library is doing immense service to Sanskrit language by publishing books of great value. In the South only the Saraswathi Mahal Library contains numerous manuscripts, connected with Hindu religion, philosopy, theology, Agamas, culture, Mantra Sastras, Yantra Sastras, medical science (Ayurveda), etc.,

The editor is very grateful to the Collector and Chairman and to other Members of the Administrative committee of Saraswathi Mahal Library for providing him an oppportunity to publish this book on behalf of Saraswathi Mahal Library.

Agnihotram

RAMANUJA TATACHARY

ஸித்தாந்த ரத்னாவளி முன்னுரை

ஒரு மதத்திற்கு ஒரு கடவுள்தான் உண்டு. ஆனால் ஹிந்து மதத்தில் எண்ணற்ற கடவுளர்கள் உளர் என்பது எல்லோரும் அறிந்த விஷயம். ஆனால் கணக்கற்ற கடவுள்கள் இருந்தாலும் கடவுள் இலக்கணம் ஒன்றாகவே இருப்பதால் தெய்வங்களில் ஏற்படும் வேறுபாடு தெய்வத் தன்மையை வேறுபடுத்தவில்லை. இயற்கையைத் தெய்வ மாகத் தொழுதாலும், இயற்கைக்கு அப்பா லு ள்ள தெய்வத்தை வழிபட்டாலும் பல பெயர்களுள்ள கடவுளின் அவதாரம் அல்லது தோற்றம் இவைகள் இருந்தாலும் மந்திர சாஸ்திரங்கள் பல்லாயிரக் கண்க்கான பெயர் களையும், உருவங்களையும் கொடுத்தாலும் பல ஸ்தல புராணங்கள் அந்தந்த ஊர் கதையோடு சம்பந்தப்படுத்தி பல உருவங்களைக் கொடுத்தாலும், ஆங்காங்கு மக்கள் ஆறுகள். குளங்கள், விருக்ஷங்கள், மலைகள் இவைகளை வழிபட்டு வந்தாலும் கடவுள் இலக்கணத்தைப் பாதுகாத்தே வழிபட்டு வந்திருப்பதால் பெயர்களிலும், உருவங்களிலும் உள்ள வேறுபாடு எந்த விதத்திலும் ஹிந்துமத கடவுளின் ஒற்றுமையை மாற்ற முடியவில்லை.

கடவுளுக்கு

இயற்கையில் தனியான உருவமோ, பெயரோ இல்லாததால் அவரவர்களுடைய இஷ்டப்படி உருவம்,பெயர் இவை களைக் கொடுக்க வழி ஏற்படுகிறது. இது வேதம் காட்டிய வழி. ஆகவே யார். எந்த வழியில் கடவுளை வழிபட்டாலும் கடவுள் இலக்கணததோடு வழிபடுவதால் அவரை கடவுள் இலக்கணத்திற்கு அப்பாற்பட்டவராக நினைக்க முடிய வில்லை. ‘வேற்றுமையில் ஒற்றுமை’ என்ற கொள்கையே வேதம் உலகத்திற்கு காட்டிய வழி(ஏகம் ஸத் விப்ரா: பஹுதா வதந்தி ஏகம் ஸந்தம் பஹுதா கல்பயந்தி) மக்களுக்கு பூரண சுதந்திரம் வழங்கி அவரவர்களுடைய இஷ்டப்படி தெய்வத்திற்கு பெயர் கொடுக்கவும், உருவம் கொடுக்கவும் வேதம் இடம் கொடுத்து விட்டதால், மக்கள்

38

சம்பந்தப்பட்டவரை சண்டைக்கும், சச்சரவிற்கும் இடமே இல்லை. கடவுள் இலக்கணத்தை ப்ரும்ம ஸுத்ரக்காரர் தெளி வாகக் கூறிவிட்டார்: “உலகத்தைப் படைத்து, பாதுகாத்து, அழிப்பவனே கடவுள்,” என்று கூறிவிட்டார்.(ஜன்மாத் யஸ்யயத : :)

இது தைத்ரியோபநிஷத் காண்பித்த வழியைச் சார்ந்தது. எங்கிருந்து இவ்வுலகம் உண்டா யிற்றே. எதனால் இந்த உலகு பாதுகாக்கப் படுகிறதோ, முடிவில் எவரை இந்த உலகு அடைகிறதோ, அவன்தான் கடவுள் என்று தெளிவாக அது கூறிவிட்டது. (யதோவா இமானி பூதானி ஜாயந்தே யேன ஜாதானி ஜீவந்தி யத் பிரயந்தி அபீ ஸம்விஸந்தி தத் விஜிங்ஞா ஸஸ்வ தத் பிரஹ்மேதி) இந்த இலக்கணம் ரிக் வேத மந்திரங்களின் சாரமே என்று சொல்வது மிகையாகாது. ஆகவே

ஆ அவரவர்கள் தங்கள் தங்களுடைய இஷ்டப்படி கடவுள் தத்துவத்திற்கு உருக் கொடுத்து வழிபடுவதில் தவறொன்றும் இல்லை. அவரவர்களுக்கு பூரணமான சுதந்திரம் கொடுக்கப் பட்டிருப்பதால் தங்கள் தங்கள் இஷ்டப்படி கடவுளை பல அடிப்படைகளில் வழிபடுகிறார்கள்.

ஆனால் படித்தவர்கள் இந்த அடிப்படையை ஒப்புக் கொண்டாலும் ஒரு குறிப்பிட்ட கடவுள்தான் கடவுள் இலக்கணத்திற்கு லட்சியமாக இருப்பவர், என்று சொல்லி மற்றவர்களுக்கு இந்தக் கடவுள் இலக்கணம் பொருந்தாது என்று சர்ச்சையும், வாதமும் செய்கிறார்கள். ஆனால் இவ்வித சர்ச்சை, வாதம் இவை நூலெழுதும் வித்வான் களின் திறமையைக் காட்டுமே தவிர ஒன்றை அழிக்கவோ, ஒன்றைப் படைக்கவோ முடியாது என்பது உண்மை. அந்தந்த தெய்வத்தை வழிபடுபவர்கள் தன் தெய்வத்தை புகழ்வதோடு நின்றால் தகராறுக்கு இடமில்லை.

ஆனால் மற்ற தெய்வங்கள் இல்லையென்று பேசும் காலத்தில்தான் தகராறு வருகிறது. அவர்களுக்கு அது பொழுதுபோக்கு. அவர்கள் தங்கள் செய்கையிலும், வாதத்திலும் அபார நம்பிக்கையுள்ளவர்கள். அவர்களுடைய நூல்கள் அவரவர்களின் திறமையின் எடுத்துக் காட்டாகத்தான் நாம்

39

கொள்ள வேண்டிவருகிறது. ஆகவே ஒரு நூலைப்

புகழ்ந்தோ, ஒரு நூலை இகழ்ந்தோ கிடையாது.

பேச இடமே

வேதத்தில் பலதெய்வ வழிபாடு ஒரு தனியான முறையில் அமைந்துள்ளது. ஆனால் அங்கு எல்லா தெய்வங் களுக்கும் கடவுள் இலக்கணம் அமைந்து நிற்பதால் யார் உயர்ந்தவர் யார் தாழ்ந்தவர் என்ற கேள்விக்கு இடமே இல்லை. ஆனால் வேத காலத்திற்குப் பிறகு கடவுள் கொள்கையில் சிறிது மாறுதல் ஏற்படுகிறது. வேதத்தி லுள்ள கடவுளின் பல பெயர்களில் சிவன், விஷ்ணு என்ற இரண்டு பெயர்களுக்கு திடீரென்று முக்கியத்துவம் ஏற்படுகிறது. சிவன், விஷ்ணு என்ற இரண்டு பெயர் களுக்கும் கடவுள் இலக்கணம் பொதுவாகவே இருந்தாலும், இஷ்ட தேவதை என்ற முறையில் ஒரு சாரார் விஷ்ணு என்ற

பெயரில் கடவுளை வழிபட ஆரம்பித்தார்கள். மற்றொரு சாரார் சிவன் என்ற பெயரில் வழிபட ஆரப்பத் தார்கள். இரண்டு பெரிய கொள்கைகள் உதயமாயின. நல்ல வேளையாக வேதத்தை இருக்கிறபடியே விட்டுவிட்டு ஏராளமான கதைகள் சம்பவங்கள் இவைகளை அடிப்படை யாகக் கொண்டு பதினெட்டு புராணங்களும். உப புராணங்களும் ஏற்பட்டன. அவர்கள் இருவரும் வேத அடிப்படையை அங்கீகரித்ததால் அவர்களுடைய மதம் வேதத்தோடு ஒத்த மதமாகத்தான் அங்கீகரிக்கப்படுகிறது. ஹிந்து மதம் இரு கூறாகப் பிரிந்தது மட்டுமன்றி, இவர் களுள் யார் பரம்பொருள்? யார் பரம்பொருளில்லை? என்று பேசவும் ஆரம்பித்து விட்டார்கள். ஆனால் சில புரா னங்கள் விஷ்ணு,சிவன் இருவரும் ஒருவர்தான் என்று கூறத் தயங்கவில்லை. வேதம் ஒரே கடவுள் தத்துவத்தை ஒப்புக் கொண்டு அதற்கே கடவுள் இலக்கணத்தைச் சொல்லிவிட்டது. பிற்காலத்தவர்கள் புராண காலத்தில் ஏதோ ஒரு காரணத்தால் மூன்று இலக்கணங்களையும் ஒன்றாகச் சேர்ந்து ஒப்புக் கொள்ள இஷ்டமில்லாமல் சிருஷ்டிக்கு ஒரு கடவுளையும், பாதுகாவலுக்கு

ஒரு

40

கடவுளையும்,அழிப்பதற்கு ஒரு கடவுளையும் படைத்தார்கள். இதுதான் மும்மூர்த்தி தத்துவம் என்பது. ஆனால் மூன்று மூர்த்திகளுக்குள்ள அதிகாரம் வரையறுக்கப் பட்டு விட்டதால் வரையறுக்கப் படாத ஒரு தத்துவம் வேண்டு மென்று ஆசைப்பட்டு இணைந்த கடவுள் இலக்கணத்தை மும்மூர்த்திகளுக்கும் மேலான ஒரு கடவுளை ஒப்பி அவரே மும்மூர்த்திகளாக ஆகி முத்தொழில் செய்கிறார்கள் என்று கூற ஆரம்பித்து விட்டார்கள். சிவனோ, விஷ்ணுவோ, மும்மூர்த்திகளுள் ஒருவராக இருந்தாலும் மும்மூர்த்தி களுக்கு அப்பாலுள்ள தத்துவமும் அவரே என்று கூற ஆரம்பித்து விட்டார்கள். இப்படி மும்மூர்த்திகளில் ஒரு சிவனும், விஷ்ணுவும், மும்மூர்த்திக்கு அப்பால் சிவனோ. விஷ்ணுவோ ஆக ஒரு தெய்வமும் வந்து விட்டதால் குழப்பம் நிறைந்து விட்டது. மக்களுடைய போக்கு ஒரு பக்கம் இருக்க, குறிப்பிட்ட சிவனே. விஷ்ணுவோதான் பரம்பொருள் என்பதை முடிவு செய்து தங்கள் தங்கள் கொள்கைகளை வலியுறுத்த பல நூல்களை எழுதியுள் ளார்கள். இரண்டு நூல்களுமே அறிவாளிகளின் அங்கீ காரத்தைப் பெற்று விட்டதால், அவை இரண்டுமே நமக்கு வேண்டியவை ஆகின்றன. இந்த நூலில் நாராயணன் தான் பரம்பொருள் என்பதை ஸ்தாபிக்க பல நூல்களி லிருந்து ஏராளமான மேற்கோள்கள் கொடுக்கப் பட்டுள்ளன. வேதங்கள். இதிஹாஸ புராணங்கள், கீதை முதலான நூல்களிலிருந்து மேற்கோள்கள் கையாளப் பட்டுள்ளன. இரண்டு வகை கருத்துக்களையும் வெளியிட முரண்பட்ட வசனங்கள்

ஏராளமாய் இருப்பதால் நியாயங்களைப் பின்பற்றி அவைகளுக்குப் பொருள் கூற இவ்வாசிரியர் முற்படுகிறார். நூலாசிரியரின் பெயர் வேங்கட தாதாசாரி. இவர் ஹிந்து மத நூல்களை முழுவதும் கற்றுக் கரை கண்டவர். நூல்களிலிருந்து இவர் ஆந்திர தேசத்தைச் சேர்ந்த புக்கப்பட்டினத்தைச் சேர்ந்தவர் என்று தெரிகிறது. ஆனால் தஞ்சாவூர் லைப்ரரி கேட்லாகை வெளியிட்ட P. S. சாஸ்திரி என்பவர் இவர் கும்பகோணத்திலுள்ள பாட்டராசார் வம்சத்தைச்

மீமாம்ஸா

41

சார்ந்தவர் என்றும், நாயக வம்ச அரசர்களின் ராஜ குருவாக மூன்று தலைமுறை இருந்த ஐயா குமார தாதா சாரியரின் பிள்ளை என்றும் கூறுகிறார்.

இது வரலாற்று ஆசிரியர்கள் முடிவு செய்ய வேண்டிய விஷயம். இந்த நூல் வடமொழியில் அமைந்துள்ளது. ஏராளமான மேற்கோள்களைக் கொண்டது. ஆராய்ச்சி வல்லுநருக்கு ஒரு பெரிய விருந்தாக அமைந்துள்ளது. புராணங்களில் எந்தெந்த காலங்களில் எப்படி எப்படி தெய்வங்களை வழிபட்டு வந்தார்கள் என்ற ஆராய்ச்சிக்கு இந்த நூல் உபயோகப்படுகிறது. தெய்வக் கொள்கையின் பிறப்பையும் அதன் வளர்ச்சியையும் அறிந்து கொள்ள ஆராய்ச்சியாளர்களுக்கு இது மிகவும் பயன்படும்.

இந்த நூலை வெளியிட முன்வந்த தஞ்சாவூர் சரஸ்வதி மஹால் லைப்ரரி நிர்வாகிகளுக்கு என்னுடைய நன்றியைச் செலுத்திக் கொள்கிறேன். உலகம் போற்றும் பெரும் பெரும் நூல்களை வெளியிட்டு அவர்கள் சம்ஸ்க்ருத பாஷைக்கு அளவிட முடியாத சேவை செய்திருக்கிறார்கள். அவர்களின் சேவை எல்லோராலும் போற்றப்படுகிறது.

அக்நிஹோத்ரம்

ராமாநுஜ தாதாசாரி

श्रीमते हयग्रीवाय नमः

सिद्धान्तरत्नावलिः

वज्रध्वजाङ्कुशरथाङ्गसरोजमुख्य-

साम्राज्यचिह्नलसिते निजहस्तपद्मे । अध्यक्षयन् जगदघीशताममीति-

मुद्रांश्विते दिशतु रङ्गपतिर्मुदं नः ॥

चूडालङ्कृतिविभ्रमं कलयते वाणी पुराणी यथा

भोग्यत्वं विबुधव्रजस्य भजति श्रीरङ्गचन्द्रो यतः । आलोको नचिरेण मन्थरतरं यस्या निरुन्वे तमः

सा मे चन्द्रकला तनोतु कुतुकं श्रीरङ्गशृङ्गारिणी ॥

श्रुतिशिखररहस्यव्याक्रियाकर्मनर्म

प्रविमलशशिबिम्बस्निग्धदिव्याङ्गकान्ति ।

अखिलचिदचिदन्तर्यामिवेदैकवेयं

हयवदनमुदारं ब्रह्म मे सन्निधत्ताम् ॥

पराङ्कुशपदाम्भोजद्वन्द्वं मनसि भावये ।

धत्ते यत् सुमनः श्रेष्ठयमपि भावयतां सताम् ॥

अमृतप्रदो जगद्गुरुरामन्त्र्य मुदा वृषाद्रिगृहमेवी । तातेत्यमृतं यस्मादर्थितवान् स गुरुचन्द्रमा जयति ॥

अष्टमूर्तिमहिमाप्यणुरेव श्रीसखस्य महिमानमपेक्ष्य |

इत्यदः प्रकटयन् हृदये स्तादूव्याक्रियाश्चितकरेण यतीन्द्रः ॥2

शमितकुमतिचारः शौरि घण्टावतारः

कलिविमथनशूरः कामकोपादिदूरः । अवतु जगदुदारोऽनन्तसूरेः कुमारः

प्रणतसुकृतसारः प्रौढविद्याविहारः ॥

भाति स्मेरयशोविभाधवलितत्रैलोक्यविद्वत्सभा-

लङ्कारार्हविशुद्धवृत्तगुरुराण्मुक्ताफलोत्पत्तिभूः । विख्यातो भुविबुक्कपट्टणमहावंशः क्षमालङ्कृतिः

श्लाघाखर्वसुपर्वनन्दितलसच्छाखाकृताभ्युन्नतिः ॥

तत्राभूत् कथकेन्द्रसिन्धुरघटाकण्ठीरवप्रक्रिया-

विख्याताण्णयदेशिकेन्द्रविलसद्गर्भाब्धिशीतद्युतिः ।

श्रीशैलान्वयमौलिमण्डनमणियः कुण्डलिग्रामणी-

वाचस्पत्यभिनन्दनीयभणितिः श्रीतातयार्याप्रणीः ॥

तत्सूनुः पदवाक्यमानपदवीतत्त्वार्थ सर्वस्ववित्

श्रीमद्वेङ्कटदेशिकोक्तनिगम श्रेणी शिखार्थस्थितिः । कुर्वे भागवताग्रगण्यहृदयालङ्कारसन्धायिनीं

तत्कारुण्यबलेन वेङ्कटसुघी: सिद्धान्तरत्नावलीम् ॥

इह खलु भगवान् बादरायणः परमकारुणिकः परमपुरुषार्थार्थिजनानुजिघृक्षया मानान्तरागोचरं वेदान्तैकवेयं परं ब्रह्म ’ जन्माद्यस्य यत ’ ( 1 - 1 - 2 ) इति सूत्रेण ‘यतो वा इमानि’ ( तै. उ. 2 – 1 – 1

-1) इत्यादिश्रुत्यार्थाविष्करणमुखेन निर्धारयाञ्चकार जगत्कारणं ब्रह्मेति । स च को देव इति संशये ’ इन्द्रो मायामिः पुरुरूप ईयतौ’ (ऋ. वे. 6–47–18 ) ’ हिरण्यगर्भस्लमवर्तताग्रे’ ( . वे. 10-121 -1 ) ’ यदा तमस्तम्भ दिवानरात्रिः न सत् न चासत् शिव एव केवल’ इत्यादिवाक्येषु एकैकवाक्ये पर्यालोचनसन्तुष्टाः ते ते वादिनः शिवहिरण्यगर्भेन्द्रादिष्वन्यतमस्य परत्वमादुः ॥

3

ओम्

स्वाचार्य मतानुसारेण निरूपणम्

श्रीमदाचार्यास्तु

’ यतो वा इमानि ’ इत्यादिना जगत्कारणं ब्रह्मेत्य-

ते । तच कारणं किमित्यपेक्षायां कारणप्रतिपादकवाक्यान्तरपर्यालोचनेन निर्धार्यम् । एवं च तत्प्रापकवाक्यान्वेषणे सति छान्दोग्ये - देव सोम्येदमग्र आसीत् ’ ( छा० उ. 6 - 2 - 1 ) इति कारणं, सच्छब्दबच्चमिति प्रतीयते । वाजसनेय के च - ब्रह्म वा इदमग्र आसीत् ’ बृ. उ. 1-4-10) इति ब्रह्मशब्देन कारणं प्रतिपाद्यते । अन्यत्र च - आत्मा वा इदमेक एवाग्र आसीदिति कारणमात्मशब्देन व्यवहियते । । बृ. उ. 1-4-1 ) तथा ‘एको ह वै नारायण आसीत् न ब्रह्मा बेज्ञान’ इत्यादिषु नारायणशब्देनामिधीयते । एतेषां वाक्यानां ‘सर्वशाखा प्रत्वयन्यायेन’ (जै. मी. 2-4-2 ) एकार्थविषयत्वावश्यम्भावे च ‘छाग-

शाखा प्रत्ययन्यायाधिकरणम् ।

काठक - काण्व - माध्यंदिन तैत्तिरीयादिशाखासुदर्शपूर्णमासरूपं कर्म आम्नातम् । तत्र शाखा मेदात् कर्म भिद्यते । कुतः मेद कारणानाम् नाममहादीनाम् - बहूनामुपलंभात् - काठककाण्वादिको नाममेदः कारीरि वाक्यान्यक्यानाः केचिच्छाखिनः भूमौ भोजनमाचरंति, शाखांतराध्यायिनः नाचरंतीति मेदः । एकस्यां शाखायाम् अधीताः “ इषे त्वो र्जे” त्वादयः मन्त्राः जश शाखाच्छेदनादयः क्रियाश्च शाखान्तरेप्यधीयन्ते इति पुनरुक्तिः । एवं ब्रदाक्यादयो मेदहेतवः उदाहार्याः । नहि अल्पायुषामनुष्येण सर्वशाखाध्ययन कम् कर्मानुष्ठानं कर्तुं शक्यम् । तस्मात् शाखामेदेन कर्ममेदः इति तंः पक्षः ।

सिद्धान्तस्तु :रूपाद्यमेदात् एकं कर्म आग्नेयाद्यष्टाकपालादिगगरूपं – यदेव एकस्यां शाखायां तदेवान्यत्रापि उपलभ्यते । " दर्शपूर्ण-

पशुन्यायेन’ (जै. सू. 8-8 - 8 ) सामान्यशब्दस्य विशेष पर्यवसानात्, सच्छब्दस्य बृहदबृहत्साधारणस्य ब्रह्मशब्दामिहिते विशेषे तस्य च चेतनाचेतनसाधारणतया प्रयुज्यमानस्यात्मशब्दामिहिते विशेषे तस्यापि जीवपरसाधारणस्य नारायणशब्दामिहिते च विशेषे तात्पर्यं कल्प्यते । तस्य च जातिशब्दत्वाभावादनेकार्थत्वाभावाच्च विशेषशब्दमूर्धन्यत्वात् तेनैवतेरेषां शब्दानां विशेषनिर्धारणं युक्तम् । न तु तस्य शब्दस्य कचिदर्थपर्यवसानम् ।

सच्छदेन हिरण्यगर्भादीनां न ग्रहणम्

ननु शिवहिरण्यगर्भेन्द्रादिषु प्रतिपादकवाक्याभिहितेऽर्ये पूर्वोक्तन्यायेन सदादिशब्दानां पर्यवसानमपि कर्तुं शक्यमिति चेत् न । शिवहिरण्यगर्भादीनां

मासाभ्यां यजेत " इति पुरुष व्यापार रूपश्च एकविधः । दर्शपूर्णमासाविति कर्मनामाप्येकम् । स्वर्गकामः इति फलसंबन्धोऽपि एकः । तस्मादमिन्नं कर्म पूर्वपक्ष हेतवस्तु अन्यथा संगच्छन्ते । काठकादिकम् - ज्योतिरादिवत् न कर्म । काठकेन यजति इत्यश्रवणात् ।

" काठकमधीते " इति प्रयोगात् ग्रन्थनाम -

इत्यवगन्तव्यम् ।

भू भोजनादिः अध्ययन धर्मः । पुनरुक्तिः अध्ययन भेदात् न दुष्यति । अल्पायुषाऽपि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्टानं शक्यते । अनन्यथासिद्धरूप प्रत्यभिज्ञानात् शाखाभेदेाप कर्म नभिद्यते । (जै. सू. 2-4-2 ) छाग पशुन्यायाधिकरणम् :-

ज्योतिष्टोमे श्रयते-अम्नीषोमीयं पशुमालमेत इति । तत्र विहिते पशौ विशेषाश्रवणात् यः कोऽपि पशुः आरब्धव्यः इति पूर्वः पक्षः ।

सिद्धान्तस्तु - छागस्यवपायाः मेदसोऽनुब्रूहि इति मन्त्रे विशेषितत्वात् छागः एवारब्धव्यः । शाखान्तरे विधात्रेत अजोऽमीषोमीयः इति एवं विशेष: श्रूयते । इति चेत् तर्हि कृत्वाचिन्ताऽस्तु । सामान्यस्य पशुशब्दस्य छागे उपसंहारः छागपशुन्यायेन लभ्यते - (जै. सू. 6-8-8 )

'

5

यतो जझ उग्रस्त्वेषनृम्णः ’ ’ विरूपाक्षाय दन्ताञ्जयाय ब्रह्मणः पुत्राय '

’ यन्नामिपमोदरभवन्महात्मा प्रजापतिर्विश्वसृग्विरूप ’ इत्यादिषु जनिमत्व श्रवणात् तस्य चापवादकाभावे कर्मकृतत्वावश्यम्भावात् । ‘अनपहत पाप्मा वा अहमस्मि नाममेधेहि ’ इत्यादिषु साक्षादेव कर्मवश्यत्वश्रवणात् ‘न ब्रह्मा नेशान ’ इत्यादिषु विशिष्य सृष्टेः प्राक् इतरप्रपञ्चतुल्ययोगक्षेमत्वेन निषिद्धत्वाच्चा योग्यार्थकत्वात् शिवादिशब्दानां तदमिहितेऽर्थे सदादिशब्दानां पर्यक्सानासम्भवात् । अन्यथा ‘सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्त’ ( छा० उ. 1 - 9 - 1 ) इत्यादिषु आकाशादीनां कारणत्वश्रवणात् तेष्वपि पर्यवसानं स्यात् ।

भगवतस्तु जनिमत्त्रश्रवणेऽपि ‘अजायमानो बहुधा विजायते । ( उ. ना. 2 ) तस्य धीराः परिजानन्ति योनिम्’ इत्यादिप्रमाणसहस्रेण तज्जन्मनः कर्मकृतत्वाभावप्रतीतेः । ’ अपहतपाप्मा दिव्यो देव एको नारायण ’ (सु. बा. उ.) इत्यादिष्वपहतपाप्मत्यश्रवणात्, विशिष्यनिषेधाभावाच्च नायोग्यार्थत्वप्रसक्तिगन्धोऽपीति तत्र पर्यवसानं युज्यते ।

एको ह वै नारायण इति वाक्ये ह वै शब्दो न विधित्व भञ्जकः

ननु ‘एको ह वै नारायण’ इत्यत्रानुवादत्वसूचक ह वै शब्दश्रवणात् ’ सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त’ इति त्रदिदमपि वाक्यमनुवादपरमिति वाक्यान्तरसापेक्षं तत्र ’ तद्वृत्तमेक्कारश्च स्यादुपादेयलक्षणमिति विधित्वसूचकैक्कारवता ‘न सन्न चासच्छिव एव केवल’ इत्यनेनोक्त शिव एवानूद्यत इति चेत् -

उच्यते । ’ अप्राप्ते शास्त्रमर्थवदिति न्यायेन स्वतः प्राप्तस्य विधित्वस्य वै शब्दो न भञ्जकः ।

’ यदाग्नयोऽष्टाकपाल’ इत्यत्र ’ यदूवृत्तयोगः प्राथम्यमित्याद्युद्देशलक्षणम् ( भाट्टदीपिका. 8 5-10 ) इत्यनुवादसूचकयच्छब्दसद्भावेऽपि ‘वचनानित्व पूर्वादि’ (जै. सू. 3 - 5 - 28 ) इति सूत्रेण

विघित्वं स्थापितम् । प्रमाणान्तराप्राप्तत्वात् । तथा उपरि हि ‘देवेभ्यो धारयन्ती’त्यत्र हि शब्दे सत्यपि ’ विधिस्तु धारणे पूर्वत्वात् ’ (जै. सू. 3-4-15 ) इति सूत्रेण विधित्वं स्थापितम् । तस्मात् न स्वतः - प्राप्ताविधित्वभञ्जको ह वै शब्दः । अपि तु प्रमाणान्तरेण विधित्वे भन्ने प्रयुक्तशब्दस्य गतिप्रदर्शकः । आकाशकारणवाक्ये त्वयोग्यत्वादिना विधित्वासम्भवात् ह वै शब्दोऽनुत्रादरूपताज्ञापकः । अत्र तु प्रमाणान्तराप्राप्तत्वात् विधित्त्रभञ्जकाभावाच्च वै शब्दो न स्वतः प्राप्तविधित्वभञ्जकः । शिव एवेत्यनेन विधित्वं भग्नमिति चेत् - न । ’ शिवास्ते सन्तु पन्थानः ’ ’ शिवं कर्मास्तु’ ’ शिवः शिवानाम शिवो शिवानामित्यादिष्वर्थान्तरपरत्वदर्शनेन शिवशब्दस्य साधारणत्वात् । साधारणोऽपि विधित्वभञ्जकश्चेत् सदादिशब्दात् शिव एवेत्यस्यानुवादकत्वता

स्यात् ॥

अस्तु वाऽनुवादत्वम्, तथापि ‘विष्णुस्तदा सिद्धेरेव निष्कल’ इति स्वसमानार्थकवाक्यानुत्रादित्वमेवेति न विरुद्धार्थपरे वाक्यानुवादित्वं शिवस्य कारणत्वमनुवदतीति चेत् न ब्रह्मा नेशान ’ इत्यनन्तरवाक्यव्याहतिः । त्र्यक्षः शूलपाणिः पुरुषो जायत’ इत्युत्तरवाक्यविरोधश्च । तस्मात् नारायणस्यैत्र न परमकारणत्वप्रतिपादकमिदं वाक्यमिति तस्यैव सर्वस्मात् परत्वं सूक्ष्मन्यायपर्यालोचनकुशलानां हृदयाह्लादकमनुगृह्णन्ति ॥

अनुवादस्य विधायकत्वाधिकरणम् :-

प्रैताग्निहोत्रे एवं श्रूयते : - अधस्तात्समिधं धारयन् अनुद्रवेत् । उपरि देवेभ्यो धारयतीति । पूर्वाघिकरणवत् हि शब्देन अनुवादत्वप्रतीतेः अर्थवादत्वम् इति पूर्वः पक्षः ।

,

सिद्धान्तस्तु मैवम्, यथा पित्र्ये हविषि अधः समिद्धारणं विहितम्, न तथा दैविके हविषि उपरिधारणं विहितम् । अतः अप्राप्तत्वात् - अन्नैव दैविके हविषि उपरिधारणविधिः अंगीकर्तव्या । अनुवादात्मक: हि शब्दः असंभवात् उपेक्षणीयः । ( जै. सू. 8-4-5 )

7

स्यादेतत्-अवान्तरसर्गविशेषे कस्मिंश्चित् चतुर्मुखस्यैत्र नारायणस्याप्यधिकारसम्भवादुदाहृतवाक्यं तद्विषयत्वेन चरितार्थत्वात् न नारायणस्य मूलकारणत्वं प्रतिपादयितुं शक्नोति ॥ ननु नैतदत्रान्तरकारणत्वामिप्रायकमिति वक्तुं शक्यम् । नारायणात् भूतेन्द्रियादिसृष्टेराप प्रतिपादनदर्शनेनास्य महाकल्पादिसर्गविषयकचावश्यम्भवात् । ’ एको ह वै नारायण आसीदिति सर्वेतरव्यवच्छेदेन मर्गायसमये स्थानप्रतिपादनस्य नारायणात् परस्य कस्यचित् कल्पनायामसानजस्याच्च । न च ’ सर्वाण्याख्यानानि पारिप्लवे शंसतीति सर्वाख्यानशंसनविधेः वाक्यशेषश्रुतेषु मनुर्वैवस्वतो राजे’ [ श. ब. ]

त्याख्यानविशेषेष्विव एक इत्यस्य ’ न ब्रह्मानेशान ’ इत्यादिवाक्यशेषोपात्तब्रह्मेशानादिमात्रव्यवच्छेदपर्यवसानसम्भवात् न किश्चिदसाङ्गत्यमिति वाच्यम् । प्रयमश्रुतस्य वाक्यशेषानुरोधेन सङ्कोचायोगात् । ’ एष वा व प्रथमो यज्ञो यज्ञानामि’ व्यन (जै. सू. 8-8 - 12 ) ज्योतिष्टोमस्यान्यसर्वयज्ञप्राथम्यस्य सर्वयज्ञानां ज्योतिष्टोमपाश्चात्यत्वस्य वा विधेयस्य ‘यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यतेऽ (जै. सू. 5-9 - 15 ) स्तंदीपयती’ त्यादिवाक्यशेषे एकस्तोमककतु-

एकानेक स्तोमानां सर्वेषामग्निष्टोम पूर्वकत्वाधिकरणम् :-

ज्योतिष्टोमे श्रयते - एष वाव प्रथमो यज्ञो यज्ञानाम् । यज्ज्योतिष्टोमः । यः एतेनानिष्ट्ा अथान्येन यजेत । गर्तपत्यमेव हि तज्जीर्येत । प्रामीयते । तत्र अग्निष्टोम - अत्यग्निष्टोम उक्थ्य षोडशि अप्तोर्याम वाजपेयाख्याः ज्योतिष्टोमस्य सप्त संस्था भेदाः ।

अनेन वाक्येन सर्व संस्थोपेत ज्योतिष्टोम करणानन्तरमेव अन्य यज्ञानुष्ठानमिति पक्षं निराकृत्य ज्योतिष्टोमस्य अग्निष्टोम संस्थस्यैव नैजं रूपम् । अतः अग्निष्टोम संस्थाक ज्योतिष्टोममनिष्टा यचान्तरमनुष्ठातुं न शक्यते ।

तथा अन्य शब्दस्य सर्व यज्ञ प्रतियोगिकस्य प्राथम्यस्य उपन्यासात् अत्यग्निष्टोमादयः संस्थामेदा: एकाहाहीन सत्रादि रूपाश्च सोम विकृतिरूपाः सर्वेयागाः अग्निष्टोम संस्थाक ज्योतिष्टोमानन्तरमेवानुष्ठेयाः इति च निर्णीतम् ।

8

मात्रसङ्कीर्तनानुरोधेन सङ्कोचस्य कमलक्षणे निराकरणात् ‘पारिप्लवे सर्वाण्याख्यानानीति विध्यन्तरं ‘पारिप्लवमाचक्षीतेति पुनर्विधानमानर्थक्यपरिहाराय वाक्यशेषश्रुतविशेषनियमार्थमित्यवच्छेदकपुनर्विधश्रुत्यनुरोधात् सङ्कोचो, न तु वाक्यशेषविशेषसङ्कीर्तन मात्रानुरोधेन । इह तु सर्वेतरव्यवच्छेदेन सिद्धस्यापि ब्रह्मादिव्यवच्छेदस्य पुनः सङ्कीर्तनं तावकत्वेन नोपपद्यत इति न तस्य सङ्कोचा - पादनसामर्थ्यम् । तस्मात् ’ एको हवेत्यादेर्महासर्गाद्यसमये सर्वेतरव्यवच्छेदेनाव स्थानप्रतिपादनपरस्य नावान्तरकारणत्वपरत्वं वर्णयितुं शक्यमिति चेत् -

उच्यते – एक्मपि नानेन वाक्येन नारायणस्य मूलकारणत्वं सिध्यति । अस्ति धातोरुत्पत्त्यवस्थान्तर्गतसत्ताख्य द्वितीयभावविकारवाचित्वेन मीमांसकैः

’ एष वाव प्रथमो यज्ञो यज्ञानाम्’ इति वाक्ये श्रूयमाणोऽन्य शब्द: किं एक स्तोमके क्रतौ वर्तते अथवा अनेक स्तोम क्रतौ वर्तते इति विचारः अत्र क्रियते । यो वै त्रिवृदन्यं यज्ञ क्रतुमापद्यते सतं दीपयति । यः पंच दशासतम् । यः सप्तदशा सतम् । यः एक विश्शाशतम् इति कश्चन अर्थवादः वर्तते । अनेन वाक्येन स्तोमान्तरस्याप्रवेशाय त्रिवृतः एव सर्वस्मिन् यज्ञ स्वरूपे व्याप्तौ अयमेकस्तोमः क्रतुः भवति । एवमेत्र न्यायः पंचदश, सप्तदश, एकविंश स्तोम क्रतुषु समानः । तथा सति अर्थत्रादात् एकस्तोमकानामेव बुद्धिस्थत्वात् तएव अन्यशब्देनोच्यते ।

एकस्तोमकाश्च षड़ानादिषु अहीनेषु आन्नाताः । अतः एष वाव प्रथमो यज्ञो यज्ञानां इति वाक्ये अन्य शब्देन एकस्तोमकाः क्रतवः एव गृह्यन्ते इति पूर्वः पक्षः ।

सिद्धान्तस्तु :सतं दीपयति इति प्रकाशकत्व मात्रमुच्यते । तच्च व्याप्ति मन्तरेण संबन्धमात्रादप्युपपद्यते । अतः यो वै त्रि वृदन्यं इत्यर्थवादेन न त्रि वृदादीनां सर्वस्तोमव्याप्तिः तदनुसारेण एकस्तोमकानां ऐकाहिक ऋतूनां एव निर्देश: इति निरूपणं नन्याय्यम् । अग्निष्टोम प्रतियोगितया एकानेक स्तोमानां सर्वेषां ऋतूनामेव अन्यशब्देन निर्देशः भवति । (जै. सू. 5 - 8 - 15 )

6

9

1

व्यवस्थापनात्, लोहितो रोहितादासिन्धुस्तस्य सुतो भवतीत्यादिदर्शनाच्च । एको ह वै नारायण आसीदिति वाक्यस्य ब्रह्मेशानायुत्पत्तेः पूर्व सर्गाचसमये नारायणस्यैकाकिनः परमशिवात् प्रादुर्भावपरत्वात् । यद्यप्यस्ति धातोस्तत्र तल कालसंसर्गादिपरोऽपि लोके वेदे च प्रयोगो दृश्यते, तथापि प्रबलानन्तरश्रुत्यन्तरानुरोधादिहाप्युपसंहारेऽपि नारायणानुवाकप्रक्रिया प्रत्यभिज्ञानप्रापितब्रह्मनारायणविभूतिविशिष्टपरमशिवोपासनातात्पर्यानुरोधाश्चात्र परमशिवात् प्रादुर्भावपर एव तत्प्रयोगः ।

ननु शिवादिशब्दानां साधारणत्वात् कथं तादृशः शब्दघटितवाक्यबलादप्यस्याश्रुतेरन्यथाकारणमिति चेत् न तावच्छिव शब्दस्यासाधारण्यं नास्तीति तुं शक्यम् । तथा हि किं तस्य ’ शिवास्ते सन्तु पन्थान’ इत्यादि - प्रयोगविषयशुभतारूढिव्यतिरेकेण शिवे असाधारणरूपेण शक्तिरेव नास्तीन्युच्यते, उत तत्सत्वे ऽप्यक्षादिशब्दवदनेकशक्तित्वात् खतो न निर्णायकत्वमिति । नाद्यः । ’ कल्याणं मङ्गलं शिवमित्याद्यनुशासनव्यतिरेकेण ’ शिवः शूलीमहेश्वर:, ईशानः शशिशेखरः पशुपतिः शूलिः शिवः शङ्करः व्योमकेशो महादेवः प्रमथाधिपतिः शिव’ इत्यनन्यथासिद्धानुशासनबलात् । ’ विष्णु र्नारायणः कृष्ण’ इत्याद्यनुशासनबलात् कृष्णशब्दवर्णविशेषरूढिव्यतिरेकेण ’ विष्णाविवशस्तं चाय त्रिषु द्रव्ये पापपुण्यसुखानि चेति स्मृतां सर्वद्रव्यसाधारणी मर्थवलिङ्गतां विना नित्यपुल्लिङ्गतया असाधारणरूपेणापि तस्य तत्र शक्तेरभ्युपगन्तव्यत्वात् । अन्यथा तत्र पृथगनुशासनवैयर्थ्यापत्तेः ।

न द्वितीयः । केवलयोगेन कुमुदादौ प्रयुज्यमानस्यापि पङ्कजादिशब्दस्य योगरूढयुभयानुग्रहलामेन पद्मपरत्वस्यैत्र शिवशब्दस्य शुभत्वनीलकण्ठत्वादिविशिष्टरूपविषयशक्तिद्वयानुग्रहलामेन परमेश्वरपरत्वस्यौत्सर्गिकतया प्रकरणोपपदाद्यनुपहितत्वात् ततः सर्वत्र परमेश्वरप्रतीतेः खत एव तस्य

10

न चानेकशक्तस्यैकस्य शब्दस्य सकृच्छ्रुतस्यानेकशक्यपरत्वं न कापि दृष्टचरं, युगपदूवृत्तिद्वयस्य विरुद्धत्वादयुक्तश्चेति वाच्यम् । संभङ्गश्लेषस्थले आवृत्ति विना युगपदनेकशक्त्यनुसन्धानासम्भवात् । सैन्धवमित्यादौ नानार्थस्थले क्रमानुसन्धेयभङ्ग विशेषानपेक्षणेन सामग्रीपौष्कल्यात् युगपदनुसंहितशक्तिद्वयेन चक्षुषा युगपदुत्पन्नसंयोगद्वयेनार्थद्वयस्मरणोपपत्तावपि स्वतन्त्रार्थ - द्वयस्यापि प्रत्येकमानयनान्वयापत्त्या वाक्यमेदप्रसङ्गाच्च ।

अन्यत्र तथात्वेऽप्यन्यत्र संभङ्गत्वाभावेनावृत्त्यानपेक्षणात् निखिलभुवनक्षेमङ्करे भगवति नीलकण्ठे एव प्रवृत्तिनिमित्तद्वयस्यापि विश्रान्तेः स्वतन्त्रार्थद्वयपरत्वाप्रसङ्गेन वाक्यमेदापत्यभावाच्च । युगपदुन्मिषता विरुद्धशक्तिद्वयस्य योगरूढिस्थल इवानुसंयोगविप्रयोग साहचर्यादिभिरन्यतरावच्छेद योगेनासाधारण शिवरूपवाचिनः शिवशब्दस्य निरुपाधिकशिवरूपत्वपरत्वस्याप्यभ्युपगन्तव्यत्वात् ।

’ शिवा भवन्ति मे सर्वे दानवाश्वामराश्च ये ।

शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः ॥ '

इति कर्णपर्वणि शिववचनेन तद्वाचिनः शिवशब्दस्य निरूपाधिशिवरूपतापरत्वस्याप्यवगमाच्च । तस्मात् शिवशब्दः शक्तिद्वयानुग्रहला मेनौत्सर्गिकशिवतात्पर्यकत्वात् तदसाधारण इत्येव युक्तम् । एतेन योगेनान्यत्र प्रयुज्य - मानानां ईश्वरमहेश्वरेशानादिशब्दानामसाधारण्यं व्याख्यातम् ॥

उक्तं च ’ यस्मिन्नीश्वर इत्यनन्यविषयशब्दो यथार्थाक्षर:, ’ महेश्वरस्त्र्यम्बक एव नापर’ इत्यादि ईशानशब्दस्य दुहणसाधारण्यमाशङ्कितं तत्सत्यमेव । तथापि ’ शम्भुराकाश’ इत्यादौ ब्रह्मणः कार्यकोटौ श्रवणेन तत्परत्वायोगेन शिक्परत्वमेव सिध्यतीति न तावता अव्यवस्थापत्तिः । अन्यथा विष्णुपुराणे -

"

ब्रह्मा नारायणाख्योऽसौ कल्पादौ भगवान् यथा ’ ।

’ नाराय(णा)ख्यो भगवान् ब्रह्मलोक पितामहः । ’ इत्यादिषु कौर्मे-

स्मृतौ

6

'

11

अवाप्य संज्ञां गोविन्दात् ब्रह्मयोनिः पितामहः । ’ इति प्रकृत्य । नारायणाख्यो भगत्रान् यथापूर्व प्रजापतिः ॥ ’ इति । आश्वलायन-

तस्मादण्डादभूत् स्रष्टा शिवात्मा चतुराननः । सर्वलोकस्य निर्माता ब्रह्मा विश्वसृजांपतिः ॥

स चाप्सुशयनादेव शिवात्मा स्वेच्छया चिरम् ।

नारायणाख्यामभजत् शक्तिरूपप्रजापतिः ॥ १

न च । ब्रह्मणोऽपि नारायणसंज्ञामिधानेन नारायणशब्देन निर्णय इत्यस्यापि मापत्तेः । तस्मात् निस्साधारण्यनारायण पदविषये निश्चयं यान्त्यबाधेन नद्ब्रह्माद्याः समानप्रकरणाः पठिताः शङ्कितान्यार्याः शब्दा इत्यनुपपन्नम् ।

न च शिवस्य जन्यत्वश्रवणात् कथं तस्य कारणत्वमिति वाच्यम् । उत्तीर्णस्य परमशिवस्य तथात्वाभावात् । परमकारणत्वाभ्युपगमसम्भवात् । अतो न नारायणस्य परमकारणत्वम् । किं तु शिवकारणत्वश्रुत्यनुरोधात् उत्तीर्णस्य परमशिवस्यैवेति ।

अत्र प्रतिभाति । अस्ति धातोरुत्पत्त्यवस्थान्तर्गतसत्ताख्यद्वितीयभावविकारवाचित्वस्य मीमांसकैर्व्यवस्थापनात् ॥ एको ह वै नारायण’ इति वाक्यं सर्गाद्यसमये परमशिवाय नारायणस्य प्रादुर्भावपरमिति यदुक्तं तत्तावइनुपपन्नम्। तथा सति हेत्वाकाङ्क्षापूरकपदाध्याहारापत्तेः । न च श्रुतपदैरेव नैराकाङ्क्षयसम्भवेऽध्याहरो युक्तः । अन्यथा ‘स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वादिति (जै. सू. 4-8-5 ) न्यायेन सर्वपुरुषामिलषितस्वर्गफल-

विश्वजिदधिकरणम् :―

विश्वजिता यजेत । एकाह काण्डेषु विश्वजिता यजेत इति पठ्यते । परंतु अत्र फलं न श्रुतं । भावना भाव्यापेक्षायां समानपद श्रुत्युपनीतोऽपि यागो न भाव्यः । तस्य क्लेशरूपतया स्वतः पुरुषार्थत्व रूपत्वा भावात् । फलस्यैत्र12

प्रतिपादकस्वर्गकामपदाध्याहारेण रात्रिसत्रस्य स्वर्गफलकत्वापत्त्या प्रतिष्ठाफलकत्वाभावात् रात्रिसत्राधिकरणसिद्धान्तोच्छेदः (जै. सू. 4-8-8 )

भाव्यत्वमुचितं । समानपद श्रुतितोऽपि अन्तरङ्ग विधि श्रुत्यवगत प्रवर्तकत्व

। बलेन पुरुषार्थस्यैव भाव्यत्वात्रगतेः ।

तृतीयान्त नामधेय सामानाधिकरण्येन यागस्य करणत्वावगेतच । अतः च फलाश्रवणे अपि तद्वाचक कामपदान्त फलपदाध्याहारेण पुरुषार्षपरकत्वमेव-

वक्तव्यम् ।

तच एकमेव फलम् । एक कल्पनयैव निराकाङ्क्षत्यसंभवात् - तच्च फलम् - स्वर्गः एव । सच स्वर्गः सुखविशेषरूप:, ऐहिक फलानां पुत्रादीनां न सुखरूपत्वम् । सुखसाधनतयैव पुत्रादीनां प्रसिद्धेः । सुखापेक्षया सुखसाधनानां विलंबोपस्थितिकत्वात् । सर्वैः प्रायमानतया शास्त्रस्य महाविषयत्व

लाभत्वाच ।

अतः विजातीय स्वर्गस्यैव विश्वजित्वावच्छिन्न कारणतानिरूपितजन्यतावच्छेदकत्वम् । अतः विश्वजिद्वाक्ये फलाश्रवणेऽपि स्वर्गस्यैव फलत्वं कल्पनीयम् । (जै. सू. 4-8-5 )

रात्रि सत्राधिकरणम् :

ज्योतिर्गेौः आयुरित्यादि वाक्योत्पादितानि कर्माणि विधाय प्रतितिष्ठति हवा य एताः रात्रीः उपयंति इति श्रुतम् । तत्र यद्यपि विश्वजिदविकरणन्यायेन स्वर्गस्य फलत्वं कल्पयितुं उचितं भवति । ’ तथापि स्वर्गवाचक पदोपस्थितिः कामपदांत कल्पनाचेति गौरवापत्तेः’ न स्वर्गस्य फलत्वं युज्यते । परं तु अर्थवादवाक्ये श्रुतप्रतिष्ठायाः एव फलत्वं कल्पयितुं उचितम् ।

सर्वथाऽश्रुत फलकल्पनापेक्षया स्ववाक्योपात्तप्रतिष्ठायाः फलत्वकल्पने लाघवात् । प्रतिष्ठायाः एव भाव्यत्वं वक्तुमुचितम् । प्राथमिकफलापेक्षायाम्

13

1

त् । तत्र हि किं रात्रिसत्रे: स्वर्गार्थमुत प्रतिष्टार्थमिति संशय ’ प्रतितिष्ठन्ती वा एते य एता रात्रिरुपयन्तीत्यस्य वर्तमानापदेशत्वेन । यस्य पर्णमयी डूर्मवति न स पापं श्लोकं शृणोतीत्यादिवत् फलविध्यसमर्पकत्वादर्थवादत्वेन विश्वजिदधिकरण’ न्यायेन खर्गकामपदाध्याहारात्स्वर्गफलत्वमिति पूर्वपक्षं पय प्रतितिष्ठन्तीत्यत्र त्रये ’ प्रतितिष्ठासन्ति त एता रात्रिरुपेयुरिति सन्नन्तथा विधिविभक्त्यन्ततया विपरिणाममात्रकल्पनया प्रतिष्ठायाः फलत्वसिघ्या लाकाङ्क्षाशान्ते स्वर्गकामपदाध्याहारायोगात् न स्वर्गफलकत्वम्, किं तु निष्ठाफलकत्वमेवेति राद्धान्तितम् । तथा च कैमुतिकन्यायेनात्र विपरिणादिकं विना निर्वाहसम्भवे का प्रत्याशा अभ्याहारस्य ।

अस्ति धातोः कालदेशसम्बन्धार्थकत्वेन ‘इदानीं घटोऽस्ति ’ मूतले घटोऽस्ति ’ ’ सदेव सोम्येदमग्र आसीदि’ त्यादौ लोकवेदयोः प्रयोगर्शनात् । तदर्धाङ्गीकारेणात्र वाक्यार्थवर्णनसम्भवात् । यद्यपि मीमांसकै - तीयभावविकारार्थकत्वमङ्गीकृतम्, ‘अस्ति पुनर्जनिसमानार्थात् भवतेरुरितनिमवस्थाममिलपन्ती’ति तन्त्रवार्तिकोक्ते:, तथापि न तैर्लोकवेदप्रसिद्धं सम्बन्धकार्थकत्वं प्रतिक्षेप्तुं शक्यम् । अत एव हि जनिसमानार्थकत्वेङ्गीकृतस्यैव भवते स्थित्यर्थकत्वमङ्गीकृतम् । यत्र त्विहामुको भवेदिति प्रयोगः त्र भवते स्थित्यर्थवाचित्वादिति तन्त्रवार्तिककारेणैवोक्तत्वात् ।

ननु कालविशेषप्रतिपादकपदाध्याहारः तवापि तुल्य इति चेत् न । त्वत्पक्षेत्येको ह वा ’ इत्यादेः ’ स एकाकी न रमत’ इत्युत्तरवाक्यसङ्गतये विशेषे नारायणस्यैकस्यैवोत्पत्तिः ‘न तु ब्रह्मादीनामित्यर्थकत्वेन तदर्थ-

तवाक्यस्यैवलक्षणया फलपरत्वे प्रमिते पश्चात् स्तुत्यपेक्षायां अप्राप्तफल लब्धविरेवस्थापकत्वम् । यत्न अर्थवादवाक्ये न फलं लभ्यते तत्र रात्रि सत्रन्यान आर्थवादिकमेव फलं भवति । न विश्वजिन्न्यायेन फलकल्पना ॥

(जै. सू. 4–8–8)

14

प्रतीत्यर्थमग्र आदिपदाध्याहारस्य वाच्यत्वात् । उक्तं च त्वया ‘एको ह वै नारायण आसीदिति वाक्यं ब्रह्मेशानाद्युत्पत्तेः पूर्व सर्गाद्यसमये नारायणस्यैकाकिनः परमशिवात् प्रादुर्भावपरमित्यासीदित्यनेनैव पूर्वकालप्रतीत्या उत्तरत्र सृष्टिप्रतिपादनेन च सृष्टेः पूर्वमित्यस्यानुक्तसिद्धत्वाच्च । अपि चोत्पत्त्यर्थ - कत्वे हेत्वाकाङ्क्षाकत्वेन सापेक्षार्थकत्वं स्यात् । न च निरपेक्षार्यकत्वसम्भवे सापेक्षार्यकत्वाभ्युपगमो युक्तः । अत एव ’ यद्योन्यां तदुत्तरयोर्गायतीत्यत्र ( 8-2-5 ) किं छन्दोनामकग्रन्थाघीतयो रुत्तरनामकग्रन्था-

उत्तरयोः गायति इत्यत्र उत्तरा ग्रंथस्थयोः ऋचोः ग्रहणप्रतिपाद काधिकरणम् :–

सामगानां ऋक्पाठाय द्वौग्रंथौ विद्येते । छंदः उत्तराचेति । तत्र छन्दो नामके ग्रन्थे नानाविधानां साम्नां योनिभूताः एव ऋचः पठिताः । उत्तराम्रन्थे तृचात्मकानि सूक्तानि पठितानि । एकस्मिन् तृचे छन्दोगताः योनी प्रथमा इतरेद्वे उत्तरे । एवं स्थिते सति रथन्तरमुत्तरयोः गायति यद्योन्यां गायति तदुत्तरयोः गायति - इत्यत्र विविधे उत्तरे संभाविते । रथन्तरस्य छन्दोग्रन्थे अमित्वाशूर इतीयं ऋक् योनित्वेन पठिता ।

तस्यामु परि त्वामद्धि हवामहे इत्यादयः बृहदादिसाम्नां योनयः पठिताः । उत्तराग्रन्थे तु अभित्वा शूर इति सूक्ते तस्याः ऋचः ऊर्ध्वम् नत्वावामन्ये इत्येषा साम्न: कस्याः अपि अयोनि भूता काचित् पठिता । तत्र छन्दो प्रन्यापेक्षया - सामांतरयोनी द्वे रथन्तरस्य स्वयोन्युत्तरे भवतः उत्तराग्रन्यापेक्षया तृचगते द्वितीय तृतीये स्वयोन्युत्तरे भवतः । तत्र विशेष नियामकाभावात् ययोः कयोश्चित् उत्तरयोः गानम् ।

तत्र यद्योन्यां गायति तदुत्तरयोः गायति इत्यत्र उत्तराशब्देन योन्युत्तरयोः उत्तराग्रन्थ पठितयोः एव इति संदेहे उत्तराशब्दस्य संबंधिशब्दत्वदर्शनात् यैव योनेः परतः पठिता सैव उत्तराशब्देन प्राह्मा । ततश्च योनिग्रंथे

15

घीतयोश्चोत्तरयोरनियमेन च सम्पत्तये गानं विधीयते, उत उत्तराग्रन्थाबीतयोरेवेति संशय्योत्तरशब्दस्य सम्बन्धिशब्दत्वेन छन्दोनामक ग्रन्थाधीतयोरुत्तरनामकप्रन्यावीतयोश्च योन्युत्तरयोरविशेषेण वाचकत्वात् विकल्पेन गानमिति पूर्वपक्षं प्रापय्य यद्यप्ययं सम्बन्धिशब्दोलोके तथाप्युत्तराग्रन्थे संज्ञारूपेण प्रसिद्धः । ’ उत्तरा अध्यापयाम’ इत्यध्यापक प्रयोगात् । न च सम्बन्धित्वे शब्दत्वे संज्ञाशब्दत्वे च रूत्यविशेषात् को विशेष इति वाच्यम् । उत्तरा - प्रन्याधीतयोर्ग्रहणे उत्तराशब्दस्य सम्बन्धिशब्दत्वाभावेन सापेक्षत्वाभावात् अविलम्बितः प्रत्ययो भवति । छन्दोग्रन्थाघीतयोर्ग्रहणे तु सम्बन्धिशब्दत्वेन प्रकृतमपेक्षितव्यमिति अतिविलम्बितः प्रत्ययः इति विशेष सत्वात् । तस्मादुत्तराप्रन्याधीतयोरेव गानमिति राद्धान्तितम् | ‘नैमित्तिकं तु उत्तरात्वमिति नावमिकाधिकरणे । (जै. सू. 8-2-21 ) तथा चात्रापेक्षापूरकपदगन्धरहिते वाक्ये कैमुतिकन्यायेनासीदित्यस्य निरपेक्षार्थकत्वं स्वीकर्तुमुचितमिति नान्यथासिद्भिर्वर्णयितुं शक्या ।

किं च सङ्कल्पपूर्वकसृष्टिप्रतिपादकवाक्यजातपूर्वभाविशाखान्तरस्थासीदिति पदघटितवाक्यानां ’ सदेव सोम्येदमग्र आसीत् ’ ’ ब्रह्म वा इदमग्र

रयंतर योनेः परतः बृहद्योने: पाठात् तस्यां रथंतरस्य गानम् । उत्तराप्रथेच रथंतर योनेः परतः नत्वावाम् अन्यो दिव्यो पार्थिवः इत्यस्य पाठात् तस्यामपि विकल्पेन गानमिति पूर्वः पक्षः ।

बृहद्योने: रथंतर योन्युत्तरत्वेऽपि तस्यामुत्तरा शब्दस्य वैदिकैरप्रयुज्यमानत्वात् उत्तरा शब्दोऽयमुत्तरा ग्रंथ पठितोत्तरासुवैदिक प्रयोगात् असंबन्धिकतयैव रूढः । ततश्च संबन्धि शब्दस्य प्रतिसंबन्धि प्रतिसन्धान सापेक्षत्वेन विलंबेनार्थोपस्थापकत्वात् अन्यत्र संबन्धि शब्दत्वेऽपि प्रकृते असंबन्धि शब्दः एवायम् । ततश्चोत्तरा ग्रन्थ पठितोत्तराणामेव झडित्युपस्थापकः इति तासामेव ग्रहणम् । प्रकरण क्रमाभ्यां चोत्तराग्रन्थ पठितानामुत्तराणां तत्तत्स्तोत्रांगत्व प्रतीतेः इदमेव युक्तम् ॥

(जै. सू. 9-2-5 )

,

16

आसीत् ’ आत्मा वा इदमेक एवाग्र आसीदि ‘त्यादीनां प्रलयकालावस्थानप्रतिपादकत्वदर्शनात् तदवैरूप्यायास्यापि प्रलयकालसत्वप्रतिपादकत्वमेव युक्तम् । तथैव दशमे ‘तस्याग्रयणात् ग्रहणमित्यधिकरणे (जै. सू. 10-5-10 ) किं षोडशिग्रह आग्रयणादुक्ध्यादपि प्रायः उताप्रयणादेवेति संशये ‘आग्रयणात् गृह्णाति ’ ’ उक्थ्यान्निगृह्णाति’ इति वचनद्वयबलादुभाम्यां ग्रहणमिति पूर्वपक्षं प्रापय्य ’ परांचमुक्थ्यात् षोडशिनं गृह्णाति ’ इत्युक्थ्योत्तरकालप्राह्यत्वस्य शाखान्तरीयवाक्येन प्रतिपादनादस्यापि तदैकार्थ्याय उपथ्यग्रहणोत्तरकालमाह्मत्वविधायकत्वात् बोभाभ्यां ग्रहणमिति सिद्धान्ति-

तत्वात् ॥

यदुक्तं प्रवलानेकश्रुत्यनुरोधात् नारायणानुवाक प्रत्यभिज्ञानाच्च परमशिवात् प्रादुर्भावपर एव तत्प्रयोग इति तत्तुच्छम् – तच्छ्रुत्यन्ययासिध्यापादकश्रुत्यन्तरासिद्धेः । शिवकारणत्वप्रतिपादिकाः श्रुतयस्तादृश्य इति चेत् कथं तासां तादृशत्वम् ’ अहमेकः प्रथममासं वर्तामि च भविष्यामि च’ इत्यत्रापि तद्रीत्यैवास्ति भवस्योरुत्पत्त्यर्थंकत्वाङ्गीकारेण कल्पादावुत्पन्नोऽहं नारायणात्

,

आग्रयणादेव षोडशिग्रहणाधिकरणम् :

षोडशिग्रहणे आग्रयणात् गृह्णाति, उक्थ्यात् गृह्णाति इति वाक्यद्वयं वर्तते । एतेन आग्रयणापादानकग्रहणं उक्थ्यापादानकग्रहणं च विहितम् । उभयोः वाक्ययोः समबलत्वात् षोडशिग्रहणे आग्रयणापादानग्रहणं, उक्थ्यापादानग्रहणं च विकल्प्येते इति पूर्वः पक्षः ।

सिद्धांतस्तु नात्र विकल्पस्याक्काशः अष्टदोष दुष्ट विकल्पानंगीकारात् । आग्रयणादेव ग्रहणीयमिति निर्णीयते । उक्थ्यात् निगृह्णाति इति वाक्यस्य उक्थ्योत्तरकालविधि परत्वात् । तं परांचं उक्थ्यात् निगृह्णाति - इति ऊर्ध्वकालवाचिनः पराक् शब्दस्य प्रयोगात् उक्थ्यवाक्ये षोडशि ग्रहणकालविधिरेवांगीकर्तव्यः । अतः न विकल्पः । (जै. सू. 105-10 )

17

चतुर्मुखाद्वा तथाविध इदानीं वर्ते । उत्तरत्र कल्पे चोत्पत्स्यामीत्यर्थकथनकंगवादन्यथासिद्धिसहत्वात् । यदा तन्म इत्यत्रापि शिव एव केवल उत्पन्न

बर्थवर्णनसम्भवाच्च ।

नन्वेवं तर्हि शिवस्य तत्रैवान्तर्यामित्यादिकथनं विरुध्येत इति चेत् - न - क्वात् । अत्रापि पुरुषसूक्तोदितसहस्रशीर्षत्वाद्यानानात् दहरपुण्डरीकान्ततयोपास्यत्वकथनात् ’ स ब्रह्मा स ईशानः सेन्द्र’ इति ब्रह्माद्यन्तर्यामित्वोक्तेः । विश्वतः परममिति विश्वस्मात् परत्वोक्ते: ’ पुरुषः परमात्मेति कण्ठरवेण जमात्मत्वामिधानाश्च; उत्तरवाक्यविरोधस्य स्फुटतरत्वात् वहुत्वात् प्राबल्यामतिचेत्

• सौबालकठवल्लितापनीया ब्रह्मविष्णुत्तरनारायणपुरुषसूक्तप्रभृतीनां भगवत्परत्वा*कानामेत्र भूयस्त्वात् नारायणानुवाकप्रत्यभिज्ञया शिवपरत्वकथनं तु व्याघाततम् ; तस्य भगवदेकान्तत्वात् । क्षुद्रोपद्रवश्च दहर विद्याविचारे निरसिष्यते ॥

यदपि शिवस्य साधारणस्याभ्युपगमपक्षे विकल्प्य दूषणं दत्तं तदप्यनुपन्वम् । पुरुषशब्दासाधारण्यनिराकरणदशायां त्वयैव प्रदर्शितत्वेन ‘बर्हिगन्याधिकरणन्यायेन (जै. सू. 1-4-8 ) सामान्यशक्त्योपपन्ने विषये

बहिंराज्याघिकरणम् ः

दर्शपूर्णमासप्रकरणे - बर्हिस्तृणाति । आज्यं गृह्णाति । अष्टाकपाल: सुरोडाशः, इत्यादि श्रूयते । तत्र बर्हिः आज्य पुरोडाश शब्दानाम् - संस्कृतेष्वेव शास्त्रस्थैः प्रयुज्यमानत्वात्, यूपादिशब्दवत् संस्कारमात्र चित्वम् । अथवा संस्कारविशिष्ट कुरा वाचित्वं वा भवतु इति पूर्वः पक्षः ।

सिद्धांतस्त्वेवम्बर्हिराज्यादिशब्दाः जातिं विहाय न कुत्रापि प्रयुज्यंते ।

केऽपि संस्कारंविहाय बहिरादाय गावोगताः

आज्यं क्रय्यम्,

क्रम्यम्, पुरोडाशेन ये माता प्रहेलकंददाति - इत्यादौ प्रयुज्यमानत्वात् अव्यभिचारात्, लाघवाच्च,

शादिजाति वाचित्वमेव न संस्कारविशिष्टद्रव्यत्राचित्वम् ।

"

अतः यत्र

पावटास्तरणार्थबर्हिरादौ न बर्हिः संस्कारः तत्र लौकिकबर्हिषः एव ज्यादानम् । (जै. सू. 1-4-8 )

3

18

विशेषशक्तिकल्पनस्यानवतारात् प्रथमकल्पस्योपपन्नत्वात् । न चानुशासनात् विशेषशक्तिकल्पनं तस्य शक्तिग्राहकतानैयत्यासिद्धेः । द्विरेफशब्दस्य लाक्षणिकत्वेन प्रसिद्धस्याप्यनुशासनदर्शनात् आर्यप्रसिद्ध्या वृक्षविशेषपरत्वेन हस्तिनि गौणत्वेन मीमांसकैः कथितस्यापि पीलुशब्दस्य पीलुकाण्डेमेगज इति गजपरत्वेन ‘मौनं चरुं निर्वपेदिति (जै. सू. 9-3-2) विहितायामिष्टौ पौण्डरीकाणि बहींषि भवन्ति’ इति विहितेषु पुण्डरीकेषु ’ दर्भैस्तृणीत हरितैरिति मन्त्रस्य चोदकतः प्राप्तौ दर्भपदस्थाने पुण्डरीकपदमिव हरितपदस्थाने रक्तपदमूहितव्यमिति वदद्भिस्तैरेव रक्ताम्भोजपरत्वेनाभ्युपगतस्य पुण्डरीकपदस्य ’ पुण्डरीकं सिताम्भोजमि तिश्वेताम्भोजपरत्वेन ‘त्रिवृच्चर्वाश्ववालवर्णके’ (जै. सू. 11-8-4 ) चरुशब्दस्यौदने मुख्यत्वेन दशमे

पौण्डरीकेषु बर्हिष्षु स्तरणमन्त्रस्य ऊहाधिकरणम् :-

1

मौनं चरुं निर्वपेत् श्रियै । श्रीकामः इत्यत्र पौण्डरीकाणि बहींषि भर्वति इति श्रुतम् । तत्र स्तरणमंत्रः चोदक प्राप्तः दर्भैः स्तृणीत हरितैः इति । तत्र पूर्वन्यायेन दर्भ शब्दस्थाने पुण्डरीक शब्दः प्रयोक्तव्यः । हरितशब्दस्तु नापूर्वी द्रव्यवाची । ततः असमवेतार्थत्वात् विकृतावपि अदृष्टार्थम् अनूहेन प्रयोक्तव्यम् - इति पूर्वः पक्षः । सिद्धांतस्तु गुणद्वारा गुणिद्रव्य प्रकाशने सति दृष्टार्थत्व लामेन समवेतार्थत्वात् । तस्मात् पुण्डरीकैः स्तृणीत रक्तैः इत्यूहनीयम् । (जै. सू. 8-3-2 )

त्रिवृचर्वाश्ववालाधिकरणम् :

यागप्रकरणेषु - त्रिवृत् अग्निष्टुदग्निष्टोमः सोम पौष्णं चरुं निर्वपेत् - आश्ववालः प्रस्तरो भवति । इति श्रूयते । तत्र त्रिवृच्चरु - आश्ववालादिशब्देषु यत्न लोक वाक्यशेषयोः अर्थविप्रतिपत्तिः तत्र पद पदार्थसंबंधे लोकाद्वेदस्याधिक्ये प्रमाणाभावात् तुल्यबलत्वमिति पूर्वः पक्षः ।

विधिवाक्यशेषयोः विषयैक्याभावे विधिस्तुत्योः एक वाक्यताऽनुपपत्तेः । विधिवाक्यशेषस्यैव शक्तिग्राहकत्वमनुमन्यते - अतश्च लौकिकप्रमाणावगतार्थे

19

चरुर्हविर्विकारः स्यादित्यधिकरणे ( जै. सू. 10-1-10) स्थाल्यां लाक्षणि-

अनेक शक्तिकल्पनामिया न शक्ति:, अपि तु लक्षणादिनैव बोधः । अतः व अत्र वाक्यशेषो नास्ति इत्यत्रापि त्रिवृदादिपदार्थः वैदिकः एव ग्रहीतव्यः । वनश्च त्रिवृच्छब्दस्य स्तोत्रगत ऋनक्कत्वं शक्यम् । नैव त्रैगुण्यम् | ऋ शब्दस्य ओदना - न तु स्थाली । अश्ववालशब्दस्य काषायः एवार्थः । बाश्वकेशाः । (जै. सू. 11-8-4 )

चरु शब्दस्य मदन वाचित्वाधिकरणम् ः

सौर्य चरुं निर्वपेत्, इत्यादिवाक्ये चरु शब्दः किं स्थालीं वक्ति उत बोदनमिति संदेहः । तत्र लौकिकाः आहिमवतः आच कुमारीभ्यः सर्वेऽपि स्वदेशीय भाषा प्रसक्त्या यत्किंचित् मकार यकारादि अक्षरं उपरि प्रक्षिप्य

शब्दं पाते पाकाधिकरणे ताम्रादिमये प्रयुंजते । चरुशब्दः स्थालीं वक्ति । यदितस्याः अदनीयत्वाभावेन पुरोडाशगत प्रधानयोग्यता न स्यात् तर्हि यमूत्पुरोडाशविकृतित्वम् । कपालविकृतित्वं भविष्यति । श्रवणयोग्यतायाः

उद्भावात् ।

यथा कपालेषु हविः त्रप्यते - तथा स्थाल्यामपि स्रवयितुं शक्यते । नस्मात् चरुशब्दः स्थालीवाचकः एव इति पूर्वः पक्षः |

सिद्धांतस्तु - अन्नमेव चरुशब्देनोच्यते । कुतः श्रुति प्रसिद्धेः । आदित्य " प्रायणीयः चरुः " इति विधाय तद्वाक्यशेषे हि ‘अदितिमोदनेन ’ इति चरुरनूद्यते । यदि भोज्यान्ने चरु शब्दः कापि लोके नदृष्टः तर्हि ओदन विशेषवाची चरु शब्दः अस्तु । तत्र विद्वत्प्रसिद्धेः । विद्वांसो याज्ञिकाः शब्दैक समधिगम्य धर्माधर्मव्यवहारिणः शब्दार्थविलवे तात्पर्यवंतः अनवस्त्रावित मंतरूष्मपके जीवतण्डुले विशद सिद्धोदने चरु शब्दं प्रयुञ्जते । सति ओदनयचित्वे सौर्यमिति तद्धितोऽप्युपपद्यते यथाऽप्रेयः इति । देवतातद्धितयुक्तः पुरोडाशः प्रदेयद्रव्यम् । तथाचरुरपि । तस्माच्च रुशब्दः अन्नवाची (जै. सू. 10-1-10)

20

कत्वेन वर्णितस्य चरुशब्दस्य च स्थाल्यां हविष्यपीति स्थालीपरत्वेन चानुदर्शनात् । न्यायविरोधेऽनुशासनस्य शक्तिग्राहकत्वस्य वक्तुमुद्युक्तत्वाच्च ।

किं चानुशासनस्य शक्तिग्राहकत्वनैयत्ये ’ कोकिलः पिक इत्यपी’ ति कोशसत्वेन पिकशब्दस्य कोकिलपरत्वसाधनस्य निष्प्रयोजनत्वसिद्धेः । ’ पिकनेमाघिकरणे ’ पिकशब्दमुदाहृत्य म्लेच्छप्रसिध्या कोकिलपरत्वसाधनस्य निष्प्रयोजनत्वप्रसङ्गः । अपि चैवं ‘अवदातः सितो गौरो वलक्ष’ इति तत्सत्वेनावदातशब्दस्य शुक्लविशिष्टशक्तत्वापत्तिः । न चेष्टापत्तिः । ’ वर्णानां तणति नितान्तानामिति (पा. सू. फिषोन्तउदा ) फिट्सूत्रेणाद्युदात्तत्वेऽनुदात्तान्तत्वेन वर्णादनुदानादिति मकारः श्रीप्रत्ययोः प्रसङ्गात् । उक्तं च महामाध्ये’ अवदातायां तुङी प्रसज्येत अवदाता ब्राह्मणी वर्णादनुदानादिति मैष वर्णवाची । किं तर्हि विशुद्धवाची, आतश्च विशुद्धवाची ।

एवं ह्याहत्रीणि यस्यावदातानि विद्या योनिश्च कर्म च ।

एतच्छीलं विजानीहि ब्राह्मणाप्रयस्य लक्षणम् ॥

इति । एवं च शक्तिग्राहकतायां शतशोष्यमिचरितेन कोशेन न्यायविरुद्धस्थले शक्तेर्वर्णयितुमिशक्यत्वात्, न तद्बलाच्छिय शर्वस्यासाधारण्येन शक्तिरभ्युपगन्तुं शक्या । कृष्णशब्दस्य त्वसाधारण्यग्राहकप्रमाणान्तराभावे न्यायबलागतसाधारण्याङ्गीकारेऽपि नास्माकं क्षतिः ।

कथं तर्हि प्रकरणोपपदाद्यभावस्थले नीलकण्ठत्वादिविशिष्टवस्तुप्रतीतिरिति चेत् न । पार्थशब्दोऽर्जुनस्येव प्रसिद्धिप्राचुर्येण तथा प्रतीतेरुपपन्नत्वात् । तत् पक्षे साधारणेन पुरुषशब्देन भगवत्प्रतीतिवदुपपत्तेश्च । द्वितीयः कल्पोऽप्युपपन्नतरः। आवृत्तिवाक्यमेदप्रसङ्गयोरभावेऽपि भगवत्कारणत्वा वेदकश्रुत्यन्तरबाधप्रसङ्गेनार्थद्वयपरत्वस्य वर्णयितुमशक्यत्वात् ।

‘एकधा ब्रह्मण उपहरतीत्यत्र किं सकृत्वसहत्वयोरनियमः उतासहत्वमेवेति संशय्य एकप्रकारवचनत्वादेकधा शब्दस्य सकृत्वसहत्वयोरुभयोरप्येक यागाः पापतीति प्रयोगदर्शनात् तयोरुभयोरप्येक प्रकाररूपत्वादनियम इति

21

क्षं प्रापश्य सकृत्वविधाविडाप्राशित्रचतुर्धाकरणशंयुवाककालभक्षेषु कालभेदेन हरणे प्राप्ते ‘सकृद्धरति नाधिकामिति विधानादेनां क एवास्य भक्ष उपनंदनंत्र्य इति चोदकप्राप्तभक्षान्तरवाधः स्यादिति तदबाधाय महत्वरूपैकप्रकार विविरित्येकधोपहारः । ’ सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहृतत्वात्’ इति सूत्रेण बाघलक्षणे राद्वान्तितत्वेन (जै. सू. 10-1-1 ) शास्त्रान्तरबाधप्रसङ्गे सक्तिद्वयोपस्थाप्यार्थद्वयस्वीकरणस्य न्यायबहिष्ठत्वात् । एकप्रकारार्थकैकया इन्दोपस्थितयोरपि सकृत्वसहत्वयोरतिदेशप्राप्तभक्षान्तरबाधाय तस्य शब्दस्यैकार्यपरत्वस्वीकारे कैमुतिकन्यायेन शक्तिद्वयोपस्थाप्ययोरर्थयोः प्रत्यक्षश्रुत्यन्तराबवायैकार्थपरत्वस्वीकारस्योचितत्वात् । उदाहृतकर्णपर्ववचनं तु स्वाभिमत-

बाघलक्षणाघिकरणम् ः–

बाधो नाम प्रकृति संबन्धिनः पदार्थस्य विकृत्यंगत्व ग्राहक प्रमाणा नत्र: । न तु पदार्था भाषमात्रम् । प्रकृतावेव नित्ये यथाशक्ति प्रयोगे पदार्था सत्वेन बाधव्यवहारापत्तेः । नापि विकृतौ सः । नित्यविकृति प्रयोगे यथा रुक्त्यनुष्ठानस्य अंगीकृतत्वात् तत्रापि वाधव्यवहारापत्तेः ।

पशुपुरोडाशे प्राकृत पदार्थाभावेन प्रसंगेऽपि बाधत्वापत्तेः च । अस्तिचंद्र कृष्णल चरौ । प्रकृति संबन्धिनोऽवघातस्य वितुषी भाव प्रयोग लोपेन तोऽप्यति देशस्य विकृत्यङ्गत्व ग्राहकत्वा भावात् । अन्यसंबन्धिनोङ्गस्य अन्यांगत्व ग्राहक प्रमाणाभावः इति उक्तौ विकृति संबन्धिनः उपहोमादेः नति संबन्धिनः प्रयाजादेः वा ज्योतिष्टोमांगत्व ग्राहक प्रमाणा भाववत्वात् सभापत्तेः प्रकृति विकृति पदोपादानम् ।

एवंच यद्धर्मावच्छिन्नस्य यत्प्रकृति संबन्धित्व विशिष्टस्य यद्विकृतिभूत दंगत्व ग्राहक प्रमाण विषयत्वाभावः तद्धर्मावच्छिन्नस्य तत्र बाधितत्वमिति निष्कृष्टोऽर्थः । अयं च बाधः त्रिविधः । अर्थलोपात् । प्रत्याम्नानात् प्रतिषेधाच्चेति । (जै. सू. 10 – 1 – 1)

  • -22

विपरीतार्थसाधकम् । ततो रुद्रशिवशब्दस्य शुभतारूपनिमित्तमुखप्रवृत्तिकत्वा-

वसायात् ।

न च निरुपाधिकशुभत्वमादाय शक्त्यन्तरं प्रतिपादयन्तीति वाच्यम् । तथा तद्वाक्येन प्रतिपादनासिद्धेः । तथा प्रतिपादनस्यानुपपन्नत्वाच्च । न हि रुद्रनिष्ठशुभत्वस्य निरुपाधित्वमात्रेण तत्र शक्त्यन्तराभ्युपगमो युक्तः । तथा सति पाकजनितरूपसाधारणशक्त्यपेक्षया स्वाभाविके रूपे भिन्नायाः शक्ते रक्तादिशब्दानामङ्गीकारप्रसङ्गात् । निरुपाधिकत्वं च शुभत्वस्य ’ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलमिति माङ्गल्यपरमकाष्ठाप्रतिपादनेन भगवत्यप्यस्तीति निरुपाधिकशिक्त्वमुखेन शक्त्यन्तराङ्गीकारेऽपि भगवत्साधारण्यमनिवार्यम् ॥ एतेन योगेनान्यत्र प्रयुज्यमानानामीश्वरमहेश्वरेशानशब्दानामसाधारण्यं व्याख्यातमित्यप्यत एव निरस्तम् । योगेनान्यत्र प्रयुज्यमानेषु शब्देषु ’ प्रोक्षणी ’ न्यायावताराद (जै. सू. 1-4-25-28) साधारण्यस्य वक्तुमशक्यत्वात् ।

प्रोक्षण्यादिशब्दानां यौगिकताऽधिकरणम् :-

दर्शपूर्णमासयोः श्रूयते । प्रोक्षणीरासादय इति । तत्र प्रोक्षणी शब्दस्यामिमन्त्रणा सादनादि संस्कृतिः प्रवृत्ति निमित्तम् । कुतः सर्वेषु वैदिक प्रयोग प्रदेशेषु संस्कृतानामेवापां प्रोक्षणी शब्देनोच्यमानत्वात् इत्येकः पक्षः । लोके जलक्रीडायां प्रोक्षणीमिः उद्वेजिताः स्मः इत्यसंस्कृतास्वप्सु प्रयोगात् बर्द्दिरादिशब्दवज्जातौ रूढत्वात् उदकत्वजातिः प्रवृत्ति निमित्तम् ।

न च प्रकर्षेण उक्ष्यत आमिः इति योगोऽत्र शंकनीयः । रूढेः प्रबलत्वादिति पक्षांतरम् । तत्र न तावत् संस्कारो युक्तः अन्योन्याश्रयत्वात् विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्टितेषु पश्चात् संस्कृतास्वप्सु प्रोक्षणीशब्द प्रवृत्तिः । तत्प्रवृत्तौ सत्याम् प्रोक्षणी शब्देनापोऽनुचाभिमन्त्रणासिद्धिरिति । नापि जाति पक्षो युक्तः । उदक जातौ प्रोक्षणी शब्दस्य वृद्धव्यवहारे पूर्वमक्लृप्तत्वेन इतः परं शक्तेः कल्पनीयत्वात् ।

23

योगॠतु सर्वेष्वर्थेषु प्रयोगाभावनिबन्धनं हि रूढिकल्पनम् । तदुक्तं नयविवेकदीपिकायां वरदराजेन - यत्र साक्षादक्यवशतेरतिव्यापित्वात् न समुदाययोगोपपादकत्वमिति समुदायशक्तेरवश्यकल्पनया रूढतैव तत्र संप्राप्तरूढि रनपेचतया योगापहारिणीति ईशानशब्दासाधारण्यं न बादरायणाभिप्रेतमिति कुरुषसूक्तार्थविचारे वक्ष्यामः ॥

यदपि शम्भुशब्दस्य न द्रुहिणसाधारण्यं तस्य कार्यकोटीश्रवणादिति - दप्यसङ्गतम् - शिक्स्यापि कार्यकोटीश्रवणात् । तज्जननमकर्मकृतमिति चेत् दुहणजननमप्यकर्म कृतमिति किं न स्यात् । अपवादकप्रमाणाभावे जन्मनः कर्मकृतमवश्यम्भावीति चेत् तुल्यमितरत्रापि । शिवजन्मनोऽप्यकर्मकृतत्वग्राहकप्रमाणाभावात् उत्तीर्णपरमशिवविषयत्वात् न दोष इति चेत् - उत्तीर्णचतुर्मुखबेषयत्वमिति किं न स्यात् । अथर्वशिरसि शिवस्योत्तीणत्वं कथितमिति चेत् प्रजापतिर्वा एकोऽग्रे तिष्ठन् स नारमतएकस्वात्मानममिध्यायन्नि’त्युपक्रमे कालवर्तित्वेन प्रतिपादितस्य प्रजापतेरंशभूतत्वेन ’ तस्याप्रोक्ता अप्रयातनव्यो ब्रह्मा विष्णुरुद्र’ इति त्रयाणामुक्त्या मैत्रेयोपनिषदि चतुर्मुखव्याप्युत्तीर्णत्वं कथितमिति न कश्चित् विशेषोऽन्यत्रामिनिवेशात् ।

·

विष्णुपुराणे नारायणशब्दस्य चतुर्मुखामिधानत्वोक्त्या तत्साधारण्यमित्येतत् श्लोकार्थपर्यालोचनविधुराणां सदसि शोभते ।

’ नारायणाख्यो भगवान् ब्रह्मालोकपितामहः ।

उत्पन्नं प्रोच्यते विद्वन्नित्य एवोपचारतः ॥ '

इत्यस्य श्लोकस्य नारायणाख्यो भगवान् लोकपितामह ब्रह्मरूपेणोत्पन्न इत्युप-

ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति । योगस्तु व्याकरणेन क्लृप्तः । सोपसर्गात् धातोः करणेल्युट् प्रत्ययेन व्युत्पादनात् । तस्मात् प्रोक्षणीशब्दः यौगिकः । घृतादेः प्रोक्षणत्वं प्रयोजनम् । (जै. सू. 1-4-25-26)

24

चारत उच्यते । स तु नित्य एव स्वेच्छाकृत सर्वात्मकत्वार्थक नारायणशब्दस्य चतुर्मुखामिधानत्वे वाच्यत्वात् । कर्माधीनशरीरपरिग्रहस्यैव मुख्योत्पत्ति-

रूपत्वात् :

जुषन् रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्माभूत्वाऽस्य जगतो विसृष्टः सम्प्रवर्तते ॥ '

इत्याद्युत्तीर्ण मुखोक्त्यभिप्रायेणेत्यभिप्रायकत्वात् । यद्वा ।

’ ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः । अवापवैष्णवीं निद्रामेकी भूयाथ विष्णुना ॥ '

इति कौर्मवचनेन

कौर्मवचनेन खरात्रौ चतुर्मुखस्य नारायणानुप्रवेश प्रतिपादनेन नारायणाख्यान्तर्भूतत्वात् नारायणाख्य इति उच्यते । एवं विधः चतुर्मुखः प्रतिकल्पमुत्पन्न इत्युपचारतः तस्य द्विपरार्धकालावस्थायित्वेन नित्यत्वादित्यमिप्रायः ॥ एतेन कौर्मवचने नारायणाख्यत्रोक्तिरपि व्याख्याता ।

आश्वलायनस्मृतिवचनमपि भगवदनुप्रवेशनिबन्धनमेव नारायणत्वं प्रतिपादयति । अपूशयनादित्युक्तेरुदकशायि नारायणानुप्रवेशहेतुकाप्शयनप्रतिपादिकाया भगवत्यनुप्रवेशस्य नारायणाख्यान्तर्भूतत्वे हेतुप्रतिपादनाभिप्रायकत्वात् । अन्यथा जलशयनमात्रस्य मत्स्य मकरादिसाधारणस्य नारायणाख्याप्राप्तौ हेतुत्वासम्भवात् । तथोक्त्ययोगात् ’ आपो नारा’ इति वचनं तु रूढिसिद्धत्रत्कारेण योगसद्भावप्रतिपादनमुखेन योगरूढत्वप्रतिपादनपरम् । न चात्र तथात्वं सम्भवति, रूढेरसिद्धत्वात् । न तु नारायणादीनां नामान्यन्यत्रसम्भव’ इति वामनपुराणवचनविरोधप्रसङ्गाच्च । तस्मात् न देवतान्तरवाचकशब्दतुल्यत्वं नारायणशब्दस्येति निस्साधारण्यनारायणपदविधये निश्चयं यान्ति । बाघे स ब्रह्माद्याः समानप्रकरणपठिताः शङ्कितान्यार्थशब्दा इत्याचार्य सूक्तिर्निर्बाधैव । उत्तीर्णश्च शिवो गगनकुसुमायमान इत्युत्तरत्र प्रपचयिष्यते । उपबृंहितवांश्चेमामुपनिषदं भगवान् बादरायणः । सभापर्वणि

25

पुरा यः प्रलये प्राप्ते नष्टे स्थावरजङ्गमे । ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे ॥

आभूत संलवे प्राप्ते प्रलीने प्रकृतौ महान् । एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः ॥ ’ मोक्षधर्मे त्वनुस्मृतावपीदं वचनं पठितम् -

’ एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ।’

विशेषः ॥ अत्र ‘ब्रह्मादिषु प्रलीनेष्वित्यनेन ’ ब्रह्मा नेशान’ इत्यत्र सृष्टेः प्राक् चतुर्मुखाद्युत्पत्त्यभावप्रतिपादनपरत्वं पराकुर्वन् ‘न ब्रह्मा नेशान ’ इत्यं अमुपबृंहितवान् । ’ एकस्तिष्ठति विश्वात्मे’ त्यनेनासीदित्यस्योत्पत्त्यर्यकत्वमङ्गी-

तो जिह्वाच्छित्वा विद्यमानार्थकत्वं व्यवस्थापयन् ‘एको ह वै नारायण आसीदित्यं शमुपबृंहितवान् । एवं च सकलमहाजनपरिगृहीतमहाभारताचुपबृंहणोपोद्बलितया विशेषशब्दमूर्धन्यनारायणशब्दघटितया सर्वेतरव्यवच्छेदेन जगत्अरणतां भगवतीं प्रतिष्ठापयन्त्या अनया महोपनिषदा भगवानेव परंब्रह्मेति नेिष्यतीति सर्व समञ्जसम् ॥

नारायणोपनिषदपि भगवतः सर्वजगत्कारणत्वे प्रमाणम् ।

• नारायणात् ब्रह्मा जायते । नारायणाद् रुद्रो जायते । नारायणादिन्द्रो नायते । नारायणात् द्वादशादित्या रुद्राः सर्वदेवताः सर्वाणि भूतानि नारायणादेव समुत्पद्यन्त इति सर्वजगत्कारणत्वस्य तत्र प्रतिपादनात् ’ ॥

यत्त्वल्पेन जल्पितं परमशिवादुत्पन्नस्य नारायणस्य सर्वजगत्कारणत्वस्य नकलप्रपञ्चसर्गकारित्वप्रतिपादनपरत्वेनान्यथासिद्धत्वात् नेयमुपनिषन्मूलकारणतां प्रतिपादयितुं शक्नोतीति, तदपि तुच्छम् ’ यतो वा इमानि भूतानि बायन्ते येन जातानि जीवन्ति, यठप्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासख,

ब्रह्म’ इति ’ जन्माद्यस्य यत’ इति च श्रुतिसूत्राभ्यां ब्रह्मलक्षणकथनपराभ्यां प्रतिपादितस्य जन्मादिकारणत्वस्य ’ नारायणादेव सर्वाणि भूतानि

}

26

समुत्पद्यन्ते, नारायणे प्रलीयन्त ’ इति वाक्येन नारायणनिष्ठत्वप्रतिपादनेन तदतिरिक्तकल्पना प्रतिरोधात् ।

ननु तत्र जन्मादित्रितयकारणत्त्रस्य समुदायस्य लक्षणत्वं कथितम् । अत्र तु नारायणेन त्रितयकारणत्वमभिहितम् । किं तु सृष्टिलयकारणत्वमेव ‘सर्वाणि भूतानि समुत्पद्यन्ते, नारायणे प्रलीयन्त ’ इत्येतावन्मात्त्रोक्तेः । अतो न नारायणनिष्ठत्वं ब्रह्मलक्षणस्यानया श्रुत्या प्रतिपाद्यत इति चेत् न । जन्मादीनां प्रत्येकमेव लक्षणत्वात् व्यावृत्या प्रसिध्या समुदायस्य लक्षणत्वासम्भवात् । ’ चेष्टेन्द्रियार्थाश्रयः शरीरम् ’ ( न्यायसूत्रम् १ - १ ) इत्यादाविव बहुलक्षणकथनस्य शिष्यवैशद्यार्थत्वात् । समुदितकारणत्वस्य लक्षणत्वपक्षेऽपि जन्मकारणत्वस्य लक्षणचेऽभिहिते स्थिते प्रलयकारणीभूतवस्त्वन्तरशङ्का स्यादिति तद्वारणाय समुदायस्य लक्षणत्रं किमित्युक्तत्वेन प्रत्येकं वस्तुगत्या तेषां जन्मादिनामतिप्रसक्तत्वाभावेन सृष्टिलयकारणत्वोक्तितमात्रेण नारायणस्य ब्रह्मत्वनिर्णयसम्भवात्। उक्तं चाचार्य पादैः ‘प्रत्येकं उक्षणत्वं सुवचनमिह - बहुदा तिर्भीमहिने सम्भूयाप्यारेके । फलमपि च तदाशङ्कितार्थव्युदास’ इति ।

किंघ ’ नित्यो वेद ’ ’ एको नारायण’ इति नित्यत्वप्रतिपादनं न स्वरूपनित्यत्वाभिप्रायकम् । तत्र सर्वात्मसाधारण्येन तत्प्रतिपादनस्यानर्थक्यात् ‘एको नारायण’ इति इतरव्यवच्छेदेन प्रतिपादनस्यासङ्गतत्वापाताच्च । तस्मात् विग्रहविशिष्टवेषेणप्रलयकालावस्थानाभिप्रायकमिति तस्यान्यत उत्पन्नत्वोत्प्रेक्षाया असम्भवात् तस्य मूलकारणत्वमेव वेदयतीति न कश्चित् क्षुद्रोपद्रवः ।

एवं सौबालोपनिषदपि भगवतस्सर्वोत्कर्ष ख्यापयति । तदाडु: किं तदासीत् तस्मै सहोवाच न सन्नासन्न सदसदिति तस्मात् तमः सञ्जायते, तमसो भूतादिः, भूतादेराकरां आकाशाद्वायुः वायोरग्निः, अग्नेरापः, अद्द्भ्यः पृथिवी, तदण्डं समभवदिति जगत्सृष्टिमूलकारणत्वेन, ‘पृथिव्यप्सु प्रलीयते, आपस्तेजसि लीयन्ते, तेजो वायौ लीयते, वायुराकाशे लीयते, आकाश-

,

27

केन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते, भूतादिः बहन लीयते, महानव्य के लीयते, अव्यक्तमक्षरे लीयते, अक्षरं तमसि संवते, तम एकीभवति परास्तान सन्नासन्न सदसदिति लयपर्यवसानमेचेन चोक्तस्य समदृष्टिव्यष्टिचेतनाचेतनोभयविलक्षणस्य परमात्मनो ‘नैवेह केच नाग्र आसीत् अमूलमनाधारा इमाः प्रजाः प्रजायन्ते, दिव्यो देव को नारायण’ इत्युक्त्या नारायणत्वस्फुटीकरणात् । ‘चक्षुरध्यात्मद्रष्टव्यम्, अधिभूतमादित्यः तत्राधिदैवतं नाडीतेषां निबन्धनम्, यश्चक्षुषी यो द्रष्टव्ये बादित्ये यो नास्यां वः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य तस्मिन् सर्वस्मिन्नन्तरे सञ्चरति सोऽयमात्मा तमात्मानमुपासीत जरमजर स्मृतमभयमनन्तमित्यारभ्य ’ एष सर्वज्ञ एष सर्वेश्वर एषोऽधिपतिः एषोऽन्तर्यामीत्यन्तेन ‘चक्षुर्दष्टव्य नासा घ्रातव्य जिल्हा रसयितव्याद्यन्तर्यामित्वेन वर्णेतस्यात्मनः चक्षुश्च द्रष्टव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो बेह्वा च रसयितव्यं च नारायणः त्वक् च स्पर्शयितव्यं च नारायणो मनश्च न्तव्यं च नारायणो बुद्धिश्च बोद्धव्यं च नारायणोऽहङ्कारश्चाहं कर्तव्यं च चरायणश्च चित्तं च चेतयितव्यं च नारायण’ इत्यादि नारायणत्वाविष्करऋच । जगत्कारणत्वान्तर्यामित्वे हि परब्रह्मण्येव ; नान्यत्रेति ‘जन्माद्यस्य यतः ’’ अन्तर्याम्यधिदैवा घिलोकादिषु तद्धर्मव्यपदेशादि ति ( ब्र. सू. 1-2-18) सूत्राभ्यां भगवता बादरायणेन स्फुटीकृतम् । अतस्तयोनारायणनिष्ठत्वोक्त्या नारायणस्य परब्रह्मत्वसिद्धिः ।

न च चक्षुर्द्रष्टव्याद्यन्तर्यामित्वोक्तिमात्रात् नारायणस्य न सर्वान्तर्यामित्वं मष्यतीति वाच्यम् । चक्षुर्दष्टव्याद्यन्तर्यामिण एव यश्चक्षुषि योद्रष्टव्यो य आदित्ये यो नाड्यां यः प्राणो यो विज्ञाने य आनन्दो यो हृद्याकाशे य मस्मिन् सर्वस्मिन्नन्तरे सञ्चरतीत्यत्र सर्वान्तर्वर्तित्वोक्ते ‘चक्षुश्च द्रष्टव्वं च सरायण’ इत्यादिवाक्योपात्तद्रष्टव्यत्व घातव्यत्व रसयितव्यत्व मन्तव्यत्वबोधन्यत्वाहंकर्तव्यत्वचेतयितव्यत्ववक्तव्यत्वादिधर्मानाक्रान्तस्य पदार्थान्तरस्याभावाच्च ।

• क्रुणोऽर्यमाचन्द्रमाः कालाः कलिर्धाता ब्रह्मा प्रजापतिः मासाश्च दिवसा श्वार्ध-

28

दिवसाच कालाः कालाश्च महाकल्पाश्चाधश्चोर्ध्व च दिशश्च नारायणः पुरुष

" इत्यत्र एष सर्वभूतान्तरात्मा अपहत-

य एवेदं सर्वं यद्भूतं यच्च भव्यं ’ पाप्मादिव्यो देव एको नारायण ’ प्रतिपादनाच्च ॥

इत्यत्र च सर्वान्तर्यामित्वस्य कण्ठरवेण

यदाह कश्चित् शिवादित्यमणिदीपिकायाम् सुबालोपनिषदुपक्रमे ’ तदाहुः किं तदासीदिति प्रश्नपूर्वकं निर्विकल्पकं परमात्मखरूपं प्रथममासीत्, ततस्तमः, तमो भूतादिः, तत आकाशादिक्रमेण भूतपञ्चकं तेन ब्रह्माण्डमुत्पादितं तन्मध्ये दिव्यः सहस्रशीर्षः सहस्राक्षः सहस्रपात् सहस्रबाहुः पुरुषो जात इत्युक्तवा . ’ ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृत’ इत्यादिना पुरुषसूक्तप्रक्रियया तस्य मुखादिभ्यो ब्राह्मणादीनां हृदयाद्यक्यत्रान्तरेभ्योऽन्येषां च केषांचित् चेतनाचेतनानामुत्पत्तिं ललाटात् क्रोधजस्य रुद्रस्य निश्वासेभ्यो वेदादिशब्दजालस्य प्रादुर्भावं चाभिधाय तस्मादेवार्धेन स्त्रीभावं अर्धेन पुरुषभावं च प्राप्तात् वेदऋषियक्षराक्षसादीनां तिरश्चां च तत्तज्जन्मोचितस्त्रीपुंसविग्रहपरिग्रहेण मिथुनीभावमुत्पन्नादुत्पत्तिं वर्णयित्वा उपसंहारकाले तेन क्रियमाणं त्रैलोक्यभस्मीभावमुपक्रम्य ‘पृथिव्यप्सु लीयत’ इत्यादिना ‘तम एकीभवती’ इत्यन्तेन पृथिव्यादेः प्रथमकार्यतमः पर्यन्तस्य प्रपञ्चस्य परमात्मनिलयो दर्शितः ।

'

एवं तावत् सुबालोपनिषदि प्रथमानुशासने जगदादिकारणभूतपरमात्मा तेन ब्रह्माण्डमध्ये सृष्टः । तन्मध्यस्थित देवमनुष्याद्यवान्तरसृष्टिसंहारकारी सहस्रशीर्षत्वादिविशिष्टपुरुषश्चेति द्वौवर्णितौ । तत्र तदण्डं हिरण्मयं सम्भवतीति प्रकृत्य ’ तन्मध्ये दिव्य सहस्रशीर्ष सहस्राक्षः सहस्रपात् सहस्रबाहुः पुरुषो जायत’ इति ब्रह्माण्डमध्ये परमात्मना सृष्टो यः पुरुषो वर्णितः, तमेत्र ब्राह्मणादिसकलप्रजास्रष्टारं दिव्यपुरुष ’ नैवेह किंचना आसीत् अमूलमनाधार इमाः प्रजाः प्रजायन्त’ इति प्रवृत्ते तृतीयानुशासने ‘दिव्यो देव एको नारायण’ इति प्रस्तुत्य ’ चक्षुश्च द्रष्टव्यं च नारायण इत्यादिना तस्य सर्वोपादानत्वप्रयुक्तं सार्वात्म्यमुक्त्वा, तस्यैव चतुर्थानुशासने ’ यस्य पृथिवी शरीरमित्यादिना ’ स एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो

29

देव एको नारायण’ इत्यन्तेन सर्वान्तर्यामित्वमुक्तम् । न च तत्परमात्मसृज्यत्वेन दिवि परमाकाशरूपायां चिच्छक्तौ भवत्वेन च प्रकृतस्य महाजलौघमध्यसृष्टं ब्रह्माण्डरूपगर्भगोलकमध्यनिवासलब्धनारायणसंज्ञस्य स्वरूपेणोपपद्यते । बतः परमात्मामेददृष्ट्या तदुपपादनीयमिति सुबालोपनिषदोऽपि नारायणतत्त्व स्व विश्रान्तिरिति ।

अत्रोच्यते अस्या उपनिषदो न भगवदतिरिक्तपर्यवसायित्वं वक्तुं शक्यम् । तस्मात् ’ तमः सञ्जायते, अव्यक्तमक्षरे लीयते, अक्षरं तमसि यते तम एकीभवतीत्यत्र परमकारणीभूतत्रस्तुजन्यत्वेनावगतस्य तमसो ’ यस्य मृत्युः शरीरं, यो मृत्युमन्तरे सञ्चरन् यं मृत्युं न वेद, स एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण’ इति वाक्येन नारायणशरीरत्वावगमात् । मृत्युशब्दो हि ’ व्यक्तं शरीरं यस्याक्षरं शरीरमित्यनन्तरं ’ यस्य मृत्युः शरीरमित्याम्नानेन स्थानप्रमाणेन तमोषाचकः ‘तमो

इदमेकमास तत्परेणेरितं विषमत्वं प्रयातीति वाक्यपर्यालोचनया गुणसाम्याबस्था । प्रकृतेरेव तमः शब्दार्थत्वेन तस्याजन्यत्वायोगेन तमः सञ्जायत इत्यस्य गुणवैषम्यावस्थायोग्यतापादकात्यन्तलीनत्वावस्था त्यागमात्रपरत्वात् । तादृशतशरीरप्रेरणा देवोत्तरभाविगुणवैषम्यावस्थाया उत्पत्तेर्युक्तत्वेन नारायणैकनिष्ठत्वस्य सुटतरं प्रतीयमानत्वात् ।

यदपि मध्यसृष्ट पुरुष एव ’ नैवेह किंचन अग्र’ इत्यादितृतीया - अनुशासने ‘दिव्योदेव एको नारायण’ इति प्रतिपाद्यत इति तदसमञ्जसम् । इथमखण्डे देवाद्यवान्तरसृष्टिकर्तृमध्ये प्रतिपादनेऽपि ’ नैवेह किंचनाप्र बासीदित्यस्य ’ तदाहुः किं तदासीत् न सन्नसन् न सदसदिति वाक्यै - अर्थ्याय कारणविषयत्वावश्यम्भावात् । तथा हि सन् असन् न सदसदि’ त्यस्य

वास्त्परमकारणत्वपरमभ्युपगन्तव्यम् । तस्मात् ’ तमस्सञ्जायत

तमस्सञ्जायत’ इत्यायुत्तरक्यानुसारात् । न हि तद्वाक्यस्य सदादिशब्दवाच्यनिषेधमात्रपर्यवसायित्वे तस्मादित्यादिवाक्यं सङ्गच्छते ; अभावस्य प्रपञ्चकारणत्वाभावात् । अत: चेतनाचेतनतदुभयमिश्रव्यष्टिपदार्येभ्यश्च विलक्षणव्रह्मनञ् पर्युदासलक्षणां ‘नार्षेयं

30

प्रणीत’ इत्यादाविवाङ्गीकृत्य ‘न सन् नासदिति वाक्ये प्रतिपाद्यते । तत्र ’ सर्व वाक्यं सावधारणमिति न्यायेन ब्रह्ममात्रसत्वप्रतिपादनादितरचेतनाचेतनप्रपञ्चनिषेधो ऽप्यर्थसिद्धः । एवं तद्वाक्यसिद्धप्रपञ्चनिषेधानुवादकस्य

" नैवेह किंचनाग्र आसीदित्यस्यापि तत्र कारणीभूते विशेषविधानप्रवृत्तत्वमवश्याभ्युपेयम् । अन्यथा तद्वाक्यसिद्धप्रपञ्चनिषेधानुवादमात्रस्यानर्थक्यापातात् । तस्मात् ‘न सन्नासदिति वाक्यप्रतिपाद्यमाने ब्रह्मणि नारायणत्वरूपविशेषविधानार्थं प्रवृत्तमिदं वाक्यमिति तस्य मध्ये सङ्कीर्त्यमानवस्त्वन्तरपरत्वमयुक्तम् ।

मनु ’ दिव्यो देव एको नारायण’ इत्यस्य

" अमूलमनाधार इमाः प्रजाः प्रजायन्त ’ इत्यनन्तर मानानेन विपरिणामेन सन्निहितजनिकियाया एव सम्बन्धात् नारायणस्य जनिमत्वप्रतिपादकमेव तदिति चेत् न । किं कालविशेषे नारायणस्य जनिमत्वं तेन प्रतिपाद्यते ? किं वा जनिमत्वमात्रम् ! नान्स्यः । ’ नैवेह किंचनाग्र आसीदित्यनुवादानर्थक्यापातात् । नायः । ’ तदण्डं सम्भवन्मध्ये सहस्रशीर्षेत्यादिवाक्ये नारायणस्योत्पत्तिः प्रतिपाद्यत इत्यङ्गीकुर्यतात्वया सृष्टयग्रिमकाले नारायणोत्पत्तेः वक्तुमशक्यत्वात् । अन्यथा प्रथमखण्डस्य वाक्यविरोधापत्तेः । अण्डसृष्टयनन्तरोत्पत्तेः तद्वाचकपदाभावेन वक्तुमशक्यत्वात् । तद्वाचकपदाध्याहारेऽपि ’ नैवेही ‘त्यादिवाक्यानर्थक्यस्य दुर्वारत्वात् । तस्मात् चेतनाचेतनविलक्षणतया प्रतिपादित ब्रह्मकोदेव इति विशये तदाकाङ्क्षापरिपूरणाय देवतानिर्धारणार्थत्वेन ’ नैवेही’ स्यादिवाक्यं प्रवृत्तमित्याकाङ्क्षानुरोघेनासीदिति पदस्यैवाध्याहारो युक्तः । न च कीर्त्यमानः पुरुषः क इत्यप्याकाङ्क्षाऽस्तीति वाच्यम् । प्रधानभूतपरमकारणविषयकविशेषाकाङ्क्षापरिपूरकत्वस्यैव प्रधानाप्रधानयोः ‘प्रधाने कार्यसम्प्रत्यय’ इति न्यायेन वक्तुं युक्तत्वात् । उक्तं च वार्तिककृता कात्यायनेन ’ प्रधाने कार्य सम्प्रत्ययात् सिद्धमिति ।

किं च जनिक्रियानुषङ्गपक्षेऽपि जननापादनवाचकपदाध्याहारोवर्जनीयः । प्रत्युतकल्प्योपस्थितिकपदाध्याहारस्त्वत्पक्षे । मत्पक्षे तु नैवेहे ‘स्यत्राव्यवधानेन

31

श्रुतस्यासीदित्यस्याध्याहारः । अपि च त्वत्पक्षे विपरिणामाध्याहारौ द्वावपि वाच्यौ । मत्पक्षेत्यध्याहार एक एवेत्यपि विशेषः । तस्मात् ’ नैवेहे’ त्यत्र कारणस्य नारायणत्वं निर्धार्य इत्येवं वक्तुं युक्तम् ।

नन्वेवमस्य नारायणपरमकारणत्वतात्पर्यत्वेऽण्डसृष्टयनन्तरं नारायणपरनयाऽभिमतपुरुषसूक्तश्रुत ‘सहस्रशीर्ष’ त्वादिविशिष्टपुरुष कीर्तनं कथं घटेतेतिचेत् न । ’ उतामृतत्वस्येशान’ इति ईशानपद श्रुतिः रूढया शिवमुत्थाप्य सूक्तं नयति तद्वशमितित्वयाऽप्यस्य सूक्तस्य परमशिवपरत्वाङ्गीकारेणानुयोगस्य तुल्यऋत् । ’ नतु मध्ये पुरुषो दिव्य’ इत्युक्तिमात्रात् न सहस्रशीर्षत्वादि विशिष्टपुरुषस्योत्पत्तिः प्रत्येतुं शक्या । मध्ये तस्य स्थितत्वपरत्वेनापि तद्वर्ण नोपपत्तेरिति चेत् न । तुल्यत्वात् ॥ ननु पुरुषसूक्तस्य निमित्तभूत’रमशिवातिरिक्तचिच्छक्त्यंशजगदुपादानभूतनारायणपरत्वपक्षे मध्ये कीर्तनमुपश्चत इति चेत् - न । उपादानकारणभूतस्य नारायणस्य पृथिव्यण्डसृष्टयनन्तरसृष्टत्वायोगेनानुपपत्तेरकल्पत्वात् ।

यदपि ’ चक्षुर्दष्टव्यंचे त्यादौ सर्वोपादनत्वप्रयुक्तं सार्वात्म्यं प्रतिपाद्यत इति तदप्यनुपपन्नम् । ‘यश्चक्षुषी यो द्रष्टव्ये यो नाड्यां यो प्रातव्य’ इत्यादिषु प्रतिपर्यायं ’ एतस्मिन् सर्वस्मिन्नन्तरे संचरति सोऽयमात्मातमात्मा नमुपासीते’ स्वन्तर्यामितयोक्तस्य वस्तुनो विशेषनिर्धारणाकाङ्क्षायाः सत्त्वेनोत्तरखण्डस्थितस्य चक्षुश्च द्रष्टव्यं चेत्यादेरन्तर्यामित्वनिबन्धनः सर्वात्मप्रतिपादनपरत्वस्यैव स्वरसत्वात् । ‘सिंहवनगुप्ति न्यायेनानेन पूर्ववाक्यप्रतिपन्ने नारायणत्व सद्वाक्यप्रतिपाद्यमानसार्षात्म्यान्तर्यामित्वनिबन्धनत्वस्य च वाक्यद्वयपर्यालोचनया ज्ञातुं शक्यत्वात् । किं चैतदुत्तरखण्डे ’ अन्तश्शरीरे निहितो गुहायामज एको नित्यो यस्य पृथिवी शरीरमित्यारम्भ ’ एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण’ इत्यन्तेन सन्दर्भेण कारणकार्योभयात्मककृत्स्नवस्त्वन्तर्यामित्वप्रतिपादनात् नारायणशब्दार्थस्य विशिष्यान्तर्यामित्वस्य बुद्ध्यारूढत्वात् नोपादानत्वनिबन्धनमेत्र सार्वात्म्यमिति वक्तुं युक्तम् । अपि32

एकविज्ञानेन

चोपादानत्वप्रयुक्तत्वेऽपि नारायणस्य ब्रह्मात्मत्वमनिवार्यम् । सर्वविज्ञानप्रतिज्ञादिमिरुपादानातिरिक्त निमित्ताङ्गीकारासम्भवात् । विस्तरस्तु भाष्य विस्तरश्रुतप्रकाशिकयोरनुसन्धेयः ।

66

परमात्मसृज्यस्यान्तर्यामित्वं न सम्भवतीत्यनुपपन्नम् । नारायणस्य स्वातिरिक्तसृज्यत्वग्राहकप्रमाणासिद्धेः । दिव्यविशेषणव्यावृत्त्यादिवि परमाकाशरूपायां चिच्छक्तौ भवत्वेन प्रकृतस्य नान्तर्यामित्वस्वरूपेण सम्भवतीत्यपि तत्तुच्छम् । यथा नद्यः स्यन्दमानाः समुद्रे स तं गच्छन्ति “ नामरूपे विहाय तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैतिदिव्यं दिव्योमूर्तः पुरुष’ इत्यादीनामपि परमात्मपरत्वाभावापत्तेः । ’ तत्र जातस्तत्र भव’ इति पृथगधिकारात् कर्णललाटात् कर्णालङ्कार इत्यादौ तत्रोत्पत्तिशून्येऽपि भावार्थकन् - प्रत्ययाङ्गीकारेण तस्योत्पत्त्यर्थकत्वासम्भवात् । वस्तुतः शैषिकस्यास्य प्रत्ययस्य भावार्थजातार्थयोराहत्य विधानभावादर्थान्तरेण सावकाशत्वाच्च ।

दिव्यशब्दस्य परमाकाशवर्तित्वपरत्वान्महाजलौघमध्यसृष्टब्रह्माण्डगर्भगोलकमध्यनिवासलब्धनारायणसंज्ञस्य परमात्मत्वं न सम्भवतीत्यप्यज्ञानविजृम्भिविकल्पासहत्वात् । तथा हि किं नारायणशब्दयोगार्थपर्यालोचनया उदकान्तर्वर्तित्वमात्रात्रगमात् कृत्स्नान्तर्यामित्वं नास्तीत्यभिमतम्, अथवा नारायणसंज्ञाया अनन्तरभावित्वात् तत्संक्षितस्तस्य तत्प्रागभावपदार्थान्तर्याभित्वं न संभवतीत्यभिमतम् । नाधः । उदकान्तर्वर्तित्वप्रतिपादनस्य तदितरान्तर्वर्तित्वाभावपर्यन्ततात्पर्यकत्वाभावात् । अन्तर्यामित्वब्राह्मणे - (बृ. उ. 8-7-4 ) योऽस्सु तिष्ठन्’ इत्युदकान्तर्वर्तित्वेन प्रतिपादितस्यैव कृत्स्नान्तर्यामित्वावेदनात् ।

"

‘नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।

तान्येव चायनं तस्य तेन नारायणस्मृतः ॥ '

इत्यादिशाखबलात् सर्वान्तर्यामित्वस्य नारायणशब्दार्थत्वावगमाच्च । न द्वितीयः संज्ञाया अनन्तरभावित्वासिद्धेः । योगार्थस्यैव ह्यनन्तरभावित्वम् । न च तावता

33

मंज्ञाया अनन्तरभावित्वं कदाचित्तत्सम्बन्धमादाय शब्दप्रवृत्तेः सर्वदापि सम्भवात् । पूर्वकल्पसम्बन्धिनारस्थितिमादाय सर्गादावपि नारायणशब्दप्रवृत्तिनम्मवाच्च । संज्ञाया अनन्तभावस्य संज्ञिनस्तत्पूर्वभाविपदार्थान्तर्यामित्वाबाधकत्वाच्च । न चानन्तरभाविन्या संज्ञिया तत्पूर्वभाविपदार्थान्तर्वर्तिनः कथं निर्देश इति श्रच्यम् । निर्देशदशायां संज्ञाया उपस्थिति मात्रस्य तत्र तन्त्रवत्, न हि मंज्ञायाः प्रतिपाद्यमानपदार्थप्रागभावोऽपि संज्ञिनि देशे तन्त्रम्, कस्मिंश्चिदर्थे मङ्केतितेन शब्देन सङ्केतात्प्रागभाविनोऽर्थस्य पश्चात् निर्दिश्य प्रतिपादनामम्भवप्रसङ्गात् । तस्मात् नारायणस्य सर्वान्तर्यामित्वे न किंचित् बाधकमिति सर्वान्तर्यामित्व सर्वकारणत्यादिप्रतिपादनमुखेन नारायणस्य सर्वोत्कर्ष प्रख्यापनैकतानेयं सुबालोपनिषदिति सर्वमवदातम् ।

उपबृंहिता चेयमुपनिषत् भगवतामनुना स्वप्रणीते धर्मशास्त्रे

( म. स्मृ. 1-5 )

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥

ततस्वयम्भूर्भगवानव्यक्तोव्यंजयन्निदम् । महाभूतादिवृत्तौजः प्रादुरासीत् तमोनुदः ॥

योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तरसनातनः । सर्वभूतमयोऽचिन्त्यः स एषः स्वयमुद्बभौ ॥

सोऽमिध्याय शरीरात्खात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् ॥

तदण्डमभवत् हेमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥

आपो नारा इति प्रोका आपो वै नरसूनवः । तायदस्यानं पूर्व तेन नारायणस्स्मृतः ॥

34

यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥

इतीयं सप्तश्लोकी श्रुतप्रकाशिकायां व्यासाचार्यैर्व्याख्याता ।

अयं हि तद्द्मन्यः [ स्मृत्यधिकरणे - 2-1-1 ] " धर्मान् नो वक्तुमर्हसीति मुनिमि: पृष्टो भगवान् मनुधर्मान्विवक्षन् भगवदाराधनरूपस्य वर्णाश्रमधर्मस्याराध्यज्ञानसापेक्षत्वात् प्रथममाराध्य स्वरूपमाह - आसीदिदमित्यादिसप्तभिः श्लोकैः । तत्र परमकारणभूतस्यैव सर्वतादात्म्यसम्भवादग्नीन्द्रादिसर्वदेवतातादात्म्योपपत्त्यर्थ ‘यतो वा इमानी स्वापनुसारेण लक्षणं विवक्षन् भगवतः परमकारणत्वं वक्तुं वेदा-तेषु सृष्टेः प्रलयपूर्वकत्वेन प्रतिपादितत्वात् प्रथमं प्रलयदशामाह – आसीदिति । अत्र सुबालोपनिषदर्थे भगवता मनुनाऽनुसन्धीयते । अतस्सुबालोपनिषदुक्तप्रकारेणात्र प्रलय उच्यते । तत्र हि ’ पृथिव्यप्सु प्रलीयत’ इत्यादिना पृथिव्यादिक्रमेण तमः पर्यन्तप्रलय उक्तः । तमाह इदं तमोभूतमासीदिति । तत्न पृथिव्यादीनां स्वकारणेषु लयो वैयधिकरण्येन प्रतिपादितः ।

’ तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् ।

आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ '

इति प्रक्रिया सत्कार्यवादकाष्ठामभिप्रेत्य सामानाधिकरण्येनेदं तमो भूतमित्युक्तम् । तमोभूतं – तमोभाववत् । तमोऽत्रस्थमासीदित्यर्थः । तमसि लीयत इति निर्देशस्यायमर्थ इत्यभिप्रायः । यथाह भगवान् [ बादरायणपिता ] पराशरः ’ अम्न्यत्रस्थे च सलिले वाम्यवस्थे च तेजसी’ति । तमोऽवस्थस्य कारणस्य योग्यानुपलब्धिनिरस्तत्वशङ्काव्यावृत्त्यर्थमाहअप्रज्ञातमिति । प्रकृष्टं ज्ञानं - अपरोक्षज्ञानम् । तेन विषयीकर्तुमशक्यमित्यर्थः । अयोग्यत्वादनुपलब्धिः । तस्मात् न योग्यानुपलब्धिरित्यभिप्रायः । अयोग्यत्वमुपपादयतिअलक्षणमिति ।

’ शब्दस्पर्शविहीनं तद्रूपादिमिरसंहितम् '

इत्युक्तप्रकारेण रूपादिलक्षणरहितत्वात् प्रत्यक्षयितुमयोग्यमित्यर्थः । कार्येषु

I

35

रूपादिमत्त्वदर्शनात् कारणेनापि रूपादिविशेषगुणवता भाव्यम् । अतो न क्योक्तकारणमुपपद्यत इत्यत्राह - अप्रतर्क्यमिति । प्रतर्क:बाह्यतर्कः । तदगोचरमूनं, ते तर्काः कालात्ययापदिष्टा इति भावः । यद्वा अप्रज्ञातमिति । प्रत्यक्षागोचरत्वस्योक्तत्वादप्रतयमित्यनुमानागोचरत्वमुक्तं स्यात् । ’ तम एकी भवती ‘ति अन्योक्तमविभागावस्यत्वं तमसो दर्शयतिअविज्ञेयमिति । विज्ञानं विभागेन मनम् । परस्मात् ब्रह्मणः पृथग्व्यपदेशानर्हावस्थां क्षीरे नीरमिव प्राप्तमित्यर्थः । स्वरूपैक्याशङ्कापरिहारार्थमाह प्रसुप्तमिव सर्वत इति । यथा सुषुप्तौ जीवस्य रमात्मन: पृथग्व्यवहारानर्हावस्थापत्तिरेव । न तु स्वरूपैक्यम् । एवं चिदचिदात्मकस्य जगतो ब्रह्मणि पृथग्व्यवहारानर्हसंसर्ग एव न स्वरूपैक्यमित्यर्थः । सुषुप्तौ सर्वथा साम्यव्यावृत्त्यर्थं सर्वत इति पदम् । यद्वा पूर्वमचिदंशप्रलयप्रकारउक्तः । ’ प्रसुप्तमिव सर्वत’ इति तु चिदंशप्रलयप्रकार उक्तः । तत इति । नमः - सर्गकाले प्राप्त इत्यर्थः । ’ सम्प्राप्ते सर्गकाले व्ययाव्ययावितिवत् । स्गक्तः कारणान्तरसद्भावकृतोत्पत्तिप्रलयव्यावृत्त्यर्थमाह - स्वयम्भूरिति । परमकमणविषयो हि स्वयम्भूशब्दोऽवयवार्थपौष्कल्यात् नारायणपरो दृष्टः । यथा नमापर्वणि

:-

अव्यक्तोऽव्यक्तलिङ्गस्थो य एष भगवान् प्रभुः ।

पुरा नारायणो देवः स्वयम्भूः प्रपितामहः || '

इत्यारभ्य ’ ततत्स भगवांस्तोये ब्रह्माणमसृजत् स्वयम्’ इति । मोक्षधर्मे च-

• नारायणो जगन्मूर्तिरि त्यारभ्य |

’ ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ।

तस्मात् पद्मात् समभवत् ब्रह्मावेदमयो निधिः || '

ते । आश्वमेधिके च ’ विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः’ इति च । अतोऽयं स्वयम्भूशब्दो नारायणविषयः । चतुर्मुखस्रष्टिरि प्रयुक्तत्वात् । प्रबन्धान्तरवचनैस्तत्प्रकरणानुगुण्यात् भगवच्छन्दसामानाधिकरण्याच्च । देवताविशेषनिर्णयार्थ कारणत्वोपयोगिगुणपौष्कल्यज्ञापनार्थं चाह - भगवानिति ।

36

’ तत्र पूज्यपदार्थोकि परिभाषासमन्वितः ।

शब्दोऽयं नोपचारेणान्यत्र ह्युपचारतः ॥ '

इति वचनात् । इदं व्यञ्जयन व्यष्टिरूपकार्यजातं व्यञ्जयितुम् । ‘लक्षण हेत्वोः क्रियाया’ इति शतृप्रत्ययः । महाभूतादिवृत्तौजाः - व्यष्टिकारणानि पृथिव्यादीनि महाभूतानि । आदिशब्देन तत्कारणभूतमहदहङ्कारौ गृह्येते । तेषु प्रवृत्तसङ्कल्पज्ञानरूपतेजाः । तदर्थमव्यक्तः प्रादुरासीत् । अर्श आद्यजन्तत्वात् पुलिङ्गता । अत्राक्षरावस्याप्यर्थसिद्धा । ‘महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयत’ इति हि क्रमः । पूर्वमविभक्ततमश्शरीरको भगवान् व्यष्टिसृष्टिहेतुभूततन्मात्राहङ्कारसृष्टपर्थं खसङ्कल्पाद्विभक्ततमश्शरीरकोऽयायवस्थाप्राप्तिपूर्वकमव्यक्तावस्थप्रकृतिशरीरको ऽभूदित्यर्थः । अव्यक्तशब्दमपि विवृण्वन् समष्टिव्यष्टिसृष्टिमनन्तरवर्तिनीं सङ्क्षेपेणाह - योऽसाविति । अतीन्द्रियप्रायः - इन्द्रियमतीत्यवर्तमानेन शास्त्रेणैव ग्राह्यः । यद्वा इन्द्रियग्राह्यानतीत्यवर्तमानः । इन्द्रियग्राह्मानतीत्य वर्तमानत्वं तुच्छस्याप्यस्तीति तद्व्यावृत्त्यर्थमाह -

1 अत एवाव्यक्तः न तुच्छतेत्यर्थः । सनातनः - अव्यक्तशरीरकत्वे-

विमान इमर्थः । स एष इति कार्यकारणयोरेकद्रव्यत्वं तम् । समेन कारणं कार्य चेत् निमित्तान्तरापेक्षा स्यादित्यवाह - सयमिति । सुत्कुखादी निमित्तोपादानयोर्भेददर्शनादेकस्यैव निमित्तोपादानत्वेऽनुपपन्ने इत्यत्राह - अचिन्त्य इति । बाह्यतर्काः श्रुतिनिरस्ता इति भावः । सर्वभूतमय उद्बभौ - सर्वसमष्टिव्यष्टिरूप उद्बभौ । कार्यकारणयोरेकद्रव्यत्वे कार्यकारणवैषम्यं किमित्यत्राह - उद्बभाविति । पदाभ्यां सूक्ष्मत्वस्थूलत्वे एव कार्यकारणदशावैषम्यम् । न तु द्रव्यमेद इत्युक्तं भवति । एवं सङ्क्षेपेण समष्टिव्यष्टिसृष्टिमुक्त्वा समष्टिसृष्टिं पृथगाह - सोऽमिध्याय इति । अमिध्यानं सङ्कल्पः । स्वरूपेणैव समष्टिव्यष्टिरूपेण परिणतश्चेत् भगवच्छन्दोक्तनिर्दोपत्वादिविरोध इत्यत्राह शरीरात्स्वादिति । शरीरशब्देन तमोऽव्यक्तावचित्संसृष्टं अचिद्वस्तुच्यते । सिसृक्षुर्विविधाः प्रजाः - व्यष्टिसिसृक्षयेत्यर्थः । अप एव ससर्जादौ - अपच्छब्दोऽण्डकारणसमस्ततत्त्वप्रदर्शनार्थः । पृथिवीमयस्याण्डस्या -

37

स्वरकारणं ह्यापः । अतोऽप्छब्दनिर्देशः । अप इति व्याख्येयश्रुतिगताप्छब्दःब्यारितः । ’ ता इमा आपस्तद्धिरण्यमण्डमभवदिति हि श्रुतिः । अप्छब्दार्थश्च

I

'

महाभूतादिवृत्तौजा इत्यादिना व्याख्यातः । एक्कारेण त्रिवृत्करणं, कक्र्त्यम् । अत्रिवृत्कृता आप इत्यर्थः । तासु वीर्यमपासृजत् - वीर्यं बेबृन्करणजनितामण्डोत्पादनशक्तिं ताखजनयदित्यर्थः । अत्र ‘नानावीर्याः पृथग्भूता: नाशक्नुवन्नित्याद्यनुसन्धेयम् । एवं समष्टिसृष्टिमुक्त्वा अथ व्यष्ठिनृष्टिमाइतदण्डमिति । तत् अण्डकारणतत्त्वजातम् । इतरहेमव्यावृत्यर्थमाह - -इस्रांशुसमप्रभमिति । तत्र चतुर्मुखसृष्टिमाह - तस्मिन्निति । सर्वलोकपितामह द्रव्यनेन देवमनुष्यादीनां दक्षादयः स्रष्टारः तेषां स्रष्टा चतुर्मुख इति । गवतोऽण्डान्तर्गतवस्तु सर्गस्सद्वारक इत्युक्तं भवति । स्वयं भगवान्नारायणः भ्रमकारणभूतः स्वयमेव चतुर्मुखशरीरको ऽमवदित्यर्थः । विष्णुर्ब्रह्मस्वरूपेण वयमेव व्यवस्थित’ इति वचनात् । सुबालोपनिषदि ‘अज एको नित्य ’ ते निर्विकारत्वं जगत्कारणत्वं जगदन्तरात्मत्वं चोक्त्वा नारायणशब्दोऽनवृदावर्तितः । अतो जगत्कारणत्वादिकं त्रितयमपि नारायणशब्दस्यावयवार्थ ते श्रुतेरमिप्राय इति मत्वा जगत्कारणत्वादिप्रवृत्तिनिमित्तकं नारायणशब्दं परम कारणस्य वाचकत्वेनाह - आपो नारा इति । चित्संसृष्टान्यण्डकारणतत्त्वान्यापः । नासां नारत्वमुपपादयति – आपो वै नरसूनव इति । ; ईङ्क्षाय’ इत्यस्मद्धातो: डप्रत्यये टिलोपे च कृतेर इति भवति । नरः - अक्षयः, निर्विकार इत्यर्थः ।

• जह्रुर्नारायणो नर’ इति वचनात् नर इति भगवन्नाम । तस्मात् जाता इत्यण्प्रत्यये कृते नारा इति भवति । नाराख्या आपोऽयनमस्येति नारायणः । एवं नरशब्देन निर्विकारत्वं, नारशब्देन जगत्कारणत्वं, अयनशब्देन जगदन्तगुत्मत्वं चेत्यर्थत्रयमुक्तं भवति । तस्मिन् जज्ञे स्वयं ब्रह्मेति भगवत एव प्रस्तुक्वात् स एवात्रास्येति सर्वनामशब्देन परामृश्यत इति न व्यवहितपरानशित्वदोषः ।

यत्तु व्याख्यात्रन्तरैः सर्वनामशब्द: प्रधानपरामर्शी । शाब्दप्राधान्यं च प्रथमानिर्दिष्टस्य चतुर्मुखस्येति स एव नारायणसंज्ञ इत्याशङ्कय बहुश्रुतित्रचन

38

विरोधात् । उपरि चतुर्मुखस्य भगवद्विसृष्टतावचनाच्च भगवत एव नारायण - संज्ञेति परिहृतम् । तच्चाविरुद्धम् । ‘अथ चतुर्मुखस्य नारायणसंज्ञत्वव्यावृष्यर्यमितरदेवानां दुहिणसृष्टानां परत्वशङ्कादूरोत्सारणार्थं च चतुर्मुखस्य भगवद्विष्टतामाह - यत्तदिति । यत्तदित्यनुवादरूपत्वात् स [ भगवानत्रानूद्यते । अव्यक्तस्य

1 चिदचित्समुदायरूपत्वादव्यक्तशरीरकं ब्रह्म सदसच्छरीरकं भवति । तद्विसृष्टः तेन विशेषेण जीवबुद्ध्यव्यवधानेन ] भगवतैव सृष्टः स ब्रह्मेति कीर्त्यत इत्यर्थः ’ इति ॥

एतेन नारायणनामनिर्वचनं सन्निहितत्वात् जलमध्ये ऽण्डोत्पन्नत्वेन क्लृप्ताक्यक्शक्तित्याच ब्रह्मण्येवान्वेति । न तु स्रष्टरि स्वयम्भुवीति न मानववचनानां नारायणकारणत्वप्रतिपादकत्वम् । न च सन्निधानात् प्रकरणस्य बलीयस्त्वात् प्रकरणनिसृष्टर्येव तदन्वयः, तत्रापि महाजलौघसृष्टयुक्ति सामर्थ्यसिद्धतन्मध्यनिवाससद्भावात् अवयवार्थतृप्तिरिति वाच्यम् । तस्यात्र प्रकरणित्वासिद्धेः । प्राधान्येन तत्प्रतिपादयिषिततायां लिङ्गादर्शनात् ।

"

भूप्रामस्य सर्वस्य त्पत्तिः प्रलयस्तथा

इति महर्षिणां प्रपञ्चोत्पत्तिप्रश्न हि तन्निरूपणासीदिदमिति प्रवृत्तं न तु यतो भूतग्रामस्योत्पत्तिर्यस्मिंश्च प्रलयस्तं स्रष्टारं वेदेति प्रश्ने तन्निरूपणाय प्रवृत्तम् । तस्मात् निष्परिपन्नसन्निधानेन नारायणनामनिर्वचनस्य ब्रह्मण्येवान्वयो युक्तमिति परास्तम् | व्यासायैः ( ब्र. सू. 1-4-20 ) नारायणनामनिर्वचनस्य भगवद्विषयत्वस्थापनात् ॥

केचित्तु - अपां नारसंज्ञां विधायकेन वाक्येन व्यवधानात् न ब्रह्मणस्सन्निधानमस्ति । किं च ’ आपो वै नरसूनव’ इत्यत्रापां सृष्टस्ततोऽपि सन्निधानात् तत्रैव तन्निर्वचनान्वयो युक्तः, न ब्रह्मणि ।

’ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।

तद्विसृष्टस्स पुरुषो लोके ब्रह्मेति कीर्त्यत ॥ '

39

इन्ते तदनन्तरश्लोके तत्संज्ञाविधायके संज्ञिविशेषणवैयर्थ्यापत्तेश्च । आद्यसंज्ञाविधानस्य स्रष्टृविषयत्वे आनन्तर्यात् द्वितीयसंज्ञापि तद्विषयेति शङ्कानिवारणाय

विशेषणवत् संज्ञाद्वयस्याप्येकविषयत्वे तत्प्रयोजनासम्भवात् ।

"

महाप्रलयकाले त्वेतदासीत् तमोमयम् ।

प्रसुप्तमिव चात्यर्थमप्रज्ञातमलक्षणम् ॥

ततस्वयम्भुरव्यक्तः प्रभवः पुण्यकर्मणाम् । व्यञ्जयन्ते तदखिलं प्रादुरासीत् तमोनुदः ॥ अतीन्द्रियः परोऽव्यक्तादन्तर्यामिस्सनातनः । नारायण इति ख्यातः स एव स्वयमुद्बभौ ॥ स्वशरीरादभिध्यायन् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासुवीर्यमपासृजत् ॥ तदेवाण्डं समभवद्धेमरूपमयं जगत् । तत्र ब्रह्मा सम्भवत् ॥

इत्यादिमात्स्यवचनेन समानार्थे स्रष्टयैव नारायणपदप्रयोगस्यनिस्संशयत्वाश्च । तस्मादिदं नारायणनामनिर्वचनं प्रसिद्धनारायण विषयकमेव । अन्यथा प्रसिद्धिरोधापत्तेः । तस्मादिमानि वचनानि नारायणे कारणत्वप्रतिपादनैकतत्पराणी

चहुः ।

यत्तु कश्चिदाह - तमोनुद इत्येतत् किप् प्रत्यये पञ्चम्यन्तम् । तेन नमोऽधिष्ठातुः सकाशात् स्वयम्भ्वादिशब्दितस्य नारायणस्य प्रादुर्भावप्रतिपादनसमिति न नारायणस्य मूलकारणतायामुपबृंहणत्वमस्य वचनजातस्य युज्यते । न च तमोनुद इत्येतत् दिगुपलक्षणकप्रत्ययान्तत्वेन प्रादुर्भवितृविशेषणमेवेति शङ्कयम् । ‘आसीदिदं तमोभूतमिति श्लोकेन सर्गादौ तमोरूपेण जगदवस्थानं प्रतिपाद्यते । ’ ततस्वयम्भुर्भगवानित्यादिना तदनन्तरं प्रादुर्भूतत्वेनोच्यमानस्य रूपस्य पूर्वसिद्धितमोऽधिष्ठातृत्वायोगात् तस्य प्रादुर्भवितृविशेषणत्वे ‘योऽसा’

40

वित्याच्चनन्तर श्लोकस्यासङ्गत्यापत्तेश्च । स ह्यतीन्द्रियादिप्रायत्वादिविशिष्टात् परमेश्वरात् प्रस्तुतस्य स्वयम्भुवोऽमेदव्यवच्छेदपरः । षविंशतिरित्येव ब्रूयादिति (जै. सू. 8-4-2 ) वदेवकारोपहतविधिशक्तिकतया तस्य स्वयम्भवितृत्वाच्चविधायकतया ’ ततः स्वयमुद्बभावि’ त्यंशस्य स्वयम्भूरिति पूर्वश्लोकपरामृष्टस्वयंभक्तृित्वधर्मेण धर्म्यनुवादपरत्वात् । न च निखिलप्रपञ्चप्रकृतिभूतमायात्यन्ततमोषिष्ठातृपरस्य तमोनुद इत्यस्य स्वयम्भुविशेषणत्वे तस्य परमेश्वरात् मेदप्रसक्तिरस्ति । न तावदभावव्युत्पादनस्येह सङ्गतिरस्ति । कदाचिदस्मत्पक्षे तु

षविंशतिरस्य वक्रयः इत्यादी समस्य ऊहाधिकरणम् -

अश्वमेधे त्रयः सवनीयाः पशवः श्रुताः । अश्वः तूपरः, गो मृगः ते प्राजापत्याः इति । तेषु अश्वस्य चतुस्त्रिंशद्वक्रयः ( चतुस्त्रिंशत् वाजिनः देव बन्धोः वंकीरश्वस्य । स्वधितिः समेति । ) अत्र अधिगुप्रैषे विशेषोऽयम् आम्नायते ।

·

न चतुस्त्रिंशत् इति ब्रूयात् । षड्विंशतिरित्येव श्रूयात् । सोऽयं

1 निषेधः गिरापद निषेधवत् नित्यः । न तु विकल्पितः । चतुस्त्रिंशन्मन्त्र निषेध पुरस्सरं षडविंशतिमंत्रे विहिते सति नित्यनिवृत्तिः निषिद्धस्य भवति । इति पूर्व: पक्षः । सिद्धांतस्तु षड्विंशतिरित्येव श्रूयात् इत्येवकारेण विधित्व प्रत्ययबाधात् - षत्रिंशति मन्त्रस्तावत् चोदकप्राप्तत्वात् न निषेधः । तस्य चतुस्त्रिंश मन्त्रेणापवादप्रसक्तौ न चतुस्त्रिंशत् इत्यपवादकं मन्त्रं प्रतिषिध्य चोदक प्राप्तस्य अनयोदितत्वेन यथापूर्वम् - अवस्थानमनूबते । एवं अर्थ सूचयितुं एक्कारः प्रयुक्तः । गिरापददृष्टांतस्तु विषमः । अप्राप्तत्वात् तत्र इरापदं विधीयते । तेन च विहितेन पाठ प्राप्ते गिरापदे बाषिते सः बाधः नगिरा इति प्रतिषेधेन अनूषते । ततः दृष्टांते निषेधानुवादः दान्तिके विध्यनुवादः इति महद्वैलक्षण्यम् । तस्मात् प्रसंजकेन उपजीव्येन अनुमित विधिना प्रत्यक्षनिषेवेन च समान बलतया चतुस्त्रिंशत् इत्ययं मन्त्रः अश्वस्याधिगुप्रैषे विकल्प्यते (जै. सू. 9-4-2)

41

नोविष्टातुरीश्वरात् स्वयम्भुवः प्रादुर्भावोक्त्या ततो मेदप्रसक्तिः । जीवस्य वयम्भूत्रानुपपत्तेः । तस्यापीश्वराभावेनेकेश्वरवाद इति शङ्कावारणाय तदभावश्च क्तव्य इति । तमोऽधिष्ठाता परमेश्वर एव उपाधिविशेषकृतेन नारायणश्रत्यात्मना रूपान्तरेण सर्गादावभिव्यक्त इत्येतदभिप्रायो ऽनन्तर श्लोके सङ्गच्छतेनशम् । तस्मात् क्ऌबन्तत्वेन पञ्चम्यन्तं प्रादुर्भावयितृपरमेव । प्रादुर्भावयिता प्रशासितार’मित्यादिशास्त्रोपसंहारश्रुतपरब्रह्मनिर्वाणानुरोधात् परमशिव एव स्यंवसतीत्युपसंहारस्याप्यैकार्थ्यं लभ्यते । न च कथमुपसंहारानुरोधात् जीवपरत्वनिर्णयः, तस्यैव शित्रपरत्वग्राहकः, प्रमाणाभावादिति वाच्यम् । शास्त्रोपसंहारे ।

प्रशासितारं सर्वेषामणीयांसमणीयसाम् ।

रुक्माभं स्वप्रधीगम्यं विद्या तु पुरुषं परम् ॥ '

इति सर्वान्तर्यामित्वादिगुणकं परमात्मानमुपदिश्य,

एनके वदन्त्यग्निर्मरुतोऽन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥

व्रत वैदिकव्यवहारबाडुविध्यं प्रदर्श्य

एष सर्वाणि भूतानि पञ्चभिर्व्याप्यमश्रुतिभिः । जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ '

इति मूर्तिपञ्चकेन सर्वभूतव्यापिनं रूपलिङ्गप्रदर्शनेन शिव एव परमात्मेति स्पष्टीकारात् । प्रतिपादिता हि तैत्तिरीयोपनिषदा सवितृमण्डलमध्यवर्तिनं शिवं प्रस्तुत्य तस्य मूर्तिपञ्चकेन सर्वभूतव्याप्तिः । स वा एष पुरुषः पञ्चधा पश्चात्मा येन सर्वमिदं प्रोतव्यमित्यादिना । यद्यपि पञ्चात्मेत्यविशेषेण श्रुतं तथापि प्राक् सद्योजातादिमूर्तिपञ्चकप्रतिपादनात् तथेवेह व्याप्तयुपदेशायोपन्यस्तमिति गम्यते । तस्मादुपसंहारस्य शिवपरत्वात् तदैकार्थ्याय तमोनुद इत्येतत्कित्रन्तत्वेन पञ्चम्यन्तं प्रादुर्भावयितृपरमेवेत्युपगन्तुं युक्तमिति ।

अलोच्यते तमोनुद इत्यस्य प्रथमान्तत्वमभ्युपगम्य स्वयम्भूशब्दसामानाधिकरण्यमेव युक्तं वक्तुम् । स्वयम्भूशब्दामिधेयस्य ’ सोऽमिध्याये ‘त्यादिना चतुर्मुखकारणत्वेन प्रतिपाद्यमानस्य,

642

’ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।

तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ '

इति श्लोके कारणत्वनित्यत्वयोः प्रतिपादनात् । कारणपदं हि न यत्किञ्चित् कारणत्वाभिप्रायकम् । तस्य सर्ववस्तु साधारण्येनाव्यावर्तकतापत्तेः । किं तु मूलकारणत्वाभिप्रायकम् । तथा च न चतुर्मुखकारणस्यान्यत उत्पत्यङ्गीकारे तत्साङ्गत्यमिति । तमोनुद इत्यस्य प्रथमान्तत्वसन्देहे ’ सन्दिग्धे तु वाक्यशेषादिति न्यायेन कारणत्वोक्ति स्वयम्भूविषयिणी प्रथमान्तत्वं तमोनुद इत्यस्य निर्धारयति । एवं नित्यत्वमपि स्वयम्भुवोऽन्यत उत्पन्नत्वे नित्यत्वोक्त्ययोगात् । अतस्तमोनुद इत्यस्य इगुपधलक्षणकप्रत्ययान्तत्वेन प्रादुर्भवितृविशेषणत्वं न सम्भवति । ‘आसीदिदं तमोभूतमिति श्लोकेन सर्गादौ तमोरूपेण जगदवस्थानं प्रतिपाद्य ’ ततस्स्वयम्भूर्भगवानित्यादिना तदनन्तरं प्रादुर्भूतत्वेनोच्यमानस्य पूर्वसिद्धतमोऽधिष्ठातृत्वायोगादिति । तदसङ्गतम् । स्वरूपेण प्रादुर्भावानुक्तेः पूर्व तमः प्रेरकत्वेनोक्तस्याव्यक्तस्वरूपेण प्रादुर्भावस्यैवोच्यमानत्वात् । भूतादिवृत्तावित्यस्य महाभूतादिविषयकसङ्कल्पज्ञानरूप तेजा इत्यर्थकत्वेन तदुत्पादनायाव्यक्तशरीरकत्वेन प्रादुरासीदित्यर्थवर्णनसम्भवात् ।

6

महा-

यदपि योऽसावतीन्द्रियग्राह्यत्वादिविशिष्टात् परमेश्वरात् स्वयम्भुवो - भेदव्यवच्छेदपरस्य निखिलप्रपञ्चप्रकृतिभूतमायाख्यतमोऽधिष्ठातृपरस्य तमोनुद इत्यस्य स्वयम्भवितृविशेषणत्वे परमेश्वरात् भेदप्रसक्त्यभावेन निष्प्रयोजनत्वं स्यादिति तदप्यनुपपन्नं सर्वभूतमयपद सार्थक्याय सर्वभूतमयत्वेन प्रादुर्भाव परत्वेन सप्रयोजनसम्भवात् । प्रत्युतत्वपक्ष एवास्य श्लोकस्य निष्प्रयोजनत्वम् | न चातीन्द्रियग्राह्यत्वादि विशिष्टात् स्वयम्भुवः मेदव्यवच्छेदपरत्वेन प्रयोजनवत्वम् । जीवस्य स्वयम्भूर्वानुपपत्तेरिति त्वयोक्तत्वेन न जीवात्मत्वसम्भवेनेश्वरमिन्नत्वशङ्काया अनुदयात् । न चेश्वरभावेऽपि ततो मेदशङ्काकर्मणोरवश्यं विना स्वेच्छाधीनाविर्भाववत्वं हि स्वयम्भूत्वमितित्वयोक्तरीत्या तत्प्रादुर्भावस्यैच्छिकत्वात् अभेदेऽपीच्छाबलात् रूपान्तर विशिष्ट विशेषणोत्पत्तेः सम्भवात् प्रमाणन्यायविरुद्धानेकेश्वरशङ्काया अनुदयात् ।

वित्रायत्वमिति तत्तुच्छम्

43

यदप्येवकारोपहतविधिशक्तिकतया स एव स्वयमुद्वावि’ स्यत्य स्वयम्भवितृत्वं ’ स एष स्वयमुद्धभाविति पाठात् सर्वभूतक्वेनोद्भावस्याप्राप्ततया । ’ यद्यपि च चतुरवर्तीयजमानः पश्चावर्तैव वषाकार्येत्य’ (जै. सू. 10-7-20 लेव विधिसम्भवात् । अपि च श्लोके स्वयम्भूर्भगवानव्यक्त इत्यादिशब्दः प्रथमान्तैः प्रतिपादितस्यैव ये वसाविति सर्वनामपरामर्शो युक्तः । तस्य समानविभक्तिकप्रधानपरामर्शित्व-

बचावदानतायाः सर्वसाधारण्याधिकरणम्

दैक्ष्ये पशौ वपायागः हृदयाबंगयागश्च विहितः । तत्र वपायाग विषये यद्यपि चतुरवत्ती यजमानः, पंचावचैव वपा कार्या इति । श्रुतौ दर्शपूर्णमासयोर्हि चतुरवदानं एवं संपादितम् । सकृत् उपस्तरणम् द्विः हविषोः अवदानम् सकृदभिधारणमिति । पंचावत्तिनां तु पंचावदानम् - हविरवेदानस्य

रावृत्या पंचावत्तसंपादनं भवति ।

पंचावत्ति व्यतिरिक्तानां सर्वेषां चतुरवदानमेव । चोदकेन दैक्ष्ये पशौ चतुरखदान पंचावदानयोः प्राप्तौ चतुरवत्तिनामपि पंचावदानम् विहितम् । यद्यपि चतुरवत्ती यजमानः पंचावत्तैत्र वपाकार्या इति वपायाग विषये श्रुतम् । अनेन वाक्येन सकृदुपस्तरणम् कृत्स्नायाः वपायाः सकृदवदानम्, त्रिरमिधारणं इति । चोदकप्राप्त चतुरवदानविधेः अयं अपवादः ।

तत्न पंचावदानस्य वपायामेव श्रवणात्, किमियं पंचावत्तता वपायाग मात्र विषया उतहविष्टव सामान्यात् हृदयाद्यंगेष्वपि पंचावदानविधिरिति चितायाम् - पंचावदानस्य वपामुद्दिश्यैव विहितत्वात् - वपायाग विषय एव पंचावदानम् - हृदयाद्यंगेषु वचनाभावात् - न पंचावदानम् - इति पूर्वः पक्षः | सिद्धांतस्तु - अवदानस्य चोदक प्राप्तत्वेन विधेयत्वाभावात् - अवदानमुद्दिश्य विधीयमाना संख्या अवदानयुक्तेषु अन्येष्वपि पश्वगेषु भवत्येव । (जै. सू. 10-7-20)

44

स्वारस्यात् । ’ प्रजापतिर्वरुणायाश्वमनयत्

प्रजापतिर्वरुणायाश्वमनयत् (जै. सू. 8-4-14 ) स

अश्वप्रतिग्रहेष्टयचिकरणम्

इदमाम्नायते - याक्तोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत् इति । तत्र प्रतिग्रहशब्दः यद्यपि स्वार्थ प्रतिग्रहमेव बोधयति, परंतु अर्थवादे दातुरेव दोष श्रवणात् प्रतिग्रह शब्दः उपक्रमस्थार्थवादानुसारेण दानपरः इति व्याख्यातव्यम् ।

उपक्रमेहि प्रजापतिः वरुणायाश्वमनयत् सस्वां देवता मार्छत् । सपर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तन्निरवपत्, ततो वै स वरुण पाशात् अमुच्यत । इति श्रुतम् । अत्र प्रजापति देवतायाः अश्वदानेन दोषप्राप्तेः उक्तत्वात् तदनुसारेण प्रतिग्रह शब्दस्य दानविषयत्वमेव वक्तव्यम् । तत्र विशेषाश्रवणात् लौकिक वैदिक दानयोरपि असाविष्टिः भवति इत्येकः पक्षः । न केसरिणो ददाति इति स्मृत्या अन्येभ्यः प्रीत्या क्रियमाणं लौकिकं अवदानं निषिद्धम् । तदनुष्ठाने प्रायश्चित्तरूपा इयं इष्टिः इति द्वितीयः पक्षः ।

"

सिद्धांते तु वरुणो वा एतं गृह्णाति योऽखं प्रतिगृह्णाति । अवदाने जलोदराख्य दृष्टदोषः उच्यते । सच वैदिकदाने एव भवति । न तु लौकिकदाने । अस्ति हि वैदिकमश्वदानम् - ’ बडवा दक्षिणा’ इत्यादि श्रवणात् । वैदिक दानस्यैव अर्थवादेन बुद्धिस्थत्वात् वैदिकदान विषयः एव इयमिष्टिः भवति । उपक्रमस्थार्थवादानुसारेण इयमिष्टिः दातुरेव भवति । न प्रतिग्रहीतुः । असंजात विरोध्युपक्रमानुसारेण विधायक पदमपि प्रतिग्राहयेदिति । एवमन्तर्भावितणिजर्थपरतया व्याख्येयम् । चतुर्दशाधिकरणेन वैदिकाश्च दानाएव इयमिष्टिरिति निर्णीतम् । उत्तराधिकरण एव इयमिष्टि: दातुरेव न प्रतिग्रहीतुः इति निर्णीतम् । उत्तराधिकरणमवलंब्य पूर्वाधिकरणस्य प्रवृत्तत्वात् - अधिकरणद्वयस्यापि भावः अत्र लिखितः । (जै. सू. 8-4-14 )

45

स्वांदेवतामार्च्छदि’त्यत्र तच्छब्दस्य प्रजापति परामर्शकत्वादङ्गीकारात् । अन्यथा प्रतिगृहीतुरिष्टिपक्षे उपक्रमविरोधात् भावनस्यासङ्गतत्वापत्तेः । पूर्वमव्यक्तशब्देनोक्तस्य तेनैवाव्यक्तशब्देन पुनः परामृश्यमानस्य स्वयम्भवितुरेव योऽसात्यवित्यत्रोत्पत्त्यमानत्वाङ्गीकारस्य युक्तत्वेन तदतिरिक्तपरत्वकथनस्यानुक्षितिप्रास्तचाच । तस्मात् योऽसाविति श्लोकस्य स्वयम्भवित्रनुवादेन परमात्मभेदविधायकत्वं नाङ्गीकर्तुं शक्यमिति । पूर्वश्लोकेऽव्यक्तात्मना प्रादुर्भूतत्वेन कथितस्य सर्वसूतात्मना प्रादुर्भूतत्वकथनपरत्वमेव वक्तुं युक्तम् । अतो नैतच्छ्लोकस्यार्थत्रीप्सया तमोनुद इत्यस्य पञ्चम्यन्तत्वाङ्गीकरणं युज्यत इति पूर्वोक्तरीत्या प्रथमान्तत्वनिर्धारणमेव साधीयः ।

यदप्युपसंहारे ’ एष सर्वाणि भूतानि पश्चमिर्व्याप्य मूर्तिभिरिति मूर्तिपश्र्चकेन सर्वभूतव्याप्तिलिङ्गदर्शनेन शिवः परमात्मेत्यवधार्यते । तैत्तिरीयोपनिषदि – ’ प्राक्सयोजातादिमूर्तिपञ्चकस्यैव स वा एष पुरुष: पश्चधापं चात्मे ‘ति वाक्ये सर्वभूतव्याप्त्युपदेश योपन्यस्तत्वावधारणेन मूर्तिपञ्चकेन सर्वभूतव्याप्तेः शिवधर्मत्वावसायादिति तदप्यसमञ्जसम् स वा एष पुरुषः पञ्चधा पश्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशश्वे ‘त्यव्यवहितोत्तर वाक्योपस्थितपृथिव्याद्यात्मकत्व परत्वससम्भवेऽनेकवाक्यत्र्यवहितसद्योजातादिमूर्तिपश्चकपरत्वाऽङ्गीकारत्यायोगेन मूर्तिपञ्चकेन सर्वानुप्रवेशस्य ततः शिवधर्मत्वानिर्णयात् । भगवदसाधारणपुरुषशब्देन ’ समुद्रेऽन्तः कवयो विचक्षते, त्वष्टारूपाणि विकुर्वन्तं विपश्चिमि त्यत्र प्रसिद्धाभ्यां समुद्रशायित्वलिङ्गोत्तरनारायणप्रत्यभिज्ञानाभ्यां भगवत्परतया निर्णीते सुवर्णधर्मानुवाके’ ’ अन्तः प्रविष्टश्शास्ता जनानामिति श्रुतेन प्रशासितृत्वलिङ्गेन च ’ प्रशासितारं सर्वेषामणीयसां समणीयसाम् । रुक्माभं स्वमधीगम्यं विद्या तु पुरुषं परमित्यस्य भगवत्परत्वावसायात् । ’ पञ्चभिर्व्याप्यमूर्तिभिरित्यस्य स्वाधिष्ठितैर्वियदादिभिः सर्वप्राणिजातव्यापित्व परत्वेनान्यथासिद्धि सम्भवाच्च । अनेनोपसंहारस्य शिवपरत्वनिर्धारणासिद्धेः ।

46

एतेन ’ अमिं पुरातनयित्नोरचित्तात् रुद्रो वा एष यदग्निरीशनामित्यस्येत्यादिषु दृष्टचरप्रयोगैरनीन्द्रादि शब्दैर्व्यवहारवाक्योक्ति बलादुपसंहारस्य शिवपरत्वमिति निरस्तम् । एतादृशप्रयोगाणां शिवे तच्छक्तिकल्पने ऽन्यत्र प्रयोगवैधुर्ये वा प्रमाणाभावेनाकिश्चित्करत्वात् । तस्मादुपसंहारस्य शिवपरत्वानिर्णयात् न तदनुरोघेनोपक्रमकीर्तितस्य शिक्त्वनिर्धारणमित्यस्मदुक्तरीत्या भगवत्परत्वमेवास्य युक्तमिति सुबालोपनिषदुपबृंहणत्वं निर्बाधमित्येषा दिक्

एवमात्मप्रबोधोपनिषदपि मगवतः सर्वोत्कर्ष ख्यापयति–’ प्रत्यगा - नन्दं ब्रह्म पुरुषं प्रणवस्त्ररूपम् अकार उकारो मकार इत्यक्षरं प्रणवम्, तदेतदोमिति ।

"

’ यमिष्ट्वा मुच्यते योगी जन्मसंसारबन्धनात् '

ओं नमो नारायणाय शङ्खचक्रगदाधराये ‘त्यत्र वाक्ये ’ ओं तत्सदिति निर्देशो ब्रह्मणत्रिविधः स्मृत’ इत्यादिषु ब्रह्माभिधायकत्वेन प्रसिद्धप्रणववाच्यस्य श्रीमदष्टाक्षरमन्त्रदेवतात्वेन शङ्खचक्रगदाधरत्वेन च प्रतीयमानत्वात् तथा । ’ अथ यदिदं ब्रह्मपरमिदं पुण्डरीकं तस्य य आत्मा’ हेमपुण्डरीकमध्ये तस्मात् कारणरूपं बोधस्वरूपं विज्ञानपरं’ ‘तस्मात् तदाह मात्रं दीपवत्प्रकाशो ’ ‘ब्रह्मण्यो देवकी पुत्रो’ ’ ब्रह्मण्यो मधुसूदनः सर्वभूतस्थमेकं नारायणम् कारणरूपम्, एकाकरम्, परं ब्रह्म शोकमोहनिर्मुक्तं विष्णुं ध्यायन् नासीदती ‘त्यत्र दहराधिकरणे ब्रह्मधर्मतया वर्णितस्य दहरपुण्डरीकान्तर्वर्तित्वस्य सर्वभूतस्थमिति सर्वान्तर्यामित्वस्य च श्रवणात् । कारणरूपमित्यत्र स्वरूपशब्दस्य स्वरूपपरत्वे शरीरपरत्वे वा महदहङ्कारादिकारणत्वकार्यवर्गकारणत्वसिध्या जगत्कारणत्वरूपब्रह्मलक्षणस्यापि नारायणनिष्ठत्वावसायाच्च । ‘एकाकारं परं ब्रह्मेति कण्ठरवेण परब्रह्मत्वावेदनाच्च । तस्मादियमुपनिषद् नारायणस्य परब्रह्मत्वे निर्विचिकित्सप्रमाणाभावसाम्राज्यमनुभवतीति दिक् ।

स एवं ब्रह्मबिन्दुपनिषदपि नारायणस्य परत्वे प्रमाणम् । ’ तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनं तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् '

·

47

अग्निविकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् । अप्रमेयमनादि च यज्ज्ञात्वा मुच्यते बुधः ॥

इति ब्रह्मप्राप्तिहेतुभूताहंग्रहणोपासनाविषयस्यान्तर्यामिणः सुदेव’ इति वाक्यशेषे वासुदेवत्व कीर्तनात् ।

’ तदस्म्यहं

एवं मैत्रायणीयोपनिषदपि भगवतस्सर्वोत्तमत्वं प्रथयति । तत्र विश्वस्य नामैषा तनूर्भगवतो विष्णोर्यदिदमन्नं प्राणो वाऽन्नस्य रसः प्राणस्य मनोविज्ञानं मनस आनन्दं विज्ञानस्येत्येवं विदन्नन्नवान् प्राणवान् मनखान् विज्ञानवानानन्दवान् भवती’ त्यारभ्य ‘अग्निहोत्रं जुहानो मोहजालं भिनत्ति अन्तस्स मोहं छित्वा क्रोधंस्तन्वानः कामममिध्यायमानश्चतुर्जालं ब्रह्मकोश हेनस्ति । ततः परमाकाशम् । अत्र हि सौरसौम्यायमण्डलानि मित्वा तत: शुद्धसत्त्वान्तरात्रस्थं अचलममृतं धृतं विष्णुसंशं सर्वाधारं धाम सत्यकाम सर्वज्ञत्वसंयुक्तम् स्वतन्त्रचैतन्यं स्वे महिम्नि तिष्ठमानं पश्यति । अत्रोदाहरन्ति -

मध्ये स्थितस्तोमस्तस्य मध्ये हुताशनः । तेजोमध्ये स्थितं सत्वं सत्त्वमध्ये स्वतोऽच्युतः ॥’ शरीरप्रदेशमात्रमङ्गुष्ठमात्रमणोरप्यणुतरं ध्यायंतः परमतां गच्छन्ति । अत्र हि ’ सर्वे कामास्समाहिता’ इति । अत्रोदाहरन्ति - ’ अंगुष्टप्रदेशशरीरगालं प्रदीपवत् प्रतापवत् द्विधा त्रिषा हि ब्रह्मामिष्धूयमानं महादेवो मुत्रनान्याविवेश । ओं नमो ब्रह्मणे नम’ इत्यन्तेन वाक्यसन्दर्भेण मिश्र - सत्त्वोत्तीर्णशुद्धसत्वाधिष्ठातृत्वनित्यत्वसर्वाधारत्वसत्यकामत्वानन्य विशेषणत्वानन्याचारत्वमुक्तप्रात्य मुमुक्षुध्येयत्वादिधर्मवत्वेन कथितस्य परमात्मनो विष्णुसंज्ञत्वप्रतिपादनात् ।

यच्छब्दात् ’ तदेतदोमिति यदस्यामंतच्छान्तमशब्दमभयमानन्दं तृप्तं मुस्थिरमचलममृतमच्युतं ध्रुवम् विष्णुसंज्ञे सर्वासां धामेति भगवतो विष्णुसंज्ञस्य ओं तत्सदिति निर्देशो ( गीता - 17 - 23 ) ’ ब्रह्मणस्त्रिविधस्मृत ‘इति

6

परब्रह्मपरत्वेनावगम्यमानप्रणवत्राच्यत्वाद्याविष्करणात् ।

48

’ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् | सत्वं पूषन्नपावृणु सत्यधर्माय विष्णवे । योऽसावादित्ये पुरुषः सोसावहम् ||

इत्यादित्यान्तर्यामित्वप्रतिपादनाच्च । ’ सत्यधर्माय दृष्टय’ इति बृहदारण्यक ( ईशावास्या) वाक्यानुसारात् विष्णव इत्यस्य विष्णुदृष्टमित्यर्थः । क्रियार्थोपपदस्य कर्मणि स्थानिन ’ इति चतुर्थी । उपबृंहिता चेयमुपनिषत् योगयाज्ञवल्क्येन ।

सवितुस्तद्वरेण्यं तु सत्यधर्माणमीश्वरम् । हिरण्यवर्णं पुरुषं व्योम तद्विष्णुसंज्ञितम् ॥ सूर्यमध्ये स्थितस्सोमस्तस्य मध्ये हुताशनः । तेजोमध्ये स्थितं सत्वं सत्वमध्ये स्थितोऽच्युतः || सोऽन्नं प्राणो मनःश्चैव ज्ञानमानन्दमेव च । निमेषादिमनः कालस्तस्मादुत्पद्यते यतः ॥

कालकर्ता ततो ज्ञेयः कालाख्यो विष्णुरव्ययः । एषा विश्वभृतो नामतद्विविष्णोः सनातनी ॥

अन्नरूपेण विज्ञेया ययेदं धार्यते जगत् ॥

इति । यमस्मृतावपि ‘रविमध्ये स्थित’ इति श्लोकं पठित्वा अनन्तरं,

एष देवस्तु मर्त्यानां पटैरिव विधीयते ।

अज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुमिः ॥

एष वै पुरुषो विष्णुर्व्यक्ताव्यक्तः सनातनः ॥ '

इति पठितम् । दत्तात्रेय स्मृतौ

’ द्वयोऽसौ विष्ण्वाख्य आदित्ये पुरुषोऽन्तर्हृदिस्थितः ।

सोऽहं नारायणोदेवः पुरुषो लोकभावन ॥ '

49

’ योऽसावादित्ये पुरुष ’ इति वाक्यमुपबृंहितम् । तस्मादियं मत्रायणीषद् भगवदतिशयैकप्रवणेति सर्वं सुस्थम्

तथा कठवल्लिका अपि भगवततस्सर्वोत्कर्ष ख्यापयन्ति

66

66

अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।

तमकतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ "

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनुं स्वाम् ||

षु मुक्तदृश्यत्वेन स्वप्रसादं विना दुखबोधत्वेन चोक्तस्य,

अत्ता

’ यस्य ब्रह्म च क्षत्रं चोमे भवत ओदनः ।

मृत्युर्यस्योपसेचनं क इत्यावेद यत्र सः ॥

"

चराचरग्रहणात् [ ब्र. सू. 1-2-8] इति सूत्रे परमात्म-

निर्णीतेन प्रतिपादितस्य च ब्रह्मणो

"

’ विज्ञान सारथिर्यस्तु मनः प्रग्रहवान्नरः ।

सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम् ॥ ’ |ष्णुस्वरूपत्वस्फुटीकरणात् ।

यतु कश्विदाह - कठवल्लीप्रतिपायो न नारायणः । तत्र पदशब्दस्य पदं सप्रहेण ब्रवीम्योमित्युपक्रमानुरोधेन सर्ववेदप्रतिपाद्यत्वादिविशिष्टचावगमेन ’ तद्विष्णोः परमं पदम् सदा पश्यन्ति सूरयः’ इत्यादिवत् रत्वायोगात् । ब्रह्मणि वृत्तेः सर्वाभ्युपगन्तव्यत्वे सति विष्णुशब्दस्य तत्वे षष्ठयन्तत्वे वा पदशब्दोदितस्य ब्रह्मणो विष्ण्वतिरेकस्यैव स्वरसतः नानत्वात् । विष्णोः पदमिति ’ राहोः शिर’ इतिवदौपचारिकपदेश इति विष्णुशब्दस्यापि प्रतिपादयिषिते ब्रह्मणि वृत्त्यभ्युपगम्येऽपि शिवायां व्यापनाद्वा महादेव’ इत्यन्ते महादेवनामनिर्वचनप्रकरणे

50

सर्वे देवतास्संविशन्तीति विष्णुरिति शिवनामत्वेनापि निर्वचनदर्शनात् नारायणैकान्त्यासिद्धेः । तदैकान्त्येऽपि मन्त्रोपनिषदि जगत्कारणब्रह्मपरहरशब्दवत् तस्यानन्यथासिघ्यभावेन तदनुरोधिवृत्त्यन्तरसहिष्णुत्वाच्च । अतो न नारायणः कठवली प्रतिपाद्य इति

धन पश्यामः सत्यम् - उपक्रमानुरोधेन पदशब्दो ब्रह्मपरः । तथापि ’ तद्विष्णोरिति पञ्चम्यन्तत्वाभ्युपगमे षष्टयन्तत्वाभ्युपगमे वा ‘विष्णोब्रह्मव्यतिरेकः प्रतीयत इति न वक्तुं शक्यम् |

रुद्रं तु सारथिं कृत्वा मनः प्रग्रहवान्नरः ।

स याति परमं पारं विष्ण्वाक्यं पदमव्ययम् ॥’

इति नारायणोपनिषदि पारभूतस्य पदस्य विष्णाख्यत्त्वोक्त्या तदनुसारेण शिलापुत्रकस्य शरीरं ’ राहोः शिरो’ ’ ममात्मेत्यादौ इत्र ’ विष्णोः परमं पदमित्यत्रापि षष्टयाकारमेदमात्रेणारोपितमेदमादायोपपन्नत्वात् । अत एव पश्चम्यन्तत्वाङ्गीकारस्या योगाच्च । प्रतिपादितं च कैयटेन एतादृशस्थलेषु षष्टया उपपन्नत्वं शिलापुत्रकस्य शरीरमिति बहिर्वस्तुभेदेऽसत्यपि मेदव्यवहारोSवस्थाभेदाश्रयो दृष्टः शिलापुत्रकः क्रियमाणविक्रियमाणत्वाद्यनेकावस्थायुक्तो यो दृष्टः तस्येदं शरीरमिति परिदृश्यमानावस्थामेदेन निर्दिश्यते । एकमेव हि वस्तु तदेवेदमिति प्रत्यभिज्ञानादेकत्वमत्यजदप्यवस्थाभेदात् नानारूपमाभाति । तथा हि ’ इन्स्यात्मानमात्मने ‘ति एकस्यापि बुध्यवस्थापि तदवस्थामेदाश्रयः कर्तृकर्मकरणत्वाभाव” इति । एवं वचनान्तरानुसारात् षष्ट्या स्वारसिकार्थत्वात् न दोषः ।

’ तस्याग्रयणात् ग्रहणमित्यधिकरणे उक्थ्यान्निगृह्णातीत्यत्र कारकविभक्त्यङ्गीकारस्य स्वस्य स्वरूपसत्वेऽपि तं परा॑चमुक्ध्यात् षोडशिनं गृह्णातीति शाखान्तरवचनानुसारेण तत्स्वारस्यत्यागस्य मीमांसकैरभ्युपगमात् । न च तत्नोपविभक्त्यङ्गीकारेऽपि न विभक्तेर्मुख्यार्थभङ्ग इति वाच्यम् । वचनान्तरानुसारेणैव मुख्यार्थत्यागस्याप्यदोषत्वात् । तथैव तन्त्रलक्षणे (जै.

51

एकादशाध्याये ) दशपेयेक्रय प्रतिकर्षात (जै. सू. 11 - 2-55 ) ततः प्राचां नस्मात् समानतन्त्रं स्यादि’ त्यधिकरणे किमभिषेचनीयदशपेयौ समानतन्त्रौ मिन्नतन्त्रौ वेति सन्दिप सहसोमौ क्रीणात्यभिषेचनीयस्य दशपेयस्येति ञ्चनादमिषेचनीया सोमक्रयकाले दशपेय ’ सोमक्रयापकर्षात् तदादिवाभिमम्बन्धात् तदन्तमपकर्षैस्यादिति पाश्चमिकसूत्रोक्तन्यायेन ततः प्राचामिति *दार्थानामपकर्षात् सहोपक्रमितव्यौ ताविति यथोपक्रमं समापयितव्यात् समाननत्राविति पूर्वपक्षं प्रापय्य ‘सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ती ‘ति वचनान्तरानु नारात् ‘सह सोमौ क्रीणातीत्यत्रत्य क्रीणातेः क्रतुवहिर्भूतलौकिकमूल्यविश्वरूपोपसंवादलक्षकत्वाङ्गीकारात् । दशपेयक्रयप्रतिकर्षाभावात् मिन्नतन्त्रानेति राद्धान्तितत्वात् ।

दशपेये अभिषेचनीययोः मेदेन प्रयोगाधिकरणम्

राजसूये दशपेयाभिषेचनीय संज्ञकौ द्वौ सोमयागौ । तत्र द्वयोरपि वृषभ्यागत्वात् पृथगेव अंगादीनां अनुष्ठानं वा सहसोमं क्रीणातीति द्वयोः गयोः क्रयैक्य प्रतिपादनात् तंत्रेण अनुष्टानं वा इति संशयः । अभिषेचनीय दशपेयस्य च सोमे क्रेतव्ये सति क्रयात् पूर्व भाविनां दशपेयांगानां अपकर्षात् तंत्रमिति पूर्वः पक्षः ।

सिद्धांतस्तु :भिन्नकालीनयोः अभिषेचनीय दशपेययोः अंगानां बेदनानुष्ठानमेव संसृपाख्याभ्यः दशभ्यः इष्टिभ्यः ऊर्ध्व अपराह्ने दशपेयोपक्रमः । नाभ्यः प्राचीने अत्यंतव्यवेहिते काले अभिषेचनीयः । अतः कालभेदात् पृथगेवानुष्ठानम् । क्रयसाहित्यमपि नात्रास्ति । सद्योदीक्षयन्ति । सद्यः सोमं कीणन्ति इति दशपेये क्रयस्य सद्यस्कालत्व विधानात् । सहसोमौ इति ऋयांगशेष भूतसंवादे साहित्यं विवक्षितम् । अतः उभयोः पृथगेव अनुष्ठानम् । न तंत्रेण ॥ (जै. सू. 11-2-55 )52

अपि च ’ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संप्रहेण ब्रवीम्योमि ति वाक्येन पदशब्देन प्रक्रमात् पथते गम्यत इति व्युत्पत्त्या तस्य शब्दस्य प्राप्यखरूपपरत्वात् प्राप्यस्वरूपमेवात्र प्रतिपाचम् । तथा च तत्स्वरूपविशेषाकाङ्क्षायां तन्निर्धारणाय ’ विज्ञान सारथिर्यस्तु’ इति वाक्यं प्रयुक्तम् । विज्ञानस्य तत्प्राप्तिसाधनत्वस्य ।

यस्तु विज्ञानवान् भवति स मनस्कः सदा शुचिः ।

स तु तत्पदमाप्नोति यस्मात् भूयो न जायत || '

इति पूर्ववाक्येनैव प्रतिपादितत्वात् । तथा च षष्टया मुख्यार्थत्वस्वीकारे वा तत्या आकाङ्क्षाया अपरिपूरणात् । घटस्य स्वरूपं राहोः शिरः शिलापुत्रकस्य शरीरं ममात्मा ब्रह्मणः पदवेदन इत्यादिवदाकारमेदमादाय वर्णनकृत आकाङ्क्षायाः शान्तेस्तच्छान्त्यर्थं तथैवार्थवर्णनं युक्तम् । अत एव क्लेशात्मककर्मविमुखपुरुषप्रवृत्तिजननार्थं प्रवर्तनात्मक विधिप्ररोचना काङ्क्षावशा दर्थवादवाक्यानां प्राशस्त्यलक्षणकत्वमङ्गीकृतं मीमांसकैः ।

,

न च विष्णोरिति व्यतिरेकषष्टमङ्गीकारेऽप्यथर्वशिरशिखयो रुद्रस्य तत्परत्वप्रतीत्या परमशिवरूपदेवतारूपत्वावगमेन न षष्ट्या मुख्यार्थो भञ्जनीय इति वाच्यम् । मैत्रेयोपनिषदि ’ प्रजापतिर्वा एकोऽग्रे ऽतिष्ठत्, स नामतैकस्वात्मानमभिध्यायन्’ इत्युपक्रमे प्रजापतेः प्रलयकालावस्थानमुक्त्वा तमो वा इदमासतत्परेस्यातत्परेणैरितं विषमत्वं प्रयाति; तस्य प्रोक्ता अग्रथास्तनवो ब्रह्मा विष्णुरुद्र’ इति त्रिमूर्ति विभूतिकत्वप्रतिपादनात् प्रजापतीशवाच्येऽपि विष्णोः परत्वस्य प्रतीयमानत्वेन तेन शिवप्रतीत्यसिद्धेः । न तु चतुर्मुखस्य विभूत्यन्तर्गतत्वात् न तस्य तदुत्तीर्णत्वं युक्तमिति । प्रजापतिशब्दस्यान्यपरत्वमिति चेत्-तुल्यमितरत्रापि । शिवादिशब्दवाच्यस्य विभूत्यन्तस्य प्रतीयमानत्वात् ।

ननु विभूतिमानन्यः विभूत्यन्तर्गतत्वेऽपि तदन्य इति न दोष इति चेत् - न । चतुर्मुखस्यापि विभूत्यन्तर्गतातिरेकस्य वक्तुं सुशक्यत्वात् । ननु त्रिमूर्त्यत्तीर्णस्य प्रजापतिशब्दवाच्यत्वे मानाभाव इति चेत् तस्य शिवादि-

53

शब्दवाच्यत्वेऽपि प्रमाणाभाव इति चेत् तुल्यत्वात् । विस्तरस्तूत्तीर्णकारणत्व द्रष्टव्यः । तथा च ’ विष्णोः परमि’ त्यनेन देवताविशेषप्रतीत्यमायात् विष्णोरिति षष्ठया अमुख्यार्थत्वं स्वीकृत्याकाङ्क्षाशान्तिः कर्तुं सुजेति भगवत एव कठवल्लिप्रतिपाद्यत्वमङ्गीकर्तुं युक्तम् । एवं च ’ पुरुषान्नपरं विचित् सा काष्ठा सा परागति’ रित्येतत् सुखेन सङ्गच्छते । अन्यया पुरुषशब्दस्य मुख्यार्थबाधः स्यात् । स च ’ भगवानिति शब्दोऽयं तथा ’ पुरुष इत्यपि । निरुपाधि च वर्तेते वासुदेवे सनातने । यद्वा ’ पुरुषशब्दोऽयं रूढ्यावर्ति जनार्दनम् । यथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते : तथा शङ्करशब्दोऽयं महादेवे व्यवस्थित । ’ इत्यादिप्रमाणसहस्रेण भगवदसाधारणत्वेनागतः, अथर्वशिखा - निर्वचनानुसारात् ।

’ सकृ

विष्णुशब्दस्य शिवपरत्वमित्यपि तुच्छम् ‘ओमित्येतदक्षरं परं ब्रह्मे त्यादिना पूर्व प्रणवं प्रशस्य तन्मात्रा देवता वर्णादिकथनानन्तरं दुच्चारितमूर्ध्वमुन्नामयती’त्योङ्कारादिना प्रणवतारादिना मनुर्वचनमनुकृत्य ’ सर्वे देवा अस्मिन् संविशन्तीति विष्णुरित्यादिनिर्वचन प्रवृत्त्या प्रणवनामनिर्वचनत्वावमायात् । वाच्यवाचकयोरमेदमाश्रित्य वाच्यनामान्येव वाचकनामत्वेत निरुच्यन्त ह्यभ्युपगमेऽप्युपक्रमे विष्णुनामनिर्वचनेनानेकेनैकस्य महादेवनामनिर्वचनस्योपमंहारगतस्य स्पर्धितुमशक्तेः । अथर्वशिस्नायाः कृत्स्नाया अपि भगवत्परत्वस्य वञ्चयिष्यमाणत्वाच्च । अपि वाऽथर्वशिखा निर्वचनानुसारात् विष्णुशब्दस्य हरिशब्दस्य यमानिलादाविव शिवे शक्त्यङ्गीकारेऽपि प्रसिद्धिप्राचुर्येण भगवत प्रतीत्यातत्र विष्णुशब्दस्य देवतान्तरपरत्वात् कथमस्योपपत्तिशून्यत्वात् । - वरं प्रधानममृताक्षरं हर’ इति श्वेताश्वतरवाक्यस्थहरशब्दबलादस्य शिवमत्वमिति सङ्गतम् । वैपरीत्यस्य सुवचनात् देवतासन्देहको निर्धारकत्वेननृत्यन्तरकल्पनान्तद्वरशब्दस्मृत इति चेत् किं कारणम् ; ब्रह्मेत्यस्य संशयस्य देवताविशेषको टिकत्वासिद्धेः । तत्रत्यस्य हरिशब्दस्य देवताविशेषपरत्वासिद्धेः । प्रपञ्चयिष्यते चायमर्थः श्वेताश्वतरवाक्य विचारे । तस्मात् कठवल्लिका भगवत्परेति सिद्धम् ।

54

वेदान्तविजयकृतस्तु " पूर्वखण्डे कामस्याप्तिः जगतः प्रतिष्ठां क्रतोरनन्तमभयस्यपारम् । स्तोमं महदुरुगार्थ प्रतिष्ठां दृष्ट्वा धीरो नचिकेतोत्यस्राक्षीः । तमीदृशांगुष्ठमनः प्रविष्टं गुहाहितं गइरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ।’ इत्युरुगायस्य ज्ञेयत्वेन प्रतिष्ठात्वेन चामिधानेन तस्यैव प्राप्यत्वात् । उरुगाय शब्दस्य च भगवति सुप्रसिद्धेन न भगवदतिरिक्तपरत्वमस्या उपनिषद " इत्याहुः ।

उपबृंहिता चेयमुपनिषत् शङ्खस्मृतौ यतिधर्मे

" चतुर्विंशतिरेतानि तत्त्वानि कथितानि तु ।

ज्ञात्वात्मानं तद्विमिन्नं पुरुषं पश्ञ्चविंशकम् ॥ यज्ज्ञात्वा तु विमुच्यन्ते यतयः शान्तबुद्धयः । यदेतत्परमं गुह्यमेतदक्षरमुत्तमम् ॥ अशब्दमस्पर्शमरसमरूपं गन्धवर्जितम् । निर्दुःखमसुखमशुद्धं तद्विष्णोः परमं पदम् ॥ अग्निं निरञ्जनं शान्तमव्यक्तं ध्रुवमक्षरम् । अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् ॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम् ॥ इन्द्रियेभ्यः परायर्या अर्थेभ्यश्च परं मनः । मनसः परमा बुद्धि:, बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ स्वं देहमरणिं कृत्वा प्रणवक्षोत्तरारणिः । ध्याननिर्मथनाभ्यासाद्विष्णुं पश्येत् हृदिस्थितम् || रविमध्ये स्थितस्सोमस्तस्य मध्ये हुताशनः । तेजो मध्ये स्थितं सत्यं सत्वमध्ये स्थितोऽच्युतः ॥

55

अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तो । तमऋतुं पश्यति वीतशोको धातुप्रसादान्महिमानमीशम् ||

एष देवस्तु मर्त्यानां पटैरिव विधीयते । अज्ञानपटसंवीतैरिन्द्रियैर्विषयेऽप्सुभिः ॥

एष वै पुरुषो विष्णुः व्यक्ताव्यक्तस्सनातनः । एष धाता विधाता च प्रधानं निष्कलश्शिवः ॥ वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् । यं वै विदित्वा न बिमेति मृत्योर्नान्यः पन्था विद्यते चायनाय || "

इति । त्राक्षे पुराणे च

66

“ तथा च भगवान्मृत्युर्नाचिकेतं समागतम् ।

पृच्छन्तं प्राह विप्रं तमयमेघिरतरोऽपि सन् ॥ यस्य ब्रह्म च क्षत्रं चोमे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ गृहे संहारसमये जगच्च बदराण्डवत् । लीलया यस्तु भगवान् तं गच्छ शरणं हरिम् ॥ सर्वभूतात्मभूतस्य विष्णोः को वेदितुं गुणान् । शक्तो महेश्वरादन्यः पार्वत्याश्वापवा भवेत् ॥ "

इत्युपबृंहितेयमुपनिषत् ।

एवं च खबुद्धिकल्पितान्न्यायात् गरीयोपबृंहणं इति वदतः परस्याप्युपबृंहणानुसारेणार्थवर्णनस्य ज्यायस्त्वं सम्मतमिति न तद्विरुद्धम् । कठवल्लीनां देवतान्त रपरत्वमभ्युपगन्तुं युक्तम् । तत्र च ’ विज्ञानसारथिरि ‘त्यादि ‘सा परागति’ रित्यन्तं कठवल्लीवाक्यमेव पठित्वा,

’ खं देहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।

ध्याननिर्मथनाभ्यासाद्विष्णुं पश्येद्धृदिस्थितम् ॥’

56

इत्यादिना तस्य विष्णुपरत्वस्फुटीकरणात् । तथा च ’ यस्य च ब्रह्म चेत्यस्य तं गच्छ शरणं हरिम्’ इति भगवत्प्रतिपादकत्वावेदनात् देवतान्तरपरत्वे विरोधः स्फुट एव । तदेवं न्यायोपबृंहणाभ्यां कठवल्लीनां भगवत्परत्वं सिद्धम् ।

'

एवं श्रीपुरुषसूक्तमपि परब्रह्मत्वे भगवतः प्रमाणम् । ‘पुरुष एवेदं सर्वम् । यद्भूतं यच्च भव्यम् । सर्वाणि रूपाणि बिचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यत इत्यादिवाक्येषु तत्सूक्तप्रतिपाद्ये पुरुषशब्दार्थे नारायणे ब्रह्म धर्माणां सर्वशरीरत्व जगत्कारणत्व मुमुक्षूपास्यत्वादीनां श्रवणात् । न च पुरुषशब्दार्थो नारायण इत्यत्न किं प्रमाणमिति वाच्यम् । ’ पुरुषो ह वै नारायणोऽकामयत’ ( श. ब्रा. 18 - 8 -1 ) ’ संहृत्य लोकान् पुरुषोऽवीशत’ इति वैदिकलौकिकप्रयोगवशात् । ‘पुरुषसंज्ञे शरीरेऽस्मिन् शयानो हरि’रित्यादिनिर्वचनात् । भगवानिति शब्दोऽयं तथा पुरुष इत्यपि निरुपाधि च वर्तते । ’ वासुदेवस्सनातन’ इत्यादिपौराणिकवचनेषु असाधारणत्वोक्तेश्च । तत्य शब्दस्य नारायणासाधारणत्यावसायात् ।

किं चाथर्वणेऽष्टादशमहाशान्तिप्रकरणे

तत्तद्देवत्यशान्तिषु तत्त-

देवत्य विनियोगानन्तरं ‘वैष्णव्यां पुरुषसूक्तमिति वैष्णव्यां शान्तौ पुरुषसूक्तं विनियुज्यते । शौनकीय कल्पे च ’ शौनकोऽहं प्रवक्ष्यामि नित्यं विष्ण्वर्चनं परं ’ इत्यारभ्य आद्ययाऽऽवाहयेदेवमृचा तु पुरुषोत्तममिति प्रत्यर्चमुपचारमेदेषु विनियोगः कृतः । तथा व्यासस्मृताविदं भगवदर्चने नियुक्तम् ।

न विष्ण्वाराधनात्पुण्यं विद्यते कर्मवैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेत् हरिम् ॥ तद्विष्णोरिति मन्त्रेण सूकेन पुरुषेण तु । नैवाभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥

इति । तस्मात् विनियोगादप्यस्य सूक्तस्य भगवत्परत्वम् ।

57

महापुरुषशब्दश्च कल्पसूत्र कौर देदेवताविशेष एव प्रयुक्त:

महा-

देवं वा महापुरुषं वार्चयेदिति । इह च ’ वेदाहमेतं पुरुषं महान्तमित्युच्यते । अतश्च भगवदसाधारण्यम् । तथा ’ पुरुषस्य हरेः सूक्तं स्वयं धन्यं यशस्करम् ’ इति कण्ठरवेण भगवत्परत्वं स्मर्यते ।

6

योऽनूवाचनं द्विजंमत्योंहतवानर्थलोभतः ।

स पठेत् पौरुषं सूक्तं स्मरन् विष्णुंजलेऽसकृत् ॥

इति यमस्मृतौ रहस्यप्रायश्चित्तेषूक्तम् । तथा योगवासिष्टे

आसीन: प्राङ्मुखः शुद्धश्चिन्तयन्मनसा हरिम् । पौरुषेणैव सूक्तेन जुहुयाद्धव्यवाहनम् ॥’

इत्युक्तम् । लक्ष्मीपतिप्रतिपादकोत्तर नारायण समानप्रकरणं चेदम् । ‘सहस्र - शीर्षा पुरुषः । पुरुष एवेदं सर्वम्’ इति नारायणानुवाकैक्यार्थं च प्रतीयते । पुरुषएवेदं सर्वमिति वाक्ये सुबालोपनिषदैकार्थ्यं च प्रतीयते । तत्र हि दिव्यो देव एको नारायण’ इति नारायणपरत्वं गम्यते । तत्र च पुरुष एवेदं सर्वमित्युपसंहृतम् । एवमुपबृंहणवलादपि सूक्तस्यास्य भगवत्परत्वमवगम्यते ।

तथा हि महाभारते सभापर्वणि-

मीष्मपर्वणि

’ अव्यकोऽव्यक्तलिङ्गस्यो य एष भगवान् प्रभुः । पुरा नारायणो देवः स्वयम्भूः प्रपितामहः ॥ सहस्रशीर्षा पुरुषो ध्रुवोऽव्यक्तरसनातनः । सहस्रास्यः सहस्राक्षः सहस्रचरणो विभुः ॥ सहस्रबाहुः सहस्रास्त्रो देवो नामसहस्रवान् । सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः ॥ ’ इति ।

'

असृजन्मुखतो विप्रान्बाहुभ्यः क्षत्रियांस्तथा । वैश्यांश्चाप्यूरुतो राजन्यः शूद्रान् पद्भ्यां तथैव च ॥ एनमाहुर्हृषीकेशं मुनयश्च जनाधिप ॥’ इति ।

58

मोक्षधर्मे

तथा

पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः । ’ इति ।

ब्राह्मणानां शतं ज्येष्ठं मुखादभ्युत्सृजत् प्रभुः । बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् ॥ पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ । स एव चतुरोवर्णान् समुत्पाद्य महातपाः ॥ अध्यक्षं सर्वभूतानां धातारमकरोत् प्रभुः ॥ ’ इति ।

आश्वमेधिके च

‘अहं सहस्रशीर्षा तु सहस्रवदनेक्षणः ।

सहस्रबाहूद रदृक्सहस्राक्षः सहस्रपात् ॥ धृत्वोवीं चाप्यहं सर्वमत्यतिष्ठद्दशाङ्गुलम् ।

सर्वभूतात्मभूतस्थः सर्वव्यापी ततोह्यहम् ॥’ इति ।

हरिवंशे कैलासयात्रायां रुद्रकृतकृष्णस्तोत्रे

सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् । सहस्रोदरसाहस्री सहस्रात्मादिवस्पतिः ||

भूमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् । अणुस्सर्वत्रगोभूत्वाऽध्यतिष्ठद्दशाङ्गुलम् ॥ त्वमेवेदं जगत्सर्वं यद्धतं यद्भविष्यति । त्वत्तो विराट्प्रादुरभूत् सम्राट् चापि जनार्दनः ॥ तववक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः । प्रादुरासीत् पुराणात्मा षट्कर्मनिरतस्सदा ॥ राजन्यस्ते तथा बादोरासीत् संरक्षणे रतः । ऊर्वो वैश्यस्तथा विष्णोः पादाच्छूद्र उदाहृतः ॥

59

एवं वाणी जगन्नाथ तत्र देहात् सनातनात् । मनसस्तत्र देवेश चन्द्रमास्समपद्यत ॥ सुखकृत्सर्वभूतानां शीतांशुरमृतप्रभः । अक्ष्णोस्सूर्यस्समुत्पन्नस्सर्वप्राणि विलोचनः || यस्य भासा जगत्सर्वं भासते भानुमानसौ । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत । नार्भेव्यो॑म समुत्पन्नं तव देव जनार्दन । चौरासीन्महाघोरः शिरस्तव जगत्पते ॥

पद्भयां भूमिस्समुत्पन्ना दिशः श्रोत्राज्जगत्पतेः 1 एवं सृष्ट्वा जगत्सर्वं व्याप्य सर्वं व्यवस्थितम् ॥ व्याप्य सर्वानिमान् लोकान्वेत्सि सर्वत्र केशव । ततश्च विष्णुनामासीद्धातोर्व्याप्तेः प्रवेशनात् ॥ ’ इति ।

श्रीमद्वैष्णवे पुराणे -

’ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापी भुवस्पर्शादत्यतिष्ठद्दशाङ्गुलम् ॥ यद्भूतं यच्चभव्यं वै पुरुषोत्तमतद्भवान् । त्वत्तो विराट् खराट् सम्माटत्वत्तश्वाप्यविपूरुषः || अत्यरिच्यतसोधश्च तिर्यक्वोर्च्च च वै पुरा । त्वत्तो विश्वमिदं जातं त्वत्तो भूतं भविष्यति || त्वत्तो यज्ञस्सर्वहुतः पृषदाज्यं पशुस्तथा । त्वत्तो चोऽय सामानि त्वत्तश्छंदांसि जज्ञिरे ॥ त्वत्तो यज्ञं विसामानि त्वत्तोऽश्वाः पशवो गजा: । गावस्त्वत्तस्समुद्भूता अण्डजाः पशवो मृगाः ॥ त्वन्मुखाह्मणाजाता बाहोः क्षत्रमजायत । वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः ॥

60

अक्ष्णोः सूर्यानिलः प्राणाचन्द्रमा मनसस्तव । प्रणोऽन्तः सुषिराज्जातो मुखादग्निः पुरन्दरः ॥ नामितो गगनं द्यौश्च शिरसस्समवर्तत ।

भागवते

"

दिश: श्रोत्रात् क्षितिः पद्भ्यां त्वत्तस्सर्वमभूत् ॥ ’ इति ।

पश्यत्यदोरूपमदु प्रचक्षुषः

सहस्रपादोरुभुजाननाद्भुतम् ।

सहस्रमूर्धः श्रवणाक्षि नासिकं

सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ’ इति ।

एवं पुराणान्तरेष्वप्युपबृंहणानि द्रष्टव्यानि ॥

यदाह कश्चित् – ‘उतामृतत्वस्येशान ’ इतीशानपदश्रुतिः । रूढ्या शिवमुपस्थाप्य सूक्तयन्नति तद्वशन् ॥’ ननु अमृतत्वस्येति ईशितव्यापादानात् । तदैश्वर्यरूपयौगिकार्थविधित्सया प्रयुक्तमीशानपदं केवलयौगिकार्थत्वात् न रूढ्या शिवस्य प्रतिपादकमिति चेत् न । तदनुपादान एव तदुपादानेऽप्यवयवशक्त्या शिवप्रतिपादकस्यौत्सर्गिकस्य दुर्वारत्वात् । इह केवलयौगिकत्वस्यैवासिद्धेः । न हि प्रतिसम्बन्ध्यनुपादान एव समुदायशक्त्युन्गेष इति कश्चित् व्युत्पत्तिसिद्धनियमः । ’ शब्दादेव प्रमित’ (ब्र. सू. 1-8-24 ) इत्यधिकरणे’ ऽङ्गुष्ठमात्रः पुरुष’ इति मन्त्रप्रतिपाद्यस्य पुरुषस्य ‘ईशानो भूतभव्यस्य’ इतीशितव्योपादानेऽपीशानश्रुत्या परब्रह्मत्वनिर्णयात् । अन्यथा तत्रापीशान शब्दादैश्वर्यशब्दपरब्रह्मलिङ्गभावप्रतिपत्या तदभिधानरूपशब्दानिर्णयाभावापा-

तात् । न च तत्र लिङ्गादेव निर्णयोऽस्त्विति वाच्यम् । प्रथमश्रुतान्यपरिमाण रूपजीवलिङ्गविरोधिना चरमश्रुतेन लिङ्गमात्रेण निर्णयायोगात् । तस्य जीवलिङ्गत्वाभावे पूर्वपक्षबीजाभावेनाधिकरणानारम्भापत्तेः । सूत्रे शब्दपदस्यासामखस्थापत्तेश्च । यथाश्रुतार्थसमर्थनसम्भवे तस्य क्लिष्टार्यान्तरकल्पनासहिष्णुत्वात् । विष्णुपरत्वादिभिरपि तस्य स्वामिमते ब्रह्मणि शक्त्यमिमानेन नेश्वरसम्बन्धिलिङ्गात् निर्णयः, किं त्वीश्वरवाची शब्दादेवेत्येवकारा मिप्राय इत्युक्तत्वाश्च ।

61

तस्मादङ्गुष्ठमन्त्रवत् पुरुषसूक्तस्यापीशान श्रुतिसमर्पित परब्रह्मणि शिवे पर्यवसान-

मिति युक्तम् ।

न च पुरुषशब्दात् नारायणस्योपस्थित्या तत्परत्वमस्तीति वाच्यम् । तस्य नारायणे विशिष्य शक्त्यसिद्धेः । ‘पुरुषावात्ममानवावि’ त्यमिधान कोशस्मृतेलौकिकवैदिकप्रयोगप्राचुर्याश्च । आत्मसामान्ये तस्य शक्तेरावश्यकत्वेम तत एव विष्णौ प्रयोगोपपत्त्या विशिष्य तत्र शक्तिकल्पनया अनिमेषात् । अन्यथा बहिंराज्याधिकरणविरोधात् । तत्र हि म्लेच्छस्तृणघृतादिजातिमात्रे अर्यैः संस्कृततृणादावेव प्रयुज्यमानानां बहिंराज्यादिशब्दानां यक्त्रराहाधिकरणन्यायेन शास्त्रस्य प्रसिद्धेर्बलक्त्वात् संसारनिमित्तकत्वमाशङ्क्य शास्त्रस्थ प्रयोगस्य जात्यव्यभिचारात् जातिमात्रव्यवहारस्य संस्कारव्यमिचारात् । अव्यमिचरितजातिशक्तिमादाय सर्वप्रयोगोपपादनसम्भवेन विरोधाभावात् जातिवाचितैवेति राद्धान्तितम् । उकं च तन्त्रवार्तिके – ’ एकदेशेऽपि यो दृष्टः शब्दः जातिनिबन्धनः । नदत्यागात् न तस्याप्तिनिमित्तान्तरकल्पनेति । एवं च यदाम्लेच्छगतयापि मामान्यप्रसिध्या सामान्यशक्तिसिद्धौ तद्वारैवार्यव्यवहारसिद्धविशेषलाभ इति न विशेषशक्तिकल्पनम् । तदा का कथा प्रकृतविषये ! इह सामान्यप्रसिद्धेरप्यार्यगतत्वेन दौर्बल्यशङ्काया अप्यनक्काशात् ।

नन्वस्तु प्रयोगान्तराणामन्यथासिद्धि:, तथापि अथर्वशिखायां ब्रह्मदेवत्या विष्णुदेवत्या रुद्रदेवत्येति मात्रात्रयदेवताविधानानन्तरं पुरुषदेवयेत्यर्धमात्रे देवताविधाने पुरुषसामान्यस्य देवतात्वायोगात् । त्रिमूर्तिभ्यः अस्मिन् देवताविशेषे पुरुषशब्दप्रयोगः तत्तद्वाचिशब्दैर्देवताविधानप्रायपाठबळात् पुरुषस्य शब्दस्य तत्र विशिष्य शक्ति कल्पयन्ननेकश्रुत्यादिप्रतिपन्ननारायणपरप्रयोगानुरोधात् तत्रैव तां पर्यवसाययिष्यतीति चेत् न । सामान्यशक्त्याऽप्यभिमतविशेषपर्यवसानसम्भवे प्रायपाठमात्रस्य गौरवपराहतशक्त्यन्तरकल्पत्वायोगात् । ’ एकादेया द्वादशादेयाश्चतुर्विंशतिर्देया सहस्रं देयमपरिमितं देयमित्याधानदक्षिणाकरप मेद श्रुतावपरिमितशब्द-62

स्यापरिमाणे शिष्टस्येत्यधिकरणे एकादितुल्यकल्पान्तरपरत्वोपस्थितस्याधिकं वा स्यात् । ’ बर्थमित्यादितरैः सन्निधानादिति (जै. सू. 6-7–11) विधित्सितसङ्ख्याविशेषवाचिशब्दप्रायपाटेऽपि बहुत्व सामान्यशक्त्यैव न्यायलभ्ये सहस्राधिकबहुत्वे पर्यवसाननिर्णयात् ।

नन्वत्स्वेवं प्रयोगमात्रस्यान्यथासिद्धिः । तथापि बहुत्वसामान्यशक्त्यैव न्यायलभ्ये सहस्राधिक ’ पुरुषसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः’ इति पौराणिकानन्तस्येदं नामत्वेन निर्वचनम्, नान्यथासिद्धम् । विशिष्यापि शक्ति कल्पयिष्यतीति चेत् न । सामान्यशक्तस्यापि पुरुषशब्दस्य श्रुत्यादिषु कचित् प्रकरणादिसामर्थ्यात् नारायणे पर्यवसानमस्तीत्येतावज्ज्ञायते । न चरितार्थतया अर्थवादप्रधानपौराणिकनिर्वचनस्य चित्राधिकरणे स्तोत्र विशेषनामत्वेन

जघाने अपरिमितशब्दस्य संख्यापरत्वाधिकरणम् -

आधाने श्रूयते एकादेया, षड्देयाः द्वादशदेयाः चतुर्विंशतिः देयाः शतं देयम्, सहस्रं देयम् अपरिमितं देयं इति । तत्र अपरिमितशब्दगतेन नत्रा परिमाणं निषिध्यते । तथा सति अपरिमितशब्दव्युत्पत्त्या देय द्रव्यस्य परिमाण शून्यता प्रतीयते । अनेन वाक्येन एकादिका पूर्ववाक्योक्तागवां संख्या निवार्यते इति पूर्वः पक्षः ।

सिद्धांतस्तु :अपरिमित शब्दस्य रूढ्या बहुत्वं अर्थ:, तथैव प्रयोग बाहुल्यात् । ततो न एका दिपक्षाः निवार्यते । किंतु संख्यांतरं विधीयते । अपरिमितशब्देन यद्बहुत्वं विहितम् तत्र च सहस्रात् अर्वागपि भवति I कुतः । द्विशत त्रिशतादौ बहुत्वसंभवात् - इत्याक्षिप्य एकादिपक्षेषु उत्तरामिवृद्धिदर्शनेन अत्रापि सहस्र पक्षमुपन्यस्य पश्चादविधीयमानं बहुत्वं सहस्रात् ऊर्ध्व पर्यवस्यति । (जै. सू. 6-7-11 )

63

सिद्धस्य पृष्ठशब्दस्य कचित् पृष्ठैरूपतिष्ठत (जै. सू. 7-3-8 ) इत्यादौ तत्साधने रथन्तरादावपि लक्षणया प्रवृत्तिरस्तीति तन्निर्वाहेण चरितार्थस्य रथन्तरादौ पृष्ठशब्दप्रवृत्तिनिमित्त प्रतिपादन परस्य

• आपो ऋत्वियमार्च्छन् तासां वायुः पृष्ठे व्यवर्तत’ इत्यादिश्रोतार्थबादस्यैवान्यथा सिद्धत्वात् नानन्यथा सिद्धामिधानकोश स्मृत्यादिवत् मशक्त्योपपादनीय प्रयोगविषये शक्त्यन्तरकल्पकत्वायोगात् । न हि स्तोत्र-

सर्वपृष्टशब्देन षट्पृष्टानां अतिदेशाधिकरणम्

विश्वजित् सर्वपृष्टो भवतीति श्रूयते । तत्र विश्वजित् नाम्नि ज्योतिष्टोम - विकारे यागे सर्वेषां पृष्टानांविधिः भवति । परं तु ज्योतिष्टोमे माध्यंदिन पवमानानंतर भावीनि माहेन्द्रादीनि चत्वारिस्तोत्राणि संति । अभित्वा शूरनो कयानश्वित्र आभुवत्, तं वोदस्ममृतीषहम्, तरोभिर्वोविदद्वसु येतेषु चतुर्षु सूक्तेषु तानि स्तोत्राणि सप्तदशस्तोमतामापाद्य गीयंते । तादृशेषु खोनेषु सप्तदशाय पृष्टानि इति । तानि च चत्वारि पृष्टानि विश्वजिति चोदक प्राप्तत्वात् सर्वपृष्टेन शब्देनानूद्यते इति एकः पक्षः ।

नुमः,

रयंतर बृहत्पृष्ठयोः ज्योतिष्टोमे बिकल्पितयोः चोदकेन विकल्पप्राप्तौ सर्वशब्देन समुच्चयो विधीयते इति द्वितीयः पक्षः, प्रथमपक्षे चोदकप्राप्तानाम् स्तोत्राणाम् पुनरनुवादस्य वैयथ्यं जायते एवं प्राप्ते अभिघीयते ।

सर्वत्वं बहुषु मुख्यं न तु द्वयोः, तस्मात् अनेन सर्वपृष्टशब्देन षट्संख्याकानि पृष्टान्येवातिदिश्यते । षडहे प्रतिदिनमेकैकं पृष्टं विहितम् । नि ष्ट्पृष्टानि रथंतर, बृहत्, वैरूप, बैराज, शाकर, रैवत सामभिः निर्दिष्टानि । तानि सर्वाणि षट्पृष्टानि विश्वजिति अतिदिश्यते । यद्यपि विश्वजित: - ऐकाहिकत्वात् ज्योतिष्टोमविकृतित्वमेव । न षडहविकृतित्वम् । वयापि सर्वपृष्टोक्तिबलात् - षट्पृष्टानि अतिदिश्यंते । अतः षाडहिक षट्पृष्टानामेवात्र विधिः भवति । (जै. सू. 7-3-3)

64

नामत्वेन सिद्धस्य पृष्ठशब्दस्य रथन्तरादावपि लक्षणा । योग्ये प्रवृत्तिनिमित्तप्रतिपादनपरोऽर्थवादोऽस्तीत्येतावता तत्र शक्त्यन्तरमुपेयते । भगवता जैमिनिनैव सप्तमतृतीयान्ते पृष्ठैरुपतिष्ठ इत्यत्र माहेन्द्रस्तोत्नपरो रथन्तरादि परोवेति विचारे कर्मणः पृष्ठशब्दस्या ’ तथा भूतोपदेशादिति (जै. सू. 7-8-14 ) पूर्वपक्ष सूत्रेण पृत्रशब्दोपदेश सामान्यात् स्तोत्रक्रियापरत्वमिति स्तोत्रपरत्वस्यौत्सर्गिकत्वकथनेना’ भिधानोपदेशाद्वा विप्रतिषेधात् । द्रव्येषु पृष्ठशब्दस्यादिति स्तोत्रपरत्वेऽनुपपत्त्युपन्यासपूर्वकं रथन्तरपरत्वव्यवस्थापनेन च तत्र लक्षणाया स्फुटीकरणात् । भाष्यकारादिमिश्च सर्वैस्तत्रैकमत्येन लक्षणाव्यवहारात् । एतेन

तथा पुरुषशब्दोऽयं वासुदेवोऽवतिष्ठति ।

तं विना पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् ॥ भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधि च वर्तते वासुदेवे सनातने ॥

पृष्टशब्दस्य मन्त्रवाचित्वाधिकरणम्

अग्निचयने ‘पृष्टैरुपतिष्ठते’ इति श्रुतम् । पृष्टशब्दश्च ज्योतिष्टोमे माध्यंदिन सवनगतस्य स्तोत्रस्य कर्मणो नामधेयमिति पूर्वमेव ( 1-4-8 ) निर्णीतम् । अग्निचयनगतोपस्थानकर्मणि प्रयुज्यमानः पृष्टशब्द: अग्निहोत्र शब्दन्यायेन पृष्टधर्मान् उपदिशति । इति प्राप्ते -

पृष्टशब्दस्य न कर्म परत्वं संभवति । जुहोति यजति इत्यादिधातुमि: सामानाधिकरण्यस्य शब्दस्यैव कर्मपरत्वं युज्यते । यथा अग्निहोत्रं जुहोति इति । अत्र पुनः उपस्थान एवं पृष्टशब्दवाच्यस्य उपयोगः, उपस्थान करणत्वमेव मंत्राणां संभवति । यद्यपि स्तोत्रकर्मवाची पृष्ठशब्द:, तथापि तत्साधनभूतान् रयंतरादिसामोपेतान् ‘अमित्वाशूर’ इत्यादिमंत्रान् उपलक्षयति (जै. सू. 7-8-14 )

65

ब्रह्माद्याः सकला देवा यक्षगन्धर्वकिन्नराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ॥ '

इत्यादीनि पुरुषशब्दस्य विष्णाव साधारण्यौत्सर्गिकत्व प्रतिपादनच्छायापन्नानि गेगुणिकवचनानिन्य …. व्यप्रत्यवस्थानमपि निरस्तम् । सर्वसंप्रतिपन्नाया अविशेषेणात्मसामान्यदुर्वारत्वेनासाधारण्यायोगात् । अपशवो वा अन्ये गो वेभ्यः पशवो गो अश्वानित्यसाधारण्येन गवाश्वानां पशुत्वोक्तिवदुदाहृतवचनानां स्वातन्त्र्यादिपुरुषधर्मपौष्कल्येन प्रशंसापरत्वोपपत्तेः । तस्मात् न पुरुषशब्दस्य विष्णावसाधारणप्रयोगनिर्वचनैर्विशिष्यशक्तिः ।

यदि स्यात् तदा पुरुषस्य विन सहस्राक्षस्य महादेवस्य धीमहि ’ - पुरुषं कृष्णपिङ्गलम्’ ‘तमीशानं पुरुषं देवमीड्यमित्यादि श्रुतिषु

शूद्राः पादात्पिनाकिनः । प्रस्तुत्य

’ पुंसा तु पुरुषो मानज्ञानगम्यो न चान्यथा ॥ '

इते लैङ्गे च ’ शिवे तस्य ललाटात् त्र्यक्षः शूलपाणिः पुरुषो जायत’ इत्यादि श्रुतिषु ’ एष संहाररुद्रेऽङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रित’ इत्यादौ पिण्डाण्डमूलाङ्गुष्ट समाश्रयणलिङ्गोपस्थापिते ब्रह्माण्डमूलभूताधार लोकवासिनि कालाग्निरुद्रे ’ यत्पुरुषेण हविषे ‘त्यादिश्रुतिषु ’ तद्विसृष्टस्स पुरुषो लोके ब्रह्मेति कीर्त्यत’ इति मनुस्मृतौ च ब्रह्मणि च प्रयोगात् ।

"

यस्मात्पर्यनुशेते च तस्मात्पुरुष उष्यते '

इति लैङ्गे शिवनामनिर्वचनप्रस्तावे निर्वचनात् । वेदान्तेषु ’ यमाहुरेकपुरुषं व्याप्यस्थितं रोदसी’ इत्यभियुक्तोक्तिः शिवस्य वेदान्तेषु पुरुषत्वेन प्रतिपाद्यतयाऽमिधानात् ’ स यत्पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत तस्मात् पुरुष’ इति बृहदारण्य के ब्रह्मनामत्वेन निर्वचनात् ।

स वै शरीरी प्रथमस्सवै पुरुष उच्यते ।

आदिकर्ता स भूतानां ब्रह्माप्रे समवर्तत ॥ '

66

इत्यनेकपुराणेषु तन्नामत्वेनानुशासनात् ।

’ पुरुषो नामः सम्पूर्णश्शिवत्सत्यादिलक्षणः ।

साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा ॥ '

इति स्कान्दे ब्रह्मगीतासु शिवेऽसाधारण्यप्रतिपादनाच अन्यत्रापि स्यात् । तस्मादेकयानेकया था शक्त्या साधारणत्वात् न पुरुषश्रुत्या देवताविशेषनिर्णयो युक्तः ।

यदि हि ततो निर्णयस्स्यात् तदा ’ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ’ ’ दिव्यो ह्यमूर्तः पुरुषः ’ ’ स एतस्मात् जीवधनात् परात्परं पुरिशयं पुरुषमीक्षते ’ अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती ‘ति श्रुतीनां तत एव परमते ब्रह्मपरत्वासिद्धेः । ’ अन्तस्तद्धर्मोपदेशात् (त्र. सू. 1-1-25 ) ’ अन्तर उपपत्तेः ’ ( ब्र. सू. 1-2-13 ) ’ अदृश्यत्वादिगुणको धर्मोक्तः ’ ( ब्र. सू. 1-2-22 ) ’ ईक्षति कर्मव्यपदेशात् सः ’ ( ब्र. सू. 1-8-12 ) ’ शब्दादेव प्रमित’ ( ब्र. सू. 1-8-28) इति तद्विचारार्थ सूत्रारम्भो व्यर्थः स्यात् । कयंचिदारम्भसमर्थने वा धर्मोपदेशादि - त्यादिना लिङ्गैर्ब्रह्मपरत्वनिर्णयोऽसङ्गतः स्यात् । प्रबलश्रुतिसद्भावे तामुपेक्ष्य लिङ्गोपन्यासस्थानुचितत्वात् । परमते ईक्षति कर्म स परमात्मा निरुपाधिशान्तत्वामृतत्वादिव्यपदेशादिति हि तद्वाख्या भूतयोन्यधिकरणस्याक्षरमित्र दिव्यो ह्यमूर्तः पुरुष इव मन्त्रार्थः । पुरुषोऽपि विषयं ईक्षतिकर्माधिकरणस्य [ ईक्षतिकर्मव्यपदेशात् सः ] ध्यायति कर्मेवेति कर्मापि । किं च त्वन्मते स्वमसृष्टि: जीवकर्तृकेति पूर्वपक्षोपमर्देन परमात्मकर्तृकेति निर्णयार्थ प्रवृत्ते सृष्टिरित्याधिकरणे [ सन्ध्ये सृष्टिराहि हि ] ( ब्र. सू. 8 - 2 - 1 ) ’ निर्मातारं चैक’ इति सूत्रव्याख्याने ’ य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण’ इति वाक्यमुदाहृत्य पूर्वपक्षोपपादनं कृतं तदप्यसम्बन्धः स्यात् । न हि सिद्धान्तोपपादिन्येव श्रुतिः पूर्वपक्षोपपादिनी भवति । तस्मात् न पुरुषशब्दस्य विष्णावसाधारण्यमिति न तद्वलात् पुरुषसूक्तस्य भगवत्परत्वम् । नापाद विष्णुरित्यादिना वैष्णवमन्त्रमध्ये निवेशात् ।

’ सन्ध्ये

67

‘नमकं चमकं चैत्र पुरुषसूक्तं च नित्यशः ।

जपन्नेति महादेवं ग्रहं ग्रहपतिर्यथा ॥

पुराणेषु श्रवणात् । वास्तुशान्तौ,

इत्युपक्रम्य

’ आवाह्य कुम्मे देवेशं रुद्रं भुवननायकम् '

’ नमकं चमकं चैव पौरुषं सूक्तमेव च '

इत्यादिना जपे विनियोगात् लैङ्गादित्यपुराणादिषु -

स कूर्चेण स पुष्पेण स्नापयेन्मन्त्रपुष्पकम् । मन्त्रांश्च ते प्रवक्ष्यामि श्रृणु सर्वार्थसिद्धये ॥

इत्युपक्रम्य

’ ज्येष्ठसाम्नात्रयेणैव तथा देववृतैरपि ।

रथन्तरेण पुण्येन सूक्तेन पुरुषेण च ॥ '

इति शिवाभिषेकमन्त्रेषु परिगणनाच्च । शिवपरत्वस्यैव ईशानश्रुत्यानुश्रुत्यानुगुण्येन वक्तव्यत्वात् । ’ उद्बुध्यखाग्ने अग्निर्मूर्धादिवः ककुदित्यादिमन्त्राणां ग्रहयज्ञे तत्तद्ग्रहयज्ञमन्त्रविधानाक्सरे बुधभौमादि पूजा तु विहितानामपि बहुशस्तदाराधनजपहोमादिषु विनियुज्यमानानामपि विरुद्धविनियोगमात्रेण श्रुतितदनुकूलविनियोगप्राप्ताग्नेयत्वाद्यत्यागवत् ।

‘अथ नारायणाभ्यामुपस्थानं '

'

यजेत् पुरुषसूक्तेन धनदं विश्वरूपिणम् '

इत्यापस्तम्बसूत्रशातातपस्मृत्यादि सिद्धविनियोगान्तरेणैव विष्णुसमाराधने विनियोगे नापि श्रुतिप्राप्ततदनुमोदित शिवपर्यवसायित्वात् त्यागस्यैव युक्तत्वात् ।

68

नापि उपबृंहणबलात् तत्सूकस्य भगवत्परत्वसिद्धिः । मन्त्रविवरणरूपोपबृंहणानां श्रुतिविनियोगान्तर निर्वाहार्थत्वेनान्यथासिद्धि सम्भवात् तैः श्रुतितदनुकूलविनियोगाक्गमितम् -

"

मूर्धा तु विभोस्तस्य खन्नामिः परमेष्ठिनः । सोमसूर्याप्रयो नेत्रे दिशश्रोत्रे महात्मनः ॥

वक्ताद्वै ब्राह्मणास्सर्वे ब्रह्मा च भगवान् प्रभुः । इन्द्राविष्णूभुजाभ्यां तु क्षत्रियाश्च महात्मनः ||

वैश्याश्वोरुप्रदेशात्तु पादात् शूद्राः पिनाकिनः ॥ '

इत्यादि लङ्गादिष्टो यह्मणानुमोदितं च शिवपरत्वं न हापयितुं शक्यम् ।

इदमन्नावधेयम् - अस्त्यन्यदेवतानामपि मन्त्राणां विघिबलात् देवतान्तरयजनेऽपि विनियोगः । स च ’ मन्त्राधिकरण’ न्यायेन मन्त्रविनियोगस्य वाक्यार्थप्रतिपादनत्वात् । मन्त्रस्थितदेवतापरेण पदेन मुख्यवृत्त्यभावेऽपि ‘ऐन्द्यधिकरण’ न्यायेन लक्षणयापि यजनीयदेवतायाः प्रतिपादनीयत्वात् । समभिव्याहृतविशेषपदानां च ’ दर्भेस्स्तृणीत हरितैरितरैरित्यत्र दर्भादिषु हरितत्ववत् तत्र सम्भवदर्थानां तद्विशेषणगुणादिप्रकाशनद्वारा ‘सोमः पत्रते जनितामतीनामित्यत्र सोमलता या मिन्द्रादिजनयितृत्ववत् तत्रासम्भावितानामर्थानामसमवेतस्यापि समवेत विशेषणस्याभिधानं मन्त्रश्रुतविशेषण विशिष्टरूपप्रकाशनमभ्युदयकारीति नियमादृष्टार्थमित्यवचनं तेषामितरार्थं प्रयुज्यत इति नावमिकाधिकरणे व्यवस्थापनात् अभ्युदयार्थ’ मगन्मसुवस्सुवरगन्मे’ त्यत्र फलाभिधानवदादरातिशयजननार्थं वेति तदसमवेतस्यापि गुणजातस्याभिधानद्वारा तत्र पर्यवसानेन च निर्वाह्य इति विदितमेव मीमांसापरिचयशालीनाम् । तदि पुरुषसूक्तस्य श्रुत्यादिनियमितशिवैकान्त्यस्यापि श्रुतिस्मृतिदृष्टविनियोगान्तरनिर्वाहाय धनदादिप्रतिपादनप्रकारवत् नारायणप्रतिपादनप्रकारस्यापि कस्यचित् पुराणाद्यभावे पुरुषबुध्यापि कल्पनीयत्वात् । स एव तत्समाराधनतदङ्गतत्फलादिप्रपञ्चनप्रधानेषु पुराणागमेषु

I

69

नियमित इत्यन्यथासिद्धान्युपबृंहणानि । दृश्यन्ते ह्यसमवेतार्थविशेषाणामपि मन्त्राणां तथैव पुराणागमेषूपबृंहणानि ।

’ सोमं ससर्ज यज्ञार्थं सोमस्सोमादजायत ।

धारा च वह्निसूर्यश्च वज्रपाणिः शचीपतिः ॥

विष्णुर्नारायणः श्रीमान् सर्व सोममयं जगत् ॥ '

इति । तस्मात् न तानि श्रुत्यादिप्राप्तिः शिवपरत्वं ह्रापयितुमीशत इति न विनियोगोपबृंहणाभ्यामपि विष्णुपरत्वम् ।

"

न चैत्रमप्यारुणकेतुके ’ पूर्वमेवाहमिहासम्’ इति कूर्माकृतिलिङ्गोपस्थापितस्य नारायणस्य वचनं प्रदश्य तत्पुरुषस्य परत्वमिति तदर्थं तत्र पुरुषशब्दप्रवृत्तिनिमित्तममिधाय ’ सहस्रशीर्षा पुरुषः, सहस्राक्षः सहस्रपात् भूत्वोदतिष्ठत्’ इत्यनन्तरं पाठात् सहस्ररीर्षित्यादिमन्त्रस्थ पुरुषशब्दस्य तत्प्रवृत्तिनिमित्तत्वेन नारायणपरत्वनिर्णयात् तस्य चात्र सूक्तादौ श्रवणात्

• महादेवं महापुरुषं वा अर्चयेदिति कल्पसूत्र प्रयोगावगमिततदसाधारण्यस्य महापुरुषशब्दस्य वेदाहमिति मन्त्रे पाठात् ’ ह्रीश्चते लक्ष्मीश्च पत्न्याविति लक्ष्मीपतित्वलिङ्गोपन्यासेन च यमन्तः समुद्रो कक्योक्यन्ति ’ ’ विद्युतः पुरुषादघी’ ति समुद्रशायित्वात् विबुद्वर्णपुरुषत्वलिङ्गितपुराणादि प्रदेशविशेषप्रतिपादितकनकवर्णनारायणमूर्तिप्रतिपादनपरेण ’ अम्भस्य पार’ इति सूक्तेन स्मृतिषु तत्समाराधने हविर्निवेदने विनियुक्तैः ‘हिरण्यगर्भः समवर्तताग्र’ इत्यादिमन्त्रैश्च सह अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टाविति तदनुवाक्यश्रुतवाक्योपपादितेनैकवाक्येन च नारायणपरतया सिद्धेन समनन्तरानुवाकेन खप्रतिपाद्यमहापुरुषमहिमवर्णनप्रवृत्तेनैकवाक्यत्वात् । नारायणानुवाके नारायणे प्रतिपन्नस्य सहस्रशीर्षत्वादिधर्मस्य सुबालोपनिषदि ‘चक्षुश्च द्रष्टव्यं च नारायण’ इत्यादिनारायणात्मत्वं सर्वस्योक्त्वा तदुपसंहारे पठितस्य '

पुरुष एवेदं सर्वमिति मन्त्रस्य च प्रत्यमिज्ञानपुरुषेण नारायणेन यजमान उपतिष्ठत इत्यपास्तम् । वादिभिस्तन्नाम्ना सूक्तंव्यपदेशाच्च नारायणत्वमिति वक्तुं युक्तम् । सर्वस्याप्यस्य

70

गगनतलालेख्यसमानत्वादारुणकेतुके कूर्मपुरुषो भूत्वोदतिष्ठदित्यपूर्वपुरुषस्य पुरुषभावादिप्रतिपादनेन ’ सहस्रीर्षेत्यादिमन्त्रत्य पुरुषपदस्यानन्तरवाक्यप्रतिपन्नप्रवृत्तिनिमित्तकव्यतिरेकम्यावसायात् । अन्यथा तेन प्रवृत्तिनिमित्तेन प्रागपि तस्य पुरुषशब्दामिलप्यतया पुरुषो भूत्वेत्युक्तिविरोधापत्तेः । परोक्तरीत्यैब - ’ पुरुषो नाम सम्पूर्णश्शिवस्सत्यादिलक्षणः ।

"

साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा ॥ '

इति स्कान्दोक्तेः पूर्णत्वेन प्रवृत्तिनिमित्तेन पुरुषशब्दस्य शिवसाधारणत्वात् । यत्र यत्र कर्मभ्रंशो यज्ञभ्रंशो वा तत्र पुरुषं चिन्तयन् पुरुषसूक्तं ब्रूयात् । पूर्णत्वात्पुरुष इति विज्ञायते हीति वाधूलसूत्रे पुरुषसूक्तंश्रुततत्प्रतिपाद्यपरमपुरुषशब्दस्य प्रवृत्तिनिमित्तकत्वावसायात् । ’ सर्वो वै रुद्र’ इत्युक्त्यनन्तरमौचित्यात् ’ पुरुष एवेदं सर्वमिति मन्त्रविरोधशङ्कानिराकरणार्थतया ’ पुरुषो वै रुद्र’ इति श्रुत्या तस्य रुद्रपरत्वेन व्याख्यानाश्च । तस्य परमशिवत्वश्रुतित्वस्यैव सूपपादत्वात् महापुरुषशब्दस्यापि कचिदपि नारायणनामत्वेनानुशासनाभावात् । प्रयोगमात्रस्य गौतमस्मृतौ ’ मन्त्रेषु महापुरुषाये”ति शिव इत्र योगेनाप्युपपत्तेरनमिधानत्वात् । तथात्वेऽपि ’ पुरुषं महान्तमि’ ति पृथक्पदयोरेवेह श्रवणेन तस्याश्रयणादवयवार्थव्यवस्थितिसिद्धौ योगरूढिपदप्रतिपाद्यावयवार्थपरत्राक्यस्यान्यत्रापि प्रयोगस्य दुर्निर्वारत्वात् । अन्यथा पङ्कजादिशब्दानां योगरूढिवादिनां केवलयोगवादिनं प्रत्यन्यत्रापि प्रयोगप्रसङ्गस्यापादको काम्म्र की भावापत्त्या आपादयितुमशक्यत्वापत्तेः । भवादिशिवनामाष्टकमध्ये पठितस्य ’ अथाष्टमिर्नामभिरित्यादि बोधायनसूत्रे तन्नामत्वेन व्यवहृतस्य

पूज्यते यत्सुरैर्नित्यं महान् चैव प्रमाणतः । धातुमईति पूजायां महादेवस्ततः स्मृतः ॥ '

इति साम्बपुराणे तन्नामत्वेन निरुक्तस्य महच्छब्दस्य ’ पुरुषं महान्तमिति पाठेन ततः शिवपरत्वस्यैव प्रतीतेः । ’ अम्भस्य पारे’ इति सूक्ते ’ यमन्तः समुद्रे कवयो वयन्ति ’ ’ विधुतः पुरुषादघि ’ इत्युपन्यस्तयोः,

71

’ लिङ्गमूर्तिमहाज्वाला मालासंवृत्तमव्ययम् ।

लिङ्गस्य मध्ये रुचिरं चन्द्रशेखरविग्रहम् || व्योममार्गे तथा लिङ्गे ब्राह्मणं इंसरूपिणम् । विष्णुं वराहरूपेण लिङ्गस्याथस्त्वधोमुखम् ॥ ब्राह्मणं दक्षिणे तस्य कृताञ्जलिपुटं स्थितम् । वामे विष्णुं महाबाहुं कृताञ्जलिपुटं तथा ॥ मध्ये लिङ्गं महाघोरं महाब्धेरम्भसंस्थितम् । ध्यात्वा प्रदोषकाले तु शिवसायुज्यमाप्नुयात् ॥ एकार्णवे तु त्रैलोक्ये ब्रह्मनारायणात्मकः । भोगी शय्यागतः शेते त्रैलोक्यज्ञानबृंहितः ॥ जनस्थे योगिभिर्देव छिन्यमानोऽयसम्भवः । ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः ॥ सुष्वाप योगशयने एकी भूयाथ चक्रिणा । ब्रह्मा कमलवर्णाभो रुद्रः कालाग्निसन्निभः ॥ पुरुषः पुण्डरीकाभो रूपं तत्परमात्मनः । तं हेमनिकायाभं शितिकण्ठं त्रिलोचनम् ||

प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ '

इत्यादि पुराणदर्शनात् हिरण्यगर्भ इत्यादिमन्त्राष्टकस्य ’ य ईशे अस्य द्विपद इत्येतावन्तो वै पशवो द्विपादश्चतुष्पदश्चेति श्रुत्यन्तरप्रतिपन्नात् द्विपाञ्चतुष्पाद्रूपपशुपतित्वलिङ्गोपन्यासेन हिरण्यगर्भश्रुत्या च शिवप्रजापतिसाधारण्यात् तस्य नारायणैकान्त्यासिध्या तदेकवाक्यतया वा । ‘हीश्वते लक्ष्मीश्च पन्या’ वित्यत्र हृल्लेखावाचकोमापतित्वलिङ्गस्यापि प्रतीत्या लक्ष्मीपतिलिङ्गेन वोत्तरनारायणस्य नारायणपरत्वव्यवस्थित्ययोगेन तदेकवाक्यत्वेनापि परेप्सिता निर्वाहात् ।

’ अम्भस्य पार’ इत्यादेरन्ते ’ पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि, तन्नो रुद्रः प्रचोदयात्’ इति श्रवणान्मध्येऽपि ‘नैनमूर्ध्वं न तिर्यक्72

च, एत्र हि देवः प्रदिशोनुसर्वाः, विश्वतश्चक्षुरुत विश्वतोमुख’ इत्यादीनां मन्त्रोपनिषदथर्वशिरस्समाम्नातानां मन्त्राणां प्रत्यमिज्ञानात् ’ प्रजापतिश्चरति गर्भे अन्तरित्यत्र प्रजापतिशब्दस्य परमत इव योगेन ।

’ पाति यस्मात् प्रजास्सर्वाः प्रजापतिरिति स्मृतः ।

देवेषु च महादेवो महादेवः ततस्मृतः ॥

इति लैङ्गे शिवनाम निर्वचनदर्शनेन शिव एव प्रत्युपपन्नेऽभूद्धिरण्यगर्भस्यापि

तस्मात् हिरण्यगर्भोऽसौ पुराणेऽस्मिन्निरुच्यत

इति तलैव निर्वचनात् । बोधायनसूत्रे शिवशङ्करादीनां मध्ये परिगणनाच्च । ‘हिरण्यगर्भस्सवर्तताग्र’ इत्यत्र हिरण्यशब्दस्यापि तत्र व्युत्पत्तेः । हिरण्यगर्भस्समवर्तताग्र इत्याघारमाघारयति इति वायव्यपशावैन्द्रे द्वितीयाधारे विनियोगवत् नारायणसमाराधने तद्विनियोगस्याप्यविरोधाच्च । तदेकवाक्यत्वात् ‘हीश्वत’ इति मन्त्रस्य केषांचित् गृहयज्ञे सोमाघि दैवतगौरीपूजायां विनियोगस्य स्मृत्यर्णवादि षूक्तत्वात् । अन्यत्र च विनियोगानुपलम्भात् प्रथमश्रुतत्वाच्च । हृल्लेखया भुवननायिकापरत्वात्तदनुरोधेन लक्ष्मीशब्दस्य वायुसंहितायां

इत्यारभ्य

’ तत्र माहेश्वरी लक्ष्म्या मूर्तिमूर्तिमतः प्रभोः । '

’ तस्यां कमण्डलारूढा शक्तिर्माहेश्वरी परा ।

महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा || '

चेति श्रुतायां महेश्वरशक्तिरूपाय मपरशक्त्यंश लीलाया श्रुत्युपपत्तेः ।

‘श्रीश्च ते लक्ष्मीश्च पन्याविति वाजसनेयिपाठे श्रीशब्दस्य समानप्रकरणगतहृल्लेखाश्रुत्यनुरोधादुमायामेत्र ’ श्रियं लक्ष्मीमौपलाम्बिकां गामि त्यायुष्यसूक्ते तत्र प्रयोगदर्शनात् वृत्त्युपपत्तेः । हृल्लेखायाः कमलायां प्रयोगदर्शनेन वैपरीत्यशङ्काऽऽशालैङ्गे ब्रह्मनारायणशिवकृतस्तोत्रे ‘नमोऽस्तु लक्ष्मीपतये श्रीपते हीपते नमः ’ शाखामिन्न पाठद्वयोपसंहारेणोपबृंहणाच ’ ह्रीश्च ते लक्ष्मीश्च पत्न्यावि’त्यनेनोमापतित्वालिङ्गामिधानप्रतीतेः ।

73

6

"

अहोरात्रे पार्श्वे’ त्यस्थ शर्वरीत्वमहंदिनमित्युमामहेश्वरसंवादोक्ते-

रर्श्वनारीश्वररूपे स्वारस्यात् । ’ नक्षत्राणि रूपमित्यस्य

इत्यादिना

’ स्वरूपां त्रिपुरघ्नस्य वक्ष्ये कालस्वरूपिणम् । येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोके हितैषिणा ||

यत्राश्विनी वा भरणी कृत्तिकायांस्तथांशकः । मेषराशि: कुजः क्षेत्रं तच्छरः कालरूपिणः ॥ '

• प्रोष्ठपवंश एकश्चोत्तरा रेवती तथा । द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥ '

इत्यन्तेन वामनपुराणवचनजातेन प्रतिपादिते कालात्मके शिवविग्रहे सामञ्जः स्यात् । कात्स्ने श्रीरुद्राङ्गमन्त्रत्वेन विधानाच्चोत्तरनारायणस्य शिवपरत्वनिर्णयात् । तदेकवाक्यतयापि तत्परत्वस्य सुकरोपपादनत्वात् । श्रुत्यन्तरशब्दार्थ प्रत्यभिज्ञानुरोधेऽपि तद्बाहुल्येन शिवपरत्वस्यैव युक्तत्वात् । ’ पुरुषेण नारायणेन यजमान उपतिष्ठत ’ इत्यत्नास्य

‘अस्य पौरुषसूक्तस्य ऋषिर्नारायणः स्मृतः '

इति शौनक वचनात् देवताद्योतनाय पुरुषेणेति सूक्तप्रतिपाथपरपदेन व्यपदेशानन्तरमृषिसूचनाय नारायणेनेति । ’ त्रिः पठेदघमर्षणमि’ त्यत्रा घमर्षणशब्दवत् दृष्टिनाम्ना व्यपदेशोपपत्तेः । ’ नारायणदृष्टेन पुरुषसूकेनोपहितांचितिमुपतिष्टमान इहजन्मनि पुरुषो भवेदिति वाधूलसूत्रेण तथैव स्पष्टीकरणाच्च । नारायणसमाख्यानेनापि तत्परत्वासिद्धेः । ’ वेदाहमेतमि त्यत्राहं शब्दस्य तत्परतया ‘कर्मकर्तृव्यपदेशादि ’ ति सूत्रोक्तन्यायेन सूक्तप्रतिपाद्यस्य स्वरसतो व्यतिरेकस्यैव प्रतीतेश्च । तस्मात् परोक्तन्यायैर्नारायणपरत्वासिद्धेः, तैरेत्र शिवपरस्य सुसाध - नाश्च । अस्मदुक्तरीत्यैत्र शिवमहिमप्रतिपादनपरमेत्र पुरुषसूक्तमित्यभ्युपगन्तव्य-

मिति ।

10

74

अत्र पश्यामः

‘विनियोक्त्री वैष्णवीति प्रसिद्धा तद्धितश्रुतिः ।

सूक्तस्य श्रीशतात्पर्ये विजयध्वजतां गता ॥ '

’ इदं विष्णुः लक्षस्य प्रक्रव्यमुशनेत्र ब्रुवाण’ इति वाराहमन्त्यं पुरुषव्रते च ’ एषा वैष्णवी नाम संहिता, एतां प्रयुञ्जानो विष्णुं प्रीणाती ‘ति साम (विधान) ब्राह्मणे वैष्णवीति तद्धितश्रुत्या पुरुषसूक्तस्य भगवत्परत्वं स्फुटतरमवगम्यत इति न तदतिरिक्तपरत्वम् ॥ ननु कथं सूक्तस्य भगवत्परत्वं स्फुटतरमवगम्यत इति न तदतिरिक्तपरत्वम् । ननु कथं ततस्सिध्यति वैष्णवीत्यस्य सम्बन्धसामान्यपरत्वेऽप्युपपत्तेः । न च ’ सा वैश्वदेव्यामि त्यतैव देवता तद्धितोऽस्त्विति वाच्यम् । ’ यागसम्प्रदानं देवता यस्य पुरोडाशादेः स्वामितस्मिन्नभिधेये प्रत्यय’ इति काशिकायामभिधानात् । प्रकृते च यागसम्प्रदानत्वाभावेन तस्याप्रत्ययस्या - सम्भवादिति चेत्-न । ’ आग्नेयं चतुर्धा करोती’ (जै. सू. 8-1-14 )

चतुर्धाकरणादीनां आग्नेयमात्रां गताऽधिकरणम् -

( सामान्यस्य विशेषेणोपसंहारः )

दर्शपूर्णमासयोः एवं श्रूयते । आग्नेयं चतुर्धा करोतीति । आग्नेय शब्देन अग्निदेवता संबंधत्रत् द्रव्यं प्रतीयते । तादृश द्रव्योद्देशेन चतुर्भाकरण विधाने वाक्यभेदः स्यात् । अग्निदेवताकहविष्ट्वमेव उद्देश्यतावच्छेदकं भवेत् । विशिष्टोद्देशे वाक्यमेदः स्यात् । अपि तु तद्धितोपात्त हविष्ट्वमेव उद्देश्यता - Sवच्छेदकम् । कथंचित् हविषः अग्निसंबंध संपादनेऽपि यत्र अग्नेः अन्यदेवतयाऽपि संबंधः वर्तते । अग्नीषोमीयादौ तत्त्रापि चतुर्धाकरणं संभवति । द्वंद्वांते श्रूयमाणस्य प्रत्येकं अमिसंबंधः इति न्यायेन - अग्निषोमीयहविषि अग्नेः संबंध : अनिवार्य: । पुरोडाशं चतुर्धा करोति इति सामान्यं वचनम् । यद्यपि आग्नेयं चतुर्धा करोति इतिवचनेन उपसंहृतम् - आग्नेय पुरोडाशस्यैव चतुर्धा करणं विदधाति । अथापि एतादृश सामान्य विशेषन्यायेन प्राप्यं फलम् -

W

75

त्यत्रैव विशेषसम्बन्धपरत्वे सम्भवति, अव्यावर्तकसामान्यसम्बन्धपरत्वाश्रयणायोगात्, तदाश्रयणे नैरर्थक्यापाताच्च । ’ यागसम्प्रदानं दैत्रमन्त्रस्तुत्याश्चार्थ’ इति कैयटोक्त्या अस्य देवता तद्धितत्वावसायात् । काशिकायामपि ’ कथमैन्द्रो वारुणो मन्त्र इत्युक्त्वा मन्त्रस्तुत्यमपि देवतेत्युपचरन्ती’ त्युक्तम् । न्यासकारेण ’ यथा देवता पूजार्हा तथा मन्त्रस्तुत्यमपि वस्तु । अतो देवता साधर्म्येण देवतेत्युपचरन्ति विद्वांसः । इन्द्रश्च मन्त्रस्तुत्यः । तस्मादसंप्रदानमपि देवतेत्युपचरन्ति देवतेत्युपचारं तत्र कुर्वन्तीत्यर्थः ।

आग्नेयाज्यस्य चतुर्धाकरण निवारकं भवेत् । अतः आग्नेयस्यैव पुरोडाशस्य चतुर्धाकरणं इति न नियमो ऽस्ति इति पूर्वः पक्षः ।

सिद्धांतस्तु – ’ आग्नेयं चतुर्धा करोति’ इति वाक्ये आग्नेयमिति पदस्य प्रचुर प्रयोगात् देवता तद्धित एव शक्तत्वात् यत्र अग्नेः देवतात्वम् - तस्यैव पुरोडाशस्य चतुर्धाकरणम् - इति भवति । द्विदेवत्येअग्नीषोमीय - ऐन्द्राग्नि हविष्णु यद्यपि व्यासज्य वृत्ति देवतात्वम् अग्नेरपि संभवति । अथापि तादृशद्विदेवत्य स्थलेषु अखण्डोपाधिरूप व्यासज्य वृत्ति - एकदेवतात्वस्यैव अंगीकारात् न केवलं अग्नेः देवतात्वमन संभवति । द्वंद्वांते श्रूयमाणः इति न्यायः यन्न देवतयोः साहित्याविवक्षा तत्रैव प्रवर्तते ।

अग्निपदादुत्पन्नः तद्धितः अन्यसापेक्षस्य देवतात्वं अभिवदितुं क्षमते । सामर्थ्यविघातापत्तेः । अग्निदेवताकत्वं अविवक्षितमित्यपि न संगच्छते । यतः आग्नेयमिति वाक्ये श्रुतदेवता तद्धितः न प्रकृत द्रव्यमानं अपूर्वसाधनकं लक्षयेत् सर्वथा देवतात्वस्यैव उद्देश्यतावच्छेदकत्वम् । तस्य तु अनुयोगि प्रतियोगि सापेक्षत्वात् हविरार्तिन्यायेन ‘अर्धमंतर्वेदि’ इतिवत् अग्निदेवताक हविष्ट्वस्यैव उद्देश्यतावच्छेदकत्वसिद्धिः । तेन च पुरोडाशं चतुर्धा - करोति इति सामान्यवचनस्य उपसंहारः । सामान्यस्य विशेषेणोपसंहारः एतदधिकरणलब्धन्यायः । (जै. सू. 8-1-14 )

76

नन्वेवमपि नैवात्र भवितव्यं मुख्ये सति गौणग्रहस्यायुक्तत्वात् । नैष दोषः । यथा हि कश्विदेकेन यत्नेन तन्त्रेण श्वेतोधावतीत्यादिवाक्यमुच्चारयति तथैवेहाचार्येण तन्त्रेण द्वे वाक्ये उच्चारिते तत्रैकं मुख्यार्थम् । अपरं गौणार्थं भविष्यतीति वर्णितम् । एवं स त्रिवृदग्निष्टोमस्तस्य वायव्यासीत्यत्र वायव्याखिति निदेशोपपत्तिः । न च वायव्या स्वित्यत्र सम्बन्धसामान्यतद्धित इति वक्तुं युक्तम् । तथा सति वायुशब्दस्य वृद्धत्वेन वृद्धाश्चेति प्रत्यये वायवीयाखिति रूपापत्तेः। वायव्रतुपितृष्वसो यदित्यस्य देवतेत्यधिकारसम्बन्धात् । तस्मात् विष्णुपरत्व एव वैष्णवीत्युपपद्यते । नान्यथेति तत्परत्वसिद्धिः । अत

1 एवोक्तं तन्त्रवार्तिके ‘अग्नेत्यग्निना देवतया लिङ्गेन तदमिधानसामर्थ्येन वाऽयमुपदेशः, तदर्थार्हतां मन्त्रस्य योतयति । देवतातद्धितोष स्मर्यतेऽयं चार्य मन्त्रः प्राधान्येन प्रकाशयति सा तस्य देवता नाभिधानमात्रेणेति ।

न चेशानश्रुत्या शिवोपस्थित्या तत्परत्वावसायः । अभिधानश्रुतिजनितायास्तस्या वैष्णवीति निवियोगशुल्या बाधात् । सूक्तस्य शिवपरत्वं हि नेशानशब्दबलात् सिध्यति । किं तु तद्वाचकेशानपदवत्वरूपलिङ्गेन । तच्च न श्रुत्या स्पर्धितुं समर्थम् । श्रुतिलिङ्गाधिकरणे तथा निर्णयात् ।

अपि च प्रतिसम्बन्ध्युपादाने योगार्थमात्रपरत्वावसानात् नात्रेशानपदवत्वं शिवपरत्वं गमयितुमीष्टे । न च तदनुपादान इव तदुपादानेऽप्युभयार्थपरत्वम् । न हि प्रतिसम्बन्ध्यपादाने रूढ्यार्थाविवक्षेति कश्चन व्युत्पत्तिसिद्धेरनियम इति वाच्यम् । रूढ्यर्थस्य विवक्षितत्रे योगार्थस्य तद्विशेषणीभूततया निमग्नस्य ऋद्धस्य राजपुरुष’ इत्यलेव विशेषणान्तरसम्बन्धानर्हतया अमृतत्वस्येत्यस्यासङ्गतत्वप्रसङ्गात् । अत एव ’ पद्मानि यस्याग्रसरोरुहाणि ’ इत्यत्र पद्मपदप्रयोगः कृतः । गिरेरौन्नत्यव्यञ्जनस्य योगार्थ विवक्षाधीनत्वेनेतराविवक्षाधीनत्वाभावात् । तन्मात्रेणोर्ध्वमुखमयूखप्रबोधितत्वेन च सम्भवात् । तस्य रूढ्यर्थाविवक्षायामनियामकत्वात् । प्रतिसम्बन्ध्युपादानस्यैव तन्नियामकत्वेन वाच्यत्वात् । न च योगार्थस्यामृतत्वस्येत्यनेनान्वयानन्तरं रूढ्या अर्थान्वयोऽस्त्विति वाच्यम् ।

77

एकपदोपादानत्वप्रत्यासत्या रूढ्यर्थान्वयः प्राथमिकत्वस्य वाच्यत्वात् । तस्मादमृतत्वस्येत्यस्यासङ्गतत्वप्रसङ्गो दुर्वारः । न चान्यत्रानन्वयप्रसङ्गेऽप्यैश्वर्यस्येशितव्यसापेक्षतया देवदत्तस्य गुरुकुलमित्यादिवदर्थान्तर सम्बन्धार्हत्वमस्तीति वाच्यम् । तथाप्येवं विधेष्वपि विशेषाकाङ्क्षानैयत्या दर्शनेन रूढ्यर्थविवक्षाया वक्तुमशक्यत्वात् । अत एव हि जगतामीश्वरः कः ब्रह्मविष्णुरुद्रोवेति प्रश्नदर्शनमुपपद्यते । नचेश्वरः क इति अभिप्रश्नो दृश्यत इति वाच्यम् । तत्रेशितव्यविशेषान्तर्भावेनैव वाक्यार्थवर्णनाया अवश्यवाक्यत्वात् ईश्वरत्वसामान्यस्य सर्वसाधारण्येन प्रश्नायोगात् । अन्यथा ईशानादिशब्दानां नित्यसापेक्षत्वाभावप्रसङ्गे सत्यनन्वयप्रसङ्गस्य दुर्वारत्वापातात् । तस्मादीश्वर इति प्रश्नस्यापि जगतामीश्वरः क इति प्रश्नतुल्यत्वेन प्रतिसम्बन्ध्यापादने रूढ्यर्थविवक्षायां तत एव शान्ताकाङ्क्षतया विशेष्याकाङ्क्षानुदयेन प्रश्नानुदयप्रसङ्गस्य निवारणात् । प्रतिसम्बन्ध्यपादाने सर्वत्र रूढ्यर्थविवक्षा अवश्यं वाच्या । अमृतत्वस्येशान इत्यस्य न शिवोपस्थापकत्वम् ।

'

यत्तु ’ शब्दादेव प्रमित’ इत्यधिकरणविरोध इति तत्तु तदधिकरणशरीराज्ञानविजृम्भितम् । तथा हि एवं हि तदधिकरणं कठवल्लिषु श्रूयते

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति, ईशानो भूतभव्यस्य न ततो विजुगुप्सते, एतद्वैतत्’ इति । [ श्रु. प्र.] तत्र संशयः किमयमङ्गुष्ठप्रमितो जीव उत परमात्मा । तदयं चेयं चिन्ता । किमीशानत्वं देहेन्द्रियाद्यपेक्षं उत सर्वापेक्षमिति । तदर्थं चोपक्रम श्रुतमङ्गुष्ठमितत्वं किमीशानत्वलिङ्गस्वारस्यविरोधी उताविरोधीति । तदर्थं च किमङ्गुष्ट प्रमितत्वजीवे समञ्जसम् उतोभयत्रासमञ्जसमिति । यदा जीवे समञ्जसं तदा खसामञ्जस्य सिध्यर्थमुपक्रमगतमङ्गुष्ठप्रमितत्वमीशानत्वलिङ्गस्वारस्य विरोधीतीशानत्वस्य देहेन्द्रियाद्यपेक्षत्वादङ्गुष्ठप्रमितो जीव इति पूर्वपक्षे फलफलिभावः यदोभयताङ्गुष्ठप्रमितत्वमसमञ्जसं तदा प्रत्यगात्मन्यपि स्वारस्यासिद्धेः । तदीशानत्वसर्वापेक्षमित्यङ्गुष्ठप्रमितः परमात्मेति राद्धान्ते फलफलिभावः । तत्र पूर्वपक्षः प्रत्यगात्माङ्गुष्ठप्रमितः कुतः ! अन्यत्र जीवस्याङ्गुष्ठमात्रत्वश्रुतेः । ’ प्राणाधिपरसञ्चरति

78

स्वकर्मभिः '

अङ्गुष्ठमात्त्रोरवितुल्यरूप’ इति वाक्यान्तरे चाङ्गुष्ठमात्रं पुरुषं निश्वकर्षधर्मबलादिति दृश्यते । न चाराग्रमात्रस्य जीवस्य कथमङ्गुष्ठमात्रमिति, त्वन्मत उपासनार्थं तदिति वक्तव्यम् । तत्परमात्मपरत्वेऽपि उपासनार्थं ह्यल्पपरिमाणत्वमस्थ, अन्यत्र श्रुतं तत्कथं जीवपरत्वमिति वाच्यम् । यतः प्राणाघिपस्य कर्मवश्यस्याङ्गुष्ठमात्रं मुख्यमपि जीवस्याश्रुतम् । न तु परमात्मन उपासनार्थमपि कचिदङ्गुष्ठमात्रत्वं श्रुतम् । एवं निश्चिते जीवपरत्वे भूतभव्येशितृत्वं देहेन्द्रियापेक्षया योजनीयमिति ।

सिद्धान्तस्तु

By p

न जीवोऽवाङ्गुष्ठप्रमितः । स्ववाक्ये भूतभव्यस्येशानेत्युक्तेनेशितृत्वलिङ्गेन विरोधात् । न चोपक्रमस्थाङ्गुष्ठप्रमितत्वजीवलिङ्गविरोधः उपासनार्थं परमात्मन उपासकहृदये वर्तमानत्वेन तस्य चाङ्गुष्ठप्रमितत्वेन तत्परिच्छिन्नेनाङ्गुष्ठप्रमितत्वोपपत्तेः । जीवस्याप्याराप्रमात्रस्याङ्गुष्ठप्रमितत्वं हृदयान्तर्वर्तित्वात् तदपेक्षया वाच्यम् । स्वाभाविकस्यासम्भवात् । न चान्यत्र जीववदङ्गुष्ठप्रमितत्वं परमात्मनो न श्रुतमिति वाच्यम् । अश्रुतत्वेऽपि ईशितृत्वस्य सङ्कोचप्रसङ्गेन स्वीकर्तव्यत्वात् । अल्पपरिमाणस्यान्यत्र श्रुतत्वाच्च । अन्यथा जीवपरत्वेऽङ्गुष्ठप्रमितेशानपदयोरुभयोरप्यस्वारस्य प्रसङ्गात् । तस्मात् परमात्माङ्गुष्ठप्रमितमिति । अत्र नेशानश्रुत्या सिद्धान्तः, येन प्रतिवन्ध्युन्मेषः स्यात् । श्रुत्याश्रयणे लिङ्गेन पूर्वपक्षानुन्मेषप्रसङ्गात् । न स्वरूपप्राबल्यादुपक्रमप्राबल्यस्य ज्यायस्त्वमाश्रित्य पूर्वपक्षप्रवृत्तिसम्भव इति वाच्यम् । तथा सति सिद्धान्तोच्छेदप्रसङ्गात् ।

न च ’ अप्यग्निष्टोमे राजन्यस्य गृह्णीयादित्यत्राग्निष्टोमसंस्थोपमर्देन षोडशिसंस्था विधिवदङ्गुष्ठमात्र इत्यत्र जीवखरूपोपमर्देन भूतभव्येशितृत्वं विधीयत इति वाच्यम् । कोऽयमुपमर्दों नाम ! अङ्गुष्ठप्रमितत्वाकारस्यारोपिततत्त्वज्ञापनमिति चेत् - भूतभव्येशितृत्वस्यापि तथात्वेन तेन तदुपमर्दायोगात् । न च भूतभव्यस्येशान इत्येतत्पारमार्थिकपरमात्मखरूपलक्षकमिति वाच्यम् । श्रुत्या सिद्धान्तकरणस्य परित्यागप्रसङ्गात् । जीवेश्वरजीवबोधकश्रुतिविरोधेन

79

तदमेदबोधनासम्भवाच्च । तदसम्भवप्रपञ्चप्रकारश्च श्रीमद्भाष्यादिष्नुसन्धेयः । न च त्वत्पक्षेऽपि प्रथमश्रुताङ्गुष्ठप्रमितत्वलिङ्गविरोधिना चरमश्रुतेन लिङ्गैन निर्णयायोग इति वाच्यम् । जीवस्याराप्रमारुवेन तत्राङ्गुष्ठप्रमितत्वरूपलिङ्गमामञ्जस्यायोगेन सिद्धान्तोन्मेषस्योक्तत्वात् ।

यदप्युक्तं तस्य जीवलिङ्गत्वाभावे पूर्वपक्षबीजाभावेनाधिकरणानुत्पत्तिरिति । तन्न-वाक्यान्तरे जीवधर्मत्वश्रवणबलेन पूर्वपक्षसम्भवेनाघिकरणोत्थितेः ।

यदपि चोक्तं यथाश्रुतार्थसमर्थनसम्भवे तस्य क्लिष्टार्थान्तरकल्पनासहिष्णुत्वादिति । तदपि न । अमिधानश्रुतिपरत्वासम्भवस्योक्तत्वात् । वाक्येऽपि शब्दप्रवृत्तिदर्शनेनेशितृत्वलिङ्गप्रतिपादकत्राक्यपरत्वसम्भवेन क्लिष्टार्थान्तरकल्पनाभावाञ्च । न च वाक्येन सिद्धान्तकरणमयुक्तमिति वाच्यम् । तत्प्रतिपाद्यलिङ्गेनैव सिद्धान्तकरणात् । अर्थवदित्यनुक्त्वाशब्दादित्युक्तेरपि तल्लिङ्गोपस्थापकशब्दसद्भावप्रतिपादनतात्पर्यकत्वात् । अत एवोक्तमाचार्य पादैरधिकरण सारावल्याम् - ‘वाक्यस्थेशानतादेरिति । तद्वाख्याया मधिकरणचिन्तामणौ बरदाचार्यैः – ‘स्ववाक्यस्थितेनेशानो भूतभव्यस्येत्युक्तेनेशानत्वादिना लिङ्गेनेति व्याख्यातम् । श्रुतप्रकाशिकायां व्यासाचार्यैरपि ’ तदर्थ संशयफलफलिभावोक्तिदशायामीशितृत्वलिङ्गस्यैव सिद्धान्तहेतुत्योक्तेः लिङ्गादेव सिद्धान्तकरणमभिप्रेतमिति गम्यते ।

यद्यपि नेश्वरसम्बन्धिलिङ्गनिर्णयः । किंस्त्रीश्वरत्वादिशब्दादेवेत्येवकाराभिप्राय इति व्यासाचार्यवाक्येऽन्यथा प्रतीयते । तथापि निरुपाधिकस्वामित्वनिमित्तकशक्त्यन्तराभ्युपगमेन परमात्मा ईशानशब्देन शक्त्या । उपस्थितिसम्भवादसङ्गतत्वप्रसङ्गाभावेन भूतभव्येऽस्ति । प्रतिसम्बन्ध निर्देशस्यापि तद्विरोधित्वाभावाच्च । ईशानशब्दस्य श्रुतित्वमुपपद्यत इति सम्भत्रमात्रेण पक्षान्तरोपन्यासः कृत इत्यवसेयम् । न चैवं त्वया वक्तुं शक्यं नीलकण्ठनिमित्तकशक्त्यन्तराभ्युपगमे तस्य तेन शब्देनोपस्थितौ योगार्थस्य तद्विशेषणी भूततया निमज्जने च भूतभव्यस्येत्यस्यानन्वयप्रसङ्गात् ।

80

वस्तुतस्तु पूर्वपक्ष्यभिमतेशानशब्दान्यथासिद्धेः प्रतिक्षेप एक्काराभिप्रेत इति । यदेवेत्यादिना पक्षान्तरोपन्यासात् न तत्र तात्पर्यम् । अत एव हि तैरघिकरणान्ते अङ्गुष्ठप्रमितस्य जीवत्वपक्षेऽङ्गुष्ठप्रमितेशानशब्दयोरुभयोरप्यस्वारस्य परमात्मत्वपक्षेऽङ्गुष्टप्रमितशब्दस्यैवास्वारस्यमिति सिद्धान्तमूलयुक्तिः कथ्यते । अतो न ’ शब्दादेव प्रमित’ इत्यधिकरणविरोध इति नेशान - श्रुतिप्रत्याशावकाशः । अतः पुरुषसूक्तं पूर्वोक्तयारीत्या भगवत्परमिति निरवद्यम् ।

1

किं च ’ सहस्रशीर्षा पुरुष’ इतीयं पुरुषश्रुतिः ’ उपक्रमस्थालक्ष्मीशे सूक्तभक्ति व्यनक्ति नः । न च पुरुषशब्दस्य भगवदसाधारण्ये मानाभाव:, ‘प्रयोगाद्यन्यथासिद्धेरुपपादितत्वादिति वाच्यम् । तस्य भगवदसाधारण्याभावे यथा भास्करशब्दोऽयमादित्येप्रतितिष्ठति । यथा चाग्नौ बृहद्भानुः यथा वायौ सदागतिः ॥ यथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते । तथा शङ्करशब्दोऽयं महादेवेव्यवस्थित ॥’ इति शङ्करशब्दस्य रुद्रासाधारण्यप्रतिपादनार्थं प्रवृत्ते स्कान्दवचने भगवति पुरुषशब्दासाधारण्यात् दृष्टान्तीकरणस्यासम्बन्धत्वप्रसङ्गात् । न सिद्धं दृष्टान्ततयोपादातुं शक्यते ; किन्तु सिद्धं सिद्धिश्च । यद्यप्यन्यत्र न स्यात् तथाप्यत्र प्रसिद्धवन्निर्देशान्यथानुपपत्यसाधारण्यं कल्प्यते । अत एव ’ सव्यं हि पूर्व मनुष्या आञ्जत’ इत्यत्र प्रसिद्धवन्निर्देशान्यथानुपपत्त्या मानुषीणां सव्याक्षिपूर्वाञ्जनविधिः कल्प्यत इति मीमांसकानां घण्टाघोषः । प्रकृते च दृष्टान्ततया पुरुषशब्दमुपादानं तथा निर्देशान्यथानुपपत्त्या पुरुषशब्दस्य भगवत्यसाधारण्यं कल्पयिष्यति । येन विना यस्य कस्यानुपपत्तिः तेन तस्याक्षेपात् । अत एवाश्विनो बाहुभ्यां सग्ध्यासमि (जै. सू. 8-2-25 ) त्यादि प्रहणा-

भक्ष मंत्राणां यथालिंगम् - ग्रहणादौ विनियोगाधिकरणम् -

ज्योतिष्टोमे हुतस्यसोमस्य शेष भक्षणं विहितम् । ’ अभिषुत्याहवनीये हुत्वा प्रत्यंचः परेत्य सदसि सोमं भक्षयंति’ ।

निगरण सम्यग्जरणरूपाः चत्वारोव्यापाराः

तस्मिन् भक्षणे ग्रहणावेक्षण

संति । मंत्रश्च तैत्तिरीये

‘भक्षेहिमाविशेत्यनुवाके समाम्नातः । तत्र भक्षणम् - यथा साक्षाञ्च्चोदितम् -

81

वेक्षणादिप्रकाशकस्य मन्त्रस्य लिङ्गेन प्रहणादिषु विनियोगस्य गृण्हादीनां चोदितत्वाभावेनात्रत्वर्थत्वेन द्वारत्वानुपपत्तिमाशङ्कय भक्षविध्यन्यथानुपपत्तिकल्पविधिनैव गृह्णादेश्चोदितत्वं कल्पितमित्युक्तं मीमांसकैः । यथप्यगृहीत्वानवेक्ष्यापि परहस्तगतस्य पात्रस्थस्य सोमस्य भक्षयितुं शक्यत्वात् न भक्षविधिः अर्थादपि ग्रहणादिकं विधत्ते, तथापि मन्त्रलिङ्गबलादेव नियमविधिः कल्प्यत इत्यपि तैरेत्र वर्णितम् । पूर्वस्मिन्पक्षे भक्षविध्यन्ययानुपपत्त्या ग्रहणादिविधिकल्पनं, उत्तरस्मिन्पक्षे तु लिङ्गाषगत विनियोगान्यथानुपपत्तिरित्येतावान्विशेषः । भक्षद्वये - ऽप्यनुपपद्यमानार्थेनोपपादकार्थकल्पनं तुल्यमिति कश्चित् विशेषः ।

'

महाभाष्येऽपि न मुन इति सूत्रे इह नेयत्कार्य प्राप्नोति तत्प्रतिमुभावः सिद्धमित्युच्यते । नाभावश्चैतावत् न प्राप्नोतीत्याशङ्कय वृद्धकुमारीवरवाक्यवदिदं द्रष्टव्यम् । वृद्धकुमारी इन्द्रेणोकावरं वृणीष्वेति सा वरमवृणीत, पुत्रा मे बहुक्षौरघृतमौदनं सौवर्णेषु पात्रेषु भुञ्जीरन्’ इति । न च तस्यान्यति

}

न तथा ग्रहणावेक्षण निगरण सम्यग्जरणानि चोदितानि न चाविहितेषु मंत्रेषु विनियोगमर्हति । भक्षानुवाकः इति समाख्याऽपि भक्षमात्रविषयादृश्यते । तस्मात् कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः इति पूर्वः पक्षः ।

सिद्धांतस्तु - अविहितान्यपि ग्रहणादीनि अर्याक्षिप्तान्येव । तयतिरेकेण मक्षणासंभवात् । अतः तेष्वनुवाकः यथालिंगं विभज्यविनियोक्तव्यः । मक्षैः इस्यारभ्य ’ अश्विनोस्त्वा बाहुभ्यां सग्ध्यासन्’ इत्यंतः ग्रहणं प्रकाशयति । ‘नृचक्षसंत्वादेव सोम सुचक्षा अवख्येष मित्ययं भागः अवेक्षणं प्रकाशयति । ’ हिन्चमेगात्रा’ इत्यादिः मामेऽवाङ्नामिमतिगाः इत्यंतः सम्यग्जरणं प्रकाशयति । बरणं च नार्याक्षिप्तं इति न शंकनीयम् । जरणपर्यंतस्यैव सार्थक भक्षणत्वात् । सम्यगुपवेशनादेः जरणार्थत्वात् । मंद्रामिभूतिरित्यादिः भक्षयामि इत्यंतो भाग: मक्षणं प्रकाशयति । तस्मात् लिंगेन समाख्यां बाधित्वा विनियोगः कर्तव्यः | (जै. सू. 8-2-25 )

1182

र्भवति कुतः पुत्रात्मतो गावः कुतो धान्यं भोजनं वा तत्र तया एकेन वरेण पतिपुत्त्रा गावो धान्यं सर्व सद्गृहीतं भवति । एवमिहापि नो परतो सिद्धत्वप्रतिषेधं …. वता ना भावोऽपि सद्गृहीतो भवतीत्युक्तम् । एवं चेदमेत्र वचनं पुरुषशब्दस्य भगवदसाधारण्ये प्रमाणम् ।

न चेदं वचनं पुरुषधर्मपौष्कल्यप्रतिपादनेन प्रशंसापरमित्यनिमित्तेन वक्तुं शक्यम् । अस्य वचनस्य भगवत्प्रकरणस्थितत्वाभावात् । किं चानुशासनमेव शक्तिग्राहकमिति यदि काश्चिन्मूखों ब्रूयात् तं प्रति ‘तुष्यतु दुर्जन’ इति न्यायात्तदप्यस्तीति ब्रूमः । नानार्थरत्नमालायां ’ पुरुषो धातृपुन्नाग नरपुं परमात्मसु ’ इति विशिष्य परमात्मन्यप्यनुशासनात् । परमात्मशब्दश्च नारायणपरः, नारायणविषयक भूरिप्रयोगशालि पुरुषशब्द विवरणप्रवृत्तत्वरूपसामर्थ्येन तत्परत्वावसायात् । न चान्योन्याश्रयः ; पुरुषशब्दस्य नारायणपरत्वसिद्धयधीनत्वात् परमात्मशब्दार्थनिर्णयस्येति वाच्यम् । प्रयोगबाहुल्यविद्धनारायणपरत्वस्य पुरुषशब्दस्य विशेषशक्स्यंशकल्पनमात्र एव कोशस्य व्यापारेणान्योन्याश्रयानवकाशात् ।

"

परमात्मा च सर्वेषामाधारः परमेश्वरः ।

विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ '

इति पौराणिक प्रसिध्या च परमात्मशब्दो नारायणपर इत्यक्सीयते । प्रयुक्तश्च ‘वासुदेवार्जुनाभ्यां वुन्निति सूत्रगतवासुदेवपदार्थकथनप्रवृत्तं ’ नैषा क्षत्रियाख्या संज्ञैषा तत्न भवत’ इति भाष्यं व्याचक्षाणेन कैयटेन ’ नित्यः परमात्मा देवता विशेषत इह वासुदेवो गृह्यत इत्यर्य’ इति भगवति परमात्मशब्दः । एवमन्येऽपि प्रयोगा द्रष्टव्याः । तस्मात् नारायणस्य परमात्मकत्वे कलिबलसन्धुक्षितपापवासनामुषितशेषिकत्वं विना कस्यापि विवादाभावात् । उक्तानुशासनबलास् पुरुषशब्दस्य भगवदसाधारण्यं सिध्यतीत्यनवयम् |

अपि च,

83

‘ईश्वरं पुरुषाख्यं तु सत्यधर्माणमच्युतम् ।

भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ॥

निरुपाधि च वर्तते वासुदेवे सनातने । एतत्पुरुषसंज्ञं वै जायते हीयते न च ॥

यद्वा पुरुषशब्दोऽयं रूढ्यावक्ति जनार्दनम् ॥’

इति योगयाज्ञवल्क्य भीष्मपर्वादिवचनबलात् भगवदसाधारण्यं पुरुषशब्दस्यावसीयते ।

ननु तेषां पुरुषधर्मपौप्कल्यप्रतिपादनेन प्रशंसापरतयैवमुक्तमिति चेत् - सत्यम् - अस्मदुक्तं दुरुक्तं तु तद्वदोपबृंहणार्थप्रवृत्तवचनानां वेदस्थपदशक्तिनिर्धारकत्वे सम्भवति बाधकं विना प्रशंसापरत्वकल्पनाया मूर्खव्यपारत्वात् । अन्यथा शिवमाहात्म्यप्रतिपादकवचनानां तावकत्वकल्पने त्वन्मनोरथस्य केवलं क्लेशैकफलत्वप्रसङ्गात् । अपशवो वेस्यस्य तु गवांश्च व्यतिरिक्तेषु अजादिषु पशुत्वनिषेघे प्रत्यक्षविरोधात् पशुकार्यनिषेधेऽन्यत्र तेषां कार्यान्तरोपदेशविरोधप्रसङ्गात् । स्ववाक्येऽन्ये गोऽश्वेभ्यः पशव इत्युक्त्या पशुत्वनिषेधासम्भवाञ्चार्थवादत्वमाश्रितम् । अत्र तु तथा कल्पनेन किंचित्कारणं पश्यामः ।

यदुक्तं ’ पुरुषावात्ममानवावि’ति कोशबलात् चेतनसामान्ये शक्त्यभ्युपगमावश्यम्भावात् बर्हिराज्याधिकरणविरोधात् न पुरुषशब्दस्य विष्णौ विशिष्यशक्तिरिति तदसमञ्जसम् । उक्तप्रमाणबलाद्विशेषशक्तिसिद्धेः । प्रयोगमात्रं विषयशब्दविषयत्वात्तन्यायस्य । किं च ’ पुरुषावात्ममानवावित्यस्य चेतनसामान्यशक्तौ प्रमाणत्वेनोपन्यासोऽप्यसङ्गतः । अनात्मशब्दस्य क्षेत्रज्ञ आत्मपुरुष इति जीवपर्याय पठितत्वावसायात् । एवं सति पुरुषाः पुरुषनर इत्या क्षेत्रज्ञ आत्मापुरुष इत्यत्र मनुष्यजीवपर्याययोः पार्थक्येन पठितस्य पुरुषशब्दस्य बानार्थत्वज्ञापनार्थत्वस्यात्मपर्यायतद्वाचकत्वविधायकत्वस्यापि प्रसङ्गेन वैरूप्यं

84

स्यात् । क्षेत्रज्ञात्मपुरुष इत्यनेन जीववाचकस्यैवास्य ’ पुरुषावात्ममानावावि’ त्यनेन चेतनसामान्यषाचकत्वस्यापि कल्पनीयतया गौरवप्रसङ्गाञ्च । न च,

’ प्रधानं पुरुषं चैत्र प्रविश्यात्मेच्छया हरिः '

इत्यादी जीवरूपचेतनविशेषप्रयोगं परमात्मनि प्रयोगं च विहायात्मसामान्ये तत्प्रयोगं कचित् पश्यामः । परमपुरुषादिशब्दगतविशेषणसार्थक्यं च सामान्य शक्तिमन्तरेणापि जीवप्रतिपत्तिवारकत्वमुपपद्यते । न चोभयत्र प्रयोगादुभयसाधारणशक्तिकल्पनं प्रयोगानुशासनाभ्यां जीवेऽपि शक्तेरवश्यकल्प्यत्वेन गौरवप्रसङ्गात् । अतो बर्हिराज्याधिकरणन्यायोपन्यासों बालव्यामोहनमात्रम् ।

न च शिवचतुर्मुखयोरपि पुरुषशब्दस्य शक्तिकल्पनप्रसङ्गः । कचित्कप्रयोगस्य लक्षणयाऽप्युपपन्नस्य शक्तिकल्पकत्वाभावात् ।

त्र्यक्षः शूलपाणिः पुरुष ’ इत्यादौ त्र्यक्षत्वादिविशेषणबलादेव वस्तुविशेषप्रतीत्या तादृशप्रयोगबलात् शक्तिकल्पनस्यासम्भवाच । तत्र पुरुषशब्दस्य श्रीप्रतिसम्बन्ध्यात्मकत्वमादायोपपन्नत्वात् । न च ’ सहस्रशीर्षापुरुष’ इत्यत्रापि तदर्थकत्वशङ्कावकाशः । यद्वा पुरुषशब्दोऽयं ’ रूढ्या वक्ति जनार्दनमित्यादि प्रमाणप्रतिपन्नविशेषार्थकत्वस्वीकारसम्भवे देवताविशेषाकाङ्क्षाजनकार्यपरत्वस्वीकारस्यान्याय्यत्वात् । निर्वचनबलादपि न शिक्चतुर्मुखयोः शक्तिकॢप्तिप्रसङ्गः । तस्य तेन निमित्तेन तच्छब्दप्रवृत्तिमात्रे प्रामाण्यात् । तस्या योगमादायाप्युपपत्तेः । ’ सर्वशरीरी प्रथमः सैव पुरुष उच्यत’ इत्यत्र क्षेत्रज्ञात्मपुरुष इति प्रमाण प्रतिपन्नजीव इत्यमिप्रायेणोपपन्न इति न तच्चतुर्मुखशक्ति कल्पयितुमीष्टे ।

एवं ’ पुरुषो नाम सम्पूर्ण’ इत्यपि न शिवेशक्तिकल्पकम् । तस्य शक्तिकल्पकत्वेनान्यो ‘रुद्रो विष्णुरजोऽपि वेत्यस्य भगवति तच्छब्दवाच्यत्वाभावत्वाभावपरत्वं वाच्यमिति बहुप्रमाणवैयाकुलिप्रसङ्गात् पूर्णत्वधर्मपौष्कल्यमादाय प्रशंसापरत्वावसायात् । न च पुरुषशब्दस्य भगवदसाधारण्ये ऽन्तर तद्धर्माद्यधिकरणोच्छेदः । ’ क्षेत्रज्ञ आत्मपुरुष: प्रकृतिं पुरुषं चैव विध्यनादी उभावपी’ त्यादिप्रमाणैर्जीवेऽपि शक्त्यङ्गीकारेण ’ य एषोऽन्तरादित्ये ‘त्यादि -

85

वाक्यानां जीवपरत्वसाधकपूर्वपक्षप्रवृत्तेर्निरर्गलत्वात् । अत एव श्रुत्याश्रयणेन सिद्धान्तवर्णनमपि न कृतम् । तस्य जीवसाधारण्यात् । न चैत्रमपीक्षति कर्माधिकरणे हिरण्यगर्भपरत्वेन पूर्वपक्षवर्णनं कथं घटेतेति वाच्यम् ।

परम-

पुरुषममिध्यायीते ‘त्यत्न ‘परात्परं पुरिशयं पुरुषमीक्षत’ इत्यत्र च परमात्व थानानेन पूर्वपक्षप्रवृत्तिसम्भवात् । न चैवमपि पूर्वपक्षोपपादकत्वं तस्य कथं सिद्धान्तसाधारण्यादिति वाच्यम् । सर्वान् कामान् छन्दतः प्रार्थयस्व शतायुषः पुत्रपौत्रान् वृणीष्वेति पुत्रादीनां कामानां प्रकृतत्वेन ’ कामं कामं पुरुषो निर्मिमाण’ इत्यत्र पुत्रादीनामेव कामशब्दार्थकत्वात् जीव एवात्न प्रतिपाद्यत इति पूर्वपक्षप्रवृत्तेः ततस्सम्भवात् । तस्मात् पुरुषशब्दस्य भगवदसाधारणत्वात् उपक्रमश्रुततच्छब्दबलात् सूक्तस्य पौरुषस्य भगवत्परत्वं सिध्यतीति दिक् ।

एतेन विनियोगोपबृंहणयोर्भगवद्विषययोरन्यथासिद्धिवर्णनं निरस्तम् । ईशानशब्दस्यानत्यस्य शिवोपस्थापकत्वाभावस्योपपादितत्वात् अन्यथासिद्धिवर्णनस्योपपत्तिशून्यत्वात् । पुरुषशब्दस्य प्रत्युत भगवदुपस्थापकस्य सत्वेन भगवति विनियोगोपबृंहणयोरेवाभिधानश्रुत्याऽनुगुण्यात् शिवविषययोरेव तयो - रन्यथासिद्धि सहत्वाच्च ।

यदुक्तमारुणकेतुके प्रजापतिजनक कूर्मसंवादे

‘अन्तरतः कूर्म भूतं सर्पन्तम् । तमब्रवीत् । मम वै त्वं मांसासमभूत् । नेत्यब्रवीत् । पूर्वमेवाहमिहासमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षापुरुषः । भूत्वोदतिष्ठत् । ’ इत्यक्ष पूर्वमेवासमिति कूर्माकृतिलिङ्गोपस्थापितस्य नारायणस्य वचनं प्रदर्श्य तत्पुरुषस्य पुरुषत्वमिति तत्र पुरुषशब्दस्य प्रवृत्तिनिमित्तमभिधाय ‘सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठदित्यनन्तरं पाठात् । सहस्रशीर्षेस्यादिमन्त्रस्थपुरुषशब्दस्य तत्प्रवृत्तिनिमित्तकत्वेन नारायणपरत्वनिर्णयात् पुरुषसूक्तस्य नारायणपरत्वमिति वक्तुं शक्यम् । ’ पुरुषो भूत्वोदतिष्ठदि त्यत्र पूर्वंपुरुषभावापत्तिप्रतिपादनेन ’ सहस्रशीर्षेत्यादिमन्त्रस्थ पुरुषपदस्यानन्तरवाक्यप्रतिपन्नप्रवृत्तिनिमित्तकत्वव्यतिरेकस्यावसायात् । अन्यथा प्रागपि तस्य पुरुष-

86

शब्दामिलप्यतया ’ पुरुषो भूत्वे’ त्युक्तिविरोधादिति तदसम्बन्धप्रलपितम् । निर्वचनानर्थक्यापातात् । न नन्तरवाक्यस्थ पुरुषशब्दस्य तेन निमित्तेन प्रवृत्त्यभावे ’ तत्पुरुषस्य पुरुषत्वमिति निर्वचनस्य किंचित् प्रयोजनं पश्यामः । सहस्रशीर्षत्वादिवैशिष्ट्यभवन प्रतिपादकतया सहस्रशीर्षेत्यादि वाक्यस्योपपन्नत्वेन प्रवृत्तिनिमित्तकथनपरानन्तरवाक्यविरुद्ध पुरुषभावापत्तिप्रतिपादकत्वं चासिद्धम् । भूत्वेत्यस्य प्राप्त्यर्थकस्य ’ स भूमिं विश्वतो वृत्वेति वाक्यैकार्थ्याय व्याप्तिपरत्वस्याङ्गीकर्तुं युक्तत्वेन च पुरुषभावापत्तिप्रतिपादकत्वम् । अतो न तद्बलात् प्रवृत्तिनिमित्तव्यतिरेकावसायः । न चैवमपि निर्वचनं न शक्तिकल्पकम्, लक्षणयापि तत्र प्रयोगोपपत्तिकयनपरत्वेनान्यथासिद्धेरिति वाच्यम् । शक्त्यन्तराकल्पनेऽप्यत्नत्य पुरुषशब्दस्य तेन निमित्तेन प्रजापतिजनककूर्मपरत्वावश्यम् । त्रिवृच्चर्वाश्ववालनयादप्युपगन्तव्यत्वात् । तत्र हि त्रिवृचर्वादिशब्दानां लोकतस्त्रैगुण्यस्थाल्या दिरूपार्थावगत्या वेदतश्च स्तोत्रिया नवकौदनादिरूपार्यावगत्या को वाड्यों ग्राह्य इति संशये लौकिकप्रसिद्धेः वेदनिरपेक्षत्वेन बलीयस्त्वाद्वैदिकप्रसिद्धेश्च । लोकप्रसिद्धपदान्तरसममिव्याहारगम्यत्वेन विलम्बितत्वादर्थवादस्य प्रशंसामात्रत्वेनाप्युपपत्तेर्लोकप्रसिद्ध एवार्थो प्राय इति पूर्वपक्षं प्रापय्यार्थवादस्य स्तावकत्वेऽपि विधिस्तुत्योरेकविषयकत्वात् स्तुतिविषयस्यार्थस्य विध्युद्देशेनाग्रहणे निरालम्बनत्वेनार्थवादानर्थक्यापत्तेः । ’ आनर्थक्ये प्रतिहतानां विपरीतं बलाबल’ मिति न्यायेन वाक्यशेषप्रसिद्धेः बलवत्वात् प्रथमतो लोकतोऽर्थान्तरप्रतीतावपि तमर्थमनादृत्य वाक्यशेषसिद्ध एवार्थों प्राह्य इति राद्धान्तितम् । एवं च यथा तत्र लोकतत्रैगुण्यरूपार्थप्रतीतावपि तमर्थमनादृत्य वाक्यशेषप्रसिध्या स्तोत्रिया नक्कमेव त्रिवृच्छब्दार्थस्यार्थ इति स्वीक्रियते तद्वदत्रापि लोकप्रसिद्धार्थमनादृत्य वाक्यशेषः प्रदर्शितः । प्रवृत्तिनिमित्तशाली भगवानेव पुरुषशब्दार्थ इति वक्तव्यम् । उक्तं च तन्त्रवार्तिके -

‘गौणो वा यदि वा मुख्यो वेदेनाश्रीयते हि यः ।

स धर्मत्व साधनत्वेन पदार्थोऽध्यवसीयते ॥

87

त्रिवृच्छब्द: प्रयुक्तोप स्तोत्त्रिया नवकं प्रति । कस्तं शक्तस्ततोऽन्यत्र नेतुं जन्मशतैरपि ॥

गौणं लाक्षणिकं वाऽपि वाक्यमेदेन वा स्वयम् । वेदोऽयमाश्रयत्यर्थं को नु तं प्रतिकूलयेत् ॥ '

इति । न चैवमप्यारुणकेतुकवाक्यस्थ पुरुषपदस्य वाक्यशेषप्रदर्शितार्थकत्वेऽपि पुरुषसूक्तस्य तदर्थपरत्वेन प्रमाणमुपन्यस्तमिति वाच्यम् । तस्यैव वाक्यस्य पुरुषसूक्तादौ श्रवणात् ।

यत्र वाक्यशेषो नास्ति त्रिवृदभिष्टुदग्निष्टोम इत्यादौ (जै. सू. 10-6-22 - 28 ) तत्रापि स एवार्थः स्वीकर्तव्य इति तन्त्रज्ञैर्निर्णीतत्वात् ।

ननु तत्र बहिष्पवमानमित्युक्त्वा स्तोतिया नवकानुक्रमणमात्रात् नवमिः स्तुवन्तीति वचनाद्वा । बहिष्पवमाने स्तोत्रियानक्कप्राप्तेन त्रिवृत्पदस्य तत्र प्रयोजनम् । किं त्विदमेव प्रयोजनं यद्वाक्यशेषाभावेऽपि त्रिवृदग्निष्टुदग्निष्टोम’ इस्यादौ स्तोत्त्रियानवकस्यैव त्रिवृत्पदार्थत्वेन ग्रहणमित्युक्तत्वात् । त्रैगुण्यविषयत्वं त्ववयवप्रसिध्या समुदायप्रसिध्या च स्तोत्रियानवकवचनत्वम्, योगाच्च रूढिर्बलीयसी । अतः स्तोत्त्रियानवकमेवात्र त्रिवृच्छब्दार्थ इत्युक्तत्वाश्च । तत्र

त्रिवृति स्तोमगत संख्या विकाराधिकरणम्-

त्रिबृदग्निष्टु दग्निष्टोमः इत्येवं श्रूयते । किं त्रिवृत्त्वमग्निष्टुति क्रतौ सर्वेषु साधनेषु संबध्यते किं वा स्तोममाल संबंधितत् । त्रिवृद्रज्जुः इत्यादौ विवृच्छब्दस्य त्रैगुण्यवाचित्वदर्शनादत्रापि ऋतु साधनेषु या या संख्या श्रूयते सा सर्वा विवृत्त्वेन विक्रियते – इति प्राप्ते ।

सिद्धांतयति – यद्यपि त्रिवृच्छन्दः अवयव प्रसिद्धया लोके त्रैगुण्यं जूते तथाऽपि वेदरूढ्या स्तोमवाची । त्रिवृद्बहिष्पवमानः इत्युक्त्वा स्तोत्रयाणां नवाना मृचा मनुक्रमणेन स्तोमविषयमेत्र त्रिवृत्त्वम् । (जै. सू. 10-6-22, 28)

88

तथाखीकारेऽपि प्रकृते उभयत्र रून्यशेषात् वाक्यशेषप्रसिध्याऽर्थ एव न स्वीकरणीय इति चेत् - न । वैदिकत्वसामान्यात् वाक्यशेष प्रसिध्याऽर्थस्यैवात्र स्वीकर्तुं युक्तत्वात् । अत एव न्यायसुधायाम् - ‘अनोभयसम्भवेऽपि वैदिकत्रसामान्यात् स्तोत्त्रियानवकविषयत्वावधारणात्’ इत्यमिहितम् ।

अत एव ’ सौर्य चरुं निर्वपेदि ‘त्यत्र वाक्यशेषाभावेऽपि चरुशब्द ओदनवचन इत्युपगतम् । अत एतद्वाक्यबलात् पुरुषसूक्तस्य भगवत्परत्वमभ्युपगन्तुं युक्तम् ।

यदपि यत्र यत्र कर्मभ्रंशो यज्ञभ्रंशो तत्र पुरुषं चिन्तयन् पुरुषसूक्तं श्रूयात् । ’ पूर्णत्वात् पुरुष इति विज्ञायते ’ इति बाधूलसूत्रे पुरुषसूक्तश्रुततत्प्रतिपाद्यपरपुरुषशब्दस्य पूर्णत्वप्रवृत्तिनिमित्तकत्वावसायात् ।

’ पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः ।

साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा ।। '

इति स्कान्दोक्तः । तेन प्रवृत्तिनिमित्तेन पुरुषशब्दस्य शिवसाधारणत्वात् ’ सर्वो वै रुद्र’ इत्युक्त्यनन्तरमौचित्यात् । ’ पुरुष एवेदं सर्व’ मिति मन्त्र-

सर्वमिति विरोधशङ्का निराकरणार्थया ’ पुरुषो वै रुद’ इति श्रुत्या तस्य तस्य रुद्रपरत्वेन व्याख्यानात् तस्य परमशिवश्रुतित्वस्यैव सूपपादत्वाश्च न पुरुषसूक्तस्य भगवत् परत्वमिति – तदप्यसमञ्जसम् । सम्पूर्णत्वकथनमात्रेण शिवे शकिं कल्पयितुमशक्यत्वात् । गौरवप्रसङ्गात्, लक्षणादिना तत्र प्रयोगानिर्वाहार्थत्वेनोपपत्तिः । भगवति तु

’ यद्वा पुरुषशब्दो वीरूढ्या वक्ति जनार्दनम् ’ इति प्रमाणबलात् शक्त्यन्तराङ्गीकारो न दोषः । वाचनिकत्वात् विष्यन्ताधिकरणोक्तन्यायेन वैदिकत्वसामान्यात् वेदवाक्याश्रुतस्य भगवत एवात्र पुरुषसूक्तप्रतिपाद्यपुरुषशब्दार्थत्वस्य स्वीकर्तुं युक्तत्वात् अन्यस्य पुरुषशब्दस्य शतत्व प्रतिपादनस्याशामोदकमात्रत्वाच्च । पुरुषसाधारण्यपक्षे शिवेऽपि शक्त्यङ्गीकारपक्षे वा ’ पुरुष एवेदं सर्वम् ’ ’ सर्वो वै रुद्र’ इत्यनयोर्विरोधाभावेन तन्निरासार्थत्वेन ’ पुरुषो वै रुद्र’ इति वाक्यप्रवृत्तेर्वर्णयितुमशक्यत्वात् । भगवति पुरुषशब्दासाधारण्याभ्युपगम एव तद्वाक्यप्रवृत्तेर्वक्तव्यत्वेन, तत्र च प्रथम्य वै

89

शिरस्कत्वाभ्यां पुरुषशब्दस्योदयसमर्पकत्वात् । तत्र रुद्रशब्दवाच्यत्यविधिपर्यव सायिन्याऽनया ’ पुरुषो वै रुद्र ’ इति श्रुत्या पुरुषसूक्तस्य शिवपरत्वासिद्धेश्च ।

यदप्युक्तं महापुरुषशब्दस्य कचिदपि नारायणनामत्वेनानुशासनाभावात् प्रयोगमात्रस्य गौतमस्मृतौ ’ कृष्छ्रमन्त्रेषु महापुरुषाय ’ इति शिव इव योगेनाप्युपपत्तेः, एतदनभिधानात् तथात्वेऽपि पुरुषं महान्तमिति पृथक्पदयोरेवेह श्रवणेन तस्याश्रवणात् । भवादिशिवनामाष्टकमध्ये पठितस्य महान्तं पुरुषमिति पाटेन शिवपरत्वस्यैव प्रतीतेः न महापुरुषशब्दबलात् भगवदुपस्थितिरिति तदप्ययुक्तम्

‘परमात्मेति यं प्रादुस्साङ्ख्ययोगविदो जनाः ।

महापुरुषसंज्ञां च लभते स्वेन कर्मणा ॥

तस्यैकस्य महत्वं हि सचैकः पुरुषः स्मृतः । महापुरुषशब्दं हि विभक्त्येष सनातन ॥

इति महाभारतवचनाभ्यां महापुरुषशब्दस्य भगवदसाधारणत्वावगमात् । पृथक्पदश्रवणेऽपि तद्विषयकप्रचुरप्रसिद्धिकमहापुरुषशब्दयोगार्थकथनस्य रूढ्यर्थस्मारकतया ततो भगवत्प्रतीतेरनिवार्यत्वात् । भवादिनामाष्टकमध्ये महच्छन्दस्य पठितत्वेऽप्युत्कर्षवति अन्यत्रापि प्रयोगे दर्शनेन तद्रूढत्वाभावेन तस्यैकस्य महत्वमहीति प्रतिपादितरीत्या निरतिशयोत्कर्षवतो भगवत एव प्रतीत्युपपत्या ततो रूढ्यर्थस्मरणप्रतिबन्धाभावात् पुरुषशब्दस्य भगवदसाधारण्यव्यवस्थापनात् । तदर्थप्रधानकमहापुरुषशब्दस्य यौगिकत्वेऽपि भगवदसाधारणत्वानपायात् पृथक्पदश्रवणेऽपि कांस्य भोजी न्यायेन पुरुषशब्दानुरोवेन महच्छब्दस्य भगवद्वृत्ते - रेवान्यायत्वाच्च ।

यदपि ’ मध्ये लिङ्गं महाघोरं महाब्वेरम्भसिस्थितम्’ इति लैङ्गवचनात् ।

एकार्णवे तु त्रैलोक्ये ब्रह्मनारायणात्मकः ।

भोगी शय्यागतः शेत ॥ '

90

इति वैष्णवादिवचनैश्च । समुद्रवर्तित्वं साधारणमिति न तद्बलात् ’ अम्भस्या’नुवाकस्य भगवत्परत्वमिति तदप्यसङ्गतम् । क्षीरसमुद्रस्य भगवत्स्थानत्वेन सकलश्रुतिपुराणादिप्रसिध्या समुद्रवर्तित्वस्य भगवदुपस्थापकतया एव वक्तव्यत्वात् । न हि समुद्रवर्तित्वं भगवतोऽन्यत्र प्रसिद्धम् । ’ महाब्धेरम्भसि स्थितमित्यस्यावान्तरप्रलयविशेषे कस्मिंश्चित् लिङ्गाकारेण प्रलयजलमध्योद्भवप्रतिपादकमात्रणोपपन्नत्वात्, महाधि शब्दबलात् तथावगमात् । न चैतत्प्रलयकालजलवर्तित्वं समुद्रवर्तित्वस्य भगवल्लिङ्गत्वविघातकम् । कथश्चित् समुद्रवर्तित्वप्रतिपादकत्वेऽपि कदाचित् स्थितिमात्रप्रतिपादकत्वेनोपपन्नतया शिवस्थानप्रतिपादनपरत्वाविद्यासाधारण्योक्त्ययोगात् । न हि माहिष्मती पाटलिपुत्त्रादिगमनमात्रेण माहिष्मती वासीत्यादि व्यपदेशस्सम्भवति । तस्मात् न शिवसाधारण्यम् । एतेन चतुर्मुखसाधारण्यमपि निरस्तम् । किं च

"

’ ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणा '

इति कौर्मवचनबलात् भगवच्छरीरानुप्रवेशप्रतीत्या तन्निमित्तसमुद्रशयनप्रतिपादकत्वेन ’ एकार्णवे तु तैलोक्य’ इत्यादिवचनात् न समुद्रशायित्व - प्रतिपादकत्वमिति न तस्य समुदवृत्तित्वान्यथाकरणसामर्थ्यम् ।

वेदान्तविजयकृतस्तु – ’ नारायणानुवाके समुद्रेऽन्तं विश्वशम्भुवमिति समुद्रशायित्वस्य नारायणनिष्ठत्वप्रतिपादनात् श्रुतिप्रसिद्धस्यैव सम्भवे ग्राह्यत्वान्मध्ये लिङ्गमित्यादेः ध्यात्वा प्रदोषकाले त्वित्युत्तरवाक्यप्रतिपाद्यमानध्यानशेषतयार्थतथात्वासिद्धेश्च न शिवसाधारणम्’ इत्याहुः ।

विद्युद्वर्णत्वस्य रुद्रसाधारण्योक्तिरपि निष्फला । यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिमिति ’ द्वे विद्ये वेदितव्ये वै’ इति चाथर्वणी श्रुतिरित्यादिवैष्णव पुराणवचनैर्भगवत्परतयोपबृंहितायां मुण्डकोपनिषदि ’ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत’ इति ‘तत्य यथा कप्यासं पुण्डरीकमेवमक्षीणि, तस्योदिति नामे त्यादिवाक्यावगताक्षिः द्वित्व-

91

पुण्डरीकाक्षव्वापहतपाप्मत्वैर्भगवत्परतया अवगतेः छान्दोग्ये हिरण्यवर्णत्वस्य भगवन्निष्ठतयाऽवगमेन वैदिकत्वसामान्यात् ततो भगवत एवोपस्थिते: ।

यदपि हिरण्यगर्भश्रुत्या च शिवप्रजापतिसाधारण्यमिति नारायणैकान्त्यमिति - तदप्यनुपपन्नम् - ’ अभ्यसम्भूतो हिरण्यगर्भ इत्यष्टौ ’ इति श्रुत्या अद्भ्यस्सम्भूत इत्यनेन हिरण्यगर्भ इत्यष्टर्चस्यैकार्थत्वप्रतिपादनादद्भ्यम्सम्भूत इत्यत्रानन्यथासिद्धलक्ष्मीपतित्वलिङ्गस्य भगवदुपस्थापकस्य सत्वात् हिरण्यगर्भशब्दस्य योगेन लक्षणया वा भगवत्परत्वसम्भवात् कृत्स्नजगत्पतित्वेन श्रुतिसिद्धे भगवति द्विपाञ्च्चतुष्पात्पतित्वसम्भवेन भगवदेकान्तत्वात् ।

वेदान्त विजयकृतस्तु - ’ विष्णुना विधृते भूमी । व्यस्कनात् रोदसी विष्णुरेते, दाधार पृथिवीममितो मयूखैः इत्याद्युक्तस्य द्यावापृथिवी - धारकत्वस्य ’ यो अस्कभायदि’ति श्रुतस्तम्भकत्वस्य ’ यः पार्थिवानि विममे रजांसि ’ इति श्रुतरजोविमानस्य च सदाधार पृथिवींद्यामिति सूक्तोपक्रमे उत्तरत्र च ‘येन बौरुप्रा पृथिवी च दृढेयेन सुवस्तमितं येन नाकः योऽन्तरिक्षे रजसो विमान इति प्रत्यभिज्ञानात् तन्मध्यवर्ति द्विपाञ्चतुष्पादीशत्वं सर्वेश्वरे विष्णावेव सङ्गच्छते । ’ यस्येमाः प्रदिशो यस्य बाहू’ इति वाक्यस्य चारण्यपर्वण्युदङ्गस्तोत्रे ’ बाहवस्ते दिशस्सर्वा ’ इति भीष्मपर्वणि ‘दिग्बाहुखि

दिवं शिर’ इति भगवत्परतयोपबृंहणात् ।

किं च ’ मानोहासीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जानयश्चापश्चन्द्राबृहतीर्जजानकस्मै देवाय हविषा विधेमेति मन्त्रो जगत्कर्तृविषयो नारायणपरः । मैत्रायणीयश्रुतौ ’ विष्णुसंज्ञमिति प्रकृते एतत्सत्यधर्म इति सत्यधर्मत्वामिधानदर्शनात् योगयाज्ञवल्क्य ‘ईश्वरः पुरुषाख्यं तु सत्यधर्माणमच्युतम्’ इति दर्शनात् । राजधर्मे च -

’ यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । गृह्णन्ति सत्यधर्माणं सत्यं सत्येषु ॥ ‘92

इति दर्शनात् । ’ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेति तथा आपस्ससर्ज ’ इति श्रुतायामम्बूपलक्षितसकलतत्त्वसृष्टेः ’ आपो नारा इति प्रोक्ता’ इति मानवादिस्मृतिभिः ’ नरात् जातानि तत्त्वानि नाराणीति ततो विदु:’ इत्यनुशासनीकवचनैश्चोप बृंहिताया ’ यश्चापरोबृहतीर्ज जाने’ ति श्रवणाच्च । तत्र च श्रुतस्य ’ कस्मै देवाय हविषा विधेमे’ त्यस्य हिरण्यगर्भा इत्याद्यष्टर्चे श्रवणात् तदैकार्थ्यात् कस्मा इत्यस्य सर्वप्रधानतया विज्ञातपारमार्थ्यायेति भास्करादिभिर्व्याख्यातस्य,

नारायणस्य चाङ्गानि सर्वेदेवास्तथाऽभवन् । तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ॥

त्वं हि लोकगतिर्ब्रह्म न त्वां केचन जानते ।

श्रूयतां परमं दैत्रं दुर्विज्ञेयं मयापि च ॥ '

इत्यादि भारत रामायणादि वचनात्रगमित सर्वदेवता प्राधान्य - ‘दुर्विज्ञेय भावे कः पुरुषः स्वयम्भूः विष्णुरिति गायत्रीहृदयसिद्धकशब्दवाच्यभावे नारायण एवं सम्भवदर्थकत्वात् । तापनीयेऽष्टर्चान्तर्गतस्य ‘य आत्मदे’ति मन्त्रस्य नृसिंहविषयतयोदाहरणात् सिद्धं तस्य नारायणत्वपरत्वम् । अत एव अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टाविति वाक्यव्याख्यावसरे यजुर्भाष्यकृता ’ एषां मन्त्राणामात्मतत्त्वप्रतिपादनपराणामन्यत्राधीतानामिहातिदेशबलात्कल्पसूत्रकार विनियोगान्तरेण लिङ्गादिना महापुरुषार्चनादौ विनियोग’ इत्युक्तम् | स्मृतिविनियोगो लिङ्गमूल इत्याशयः ।

यथा

किं च पादेमरियज्ञानन्तरमिन्द्रस्तवे भगवत्परतयैवेयं श्रुतिरुपबृंहिता ।

’ अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्तत ।

त्वमेवेकः यति रसि पुरुषत्व त्रिदशैः प्रशिषं जगतां पते ॥

93

अमृतं चैव मृत्युश्च तवच्छाये सनातने ।

तस्मै देवाय भवते विधेम हविभावयम् || '

इति तस्याष्टर्चस्य नारायणपरत्वं सिद्धम्’ इत्याहुः ॥

यदपि ’ अम्भस्य पारे’ इत्यादेरन्ते ‘पुरुषस्य विग्रह सहस्राक्षस्य महादेवस्य धीमहि, तन्नो रुद्रः प्रचोदयात्’ इत्याम्नानात् नैनमूर्ध्व एष हि देव’ इत्यादिश्वेताश्वतराथर्वशिरः प्रत्यभिज्ञानात् । ’ प्रजापतिश्चरति गर्भे अन्त’ रित्यत्र प्रजापतिशब्दस्य

’ यान्ति यस्मात्प्रजास्सर्वाः प्रजापतिरिति स्मृतः’ इति ले शिवनामसु निर्वचनदर्शनेन शिव एव प्रत्युपपत्तेः । हिरण्यगर्भशब्दस्य

'

हिरण्यमस्य गर्भेऽभूत् हिरण्यस्यापि गर्भजः । तस्माद्धिरण्यगर्भोऽसौ पुराणेऽस्मिन्निरूध्यते ॥ '

परमात्मप्रकरणानुवृध्यभावाश्च ।

पुरुषस्य

इति तत्रैवनिर्वचनाच्च । हिरण्यगर्भशब्दस्यापि तत्र प्रत्युपपत्तेः शिवपरत्वमिति - तन्न - पुरुषस्य विद्मह इत्यतः पूर्व ’ उद्दीप्यस्व जातवेदोपननिर्ऋतिममे त्याबग्निप्रतिपादकमन्त्रदर्शनेनोत्तरत्र विभेत्यनेनानुत्राकस्य शिवपरत्वसाधनायोगात् । एतदनन्तरं तत्तद्देवतोपासनोपयोगि तत्तन्मन्त्रे तत्सन्निविपठितस्यास्य प्रकरणार्थव्यवस्थापकत्वासिद्धेश्च । समुद्रशायित्वादिलिङ्गविरुद्धायाः प्रत्यभिज्ञाया अकिंचित्करत्वात् ’ तदेवभूतं तदुभव्य मा इदमित्यत्र नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम् ’ ’ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति नारायणोपनिषत् - सुबालोपनिषत् - प्रत्यभिज्ञासद्भावात् । ’ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च नैनम्, हृदा मनीषा मनसामिक्ऌतो य एनं विदुरमृतास्ते भवन्ति’ इति कठवलिप्रत्यमिज्ञानाच्च भगवत्परत्वावसायात् । ‘सप्तदशप्राजापत्यान् पशूनालभत ’ इत्येतद्वाक्यशेषे ’ श्यामा एकरूपा भवन्तीति श्रवणेन आश्रावयेदिति चतुरक्षर - मित्यारभ्य ’ एष वै सप्तदशः प्रजापतिरित्यन्तस्य वाक्यस्य,

94

'

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चामिरेव च ।

हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु ॥ '

इति महाभारते भगवत्परतयोपबृंहणेन च भगवति प्रजापतिशब्दस्य प्रयुक्तत्वात् । ’ हिरण्यगर्भोधुतिमानेष छन्दसी पद्यत इति प्रमाणबलात् हिरण्यगर्भशब्दस्यापि तत्र प्रयोगसम्भवात् शित्रपरत्वोक्त्ययोगात् । अपि च ’ ह्रीश्चत ’ इति मन्त्रस्य केषांचित् गृहयज्ञे सोमाद्यधिदैवत गौरीपूजायां विनियोगस्य स्मृत्यर्णवा दिषूक्तत्वादन्यत्र विनियोगानुपलम्भात्प्रथमश्रुतत्वाच्च । हृल्लेखाया भुवननायिकापरत्वात्तदनुरोघेन लक्ष्मीशब्दस्य बायुसंहितायां ’ तत्र माहेश्वरी लक्ष्म्या मूर्तिर्मूर्तिमतः प्रभोः’ इत्यारभ्य ’ महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा’ इति श्रुतायां महेश्वरशक्तिरूपायामपरशक्त्यंशलीलायां वृत्त्युप1 ’ श्रीश्च ते लक्ष्मीश्च पत्न्याविति वाजसनेयिपाठे समानप्रकरणगतहृल्लेखश्रुत्यनुरोधादुमायामेव श्रीशब्दस्य श्रियं लक्ष्मीमौपलाम्बिकांगामिति प्रयोगावृत्युपपत्तेः नैतद्बलात् भगवत्परत्वमिति

पत्तेः

तदप्यसम्बन्धम् – गौरीपूजायां ह्रीश्चत इति मन्त्र विनियोगकथनस्य प्रकृतानुपयुक्तत्वात् किं मन्त्रस्य गौरीपरत्वं सिध्यतीत्यभिमतम् ? किं वा हीराब्दस्य लक्ष्मीशब्दयोः । नाधः, मनः प्रकाश्यगौरीपत्नीकत्वस्य वा गौर्यामनन्वयेन तत्परत्वासिद्धेः । न द्वितीय: ; प्राधान्येन मन्त्रप्रकाश्यार्थप्रतिपादकशब्दस्यैव विनियोगबलात् विनियोगसम्बन्ध्यर्थपरत्वस्य वाच्यत्वादन्येषां शब्दानां तदर्थपरत्वासिद्धेः । हीशब्दस्य गौरीपरत्वसाधकप्रमाणान्तरानुपलम्भात् मन्त्रशास्त्रमर्यादाया एतादृशस्थलेषु प्रमाणान्तराभावेऽपि निरुक्तादिकमादाय कथश्चिदुपपन्नत्वेन तस्य सार्वत्रिकसर्वार्थव्यवस्थापकत्वायोगालक्ष्मीपदसमभिव्याहारेण भूपरत्वस्यैवात्र कल्पयितुं युक्तत्वात् । ’ श्रीभूमिसङ्गीतं हरिमिति’ प्रसिद्धेः वायुसंहितावचने तत्र माहेश्वरी लक्ष्म्यामूर्तिरित्युक्त्वा लक्ष्मीतनुत्वप्रतीत्या तदभिव्यक्तिनिबन्धनत्वावगमात् महालक्ष्मीति ख्यातेति व्यपदेशस्य तद्बलादपि लक्ष्मीशब्दस्यान्यथयितुमशक्यत्वात् । ‘लक्ष्मीमौपलाम्बिकां गामित्यस्य गौरीपरत्व-

95

साधकप्रमाणाभावात् तत्प्रयोगबलात् श्रीशब्दस्य पार्वतीपरत्वोक्त्ययोगेन वाजसनेयिपाठान्यथासिद्धिवर्णनस्याप्युपपत्तिशून्यत्वात् । उपक्रमश्रुतश्रीलक्ष्मीशब्दयो-

रनुसरणीयत्वेन

’ नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी ।

त्वं माता सर्वलोकानां देवदेवो हरिः पिता ||

,

इत्यादिषु मातृत्वोक्त्या तदादाय लक्ष्म्यामपि सम्भवात् प्रवृत्तिके नाम्बिकाशब्देन पार्वतीपरत्वोक्त्ययोगात् उपलशब्दस्य पर्वतपरत्वासिद्धेरौपलाशब्दस्य त्वत्पक्षेऽपि कथंचिद्वर्णनीयत्वेन मन्दरमयनसम्भूत्या लक्ष्म्यामपि तच्छदप्रवृत्तेर्वर्णयितुं सुश-

कत्वात् ।

वेदान्तविजयकृतस्तु - ‘अनूषरसम्भूत’ इत्यत्र ‘हीश्चते लक्ष्मीश्च ‘फ्लयाविति’ श्रीभूमिपतित्वमाम्नायते । तत्र श्रीशब्दस्य

"

रामस्य दक्षिणे पार्श्वे पद्मा श्रीः समुपस्थितौ ।

सव्ये तु ही विशालाक्षी व्यवसायस्तथाग्रतः ॥ '

इति परिशेषात् सव्यपार्श्वान्वयलिङ्गेन च रामायणे भूदेव्यां प्रयोगेण पाद्मे च सव्ये तु हीरित्यस्य सादक्षिणेतरपार्श्वगेत्यमिधानाथ । अत्रत्यहीशब्दस्योपबृंहणेन भूमिपरत्वात् व्यवसाय इति सङ्कल्प सुदर्शनमित्यर्थः ।

यद्वा लक्ष्मीतन्त्राद्यनुसारात् श्रीवाचको हीशब्दः । तथा हि । तत्र

परमात्मानमादाय योजयेत् कालवाहिना । त्रैलोक्यैश्वर्यदोपेत मायामस्मिन्नियोजयेत् ॥

इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा || '

इति परमात्मक लान लत्रैलोक्यैश्वर्यद मायाशब्दवाच्यतया पूर्वाध्यायसिद्धेः । उत्तराध्याये च,

’ तं विधि प्रथमं वर्ण हकारं पुरुषोत्तमम् '

96

इत्यादिना पुरुषोत्तमस्य तत्तेजसस्तस्यैव परमव्योमेशरूपस्य तदिच्छाज्ञानक्रियारूपाया लक्ष्म्याश्च वाचकतया वक्ष्यमाणैर्हकाररेफानुखारैकारैर्हृल्लेखामन्त्रमुद्धृत्य ।

'

लेखा परमा दिव्या मत्स्वरूपं पुरन्दर । अनयैव सदा सौख्यसंख्येयाहं सनातनि ॥

अनयैव सदा योगैस्समाधिष्ये समाधिना । अमिधियैनयैवाहं शैवे षड्शिदन्तिमे ॥ '

इत्यादिना लक्ष्मीवाचकत्वस्य प्रपञ्चनात् ।

‘अस्या रूपाणि पञ्चेह तत्त्वज्ञास्सम्प्रचक्षत

इत्यादिनानुखारान्तत्वेकारान्तत्वबिन्दुनादान्तत्वमकारान्तत्वैश्चतुरः पक्षानागमादिसिद्धान्प्रदर्श्य वेदे ह्रीश्चत इत्यादि विसर्जनीयान्ताम्नामिप्रायेण सृष्टिकारणमुतेन्ये वैदिकास्समाधीयत पश्चमपक्षोपन्यासाच्च ।

‘विसर्गसृष्टिकृत् ख्यातो लकारः परमेश्वर '

इति तत्नत्यवर्ण निघण्टनुसारेण सृष्टिकारणशब्दस्य विसर्गवाचित्वात् स एव स्त्रीवाचको हीशब्दोऽन्तरङ्गलक्षणया भूमिपरसृष्टा विष्णुरियं सृष्टि श्रीभूमिधरो हरिरिति श्रूयते । तत्न लक्ष्मीशब्देन पौनरुक्त्यप्रसङ्गात् लक्ष्म्या सहैकवत्यन्वयलिङ्गात् ’ श्रीभूमिधरो हरिरित्युदाहृत वैष्णववचनानुसारात् । गन्धद्वारामिति मन्त्रे ’ त्वामिहोपह्वयेश्रियमि’ति भूम्यां दृष्टप्रयोगत्वात् श्रीशब्दो भूमिपरः । न त्वैश्वर्यादिपरः । तत्स्थानापन्नस्तैत्तिरीये ही शब्दोऽपि तथा । यद्यपि ’ श्रीश्चते लक्ष्मीश्च पत्न्यावि’त्यत्र श्रीशब्दस्य प्रथमश्रुतत्वात् चरमश्रुतलक्ष्मीपदस्यान्यपरत्वं न्याय्यम्, तथापि श्रौतभूमिविषयप्रयोगान्तरानुसारादुपबृंहणानुरोधाच भूपरत्वम् । न च ’ श्रियं लक्ष्मीमौपलाम्बिकां गामित्यायुष्यसूक्ते श्रीशब्दलक्ष्मीशब्दयोगर्यामपि दृष्टप्रयोगत्वादत्रापि तत्परत्वमिति केनचिदुक्तं युक्तम् । तत्त्र हरिहरविरिञ्चस्कन्दपत्नीनाममिधानात् । आरण्यपर्वणि स्कन्दपल्या-

97

यष्टीति यदि देवतात्वेन षष्ठीनामत्वदेवीमाहात्म्ये चेन्द्रसेनेत्यभिधानं प्रसिद्धम् । बह्वीनां पत्नीनाममिधानादेव षष्टिं चेति समुच्चयोपपत्तिः । यामिन्द्रसेनेत्युदाहुः तां षष्टिं चेत्यन्वयः । षष्टिं जयामिति पाठसामानाधिकरणेनान्वये ऽप्यपौनरुक्त्यायैकत्तरपदानां तच्छब्दवाच्यता लक्षणाया वाच्यत्वादुपक्रमगतश्रीपदस्य मुख्यार्थत्वमङ्गीकृत्य इतरेषु पदेषूक्तलक्षणा अङ्गीकार्या । न तु चरमश्रुतस्याम्बिकापदस्य मुख्यार्थता । तस्मादेतेषां सर्वेषां नाम्नां लक्ष्मीवाचकत्वमेत्र सिध्यति । अत एव पूर्वतापनीये तृतीयोपनिषदि नृसिंहशक्तिरूपां मायाशब्दवाच्यां लक्ष्मीमधिकृत्य ’ श्रियं लक्ष्मीमौपलामम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युदाहुः । तां विद्यां ब्रह्मयोनिं सरूपां इहायुषे शरणमहं प्रपद्ये ॥ ’ इति श्रूयते ।

वस्तुतस्तु तत्र तथात्वेऽप्यत्र नाम्नां खारस्यस्यानुरोध्यत्वादौचित्याच । बह्वीनामेव देवानां इहाभिधानमौचित्यं च चतुर्णां देवानां पूर्वमिहाभिधानात् । तथा यो ब्रह्मेति चतुर्मुखोऽभिधीयते स्वारस्यात् । ’ यो ब्रह्मा स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेनेत्यन्वयः । ’ प्राणेश्वरः कृत्तिवासाः पिनाकी’ ‘ईशानो देवः’ ब्रह्मणश्चतुर्मुखादुज्जहार - उद्बभूव । धातूनामनेकार्थत्वात् कर्मानुक्तेश्च अयमीशानश्वतुर्मुखादुज्जहार स ईशान आयुर्दधातु तस्मै जुहोमि हविषा घृतेनेत्यन्वयः । तनूर्वर्षिष्टेतिवत् यो ब्रह्मेत्यनन्तरमेव स न आयुर्दधात्विति वक्तव्येऽपि उभयोरन्क्यविवक्षयेवोभयानन्तरं पाठः । तनूवर्षिष्ठेतिवदेव । अथवा यो ब्रह्मा चतुर्मुखब्रह्मणः परमात्मन उज्जहार स न आयुर्दधातु । यः प्राणेश्वरः कृत्तिवासाः पिनाकी ईशानोदेवः ब्रह्मण उज्जहार स न आयुर्दधात्वित्यर्थः । यो ब्रह्मा ब्रह्मण उज्जहारेत्यत्रापि ब्रह्मपदं परमात्मपरम् । विभ्राजमान इत्यादिना भगवानमिधीयते । विभ्राजमान इति नैसर्गिकं तेजोऽभिधीयते । रोचमान इत्यवतारदशायां तदप्रच्युतिः सरिरस्य सलिलस्य समुद्रस्य मध्यात् रोचमान एवागात् अवतीर्णः । दुष्कृद्विनाशनार्थत्वादवतारस्य धर्मरुचिः अत्युष्णदीधिति: ब्रह्मज्योतिरित्यादिना सुब्रह्मण्यो ऽभिधीयते । ब्रह्मज्योतिश्चतुर्मुखपुत्रो रुद्रः ब्रह्मपत्नीषु । अतिसुतत्वेन ब्राह्मणस्य पत्नीषु

13

98

कृष्तिकासु यं गर्भमधात् वहुरूपमत्र सङ्खयानुरोधाय मुखतो बहुरूपं जयन्तं सुब्रह्मण्यमसुरविजयाय देवसेनापतिपदामिषेकात् जयशीलं वैजयन्त सिद्धसेन इति वैजयन्ती, किंचिद्विकारे ऽपि न दोषः । अतः चतुर्णां देवानामभिधानात् तेषां पत्नीनाममिधानं युक्तम् । श्रियं लक्ष्मीमिहायुषा वर्धयामो घृतेन । औपलामम्बिकामिहायुषी वर्धयामो घृतेन यामिहायुषी वर्धयामो घृतेन । षष्ठीं च यामिन्द्रसेनेत्युदाहुः तामिहायुषी वर्धयामो घृतेन । ब्रह्मयोनिं विद्यात् निरुक्तदेवताप्रतिपादकवेदाधिदेवतां इहायुषी वर्धयामो घृतेनेत्यन्वयः । एकः पुरस्तादिति पुनर्भगवन्तमाह । अत एवोत्तरतापनीये एकः पुरस्तादित्यारभ्य साम्पराय इत्यन्तनृसिंहपरत्वेन पठितमित्याहुः ।

नन्वेवमपि लज्जावाचक हीशब्दसमभिव्याहारालक्ष्मीशब्दस्य पुरुषविशेष गुणभूतकान्तिपरत्वमङ्गीकृत्यार्थवर्णनसम्भवात् न लक्ष्मीपतित्वमत्रवाक्ये प्रतिपाद्यत इति चेत् - न । पत्नयावित्यस्यानन्वयापत्तेः अनन्वयाद्वरं मुख्यार्थभङ्ग इत्यस्य उत्तिष्ठन्नन्वाहाम्नीन्विहरेत्यत्न प्रेषानन्वयभयादुत्थानकाललक्षणाङ्गीकारेण सम्प्रतिपन्नत्वात् ह्रीशब्दप्रसिद्धिभङ्गस्यादोषत्वात् । न च लज्जाकान्त्योः पत्नीत्वरूपिणं क्रियत इति नान्वय इति वाच्यम् । पत्नीत्वरूपणस्य निष्प्रयोजनत्वेन पत्न्या - वित्यस्यानर्थक्यापातात् । आनर्थक्यात् वरं मुख्यार्थभङ्ग इति न्यायेन हीराब्दस्य लक्षणया योगेन वा भूपरत्वात् । ’ शृणोत ग्रात्राण

शृणोत प्रात्राण’ इत्यत्र सम्बोध्यत्वारोपेणार्थवर्णनस्य अग्निदग्नीन्विहरेत्यत्रापि सम्भवेन तत्राप्युत्थानकाललक्षणाभावप्रसङ्गाच्च । तस्मात् लक्ष्मीशब्दहीशब्दयोः श्री भूपरत्वमेव न्याय्यम् ।

व]जसनेयिपाठेऽपि श्रीशब्दो भूपरः । न च प्रथमश्रुतश्रीशब्दानुसारात् चरमश्रुतलक्ष्मीशब्दस्य भूपरत्वमस्त्विति वाच्यम् । किश्चिद्विकारेऽप्येकदेश विकृतस्यानन्यत्वमिति न्यायेनामिने तस्मिन् मन्त्रे लक्ष्मीशब्दस्य मुख्यार्थत्वलाक्षणिकत्वस्वीकारेवैरूप्यापातात् ।

’ अहोरात्रे पार्श्वे ’ इत्येतत् ’ शर्वरीत्वमहं दिनम्’ इत्युक्त्या अर्धनारीश्वररूपप्रतिपादकमित्युक्तमविचारितरमणीयम् । कालविशेषशरीरकत्व-

99

दनपरत्वात् । अन्यथा अहोरात्त्रशब्दस्या मुख्यार्थत्वापातात् । न च त्वमहं दिनमित्युक्तिमात्त्रात् पार्वत्या रात्रिशब्दवाच्यत्वं, शिवस्याहः च्यत्वं वा सिध्यति । अतो नास्य वाक्यस्य शिवपरत्वे स्वारस्यम् ।

वेदान्त विजय कृत स्तु - ‘अहोरात्रे पार्श्च इत्येतत् चार्धलक्ष्मीभृतिरूपविशेषाभिप्रायेण,

विष्णुखरसंसिता रात्रिर्दिवा भवान्’

पुराणवचनेन लक्ष्मीनारायणयोः रात्रिंदिनत्वेनोक्ततयार्धलक्ष्मीरूपस्यापार्श्वकत्वात् । तच्च रूपं दर्शितम् -

'

हस्तैर्विभृत्सरसिजगदा शङ्खचक्राणिविद्यां

पद्मादर्शो कनककलशं मेघविद्युद्विलासम् । वामो तुङ्गस्तनमविरलाकल्पमा’श्लेषलोभा-

देकीभूतं वपुरवतु वः पुण्डरीकाक्षलक्ष्म्याः ॥ '

देना । वस्तुतस्त्वहोरात्र इत्येतत्कालनिर्वाहकत्वपरम्’ इत्याहुः ॥

ननु ’ नक्षत्राणि रूपमित्यस्य कालात्मके शिवविग्रहे सामञ्जस्यात् । भ्यस्सम्भूत’ इत्यस्य शिवपरत्वमेव युक्तमित्युक्तमिति चेत् -

अत्र वेदान्तविजयकृतः

‘नक्षत्राणि रूपमित्येतच आरण्यपर्वणि-

‘पुं सूक्तार्थमनुकम्य तारारूपाणि दृश्यन्ते ।

तान्येतानि नभस्थले मम रूपाणि तान्येवेति || '

डेयं प्रति भगवद्वचनेनोपबृंहितम् । मार्कण्डेयेन च ततः श्रुत्वा किं प्रति भुवनकोशं वर्णयता मार्कण्डेय पुराणे तत्प्रपश्चितम् । तत्र हि,

’ हितभद्राश्वशिराविष्णुर्भारते कूर्मसंस्थितिः ।

वाराहः केतुमाले च मत्स्यरूपस्तथोत्तरः ॥ '

कूर्मरूपमुपक्षिप्य,

100

‘किं तु कूर्मस्त्वया पूर्व भरते भगवान् हरिः । कथितस्तस्य संस्थानं श्रोतुमिच्छाम्यशेषतः ॥

इति क्रोष्टुकिप्रश्नमुद्भाव्य,

नवधाऽवस्थितान्यस्य क्षेत्राणि च समन्ततः

इत्युपक्रम्य मध्ये ’ सारस्वता मत्स्या’ इत्यादिना देशविशेषान्मध्याद्यवयत्रविशेषस्थानमभिधाय

’ कृत्तिका रोहिणी सौम्यं तेषां मध्यनिवासतः ।

नक्षललितयं विप्र शुभाशुभ विपाकदम् ॥ रौद्रं पुनर्वस्त्रपुष्यनक्षत्रत्रितयं मुखे ।

आश्लेषं च तथा पौत्रं फल्गुन्यः प्रथमास्तथा ॥ नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् । फल्गुन्यश्चोत्तरा हस्तश्चित्रापार्श्च तथा परः ॥

एते जनपदाः पादेस्थिता ये दक्षिणापथे । स्वातिर्षिशाखामैत्रं च नक्षत्रयमत्र च ॥ अवकेशास्तथा पुष्छे जनाः कूर्मस्य संस्थिताः । ऐन्द्रं मूलं तथाऽषाढं नक्षत्रत्रयमत्र च ॥ कूर्मस्य पदमेते वै पश्चिमोत्तरमाश्रिताः । आषाढ श्रवणे चोमे श्रविष्ठा च तथाश्रयाः ॥ क्षेमधूर्ताश्च कूर्मस्य वामं कुक्षिमुपाश्रिताः । रेवती चावदैवत्यं याम्यं चक्षमिति त्रयः ॥ एष कूर्मो मयाऽऽख्यातो भारते भगवान्विभुः । नारायणोत्यचिन्त्यात्मा यत्र सर्व प्रतिष्ठितम् ॥ मेघादयस्त्रयो मध्ये मुखं द्वौ मिथुनादिको । सिंह: कन्यातुला चैव कुक्षौ राशिनयं स्मृतम् ॥

101

तुला च वृश्चिकाचौपादक्षिणपश्चिमे । पूर्वे च वृश्चिकेनैव सहधन्वाव्यवस्थिम् ॥ वायव्ये चास्य वै पादे धनुर्मकरकुम्भकाः । कुम्भमीनौ तथा चास्योत्तरं कुक्षिं समाश्रितो || '

इति नक्षत्रतनुं कूर्मरूपं भगवन्तममिधाय

’ पूर्वेण यत्स्थितं वर्ष भद्राचं तन्निबोधत '

इति वर्षान्तरं प्रस्तुत्य

तत्र चाश्वशिरा देवः चतुर्बाहुर्जनार्दनः ।

शिरो हृदय मेदाङ्घ्रि हस्तै

क्षत्रयान्वितः ॥’

इत्युक्त्वा ’ केतुमालमधोवर्ष तं निबोधत पश्चिमम्’ इति प्रस्तुत्य

’ अत्रापि भगवान् हरिः ।

वराहरूपीपादस्य हृत्पृष्ठे पार्श्वतस्थितः ||

त्रिनक्षत्रयुतो देशैर्नक्षत्राणि युतानि च ॥ '

इत्यमिधाय ’ अतः परं कुरून् वक्ष्ये निबोधेह ममोत्तरान्’ इत्युत्तरकुरूनधिकृत्य

’ तत्रापि भगवान्विष्णुः प्राकशिरा मत्स्यरूपवान् ।

विभक्तो नवधा विभ्रनक्षाणि सायः ॥ '

इति भूयसा ग्रन्थेन भूयसां विग्रहाणां नक्षनरूपकत्वं प्रपञ्चितम् ।

एवं वैष्णवेsपि पुराणे नक्षत्नरूपत्वं

भगवत उक्तम् -

तारामयं भगवतः शिशुमाराकृतिः प्रभोः । दिवि रूपं हरेर्यत्तु तस्य पुच्छे ध्रुवः स्थितः ॥ '

इति । भागवते च शिंशुमारं प्रस्तुत्य ’ पुनर्वसुपृष्टये दक्षिणवामयोः श्रोण्योरुत्तरत्नाश्लेषं च दक्षिणवामयोः पादयोरमिजिदुत्तराषाढे दक्षिणबामयोः ’ इत्यादि ।102

एवं च यत्पुराणान्तरेषु देवतान्तरस्यापि नक्षत्ररूपत्वकीर्तनं ’ तद्राजभृत्ये राजत्व - कीर्तनवत् प्रशंसार्थम्’ इत्याहुः ।

,

यदप्यस्य पुरुषसूक्तस्य ’ ऋषिर्नारायणस्मृत’ इति शौनकस्मृत्या नारायणस्य ऋषित्वावगमात् वेदाहमित्यत्राहं शब्देन तत्परामर्शात् ‘कर्मकर्तृव्यपदेशादि ति सूत्रोक्तन्यायेन सूक्तप्रतिपाद्यस्य नारायणमिन्नत्वं प्रतीयत इति —

तदप्यनुपपन्नम्

‘परमव्योमवासी च पुरुषो देवता भवेत् । '

इति पुरुषशब्दार्थस्य देवतात्वेन तदतिरिक्तपरत्वासम्भवात् । स्व महिम्नीत्याद्यनन्याधारत्वात् तात्पर्यकव्यपदेशवत् दुर्ज्ञानत्वतात्पर्येणाहं वेदेति व्यपदेशोपपत्तेः ।

अन्यथा

श्रीमत्पुरुषसूक्तस्य श्रीमन्नारायणो मुनिः ।

छन्दोऽनुष्टुभं च दशर्चा तिसृणां त्रिष्टुबन्ततः ॥ नारायणोऽस्य भगवान्परमात्मा तु देवता ||

इति तदेवताकत्वप्रतिपादकवचनविरोधप्रसङ्गः । एवं च नारायणसमाख्यापि नारायणदेवताकत्वनिबन्धनैवेति तद्बलादपि सूक्तस्य भगवत्परत्वम् ।

न चाघमर्षणमिति तद्दृष्टिनाम्नाव्यपदेश इति वाच्यम् । लाक्षणिकत्वापत्तेः । दृष्टं सामेति दृष्टायै साम्न्येव तद्धितविधानात् । तस्येदमिति विवक्षायां ’ वृद्धाच्छन्द ’ इति छप्रत्ययापत्तेः । साऽस्य देवतेति विहितप्राग्दिव्यतिर्याणं तत्त्वावसायात् । न च पुरुषेण नारायणेनेत्यत्र पुरुषेणेत्यनेन देवताव्यपदेशानन्तरं नारायणेनेति व्यपदेशात् लाक्षणिकोऽपि ऋषिसम्बन्धोऽङ्गीक्रियत इति वाच्यम् । तत्र तथात्वेऽपि नारायणाभ्यां ब्राह्मण एक होतेति चोपस्थान इत्यादौ लाक्षणिकत्वाङ्गीकारस्याप्रामाणिकत्वात् । पुरुषेणेत्यनेन देवतासम्बन्धं प्रतिपाद्य तद्धेतुकनारायण समाख्याया नारायणेनेति व्यपदिश्यत इति वक्तुं युक्तत्वेन तत्रापि लाक्षणिकत्वं विना निर्वाहसम्भवाच्च । अतः पुरुषसूक्तस्य भगवत्परत्वम् ।

103

इममर्थं भगवान्बादरायणो नारायणीये सुटतरं प्रकाशर्याते

’ बहूनां पुरुषाणां हि यथैकायो निरुच्यते ।

तथा तं पुरुषं विश्वमाख्यास्यात्मगुणातिगम् || बहत्रः पुरुषालोके साख्ययोगविचारिणाम् । नैतमिच्छन्ति पुरुषं एकं कुरुकुलोद्वह || इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते ।

ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ॥’

पुरुषसूक्तप्रतिपाद्यत्वेन सर्वजीवविलक्षणत्वेन कथितस्य पुरुषस्य । ’ तत्र यः परमात्मा तु स नित्यो निर्गुणः स्मृतः ।

स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ ’ इति ’ चतुर्विभक्तः पुरुषः संक्रीडति यथेच्छति ।

एवं स भगवान्विष्णुः खेन ज्ञानेन बोधयन् ॥ '

नारायणविष्णुशब्दाभ्यां अभिधेयत्वस्फोरणत्वात् । इदं हि नारायणे पोगस्य निर्वाहार्थं तत्प्रतिपादनप्रकार प्रदर्शनार्थमित्यन्यथासिद्ध्युत्प्रेक्षात् न । पुरुषप्रतिपाद्यं जगद्विलक्षणं पुरुषम् । तत्र यः परमात्मात्विति निर्दिश्य हे नारायण इति नारायणत्वविधानात् । तस्मात् पुरुषसूक्तस्यापि भगवति यण एवं परमतात्पर्यमिति सिद्धम् ॥ श्रीमन्नारायणाय नमः ॥

सर्वोत्कर्षमाविष्करोति । ’ सूर्यद्वारेण

व्ययात्मायेनाक्षरं पुरुषं वेद सत्यं विश्वमुपासते पुरुषं ये कामा: ते

एवं मुण्डकोपनिषदपि भगवति त्रेरजाः प्रयान्ति यत्रामृतः स पुरुषो चतां तत्त्वतो ब्रह्मविषां पुरुष एवेदं मेतदतिवर्तन्ति धीरा:’ इत्यादिषु मुक्तप्राप्यत्वेन मुमुक्षुजिज्ञास्यत्वेन पुरुष - पार्थस्य प्रतिपादनात् । ’ पुरुष एवेदं विश्वं स्वस्ति वः पाराय तमसः नादित्यादिषु पुरुषसूक्तप्रत्यभिज्ञानात् । ’ नायमात्मा प्रवचनेन लभ्यो न बहुना श्रुतेनेत्यत्र कठवल्लिप्रत्यमिज्ञानात् । ’ धनुर्गृहीत्वौपनिषदं

104

महास्त्रं शरं छुपासानिशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्यविद्धी’ ति वाक्ये चेतसो भावगतत्व विशेषणेन भगवत्प्रणवत्वस्फोरणात्। भगवच्छब्दवाच्यस्य नारायणस्योपास्यत्वापगमाच्च । भगवच्छब्दो हि ।

’ एवमेष महाशब्दो मैत्रेय भगवानिति । इति

परब्रह्मस्वरूपस्य वासुदेवस्य नान्यगः ॥ '

1

तत्र पूज्यपदार्थोक्ति परिभाषा समन्वितः । शब्दोऽयं नोपचारेणान्यत्र छुपचारत: ॥ ’ ( वि. पु. )

इति प्रमाणबलेन नारायणसाधारणत्वेनावसीयते ॥

"

ननु ’ यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तप '

इत्यत्र सर्वज्ञशब्दस्य सर्व विच्छब्देनापौनरुक्त्याय ’ कृशानुरेताः सर्वज्ञ’ इति निघण्टुसिद्धशिवरूढितन्नामभूतशब्दत्वावसायात् । ’ यत्रामृतस्य पुरुषो ह्यव्ययात्मा’ इत्यादावमृतशब्दत्य श्रवणात् । तस्य च जाबालश्रुतौ ’ किं जप्येनामृतत्वं ब्रूहि सहोवाच पाज्ञवल्क्यशतरुद्रियेणेति ‘एतानि हनामृतस्य नामधेयानी’ त्युक्त्या शतरुद्रियान्तर्गत शिवादीनामपर्यायत्वावगमात् । ’ जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इत्यत्र शब्दान्नानात् पुरुषशब्दस्यान्यत्रापि पुरुषस्यविद्महे ‘त्यादौ प्रयोगात् । भगवच्छब्दस्य चाथर्वशिरसि निर्वचनेन शिवपरत्वसम्भवादस्या उपनिषदश्शिवपरत्वमेव युक्तमिति चेत् त्वत्पक्षे ऽपि सर्वज्ञशब्दस्य योगरूढत्वेन पौनरुक्त्यमनित्रार्यमिति न तच्छिवपरतयोपन्यासार्हम् । न च सर्वज्ञशब्दस्य रूढ्यर्थभूतशिवमात्रोपस्थापकत्वमिति न दोष इति वाच्यम् । अस्मत्पक्षेऽपि सर्वविषयकज्ञानवत्व सर्वप्रकारकज्ञानवत्वरूपार्थद्वयमादाय पौनरुक्त्यपरिहार सम्भवात् । न चैकेनैवार्थद्वयबोधसम्भवेऽन्यतरत् व्यर्थमिति वाच्यम् । त्वत्पक्षेऽपि सर्वज्ञशब्दस्य योगेनाभिलषितसिद्धिसम्भवेन वैयर्थ्यस्यानिवारेण तुल्यत्वात् । सर्वविच्छब्दस्य विदिर्लाभ इति धातुनिष्पन्नत्वाङ्गीकारेण पौनरुक्तस्य सुपरिहारत्वाच्च । न चैवमपि सर्वज्ञशब्दरूढित्यागप्रसङ्ग इति वाच्यम् । पुरुषशब्दरूढित्यागस्य त्वत्पक्षेऽपि तुल्यत्वात् । सर्वज्ञशब्दस्य रुद्रे

105

रूढौ भानाभावाच्च । न च कोशबलात् रूढिकल्पनं, शतशोव्यभिचारस्य दर्शितत्वात् । ’ सर्वज्ञस्सुगतोबुद्ध’ इति बुद्धावतारेऽपि तद्दर्शनाच्च । ’ एष सर्व एष सर्वेश्वर एषोऽन्तर्यामी ’ इति सौबलप्रयोगेण,

‘सर्वस्य तु तदा ज्ञानात् सर्वज्ञं च प्रचक्षते '

इयुद्योगपर्वणि नामनिर्वचनाध्याये वासुदेववृष्णीमाधवमधुसूदनकृष्णपुण्डरीकाक्ष जनार्दन सात्वता दामोदर हृषीकेशाधोक्षज नारायण पुरुषशब्दानां भगवन्नामसर्वाभ्युपेतानां निर्वचनानन्तरं तथाभूतस्य सत्यविष्णुजिष्यवनन्तगोविन्दशब्दनिर्वचनेभ्यः पूर्वं निर्वचनेन सर्वज्ञशब्दस्य भगवत्परत्वसम्भवाश्च । अमृतशब्दोऽपि न रुद्रनामत्वेन लोकसिद्धः । न च तथात्वे किंचित् प्रमाणमस्ति । सप्तदशारत्निर्वाजपेयस्य यूप ( जै. सू. 8-1-18 ) इत्यत्र यूपस्य

सप्तदशारत्लिनयः । आनर्थक्य तदंगन्यायाधिकरणम्

वाजपेयप्रकरणे - सप्तदशारत्निर्वाजपेयस्य यूपो भवति - इति श्रूयते । का यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोंगम् । मसदशारनिशब्द वाजपेयशब्दयोरानंतर्यात् । प्रकरणं चैत्रमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत् तर्हि वाजपेयगतं खादिरमूर्ध्वं यत् षोडशिपानं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणाऽन्वेति - इति पूर्वः पक्षः ।

,

सिद्धांतस्त्वेवं - सप्तदशारनिर्यूपः इति सामानाधिकरण्याद्यूपेन साक्षात् संबध्यते । तस्य यूपस्य पश्वं गत्वादुन्मानं यूपद्वारापशोरंगं भवति । तस्यापि शोर्वाजपेयांगत्त्रात् पशुद्वाराकर्मणः अंगम् । यद्यपि वाजपेय यूप शब्द वोरानंतर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबंधाभावात् - स्व्यवधानमभ्युपेयम् । ’ वाजपेयस्य’ इति षष्ठया: संबंधमात्र वाचित्वेन

। व्यवहित संबंधमपि असावमिधत्ते । देवदत्तस्य नप्ता इति प्रयोगात् । यत् सप्तदशारनिवाजपेयशब्दयोरानंतर्यम् - यच्च प्रकरणम् तदुभयमप्यविरुद्धम् । पवंगत्वेऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् । किंच पूर्वपक्षे यूपशब्देन षोडशिपात्रं लक्षणीयम् । सिद्धांते तु नासौ दोषः । (जै. सू. 8-1-18 )

I

14

106

वाजपेयेन साक्षात्सम्बन्धराहित्ये ऽपि तदङ्गपशुयागाङ्गत्वमादाय षष्ठयाप्युपपन्नत्वादमृतस्य नामधेयानीत्यत्र षष्ठयाः परम्परया मोक्षसम्बन्धमादाय वर्णन - सम्भवेन जाबालश्रुतेस्तत्र प्रामाण्यासम्भवात् । अन्यथा ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद तस्यायमात्मा शरीरं य आत्मानमन्तरो यमयति एष आत्मा अन्तर्याम्यमृत’ इत्यादिष्यमृतशब्दाम्नानेन शिवपरत्वस्य निष्प्रत्यूहप्रवृत्त्या अन्तर्याम्यधिकरणपूर्वपक्षानुत्थानेन तदधिकरणवैयर्थ्यप्रसङ्गः ।

ईशशब्दोऽपि न रुद्रोपस्थापकः । ’ समाने वृक्षे पुरुषो निमग्नोSनीशया शोचति मुझमान’ इत्यत्र सामर्थ्याभावेन मुह्यमानत्वस्य कथितत्वेन तत्प्रतिसम्बन्धिसामर्थ्योपस्थापनमात्रोपक्षयात् । अन्यथा प्रतिकोटित्वभङ्गप्रसङ्गात् । अथर्वशिरसा भगवच्छब्दनिर्वचनेऽपि न तस्य शब्दस्य तत्र रूढिः कल्पयितुं शक्या । अन्यत्र ह्युपचारत इत्युक्त्यार्थनिर्वाहकत्वेनापि तदुपपत्तेः । अन्यथा तद्वचनप्रसङ्गविरोधप्रसङ्गात् । किं चाथर्वशिरसो विष्णुपरत्वस्य वक्ष्यमाणत्वाच्च । न तस्य शब्दस्य तल निर्वचनात् शिवपरत्वम् । अपि च निर्वचनस्य तत्र शक्त्यन्तरकल्पकत्वेऽपि हरिशब्दस्येव नारायणे प्रसिद्धिप्राचुर्यात् । ततस्तस्यैवोपस्थितिरिति लाक्षणिकतुल्यत्वमेव । ( तस्यान्यत्न, ) अत एव हि श्रीकृष्णवचनत्वप्रतिपादनाय श्रीभगवानुवाचेति महाभारत भागवत -

वैष्णवादिषु निरर्गलं प्रयोगा दृश्यन्ते । अत एव पुराणस्य विष्णुपरत्वद्योतनाय वैष्णवमिति भागवत इत्यपि व्यपदेशो दृश्यते । तस्मात् नास्या उपनिषदो देवतान्तर-

परत्वम् ।

1

उपबृंहिता चेयमुपनिषत् वैष्णवे पुराणे

’ द्वे ब्रह्मणी वेदितव्ये शब्द ब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥

‘द्वे विद्ये वेदितव्ये’ इति चाथर्वणी श्रुतिः ।

परायात्वक्षरप्राप्ति ऋग्वेदादि मया पुरा ॥

107

यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्देश्यमरूपं च पाणिपादाय संयुतम् ॥ विभुं सर्वगतं नित्यं भूतयोनिमकारणम् । व्याप्यं व्याप्तं यतस्सर्वं तद्वै पश्यन्ति सूरयः ॥ तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिमिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ तदेव भगवद्वाच्यस्वरूपं परमात्मनः ।

वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ॥

’ द्वे विद्ये वेदितव्ये वै’ इति चाथर्वणीश्रुतिरित्यादिना ‘द्वे विद्येवेदि’ इति हस्मयत् ब्रह्मविदो वदन्ति पराचैवापरा च । तत्त्रापरा ऋग्वेदो इस्सामवेदोऽथर्ववेद : शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।

अथ परा यया तदक्षरमधिगम्यते । यत्तदश्यमग्राह्यमगोत्त्रमवर्णमचक्षुः तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति : । इति वाक्यमुपबृंहितम् । तदनन्तरं ;

तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिमिः

श्लोकेन तत्प्रतिपाद्यस्य वैष्णवस्वरूपत्वं प्रकटितम् । न च ’ तद्विष्णोः पदमिति व्यतिरेकनिर्देशात् देवतान्तरपरत्वं शङ्कयम् । तदेव भगवद्वाच्यं पं परमात्मन’ इत्युत्तरत्र भगवद्वासुदेव शब्दवाच्यत्वेन प्रतिपादनात् । ब्दस्य स्वरूपपरत्वप्रतिपादनाश्च । न चात्रापि भगवच्छन्दत्यान्यपरत्वशङ्का,

"

एवमेष महान् शब्दो मैत्रेय भगवानिति । परब्रह्मस्वरूपस्य वासुदेवस्य नान्यगः ॥

तत्र पूज्यपदार्थोक्तिपरिभाषा समन्वितः । शब्दोऽयं नोपचारेणान्यत्र सुपचारत: ॥ '

108

इति विष्णोरेव मुख्यत्वस्यान्यत्त्रामुख्यत्वस्योत्तरत्न प्रतिपादनात् । अनेन भगवच्छब्दनिर्वचनेन ’ आयम्य तद्भावगतेन चेतसे’ति वाक्यस्थभगवच्छब्दार्थों विवृतः । तदेवान्यायोपबृंहणाभ्यामियमुपनिषत् नारायणोत्कर्षप्रतिपादनप्रवणेति सङ्क्षेपः ।

एवं तापनीयोपनिषदपि भगवदुत्कर्ष प्रथयति । तस्य भगवदवतारनृसिंहविषयकत्वात् । तत्न पूर्वतापनीयोपनिषन्मन्त्रराजभूतानुष्टुभवाच्यन्वमुखेन तदतिशयं प्रतिपादयति । उत्तरतापिन्यां तु प्रणवत्राष्यत्त्रमुखेन प्रणवस्य च परब्रह्मवाचकत्वम् । ‘ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत’ इति प्रसिद्धम् । मन्त्रराजस्य ’ त्वनुष्टुभो वा इमानि भूतानि जायन्ते, अनुष्टुभा जातानि जीवन्ति, अनुष्टुभं प्रत्यभिसंविशन्ति’ इत्यनेन शब्दस्य जगत्कारणत्वाभावेन प्रतिपाद्य प्रतिपादकामेदनिबन्धनतादृशव्यपदेशवत्तयाऽवगम्यमानेन जगत्कारणत्वविशिष्टपरब्रह्मपरत्वं स्फुटमवगम्यते । न चोप्रशब्दस्य मन्त्रादौ श्रवणात् तस्य ’ चोप्रः कपर्दिः श्रीकण्ठ’ इति शिववाचकत्वावगमात् देवतान्तरपरत्वं मन्त्रस्य शङ्कितुं शक्यम् । महाविष्णुनृसिंहशब्दयोः तन्मन्त्रगतयोर्मुख्यार्थसंरक्षणाय कांस्यभोजिन्यायेन शृङ्गाराद्यन्तर्गतरसविशेषनिमित्तकत्वावसायात् । न चैवं भीषणशब्दपौनरुक्त्यप्रसङ्ग इति भ्रमितव्यम् ।

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्स रौद्र शांताः च रसाः ॥ '

इति पृथक्परिगणने भयानकरौद्ररसयोर्भिन्नत्वेन तदुभयनिमित्तकयोर्भीषणोग्रशब्दयोः पौनरुक्त्यस्य शङ्कितुमशक्यत्वात् । अत एव दारुणं भीषणं इत्याद्यनन्तरत्वं तथा दिनपूर्वभामित्युक्तरीत्या मिन्नपर्यायत्त्रद्योतकतुशब्दघटिततया

रौदंतू ग्रमि’ त्यमरकोशे पाठो दृश्यते ।

किं च स एवं मन्त्रराजं नारसिंहमनुष्टुभमपश्यत् शिवपरत्वस्योप्रपदवत्व रूपलिङ्गेन कल्पनीयत्वात् श्रुतिलिङ्गाधिकरणन्यायेन कल्पनानुन्मेषां न देवतान्तरपरत्वम् । न च ऋतं सत्यं परं ब्रह्म पुरुषं नृकेसरिविग्रहम् । ’ ’ कृष्णपिङ्गलं

109

ऊचरेतं विरूपाक्षं शङ्करं नीललोहितम् । उमापतिः पशुपतिः पिनाकीत्वमितपति: । ’ ईशानः सर्वविद्यानामीश्वरस्सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः यो ऋजुर्वेदवाच्यस्तं सामजानीयादिति वाक्यपर्यालोचनया शिवपरत्वमवगम्यत इति अच्यम्। महावाक्यखारस्यानुसारेणावान्तर बाक्यार्थवर्णनस्य न्याय्यत्वेन कृत्स्नोपनिपर्यालोचने नृसिंहपरत्वप्रतीत्या तदनुसारेण शङ्करादिपदानां यौगिकत्वं गौणत्वमपर्यवसानवृत्तिं वा आश्रित्यास्य वाक्यस्यान्यथा नेयत्वात् । ’ न क्क्तुरान्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ( ब्र. सू. 1-1-29 ) इति मूले भगवता बादरायणेन तथा निर्णयात् । अत एव हि त्वाष्ट्रवादिलिङ्गसद्भावेऽपि प्रदर्शनविद्यायाः परमात्मपरत्वमभ्युपगन्तव्यम् । एवं सत्येतद्वाक्योप - क्रमगतं क्षीरोदार्णवशायिनं नृकेसरिं योगिध्येयमिति वाक्यश्रुतं क्षीरोदार्णवशायित्वलिंगमप्यनुगृहीतं भवति । न चैवं ’ यो वै नृसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै वै नमो नम’ इति वाक्यानुसारात् नृसिंहस्य तुरीयत्वाभ्युपगमे शिवस्य तथात्व प्रतिपादकाथर्वशिरः शिवादिव्याकोपप्रसङ्ग इति वाच्यम् । त्यज तस्याथर्वशिरश्शिखयो रुद्रपरत्वभ्रमम् । तथा सति तत्रत्यशंभ्वादिविरोधप्रसङ्ग इति चेत् अत्र नृसिंहपदाभ्यासक्षीरोदार्णवशायित्वयोः स विष्णुरेव भवतीति विष्णुसाम्यप्राप्तेः फलत्वप्रतिपादनस्य च विरोधप्रसङ्ग इति तुल्यत्वात् तत्क्रतुन्यायेन तदुपासनस्यैव तत्प्राप्तिसाधनत्वात् । अथर्वशिरश्शिखयोर्भगवत्परत्वस्य वक्ष्यमाणत्वेन विरोधासिद्धेश्च ।

उत्तरतापनीयस्य सगुणब्रह्मपरत्वं तु सगुणत्वप्रतिपादकश्रुत्यन्तरविरोधात् न वक्तुं शक्यम् । सगुणवाक्यप्राबल्यप्रपञ्चप्रकारस्तु भाष्य श्रुतप्रकाशिकयोरनुसन्धेयः ।

एतेन पादौ वैश्वानरादिना तुर्यो निर्गुणस्मृतः । उत्तरस्मिन् तपनीयेन गुणिभ्यः परो हरिः । ’ इति परस्य प्रलपितमपास्तम् । तुरीयस्य नृसिंहानुष्टुभ प्रतिपाद्यत्वस्य तत्रैवोत्तरतापनीये नरसिंहेनवाऽनुष्टुभामन्त्रराजेन तुरीयं विद्या देवस्यात्मानं प्रकाशयतीत्यादावगमात् । तस्मात् तापनीयोपनिषत् भगऋपरत्वप्रतिपादनपरेति सिद्धम् । तदुक्तमाचार्यपादैः

110

’ तापनीयरहस्यानां सारः कामासिको हरिः । '

इति एवं भूयसीमिः श्रुतिमिर्भगवत्पारम्यप्रतिपादनात् कासुचित् श्रुतिषु शिवहिरण्यगर्भेन्द्रादिकारणत्वप्रतिपादनेऽपि तेषां जनिमत्वादिश्रवणेन तासामयोग्यार्थत्वात् नारायणस्यैव सर्वोत्तमत्वं सिद्धम् ।

ननु विष्णोर्जगत्कारणत्वप्रतिपादकाः श्रुतयोऽप्ययोग्यार्याः तस्य कर्मवश्यत्वश्रवणात् । तथा हि वाजसनेयिशाखायां शतपथब्राह्मणे

पुरुषो वै नारायणोऽकामयता तितिष्ठेयं सर्वाणि भूतानि अहमेवेदं सर्व स्यामिति स एवं पुरुषमेधमपश्यत् अनेनात्यतिष्ठद्दशाङ्गुलम् । पुरुष एवेदं सर्वमिति पुरुषसूक्तोक्तमहिमशालिवैष्णवं पदं यज्ञानुष्ठानफलमिति स्पष्टं प्रतिपादितम् । छन्दोगानामृयन्त्रे ’ सोमं राजानं वरुणमग्निमन्वारभामहे । आदित्यां विष्णुं सूर्य ब्रह्माणं च बृहस्पतिमि ति मन्त्रानन्तरं इत एत उदारुहाः त्रिदिवः पृष्टान्यारुहत् । ’ प्रभुर्जयोयथापयोद्यामङ्गिरसोययुरिति मन्त्र आम्नायते । तत्त्रैत इत्यनेन पूर्वमन्त्रप्रकृतान् सोमवरुणादीन् परामृश्य तेषामितः क्षितीत ऊर्ध्वमारोहणमुक्त्वा किमारुरुक्षन् इत्याकाङ्क्षायां तत्तदधिकारानुसारेण दिव उपरिभागान् आरुरुक्षन्नित्युक्तमर्थ विशदीकृत्य यथाङ्गीरस उपयुरिति दृष्टान्तकथनेन ‘अङ्गिरसो वै सत्रमासत, अङ्गिरसः सुवर्ग लोकं यन्तः अङ्गिरस, इमे सत्रमासते ते सुवर्ग लोकं न प्रजानन्ति तेभ्य इदं ब्राह्मणं ब्रूहीत्यादि श्रवणादङ्गिरसो यथाऽनुष्ठानेन स्वर्गमारुहन् एत्रमेतेपीत्ययमर्थः प्रतिपादितः । प्रभुर्जय इति विशेषणेन प्रकर्षेणयज्ञेषु हविषां भजनं कृतवन्त इत्यर्थकेन चैते देवा यज्ञानुष्ठानेन द्यामारुरुक्षन्नित्ययमर्यो दर्शितः । उदाहृतमन्त्रब्राह्मणोक्तमर्थ ’ येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः येनाङ्गिरसो महिमानमानशुः तेनैतु यजमान स्वस्ती ‘ति यजुर्वेदा नाता ऋगनुवदति । अत्र हि यच्छन्दयोगेनोद्यमनस्यार्थस्य प्राप्तिसापेक्षत्वादित उदारुहन्निति मन्त्रः पुरुषमेधब्राह्मणं च प्रापकमेष्टव्यमिति तदनुसारेण देवशब्दः सोमवरुणविष्ण्वादिपरः । देवा इत्यनेन सम्भवद्ग्रहणानामादित्यवसुरुद्रगणानां पृथग्ग्रहणमादित्यं विष्णुं च सूर्यमिति पुरोवादगतादित्यशब्देनैकस्यार्थस्य वाचकः । सूर्यशब्देन तस्य

111

पृथम्प्रहणात् । किंन्त्वादित्यगणवाचकः । एकवचनं तु बहुपत्नी केष्टिप्रयोगे पत्नीं मोति मन्त्रगतं पत्नीमित्येकवचनमिव प्रत्येकगतैकत्वाभिप्रायं आदित्यगणग्रहण च श्रुत्यन्तरेषु तत्समभिव्याहृतत्वेन प्रसिद्धयोर्वसु रुद्रगणयोरप्युपलक्षणमिति ख्यापनार्थम् । तत्त्रादित्यशब्दस्यादित्यगणपरत्वम् । आदित्याविष्णुसूर्यमिति ऋग्यजुः पाठेनाप्यवगम्यते । गणान्तरोपलक्षणत्वं तु ’ अग्ने यन्मे तनुत्रां ऊनं तन्म आवृणेति मन्त्रस्य ’ यन्मे प्रजायै पशूनामूनं तन्म आपूरयेति वात्रै तदाहेति व्याख्यानेन स्वकीयो न ग्रहणस्य प्रजापशूपलक्षणत्वतद्व्याख्यानेनैवावगन्तव्यम् । ज्योतिः पदमग्निपरम् । येन देवा ज्योतिषोर्ध्वा उदायन्नित्यस्य उखाग्निसमिघ्नने विनियुक्तत्वात् । तथा चाहवनीयाग्निसाध्येन कर्मणोर्ध्वलोकगमनं तद्वारा अग्निसाध्यं भवतीत्यनेन मन्त्रेण सामादिदेवपदानां यज्ञानुष्ठानं फलत्वमेवोदाहृतमन्त्रब्राह्मणप्रतिपन्नमनूथत इति विष्णोरपि कर्माधीनैश्वर्यवत्वाज्जीवत्वमवगम्यते ।

किं च ’ ‘वैष्णवं वामनमालमेत स्पर्धमानो विष्णुरेव भूत्वा इमांल्लोकानभिजयति । यद्विष्णुः क्रमान् क्रमते विष्णुरेव भूत्वा यजमानच्छन्दोमिरिमान लोकाननपजय्यममिजयती ‘ति यजुर्वेदे समाम्नायते । अघि वर्चमित्यनेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानः त्रयाणां लोकानामाविपत्त्यं गच्छतीति सामवेदे समाम्नायते । अत्र त्रैलोक्याधिपत्यं विष्णुपदमेव विष्णुरेव भूत्वेमांल्लोकानभिजयतीति तस्य विष्णुधर्मत्वश्रवणात् । किं च विष्णुना स्वैश्वर्य शिवाराधनरूपेण बहुविधेन तपसा प्राप्तमिति ’ तव श्रीयेमरुतो मर्जयन्ति रुद्रयत्तेजनेम चारु चित्रं पदम् । यद्विष्णोरूपन्निधायितेन पासि गुह्यं नामगो नाम रौद्रं लिङ्गम् '

‘महाविष्णुर्भक्त्या शुद्धं शिलामयम् ।

चारुचितं समभ्यर्च्य लब्धवान् परमं पदम् || '

इत्यादि श्रुतिपुराणवचनैरवगतम् । काशीखण्डे च विष्णुपट्टाभिषेकाध्याये स्पष्टं प्रतिपादितम् । भारतेऽप्येवमुक्तम्

’ ततो गच्छेत् सुपर्णाक्षं त्रिषु लोकेषु विश्रुतम् ।

यत्र विष्णुः प्रसादार्थ रुद्रमाराधयेद पुरा ॥112

वरांश्च सुबहून् लेमे देवतैरपि दुर्लभान् । उत्तरं त्रिपुरघ्नेन परितुष्टेन भारत ॥ अन्येभ्यः प्रियतममान्येभ्यः प्रियतमो ।

लोके कृष्ण भविष्यसि

….

11

चार्जवत्त्यागैस्तपसा नियमेन च ।

क्षान्त्या भक्त्या च धृत्या च कर्मणामनसा गिरा ॥ अहं यथावदाराध्य कृष्णेनाक्लिष्टकर्मणा । तस्मादिष्टतमं कृष्णा दन्योमेन तु विद्यते ॥ '

इति हरिवंशेऽपि शिक्वचनेनेोक्तार्थः दृढीकृतः ।

इति संस्तूयमानस्तु भगवान् गोवृषध्वजः । प्रसार्य दक्षिणं हस्तं वासुदेवमथाब्रवीत् ॥ मनीषितानामर्थानां प्राप्तितस्तु सुरोत्तमः । पारिजातं च हर्ताऽसि माभूत् ते मनसो व्यथा ॥ पुरा मैनाकमाश्रित्य तपस्त्वमकरोः प्रभो ।

तदा मम वचः कृष्णः संस्मृत्य स्थैर्यमाप्नुयात् ॥

अवध्यस्त्वमजय्यश्च मत्तशूरस्तथा ।

भविता सत्यवोचं यत्तत्तथा न तदन्यथा ॥’ इति ।

एवं बहुश्रुति पुराणाद्यवगतं विष्णोर्जीवत्वं प्रत्याख्यातुमशक्यम् ॥ यद्यपि विष्णुत्वप्राप्त्यर्थत्वेन विहितानां तादर्थ्येन विष्णुनाऽनुष्ठितानां च क्रतु ( जिपतयः ) प्रभृति कर्मणां मध्ये एकैकेन कर्मणा तत्परिप्राप्तिर्न सम्भवति तथापि ’ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति श्रुतौ यज्ञादिषु प्रत्येकं तृतीयाश्रवणेऽपि किंचिद्यज्ञानुष्ठानमात्रेण ब्रह्मज्ञानासिद्धेः । समुदितानां चिरकालमभ्यस्तानां च तत्प्राप्तिसाधनत्वम् । तथा हि विष्णुभावप्राप्त्यर्थ विष्णुनाऽनुष्ठितत्वेन तत्प्राप्तिसाधनत्वेन च श्रुतानां सर्वेषां कर्मणां

113

ममुदितानां यथावच्चिरकालमभ्यस्तानां च तत्प्राप्तिसाधनत्वं भविष्यतीति न काचिदनुपपत्तिः ।

ननु भारत एव भगवद्गीतासु मोक्षधर्मगते नारायणीयेऽन्यत्रापि तत्र तत्र प्रदेशे विष्णुपुराणादिषु च विष्णोः परब्रह्मभावः सुप्रसिद्धः । सर्वेषामप्या स्तिकानामनुमतश्च । तस्य का गतिरिति मैवम् सत्यमस्तिविष्णोः परब्रह्मभावसिद्धिः। ब्रह्मरुद्रयोरप्यस्त्येव । सा ब्राह्मशैवपुराणतदागमादिसिद्धा । सा तयोस्सृष्टिसंहाररूपजगद्व्यापारार्थादिन्द्रादिदेवतान्तरापेक्षयातदतिशयतत्परब्रह्मामिव्यक्तिमेदादुपपादनीया । तथेयमपि पालनजगद्रूपव्यापारार्थात्तदमिव्यक्तिमेदादुपपादनीया । अन्यथा तस्य जननमरणभयक्रोधशोकाज्ञानादिरूपसांसारिकदोष विलासोऽपि भारतरामायण विष्णुपुराणादिभ्य एवावगतः कथमुपपादयितुं शक्यः । परब्रह्मशक्त्यधिष्ठितजीवविशेषत्वाभ्युपगमे तद्भयमप्यविरोघेनोपपद्यते । न चैच्छिकत्वे विरोधपरिहारः । हेयेषु जननमरणादिष्विच्छायामपि कर्मकृतत्वात् । उक्तं हि वायुसंहितायाम् -’ न हि स्वेच्छाशरीरत्वं स्वातन्त्र्यं चोपपद्यते । इच्छेव यत्र हि पुंसां यस्मात्कर्मानुसारिणी ॥ स्वीकर्तुं स्वेच्छया देहं दातुं च प्रभवन्ति हि । ब्रह्मादयः पिशाचान्ताः किं ते कर्मान्तवर्तिनः ॥’

इति । न च शोकाज्ञानादीनाममिनयमात्त्रसिद्धत्वाङ्गीकारेणाविरोधः । तथा सति रामावतारे

’ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च ।

एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ '

इत्यादि तदीयवचनानां कृष्णावतारे सौभवधवृत्तान्तवर्णनगततदी यशोका ज्ञानादि

वचनानां चानृतत्वापत्त्या

"

सत्य वाक्यो दृढव्रतः ’ ’ सत्यसन्धो जितेन्द्रियः '

15

114

धर्मज्ञस्सत्यसन्धश्च रामो दाशरथिः यदि ।

यदि मे ब्रह्मचर्यं स्यात्सत्यं त्व मधितिष्ठसि ।। '

इत्याद्यनेक वचनविरोधापत्तेः । अतो जीवत्वमेव विष्णोरभ्युपगन्तुं युक्तम् ।

अपि च गीतास्वपि कृष्णस्य जीवत्वं प्रतीयते । तथा हि

’ ततः परंतत् परिमर्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः ।

तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ '

इति भगवतः कृष्णस्य वचनं दृश्यते । तत्राद्यमिति विशेषणेन

‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्ययईश्वरः ॥ '

इति यः क्षराक्षरपरत्वेन गीतासूपदिष्ट उत्तमः पुरुषः स एवोच्यत इति स्मारितम् । ’ यस्मिन् गता न निवर्तन्ति भूय’ इति विशेषणेन

इति

‘ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति ।

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ तमेव शरणं गच्छ सर्वभावेन भारत ।

तत्प्रसादात् परां शान्ति स्थानं प्राप्स्यसि शाश्वतम् ॥’

यत्प्रपदनात्परमवैराग्यरूपोपायलाभपूर्वकमनिर्तनस्थानप्राप्तिरूपदिश्यते स एवेश्वर इह पुरुषशब्देन खप्रपदनीयो निर्दिष्ट इति स्मारितम् । तेनैव स्वप्रपत्तिरियं स्वस्य तथाभूतस्थान प्राप्त्यर्थ इत्यपि सूचितम् । तदर्थं स्वप्रपदनीयम् ईश्वरः शिव एवेति यदा तमो मन्त्र चतुर्थपादार्थानुवादकेन ’ यतः प्रवृत्तिः प्रसृता पुराणी’ति विशेषणेन योतितम् । तत्र प्रवृत्तिशब्देन प्रज्ञा च तस्मात् प्रसृता पुराणीति । यदा तमो मन्त्र चतुर्थपादोपन्यस्ता प्रशैवोच्यते ’ स्वाभाविकी ज्ञान-

115

बलक्रियाचे’ति तस्याः क्रियारूपत्वस्यापि श्रुतत्वात् । एवं च मुक्त्यर्थमन्यस्य भजनीयत्वप्रतीत्या कृष्णस्य जीवत्वं स्फुटतरमवगम्यते ।

ननु गीतासु ‘ईश्वरस्सर्वभूतानामित्यनन्तरं ’ सर्वगुह्यतमं भूयः शृणु

मे परमं वचः’ इत्युपक्रम्य

'

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥

इत्युपदिश्य रहस्योपदेश विश्रान्तिभूमित्वमभिप्रेत्य तदनन्तरमेव गीताशास्त्रं समापितम् । अर्जुनेनापि तच्छ्रवणानन्तरमेव ’ स्थितोस्मि गतसन्देहः करिष्येवचनं तत्र’ इति तदुपदिष्टार्थः स्वानुष्ठेयत्वेनाङ्गीकृतः तदेतत्सर्वं कृष्णस्यैव मुक्त्यर्थं प्रपदनीयत्वे सङ्गच्छते । कृष्णस्यैव गीतासु परब्रह्मभावस्तत्र तत्राध्याये बहुभिः प्रकारैः प्रपश्चितः । स मुक्त्यर्थं सर्व प्रपदनीय परब्रह्मभूतः स्वयं मुक्त्यर्थमन्यं प्रपन्न इति कथमिदं श्रद्धेयम् । न च वाच्यम्

’ कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्य देवताः । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥’

इत्यादिकं कृष्णस्य सर्वेतर देवताभञ्जननिन्दावचनजातं श्रुत्वापि ‘सर्वधर्मान परित्यज्ये’त्याद्यन्तिमोपदेशानन्तरं ’ स्थितोऽस्मि गतसन्देहः करिष्ये वचनं नवे ‘ति प्रतिज्ञायाऽप्यर्जुनः शिवभञ्जन पर एष यावज्जीवमवर्तत अतस्तदनुसारेण कृष्णविषयपरब्रह्मभावमुक्त्यर्थप्रपदनीयत्वपरगीतावचनानां शिवपर्यन्ततात्पर्य कल्पनीयमिति उपदिष्टार्थविस्मरणेनापि देवतान्तरभजनोपपत्तेः । अत एवाश्वमेधिकपर्वणि युद्धारम्भसम्योपदिष्टार्थो विस्मृत इति पुनः पृष्टवन्तमर्जुनं प्रति मगवता कृष्णेन पुनरपि सोऽर्थ उपदिष्ट इत्यनुगीतासु श्रूयते । तस्मात् कृष्णस्यान्यप्रपत्तिवर्णनमनुचितमिति चेत् -

उच्यते – अनुगीताबचनान्यपि कार्त्स्न्येन गीतासु भगवद्वचनानां शिवपरत्वम् । तथा हि अनुगीतोपक्रमे ह्येवं प्रस्ताव:

116

विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते । माहात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम् ॥ यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यप्रचेतसः ॥ मम कौतूहलं चास्ति तेष्वर्येषु पुनः पुनः । भवांश्च द्वारकां गन्ता नचिरादेव केशव ।

इति पृष्टवन्तमर्जुनं प्रति,

श्रावितस्त्वं मया गुहां ज्ञापितश्च सनातनम् । अबुद्ध्या यन्न गृहीयास्तन्मे सुमहदप्रियम् ॥ नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव । स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ॥ न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः । परं हि धर्म कथितं योगयुक्तेन तन्मया ॥ इति । अत्र पूर्व

’ पारमेश्वरयोगमास्थाय तदेकाग्रमनसा मया ।

तत्स्वरूपमुपवसितमिदानीं बहिर्मनसा मया ॥

तथा वक्तुं न शक्यत’ इति यत्कृष्णेनोक्तं तेन ज्ञायते कृष्णेन स्वस्ययात्रान् परब्रह्म भावगमकोवर्णितः। यच्च स्वस्यानन्यया भक्त्योपास्यत्वमुक्तत्वं तत्सर्वं शिवाहंभाव - भावनारूपं योगमास्थाय प्रवर्तितं शिवपर्यन्तम् । ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृत तदुपास्ये’ तीन्द्रवर्णित खमहिमस्योपास्यत्ववदिति । इदं तु गीताखप्येव-

मुक्त्वा -

ततो राजन् महायोगेश्वरो हरिः ।

दर्शयामास पार्थाय परमं रूपमेश्वरम् ॥

इति श्लोके महायोगेश्वर इति कृष्णविशेषेण प्रदर्श्यमाने रूपे ईश्वरत्व विशेषणे न च प्रदर्श्यमानरूपवद्वर्णितवर्णयिष्यमाण परब्रह्मभावगमकमहिमादिकमपि शिवा - भावभावनया स्वीयत्वेन वर्णनविषयभूतं वस्तुतः शैवमेवेत्यनया भङ्गया सूचितम् ।

117

अत एव कूर्मपुराणे

ज्ञानं तदैश्वरं दिव्यं यथावद्विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनम् ॥ गच्छ गच्छ स्वकं स्थानं न शोकं कर्तुमर्हसि । भजस्व परयाभक्त्या शरण्यं शरणं शिवम् ||

इत्यर्जुनं प्रति व्यासवचनेन, तत्रैव

नारायणोऽपि भगवान् देवकीतनयो हरिः ।

अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ॥

इतीश्वरगीतान्ते कृत्स्नस्यापि भगवद्गीताशास्त्रस्य शिवविषयत्वं स्पष्ट-

मेवोक्तम् । अनुगीतासु

’ न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः '

इत्युक्त्यनन्तरं भगवान् कृष्णः केनचित् सिद्धपुरुषेणायमेवार्थ: कपनाम्ने ब्राह्मणायोपदिष्टो मया श्रुतोऽस्ति । तत्सिद्धात्तमहमर्थमहं पुनरुपदेक्ष्यामीति प्रतिज्ञाय

कथंशरीरात् व्यवते कथं चैवोपपद्यते

कथं कष्टाच संसारात्संसारी परिमुच्यते ॥

इत्यादिना काश्यपसिद्धपुरुषप्रश्नोत्तररूपेणेतिहासेन पूर्वदेहपरित्यागं देहान्तरप्रवेशमिह परत्र संसारिणो दुःखबाहुल्यं वैराग्यदृढीकरणार्थ भावनाविशेषा विरक्तस्य संसारान्मोक्षोपाययोगं चोपदिश्य

‘कश्च देव त्वया पार्य श्रुतमेवाप्रचेतसा ।

तथापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ '

इत्युपसंहृतम् । तदनन्तरं कृष्णः सिद्धपुरुषोपदिष्टमर्थजातं मनसा सप्रपञ्चमालोच्य सर्वमिदमित्यमेवेति निश्चिकायेत्ययमर्थः, कयोश्चित् ब्राह्मणदम्पत्योः गुरुशिष्यभावकल्पनया प्रवृत्तेन,

118

ब्राह्मणी ब्राह्मणं किंचित्ज्ञानविज्ञानपारगम् । दृष्ट्वा विवर्त आसीनं भार्या भर्तारमब्रवीत् ॥’

इत्यादिनेतिहासविस्तरेण दर्शितः । तदवसाने,

यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम् ।

गृहीतुं येन तच्छक्यं लक्षणं तस्य तद्वद ॥

इति बन्धमुक्तिफलभाजः शरीरातिरिक्तस्य क्षेत्रज्ञस्य ग्रहणोपायप्रश्नमवतार्य भर्तृकृतस्तदुपायोपदेशोऽपि दर्शितः । तदनन्तरं,

क नु सा ब्राह्मणी कृष्ण के वाऽसौ ब्राह्मणर्षभः । याभ्यां सिद्धिरियं प्राप्तौ तावुभौ वदमेऽच्युत ॥

इत्यर्जुनेन पृष्टस्य कृष्णस्योत्तरमुपवर्णितम् ।

"

मनो मे ब्राह्मणं विद्धि बुद्धि मे विद्धि ब्राह्मणीम् ।

क्षेत्रज्ञ इति यश्वोक्तः सोऽहमेव धनञ्जय || '

इत्यनेनेतिहासकल्पनामिप्रायः स्फुटीकृतः । तदेतत्सर्वमर्थजातं श्रुत्वा मुक्त्यर्थं ब्रह्म बुभुत्समानस्यार्जुनस्य तदनन्तरमेवैषप्रश्नः

ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि । भगवतो हि प्रसादेन सुसूक्ष्मे रमते मतिः ॥

तस्मै परब्रह्मखरूपमुपदेष्टुकामेन कृष्णेन शिष्याचार्यसंवादरूपः कश्वनेति-

हासः कल्पितः । तत्र

इत्युपक्रम्य,

’ किंचिद्राह्मणमासीनमाचार्य संशितव्रतम् ।

शिष्यं पप्रच्छ मेधावी किंखित्परतरं तत् ॥ '

कुतश्चाहं कुतश्च त्वं तत्सर्वं ब्रूहि यत्परम् । कुतो जातानि भूतानि स्थावराणि चराणि च || क्रेन जीवन्ति भूतानि तेषां स्यात् कुन वा लयः ॥ '

119

ना शिष्यकृताः केचन प्रश्ना उपन्यस्ताः । तेषामुत्तरं वक्तुकामस्या-

E

1,

ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् । वेदवेथासमं वाप्तुं तत्त्वभूतार्थभावनम् ॥ भूतभव्यविशिष्यादि धर्मकामार्थनिश्चयम् । सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ॥ प्रवक्ष्यामि महाप्राज्ञ पदमुक्तं ममाद्यते ।

बुद्ध्वा यदिह संसिद्धा भविष्यन्ति मनीषिणाः ॥

तदुत्तरोक्ति प्रतिज्ञामुपन्यस्य तत्र श्रोतुरत्यादरसिद्धये महर्षीणां चतुर्मुखस्य रूपमत्रविषये महदुपाख्यानमाचार्येणोपदिष्टमिति तदुपाख्यानमुपक्रान्तम् -

उपगम्यर्षयः पूर्व जिज्ञासन्तः परस्परम् । बृहस्पतिर्भरद्वाजो गौतमो नारदस्तथा ॥

वसिष्ठः काश्यपश्चैव विश्वामित्रो ऽत्रिरेव च । मार्गान् सर्वान् परित्यज्य परिक्रान्ताः स्वकर्मभिः ॥

ऋषिमङ्गिरसं वृद्धं पुरस्कृत्य मते द्विजाः ।

ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषाः ॥

तं प्रणम्य महात्मानं सुखासीना महर्षयः ।

पप्रच्छुर्विनयोपेता निश्रेयसमिदं परम् ॥

देना ऋषीणां प्रश्नानुपन्यस्य ब्रह्मणस्तदुत्तरवचनप्रपश्चेन सपरिकरं परब्रह्मi निरूपितम् । तदवसाने,

एतच्च सर्वमाख्यातं मया विप्रर्षिसत्तमाः । एवमाचरत क्षिप्रं ततस्सिद्धिमवाप्स्यथ ॥

इत्युक्ता गुरुणा ते तु ब्रह्मणा मुनयस्तथा । कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ॥

120

त्वमप्येवं महाभाग यथोक्तं ब्रह्मणो वचः । सम्यगाचारशुद्धात्मा ततस्सिद्धिमवाप्स्यसि ॥ इयुक्तस्स तदा शिष्यो गुरुणा धर्ममुत्तमम् । चकार सर्व कौन्तेय ततो मोक्षमवाप्तवान् ॥ कृतकृत्यश्च तदा शिष्यः कुरुकुलोद्वह ।

तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥ इति

’ त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः ।

सम्यगाचारशुद्धात्मा ततस्सिद्धिमवाप्स्यसि ॥

इति ब्रह्मबृहस्पत्यादिसंवादस्य गुरुशिष्यसंवादस्यार्जुनं प्रति कृष्णवचनर

पनानन्तरं,

कोन्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन । श्रोतव्यं यन्मयैतद्वै तन्ममाचक्ष्व मे विभो ॥

इत्यर्जुनस्य प्रश्नः

’ अहं गुरुः महाबाहो न शिष्यं त्विह विद्धि मे ।

त्वत्प्रीत्या

च कथितं वै धनञ्जय ॥

मयि चेदस्ति वै प्रीतिर्नित्यं कुरुकुलोद्वह । अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सव्रत ॥

ततस्त्वं सम्यगाचीर्ण धर्मोऽसि कुरुनन्दन । सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ॥ पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।

मया तव महाबाहो तस्मादत्र मनः कुरु ॥

इति भगवता कृष्णेन गुरुशिष्यसंवादरूपेतिहासकल्पनाभिप्रायमाविष्कृत्य

एव पूर्वमपि गीतोपदेशकाले प्रदर्शित इति तदैकार्थ्य स्थिरीकृतम् ।

121

एवं च गीतासु मुक्त्यर्थं शिवं प्रपन्नोऽहमिति कृष्णवचनात् स्वयं मुक्त्यर्थमन्यं प्रपन्नस्य गीताखेव तत्र कथं परंभाक्वर्णनमिति शङ्कातदनुगीतासु ।

’ परं हि धर्म कथितं योगयुक्तेन तन्मया

इति तद्वचनात्तदनन्तरं मया सिद्धपुरुषोपदिष्टः सर्वोऽपि विरक्तमार्ग: सम्यङ्मनसाऽऽलोच्य बुद्ध्येदमिति निश्चित इत्येतदर्थद्योतनात् खबुद्धिमनः समारोपितब्राह्मणदम्पति संत्रादपरेतिहासविषयात् तद्वचनात्तदनन्तरं मया ब्रह्मस्वरूपं सम्यगालोच्य ज्ञानाङ्गकर्माण्यप्यनुष्ठाय तज्ज्ञानं लब्ध्वा सिद्धिः प्राप्तेत्येतदर्थद्योतनात स्वात्मनिसमारोपितगुरुशिष्यसंवादरूपेतिहासविषयात् तद्वचनाच्च जीवभावनिश्चयात् स्थिर एव । तस्मिन् ब्रह्मामिव्यक्तिविशेषकृतं कचित् कचित् तस्य ब्रह्मभाववर्णनमित्येव व्यवस्थाङ्गीकरणीयेति युक्तम् ।

ननु विष्णोः परब्रह्मभावे गीतावचनान्येव सर्वैः प्रमाणी क्रियन्ते । कथं

1 तान्यन्यपराणि स्युः । कथं च तासु किश्चिद्वचनं तस्य मुक्त्यर्थमन्यप्रपत्तिं ब्रवीतीति वचः श्रद्धेयमिति चेत् - मैत्रम् - आपाददर्शिनां शिवयोगमास्थाय प्रवर्तितानि गीतानि वचनानि कृष्णस्य साक्षात्परभावप्रतिपादकान्येव भासन्ते । अनुगीता वचनानि तेषामपि न भासते । किन्तु काश्यपसिद्धपुरुष संवादादि रूपेतिहासत्त्रय श्रवणमात्रेण यत्कृष्णेन प्रेप्सितं खरूप प्रमाण साधनबलैः सह श्रुतं धर्मतंच ज्ञानार्थकर्मानुष्ठानेन सहोपासितं च तदन्यदेव कृष्णात् परं ब्रह्मेति प्रतीयते । अतो गीतावचनानां अप्यत्रैव तात्पर्य सर्वैरभ्युपगन्तव्यम् । अर्जुनेन गीतार्थ एव पुनः पृष्ठेऽनुगीता नुसरणादनुगीतावसानेऽयमेवार्थः ‘तुभ्यं प्रागुपदिष्ट इत्युपसंहृतत्वाच्च । एवं च गीताभ्युपगतपरभावप्रतिपादनं कचित् कचित् भगवद्विषयमेव, कचिदन्यविषयमेव च स्फुटीकृतम् । भगवतः पुनः पुनः स्वयं योगरूढत्वोपन्यासेनान्यविषयककोटेरुत्कटत्वेऽपि तत्तथा भगवन्मुखादेव विविच्यावगन्तव्यम् । तदर्थं तदाविविच्य प्रष्टुमक्सरो नासीत् तदानीं प्रष्टव्यम् । तस्य चागृहीतत्वोद्घटनायामुपदेश योग्यत्वधीः स्यादित्याशयवताऽर्जुनेन निगृह्य युद्धारम्भव्यग्रेण चेतसा गृहीतत्वात् विस्मृतं गीतार्थ जातं पुनरुपदेष्टव्यमिति प्रश्नः

16122

कृतः । तदशाया भिज्ञानेन भगवता पूर्वमेव सूक्ष्मोऽर्थः समाधियोगमास्थायोपदेष्टव्य इति योगाधिक्येन मयोपदिष्टार्थस्त्वया मन्माहात्म्यश्रद्धावैकल्यात्मधीधूर्व हे जाग्रति किमपि वैयग्रं नास्थेयमिति अजानतः स्वेनैव युद्धं निर्वहणीयमिति दुर्बुद्धिशालिना तत एव तद्वैयप्रयाक्रान्तमनसा नाञ्जसा गृहीतः । इदानीं योगमार्गं विहायाहम्भावासंवलितः सोऽर्थ उपदिश्यत इति प्रतिज्ञाय सिद्धपुरुषकाश्यपसंवादाद्यत्रतारणेनाहम्भावास्पृष्ट एव सोऽर्थ उपदिष्ट इत्यनुगीतानुसरणाभिप्रायोऽवसीयते ।

ननु अनुगीतासु गीताविष यद्यपि कृष्णेन स्वस्य परभावो न प्रतिपादितः तथापि गुरुशिष्यसंवादान्तर्गतैश्च कूर्ममुख वचनैः

’ सर्वेऽहमेव भूतानां अहं ब्रह्ममयो महान् । भूतं परतरं मत्तो विष्णुर्वापि न विद्यते ॥ राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान् । ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ देवदानवभूतानां पिशाचोरगराक्षसाम् । नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥ आदिर्विश्वस्य जगतो विष्णुः ब्रह्मममयो महान् । ततः परतरं नान्यत्त्रिषु लोकेषु किंचन । '

इत्येवं रूपैर्विष्णों: परब्रह्मभावः प्रतिपादितो दृश्यत इति चेत् न । तदीयवचनेषु ब्रह्ममय इति मयटा विष्णोर्ब्रह्मसृज्यत्वस्यैव प्रतिपादनात् मयटस्तत्र नरैर्थक्यायोगेनार्थान्तरासम्भवेन चतुर्मुखविषयब्रह्मसृज्यत्वपरब्रह्ममयशब्दप्रायपाठेन ‘कुतश्चाहं कुतश्चत्वमिति समारोपितगुरुशिष्यभावः कृष्णस्तदीयमनः संवादरूपेतिहासोपक्रमगत शिष्यप्रश्नानुसारेण च विकारार्थत्यावश्यम्भावात् । तस्मादनुगीतासु नारायणादन्यदेव परब्रह्मप्रतिपाद्यमिति निश्चयात् तदनुरोधेन गीतासु कृष्णवचनानि तस्य परभावप्रतिपादकतयावभासमानानि योगरूढवचनत्वात् ‘वृष्णीनां वासुदेवोऽस्मीति कृष्णस्य नारदादिवद्विभूतिषु परिगणनात

123

व | ब्रह्माहंभावभावनाप्रयुक्तानि तद्व्यतिरिक्तब्रह्मपर्यवसायी नीतिस्थिते तदतिब्रह्म शिव एवेति पर्यवस्यति । महायोगेश्वरेण तेन प्रदर्शितस्य विश्वरूपस्य प्रतिपादकेषु परमं रूपमैश्वरमिष्यादिषु वचनेष्वैश्वरत्वविशेषणेन विश्वरूपप्रदर्शनसमये ’ मयैवैते निहताः पूर्वमेत्र ’ ’ निमित्तमात्रं भवसव्यन्निति कृष्णेन खनिहतत्वेनोक्तानां रिपूणां पश्चात् स्वरूपमवस्थायार्जुनेन प्रमाणस्य तस्य वचनेषु ।

निहतास्तेन पूर्वं त्वं हतवानसि वै रिपून् । अप्रमेयप्रभावं तदेवदेवमुमापतिम् ॥

भजस्व नित्यं प्रयतो विश्वेशं हरमव्ययम् ॥

मोक्षधर्मपठितेषु शिवनिहतत्वप्रतिपादनात् उदाहृतवचनोपदिष्टप्रकारेणार्जुसर्वदा शिवभञ्जनपरत्वेनैवावस्थानाचेति ।

ननु ’ तमेव चाद्यं पुरुषं प्रपच’ इति गीतावचनस्य प्रतीतार्थो न : । महाभारत एवाश्वमेधिकपर्वणि वैष्णवधर्मशास्त्रे विष्णुभक्तैरनुष्ठेयान् पृष्टवन्तं युधिष्ठिरं प्रति भगवता कृष्णेनैव यावत्पृष्टवैष्णवधर्मोपदेशानन्तरं श्रित्यच्छ्रेयो नास्ति मुख्यमाश्रियमाश्रयेत् ।

’ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।

ब्रह्मा मामाश्रितो राजन्नाहं किचिदुपाश्रितः ॥ '

स्वस्यान्यभजनाभावस्योपदिष्टत्वादिति चेत् न । वैष्णवधर्मशास्त्रे त्वद्भक्ताय त्वद्धर्मविशेषा उपदेष्टव्या इति पुनः पुनः पृष्टवन्तं युधिष्ठिरं प्रति हि ता वैष्णवधर्मा उपदिष्टाः तं प्रति ‘न बुद्धिभेदं जनयेदिति न्यायेन तस्य सद्धां स्वस्मिन् भक्तिमधिकां कर्तुमित्यमात्मप्रशंसा कृतेति प्रशंसारूपोऽयं यमाश्रयमाश्रयेदिति विधेः स्वाश्रयणपर्यवसायित्वं सूचयितुमयमर्थवादः । तस्मिन्नेव भगवद्युधिष्ठिरसंवादरूपे वैष्णवधर्मशास्त्रे युधिष्टिरेण वैष्णवपुनः पुनः पृच्छयमानेष्वपि तैस्सह शैत्रधर्मा अपि तुल्यकल्पतया फलतया च दर्शिताः । यथा -

124

निवेशयति यन्मूर्त्या आत्मानं मानवः शुचिः । रुद्रं दक्षिणामूर्त्या वा चतुर्दश्यां विशेषतः ॥ सिद्धब्रह्मर्षिभिश्चैव देवलोकेश्च पूजितः । गन्धर्वैर्भूतसङ्घैश्च नीयमानो महातपाः ||

प्रविशेत् स महातेजा मांवा शङ्करमेव वा । न स्यात् पुनर्भवो राजन् नात्र कार्या विचारणा ॥ विषुवे तपनं यस्तु मम कुर्यात् हरस्य वा । अर्चनं च यथा न्यायं तथा पुण्यफलं शृणु ॥ दशजन्मकृतं पापं तस्य सबो विनश्यति । दशानामश्वमेधानामिष्टानां लभते फलम् ॥

विमानं दिव्यमारूढः कामरूपी यथासुखम् । दिव्यवर्ष सहस्राणां कोटिमेकं तु मोदते ॥ ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः । चतुर्णामपि वेदानां पारगो वेदवित् भवेत् ॥ चन्द्रसूर्यग्रहे धानि मम वा शङ्करस्य वा । गायत्रीं मामिकां वाऽपि जपेत् यः शङ्करस्य वा ॥ शङ्खतुल्यनिनादैश्च कांस्यघण्टारवैरपि ।

कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु ॥

स गच्छेदक्षिणामूर्ति मां वा नात्रविचारणा ॥

इति एवं सर्वत्र विष्णु भजन शिव भजनयोः साम्यं वर्णितवतापि पुनर्वस्तुतत्त्वमनुसरता तत्रैष शिवभजनस्याधिक्यमप्युक्तम् । तत्र हि ’ विशेषतीर्थ सर्वेषामशक्तानामनुग्रहात् ।

भक्तानां तरणार्थं वै वक्तुमर्हसि धर्मतः ॥

इति साक्षाद्भगवत्सेवां कर्तुमशक्तानामनुकल्पतया सेवनीयं तीर्थं किमिति प्रश्ने

6

125

सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते ।

तपस्तीर्थ दयातीर्थ शीलतीर्थं युधिष्ठिर ।

मद्भक्ताः सततं तीर्थ शङ्करस्य विशेषतः ॥ '

इन खभक्तापेक्षयापि शिवभक्तस्य विष्णुभक्तान् प्रत्यधिकतीर्थत्वमुक्तम् । एवं विधोपक्रमविरोधादौपसंदारिकं तद्वचनं स्वभक्तप्ररोचनार्थमर्थवादतया नेतव्यमिति न तद्विरोधः । ’ तमेव चाद्यं पुरुषं प्रपद्म’ इत्यनेन गणनीया । अतोऽनुगीतावचनबलात् विष्णोर्जीवत्वप्रतीतिर्निर्बाधैव ।

किं च वैष्णवेऽपि पुराणे विष्णावैकान्तिकभक्तिसिद्धयै अमृतमथनकथादिप्रसक्तकालकूटसंहरणादिशिवमहिमनिगूहनेन प्रवृत्तेऽपि कचिद्विस्तुतत्वं किश्चित्प्रकाशनीयम् । अन्यथा विष्णुभक्तिसिद्ध्यै सर्वथा तत्वार्थनिगूहने वेदोपबृंहणता न स्यादित्यमिप्रेत्य प्रथमांशावसाने पुराणप्रतिपाद्यं महाविष्णुं

प्रस्तुत्य ।

’ स परः सर्वशक्तीनां ब्रह्मणस्समवन्तरः

इति ब्रह्मविभूति भूतसर्वापेक्षायां ‘महाविष्णुः पर’ इत्येतावदेव परब्रह्मणस्त्वयं कनीयानिति तस्य ब्रह्मकोटिबहिर्भावेन प्रथमं जीवभावो दर्शितः । प्रदेशान्तरेषु कृतस्य परभावो वर्णित इत्युभयाविरोधार्य जीवरूपे एतस्मिन् ब्रह्माभि - व्यक्तिविशेषात् परब्रह्मभाववर्णनमित्युक्तव्यवस्ता अवश्यमङ्गीकरणीया ।

अपि च विरिश्चिस्तावज्जीवः ; सृज्यत्वसम्भाव्यत्वादिश्रवणादिति विष्णुब्रह्मवादिभिरप्यभ्युपगम्यते । विरिञ्च एव विष्णुरिति श्रुतिस्मृतिपुराणेष्ववगतम् । तथा हियजुस्संहितायां तावत् आपो वा इदमत्रे सलिलमासीत् । तस्मिन् प्रजापतिर्वायुर्भूत्वाचरत् स उमामपश्यत् तो वराहो भूत्वा व्यमार्डि’ति प्रजापतिशब्दोक्तस्य विरिश्वस्यैव वराहभावापत्तिः । पुनस्तस्यैव विश्वनिर्मातृविरिञ्चिभावापत्तिश्च श्रूयते । एत्रमाधानमन्त्रेष्वपि ’ यस्य रूपं बिभृति मामविन्दत् गुहां प्रविष्टां सरिरस्य मध्ये तस्येदं विहतमाभरन्तः अच्छं बटुकार

126

"

मस्यां विधेमे’ति वराहविहतसम्भरणमन्त्रे विरिवस्य वराहरूपग्रहणं श्रूयते । यद्यपि तस्मिन् मन्त्रे तत्र कर्तृनिर्देशो नास्ति, तथापि प्रजापतिसृष्टानां प्रजानामिति पूर्वमन्त्रे प्रजापतिशब्दोक्तिः विरिश्चि एव गृह्यते । कर्त्रपेक्षायां सन्निहितग्रहणौचित्यात् । ’ आपो वा इदमप्रे सलिलमासीत् तेन प्रजापतिरश्राम्यत् ’ कथमिदं स्यादिति सोऽपश्यत् पुष्करपर्णं तिष्ठत् । सोऽमन्यत अस्ति वै तत् यस्मिन्निदमधितिष्ठती’ति ’ स वराहो रूपं कृत्वोपन्यमज्जत् । स पृथिवीमध आर्च्छत् तस्या उपहृत्योदमज्जदिति तद्ब्राह्मणवाक्यानुरोधाच । वराहं च रूपं वैष्णवमित्यसन्दिग्धम् ’ उद्धृतासिवराहेण कृष्णेन शतत्राहुने ‘ति श्रवणात सकलपुराणैककर्णाच । तथा मानवे धर्मशास्त्रे -

ततस्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ सोऽमिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एत्र ससर्जादौ तासुवीर्यमपासृजत् ॥

तदण्डमभवद्धैमं सहस्रांशु सम्प्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ||

आपो नारा इति प्रोक्ता आपो वै नरसूनवः । तायदस्यायतनं पूर्व तेन नारायणः स्मृतः ॥ '

इति नारायणस्य स्वयमेव विरिञ्चिरूपेण जनिरुक्ता । पुराणेष्वपि स्कान्दे सूतसंहितायां विष्णोर्वराहावतारकृत्यमुक्त्वा ‘वराहरूपमुत्सृज्य स्वयं ब्रह्माऽभवत् हरि:’ इति तस्यैव ब्रह्मभावापत्तिरुक्ता । विष्णुपुराणे च -

एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः ।

भोगीशय्यागतः शेते त्रैलोक्यप्राबृंहितः ॥

जनस्थैर्योगिभिर्देवश्चिन्त्यमानोऽब्जसम्भवः ॥ '

इति कमलसम्भवस्य विरिञ्चस्यैव नारायणात्मना समुद्रशायित्वमुक्तम् । कूर्म-

पुराणे

127

’ ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः ।

सुष्वाप योगशयने एकीभूयाथ चक्रिणा ॥ '

इन तस्य देहान्तरोपाधिकमेदमपहाय विष्णुनै कीभूय सभुद्रशयनत्वमुक्तम् । मन्येष्वपि बहुपुराणेष्वयमर्थो वर्णितः । विस्तरभयात् न लिख्यते । तदेवं कर्मवश्यत्वावगमात् न विष्णोर्जगत्कारणत्वमभ्युपगन्तुं युक्तमिति ।

अत्रोच्यते —— यत्तावदुक्तं वाजसनेयिशाखावाक्यात् नारायणस्य महिमा कर्मवश्यत्वेनावसीयत इति तदनुपपन्नम् ’ ऐतदात्म्यमिदं सर्वमेवेदं सर्व म्खल्विदं ब्रह्मे’त्यादौ ब्रह्मधर्मतयाऽवगम्यमानस्य सार्वात्म्यस्य कर्माधीनत्वासम्भवात् । वृद्धि सर्वोपादनत्वकारणत्वमादायोपादानोपादेययोरैक्ये वा सर्वान्तः प्रवेशेन नियामकतया सर्वशरीरकत्वेन व्याख्यानात् तदुभयमपि न कर्मफलानि वक्तुं शक्यम् । प्रकृत्यधिकरणयोरन्तर्याम्यधिकरणयोस्तयोर्ब्रह्मधर्मतया स्थापनात् ।

अपि चोपादानकारणत्वस्य ब्रह्मान्यगामित्वे जगज्जन्मादिकारणत्वस्य ब्रह्मलक्षणत्वभङ्गप्रसङ्गः । न च निमित्तकारणत्वमेव तल्लक्षणमस्त्विति वाच्यम् । ’ यत्प्रयन्त्यभिसंविशन्ती’ति लयस्थानत्वोक्त्या उपादानकारणभूतस्य तथात्वावगमात् । तस्मात् नारायणस्य स्वाभाविकमेव सार्षात्म्याप्राकृतकर्मणि प्रवृत्तिजननार्थ तदधीनतया स्तूयत इति न तद्बलात् नारायणस्य कर्मवश्यत्वप्रसङ्गः ।

यदप्युक्तं ’ इत एतदुदारुहनि ‘त्यादिवाक्यात् कर्मवश्यत्वमवगम्यत इति तदप्यनुपपन्नम् । एत इत्यस्य प्रकृतपरामर्शिनोऽपि सोमादिपरामर्शमात्रेण चरितार्थस्य विष्णुपरामर्शकत्वानवश्यम्भावात् । ’ अपहतपाप्मा दिव्यो देव एको नारायण’ इति तस्यापहतपाप्मत्वश्रवणात् ।

नन्वपहतपाप्मत्वोक्त्या पापसम्बन्धाभावमात्रप्रतिपादनेन पुण्यकर्मबलादूर्ध्वलोकप्राप्ति प्रतिपादयन्त्या अस्या श्रुतेस्तद्विरोधादेव सङ्कोचेन प्रवृत्या विष्णोरपि कर्मवश्यत्वं सिद्धमिति चेत् न । ‘न सुकृतदुष्कृतमित्यारभ्य ’ सर्वे पाप्मानातोनिवर्तन्त’ इति प्रयोगात् । अलौकिकत्वे सत्यनिष्ट -

128

फलसाधनत्वरूपलक्षणस्य मुमुक्ष्वपेक्षणनिष्टफलसाधनत्वेन सुकृतेऽपि सत्वाच्च । वेदान्तशास्त्रे पाप्मशब्देन सुकृतदुष्कृतयोरुभयोरपि ग्रहणात् । शिवादित्यमणि दीपिकायामन्तस्तद्धर्माधिकरणेऽसङ्कुचित सकल्पापराहित्यं तु परमेश्वर एव सम्भवति, नाधिकारपुरुषेष्विति वदता परेणाप्यपहतपाप्मत्वप्रतिपादनादेव पुण्यसम्बन्धराहित्यस्यापि सिद्धेरभ्युपगतत्वात् । अन्यथोपचितपुण्येषु जीवेषु संभावितत्वे तस्य पारमेश्वर धर्मत्वासम्भव प्रसङ्गात् । ’ अतोऽपहतपाप्मा दिव्यो देव एको नारायण’ इति श्रुत्या कर्मवश्यत्वाभावप्रतिपादनादेत इत्यस्य विष्ण्वतिरिक्तसोमादिपरत्वमेव युक्तम् । यत्किंचित् ’ प्राचीनमनीषोमीयात् तेनोपांशु चरन्तीति ‘वाक्ये यत्किञ्चिच्छन्दस्य यावत्या वाचा कामयते तावत्या दीक्षणीयामनुब्रूयादिति वाक्यबलात् दीक्षणीयां व्यतिरिक्तपरत्वस्य दर्शनात् ।

किं च सोमादीनामूर्ध्वलोकप्राप्तिप्रतिपादनमात्रमनेन मन्त्रेण क्रियते । न तु तस्य कर्माचीनत्वप्रतिपादनम् ।

1

अपि च प्रभुर्जय इत्यस्योत्तरपादस्थस्याङ्गीरस इत्येतद्विशेषणत्वेन एत इत्येतद्विशेषणत्वाभावात् । न च ’ येन देवा ज्योतिषोर्ध्वा उदायभित्यनुवादबलात् प्रभुर्जय इत्यस्य सोमादिविशेषणत्वकल्पनं युक्तम् । यथा मनुष्या एवं देवा अग्र आसन् तेऽकामयन्तावर्ति पाप्मानमित्यादिवाक्ये देवानां यज्ञानुष्ठानेन स्वर्गलोकप्राप्तिप्रतिपादनात् तदनुवादसम्भवात् । सूत्रकारेण संसदाश्चतुर्विंशतिरात्रेण स्वर्गे लोके सिध्यन्तीति प्रतिपादनात् । अत्र देवी संसत् स्वर्गरूपेत्यक्सीयते । वैष्णवं वामनमालमेत तस्य धर्मानो विष्णुरेवेति वाक्यमपि न विष्णुत्वस्य कर्माधीनत्वे प्रमाणम् । तत्र एवकारस्य इवार्थकत्वादिक्वत् वैवमेवेति निघण्टुकोक्तेः । अन्यथा एव शब्दवैयर्थ्यात् विष्णुभूत्वेत्यनेनैव विष्णुत्वप्राप्तिप्रतिपादनस्य सिद्धत्वात् । एतेन विष्णुक्रमान् क्रमत इति वाक्यमपि व्याख्यातम् । मयि इत्येतस्य जयेन त्रैलोक्याधिपत्यप्राप्तिं प्रतिपादय । मयि वर्च इत्येतेन चत्वारि वर्षाणि प्रयुञ्जानस्त्रयाणां लोकानामधिपत्यं गच्छतीति वाक्यमपि न विष्णुत्वस्य कर्माधीनत्वस्य गमकम; त्रैलोक्याधिपत्यस्य चतुर्मुखादि साधारण्यात् ।

,

129

यदपि ’ तव श्रिये महतो वर्जयन्ती ‘त्यादिश्रुतेलिंगार्चनेन विष्णुः स्वपदं प्राप्तवानित्यत्र प्रमाणत्ववर्णनं तदप्यव्युत्पन्नजनव्यामोहमात्रम् । लिङ्गवाचकपदामात्रात्, विष्णुना तदर्चन कृत्यमित्येतदर्थ प्रतिपादकपदाभावाच्च । ’ न च रुद्राय ने जनि प्रचारु चित्रमिति’ लिङ्गामिव्यक्तिः प्रतिपाद्यते पदं विष्णोरूपं निधाश्रीत्यनेन तस्मात् लिङ्गाद्विष्णुपदप्राप्तिः प्रतिपाद्यत इति वाच्यम् । जनिमशब्दस्योत्यत्तिपरत्वेन लिङ्गामिव्यक्तिपरत्वाभावात् । न च चित्रशब्दसमभिव्याहारात् तथावगतिरिति वाच्यम् । तस्य ’ ललाटात् क्रोधजोरुद्र’ इत्यनेन ललाट जन्मत्वावगमेन लोकविलक्षणतादृशजनन प्रतिपादकत्वेनोपपत्तौ जनिमशब्दमुख्यार्थ भङ्गायोगात् । न च तव श्रिय इत्यादेः ते यज्जन्म तन्मार्जयन्तीत्यर्थकत्वेन जनिमशब्दस्य मार्जनकर्मप्रतिपादकत्वसमर्थ लिङ्गामिव्यक्तिपरत्वं वाच्यम् । लिङ्गस्यैव मार्जनकर्मत्वेन तत्र शिवामिव्यकेः मार्जनकर्मत्वाभावात् । न च यतो लिङ्गाभिव्यक्तिरूपं जन्मचित्रमतस्त्वां लिङ्गात्मकं मार्जयन्तीत्यर्थ इति वाच्यम् । एनमपि जनिमशब्दस्य लिङ्गामिव्यक्तिपरत्वे प्रमाणानुपन्यासात् । जनिम - शब्दस्य मुख्यार्थत्वेऽपि यतस्ते जन्मचित्रमतस्त्वामार्जयन्तीत्यर्थवर्णनसम्भवात् । एकमपि पदं यदित्यादेर्लिङ्गार्चना विष्णुपदप्राप्तिप्रतिपादकत्वासिद्धेश्च । यस्मात् विष्णोः पदं चरणमुपमाशब्दस्य प्रमापरत्वात् । बुद्धिसमीपे हृदय इति यावन्निधायि निहितं अतस्त्वां भगवदुक्तत्व बुध्यामार्जयन्तीत्यर्यवर्णनासम्भवात् ।

वेदान्त विजय कतस्तु —’ अक्षरपर्वालोचनेनार्थस्वीकारे रुद्रस्य भगवदायत्त श्रीकत्वमेवैतन्मत्रार्थतया स्वीकाराई । रुद । यस्मात् ते चारुचित्रं तस्मात् तव श्रियैर्मरुतो देवाः । ब्रह्माथा क्षालितवन्तः कर्मचार्जयन्त इत्यपेक्षायामाह - पदं यदिति । उपमेयतुल्यं, यद्वा शब्दो भूमिपरः । मा विश्वा पृथिवीत्यमि-

। धानात् । उपमित्यव्ययीभावः । भूम्याः समीप इत्यत्रविक्रमसौकरस्य प्रतिपादनायायमित्युक्तम् । तेन द्वितीयः क्रमो लभ्यते । यद्विष्णोः पदं निधायि ’ त्रेधा निदघे पदमिति’ श्रुत्यन्तरम् किं च तेन पुण्येन जन्मना गोनां गिरां प्रकृतस्य विष्णोर्नाम्ना मध्ये गुह्यं नाम तारकाख्यमपासि सर्वदा गोपायतीत्यर्थप्रतिपत्तेरि’ त्याहुः ।

17

130

रौद्रं लिङ्गं महाविष्णुर्भक्त्या शुद्धं शिलामयम् ।

चारु चित्रं समभ्यर्च्य लब्धवान् परमं पदम् ॥ '

इत्युपबृंहणानुसारात्तु तथा वर्णनं कृतमिति चेत् न । अस्य तदुपबृंहणरूपत्वे मानाभावात् । न हि चारुचित्रशब्दसद्भावमात्रात् तदुपबृंहणत्वनिर्णयः । अप्रयोजकत्वात् । तत्र श्रिय इत्यस्य तेन पासि गुह्यं नामेत्यस्य तत्र प्रतिपादनात् ।

ननु मास्तु तदुपबृंहणत्वं तथाप्येतद्वचनबलादेव कर्माधीनैश्वर्यकत्वं सिध्यतीति चेत् - न । अस्य लिङ्गार्चनप्रशंसापरत्वात् ।

’ अन्यथा तत्र यः परमात्मा तु सनित्यो निर्गुणस्स्मृतः ।

स तु नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥

न लिप्यते कर्मफलैः पद्मपत्रमिवाम्भसा ।

कर्मात्मा त्ववरोधोऽसौ मोक्षसचैः स पूज्यत ॥ '

इत्यादि बहुप्रमाणन्याकोपप्रसङ्गात् । आरण्यपर्वसौप्तिकपर्वहरिवंशवचनबलादपि न कर्माची नैश्वर्यकत्वं सिध्यति । तस्यावतारेषु ’ त्वामाराधयिष्यामि त्वत्तो वशं लप्स्य’ इति भगवता रुद्राय वरप्रदानमिति तत्सत्यत्व सम्पादनाय यत्तपश्चरणं यच्च वरप्रदानं तदर्थप्रतिपादनपरत्वात्तादृशवरप्रदानं च वराहे सप्ततितमेऽध्यायेऽवगतम् । तत्रत्यानि चेमानि वचनानि । भगवन्तं प्रति रुद्र:-

"

एवमुक्त्वा पुनर्वाक्यं उवाचोमापतिं मुदा ।

अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ मत्यों भूत्वा भवान् देव मामाराधय केशव । मां वहस्व च देवेश वरं मत्तो गृहाण च ॥ येनाहं सर्वदेवानां पूज्यात्पूज्यतमोऽभवम् ॥ '

भगवान् – ’ देवकार्यावतारेषु मानुषत्वमुपागतः ।

त्वामेाराधयिष्यामि त्वमेव वरदो भव ॥

"

131

यत्त्वयोक्तं वहखेति देवदेव उमापते । सोऽहं वहामि त्वां देव मेघो भूत्वा शतं समाः ॥ मदशो द्वादशो यस्तु विष्णुनामा हि भूतले । अवतीर्णो भवन्तं त्वाराधयिष्यति शङ्कर ||’ इति ।

यत्तु शिवतत्वविवेके

’ ततोऽथ पश्यतु गिरीशस्य वामे खात्मानमव्यक्तमनन्तरूपम् ।

स्तुवन्तमीशं बहुभिर्वचोभिः शङ्खासि चक्रावृतहस्तमाद्यम् ॥

इति कौमें कृष्णतपश्चर्यायां शिवप्रत्यक्षकरणसमये विष्णोरादिमूर्त्याऽपि शिवाराधन परत्वप्रदर्शनात् वराहक्वनं वस्तुसमुत्कर्षख्यापनार्थं विष्णोः शिवाराधनमित्येतत्परत्वेनोपपन्नमिति जल्पितम् – तत्तुच्छम् - कृष्णावतारेषु युधिष्ठिरादिसमीपवर्तित्वजगद्रक्षणतद्धितत्वेन विमूर्तिमध्येऽवतीर्णस्य भगवतो रुद्रविषयकस्नेहातिशयेन तत्समीपवर्तित्वस्य युधिष्ठिर प्रशंसावत् तत्प्रशंसाया अपि उपपत्त्या तन्मात्रेण भगवतः शिवोपसर्जनकत्वकल्पनाया अनुन्मेषात् । अन्यथोपेन्द्रादिरूपेणावतीर्णस्येन्द्रा दिपार्श्ववर्तित्वेन तत्र तत्र वर्णनदर्शनात् । इन्द्राद्यपेक्षयाऽप्यवरत्वकल्पनाप्रसङ्गः । न चात्रेष्टापत्तिवचनं हिरण्यकशिपु रावणदुर्योधनजरासन्धप्रमुखसर्वांशसम्भूतिरहितस्य कुम्भीपाक प्रभृतिदुर्गतिवर्गपातयोग्यता विहीनस्य बहुजन्मसहस्रसमार्जितद्दुरन्तदुरितवासनासमृद्ध भगवदेन्द्राहानुमितां त्यजति जनानुगुणसाहसकृतमहातमतिरस्कृतिव्यपेतविषणस्य सम्मतपदवीमघिरोहति, किं तु भवादृशस्यैव । न चात्राद्यमिति विशेषणादादि नारायणस्य तत्पार्श्ववर्तित्वं कथ्यत इति वाच्यम् । आद्यमित्यस्य किमित्याकाङ्क्षायां सन्निहितस्य कृष्णस्यैव प्रतिसम्बन्धत्वेनान्वयात् । न च वस्तु सदुत्कर्षख्यापनार्थं विष्णोशिशवाराधनमित्येतत्परं वाराहवचनमित्यपि युज्यते । वरप्रदानकृतकृत्योक्त्यसामञ्जस्यात् । नियोगकृतत्वोक्तौ हि घटते । अतो न भगवदैश्वर्यस्य कर्माधीनत्वसिद्धिः ।

मोक्षधर्मेषु नारायणीये च भगवत्कृतशिवोपासनं न यत्किञ्चित्फललाभाय किन्तु लोकसंग्रहायेत्युपपादितम् : तथा हि132

ब्राह्मे रात्रौ क्षये प्राप्ते तस्य ह्यमिततेजसः । प्रसादात् प्रादुरभवत्पद्मं पद्मनिमेक्षणः ॥ तत्र ब्रह्मा समभवत् स तस्यै सम्प्रसादजः । अभक्षये ललाटाच्च सुतो देवस्य वै तथा ॥

कोऽसाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः । एतौ द्वौ विबुधश्रेष्ठौ प्रसादको जौ स्मृतौ ॥ तदा दर्शितपन्थानौ सृष्टिसंहारकारकौ । निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदो ॥ कपर्दी जटिलो मुण्डी श्मशानेभाग सेवकः । उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ॥

दक्षकतुहरचैव भगनेत्रहरस्तथा ।

नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ॥ तस्मिन् हि पूज्यमाने वै भूतेशे तु महेश्वरे । सम्पूजितो भवेत् पार्था देवो नारायणः प्रभुः ॥ यस्तं वेत्ति समावेत्ति योनुतं स हि मामनु । रुद्रो नारायणश्चेति तत्त्वमेकं द्विधा कृतम् ॥ लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु । अहमात्मा हि लोकानां विष्ण्वेषां पाण्डुनन्दन || तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् । यद्यहं तं नार्चयेयमीशानं वरदं शिवम् ॥

आत्मानं नार्चयेत् कश्चिदिति मे भावितं मनः । मया प्रमाणं हि कृतं लोकस्समनुवर्तते ॥

प्रमाणैर्हितु पूज्यानि ततस्तं पूजयाम्यहम् । न हि मे केनचित् देयो वरः पाण्डवनन्दन ||

133

इति संचिन्त्य मनसा पुराऽहं विश्वमीश्वरम् । पुत्रार्थमाराधितवानहमात्मानमात्मनः ॥

न हि विष्णुः प्रणमति कस्मैचित् विबुधाय तु । त्रात आत्मानमेवेति ततो रुद्रं नमाम्यहम् || स ब्रह्मकाः स रुद्राश्च सेन्द्रादेवास्सहर्षिभिः । अर्चयन्ति नरश्रेष्ठं देवं नारायणं हरिम् ॥ भविष्यतां वर्ततां च भूतानां चैव भारत । सर्वेषामप्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥ नमख हव्यदं विष्णुं तथा शरणदं नम | वरदं मम कौन्तेय हव्यकव्यभुजं नमः ॥ चतुर्विधा मम जना भक्ता एव हि ते सुताः । तेषामेकान्तिनः श्रेष्ठास्ते चैत्रानन्यदेवताः ॥ अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् । ये तु शिष्टाखयो भक्ता फलकामा हि ते मताः ॥ सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् । ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ॥ प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम् । भक्तं प्रति विशेषस्तु एष पार्थानुकीर्तितः ॥

हि तत्र वचनजातम् ।

न च तस्मिन् हि पूज्यमाने वै तदेशे तु महेश्वरे ।

रुद्रो नारायणश्चेति तत्त्वमेकं द्विधा कृतम् ॥ '

देवचनबलात् रुद्रनारायणयोरमेदश्शङ्कनीयः । उपक्रमे

I

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदा दर्शितपन्थानौ सृष्टिसंहारकारकौ ॥

इति भगवत्प्रसादावाप्त संहारकरणसामर्थ्यप्रतिपादनेन स्वाभाविकसामर्थ्याभावाव-

गमेन उपसंहारे

स ब्रह्मकास्त रुद्राश्च सेन्द्रा देवा महर्षिभिः ।

अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ||

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम् ॥

इति भगवदेकत्वस्य च रुद्रैः स्फुटतरं प्रतीयमानत्वेनामेदव्यपदेशस्य भगवच्छक्त्यधिष्ठानमादायैव वर्णायितुं युक्तत्वात् ।

अन्यथा मोक्षधर्मे भृगुभारद्वाजसंवादे ।

’ प्रजापतिं च रुद्रं चाप्यहमेव सृजामि वै ।

तौ तु नूनं न जानीतः मम माया विमोहितौ ॥ '

इति ब्रह्मरुद्रसंवादे

‘न स शक्यस्त्वया द्रष्टुं ममान्यैरपि सत्तम ।

सगुणो निगुणो विश्वो ज्ञानदृश्यो सौ स्मृतः ॥ तवान्तरात्मा मम च ये चान्ये देहि संशिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्कचित् ॥ '

इति मायाविमोहितत्वादिप्रतिपादनविरोधप्रसङ्गः । ब्रह्मरुद्रवचने हि ये च देहि संज्ञिता इत्युक्त्यैव चारितायै अन्य इत्युक्त्या देहिसंज्ञितत्वं प्रतीयते ।

एवं श्री विष्णुधर्मे

’ न यस्य रूपं न बलप्रभावौ न च स्वभावं परमस्य पुंसः । विज्ञायते सर्वपितामहाथैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥

इति । श्रीवैष्णवे

’ यं न देवा न मुनयो न चाहं न च शङ्गरः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥’

135

ने। श्रीवाराहे

’ यदेतत्परमं ब्रह्म वेदवादेषु पठ्यते ।

स देवः पुण्डरीकाक्षः स्वयं नारायणो हरिः ||

अद्यापि मां न जानन्ति रुद्रेन्द्रास्स पितामहाः ॥ '

इन भगवन्महिमानभिज्ञत्वं प्रतिपाद्यते ॥"

अपि च ’ नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ’ इति नारायणात्मकत्त्रोक्तिपूर्वकमुच्यमानस्यामेदव्यपदेशस्यान्तर्यामिभावनिबन्धनत्वमेव वक्तुं युक्तम् । अन्यथा तदात्मकत्वोक्तिवैयर्थ्य प्रसङ्गात् । न चैवं भगवतः स्वात्मकरुद्रोपासनस्य के प्रयोजनमिति वाच्यम् ।

मया प्रमाणमधिकृतं लोकल्समनुवर्तत '

न चैवं

श्री वचनेन स्वात्मकशिवोपासनरूपधर्मप्रवर्तनार्थत्वस्य कथ्यमानत्वात् । +मात्रोक्त्यैव वारितार्थे खात्मकत्वकीर्तनस्य किं प्रयोजनमिति वाच्यम् । तत्पूजन प्रसक्तिनिकर्षपरिहाररूपप्रयोजनस्य स्फुटत्वात् ।

’ येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्स्यविधिपूर्वकम् ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति

….

इत्युक्तया रीत्या शिवायन्यदेवताराधनमपि खपर्यन्तमिति ज्ञापनार्थत्वाच । एवं चात्मानं नार्चयेदित्यस्य तदात्मभूतमात्मानमित्यभिप्रायः । रुद्रो नारायणश्चेति तत्त्वमेव द्विधा कृतम्’ इत्येतदपि रुद्रस्य भगवदावेशावतारत्वमादायोपपादनीयम् ॥

यत्तु यवहं नार्चयेयमित्यादिना शिवस्य सर्वाराध्यत्वापहानात्सर्वोत्कर्षः सिध्यतीति तदाराधनात् एतैर्वचनैस्स्वव्यतिरिक्ताराध्यत्वस्यैव प्रतीतेः ।

‘न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु ।

न हि मे केनचित् देयो वरः पाण्डवनन्दन || '

136

इत्यत्र स्वाध्यत्वाभावस्यैव प्रतीतेः । न हि धर्मसंस्थापनार्थमनुष्ठितात् शिवाराधनात् शित्रस्य भगवदपेक्षया उत्कर्षः सिध्यति । तथा सत्यवतारदशानुष्ठितसन्ध्यावन्दनादिसम्बन्धिनां सूर्यादीनामपि भगवदपेक्षयोत्कर्षप्रसङ्गात् ।

किं च "

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।

तदा दर्शितपन्यानौ सृष्टिसंहारकारकौ ॥

इति नारायणवचने शिवस्य नियम्यत्यवचनमपि विभूति विषयमित्येतत् तत्क्रोधजत्वविशेषणेन दर्शितमित्युक्त्वा तदुत्तरसन्दर्भस्थवचनेषु तमधिक्रम्य प्रवृत्तेषु परमशिवस्याराध्यत्वं ज्ञाप्यत इति वक्तुं कथं न लज्जसे । अपि च भगवदतिरिक्तसर्वाराध्यमपि न ततोऽवगन्तुं शक्यते ।

’ ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम् ॥

भक्तं प्रति विशेषस्तु एष पार्थानुकीर्तितः ॥ '

इत्युत्तर सन्दर्भस्थ वचनबलात्

प्रतिबुद्धेतरविषयत्वावगमात् सामान्यशास्त्रस्य

विशेषशास्त्र बलात् सङ्कोचस्य सकलन्यायवित्सम्मतत्वात् ।

यत्तु कलिराजमहासेनासिरविरणमहामोहसिद्धान्तानुरागसिन्धुपानजनितमदमन्थरचेतसा जल्पितमल्पेन प्रतिबुद्धावुत्पन्न ब्रह्मसाक्षात्कारा सामान्यतो विशेषतश्च गृहीतवेत्रता न सेवन्ते । यस्मात् सेवामात्रं परिमितं वैषयिकभोगादि रूपत्वात् परिच्छिन्नमपरिच्छिन्न ब्रह्मानन्दामृत जलधिवेलोपगतानुत्पन्न साक्षात्कारात् प्रतीतिनिदिध्यासने सिद्धयेत । तदर्थमपि न सेवन्त इत्यभिप्रायः । ननु विष्ण्वतिरिक्तान् देवान्प्रतिबुद्धा न सेवन्त इति याश्वान्या इत्यन्यश्रुतेर्विशिष्य ग्रहीतेतर सकलदेवताग्राहिण्य सङ्कुचित वृत्त्यापादक प्रबलप्रमाणादर्शनादिति तदसम्बद्ध प्रलपितम् । चतुर्धा विभक्तभक्तजनान्तर्गतं जन श्रेष्ठय प्रतिपादकवचनगतस्य परिमितफलकामप्रतिसम्बन्धिनि प्रयुक्तस्य प्रतिबुद्धशब्दस्य मुमुक्षुमात्रपरत्वा-

137

सम्भावेन तमतिक्रम्य

यत्किंचिदर्थविधायकवचनगतस्यापि

तस्य शब्दस्य

तपरत्वस्यैवमुक्ततया कृत्स्नदेवता सेवांनिषेधकत्वोक्तेर्मूहकृत्यत्वाञ्च । प्रतिबुद्ध-

शब्दस्य भगवद्भक्तविशेषपरतया तत्सेव्यत्वेन भगवत उपस्थिता । अन्या देवता इत्यत्रान्यश्रुतेस्तद सेव्यविषयिण्या

भगवत्कोडीकरणासामर्थ्येन

सङ्कुचितवृत्त्यापादकप्रचलप्रमाणदर्शनादित्यस्याप्यभ्युत्पन्नजनव्यापारत्वात् । अपि च भक्तं प्रति विशेषस्तु एवं पार्थानुकीर्तित’ इत्युत्तरवाक्यविरोधप्रसङ्गः । एतेनास्य प्रशंसा मात्रत्वकल्पनं गलहस्तितम् । तथा सति सर्वत्र प्रशंसारूपकल्पनाया प्रसारवत्वेऽप्यभिलषितासिद्धिप्रसङ्गाच्च । अत एतेषां वचनानां शिवस्य भगत्रद्वाराध्यत्वतात्पर्यकत्वाभावात् । भगवत्कृतशिवोपासनं शिवाच्च न रूपधर्मस्थापनार्थमित्येवं तात्पर्यकथैवेत्यनवद्यम् ।

किं च हरिवंशे कैलासयात्राप्रषकपर्यालोचनेनापि भगवत एव सर्वोत्कर्षप्रतीत्या भगवत्कृतशिवोपासनं न भगवन्निकर्षापादकमिति सिध्यति । तत्र हि महता प्रबन्धेन श्रीकृष्णस्य तपश्चर्योद्योगः कैलासयात्राबदरिकाश्रमप्रवेशघण्टाकर्णमोक्षप्रदानकैलासप्रवेशद्वादशवार्षिकतपश्चर्यानुष्ठानानि वर्णयित्वा ।

’ किमुद्दिश्य जगन्नाथस्तपश्चरति मानदः ।

तन्न विभो यथाकामं दुर्ज्ञेयेश्वरचिन्तन ॥ '

इत्युपास्याभावं च स्फुटीकृत्य तलेन्द्रयमप्रचेतादित्यादिसकल देवमुनिसमागमममिधाय ।

’ कोऽन्वत्र विस्मयो भूयादिति ते मेनिरे गणाः । आश्चर्य किल पश्यध्वं न भूतं च भविष्यति ॥ योगिध्येयः खयं कृष्णो यत्तप्यति हरिस्वयम् |’

इति तेषां तत्त्वजिज्ञासा प्रदृश्यते ।

18

’ ततस्समाप्ते सकले जगत्पतेः व्रते समूले सकलेश्वरः शिवः ।

द्रष्टुं हरिंलोकहितैषिणं प्रमुं ययौ भवान्या सह भूतसङ्घैः ॥’

138

इतीन्द्रादितुल्ययोगक्षेमतया शिवस्यागमनं प्रतिपाद्य लोकहितैषिणमिति तपश्चरणस्य लोकहितार्थमभि व्यज्य तद्दर्शनस्तोत्रवरप्रदानानि वर्णयित्वा सकलमुनिगणजिज्ञासापगमाय शिवस्य भगवत्परत्र वर्णनोद्योगो दर्शितः ।

इत्युक्त्वा पुनराहेदं याथात्म्यं दर्शयन्निव ।

मुनीनां श्रोतुकामानां याथात्म्यं कुरुसत्तम ॥ अञ्जलिं सम्पुटं कृत्वा विष्णुमुद्दिश्य शङ्करः |

उमया सार्धमीशानो याथात्म्यं वक्तुमैहत || '

इति पुनराहेदमिति सामान्यत उक्तोऽर्थः खं या अपगमहेतुकिया विशेषपूर्वकत्वरूपविशेषकथनार्थ पुनरभिधीयते ’ याथात्म्यं दर्शयन्नित्यादिना याथात्म्यं वक्तुमैहतेत्यन्तेन याथात्म्यं श्रोतुकामानां याथात्म्यं दर्शयन्नित्र अञ्जलिं कृत्वा सम्पुटं कृत्वा याथात्म्यं वक्तुमैहतेत्यन्वयः । तदनन्तरं ।

‘हरे कुर्वितितत्रैवाञ्जलिं कुरुसत्तम ।

मुनयो देवगन्धर्वसिद्धाश्च सह किन्नराः ॥

अञ्जलिं चक्रिरे विष्णुं देवदेवेश्वरं हरौ ॥ '

इति मुनिप्रभृतीनां विचिकित्सानिवृत्तिं कृत्वा कार्यमुखेन दर्शयित्वा रुद्रकृत - स्तोत्रेण सकलजगत्कारणादिब्रह्मा साधारणधर्मकथनपरेण पुरुषसूक्ताद्यनेकोपबृम्हणगर्हितेन भगवतः परब्रह्मत्वं स्फुटीकृतम् । तदनन्तरं

"

इत्युक्त्वा देवदेवेशं मुनीनाह पुनश्शिवः ।

एवं जानीत ये विप्रा ये भक्ता द्रष्टुमागताः ॥

एतदेव परं वस्तु नैतस्माद्विषते परम् । एतदेव विजानीध्वमेतद्वः परमं तपः ॥

एतदेव सदा विप्राः ध्येयं परममानसैः । एतद्वः परमं ज्ञेयं एतद्वा परमं तपः ॥ एतद्वो जन्मनः कृत्यमेतद्वस्तपसः फलम् । एषः वः पुण्यनिचय एष धर्मः सनातनः ॥

139

एष वो मोक्षदाता च एक मार्ग उदाहृतः । एष पुण्यप्रदस्साक्षादेतद्वः कर्मणां फलम् ॥ एतदेव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः । एषा त्रयी गतिः विप्राः प्रार्थ्यो ब्रह्मविदां सदा ॥ एतदेव प्रशंसन्ति साङ्ख्ययोगं समाश्रिताः । एष ब्रह्मविदां मार्गः कथितो ब्रह्मवादिभिः || एवमेत्र विजानीत नात्र कार्या विचारणा । हरिरेकस्सदा ध्येयो भवद्भिस्सत्वसंस्थितैः ॥ ओमित्येवं सदा विप्रा पठत ध्यात केशवम् | ततो वा श्रेयसः प्राप्तिर्भविष्यति न संशयः ॥ एवं ध्यातो हरिस्साक्षात्प्रसन्नो वो भविष्यति । सदा ध्यात हरिं विप्रा यदीच्छा प्राप्तुमीश्वरम् || एष संसारविभत्रं व्यपोहति जगद्गुरुः ॥ स्मरध्वं सततं विष्णुं पठध्वं विशरीरिणम् । मनसस्सयंमनं विप्राः कुरुध्वं यत्नतस्सदा ॥ शुद्धेऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः । ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् ॥ उपास्योऽयं सदा विप्रा उपायोऽस्मि हरेः स्मृतौ । उपायोयं मया प्रोक्तो नात्र सन्देह इत्यपि ॥

अयं मायी सदा विप्रा यतध्वमघनाशने । यथा वो बुद्धिरविना शुद्धा भवति यत्नतः ॥ तथा कुरुत विप्रेन्द्राः यथा देवः प्रसीदति । एवमुक्तास्ततस्सर्वे यतयः पुण्यशालिनः ॥

यथावदुपगृह्वाना निरस्ता खिलसंशयाः । एवमेवेति ते विप्राः प्रोचुः प्राञ्जलयो हरिम् ||

140

छिन्ना नः संशयाः सर्वे गृहीतोऽर्थः स तादृशः । एतदर्थं समायाता वयमद्यतत्रालयम् ॥ संगमायुवयोरसर्वो नष्टो मोहो महानिह । यथा वदसि दैवेश तथा नः श्रेयसे परम् ॥ यथाऽऽह भगवान् रुद्रो यतामः सततं हरौ । इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम् || '

इत्येकनवतितमेऽध्याये मुनीन् प्रति साक्षादेव शिवोपदेशेन भगवदघिकतत्त्वान्तरा भावं तन्मुमुक्षुध्येयत्व सर्वकर्माराध्यत्व मुक्तप्राप्यत्व प्रणववाच्यत्वादिकमाविष्कृत्य भगवत एव मुख्योपास्यत्वं शिवस्य भगवदुपासन हेतुतयोपास्यत्वं चामिधाय मुनीनां संशयनिवृत्तिपूर्वकं यथोपदेशेऽनुष्ठानोद्योगमभिधायोत्तरोत्तरस्मिन्नध्याये

भगवत्परत्वं बहुकृत्वापि पर्यवेदितव्यमिति न्यायेन स्तोतव्याजेन विशदीकृस्य

अवश्यं मनसा ध्यात केशवं मक्ततवत्सलम् ।

श्रेयः प्राप्तुं यदीच्छन्ति भवन्तः संशितव्रताः ॥ '

1

इत्युक्तमेवार्थमावश्यकतोक्तिपूर्वकं दृढीकृत्योपसंहृतम् । अत्न याथत्म्यं जिज्ञासून्मुनीन्प्रति स्वस्य भावः शेषत्वाभिव्यञ्जकमुद्राविधानेन क्रियातो याथात्म्यं दर्शयित्वा वाचाऽपि भगस्तोतव्याजेन तदेव स्पष्टीकृत्य साक्षादुपदेशेनापि भगवदुकर्षस्य च स्वस्मिन् सदवरत्वत्य च शिवेन प्रतिपादनात् भगवत्कृत शिवोपासनमवतारदशाभाविमुनिजननमस्कारवद्धर्म संस्थापनार्थमवतीर्णस्य कृत्यमिव सिध्यतीति तत्सामान्यादितरेषु तथात्वमिति न्यायेन यत्र यत्र भगवता शिवोपासनं कृतं तत्र तत्त्रानयैव रीत्या नेयमिति न भगवत्कृतोपासन बलाच्छिवस्य तदपेक्षयोत्कर्ष: सिध्यतीति दिक् ।

ननु शिवकृतभगवत्स्तोत्रे

’ अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन । आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥

141

नामानि तव गोविन्द यानि लोके महान्ति च । तान्येव मम नामानि नात्र कार्या विचारणा || त्वदुपासाज्जगन्नाथ सैवास्तु मम गोपते ।

यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ॥

शेवनार । यणयोरमेद प्रतिपादनात् ।

‘शङ्करोऽपि सदा देव सदा शङ्करनामवान्’

देना भगवत्यपि शिवनाम निर्वचनदर्शनादुभयोरेकनामत्व प्रतिपादनाचासिध्यतीति चेत् - न । ’ अहं त्वं सर्वगो देवे ‘ति सर्वगत्वादनन्तस्य

’ स एवाहमवस्थितः ।

मत्तस्सर्वमहं मयि सर्व सनातन ॥ '

प्रह्लादवाक्यगता भेदव्यपदेशवदन्तर्यामित्वनिबन्धनत्वावसायात् । एवं हि तस्य रणस्य सार्थक्यं हेतुसमर्पकत्वात् । अन्यथा

’ यदा सिध्यच्च वर्तेत यच्च भावि जगत्पते ।

सर्व त्वं देवदेवेश विना किचित्त्वया न हि ॥

नापि सर्वामेद सिध्यापत्तेः । न चैवं विशिष्य ’ अहं त्वं सर्वगो देवत्युक्तेः प्रयोजनमिति वाच्यम् । वसूनां पाक्कोभरात् इन्दौ देवेश्वरो भावात् प्रत्थस्सर्ववृक्षाणामितिवद्विशेषामिव्यक्ति प्रतिपादनार्थत्वात् । न च रुद्राणामीत्यनेन चरितार्थे पुनरुक्तेः किं प्रयोजनमिति वाच्यम् । पावकेन्द्राद्यभियपेक्षयातिशयितामिव्यक्त प्रतिपादकतयोपपन्नत्वात् । शङ्करादिनाम निर्वतु ’ मनान्मुनिरेवावेश्य यतनापतिरुच्यत’ इति मुन्यादिना मुनिवचनवदुपमैक्यस्योपदेशस्तथामेद साधकः ’ घनसारश्चन्द्रसंज्ञ’ इतिवद्भेदेऽप्युपपत्तेः ।

वस्तुतस्तु सर्वस्य भगवतः शिवान्तर्यामित्वेन तत्स्वरूपस्य विशेष्यत्वात् नाम्नां शिवशरीरक भगवन्नामत्वमादाय तान्येव मम नामानीति निर्वाह्यम् । महत्वस्यार्थ महत्वीनिबन्धनतया ‘यद्यत् विभूतिमत्सत्वमिति न्यायेन तादृशा-142

नामर्थानां भगवदभिव्यक्तिमत्वेन यानि लोकमहान्त्यपीत्यपि व्यपदेश उपपद्यते । एतेन नारायणादिनाम्ना साक्षादेव शिवनामत्वमनेन वचनेन बोध्यत इत्यल्प जल्पितम् ।

वेदान्तविजय कृतस्तु -लोक्यतेऽनेनेति लोकः । प्रमाणं यानि त्वदामि - धायकतया प्रमाण सिद्धानि परतत्त्व गमकानि च भवन्ति तान्येव ममनामा नि तानि ईश्वरमहेश्वरपरमेश्वरे महादेवशिवादीनि । अन भगवान्नामत्वमहत्वरूप विशेषणद्वयविशिष्टेतर व्यवच्छेदकेनावधारणे नाप्युभय विशेषण विधुरान्निर्व्या वर्त्यते ।

‘उम्रो भस्मधरो नग्नो कपालीति शिवस्य च '

इति वचनविरोधात् । एवं चैकैक विशेषणयुक्तस्य व्यवच्छेद्यत्वे वाच्ये महत्वा विशेषणता ’ त्वदीयं नाम मे नास्तीत्येवं केवल भगवतीयत्व विशेषण एव अतो व्यवच्छेदेन प्राकरणिक भगवत्प्रशंसाया असिद्धेः । भगवतस्तोत्रे रुद्रनामदर्शनेन जनिताया विवेकिन् साधानिरास्तेस्याहेतुत्वात् व्यवच्छेदस्यैवोक्त प्रधान प्रतिपाद्यतया खनामसु केषांचित् भगवत्सम्बन्ध प्रतिपादनमात्रे तात्पर्यासिद्धेश्च । केवल महत्व विशेषणवतो व्यवच्छेदात् मदीयमहानामसु त्वदनमिधायकं किमपि नाम नास्तीत्यर्थः ।

ननु ’ यानि तत्र नामानि यानि च महान्ति एतान्युभयविवाध्येन मम नामानीत्यर्थः किं न स्यात् ! यच्छब्दान्तर नामानिति पदान्तरयोरध्याहारो न स्यात् । ‘घैनसारश्चन्द्रमस’ इतिवत् भगवन्नाम्ना कात्र्त्स्न्येन रुद्रनामत्वे विधानं किं न स्यात् । विधिशक्त्याकर्षक प्रकरणाध्याहारचलनैः न स्यात् । एवकारेण हि विधिशक्तिराकृष्टव्यवच्छेदविषयं नीता । प्रकरणं च भगवत्परत्वपरम् । त्वदीयान्यपि मम महान्त्यपि ममेत्यत्राध्याहारमत्ता एव नामान्येवेत्यन्वये स्थानचलनं एवमनेन वचनेन रुद्रेणैत्र शिवादिनाम्ना भगवतीयत्वं मम समर्भितमित्याहुः ।

"

तस्मा’ दहं त्वं सर्वगो देवे’त्यादीनि न शिनारायणाभेद प्रतिपादकानि । उत्तरस्मिन्नध्याये शिवस्यापरत्व प्रतिपादनमेवं सुघटितमेव भवति । तदेवमन्यत्न

143

भगवत उपासकत्व जनितापकर्ष परिहारस्त्वध्यवसान इति न भगवतो जक्वसिद्धिः ।

यदुक्तं ब्रह्मरुद्वयोर्ब्रह्मशैवपुराणागमादिषु परब्रह्म भगवत्प्रसिद्धिः यथा नष्टसंहारादिरूप जगद्यापारादित्यादि दैवतान्तरापेक्षयाऽतिशयितात् परब्रह्मादिव्यक्तिमेदादुपपानीया तथा विष्णोरपि तादृशप्रसिद्धः पालनरूपजगद्यापारार्थात् ब्रह्माभिव्यक्ति भेदोपपादनाय इति तदसङ्गतम् – ब्रह्मरुद्रयोः कर्मवश्यत्यग्राहक प्रमाणबलात् तथात्वेऽपि भगवतः परब्रह्मभावे बाधकाभावात् । तस्यैव सर्वभूतान्तरात्माऽपहतापाप्मा दिव्यो देव एको नारायण इत्यकर्मवव्यत्व श्रवणात् ।

यत्तु जननमरणभयक्रोधशोकाज्ञानादिरूपसांसारिक दोषाणां भारतरामा - का विष्णुपुराणादिष्वेव प्रतिपादनात् पराभाव इति । तत्र न तावत् जननं मं ब्रह्मभावबाधकं भवितुमर्हति । तस्य कर्मकृतत्वात् । तत्र हि श्रुतस्तावत् प्रमाणं ’ अजायमानो बहुधा विजायत । तस्य धीराः परिजानन्ति योनिमि’ति ॥

नन्वजायमान’ इत्यनेन स्वरूपस्याजत्वं शरीरद्वारा बहुभवनं चोच्यत इति चेत् - न । खरूपनित्यत्वस्य देहद्वारा जन्मनो जीवानामपि समानतया

• तस्य धीराः परिजानन्ति योनिमि’ त्यनन्तरवाक्यप्रतिपन्नचैक्षण्यानुपपत्तेः । सर्व साधारणलोकविदित जन्मप्रकारवैजात्ये सत्येवमेवं षक्तुं युक्तम् । न हि देवदत्तस्य जन्मधीरेवमपरिज्ञायत इति वक्तव्यम् । यज्ञदत्तजन्मनो वैलक्षण्याभावात् । स्वरूपेणाजस्य विचित्रजगद्रूपेण भवनमुच्यते । तद्धि जीवेषु न सम्भवतीति चेत् - न । ’ सर्वाणि रूपाणि विचित्य धीरः । नामानि कृवामित्रदन्यदास्त ’ इति पूर्वानुवाकेऽमिधाय ’ तस्य त्वष्टा विदधद्रूपमेति’ इत्यस्मिन्नप्यनुवाके जगद्रूपेण बहुभवनस्योक्तत्वात् । एवमर्थान्तरपरत्वे सत्यानर्थक्य प्रसङ्गात् । अस्याः श्रुते ’ रजायमान’ इति कर्महेतुसु खाद्यर्थप्राकृतदेह सङ्गतिरूप जन्मनिषेधः । विजायत इतीच्छाहेतु जगद्रक्षणार्थ प्राकृविग्रहाधिष्ठान रूपजन्मविधिरित्येवार्थोऽभ्युपगन्तुं युक्त इति भगवज्जन्मनो कर्मकृतत्वमनया श्रुत्य बोध्यते । इममर्थमुपबृंहणान्यप्यनुरुन्धन्ति । भगवद्गीतासु

144

‘अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥

यदा यदा दि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तस्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ '

इति कर्मकृतत्वाभावः प्रतिपाद्यते । भूतानामीश्वरोऽपि सन्निति परमेश्वरस्वभावोक्तेः । धर्मग्लानिकालस्य स्वावतारकालत्वोक्तेश्च । न हि जननस्य कर्मकृतत्वे परमेश्वरभावः संगतो न वा धर्मग्लानिकालत्वं कर्मपरिपाक-

कालत्वात् । एवं साधुपरित्राणादेः प्रयोजनत्वकीर्तनमपि । ’ सर्व वाक्यं सावधारणमिति न्यायेन तस्यैव प्रयोजनतात्पर्यकमिति कर्मफलानुभवस्य प्रयोजनत्वं व्यावर्तयतीत्यकर्मवश्यत्वसिद्धिः । तथा भगवज्जन्मरहस्यज्ञानस्य मुक्तिहेतुत्वोक्तेरपि तथात्वे प्रमाणम् । देवदत्तादिजन्मसाधारणस्य तस्य मुक्तिसाधनत्वासम्भवात् । संभवपर्वणि पञ्चमेऽध्याये -

अनुग्रहार्थं लोकानां विष्णुलोकमतस्तु सः । वसुदेवात्मा देवक्यां प्रादुर्भूतो महायशाः ॥ अनादिनिधनो देवः साक्षाल्लोकेश्वरः प्रभुः । आदेरादिस्समस्तानां स कर्ता न कृतः प्रभुः ॥ अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् । आत्मानमव्ययं चैव प्रकृतेः प्रभवं परम् ॥ पुरुषं विश्वकर्माणं सत्ययोगं ध्रुवाक्षरम् । अनन्तमचलं देवं हंसं नारायणं प्रभुम् ॥

145

धातारमचलं नित्यं यमाहुः परमव्ययम् ।

पुरुषः स विभुः कर्ता सर्वभूतपितामहः ॥ धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकदृष्णिषु ॥ ’ इति ।

ऽध्याये फल्गुनं प्रति द्रोण:-

’ एकस्तषाधिको लोके यो हि वृष्णिकुलोद्भवः ।

कृष्णः कमलपत्राक्षः कंसकालीयमर्दनः ॥

स जेता सर्वलोकानां सर्वप्रहरणायुधः । नैताक्ताऽहं ते पार्थ भवाम्यनृतवागिह || तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम् ॥ तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि च ॥

तन्नामिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे । स एव कर्ता भोक्ता च संहर्ता च जगन्मयः ॥

स एव भूतं भव्यं च भवश्च पुरुषः परः । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥

प्रादुर्भवति योगात्मा पालनार्थ स्वलीलया || ’ इति ।

चतुर्दशेऽध्याये -

’ स निश्चयार्थ कार्यस्य कृष्णमेवं जनार्दनम् | सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ॥ अप्रमेयमनाद्यन्तं कामात् जातमजं नृषु ॥ ’ इति ।

मेऽध्याये

’ नैव गर्भत्वमापेदे न योन्यामवसत् प्रभुः ।

आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम् ॥’ इति ।

146

भागवते

जन्म कर्म च विश्वात्मन्नजस्याऽकर्तुरात्मनः । तिर्यङनृषु च यादस्सु तदत्यन्तविडम्बनम् ॥ '

’ न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे ॥ '

इत्यादि - विस्तरभयात् न लिख्यन्ते ।

मरणमपि हेयं न भगवति विद्यते

’ प्रदर्शातप्ततपसामपि तप्तदृशां तृणाम् ।

आदायान्तरयाद्यस्तु स्वबिम्बं लोकलोचनम् ॥

इति भागवदुवचनबलादन्तर्धानस्य प्रतीयमानत्वात् ।

स्कान्दे च ’ पृथिवीलोकसंत्यागो देहत्यागो हरेः स्मृतः ।

नित्यानन्दखरूपत्वादन्यत् नैवोपपद्यते ।।

.

दर्शयेत् जनमोहाय सदृशीं भृतकाकृतिम् । नटवत् भगवान्विष्णुः परवानाकृतिः सदा ॥ इति ।

तथा ’ जगतो मोहनार्थाय भगवान् पुरुषोत्तमः ।

दर्शयन् मानुषीं चेष्टां तथा भृतकत्रद्वपुः ॥ करोति कृतकान्नास्य भृत्याभावान्महात्मनः । नाऽयं दशरथाज्जातो न चापि वसुदेवतः ॥ नास्याज्ञानं कुतो दुःखं प्रादुर्भावेष्वपि प्रभौ । प्रादुर्भूतश्चिदानन्दशरीरो राघवः स्वयम् ॥ स्तम्भाद्वा नरदेहाद्वा नैव स्यात्प्राकृता तनुः । कृष्णो हृद्युक्तदेहोऽपि त्यक्तदेहवदेव च ॥

लोकानां दर्शयामास खरूपसदृशाकृतिम् ॥ '

इति प्रतिपादितम् ।

147

’ अनित्यत्वदेहहानिदुःखप्राप्तिरपूर्णता ।

नाशश्चतुर्विधः प्रोक्तः तदभावो हरेस्सदा ॥

तदन्येषां तु सर्वेषां नाशा: केचित् भवन्ति हि ॥ ’ तं वाराहे । एवमन्येष्वपि पुराणेषु प्रमाणान्यनुसन्धेयानि ।

एतेन हेयेषु जननमरणादिषु अपि कर्मकर्तृत्वादिति कस्यचित् प्रलपितरम् । कथं तर्हि शोकादिकमवता रेषु दृश्यमानत्वमुपपद्येत । न चामिनय-

द्धत्वेनाविरोधवर्णनम् । तथा सति रामावतारे

’ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च ।

एतदेवानुशोचामि वयोऽस्याः ह्यतिवर्तते ॥

वचनानां, कृष्णावतारे सौभद्रवधवृत्तान्तवर्णनगततदीयशोकाज्ञानादिवचनानां

तत्त्वापत्त्या •

"

सत्यवाक्यो दृढव्रतः ।

यदि मे ब्रह्मचर्य स्यात्सत्यं त्वमधितिष्ठति ॥ '

अनेकवचनविरोधापत्तेरिति चेत् - न

'

कालस्य हि च मृत्योश्च जङ्गमस्थावरस्य च । ईशिता भगवानेकः सत्यमेतत् अवै ॥ ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तुं किं नाशा इव दुर्बल ॥ तेन वञ्चयते लोकान्मायायोगेन केशवः । एतमेव प्रपद्यन्ते नैते मुह्यन्ति मानवाः || कृत्वा भारावतरणं पृथिव्यां पृथुलोचनः । मोहयित्वा जगत्सर्वं जगत्स्वस्थानमुत्तमम् ॥ मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । लीलाजगत्पतेस्तस्य छन्दतः सम्प्रवर्तते ॥

148

धर्मसेतुं च बध्नामि चलिते च युगे युगे ।

तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥ पुनस्त्वाहं देवयोनौ वर्तामि भृगुनन्दन । तदेह देववत्सर्वमाचरामि न संशयः ॥ तथा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन । तथा गन्धर्ववचेष्टा सर्वान् चेष्टामि भार्गव || नागयोनौ यदा चैव तदा वर्तामि नागवत् । यक्षराक्षसयोनौ तु यथावद्विचराम्यहम् ॥ मानुष्ये वर्तमाने तु कृपणं याचितं मया ।

न च ते जय सूमोहाद्वचो गृह्णन्ति मोहिताः || ’ इत्याद्युद्योगपर्वाश्वमेधिकपर्वादिवचनैरमिनयमात्त्रसिद्धत्वाङ्गीकारात्। न चैवं

शोकाज्ञानादिवचनानामनृतत्या पत्त्या ‘सत्यवाक्यो

सत्यवाक्यो दृढव्रतः

इत्यादिप्रमाण-

विरोधः स्यादिति वाच्यम् । उक्तप्रमाणबलेनावतारदशासु परत्वग्रहणार्थवचन-

व्यतिरिक्तविषयत्वस्य सत्यवाक्य इत्यादेः कल्पनात् । अन्यथा

’ अपहतपाप्मा दिव्यो देव एको नारायणः ।

तत्र यः परमात्मा तु सन्नित्यो निर्गुणः स्मृतः । स तु नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ न लिप्यते कर्मफलैः पद्मपत्रमिवाम्भसा | कर्मत्वस्य विरोधोऽसौ मोक्षबद्धेस्स युज्यते ॥’

इत्यादिबहुप्रमाणव्याकोपप्रसङ्गः ।

सत्यसन्ध’ इत्यादिवचनविरोधकथनं तु भ्रान्तिविलसितम् । सन्ध शब्दस्य प्रतिज्ञात्वपरत्वात् । अतः शोकादेरभावात् जननस्य प्रादुर्भावरूपत्वं, न जीवत्वं भगवतस्तद्बलात् वक्तुं शक्यम् ।

यदुक्तं ’ तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृतः पुराणी’ति गीतासु ‘मुक्त्यर्थं शिवं प्रपन्नोऽस्मीति कृष्णवचनात् कृष्णस्य जीवत्वमेत्र गम्यत इति — तदसम्बद्धम् । एतदध्यायान्ते

'

149

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || '

इति कृष्णस्य बद्धमुक्तोभयावस्थजीवविलक्षणत्वेन प्रतिपादनविरोधापत्तेः । एतेन ‘बाचं पुरुषमित्यत्र ।

’ क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते '

इत्यारभ्य ‘यो लोकत्त्रयमाविश्य बिभर्त्यव्यय ईश्वर:’ इति य उक्तः तस्यैव सामर्शात् शिव एव कथ्यत इति गलहस्तितम् । तस्यैव ‘यस्मात् क्षरमित्यादिर्यालोचनया भगवत्परत्वावसायात् । ईश्वरशब्दानुसारात् रुद्रपरमिति चेत् न । निरुपाधिकैश्वर्यस्य भगवद्धर्मत्वात् । ’ ईश्वरः प्रतिरीशिते ‘ति निघण्टुनुसारात् ।

‘ग्रामे ग्रामे ईश्वर आज्ञापयती’ ति महाभाष्यकारप्रयोगात् ।

’ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः '

व्रत जीवेऽपि प्रयोगाश्च । प्रभुमात्रशक्तित्वाङ्गीकारेण ’ यस्मात् क्षरमतीतः ’ व्रत सङ्गत्यर्थनिखिलजगत्पतित्वमादाय तस्यापि भगवत्परत्वात् । अन्यथा मीतास्वेव सकलजगत्कारणत्वादिप्रतिपादन विरोधप्रसङ्गः । न च शिवोऽहं भावनया कृष्णेन तदुपदिष्टमिति वक्तुं युक्तम् । एकदेशस्य किंचित्पदखारस्यानुन्प्ररेण महात्रा क्यस्यान्यथाकारणस्यायोगात् । ’ तमेव चाद्यमित्यादेः कथं नङ्गतिरिति चेत् - न । तमेव चाद्यं पुरुषं प्रपद्ये शरणमुपगम्य ईयत अज्ञाननेवृत्त्यादेः कृत्स्नस्यैतस्य साधनभूताप्रवृत्तिः । पुराणि पुरातनानि प्रसृता युरातनानां मुमुक्षूणां प्रवृत्तिः । पुराणादिपुरातना मुमुक्षवो हि मामेव शरणमुपगम्य निर्मुक्तवन्धाः सञ्जाताः इत्यर्थ इति भाष्यकारैर्गीताभाष्ये वर्णितया गेल्या सुसङ्गतत्वात् । शङ्करस्तु ’ कथं परिमार्गितव्यमित्यत्राह तमेव चेति । यः परशब्देनोक्तः आदौ भवमाद्यं तं पुरुषं प्रपद्य इत्येवं परिमार्गितव्यमिति ब्याचख्यौ ।

150

यदपि ’ यस्मिन् गतानि निर्तन्ति भूय’ इत्युक्त्या ‘ईश्वरस्सर्वभूतानामित्यादि ’ तत् प्रसादात्परं शान्तिस्थानं प्राप्स्यसि शाश्वतमित्यन्तवाक्यप्रतिपाद्यमानः पुरुषशब्देनोच्यत इति गम्यत इति तदप्याशामात्त्रविजृम्भितम् - ‘सर्वस्य चाहं हृदि सन्निविष्ट:’ इत्यनेन ’ हृद्देशेऽर्जुन तिष्ठतीत्यस्यार्थस्य भगवन्निष्ठत्वावगमेन |

’ भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।

ततो मां तस्यतो ज्ञात्वा विशते तदनन्तरम् ॥

}

इति । पूर्वत्र ’ मन्मना भवेत्युत्तरत्र भगवत एव प्रस्तुतत्वेन च तस्यापि तदतिरिक्तपरत्वस्य वक्तुमयुक्तत्वात् । न चेश्वरशब्दानुसारात् तथार्थवर्णनमिति

युक्तम् ।

कृत्स्नजगत्पतित्वमादाय भगवत्वस्य प्रवृत्तिसम्भवात् । न चेश्वरशब्दरूढिभङ्गापत्तिः । उपक्रमोपसंहारपर्यालोचनया भगवत्परत्वावगमेन तदनुसारेण रूढिभङ्गस्यादोषत्वात् । न चेश्वरशब्दरूव्यनुसारादन्तर्यामिपर्यन्तत्वं

मन्मना भवेत्यादेरिति वाच्यम् । वेदान्त सापेक्षत्वेनापर्यवसानवृत्तेर्विलम्बितत्वेन जघन्यवृत्तित्वाविशेषात् ’ मन्मना भव मद्भक्तो मयाजी मां नमस्कुरु इत्यादिष्वावृत्ताऽस्मच्छब्दस्य जघन्यवृत्तिकल्पनापेक्षया रूढिभङ्गस्यैव युक्तत्वात् ।

एतेन ’ दर्शयामास पार्थाय परमं रूपमैश्वरमिति दर्शनात् भगवता प्रदर्शितं रूपं शैवमित्यल्पजल्पितं निरस्तम् । ’ पश्य मे पार्थ रूपाणि ’ ’ मम देहे गुडाकेश’ ’ अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ‘,

6

'

’ पश्यामि देवान् तत्र देव देहे '

अनेक बाहूदरवक्त्रनेत्र

पश्यामि त्वा सर्वतोऽनन्तरूपम् । '

दृष्ट्वा तं रूपमुमं तवेदम् । '

151

'’

’ गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताश्चैत्र सर्वे ॥ ’ ’ रूपं हत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ||’ ’ वक्त्राणि ते त्वरमाणा शिन्ति ’ ’ तथा तवामी नरलोकवीराः ’ ’ विशन्ति वक्त्राण्यभिविज्वलन्ति ’ तवापि वक्त्राणि समृद्धवेगाः ’ ’ लेलिह्यसे ग्रसमानस्समन्ताल्लोकान्समग्रान्वदनैबैलद्भिः ’ ’ आख्याहि मे को भवानुप्ररूपः ’ ’ एवं रूपं शक्योऽहं नृलोके ट्रा रूपं घोर ईदृमेदम् । '

‘सुदर्शनमिदं रूपं दृष्टवानसि यन्मम

येतेषु वचनेषु तस्य रूपस्य भगवत्सम्बन्धित्वावगमेन तदतिरिक्तसम्बन्धित्वा-

गादीश्वरशब्दस्य पूर्वोक्तरीत्या भगवत्यपि वृत्तिसम्भवाश्च ।

अपि च पूर्वस्मिन्नध्याये, ‘यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ’ ति, अस्मिन्नपि ’ एवमेतद्यथार्थत्वमात्मानं परमेश्वरम्’ इति च दर्शनेन ऐश्वर-

त्यस्य कृष्णसम्बन्धित्वमेव युक्तम् ।

‘दृष्टेदं मानुषं रूपं न च सौम्य जनार्दन '

1

न्युच्यमानावतारदशावृत्ति मनुष्यसदृशाकृतिविलक्षणरूपप्रदर्शनार्थत्वेनैश्वरमित्यस्य योजनत्वात् । न च ’ यो मामित्यत्र यथार्थत्वमित्यत्र वाऽन्तर्यामिपर्यन्तत्वनिश्वरशब्दरूढ्यनुसारात् कल्प्यते । एवं ‘पश्य मे पार्थ रूपाणि ’ इत्यत्रापि । द्वा’ पश्य मे पार्थ’ इत्यादौ षष्टया: ’ सप्तदशारनिर्वाजपेयस्य यूप’ इत्यत्र रम्परासम्बन्धमादायोपपत्तिः कल्प्यत इति वाच्यम् | अनेकेषां शब्दानां घन्यवृत्तिकल्पनापत्तेः । ’ तेनैव रूपेण चतुर्भुजेन सह बाहो भव विश्वमूर्ते ’ त्युच्यमानरूपप्रतिसम्बन्धिनो रूपस्य भगवदन्यसम्बन्धित्वायोगेन ’ ’ इत्यादौ षष्ठया परम्परासम्बन्धार्थत्वकल्पनाया अनुन्मेषाच्च ।

'

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ '

पश्य मे152

इत्यर्जुनदृष्टरूपसम्बन्धिनो,

’ नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥’

इति दर्शनकर्मत्वोक्तेः ।

जघन्यत्वात् । अपि च,

मामित्येतदन्तर्यामिपरमिति चेत् तथाकल्पनस्य

’ एवमेतद्यथार्थत्वमात्मनः पुरुषोत्तमम् ।

द्रष्टुमिच्छामि ते रूपम्

-…

….

॥’

इति वचनेन भगवतः पूर्वप्रतिपादितप्रकारेण अर्जुनदिदृक्षा विषयत्वमवगम्यते । तथा च पूर्व ’ अहं सर्वस्य प्रभवः’ इत्यादिना ।

’ विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत्

}

इत्यन्तेन प्रतिपादित एकार्थो विग्रहविशेषानुबन्धितया प्रत्यक्षीक्रियत इति तत्र कृष्णस्यैष सर्वाधारत्वादिप्रतिपादनात् तदीयं रूपमिति निश्चीयते । न च

तत्नान्यपरत्वशङ्का

‘आहुस्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा ।

असितो देवलो व्यासः स वयं चैव ब्रवीषि मे ॥

इति भगवतोच्यमानस्यार्थस्य नारदाद्युक्तस्य चार्थस्य चैकत्वप्रतिपादिनात् । भगवतः सर्वोत्कर्षः प्रतिपादित इत्यस्यार्थस्यारण्यपर्वगतेन

वासुदेव वसूनां त्वं वासवो वरदाऽच्युत । देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ पूर्व प्रजानिसँगै त्वामाहुरेकं प्रजापतिम् । स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ॥ विष्णुः त्वमसि सर्वज्ञः त्वं यज्ञो मधुसूदन । यष्टा त्वमेव यष्टव्यो जामदग्न्यो यथाऽजवीत् ॥

153

ऋषयस्त्वां क्षमामाहुस्सत्यस्त्वं पुरुषोत्तम । यज्ञोऽसि यज्ञसम्भूतः काश्यपस्त्वां यथाऽब्रवीत् ॥ साध्यानामपि देवानां वसूनामीश्वरेश्वर । लोकभावन लोकेश यथा त्वं नारदोऽब्रवीत् ॥ पदीवाक्यजातेनात्रगम्यमानत्वात् । किं च

ततस्स तस्मै प्रीतात्मा दर्शयामास तद्वपुः । शाश्वतं वैष्णवं धीमान् ददृशेऽयं धनञ्जयः ॥

श्वमेधिके कृष्णोदङ्कसंवादेऽर्जुनदृष्टस्य रूपस्य वैष्णवत्वोक्तिः तत्पक्षेन्ना स्थात् ।

यदत्त्रोक्तं शिवादित्यमणिदीपिकायाम् -

"

द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय '

कमगतैश्वर्यशब्दानुरोधात् विष्णुशब्दस्य भवादिनामाष्टकमध्यगतत्वेन च रत्वसम्भवात् न शैवत्वं प्रतिक्षेप्तुं शक्यमिति – तदसारम् -

,

‘द्रष्टुमिच्छामि ते रूपं वैष्णवं त्वं निदर्शय '

|

बहुषु कोशेषु दर्शनात् । ऐश्वर्यमिति पाठे वा ईश्वरः पतिरीशितेति (ण्येन अन्यत्र प्रभुमात्रशक्तेन भगवत्यपि बहुधा प्रयुक्तेन तेन शब्देन (साधारणतया सकललोकशब्दस्य विष्णुशब्दस्यापलपितुमयुक्तत्वात् । नामाष्टकमध्यपरिगणनस्य ऋतुपराग्न्यादिशब्दवत् गौणत्वेऽप्युपपन्नत्वात् ।

"

यदपि तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् ’ इत्युत्तरत्र रित्यनेनैव वैष्णवत्वे सिद्धे वैष्णवमित्यस्य शैत्रत्वपरतयैवापौनरुक्त्यं वक्तव्य-

तदसम्बद्धम् । अवतारदशावर्तिमानुषरूपविलक्षणरूपत्वस्फुटीकरणार्थवैष्णवशब्दस्यार्थवत्त्वसम्भवे प्रसिद्धिभङ्गस्यायुक्तत्वात् । अतः कृष्णप्रदर्शिरूपस्य शैषत्वप्रसाधनबलात् तत्तदतिरिक्तत्वप्रतिपादनप्रत्याशावकाशम् ।

20

154

यदुक्तं - गीतार्थश्रवणानन्तरमपि यावज्जीवमर्जुनस्य शिवभजनपरत्वेन वर्णनात् कृष्णविषयपरब्रह्मभावमुक्त्यर्थप्रपदनीयत्वपर गीतावचनानां शिवपर्यन्ततात्पर्यं कल्पनीयमिति-तत्तुच्छम् - यावज्जीवं शिवभजनपरत्वस्यासिद्धेः। सिद्धावतितीव्रमुमुक्षाभावे तीव्रतरैहिकफलाभिलाषेण च पाशुपतास्त्रप्रदानमहोपकारकरणेन वा तद्भजनोपपत्तेः ।

यदुक्तमनुगीतावचनान्यपि कार्त्स्न्येन गीतासु भगवद्वचनानां शिवपर्यन्ततात्पर्यगमकानीति – तदयुक्तम् - सिद्धपुरुषकाश्यप संवादे योगोपदेशदशायां,

यदा हि युक्तमात्मानं सम्यक् पश्यति देहभृत् ।

तदाऽस्य केशवे भक्तिस्त्रैलोक्यस्यापि यः प्रभुः ॥ '

इत्यनेन ’ योगिनिष्पन्दमात्मानं सम्यक्संपश्यते तनौ’ इति पूर्वोक्तरीत्या देहवियुक्त परिशुद्धात्मस्वरूपज्ञाने तस्य भगवच्छेषतैकस्वभावत्वात् भगवद्भक्त्यमिवृद्धिर्भवतीत्यर्थकेन नारायणयोगिध्येयलस्फोरणात् । ब्रह्मणि ब्राह्मणसंवादे ज्ञानयज्ञनिरूपणप्रस्तावे

इत्युक्ते,

श्रचश्वाप्यत शंशन्ति नारायणविदो जनाः । नारायणाय देवाय यदबन्नन् पशून् पुरा || तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् । देवं नारायणं मीकं सर्वात्मानं निबोध मा || '

ब्रह्मबृहस्पत्यादिसंवादे

’ विष्णुरेवाऽदिसर्गेषु स्वयम्भूर्भवति प्रभुः ।

एवं हि यो वेद गुहाशयं प्रभुं नरः पुराणं पुरुषं विश्वरूपम् | हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ '

इति वचनाच्च भगवत्परत्वावेदनेन शिवतात्पर्यगमकत्वासम्भवात् । यदपि,

न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ।

परं हि धर्म कथितं योगयुक्तेन तन्मया ॥

॥’

155

प्रमनसा कथितत्वोक्तिपूर्वक बहिर्मनसा वक्तुमशक्यमित्युक्त्या गीतार्थस्य भाव भावनया प्रवृत्तित्वमवगम्यत इति तदप्यसङ्गतम् - अर्जुनस्य विस्मरणवः पुनरुपदेक्ष्यमाणार्थविस्मरणं मा भूदिति श्रद्धावकल्यनिवृत्त्यर्थं तमार्थत्वज्ञापनाय तथोक्तेरुपपन्नत्वेन स्वार्थतात्पर्यकत्वाभावात् । न हीदानीं गो विस्मृतः ; येनेदानीमशक्यत्वं स्यात् तथा स्वीकरिष्यमाणोपदेशानु: । न च सिद्धपुरुषोपदेशबलात् पुनरुपदेशो युज्यत इति वाच्यम् । तत एव योगस्याविस्मृतत्वे ’ न शक्यम् तन्मया भूय’ इत्युक्त्ययोगात् । न तथा विरोधपदहेतुयोगे ‘विस्मृत’ इति तथोक्तेस्तात्पर्यमिति वाच्यम् ।

सति,

’ तथापि हि रथस्थस्त्वं श्रुतवानेतदेव हि । इत्युक्तेरसङ्गतत्वापत्तेः । न शिवाहम्भावसंवलितयोगो विस्मृत इत्यत्र न शक्यमित्यादेस्तात्पर्यतदसंलेतमात्रवैषम्योऽपि । वस्तुतस्तु न विस्मरणयोग्यः । इदानीं कात्र्त्स्न्येन मयापि तुमशक्य इत्युच्यमाने सोऽर्थ उपदिष्ट इत्यत्र ’ तथापि हि रथस्थस्त्वंत्यादेस्तात्पर्यमेवं वाच्यम् । अर्जुनकृतप्रश्नेन सुसङ्गत्वाभावापत्तेः । पूर्वोपदेष्टार्थस्य विस्मृतत्वे कथिते, अस्तु न विस्मरणयोग्यः । इदानीं कात्र्त्स्न्येन मयापि वक्तुमशक्य इत्युच्यमाने हि तेन सङ्गतिः । न तु वृत्तं वर्तिष्यमाणोपदेशप्रकारमेदकथने । किं च त्वदीत्या तच ते रूपमैश्वरमिति तदाऽर्जुनेन शिवाहम्भाक्वलितत्वं पूर्वोपदिष्टानामर्थानां ज्ञातमेवेति तस्य जिज्ञासाबहिर्भूतत्वात् तथावक्तुमशक्यत्वोक्तिर्वृथैव ।

1

अपि चेतरेषामर्थानां यथोपदेशः तथा शिवाहम्भावेनापि तेषामुपदेशः सम्भवत्येव । शास्त्रजन्यज्ञानमात्रेणोपदेशे साक्षात्कारपूर्वकमुपदेशे वा वैषम्यस्य दुर्वचत्त्रात् । न च सिद्धपुरुषोपदेशाभावे विस्मृतत्वं न वक्तुं शक्यम् । ‘तत्त्वदानीं मयोच्यत’ इति सन्दर्भतात्पर्यमिति वाच्यम् । तद्बलात् वक्ष्यामीत्यस्याऽदर्शनात् ।

156

’ न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः । परं हि धर्म कथितं योगयुक्तेन तन्मया || इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् । यां तां बुद्धिं समास्थाय गतिमप्रयां गमिष्यसि ॥ शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ।

आगच्छत् ब्राह्मणः कश्चित् शर्वलोकादरिन्दमः ॥ ब्रह्मलोका दुर्धर्ष सोऽस्माभिः पूजितोऽवसत् । परिपृष्टश्च स तदा यदाऽहं द्विजसत्तम ॥

दिव्येन विधिना पार्थ तच्छृणुष्व विचारयन् ॥’

इत्येव हि तत्र दृश्यते । न च ’ न शक्यमित्यनन्तरमन्यत्र श्रुतत्वोक्तौ अशक्यमित्यस्य विस्मृतत्वे तात्पर्य, अन्यत्र श्रुतत्वोक्तेः तस्योपदेशहेतुत्वे तात्पर्यं कल्प्यत इति वाच्यम् । तस्य विस्मृतत्वतात्पर्य कैमुतिकन्यायेनार्जुनविस्मरणं सिद्धमिति, तेन विस्मृतत्वे कथिते ’ अज्ञश्वाश्रद्धधानचे’ त्यादिना तन्निन्दाया असामञ्जस्यापातात् । तस्मादतिसावधानेन मनसा उपदिष्टमर्थं कथं विस्मृतवानसीति तथा निन्दावधानस्तुतिपरमेवेदं वचनम् । न चैतावता चित्तैकाग्रयं पुनरुपदेशकाले नास्तीति वक्तुं शक्यत्वेनान्वयः । मध्यनिवेशदशायां भक्त्यैकाप्रयस्यान्यथाभावस्य चोक्त्ययोगात् । प्रत्युत युद्धारम्भव्यग्रमनस्कत्वेन तदानीमेव हि चित्तैकाग्रयभावोऽपि वक्तुं युज्यते । तत एव ह्यर्जुनस्यावधानं ब्रूषे । न च पुनरुपदेशकाले योगयुक्तत्वाभावोक्ते: अर्थतथात्वाभावेऽपि गीतोपदेशकालभावियोगयुक्तत्वांशे तथात्वमस्त्विति वाच्यम् । वृत्स्नगीताशास्त्र पर्यालोचनया श्रीकृष्णस्य परब्रह्मत्वावगमेन तद्विरुद्धयोगयुक्तत्ववर्णनासम्भवात् । न चैतादृशान्यपरवचनगतायोगयुक्तत्वोक्तिबहूनां वचनानां गीतोपनिषत्स्थानामन्यथासिद्धिः सम्पादयितुमीष्टे । न च गीतास्वप्येवमुक्त्वा ’ ततो राजन् महायोगेश्वरो हरिरिति कृष्णवचनेन योगनिष्टत्वं गम्यत इति वाच्यम् । तस्य योगाराध्यत्वतात्पर्यकत्वात् ‘महायोगपरो हरिरि’ त्याद्यनुक्त्वा योगेश्वर इत्युक्स्या तदाराध्यत्वपरत्वावसायात् ।

157

यदपि सिद्धपुरुषोपदिष्टार्थश्रुतत्वोक्तत्वात् तदुपदिष्टस्सर्वोऽपि निरक्तमार्गः सम्यक् मनसाऽऽलोच्य बुद्ध्या इदमिति निश्चित इत्येतदर्थद्योतकात् स्वात्म …. मनः समारोपित गुरुशिष्यसंवादरूपेतिहासविषयात्, तद्वचनाच्च, श्रीकृष्णेन श्रुतं मतमुपासितं च ब्रह्म अन्यदेव कृष्णादिति प्रतीयते इति तस्य जीवत्वमवगम्यत इति तदप्यनुपपन्नम् - तत्व प्रतिपाद्यमानपराक्लोकगतिज्ञ महामहिमशालिसिद्धपुरुषमात्त्राक्गतत्वज्ञापनार्थत्वेन, तदुपदेशाश्रवणोक्तेः खमनसा निष्कर्षप्रापितोऽयमर्थस्सारतमांश इति ज्ञापनार्थत्वेन ‘मनो मे ब्राह्मणं विद्धी’ त्युक्ते दृढनिहितोऽयमर्थ इति ज्ञापनार्थत्वे ’ अहं गुरुर्महाबाहो मनश्शिष्यं च बुद्धि म’ इत्याद्युक्तेश्चान्यथासिद्धत्वेनानेन वचनान्तरबाधपूर्वकं कृष्णस्य जीवत्वनिर्णययोगात् । किं चावतारदशामर्यादामनुसृत्य योगयुक्तत्वात् युक्तिमात्रात् न जीवत्वं कृष्णस्यैव तद्वचनबलात् सिध्यति ।

ननु ’ तमेव चाद्यं पुरुषं प्रपद्ये ’ ’ ईश्वरः सर्वभूतानामित्यादिषु कृष्णादन्यत् ब्रह्मेति प्रतिपन्नम् । अन्यत्र च कृष्णस्य जगत्कारणत्वादिप्रतिपादनात् ’ कृष्ण एव परं ब्रह्मेति प्रतिपन्नमिति संशयात् पृष्टवन्तमर्जुनं प्रति तदन्यतरकोटिनिर्धारकेणोत्तरेण भवितव्यमित्यनया वचोभङ्गया स्वातिरिक्तमेव स्वमहिमवर्णनं तु तदहं भावकृतमिति श्रीकृष्णेन विभावितमिति सिद्ध्यतीत्यवश्यमभ्युपगन्तव्यमिति । तन । स्वव्रीत्या

परं ब्रह्म

‘विदितं ते महाबाहो संग्रामे समुपस्थिते ।

माहात्म्यं देवकीपुत्र तच ते रूपमैश्वरम् ॥ '

इति पूर्व कृष्णप्रदर्शितरूपेऽपीश्वरत्वं वर्णयतोऽर्जुनस्य सर्व शिवाहंभावभावनया प्रदर्शितमिति निर्णयो वृत्तः इत्यभ्युपगन्तव्यत्वेन, संशयस्य परतत्वविषयकत्वासिघ्या गीतोपदिष्टकर्मयोगज्ञानयोगजीवस्वरूपगतविशेषविषयत्वावसायात् । मद्रीत्या तु परतत्वविषयकसंशयो नास्तीति स्फुटमेव । ईश्वरशब्दस्य भगवत्यति सम्भवद्वृत्तिकत्वात् । यत्त्रेष्यत्राऽन्यथा तस्य वर्णितत्वाच्च ।

‘ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति '

158

इत्येवमाकारकनिर्देशोऽपि ‘करिष्ये प्रतिजाने च ’ ’ रामो द्विर्नाभिभाषते ’ इत्यादिवदुपपद्यते ।

अपि च ‘ईश्वरस्सर्वभूतानामित्यादिना शिवस्य ब्रह्मत्वप्रतीत्या कृष्णकारणत्वादिनिरूपणात् कृष्णस्य तथात्वप्रतीत्या च संशयात, प्रश्नेनाऽनुगीताव-

तरणे

"

तदास्य केशवे भक्तिखैलोक्यस्यापि यः प्रभुः ।

नारायणाय देवाय यदबध्नन् पशून् पुरा ॥

देवं नारायणं मी सर्वात्मानं निबोध मे ॥’

इति नारायणस्य परत्वप्रतिपादनात् कृष्णस्यैव सर्वोत्कर्षः सिध्यति । न च योगयुक्तत्वात् युक्तिबलाज्जीवत्वमपि प्रतीयत इति वाच्यम् । तर्हि निर्धारणापत्तेरनुगीताबचनबलात् कृष्णादन्यदेव ब्रह्मेति सिध्यतीति त्वन्मनोरथास्यापि भङ्गप्रसङ्गात् । न च योगयुक्तत्वायुक्तिः कृष्णविषयिणी, सर्वात्मत्याद्युक्तिस्तु नारायणविषयिणीति न विरोध इति वाच्यम् ।

….

शिवानन्दलहर्या विष्णुजीवत्वस्थापनप्रकरणे, भारतसारे परमशिवपरतात्पर्यवर्णनप्रकरणे चैतेषां वचनानां त्वया उपादानस्योन्मत्तव्यापारत्वप्रसङ्गात् । न च श्रीकृष्णस्य नारायणाभिन्नत्वात् तत्र तदुपादानं युज्यत इति वाच्यम् । तत एव संशयस्याप्यनिवारणमिति । तस्मात् गीतोपनिषत्प्रतिपादितपरभावस्य कृष्णविषयकत्वशिवविषयकत्वसन्देहे सति तन्निराकरणार्थमनुगीतावतरणे प्राधान्येन तस्य सन्देहस्य निराकरणतया वैराग्यहेतुमोक्षोपाययोगाद्युपदेशदर्शनवत्परभावविषयकस्फुटतरान्यतरकोटिनिर्धारकवाक्यदर्शनप्रसङ्गात् । उक्तरीत्या ऽनुगीतास्वपि संशयस्यैवोदयाच्च न तन्निराकरणार्थत्वेनानुगीतावतारः ; किं तु तदतिरिक्तमोक्षोपाया दिवैशद्यसम्पादनार्थत्वेनैवेत्यवतारमर्यादामनुसृत्य श्रुतत्वात्, युक्तिपूर्वकं वैराग्यहेतुमोक्षोपायादिकमुपदिशन्नेव नारायणपरत्वमपि

तदास्य केशवे भक्तिरित्यादिना स्फुटीकृतत्वस्य गीतोपदिष्ट परभावस्य च अत्रोपदिश्यमाननारायणपरभाषस्य विरोधप्रतिभासे तन्निराकरणार्थमेकविषयत्वमपि ।

159

’ तथापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ’ इस्यनेन पूर्वमप्येतदेत्रोक्तम् । युद्धकाल उपस्थिते

’ घिया तत्र महाबाहो तस्मादत्र मनः कुरु

इत्यनेन चेतरावस्यैक्येन सह तन स्फुटीकृतवानित्यवगम्यते । अत एव गीतान्ते-

इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः । यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय ॥

नमस्ते सर्वलोकात्मन् नारायण परापर ||

इत्यनुगीतासु परत्वेन प्रतिपादिता नारायणामिन्नत्वेन स्तुतिः कृष्णस्यार्जुनकृते इममर्थमभिव्यनक्ति । अनुगीतासमाप्त्यनन्तरम् -

’ विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव । यथा चाहं विजानामि तथा चाहं भवन्मनाः ॥ तत्तेजा नित्यं हुताशो मधुसूदनः ।

रात्रिः क्रीडामयी तुभ्यं मया ते रोदसी विभो ॥

त्वयि सर्वमिदं स्थाणु जङ्गमं

…. ….

त्वं हि सर्व विकुरुषे भूतग्रामं सनातनम् ॥

असितं तेऽमला ज्योत्स्ना मनवश्वेन्द्रियास्तव ।

प्राणे वायुः सतत को यो मृत्युस्सनातनः ॥

….

प्रसादे चाप्यनित्या….र्नित्यं तव महामते । रतिस्सृष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् ॥

….

त्वमेवेह युगान्तेषु निधनं प्रोच्यते सुदीर्घेणापि कालेन न ते शक्या गुणा मया ॥ आत्मा तु परमो वक्तुं नमस्ते नलिनेक्षण | विदितोऽसि हि दुर्धर्ष नारदादेर्बलात्तथा ॥

160

कृष्णद्वैपायनाश्चैव तथा कुरुपितामहात् । त्वयि सर्व समायुक्तं त्वमेवैको जनार्दनः ॥

इत्युक्तभङ्गचापि कृष्णपरभाव एवार्जुनेन दृढतरं निर्णीत इत्यवगम्यते ।

यदि च गीतासु कृष्णरुद्रयोरुभयोः परब्रह्मभावप्रतितेस्तज्जनितसंशयाऽपनोदनाय भगवत्कृतोपदेशस्य शिवाहम्भावजनितत्वस्फोरणपुरस्सरं शिवस्य परब्रह्मत्वमनेनाविष्क्रियत इति परस्य दुर्बुद्धिमनुसृत्य कथंचिदिदं अनुगीता - प्रकरणं योजितं स्यात्, तर्हि तत्समाप्त्यनन्तरभाविस्वकीयस्तुल्यभिप्रायस्य कुरुपितामहोपदेशेन सुघटितत्वोक्तिरसङ्गता स्यात् । तेजो हि सर्वकारणत्व सर्वान्तर्यामित्वमुमुक्षूपास्यत्वादिभिर्ब्रह्मलिङ्गेः परं ब्रह्मेति भगवानेव सहस्रकृत्वः समावेदितः । तानि च वचनानि महाभारतपरिचयशालिनां सुगमानीति विस्तरभयात् न लिख्यन्ते ।

यदपि भगवतः पुनः पुनः स्वयं योगरूढत्वोपन्यासेनान्यविषयत्वकोटिरुत्कटत्वेऽपि तत्तथा भगवन्मुखादेव विविष्यावगन्तव्यम् । तदर्थं तदा विविच्य प्रष्टुमवसरो नासीत् । तदिदानीं प्रष्टव्यं तस्य चागृहीतत्वोद्घाटनान्वामुपदेशायोग्यत्वधीः स्यादित्याशयवताऽर्जुनेन विग्रहस्य युद्धारम्भव्यग्रेण चेतसा गृहीत्वा विस्मृतं गीतार्थजातं पुनरुपदेष्टव्यमिति प्रश्नः कृत इति - तदप्यतितुच्छम् - योगेश्वर इत्याद्युक्तेर्योगाराध्यत्वपरत्वादन्यविषयकत्वकोटयनुयात् । तदनुदयो वा महावाक्यस्वारस्यानुसारेण भगवद्विषयकत्वको टेरुत्कटत्वस्यैव वक्तुं युक्तत्वेनान्यविषयकत्वकोट्यौत्कट्यस्यासिद्धेश्च । अष्टादशाध्यायीप्रतिपाद्यानर्थान् पृष्टवतोऽर्जुनस्य कृष्णविषयकत्वान्यविषयकत्वानवसरप्रस्त इत्युक्तेरसम्भवग्रस्तत्वात् । अगृहीतत्वोक्तावपि श्रद्धांवैकल्यबुद्ध्या उपदेशायोग्यत्वचियस्तुल्यत्वात् । एतेन

इत्थं झनुगीतास्वर्जुनप्रश्नस्योत्तरारम्भः श्रावितः ।

स त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।

धर्मस्वरूपिणं पार्थ सर्वलोकांच शाश्वतान् ॥

161

बुद्ध्या यं न गृह्णीयास्तन्मे सुमहदप्रियम् । नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥

स हि धर्मस्सुपर्याप्तो भावस्यान्यविषयकत्वं गलहस्तितम् । श्रीकृष्णप्रतिपादितार्थस्य नारदाद्युक्तिवचनद्वयपर्यालोचनो नायं कुर्वीत महत्सिद्धान्तैक्यत्यावगमात् । कृष्णपारम्यस्यैव तत्सिद्धान्तत्वं तु महाभारतपरिचयशालिनां सुगमम् ।

श्रीकृष्णेनागृहीतत्वकथनादयग्रहणेन वार्जुनस्य निर्णीयत इत्यत्यन्ताऽनुपपन्नम् । उपक्रमगतप्रश्नस्य विस्तृतत्वोक्त्यनुसारेणोपसंहारगतागृहीतत्वोक्तेरविस्मरणहेतुप्रहण।भावपरत्वस्य वक्तुं युक्तत्वात् । सर्वथा ग्रहणाभावसंशयस्यैवानुदयात् निश्चयरूपग्रहणाभावपरत्वस्य त्वयाऽपि वाच्यत्वेनागृहीतत्वोक्त्या स्वारस्यं त्वत्पक्षेऽपि तुल्यत्वात् । उपदेशायोग्यत्वेऽपि भवेदिति मील्या सीदन्तमित्युक्त्वा पुनः प्रश्नावसरायं नष्टमित्याहेत्यप्यत्यन्तासम्बद्धम् । ‘विदितं ते महाबाहो ’ इत्यनेन माहात्म्यादिभ्यः रूपयोर्विदितत्वोक्त्यनन्तरमर्थान्तरप्रतिपादकत्वेनायं कतुशब्दघटितत्वेन ।

’ यत्तु तद्भवता प्रोक्तमिति विदितामिनपरामर्शपूर्वकं विस्तृतत्वकथनेन विदितत्व विस्तृतत्वयोर्निर्विषयकत्वात् । न च विस्तृतत्वरूपार्थान्तरप्रतिपादनमाखात् तु शब्दस्योपपन्नत्वे नार्थान्तरोद्देशोऽपि न ततोऽवसीयत इति वाच्यम् । माहात्म्यदिव्यरूपे उद्दिश्ये । विदितत्वोक्त्यनन्तरं ’ यत्तु तद्भवतां प्रोक्तमित्युक्त्या अर्थान्तरोद्देशप्रतीतेः । माहात्म्यादिरूपविदितत्वोक्यनन्तरं किन्तु नष्टमित्युक्ता वेव हि त्वदमिलषितसिद्धिः । अतो विदितव्यतिरिक्तविषयिन्येव विस्तृतत्वोक्त्या रीत्या गृहीतत्वोक्तेरपि तथात्वात् । भगवत्पारम्यविषयिके संशयोऽर्जुनस्य दूरापास्त इत्यनुगीतावतरणस्य तत्संशये, निराकरणप्रयोजनप्रवृत्तिकथनमुन्मत्तप्रलपिततुल्यमिति दिक् ॥

21८

अयमत्र निष्कर्षः

162

’ तमेत्र चाचं पुरुषं प्रपद्ये यतः वृत्तिः प्रसृता पुराणी’ इत्यल तुल्यबलतया पदविभागेन वाक्यार्थः । वर्णानामुत्तमपुरुषत्वात् तथा

तथात्वेन वा ततः परं तत्परिमार्गितव्यमित्युपदिष्टपरिमार्गणकारणविशेषोपदेशपरत्वेन, प्रपद्य इंति परिमार्गितव्यमित्यर्थकत्वेनास्य कृष्णभजनीयदेवतान्तरसाधकत्वाभावात् । ‘यो लोकत्रयमाविश्य बिभर्तर्त्यव्यय ईश्वर:’ इत्यत्न प्रभुमात्रसाधारणेश्वर शब्द घटितस्य

’ यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ '

इत्युक्तिभङग्या प्रसिद्धपुरुषोत्तमशब्दार्थकथनपरतयाऽवसीयमानत्वेन विधेयपुरुषोत्तमत्वस्यान्यगामित्वशङ्कां निराकुर्वता भगवदन्तर्यामिणः क्षराऽक्षरातीतत्वेन भगवतः पुरुषोत्तमत्वविधाने सङ्गतिप्रसङ्गात् । क्षराक्षरावित्यस्य तथात्वं दूरीकुर्वता सङ्गत्यर्थं भगवत्परत्वं वक्तुं युक्तमिति आद्यमिति विशेषणेन तत्परामर्शात् प्रतियुक्तेः गुञ्जापुञ्जभ्रमेण वह्निस्पर्शतुल्यत्वात् ‘ईश्वरः सर्वभूतानामित्यस्यापि साधारणशब्दघटितस्य ’ करिष्ये प्रतिजाने च ’ ‘रामो द्विर्नामिभाषते ’ इत्यादिवदुपपन्नप्रथमपुरुषनिर्देशस्य ’ भक्त्या मामभिजानाति ’ ’ मन्मना भवेति पूर्वोत्तरसन्देशेन ‘सर्वस्य चाहं हृदि सन्निविष्ट ’ इति तदर्थस्य भगवन्निष्टत्वावगमेन भगवत्परतया ’ यस्मिन् गता न निवर्तन्ति भूय’ इत्यनेन तत्परामर्श प्रतियुक्तेरपि परप्रतिकूलत्वात् ।

‘आहुस्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा ।

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे || '

इत्यत्र गीताप्रतिपादित परभावस्य ।

मुनीनां भावितात्मनाम् ।

स वासुदेवं कथयतां समवाये पुरातनम् ॥ रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः । व्यासनारदयोश्चैव श्रुतं श्रुतिमतां वर ॥

163

श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः । नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ असितो देवलस्ताता वाल्मीकोयं महायशाः । मार्कण्डेयश्च गोविन्दं कथयन्त्यद्भुतं महत् ॥ केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः । पुरुषः सर्वविधैव श्रूयते बहुधा विभुः ॥ '

मीष्मपर्वशान्तिपर्वारि गतवचनावगम्यमानभगवत्पारम्यत्वादि शिखामणि कृष्णद्वैपायनप्रभृतिसिद्धान्तैः प्रतिपादनान्महावाक्यसारस्य विरुद्धकृष्णान्यपरत्वशङ्काया दूरोत्सारितत्वात् न भगवद्गीतासु कृष्णनिष्कर्षप्रतिपत्तिः । तरीत्या गीतोपदिष्टपरभावस्याऽन्यविषयकत्वशङ्काऽनुदयादन्यस्य तदुभये वा या ’ तच्च ते रूपमैश्वरमि’ति कृष्णप्रदर्शितरूपेणेश्वरत्वं वर्णयतोऽर्जुनस्य परत्वनिर्णयसिद्धान्तमर्यादया च विदितम् ।

’ विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते । माहात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम् ॥ यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यप्रचेतसः ॥ '

वाक्यशैल्यनुरोधेन प्रश्नोत्तरयोः परतत्वव्यतिरिक्तपरत्वात्रसायात् । पारम्यकशङ्कानिराकरणप्रयोजकत्वेन योगयुक्तत्वोक्तेः । स्वार्थतात्पर्यकत्वस्य प्रेतुमशक्यत्वात् । अर्जुनस्य तादृशशङ्कोदये तन्निराकरणस्य कर्तव्यत्वेपथासिद्धस्फुटतरवाक्यान्तरदर्शनप्रसङ्गात्, योगयुक्तत्वोक्तेः परतत्त्वनिर्धारण - ६ नारायणपरात्परेत्यनुगीतान्तस्यार्जुनवचनविरोधप्रसङ्गात् । तत्र चेष्टा - चने ।

’ मन्ये त्वां राक्षसं क्रूरमथवा तामसात्मकम् ।

यस्मादिष्टं

….

….

धनञ्जय ||

नरनारायणौ देवौ कोऽन्यो द्वेष्टीह मानवः ||

164

इति भीष्मोक्तस्वभावविशेषस्य सर्वजनविदितत्वप्रसङ्गात् । योगयुक्तत्वश्रुतत्वयुक्तीनां श्रद्धाजननार्थं तेनार्थवादतया ऽवतारमर्यादानुसरणेन चोपपन्नत्वेनानुगीतास्वपि शिवपरत्वभगवन्निष्ठसाधनप्रत्याशावकाश इति ।

यच ’ नारायणोऽपि भगवान् देवकीतनयो हरिः ।

अर्जुनाय स्वयं साक्षाद्दत्तवानिदं मतम् ॥’

इति कौर्मोक्त्या गीताशास्त्रस्य शिवविषयत्वमत्रगम्यत इति, तदयुक्तम् एतद्वचनबलात् कूर्मपुराणे ईश्वरगीतायाः कृष्णविषयत्वं बोध्यत इति वैपरीत्यस्य वक्तुं सुशकत्वात् ।

यदपि ’ सर्वेषामेव भूतानामहं ब्रह्ममयो महान् ।

ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ नरकिन्नरयक्षानां गन्धर्वोरगरक्षसाम् ।

देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ '

तथा ’ अहं प्रजापतीनां च सर्वेषां नात्र संशयः ।

मम विष्णुरचिन्स्यात्मा स्वयम्भूरिति संस्मृतः ॥

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः । तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता ॥ देवदानवभूतानां पिशाचोरगरक्षसाम् । नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः || आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् ।

ततः परतरं नास्ति त्रिषु लोकेषु भारत || '

इत्यनुगीतावचनानि विष्णोः परब्रह्मत्वं प्रतिपादयितुं शक्नुवन्ति । तत्र ब्रह्ममय इति मयटो विष्णोः ब्रह्मसृज्यत्वस्यैव प्रतिपादनान्मयटस्तत्र नैरर्थक्यायोगेनार्थान्तरासम्भवेन च चतुर्मुखविषयब्रह्मसृज्यत्व परब्रह्ममयशब्दप्रायपाठेन ‘कुतश्चाहं कुतश्च त्वमिति समारोपितगुरुशिष्यभावकृष्णतदीयमनस्संवादरूपेतिहासोपक्रमगतशिष्य-

165

प्रश्नानुसारेण विकारार्थकत्वावश्यम्भावात् । तस्मात् तदनुगीतासु नारायणा-

दन्यदेव ब्रह्म प्रतिपाद्यत इति

तदप्यविचारितरमणीयम् -

ईश्वरं तु विजानीमः स विभुः स प्रजापतिः । नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् ॥

देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ '

इत्युत्तरवाक्यावैयर्थ्याय ब्रह्ममय इति मयटः सार्थत्वाश्रयणात् सर्वेषामेत्र भूताना - मित्येतत्प्रतिपाद्य चतुर्मुखसर्वैश्वर्यापेक्षयोत्कृष्टैश्क्यमहिष्णुत्वं ’ स राजाधिराजः सर्वेषां विष्णुरित्येतत्प्रतिपाद्य विश्वैश्वर्यस्य वारयितुं प्रवृत्तावेत्र हीश्वरत्वं विजानीमहे इत्यस्य सार्थक्यम् । तथा ’ आदिर्विश्वस्य जगत’ इत्यनेन चारितार्थे विश्वस्येत्युक्तिरसङ्कोचेन कृत्खजगत्कारणत्वं प्रतिपादयति । तच्च ब्रह्मलक्षणमिति ’ यतो वा इमानि भूतानि ’ ’ जन्माद्यस्य यतः

’ इति श्रुति सूत्राभ्यामवगतम् । तथा चैतस्य जगत्कारणस्य विष्णुनिष्ठत्वप्रतिपादनात्, ‘परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्य’ इत्यधिकरणे जगत्कारणातिरिक्तत्वनिषेधके वर्णितया रीत्या ’ ततः परतरं नास्तीति तत्त्वान्तरनिषेधाच्च । ब्रह्ममय इत्यत्र स्वार्थप्रत्ययात्तत्वमङ्गीकर्तुं युक्तम् ; उक्तप्रमाणबलेन चतुर्मुखविषयक ब्रह्ममयशब्दवैरूप्यमपि न दोषः । ’ कुताश्चाहं कुतश्च त्वं’ इत्यत्न त्वं कृत इति प्रश्नानुसारेण न विकारार्थमङ्गीकर्तुं युज्यते । तस्य केवलमर्थवादरूपत्वेन स्वार्थतात्पर्याभावात् । न हि मनसः प्रष्टृत्वं सम्भवति ।

यदपि ‘वृष्णीनां वासुदेवोऽस्मीति कृष्णस्य नारदादिव द्विभूतिषु परिगणनात् लिङ्गात् गीताक्चनानि ब्रह्माहम्भावभावनाप्रयुक्तानीति - तदप्यनुपपन्नम् -कृष्णस्य स्वतः परब्रह्मत्वेऽप्यवतारदशामादाय विभूत्यन्तर्गतत्वसम्भवात् । यदपि ’ मयैव निहताः पूर्वमेवे ‘ति कृष्णेन स्वनिहतत्वेनोक्तानामेव रिपूणां,

’ निहतास्तेन पूर्व च हतवानसि वै रिपून् ।

अप्रमेयप्रभावं तं देवदेवमुमापतिम् ॥’

166

इति शिवनिहतत्वोक्त्या शिवपर्यन्ततात्पर्यमिति तदति तुच्छम् – रुद्रस्यापि संहाराधिकृतत्वेन तन्निहतत्वेऽपि भगवन्निहतत्वसम्भवेन तत्प्रतिक्षेपकस्य कर्तुमशक्यत्वात् ।

यदपि ’ अनाश्रयाच्छ्रेयो नास्ति मुखमाश्रयमाश्रयेत्’ इति विधेः स्वाश्रयपर्यवसायित्वं सूचयितुं,

’ रुद्रं समाश्रिता देवाः रुद्रो ब्रह्माणमाश्रितः ।

ब्रह्मा मामाश्रितो नित्यं नाहं किश्चिदुपाश्रितः || '

.

इत्ययमर्थवाद इति - तत्सत्यमेव – अत एव भगवद्भजनीयाभावसिद्धिः ’ नहि मिक्षुको मिक्षुकान्तरं याचते सत्यन्यस्मिन्नमिक्षुके’ इति न्यायेन खाश्रयणी - यान्तरतो मुख्याश्रयत्वेनानन्याश्रयस्यैव मुख्याश्रयतया । स च मुख्यः को वेत्याकाङ्क्षायां ’ सन्दिग्धे तु वाक्यशेषादिति न्यायेन ’ नाहं किश्चिदुपाश्रित ’ इति वाक्यशेषे भगवतो ऽनन्याश्रयत्वोपपादनेन भगवतो मुख्याश्रयत्वसिद्धेः ।

ननु न ब्रूमः ’ मुख्याश्रयमाश्रयेदित्यस्य न भगवति नियमो ऽभिमत उतार्थतथा त्वसाधकत्वनियमाभावः । नाय: प्रमाणाभावात् । अन्यथा शैवपुराणानां शिवभक्त्यमिवृद्धिजननार्थत्वेनार्थतथात्वाभावप्रसङ्गात् । वैराग्यजननार्थत्वेन नरकादिप्रतिपादकशास्त्राणामर्थतयात्वाभावप्रसङ्गात् । न द्वितीय:,

मतिमन्थानमाविध्य येनासौ श्रुतिसागरात् । जगद्धिताय जनितो महाभारतचन्द्रमाः ॥

….

बिभेति गगनाच्छास्त्रं नर …… 1 भारतश्शास्त्रसारोऽयं मत्तः काव्यात्मना कृतः ॥

व्यासवाक्यजलौघेन कुतर्कतरुहारिणा ।

वेदशैलावतीर्णेन निरतस्का मही कृता ॥ '

इत्यादिशैवभविष्यमार्कण्डेयपुराणप्रमाणतत्त्वेन परिग्रहस्यैव तन्नियमसाधकत्वात्

तदभावस्य वक्तुमशक्यत्वम् । न च,

167

’ मद्भक्तस्सततं तीर्थं शङ्करस्य विशेषतः '

स्वभक्तयपेक्षया शिवभक्तस्य विष्णुभक्तान् प्रत्यधिका तीर्थत्वोक्त्या राधिक्यं प्रतीयत इति तद्विरोधादौपसंहारिकवचनमन्यथा नेयमिति शिवभजनस्याधिक्योक्तेः शिवस्य भगवद्भजनीयत्व साधकत्वाभावात् ।

’ मद्भक्तभक्तेषु प्रीतिरप्यधिका भवेत् ।

तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥ '

वैष्णवधर्मशास्त्रे उक्तत्वेन भगवद्भक्तानामपि भगवद्भजनीयत्वप्रसङ्गात् ।

’ इदं मे मानुषं जन्म कृतमात्मनि मायया । धर्मसंस्थापनार्थाय दुष्टानां शासनाय च ॥ मानुषं भावमापन्नं ये मां गृह्णन्त्यवज्ञया । संसरन्ति हि ते मूढास्तिर्यग्योनावनेकशः ॥ ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा । मद्भक्तास्तान् यथा युक्तं मत्समीपं नयाम्यहम् ॥ मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः । मद्भक्तानां तु मानुष्यं सफलं जन्म पाण्डव | अपि पापेष्वमिरता मद्भक्ताः पाण्डुनन्दन । मुच्यन्ते पातकैस्सर्वैः पद्मपत्रमिवाम्भसा ॥ जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् । भक्तिरुत्पद्यते तात मनुष्याणां न संशयः ॥ यश्च रूपं परं गुह्यं कूटस्थमचलं ध्रुवम् । न दृश्यते तथा देवैर्मद्भक्तैर्दृश्यते यथा ॥ अपरं यश्च मे रूपं प्रादुर्भावेषु दृश्यते । तदर्चयन्ति सर्वार्थे सर्वभूतानि पाण्डव ||

168

कल्पकोटिसहस्रेषु व्यतीतेष्वागतेषु च । दर्शयामीह यद्रूपं तच्च पश्यन्ति मे सुराः ॥ स्थित्युत्पत्तिव्ययकरं यो मां ज्ञात्वा प्रपद्यते । अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च ॥ अहमादिहिं देवानां सृष्टा ब्रह्मादयो मया ।

प्रकृतिं स्वामवष्टभ्य जगत्सर्व सृजाम्यहम् ॥’

इत्यादि ’ संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः ।

शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर ।।

न च मानं विजानन्ति मायया मोहितानि मे ।

….

चैवान्धकारस्य मार्गितस्य नित्यशः ॥ प्रशान्तस्यैव दीपस्य गतिर्नैवोपलभ्यते । न तदस्तित्व विद्राजन् यत्राहं न प्रतिष्ठितः ॥ न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम् । यावन्मात्रं भवेद्भूतं स्थूलसूक्ष्ममिदं जगत् ॥ जीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितः । किं चात्र बहुनोक्तेन सत्यमेतद्रवीमि ते 11 यद्भूतं यदूभविष्यञ्च तत्सर्वमहमेव तु । मया सृष्टानि भूतानि मन्मयानि च भारत || मामेत्र न विजानन्ति मायया मोहितानि मे । एवं सर्व जगदिदं सदेवासुरमानुषम् ॥

मत्तः प्रभविता राजन् मय्येव प्रविलीयते ॥

इत्य-तपरमोपक्रमगतभगवदुत्कर्षप्रतिपादकवचनविरोधापतेः । न चात्र तथाभाव-

शङ्कोन्मेषमर्हति । वैष्णवधर्मान् पृष्टवन्तं युधिष्ठिरं प्रति

इष्टस्त्वमसि मत्यर्थं प्रपन्नश्चासि मां सदा ।

पारमार्थमपि श्रूयात् किं पुनर्धर्मसंहिताम् ॥’

169

वक्ष्यमाणकृत्स्नधर्माराध्यत्वं स्वस्य ज्ञापयितुं स्वकीयं सर्वोत्कर्षमुपदेष्टुं नि भगवता वक्ष्यमाणस्य परमरहस्यार्थस्योक्तत्वात् । एवमुपक्रमे

‘ऋग्वेदेनैव होता व यजुषाऽध्वर्युरेव च ।

सामवेदेन चोद्गाता पुण्येनामिष्टुवन्ति माम् ॥ अथर्वशिरसा चैव नित्यमाचर्वणो द्विजाः । स्तुवन्ति सततं ये मां तेऽपि भागवताः स्मृताः ॥ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं किंचिदुपाश्रितः ||

ममाश्रयो न कश्चित्तु सर्वेषामाश्रयोह्यहम् ॥’

|संहारे च प्रतिपादितस्य भगवदुत्कर्षस्य सम्भाव्याऽन्यथासिद्धिकेन वचन -

न कथं बाषितार्थत्व वर्णनात् न्यायं विदोऽनुमन्यन्ते !

किं च भगवद्भक्तव्यतिरिक्ततीर्थान्तरापेक्षया शिवभक्तस्याधिक्रतीर्थत्वर्येणोपपन्नत्वात् न भगवद्भक्तापेक्षया शिवभक्तस्याऽधिकतीर्थत्वप्रतिपादनायेदं

समर्थम् ।

‘ब्रह्माणं शितिकण्ठं च याश्वान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥’

शिवभजनस्याप्रबुद्धविषयत्वस्य मोक्षधर्मेषु नारायणीये कथनात् । अत्रापि

धर्मशास्त्रे -

22

'

मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः । मद्भक्तानां तु मानुष्यं सफलं जन्म पाण्डव ॥ अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन । मुच्यन्ते पातकैस्सर्वैः पद्मपत्रमिवाम्भसा || जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् । भक्तिरुत्पद्यते तात मनुष्याणां न संशयः ॥

170

यच रूपं परं गुह्यं कूटस्थमचलं धुत्रम् । न दृश्यते तथा देवैर्मद्भक्तैदृश्यते यथा ॥ मद्भक्तान् शूद्रसामान्यादवमन्यन्ति ये द्विजाः । नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः ॥

चण्डालमपि भक्तानां नावमन्येत बुद्धिमान् । अत्रमानात्पतन्त्येव रौरखे नरके नराः ॥

विद्याविनयसम्पन्ना ब्राह्मणा वेदपारगाः । मयि भक्ति न कुर्वन्ति चण्डालसदृशा हि ते ॥ वृथा दत्तं वृथा तप्तं वृथै वेष्टं वृथाद्भुतम् । वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः ॥

न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः । सर्ववर्णेषु ते शूद्रा ये भक्ता जनार्दने ॥ '

इत्यादिमध्यान्तवचनेषु भगवद्भक्तेर्दुर्लभत्वस्य भगवद्भक्तस्य देवदुर्दर्शतदीयपरमरहस्यरूपदर्शित्वस्य तद्भक्तावमाने प्रत्यवायस्य, तद्भक्तिवैधुर्य प्रत्यवायस्य च कथनेन स्वभक्तोत्कर्षे तात्पर्यातिरेकख्यापनाच्च । तस्मात्,

मद्भक्तिः सततं तीर्थं शङ्करस्य वा

भक्तो विशेषतस्तीर्थं

….

"

शङ्करस्य तु यो भक्तः सप्तजन्मान्तरं

….

….

तस्यैव तु प्रसादेन विष्णुभक्तः प्रजायते ॥ '

इत्यादिप्रमाणबलेन तद्भक्तेर्भगवद्भक्त्युत्पादकत्वात् साक्षान्मुक्तिसाधनीभूतभगवद्भक्लाभाननतोऽपि साधनसाधनीभूतशङ्करभक्तिमत्वादित्याभिप्रायेण भगत्र-

भक्तिरूपतीर्थापेक्षयाऽनुकल्पभूततीर्थकथनपरमिदं वचनम् ।

अपि च तद्भक्तस्सततं तीर्थं शङ्करभक्तस्तु विशेषतः । कालविशेषे भगवदपेक्षया तत्परत्वादिज्ञानवैधुर्ये इति तदा शङ्करस्य विशेषत इति तद्गत-

171

विशेषो भगवद्भक्तातिशयानुमितौ हेतुरित्यर्थः । यतस्तस्य भगवद्भक्त्यतिशयनिबन्धनोऽतिशय इति चाभिप्रायवर्णनसम्भवात् कथमस्य भगवद्भक्तापेक्षया शिवभक्तस्याधिक्यकथने निरर्गलं सामर्थ्यम् ।

एतेन वैष्णवैर्धर्मैस्सह शैवधर्माणां तुल्यत्वकीर्तनात् भगवता शिवस्य साम्यमित्यपि निरस्तम् ।

मम वा शङ्करस्यापि ब्रह्मणो वा युधिष्ठिर । अथवा ब्राह्मणानां चैतद्भक्ता नराधमाः || वृथा जन्मान्यथा तेषां पापिनां विद्धि पाण्डव ।

जीवितं तु वृथा येषां तच्छृणुष्व युधिष्ठिर || ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः । ब्राह्मणान्यान्महीदेवान् वृथा जीवन्ति ते नराः ॥ मम रुद्रस्य सवितु: त्रिदशानां तथैव च । प्रीतये वृद्धिराकेन्द्र भूमिर्दत्ता द्विजाय वै एवमग्निं तु सः कुर्यात् नित्यमेवार्चयेत्तु माम् । तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर || तेनाहं शङ्करश्चैव पितरो नयस्तथा ।

यास्यामः परमां प्रीतिं नाम कार्या विचारणा || '

इत्यादिषु चतुर्मुखादिनापि तथा कीर्तनेन चतुर्मुखब्राह्मणादित्यादिसाम्यस्यापि प्रसङ्गात् । ’ नाहं किंचिदुपाश्रितः’ इति वचनविरोधात् ’ तमेव चाद्यं पुरुषं प्रपद्ये ’ इति नोत्तमपुरुषत्ववर्णनं युक्तमिति भगवत एवोत्तमपुरुषत्ववर्णनं साधीयः ।

यदपि स परः सर्वशक्तीनां ब्राह्मणः समनन्तर '

इति वैष्णवपुराणवचनं विष्णोर्ब्रह्मातिरिक्तत्वं प्रतिपादयतीति तदप्यनुपपन्नम्-

’ समस्त हेयर हितं विष्ण्वाख्यं परमं पदम् ।

तद्ब्रह्म परमं योगी यतो नाऽऽर्तते पुनः ॥172

इत्यनन्तरोपक्रमविरोधात् । प्रपञ्चयिष्यते चायमर्थः त्रिमूर्त्यत्तीर्णशिवकारणत्वभङ्ग इति तत्रैवानुसन्धेयः ।

यदपि ’ स पर:’ इत्यादिवचनविरोधाय प्रदेशान्तरे परभाववर्णनं ब्रह्मामिव्यक्तिविशेषकृतमिति कल्प्यते तदप्यसम्बद्धप्रलपितम् । बहुवाक्यानुसारेणैकवाक्यान्यथाकरणस्यैव न्यायवित्सम्मतत्वेनैकवचनानुसारेण बहूनां वचनानां अस्वारस्येनास्य मूढकृत्यत्वात् ।

यदपि ’ आपो वा इदमग्रे सलिलमासीत् । तस्मिन् प्रजापतिर्वायुर्भूत्वा चलादित्यादिषु प्रजापतिशब्दवाच्यस्य वराहभावापत्तेः श्रवणात् वराहरूपस्य ’ उद्धृतासि वराहेण कृष्णेन शतबाहुना’ इति वैष्णवत्वावगमात् विष्णुचतुर्मुखयोः अमेदप्रतीतेः चतुर्मुखे जीवत्वस्याऽसन्दिग्धत्वात् विष्णोर्जीवत्वमिति - तदप्पसारम् - तथैव वराहभावापत्त्या तत्रत्यप्रजापतिशब्दस्य भगव-

त्परत्वाभ्युपगमेन तच्छ्रुत्यर्थवर्णनसम्भवे

’ प्रजापतिं च रुद्रं चाप्यहमेव सृजामि वै ।

तौ तु मां नैव जानीतो मम माया विमोहितौ ॥

इत्यादिषु भगवन्मायाविमोहितत्वेनोक्त चतुर्मुखामेदपर्यत्रसायित्वकल्पनानुन्मेषात् । आश्रावयेति चतुरक्षरम्, अस्तु श्रौषडिति चतुरक्षरम्, यजेति द्वयक्षरम्, ये यजामद्द इति पश्चाक्षरम्, द्वयक्षरो वषट्कार, एष वै सप्तदशः प्रजापतिरि (तै. सं. 1 - 8 - 11 - 5 ) त्यस्यां श्रुतौ ।

‘चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च ।

हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु ॥ '

6

इति भारतवचनोपबृंहितायां श्यामा एकरूपाभवन्ति, एवमिव हि प्रजापतिस्समृद्ध्यै ’ इति श्रुतौ प्राजापत्यपशुषु श्यामत्वरूपगुणविधायिन्यां ’ एकरूपा भवन्ती’ त्युक्त्या भगवत्परतयाऽवगम्यमानायां ’ सप्तदश प्राजापत्यान् पशूनालभते’ इति श्रुतौ च प्रयुक्तश्चायं शब्दो भगवति ।

'

173

’ तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः '

इति मनुवचनाच्च । विष्णोश्चतुर्मुखान्नित्वे प्रमाणत्वेनोपन्यासमपि न युक्तम् । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्धभौ’ इति स्वयमेव भूतरूपेणाऽऽविर्भावोक्तिवत् ब्रह्मशरीरकत्वेनाऽविर्भाववर्णनेन ततो ब्रह्माभेदासिद्धेः ।

अन्यथा,

6

यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।

तद्विसृष्टस्स पुरुषो लोके ब्रह्मेति कीर्तितः ॥ '

इति कारणत्वेन प्रस्तुतनारायणजन्यत्वोक्तिविरोधात् । तेन ’ वराहरूपमुत्सृज्य स्वयं ब्रह्माऽभवत् हरिः’ इति सूतसंहितावचनमपि व्याख्यातम् ।

यदपि ’ एकार्णवे तु तैलोक्ये’ इति वचनेनामेदोऽवगम्यत इति - तदप्यनुपपन्नम् – चतुर्मुखे भोगि शय्यागतत्ववचनस्य भगवतो अपच्छयनस्य भोगिशय्याद्वारकत्वपरत्वात्, कुशस्थाने निवृत्युक्तेः प्रासाद खट्टापर्यङ्कादि - द्वारसहत्ववत् पद्मद्वारकत्वेनोपपन्नत्वात् । नारायणात्मक इत्युक्तेर्नारायणात्मा यस्येति नारायणान्तर्यामिकत्वपरत्वात् । भगवतश्चतुर्मुखाऽमेदप्रमाणत्वासम्भवात् । परशुरामादिवत् ब्रह्मणोऽपि भगवदंशावतारत्वेन तत्कृतममेदमादायैव मुक्तेरुपपन्नत्वेन भगवतो जीवत्वासाधनासम्भवाच्च ।

यद्वा फौर्मे

’ ततोऽक्तीर्य विश्वात्मा देहमाविश्य चक्रिणः । सुष्वाप योगशयने एकीभूयाथ चक्रिणा ॥ '

इति चतुर्मुखस्य भगवच्छरीरानुप्रवेशोक्त्या नारायणान्तर्गतत्वेन भोगिशय्यागतत्वोक्तिः नारायणात्मकत्वोक्तिश्चोपपद्येत इति नैतद्वचनबलादभेदः ।

यत्तु ’ ततोक्तीर्येति वचने देहान्तरोपाधिकभेदमपहाय विष्णुनैकीभूय समुद्रे शयनमुक्तमित्यस्यैव वचनस्य विष्णोश्चतुर्मुखाभिन्नत्वे प्रामाण्यमिति

तत्तुच्छम्—’

174

पूर्णे युगसहस्त्रे तु कल्पो निश्शेष उच्यते । तत्र भूतानि सर्वाणि दण्डान्यादित्यरश्मिभिः ||

ब्रह्माणमप्रतः कृत्वा सहादित्यगणैः प्रभोः ।

प्रविशन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् ॥

,

इति हरिवंशे आदित्यादीनां प्रवेशोक्तित्रदस्यापि वचनस्य चतुर्मुखभगवच्छरीरानुप्रवेशमालप्रतिपादकत्वेन तदैक्यप्रतिपादकत्वाभावात् । एकशरीरानुप्रवेशमात्रेणैकी भूयेत्युक्तेरुपपन्नत्वात् । अन्यथैक्यस्य देहानुप्रवेशपूर्वकत्वोक्तिर्वैयर्थ्यात् ।

अयोध्येत देहान्तरोपाधिकमेदनिवृत्तिप्रतिपादकत्वेन सार्थक्यमिति, तदप्यमेदस्यैकदेहप्रवेशनिबन्धनत्वासिध्या न युक्तम् । अद्वैतवादिभिरप्येकस्मिन् देहे जीवात्मपरमात्मनोरवस्थानस्याभ्युपगतत्वात् । तस्मात् न विष्णोर्जीवत्वसिद्धिरिति दिक् ।

स्यादेतत् ’ विष्णुर्वा अकामयत । पुण्यं श्लोकं शृण्वीय न मा पापि कीर्तिरागच्छेदिति । स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरत्रपत् ’ इत्यादिवाक्ये विष्णोरपि पापसम्बन्धः श्रूयत इति कथं तस्य परब्रह्मत्त्रम् । न च प्रकृतकर्मविधिशेषत्वेन प्राशस्त्यमात्रपरस्यनार्थतथात्वमिति वाच्यम् । ‘अनपहतपाप्मा वा अह मस्मिनामचेही ’ त्यस्यापि ’ तस्मात्पुत्रस्य जातस्य नाम कुर्यादि ति विधिशेषत्वेनार्थतथात्वं नास्तीति वक्तुं शक्यत्वात् । न ’ चाऽजायमान’ इति विष्णोः कर्मकृतजननराहित्योक्त्या कर्मसम्बन्धराहित्यमवगम्यत इति वाच्यम् । अजात इत्येव कश्चित् भीरुः प्रपद्ये रुद्रपते दक्षिणमुखं तेन मां पाही’ति रुद्रस्य जननराहित्यप्रतिपादनेन तत्त्रापि कर्मसम्बन्धाभावतौल्यादिति चेत्

6

उच्यते - अपहतपाप्मा दिव्यो देव एको नारायण’ इत्याहत्य पापसम्बन्धरहितस्यानन्यशेषभूतेन वाक्येन प्रतिपादनात् तद्विरोधेनास्य वाक्यस्य कर्मविधिशेषभूतस्य स्वार्थतात्पर्याभावात् । अनपहतपाप्मा वा अहमस्मीति वाक्यस्य तु अष्टमूर्तित्राह्मणगतत्वेन रुद्रस्वरूपप्रतिपादन तात्पर्यकत्वादाहत्य पापसम्बन्धराहित्य प्रतिपादकवाक्यविरोधासिध्या च नैतद्वाक्यतुल्य-

175

योगक्षेमत्वम् । तस्मात् पुत्रस्य जातस्य नाम कुर्यात् इति दर्शपूर्णमासप्रकरणगत मलवद्वासो व्रतविधानात्मक प्रकरणगतविधिरूपत्वेनाप्युपपन्नम् । यदपि अजात इत्येवेति वाक्ये जननाभावप्रतिपादकमिति तन्न मीरुः प्रपश्चितत्र्य इति प्रतिपाद्यमानस्य प्रपदनस्य अजातस्यामित्यर्यकतया रुद्रजननाभावप्रतिपादकत्वासिद्धेः । फलाकाङ्क्षाया उत्कटत्वेन तत्समर्पकत्वस्यैवोचितत्वात् । कश्चित् भीरुः प्रपद्य इत्यनेन मलिन : स्नायादित्यत्र मालिन्यनिवृत्तिवत् भीरुत्वनिवृत्तेः फलतयाऽवगमेऽपि सैव किं रूपेति विशेषाकाङ्क्षाया उत्कटत्वेन तद्विषयसमर्पकत्वेनाऽजात इत्यस्य प्रकृतवाक्येऽन्वय उचितः । आकाङ्क्षौत्कट्याद्धि प्रथमं वाक्यगम्योऽपि फलविशेषसम्बन्धो भावनाया स्वीकृतः । न चैवमित्यस्याध्याहारापत्तिः दोषत्वपक्षे ऽप्यसिध्याहर्तव्यत्वात् विश्वजिदधिकरणन्यायेनाकाङ्क्षानुसारिणोऽप्याहारस्य प्रमाणिकत्वाच्च । अतः शिवकर्मवश्यत्वाभावस्य नानयाश्रुत्या सिद्धिः । भगवतस्तु कर्मवश्यत्वाभावे ’ अजायमानो बहुधा विजायते’ इत्यादिभिः प्रमाणैः सिध्यतीत्युपपादितमिति भगवत्कारणत्वा वेदकानां नायोग्यार्थत्वप्रसक्ति गन्धोऽपीति निष्कण्टकोऽयं

घण्टापथः ||

इति श्रीशठमर्षणकुलतिलकनि खिलवेदान्तविद्या निषद्याघितहृदयकमल-

श्रीताताचार्यनन्दनस्य हयवदन करुणाकटाक्षवीक्षालब्धपदवाक्यप्रमाणसारस्य श्रीमन्निगमशिखरगुरुचरणसरसीरुह चञ्चरीका यमाणमानसस्य श्रीवेङ्कटदेशिकपादसेवासमधिगत श्रीमच्छारीरकमीमांसाभाष्य-

हृदयस्य वेङ्कटाचार्यकृतिषु सिद्धान्तरत्नावल्यां

प्रथमः परिच्छेदः

श्रीवेङ्कटेशाय नमः

176

द्वितीयः परिच्छेदः

ओं नमो वासुदेवाय ।

समुचत्कस्तूरीतिलकसमुदञ्चन्मुखरुचि

किरीटप्रागल्भ्यस्फुरितमैश्वर्यविभवम् ।

रमापादाम्भोजद्वितयगतलाक्षारसलस-

हुजा मध्यं नित्यं मनसि कलये रङ्गनिलयम् ||

प्रपचितं भगवत्कारणत्वमसहमानस्य परस्य प्रक्रिया निराक्रियते

यदाह कश्चित् न विष्णोः परमकारणत्वं सिध्यति ; विष्णोरपि जनकीभूतस्य परमशिवस्य सर्वैश्वर्यमुमुक्षूपास्यत्वकारणत्वप्रतीतेः ।

तथा हिअथर्वशिस्वायां ’ किं तत् ध्यानं को वा ध्याता कश्च ध्येयः’ इत्युपक्रमस्य प्रश्नत्रयानुरोधेन ध्यानध्यातृनिरूपणानन्तरं ध्येयनिर्धारणार्थमिदमाम्नायते । ‘ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे सम्प्रसूयन्ते, सर्वाणि चेन्द्रियाणि हि सहभूतैर्न कारणं कारणानां ध्याता, कारणं तु ध्येयः । सर्वैश्वर्यसम्पन्नः सर्वेश्वरः, शम्भुराकाशमध्ये शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य समस्ता थर्वशिखेत्यन्तम् । अत्र योगरूढ्या परमशिवे वर्तमानस्येशानशब्दस्य ताच्छील्यार्थे चानशरशक्ततया योगेन स्वाभाविकैश्वर्यपरत्वात् रूढ्या परमशिववाच्यत्वाच्च । सर्वोत्कृष्टफलार्थिनि सर्वातिशाय्यैश्वर्यः परमशिवो ध्यातव्य इति भावेनेशानपदेन विशेष्य निर्देशः कृतः । प्रध्यायितव्यमित्याधिक्येन ध्यानाईत्वेन स्तुतिः । अतः किमन्येन तादृशाः नवमावधारणमबाघितार्थमित्याशङ्क्य तत् ध्वनयितुं देवमनुष्यादिरूपे सर्वप्रपचे ब्रह्मादीनां चतुर्णां प्रामुख्यात् तेषां मध्ये ऐश्वर्यपरिच्छेदसूचनाय सोपपत्तितया दीपकेन सहोक्त्या च भूतेन्द्रियादितौल्येन तेषामुत्पत्तिमत्वं दर्शितं ’ सर्वमिद - मि’त्यारम्य ’ सहभूतेरि’ त्यन्तेन । यत् ध्येयं परमशिवस्यापि स्यात् न स्यात् तस्यापि तद्वदेव ध्येयत्वमित्याशङ्क्योक्तम् कारणं कारणानां धाता ध्यातेति

….

177

प्रसूयत इति वचनविपरिणामेनानुषङ्गः । तथा चायमर्थः ब्रह्मादीनां प्रसूत्युक्तिसामर्थ्यात् तेषामर्थसिद्धम् । कारणं तद्रूपं कारणानां ब्रह्मविष्णुरुद्राणां मन्त्रोपनिषदुक्तानां कालादीनां वा धाता स्रष्टा ध्याता चादिसर्गसङ्कल्पकर्ता चैत्रम्भूतमीशानः कुतोऽपि न संप्रसूयत इति । यद्यप्यनेन ब्रह्मादीनां यदर्थलब्धं कारणं तन्न प्रसूयत इत्येतावदेव प्रतीयते, न त्वीशान इति ; तथापि तस्य ध्येयत्वं विधाय ब्रह्मादीनां ध्येयत्वव्यवच्छेदार्थं तेषु दोषोद्भावनानन्तरं तर्हि तद्दोषसम्भवे तस्यापि ध्येयत्वं न स्यादित्यवसरप्राप्तिशङ्काव्यवच्छेदाय तत्रैव दोषस्य प्रत्याख्यातव्यत्वात् । अन्यथान्तरालवाक्यं परित्यज्य विष्णुरुपांशुयष्टव्य इत्यादिवाक्यानां यागविधायकत्वखीकारे उपक्रमसङ्कीर्तित पुरोडाशद्वयनैरन्तर्यप्रयुक्तजामितादोषपरिहारालाभात् तल वाक्यच्छायाया इहाप्यसङ्गत्यापत्तेः । प्रागेव वाक्याप्रवृत्तिभङ्ग्या ईशाने ब्रह्मादिषूद्भावितदोषपरिहारे तात्पर्यावसायात् । ब्रह्मादीनामर्थलब्धे कारणे तत्परिहारसामर्थ्यादीशान एव ब्रह्मादीनां कारणमिति गमयतीति तत्रैव तस्य प्रसूत्यभाव उपन्यस्त इति निर्णीयते ।

किं च केवल्यौगिकत्वेनेह प्रयुक्तयोर्ध्यातृध्यानशब्दयोः कारणंत्वित्यत्र तु शब्दस्वारस्येन वाक्यान्तरारम्भप्रतीतेरिव वाक्ये ऽन्वितयोर्लिङ्गव्यवस्थाशून्यतया अन्यलिङ्गप्राहिणो खसमानाविकृतव्यवस्थितलिङ्गकारणशब्द लिङ्गप्राहित्वे नपुंसकलिङ्गापत्तेः । श्रुतपुल्लिङ्गनिर्वाहाय पुल्लिङ्गविशेषापेक्षायामाकाङ्क्षितार्थसङ्घटनानुकूलसनिविश्रुतशब्दानुषङ्गे सम्भवत्यश्रुतशब्दान्तराध्याहार योगादीशान शब्दानुषङ्गस्यावश्यकत्वेन शिवस्यैव सामर्थ्यसिद्धब्रह्मादिकारणत्वस्य असिद्धवत्कारेण तत्र प्रसूत्यभाव उपन्यस्त इति निर्णीयते । अत एवानन्तरवाक्ये कारणमित्यस्य शम्भुपदसामानाधिकरण्यं दृश्यते । तत्र चाकाशमध्य इत्युपासनस्थानकथनं परमाकाशरूपपरशिवलोकाभिप्रायः । तेन हृदयकमलर विनिम्बादिषु यत्र यत्न शिवस्य ध्यानं तत्र सर्वत्रापि ज्योतिर्मयं कैलासं विभाव्य तन्मध्यवर्तित्वेन शिवो ध्येय इति विहितं भवति । सर्वेश्वर इति शिवनामत्वेन प्रयोगः

23

178

ओङ्कारं सर्वेश्वरं द्वादशान्त’ इति तापनीयप्रयोगेण पुराणप्रसिद्ध्या च तन्नामत्वावसायात् । न तु सर्वैश्वर्यपरत्वेन प्राचीनविशेषणेन पौनरुक्त्यापत्तेः । यद्वा यौगिकत्वे पूर्वपदेन रूढत्वे उत्तरपदेन योगरूढिमत्वे पदद्वयेन पौनरुक्त्यापत्तेः । तत्स्ववाच्यत्वं लक्षयति रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानीत्यत्र द्वितीयकमलपदमिव कमलगुणम्, ततश्च शम्भुर्न केवलं प्रसूतिरहितब्रह्मादिकारणत्वादपरिच्छिन्नैश्वर्यः । अपित्वनन्यसाधारणसर्वेश्वर शब्दवाच्यत्वादपीति सर्वेश्वर श्वेत्यस्यामिप्राय इति सोपपत्तिकः सर्वैश्वर्यानुवादः । एवमुक्तिभङ्गषा ब्रह्मादीन् परित्यज्य ’ शिव एवध्येय’ इति दर्शितं भवति । अमुमेवार्थमादरार्थ कण्ठोक्त्या स्फुटयति श्रुतिः ’ शिव एको ध्येय’ इत्यादिना । तस्मादथर्वशिखानुसारात् शिवस्यैव मुमुक्षुध्येयत्व सर्वेश्वरत्वकारणत्वसिद्धिरिति ।

,

अत्र प्रतिभाति - न तावत् ‘ध्यायीतेशानमिति ध्येयस्य प्रश्नोत्तरम् | प्राप्तध्यानानुषा देनेशानमिति ध्येयविशेषविधौ प्राणं मनसि सहकरणैरित्याथर्थस्यान्यतोऽप्राप्तत्वेनानुषादासम्भवात् विधानावश्याभावे वाक्यभेदापातात् विशिष्टविष्याक्षिप्तविशेषणविधि विधेयत्वम्, प्रधानतस्तु ध्यानस्येवेति । कश्च ध्येय इत्यस्य कारणं तु ध्येय इत्यस्योत्तरत्वकल्पनमिति क्लिष्टतरम् ।

किं चास्यामुपनिषदि मुमुक्षुणा किं कार्यमिति मोक्षोपायविषयक - प्रश्नस्यादर्शनात् । ध्यानस्य मोक्षोपायत्त्रानिश्चये कश्च ध्येयः को वा घ्याता किं च ध्यानमित्यादिप्रश्नप्रतिवचनानुदयप्रसङ्गाच्च । ध्यायीतेशानमिति मोक्षरूपफलोद्देशेन न घ्यानविधिः शक्यः । किं तु पूर्व विशिष्टध्यानध्यात्नोर्विष्ण्वादिभावेन निरूपणात् विशेषणवैशिष्टयम् । ’ प्राणं मनसि सहकरणैर्नादान्ते परमात्मनि सम्प्रतिष्ठाप्य ध्यायीतेति ध्यानोद्देशेनापेक्षितत्वात् विधीयते । तत्र ध्यान ईशानविषयकत्वस्यापि विधौ विध्यावृत्तिलक्षणवाक्यमेदो दुर्वारः । न च तवापि करणसहभावरूपार्थस्यापि विधानावश्यम्भावात् वाक्यमेदो दुर्वार इति

179

वाच्यम् । ’ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वे’ त्यस्मिन् वाक्ये (जै. सू. 2-2-12 ) कृत्वा शब्दान्तसन्दर्भेणैव रेवत्याधारत्वस्य सिद्धेन वारवन्तीयत्वात् न फलाय विधौ वाक्यभेदप्रसङ्ग इति रेवत्यधिकरणपूर्वपक्षोक्तन्यायेनल्यबन्तसन्दर्भेण तत्सिध्या वाक्यमेदप्रसङ्गाभावात् ।

रेवत्यधिकरणम् (वारवन्तीयादीनां कर्मान्तराधिकरणम्)

त्रिवृदग्निष्टुदित्यारभ्य ब्रह्मवर्चसकामो यजेत इत्यन्तंपठितेषु मन्त्रेषु श्रूयतेएतस्यैव रेवतीषु वारवंतीयमग्निष्टोम साम कृत्वा पशुकामोह्येतेन यजेत इति । अग्निष्टोमस्य विकृतिषु अग्निटुनामकः, एकाहः । पृष्टस्तोत्रे त्रिवृत्स्तोम युक्ततया त्रिवृत् इत्युच्यते । सप्तसोमसंस्थानां मध्ये अग्निष्टोम संस्थारूपत्वात् अग्निष्टोमः इत्युच्यते । प्रकृतौ तृतीयसवने - आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते । तेन च साम्नाऽग्निष्टोमयागस्य समाप्यमानत्वात् - अग्निष्टोम - सामेत्युच्यते । तच्च प्रकृतौ ’ यज्ञायज्ञावो अग्नयः’ इत्याद्याग्नेयीष्वृक्षुगीयते । अग्निष्टुति तु ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम् । तच्च प्रकृताविवैकविंशत्स्तोमयुतम् । पशुकामस्य तु रेवतीर्नः सधमादः इत्यादिषु रेवतीष्वृक्षु वारवन्तीयं सामगायेत् इति । तत्र रेवतीनामृचां वारवंतीयनामकेन साना यः संबंध ः सोऽयं पशुफलायाग्निष्टुतिविधीयते । एतस्यैव इति प्रकृतपरामर्शकैतच्छब्देन, अन्यव्यावर्तकेनैव कारेण चाभिष्टुत: समर्प्यमाणत्वात् । यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृतेऽग्निहोत्रेदविगुणोविहितः तद्वत् इति पूर्वः पक्षः ।

दृष्टान्तोऽयं विषमः । दनो होमजनकत्वं न शास्त्रेण बोधनीयम् । लोकतो ऽवगन्तुं शक्यत्वात् । फलसंबंध एव शास्त्रबोध्यः इति न तत्त्र वाक्यमेदः । इह तु रेवत्युगाधारक वारवंतीयसाम्नोऽग्निष्टुत्कर्म साधनत्वं, फलसाधनत्वं चेत्युभयस्य शास्त्रक बोध्यत्वात् दुर्वारो वाक्यभेदः । तेन पशु फलकं यथोक्त गुणविशिष्टं कर्मान्तरमन विधीयते । एतच्छब्दः एवकारश्च विधीयमान कर्मान्तर विषयतया योजनीयौ (जै. सू. 2-2-12 )

180

ननु त्वत्पक्षेऽपि ’ प्राणं मनसी’ त्यादिवाक्यविशेषणवैशिष्टयस्य कारणं तु ध्येय इत्यत्र ध्येयत्वस्य शम्भुराकाशमध्य इत्यवोपासनास्थानस्य च विधेयत्वाङ्गीकारात् वाक्यत्रयम् । मत्पक्षेऽपि तथैवार्थत्रयविधानात् वाक्यत्रयमिति को विशेष इति चेत् न । ‘औदुम्बरस्सोमचमसो दक्षिणा स प्रियाय स गोलाय ब्रह्मणे देय’ (जै. सू. 10 - 3 - 88 ) इत्यत्र स प्रियायेत्यादेः तच्छब्दबलात् मिन्नवाक्यत्वाङ्गीकारवत् भृमाघिकरणोक्तरीत्या [ ब्र. सू.] प्रकरणविच्छेदकत्वशब्दस्वारस्यसिद्धार्थान्तरप्रतिपादकत्वावगतिबलात् मिन्नवाक्यानामङ्गीकारस्यादोषत्वात् । त्वत्पक्षे कारणं तु ध्येय इत्यादेः पूर्वप्रतिपादितार्थप्रतियोग्यर्थान्तरप्रतिपादकत्वाभावेन वाक्यान्तरत्वस्य तु शब्दप्रमाणकत्वाभावेनोपासनास्थानश्रवणागततद्विधानावश्यम्भावनिबन्धनतया तद्वत् मत्पक्षेऽप्युपासनास्थानविधायक वाक्यान्तराङ्गीकारसम्भवात् । पूर्व विशिष्टध्यानध्या त्रोरुक्तत्वेन विशेषण

सोमचमसेन कृष्णदक्षिणा पुरुषांतरयोः वाधाधिकरणम् -

ऋतपेये श्रूयते - औदुंबरः सोम चमसो दक्षिणा । सः प्रियाय सगोत्राय ब्रह्मणेदेयः । इति । अत्र विहितः सोमचमसः ब्रह्मभागमेत्र बाधते । अथवा कृत्स्नाऽपि दक्षिणा इति विषये ब्रह्म भागमेव निषेधति । यतः यत्पशून् दद्यात् सोऽनृतं कुर्यादिति वाक्येन पशुदान निंदा सर्वदान प्रसक्तेः । अतः सोमचमसः अत्र विहितः न सर्वबाधकः । ब्रह्म भागविषये एव तस्य नैर्भर्यात् इति प्राप्ते

निषेधाय नात्र पशुनिंदा उच्यते । किंतु विधित्सित सोमचमस स्तुत्यर्थत्वेन अर्थवादत्वमेव युज्यते । तेन निंदायाः सर्वसमञ्जकत्वं नास्ति । तस्मात् सोमचमसेन प्राकृत कृत्स्नदक्षिणायाः बाधः एव । तथा सप्रियाय सगोत्राय ब्रह्मणे देयः इति सगोत्रस्यैव ब्रह्मत्वम् । आनत्यर्थ तस्यैव दानं च प्रतिपाद्यते । तेन पुरुषान्तराणां निवृत्तिर्भवति । अत्र वाक्यद्वयं अस्ति । प्रथमेन वाक्येन सोमचमसातिरिक्त दक्षिणाबाधः । द्वितीयवाक्येन पुरुषान्तरबाधश्च । (जै. सू. 10-8-88 )

181

वैशिष्टयस्य तदपेक्षिततया विधानावश्यम्भावात् वाक्यत्रयाङ्गीकारस्य युक्तत्वात् । त्वत्पक्षे तु विधेयश्रवणातिरिक्तस्य वाक्यान्तरावेदकस्य कचिदप्यभावात् न वाक्य-

याङ्गीकारो युक्तः ।

अपि च ’ ध्यायीतेशानमित्यत्र ध्येयनिर्धारणाङ्गीकारेऽपि स वा एष एवं पश्यन्नेवं मन्वानः एवं विजानन्नतिवादी भवतीति प्राणातिवादिनोऽति वादित्वोक्त्यनन्तरं ’ एष तु वाऽतिवदति यः सत्येनातित्रदति’ इत्युक्तौ तु शब्दबलादतिवाद्यन्तरप्रतीत्या प्राणातिरिक्तातिवाद्यन्तरप्रतीतिवत् कारणं तु ध्येय इत्यत्र पूर्वप्रतिपन्नध्येयविलक्षणध्येय प्रतीतिरनिवार्येति ध्येयनिर्धारणमकामेनापि स्वीकरणीयमिति । ’ ध्यायीतेशान’ मित्यत्रापि ध्येयनिर्धारणाङ्गीकारे ईशानशब्दवाच्यस्य शिवस्य कारणत्वाभाव एवापततीति घटकुट्यां प्रभातम् ।

"

किं च कच ध्येय इत्यस्य कारणं तु ध्येय इति खरूपे उत्तरे सम्भवति ध्यायीतेशानमित्यस्योत्तरत्वकल्पनमप्यसमञ्जसम् । किं च ब्रह्माविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते कारणं न प्रसूयते । अतः ’ कारणं तु ध्येय इत्युक्ता वेत्र विध्यर्थवादैकरस्यं स्यात् । ब्रह्मादयः संप्रसूयन्ते न तु कारणम् । कुत ईशानो ध्येय इत्युक्ते किं केन सङ्गतं स्यात् ईशानस्य ध्येयत्वं विधाय तत्सिध्यर्थं कारणे प्रसूत्यभाषोपन्यासादीशानस्य कारणत्व सिद्धेरर्थवादसामञ्जस्यात् इत्युपपादनं त्वितरेतराश्रयप्रस्तम् । ईशानवाक्यस्य विधायकत्वे सति तद्वाक्यविधीयमानार्थोपपादकत्वेन कारणे प्रसूत्यभावोपन्यासादीशानस्य कारणत्वसिद्धिः, कारणत्वे सिद्धे कारणपदघटितार्थवादसामञ्जस्यात् ईशानवाक्यस्य विधायकत्व सिद्धिरिति ।

तस्य

किं च कारणत्वेन कारणोपस्थितिपूर्वक विधिप्रवृत्तावेव कारणे प्रसूत्यभाव प्रतिपादकार्थवाद सामञ्जस्यम् । न तु कथंचित्कारणसङ्गतौ । अत एत्रान्तरालत्वेनान्तरालोपस्थितिपूर्वकविधि प्रवृत्तावर्थवादसामञ्जस्यादन्तरालवाक्यस्य विधायकत्वम् । न तु यथा कथंचिदन्तरालपर्यवसायिनां विष्ण्वादिवाक्याना-182

मित्युक्तमुपांशुयाजाधिकरणे । (जै. सू. 2-2 - 4 ) एवं च परस्य स्वसाधकतयोपांशुयाजाधिकरणन्यायोपन्यसनं स्वयातनायैत्र पर्यवसन्नमिति स्वबन्धनार्थं

उपांशुयाजाधिकरणम्

इदमाम्नायते । जामित्रा एतद्यज्ञस्य क्रियते । यदन्वञ्चौ पुरोडाशौ उपांशुयाजमंतरा यजति । विष्णुः उपांशु यष्टव्यः । अजामित्वाय । प्रजापतिः उपांशुगष्टव्यः अजामित्वाय । अग्रीषोमीयौ उपांशुयष्टव्यौ अजामित्वाय । इति । तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रय समुदायस्य उपांशुयागमंतरायजति इति अनुवादः एव इति पूर्वः पक्षः ।

सिद्धांतस्तु

आग्नेयाग्नीषोमीय पुरोडाशद्वय नैरंतर्यकृतस्य जामित्व - दोषस्य वाक्योपक्रमे उपान्यासात् पुरोडाशयोरन्तराले किंचिद्विधित्सितम् । न ह्यन्तरालगुणविशिष्टम् विधेयम् विष्ण्वादिवाक्येषु प्रतीयते । पूर्ववाक्येतु तत्प्रतीयते इति विधायकं तद्वाक्यम् - पंचमलकारस्य आश्रयणात् । यजति इति वर्तमानोपदेशः न शंकनीयः ।

अंतरालकालवत् उपांशुत्वगुणस्यापि तद्विशिष्ट कर्मणः उपांशुयाजनामकत्वम् । सत्येवं गुणद्वयविशिष्टकर्मणि आद्येन वाक्येन विहिते विष्ण्वादिवाक्यं अर्थवादः स्यात् । न चात्र विहित यागानुवादेन देवताविधिः शंकनीयः । समाधातव्यत्वेन जामित्व दोषेणोपक्रमात् अजामित्वेनसमाधानेनोपसंहारस्य जामिषै इत्यादेः अजामित्वे तस्य सर्वस्य महावाक्यस्य एकत्व प्रतीतेः । न खलु एकस्मिन् वाक्ये विधेय बाहुल्यम् संभवति । न चात्र विधित्सितस्य उपांशु याजस्य द्रव्याभावः । धौवस्य आज्यस्य तहव्यत्वात् । नापि देवतायाः अभावः । नाना शाखासु उपांशुयाजक्रमे पठितैः वैष्णव प्राजापत्या ग्रीषोमीय मंत्र: विकल्पेन देवतात्रयस्य प्रतीयमानत्वात् । तस्मात् उपांशुयाजमंतरा यजति इत्येतदेव विधायकम् । न तु विष्णुरुपांशु यष्टव्यः अजामित्वाय इत्यादिकं वाक्यम् । (जै. सू. 2-2-4 )

183

रज्वानयनन्यायं सूचयति । एतेनेशानस्य ध्येयत्वं विधाय ब्रह्मादीनां ध्येयत्वव्यवच्छेदाय तेषु दोषोद्भावनानन्तरं तस्य दोषत्वस्येशानएव प्रत्याख्यातव्यत्वात् ब्रह्मादीनामर्थलब्धकारणे तत्परिहार सामर्थ्यादीशान एव कारणमिति गमयतीति निरस्तम् । ध्यायीतेशानमित्यस्य ध्येयनिर्धारकत्वाभावस्योपपादितत्वात् । पुरोडाशद्वयनैरन्तर्यप्रयुक्तजामितादोषसङ्कीर्तनेनान्तराले किश्विद्विधित्सितमित्यव - गमेन ’ विष्णुरुपांशुयष्टव्य’ इत्यस्याप्यन्तरालसम्बन्धिताविधायकत्वस्य वक्तुमशक्यत्वापत्तेश्च । न चान्तरालसंयुक्तवाक्ये विधिखीकारे सम्भवति, कथंचित्सम्पादनीयतत्पर्यवसानं वाक्यं विधायकमिति वाच्यम् । तर्हि कारणं तु ध्येय इत्यस्य कारणविषयकार्थवादसङ्गतस्य सत्वात् । कथंचित्सम्पादनीयार्थवादसङ्गतेः ‘ध्यायीतेशानमिति वाक्यस्य विधायकत्वपक्षस्यासङ्गतत्वापत्तेः । न चेशानपदानुषङ्गपक्षे विध्यर्थवादैकस्य ईशानवाक्य विधायकत्वाभ्युपगमेऽप्यस्तीति वाच्यम् । धातृशब्दस्य डुधाञधारणपोषणयोरिति धातूत्पन्नत्वेन धारकोपस्थापकत्वात् । शरीरलक्षणस्य यस्य चेतनस्य यदूद्रव्यं सर्वात्मना स्वार्थे धारयितुं शक्यम्, तत्तस्य शरीरमित्युक्ताधार्यत्वघटितत्वावसायात् । तत्प्रतिसम्बन्धिनो धारकस्यैवात्मशब्दत्वात् । तेन धातृशब्देन नादान्ते परमात्मनीत्यु कस्य परमात्मन उपस्थित्या विशेषाकाङ्क्षाया अभावादीशानपदानुषङ्ग कल्पनायोगात् । चतुर्थ्यर्धमात्रा सा विद्युन्मती सर्ववर्णा पुरुषदेवत्येति पूर्वोक्तार्श्वमात्रावाच्यनारायणत्वेन नादान्ते परमात्मन इत्यनेनावगम्यते इति परमात्मा क इत्याकाङ्क्षाशान्त्यर्थमपि नेशानपदानुषङ्गः कल्पनीयः । न च भवत्पक्षे कथमर्थवादसामञ्जस्यम् ’ कारणं तु ध्येय’ इत्यत्र तु शब्दबलात् वाक्यान्तरत्वप्रतीत्या सर्वमित्यादेस्तच्छेषत्वेन वर्णनासम्भवादिति वाच्यम् । तु शब्दस्य हि न साक्षाद्वाक्यान्तरत्वबोधकत्वम् । किन्त्वर्थान्तरत्वसूचकत्वेन । तथा च पूर्वोक्तार्थादर्थान्तरं विदधातीत्येतावन्मात्रे तेन सूचिते पूर्वविहितार्षे प्रतिपादकवाक्यापेक्षयैव वाक्यान्तरत्वं ततोऽवगम्यत इति न सर्वमित्यादेर्भिन्नवाक्यत्वप्रतिपत्तिरिति विध्यर्थवादैकरस्यमप्यहतम् । तस्मात् न ध्यायीतेशानमिति वाक्यादस्य कारणत्वध्येयत्वसिद्धिः ।

परमात्मा च

….

184

न च शम्भुपदसामानाधिकरण्यात् तत्सिद्धिः ।

'

शम्भुराकाशमध्य '

इत्यत्राकाशमध्य इत्युपासनास्थानस्य कारणे शम्भुत्वस्य च विधौ वाक्यभेदप्रसङ्गात् । शम्भुशब्दस्यानुवादत्वेन श्रुत्यन्तरसिद्धस्य नारायणस्यैव तेनानुवादात् । प्रयुक्तश्च शम्भुशब्दो नारायणे सभापर्वणि

इति नारायणश्शम्भुर्भगवान् जगतः प्रभुः । तथाऽन्यद्रूपमास्थाय शम्भुर्नारायणो हरिः ॥ '

’ विश्वाक्षं विश्वशम्भुवमिति च । ’ शम्भुष्यातृहरीशेष्विति कोशात् प्रसिद्धश्च शम्भुशब्दः । कोशस्य शक्तिग्राहकमूर्धन्यत्वं च त्वयाङ्गीकृतम् । सर्वेश्वरशब्दसामानाधिकरण्याचात्रत्यशम्भुशब्दो भगवत्परः । सर्वेश्वरशब्दस्य भगवन्नामत्वात् । सुबालोपनिषदि - ’ एष सर्वज्ञ एष सर्वेश्वर एषोऽन्तर्यामी’ ति भगवति प्रयुक्तत्वात् । ‘अजस्सर्वेश्वरस्सिद्ध’ इति तन्नामपाठात् । सर्वेश्वरस्सर्वदृक् सर्ववेत्ते’ति श्रीवैष्णवे पुराणे भगवति प्रयोगात् । ’ पतिं विश्वस्यात्मे’’ विष्णवे सर्वाधिपतये स्वाहा, विष्णवे खाहा, सर्वाधिपतये स्वाहा, चक्रपाणये स्वाहा’ ’ राजाधिराजस्सर्वेषामि’स्यादौ तदर्थस्य भगवद्धर्मत्वव्यपदेशाच्च । एवं सर्वेश्वरशब्दस्य मुख्यवृत्तत्वं लभ्यते । पक्षे तु न केवलं ब्रह्मादिकारणत्वाद परिच्छिन्नैश्वर्यम् । अपि तु सर्वेश्वरशब्दवाच्यत्वादपीति सर्वैश्वर्यानुवादोपपत्त्यमिप्रायेण सर्वेश्वरशब्दप्रयोग इत्यङ्गीकारात् स्ववाच्यत्वलक्षकत्वं स्यात् ।

श्वरम्’

,"

"

यदप्युक्तं सर्वेश्वर इति शिवनामत्वेन प्रयोग इति तन्न - तस्य तन्नामत्वे प्रमाणाभावात् । न च ’ ओङ्कारं सर्वेश्वरं द्वादशान्तं ’ इति तापनीय प्रयोगात् तन्नामत्वसिद्धिः । तापनीयस्य भगवदवतारनृसिंहविषयत्वेन शिवपरत्वासिद्धेः । लिङ्गादि पुराणे प्रसिध्या तन्नामत्वमित्यपि न । सात्विकपुराण प्रसिध्या भगवन्नामत्वावगमेन तदितर प्रसिद्धेर्बाधात् । श्रुतिषु विरोधाधिकरणन्यायेन बाधाश्च । किं चास्मिन् पक्षे सर्वेश्वर शब्दस्य यौगिकत्वे सर्वेश्वर्यसम्पन्न इत्यनेन पौनरुक्त्या रूढत्वे शम्भुशब्देन योगरूढत्वे पदद्वयेन च पौनरुक्त्यमिति

185

दूषणं त्वयैव दत्तम् । तस्मादस्मदुक्तरीत्या भगवन्नामत्व एव सर्वैश्वर्य सम्पन्न इत्यस्य ध्येयत्वोपयोगि सर्वेश्वर्यानुवादत्वेन सर्वेश्वर इत्यस्य शम्भुशब्देऽर्थान्तरभ्रमब्युदसनेन च सार्थक्यं लभ्यत इत्ययमेत्र पक्षस्साधीयान् । नापि ’ शित्र एकोऽव्यय’ इति शिवशब्दात् देवतान्तरप्रतीतिः । तस्यापि वाक्यस्यानुवादत्वेन शित्रशब्देन पूर्वप्रकृतकारणस्यैत्रानुवादात् । अतो नाथर्वशिखावाक्यबलात् शिवस्य मुमुक्षुध्ययत्वसर्वेश्वरत्वसिद्धिः

वेदान्तविजय कृतस्तु

’ अथर्वशिखायामपि भगवतः कारणत्वं प्रतिपन्नम् । तथा हिकिमादौ प्रयुक्तं ध्यानम् ? ध्यायितव्यं किं तत् ध्यानम् ? को वा ध्याता ? कश्च ध्येय इत्यत्र किं तत् ध्यानं, को वा ध्यातेति घ्यात्रभिमानदेवताप्रश्नः । आवप्रश्नस्योत्तरमाह - ओमित्येतदक्षरमादौ प्रयुक्तं ध्यान ध्यायितव्यमिति । द्वितीयस्योत्तरमाह - सर्वकरणानि च मनसि संप्रतिष्ठाप्य ध्यानं विष्णुरिति ध्यानमात्रस्य तदेवताकत्वाभावाभिप्रायेण; सर्वकारणानि च मनसि संप्रतिष्ठाप्येति विशेषणम् । तृतीयस्योत्तरमाह - मनसि सह करणै - संप्रतिष्ठाप्य ध्याता रुद्र इति । अत्रापि विशेषणप्रयोजनं पूर्ववत् । तथा विशेषितयोरेव ध्यानध्यात्रोर्मोक्षोपयोगित्वात् तादृशयोरेव तयोस्तद्देवताकत्वमिति भावः । तदेव विशेषणं विदधाति । प्राणं मनसि सह करणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य घ्यायीतेति चतुर्थ प्रश्नस्यो तरमाह - ईशानं प्रध्यायितव्यमिति । कश्च ध्येय इति प्रश्नसारूप्यात् पूर्वप्रश्नोत्तरवदिदमेव चतुर्थप्रश्नस्योत्तरं, न तु ध्यायीतेशानमिति प्रश्नवैरूप्यात् पूर्वप्रश्नोत्तर ईशान इति पुल्लिङ्गनिर्देशे कृते देवतान्तरस्य बुद्धौ विपरिवृत्त्या परमात्मबुद्धिप्रतिबन्धो भवितेति नपुंसक निर्देशः कृतः । ईशितव्यविशेषानिर्देशात् सर्वेशानं वस्तु ध्यातव्यमित्यर्यः । प्रधानेषु प्राधान्यमुपास्यस्य वक्तुं ब्रह्मादीनां प्राधान्यमाह । सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रा इतीदं प्रमाणप्रसिद्धं सर्वमपि ब्रह्मविष्णुरुद्रेन्द्राः राजा राष्ट्रमिति निर्वाह्य निर्वाहभावनिबन्धनं सामानाधिकरण्यम् । ते सर्वे संप्रसूयन्ते इति वाक्यन्तरम् । एवं इति तच्छब्दस्य प्रयोजनलाभं भगवतः प्राधान्यं व्यञ्जयितुं इदमुत्तरवाक्यं च । एषु भगवतः प्रसूत्यभावस्य वक्ष्यमाणत्वात् तद्वत्तेषु तदन्यकस्य कस्यचित् तदाशङ्का

24

186

मा भूदिति सर्व इत्युक्तम् । एवं सत्येव ह्यस्य प्रयोजनलाभः । न च सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रा इत्युक्तराशिद्वयपरामर्शितया ते सर्वे इत्यस्य प्रयोजनलाभ चकाराभावेन ते सर्वे इति समुदायपरामर्शित्वस्यापेक्षितत्वादिति वाच्यम् । नपुंसकैकशेषापत्तेरिन्द्रादिपाठात् तत्तुल्या परायत्ता प्रसूतिर्ब्रह्मादेरिति खरसतो - ऽवगम्यते । भगवतः प्रसूर्ति निषेधति । न कारणं कारणानां ध्याता - कारणानां त्रयाणां मध्ये कारणध्याता धाता न प्रसूयत इति विपरिणामेणानुषङ्गः । विपरिणामेनानुषङ्गपरपक्षेऽपि समानकारणं ध्यातेति, कारणावस्थावान् ध्यातृत्वेन प्रसिद्ध इत्यवगम्यते । तथा प्रसिद्धव प्रागवा नारायणोऽकामयत, सोऽन्यं कामं मनसा घ्यायीतेति । धातृशब्दश्च ‘अणोरणीयानित्यत्र भगवत्परतया शङ्खलिखितो पबृंहिते प्रसिद्धः । सहस्रनामसु च ’ अनादिनिधनो धाते ‘ति कारणानां कारणमिति शेषे षष्ठयेवाऽस्तु । अर्थात्तु निर्धारणलाभः । विष्णुरिति संप्रसूतिः ’ अजायमानो बहुधा विजायते ’ तस्य धीराः परिजानन्ति योनिम् ।’ ‘न सा कर्मनिमित्तजा’ ’ जननं स्वेच्छयैव च’ इत्यादिप्रतिपन्ना वाघीना ; न तु ब्रह्मरुद्रादिवत् कर्माधीना च। ते संप्रसूयन्त इति षूत्र प्रेरणे इति धातोः कर्मणि लकारे रूपम् । न तु धूञ प्राणिप्रसवे इत्यस्य पुत्र । प्राणिगर्भमोचने इत्यस्य वा तस्य प्राणिविषयतया सर्वाणि चेन्द्रियाणि सहभूतैरित्यत्रानुषङ्गेणाप्यन्वयायोगात् जायन्त इत्यध्याहारप्रसङ्गादीशानं प्रध्यायितव्यमिति पूर्ववाक्येऽसङ्कोचलब्ध सर्वेश्वरत्वस्य साक्षादुपपादकतया प्रेरणार्थस्यैव धातोरत्र ग्राह्यत्वाच्च । परमकारणभूतो ध्याता, ध्याता तु न केनचित् प्रेर्यत इति न कारणमिति वाक्यस्यर्थः । कश्च ध्येय इति विशेषणस्यापि विवक्षितत्वात् । ध्यातव्यस्य हृदयाधिकरणं तु ध्येयस्सर्वैश्वर्य सम्पन्नः सर्वेश्वरः शम्भुराकाशमध्य इति हर्वैश्वर्य सम्पन्न इत्यत्र सर्व च तदैश्वर्य चेति कर्मधारयः । न तु सर्वेश्वरशब्दात् षष्टीसमासात् ष्यञ् । आदिवृद्धिप्रसङ्गादनेन सर्वप्रकारमीशानं विवक्षितं अस्ति च नियमने प्रकारभेदः । यथा अन्तः प्रविश्य नियमनम् । राजादिवत् बहिस्स्थित्वा नियमनम् । धारणप्रवृत्त्यादिविषयवद्वामद्वारं च । इदं च सर्वप्रकारमैश्वर्यं न कतिपय विषय-

187

मित्युच्यते । सर्वेश्वर इति । एवं च सर्वैश्वर्यसम्पन्न सर्वेश्वरशब्दयेोरेकार्थ्यभ्रमात् सर्वेश्वरशब्दे तच्छब्दवाच्यत्वलक्षणामङ्गीकृत्य पौनरुक्त्यपरिहारः केनचित् कृतोनिरस्तः । वस्तुवृत्तमुक्तम् तथाऽर्थेऽपि सिद्धान्ते न दोषः । सर्वेश्वरशब्दस्य देवतान्तरे रूढ्यसिद्धेः । इहैव कल्पनायां भगवत्येवास्तु । अत्र च सर्वाणि चेन्द्रियाणीति पृथगिन्द्रियग्रहणमिन्द्रियप्रेरणरूपं हृषीकेशशब्दार्थ नारायणलिङ्गमुपस्थापयितुम् । तस्मादथर्वशिखा वाक्यैर्भगवत एवोत्कर्ष: सिध्यती’ त्याहुः ॥

किं चोपक्रमे प्रणवस्य तिसृणां मात्राणां पीतशुक्लकृष्णवर्णत्वं त्रिमूर्ति - देवताकत्वं चेत्युक्त्वा तस्य चतुर्ध्या अर्धमात्रायाः पुरुषदेवत्यत्वं सर्ववर्णत्वं चोक्तम् । पुरुषशब्दश्च भगवति रूढः । भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ’ निरुपाधि च वर्तेते वासुदेवे सनातने ।

यद्वा पुरुषशब्दोऽयं रूढ्या वक्ति जनार्दनम् ।’ इति रूढि प्रतिपादकं प्रमाणसहस्रबलात्, सर्ववर्णत्वं च भगवद्ध भगवद्गीतासु विश्वरूपविग्रहे ’ नानावर्णाकृतीनिचे ‘ति नानावर्णत्वोक्तेः । तस्य है तस्य पुरुषस्य रूपं यथा माहारजनं वासः यथा पाण्डवादिकं यथेन्द्रकोप’ इति श्रुतेश्च । अत उपक्रमे भगवत्प्रतीतेर्नादान्ते परमात्मनीत्युपक्रमप्रतीतस्य नादान्तवाच्यस्य मध्ये ध्येयत्व प्रतीतेश्वेयमुपनिषत् भगवत्परा ।

यत्तु कश्चिदाह – उपक्रमस्थयोः श्रुतिलिङ्गयोरसाधारण्येऽपि नेहोपक्रम - प्राबल्यावकाशः । उपसंहारे ईशानशम्भु शिवसर्वेश्वरश्रुतीनां चतसृणां शिवामिधायिकानां श्रवणात् बहुप्रमाणकस्योपसंहारस्यैव बलीयस्त्वात् । अत एव पूर्वमीमांसायां (जै. सू. 11-4-8 ) ’ ऐन्द्र एकादशकपालं प्राजापत्यं

अवेष्टयधिकरणम् -

राजसूयप्रकरणे श्रूयते - दिशां अवेष्टयो भवंति - इति । ताश्वावेष्टयः उत्पत्तिवाक्यैः एवं आम्नायंते । आग्नेयमष्टाकपालं निर्वपति - हिरण्यं दक्षिणा ।

188

दधिमधुघृतमाप’ इति पञ्चानां हविषा मन्ययोरैन्द्राग्नसान्नाय्य विकारत्वेनामावास्या विध्यन्ते प्राप्तोपांशुयाज विकाराणां मधूदकघृतानां चरमश्रुतत्वेऽपि भूयस्तया तदनुप्रहाय पौर्णमास्य विध्यन्त’ इति निर्णीतम् । विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् स्व धर्मत्वं (जै. सू. 12-2-7) कचिक्कचिदुपक्रमानुरोधे-

1

ऐन्द्रमेकादशकपालं - ऋषभो दक्षिणा । वैश्वदेवं चरुं - पिशंगी पष्टौहि दक्षिणा । मैत्रावरुणीयं आमिक्षां - वशा दक्षिणा । बार्हस्पत्यं चरुं - चिति पृष्टो दक्षिणा - इति । तासु अवेष्टिषु तंत्रेणांगानामनुष्ठानम् । कुतः । तल्लिंगात् । यदिब्राह्मणो यजेत बार्हस्पत्यं मध्ये विधाय आहुतिमादुतिं हुत्वा तमभिधारयेत् । यदि राजन्यः । ऐन्द्रम् | यदि वैश्यः वैश्वदेवम् इति । तत्र मध्यनिधानं प्रयोगक्येलिंगम् । तदैक्याच तंत्रमिति पूर्वः पक्षः ।

सिद्धांतस्तु – उत्पत्तिगतेन दक्षिणा भेदेन प्रयोग मेदावगमात् अंगानां मेदः । लिंगंतु बहिष्प्रयोग विषयम् । अस्ति च प्रयोगद्वयम् । राजसूयप्रकरणपाठात् अंतः प्रयोगः एकः । न च प्रकरणात् उत्कर्ष कर्तुं शक्यः । राजसूयांगभूतदिव्यस्थापननिमित्तोन्मादपरिहाररूपेणार्थवादेन तत्संबंधावगमात् । तथा च श्रूयते – ईश्वरो वा एषदिशोऽनून्मादितोः । यंदिशोऽनुव्यवस्थापयति । दिशामवेष्टयो भवन्ति । दिक्ष्वेव प्रतितिष्टति । अनुन्मादाय । इति । राजसूयात् बहिष्प्रयोगस्तु एतयाऽन्नाद्यकामं याजयेत् इति विहितः । न च असौ राजसूयांतः पाती । ’ यदि ब्राह्मण: ’ इत्यादिवर्णसंयोगावगमात् । राजसूये च ब्राह्मण वैश्ययोरनधिकारात् । बहिष्प्रयोगे तन्त्रम् । राजसूयांतः प्रयोगे तु भेदः । (जै. सू. 11-4-8 )

भूयसां स्वधर्मत्वाधिकरणम् -

पञ्चदशरात्रस्य अग्निष्टुत्प्रथममहः । तस्यैकाहरूपा अग्निष्टुत्प्रकृतिः । तत्रोपसत्कालीन सुब्रह्मण्याह्नानार्थं आयी विहिता । तदेतत् विकृतिरूपे प्रथमेऽहनि चोदकतः प्राप्नोति । इतरेषु चतुर्ष्वहस्सु स्वस्वप्रकृत्यनुसारेण ऐन्द्री

189

ऽप्यस्याः शित्रपरत्वमेत्र सिद्ध्यति । तथा हि-मात्राणां देवताविभागात् प्रागेव लोकादि ’ पृथिव्यन्तरिक्षं द्यौरि’ति मात्रात्रयस्य लोकानुपदिश्यो पदिष्टं अवसेनेस्य चतुर्थ्यर्धमात्रा सा सोमलोक इति । नात्र सोमलोकशब्दश्चन्द्रलोकपरः । तस्य चुलोकान्तर्गतत्वेन पृथग्ग्रहणायोगात् । किं तु महाकैलासाख्यशिवलोकपरः । एवं चोपक्रमोपसंहारयोरैकार्थ्ये मध्यस्थ नारायणलिङ्गादिकमन्यथा नेयमिति तदेतत्पामरजनलोभनमात्रम् । न हि सोमलोकशब्दः शिवलोकेरूढः असिद्धेः । किं तु ‘उमया सहितस्सोमरुद्रस्य लोक ’ इति यौगिक : : न च रूढिसम्भवे योगाङ्गीकारो युक्तः । न च चन्द्रलोकस्य द्युलोकान्तर्गतत्वेन पूर्वमात्रासम्बन्धिलोककथनेनैव कथितत्वात् । पुनरेतन्मात्रासम्बन्धिलोकत्वेनामिधानं न सम्भवतीति वाच्यम् । विशेषपद सन्निधाने सामान्यशब्दस्य तद्यतिरिक्तपरत्वावसायात् । अत एवोपांशुयजुषोश्चैनिंगदेने ‘त्यत्र निगदेतरयजुः परत्वं यजुश्शब्दस्याभ्युपगतम् । अन्यथैतन्निर्देशान्यथानुपपत्या निगदानां यजुभ्यों मेदप्रसङ्गात् निगदा धिकरणोच्छेदः स्यात् । किं बहुना एवं सति ब्राह्मणशब्देन परिवाजकानामप्युक्ततया परिवाजकशब्दस्य योगेन ब्राह्मणातिरिक्तपरत्वाद्युपगमे ब्राह्मणपरिव्राजकन्यायोच्छेदः (जै. सू. 2-1-18 )

प्राप्ता । उपसत्कालीनायाश्च सुब्रह्मण्यायाः अहर्गणेषु तंत्रं निर्णीतम् । तथा सति अत्र उपसत्कालीन सुब्रह्मण्यायाम् आग्नेयैन्द्रयोः कलहप्राप्तौ असंजातविरोधितया प्रचलस्य प्रथमस्याहः आनुगुण्येन आग्नेयी कार्या इति पूर्वः पक्षः ।

सिद्धांतस्तु बहूनां अह्नां अनुग्रहाय ऐन्द्री कार्या । ’ त्यजेदेकं कुलस्यार्थे ’ इति न्यायेन बहुत्वमपि प्राबल्यकारणम् । अतः पंचदशरात्रस्य प्रथमस्य अहः अनिष्टुद्यागेऽपि उपसत्कालीन सुब्रह्मण्याहाने ऐन्द्रेण सुब्रह्मण्या कार्या । भूयसांस्यात् बलीयस्त्वम् इति न्यायः अत्र उत्पद्यते । (जै. सू 12-2-7)

निगदानां यजुष्टाधिकरणम् -

प्रोक्षणीरासादय - इध्मं बर्हिरुपसादयअम्मीदमी न्विहर - बर्हिस्तृणीहि । इन्द्र आगच्छ । हरित्र आगच्छ । इत्यादयः निगदाः आम्नाताः । परप्रत्या

190

स्यात् । न च परिवाजकशब्दस्य ब्राह्मणविशेषरूढ्या तद्बलात् ब्राह्मणशब्दसङ्कोचः क्रियत इति वाच्यम् । तस्यात्रापि सोमशब्दरूढ्यनुसारेण चन्द्रलोकव्यतिरिक्तपरत्वं सम्भवेत्, किमर्थं तत्त्यागः । रूढित्यागे वा न त्वदमीष्टलाभः । न हि तत्तन्मात्रासम्बन्धिलोकस्तत्तद्देवताधिष्ठानभूत इति नियमोऽस्ति येनोपक्रमे शिवप्रतीतिः स्यात् । तथा च ’ भक्षितेऽपि लशुने न शान्तोव्याधिरिति न्यायेन रूढित्यागदोषोऽधिकः । न च लोक्यत इति व्युत्पत्या लोकशब्दः सोमशब्दसामानाधिकरणे शिवप्रत्यायक इति वाच्यम् । तथा सति तत्तन्मानासम्बन्धिलोकप्रायपाठविरोधात् ‘प्रतुहोतृश्रमसः प्रब्रह्मणः प्रोद्गातृणामि’ स्यत्र (जै. सू. 8-5-8, 7 ) प्रोद्वातृशब्दस्योच्चैर्गानकतृत्वयोगेनो-

यनार्थाः निगदाः । एते च पूर्वोक्तभ्यः ऋग्यजुः सामभ्यः बहिर्भूताः चतुर्थप्रकाराः । कुतः पाद गीत्योः ऋक्सामलक्षणयोः अभावात् । प्रश्लिष्ट पाठस्य यजुर्लक्षणस्य सत्वेऽपि धर्ममेदेन यजुषि अंतर्भावानुपपत्तेः । उपांशुयजुषा उच्चैः निगदेन । इति हि धर्म मेदः । इति पूर्वः पक्षः ।

·

सिद्धांतस्तु – बहिर्ब्राह्मणाः भोज्यंताम् । परिव्राजकास्त्वतः । इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन - यजुषामेत्र सतां परप्रत्यायन निमित्तः उच्चैष्टुधर्मः । ततः मन्त्राणां त्रैविध्यमेव सुस्थितम् । निगदानां यजुष्टुमेव । (जै. सू. 2-1-18 )

शेषभक्षणाधिकरणम् –

,

सोमयागेषु सोमहोमो विहितः । प्रहेण चमसैः च सोमहोमो विहितः । कृत्स्नस्यैव सोमद्रव्यस्य दुतत्वात् दुतशेषस्य प्रसक्तिरेव नास्ति । यद्यपि अल्पं जुहोति इति वचनेन गृहीत सोमरसात् अल्पभागस्यैव होमो विहितः । तथाऽपि भक्षणविघ्य भावात् होमानंतरं भक्षणं नास्ति इति पूर्व:

पक्षः ।

सिद्धांतस्तु

  • शिष्टसोम भक्षणविधायक वचनैः भक्षणं सिद्ध्यति । अवशिष्टस्य सोमस्य कृत्स्नस्य भक्षणमेव । आश्विनं भक्षयति - द्वि: ऐन्द्रवायवस्य

….

….

191

द्वातृप्रस्तोतृप्रतिहर्तृषु वर्तनेन बहुवचनात्राधसम्भवेऽपि रूढिपूर्व कलक्षणया स सुब्रह्मण्येषु तेषु वृत्तिरित्यध्वर मीमांसाभाष्य एकस्तोत्रसम्बन्धस्सदस्संनिधानभक्षवेलाव्यापृतिबद्ध . सामान्यमादाय तयैव लक्षणया त्रिष्वेव वर्तनस्य तद्वार्तिककताचाभ्युपगतत्वेन तन्नयायेन रूढपूर्वकलक्षणायां ज्यायस्त्वात् सोमवत् प्रियदर्शन इत्याद्युक्तधर्ममादाय भगवत्यपि सोमशब्दस्य प्रत्ययाविरोधाच्च ।

यदप्युक्तं उपसंहारस्य बहुप्रमाणत्वात् प्राबल्यमिति - तन्न – असिद्धेः । अत्र किं सर्वेश्वरशब्दस्य समुदायरूढ्या शिवपरत्वं उतेश्वरशब्दरूढ्या । नाद्यः’ प्रमाणाभावात् । न हि सर्वेश्वरशब्दो रुद्राणां स्वनुशिष्टः । न द्वितीय: ; प्रतिसम्बंध्यपादाने रूढ्यनुन्मेषात् । अन्यथा ’ पद्मानि यस्याप्रसरोरुहाणी’ त्यत्र

भक्षयंति - सदसि भक्षयंति - इत्यादिवचनानि भक्षणे प्रमाणानि । अतः वचनात् हुतशिष्ट सोमस्य भक्षणम् अस्त्येव । (जै. सू. 8 - 5 - 8 )

समाख्यायाः विनियोजकता धिकरणम् -

ज्योतिष्टोमे प्रैतृ होतुश्चमसः प्रब्रह्मण: प्रोद्गातृणां प्रयजमानस्य प्रयंतु सदस्यानाम् - इति श्रूयते । यद्यपि होत्रादीनां चमस संबन्धेन श्रुतिरस्ति तथा अपि वचनाभावात् होत्रादीनां भक्षोनास्ति इति पूर्वः पक्षः । पूर्वाधिकरणेन होमशिष्टस्य सोमरसस्य भक्षणं आश्विनं भक्षयतीत्यादि वचनात् प्रतिपादितम् । तथाऽपि तादृशवचनाभावात् इह होत्रादीनां भक्षणं नास्त्येव ।

सिद्धांतस्तु भक्षणे यथा वचनं प्रमाणं तथा होतृचमसः ब्रह्मचमसः इति समाख्या बलात् तत्तच्चमसिनां भक्षणं प्राप्नोत्येव । अत्र हि होतुश्चमसः इति निर्देशेन होत्रा चमसस्य संबंध: निश्चीयते । चम्यते भक्ष्यते सोमः

अस्मिन् पात्रविशेषे इति व्युत्पत्त्या पातुः आकाङ्क्षावर्तते । परंतु तत्र तत्र होत्रादिकर्तॄणां निर्देशात् त एव पानकर्तारः इति निर्णीयते । समाख्या अपि भक्षणे हेतुः भवति । (जै. सू. 3-5-7 )192

’ आकण्ठवारिधरमन्थरमेघदेश्यमित्यत्र च पद्ममेघशब्दयोरानर्थक्यापातात् । न चात योगार्थस्य रूढ्यर्थविशेषणत्वे मित्रमस्य राजपुरुष इत्यत्तेवानन्वयप्रसङ्गात्, रूढ्यर्थ विवक्षायामपि ईशानस्य नित्यसापेक्षत्वात् देवदत्तस्य गुरुकुलमित्यादाविवान्वयसम्भवात् न रूढिविवक्षायां किंचित बाधकमिति वाच्यम् । एवं विधेष्वपि शब्देषु विशेष्याकाङ्क्षानुसारात् ‘ईशानमस्य जगत: सर्वदृशमीशान - मिन्द्र तस्थुष’ इत्यादौ रूढित्वं भिन्नेन्द्रादिविशेषणत्वेन प्रयोगदर्शनात् ।

’ ततस्समाप्ते सकले जगत्पतेः ।

घृते समूले सकलेश्वरः शिव ॥’

इति पर्थप्रतिपादकपादान्तरप्रयोगदर्शनाच्च । प्रतिसम्बन्ध्युपादानत्रत् पदान्तरतुल्ययोगक्षेमतया रूढ्यर्थाविवक्षाया एव कल्पनात् । ईशानं प्रध्यायितव्यमित्यत्वेशानशब्दोऽपि प्रध्यायितव्यमिति विशेष्य समर्पकत्वेनेशानशब्दस्य यौगिकत्वेन विशिष्य रुद्रे रूढित्वे प्रमाणाभावात् न शिवश्रुतिभूतः । न चैवं पङ्कजादिति पदानामपि योगरूढत्वं न स्यादिति वाच्यम् । पद्मव्यतिरिक्ते द्रव्ये पङ्कजनिकर्तृत्वरूपयोगात् सद्भावेऽपि प्रयोगादर्शनेन रूढेरवश्यमङ्गीकरणीयत्वात् । न चेशानशब्दस्यापि नियतः प्रयोग इति शक्यम् । तस्यान्यत्रापि प्रयोगदर्शनात् । तथा हि महाभारते

"

द्रव्यपुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।’ हरिवंशे शततमेऽध्याये

तुष्टुवुर्देवमीशानं मन्त्रैर्भागवतैस्तथा । ’ श्रुतौ च ’ धाता ददातु नो रयिमीशानो जगतः पतिः’ । शाबरे च भाष्ये यदुक्त मनात्वदर्शनमीशाना देवतांख्यापयति इन्द्रोदिन इन्द्र ईशे पृथिव्यामित्यादित्येवमादीति तत्प्रत्यक्षमीशानं देवतांमुपलभ्याध्यवस्यामो(हात) एष शब्द इति अभ्युपगतं न त्वया ईशानादिशब्दानामन्यत्न प्रयुक्तत्वम् । एतेनान्यत्र प्रयुज्यमानानामीश्वरमहेश्वरादिशब्दानामसाधारण्यं व्याख्यातमिति वदता शिवशब्दस्यापि न विशिष्यशक्तिः । तत्प्रदर्शित बर्हिराज्याधिकरण विरोधात् । शम्भुशब्दोऽपि शम्भुध्यातृहरीशेष्वित्यनुशासनेन भगवत्यपि । सम्भवद्वृत्तित्वे भगवति हरिशब्दवत्

193

प्राचुर्यस्य शिवे सत्वेऽप्युपक्रमगतपुरुषशब्दानुरोधेन भगवत्पर इत्येव चितः ।

किं च नात्रोपसंहारस्य बहुप्रमाणकत्वं शङ्कितुमपि शक्यम् । ईशानादि कोशबलादन्तर्गते रूढत्वेऽप्यत्र तस्य ब्रह्मादितुल्ययोगक्षेमतया ध्येयत्वारूढ्युपस्थितस्यायोग्यतापराहतत्वात् । न चोत्तीणविषयकं कोशस्य वक्तुं । यत् ‘प्राये श्रूयते यच्च तत्तादृगवगम्यत’ इति न्यायस्य त्वयैत्र तत्वात् । पुराणप्रसिद्धिबलादुत्तीर्णे शक्तिः शिवादिशब्दानां कल्प्यत तु स्ववचनाघातग्रस्तम् । पुरुषशब्दस्य प्रयोगदर्शनासाधारणोक्तयः क्यो न भगवति शक्तिग्राहका इति त्वयोकत्वात् । किं च जगत्कारणत्वादि दकप्रकरणस्थ वाक्यगतशिवादिशब्दानां कोशबलादूढत्ववर्णनं तव सर्वथा -

नम् ।

अपि चैवं सति ’ शाश्वतं शिवमच्युतम् ’ । ’ यमस्त्रतौ एष वै पुरुषो पीताम्बरं शिवं चतुर्भुजं सुगम्भीरं निश्चलं सर्वगं शिवम्,

’ तपश्चक्रेहरिः कृष्णो विष्णुस्सर्वेश्वरश्शिवः । '

श्रीवाराहे तृतीयेऽध्याये,

’ तत्र गत्वा मया विष्णुः पुराणपुरुषश्शिव: । ’ द्वादशेऽध्याये, ‘शिवं स्वरूपं पुरुषं महेश्वरं

सदा प्रपन्नार्तिहरं व्रतश्रियम् | '

हाभारते, ‘आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।’

शे शततमेऽध्याये, ‘तुष्टुवुर्देवमीशानं मन्त्रैर्भागवतैस्तदा’ ।

नपश्चाशच्छततमे,

25

’ इत्यादिभिस्तथा देवं वाग्भिरीशानमव्ययम् । '

194

भारतसारसमुच्चये, ‘आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ।

न चिन्तयति यो विष्णुं नारायणमनन्यवीः ||

इति नारायणश्शम्भुर्भगवान् ज्ञातः प्रभुः ॥ '

हरिवंशे, ’ तथाऽन्यद्रूपमास्थाय शम्भुर्नारायणोऽव्ययः ’ ।

इत्याद्यस्य

….

….

…. ….

ईशस्त्वं सर्वभूतानां ईश्वरोऽसि ततो हरे || '

इत्यादिनिर्वचनानां,

न तु नारायणादीनां नाम्नामन्यत्र सम्भवः । सर्वनाम्नां गतिर्विष्णुरेक एव प्रकीर्तितः ॥ ऋते नारायणादीनि नामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजेवर्ते स्वकं प्रभुम् ॥

उम्रो भस्मधरो नग्नः कपालीति शिवस्य च । चतुर्मुखश्शतानन्दो ब्राह्मणो पद्मभूः ॥’

….

इत्यायसाधारण्योक्तेश्च सत्वे तन शक्तिसद्भावे सति विरोधाभावेनाग्रयणेष्टयामैन्द्राग्न वैश्वदेव यावापृथिव्याङ्गेषु द्यावापृथिव्यौ वैश्वदेवसम्बन्धि द्यावापृथिव्येककपालविकृतित्वात् प्रसूनं बर्हिर्नियमप्राप्तावैन्द्राग्नादेवश्च प्रसूनं वेत्यनियमप्राप्तौ समानतन्त्रत्वाच । प्रबलत्वात्तदनुग्रहाय विरोधि किं प्रसूनमप्रसूनं वोपादेयमुत प्रसूनमेवेति संशये चैककपालस्य जघन्यत्वादेकत्वाच्च । दुर्बलत्वादैन्द्राग्नादेश्च मुख्यत्वादेकत्वाच्च प्रबलत्वात् तदनुग्रहाय प्रसूनमप्रसूनं वोपादेयमिति पूर्वपक्षं प्रापय्य ऐन्द्रादेः प्रसूनोपादानेऽप्युपपत्त्या एककपालयागस्याप्रसूनोपादाने वेत्यादिदर्शितप्रसून नियमबाधप्रसङ्गादेकं जघन्यमपि द्यावापृथिव्यैककपालमनुसृत्य कांस्यभोजिन्यायेन प्रसूनं बहिरेवोपादेयमित्यधिकारश्च गुणसाधारण्ये विरोधात् । कांस्य भोजिवदमुख्ये वेत्यधिकरणे निर्णीतत्वेनोपक्रमस्थ पुरुषशब्दानुरोधेनात्र भगवत्परत्ववर्णनमेव न्याय सौक्ष्म्यविदां हृदया-

ह्रादजनकम् ।

195

ननु चेतनसामान्यशक्तिरपि पुरुषशब्दस्यास्ति चेत् किं ततः ब्रह्मदेवत्याविष्णुदेवत्या रुद्रदेवत्येतत्प्रायपाले पुरुषदेवयेति देवतात्वोक्तेश्च । अनत्यस्य सामान्यशक्त्यतिरिक्तत्वावसायात् । ननु विष्णुदेवत्येत्युक्तं विष्णुरूढव्यतिरिक्तत्वमक्सीयत इति चेत् न । ब्रह्मादिमध्यपाठेन त्रिमूर्त्यन्तर्गत भगवदवतारस्य । देवतात्वोक्तावपि मूलभूतस्य पृथगर्धमात्रा देवतात्वस्य वक्तुमुचितत्वात् तस्य भगवत्परत्वे बाधकाभावात् । एतदत्र देवतात्वेनोक्तस्य नान्यदेवतात्वमित्यत्र प्रमाणाभावाच्च। अन्यथा सामान्यशक्तेर्देवता त्वोक्त्या प्रकृताननुगुणत्वेन विशेषरूढेश्च भगवद्यतिरिक्तेऽभावेन सर्वथा तदर्थबाधाप्रसङ्गात् ।

वस्तुतस्तु पुरुषशब्दस्य यथा न चेतनसामान्यशक्तिः तथोपपादित-

मधस्तात् ।

"

‘स्वयम्भूश्शम्भुरादित्यः '

सङ्क्षेप्ताक्षेमकृच्छिय, ईशानः ’ ’ प्राणदः प्राण '

इत्यादिसहस्त्रनामपाठात् भगवन्नामत्वमप्यस्तीति कथं शिवोपस्थापनमेव सामर्थ्यम् ।

सायः ।

यदाह कश्चित्-नामसहस्रपाठात् शिवादिशब्दानां भगवन्नामत्वावसर्वार्थाभिप्रायेण ’ यानि नामानि गौणानी त्युपक्रमे भूयोलिङ्गसमवायात् नाम्नां गौणत्वोक्त्या ऋतुपरस्येनादिनामवत् गौणनामत्वाभिप्रायेण वा तदुपपत्तेः । नामसहस्रमध्येऽनेकदेवतान्तरनामपरिगणदर्शनेन तस्य तद्वाचित्वकल्पकत्वे प्रमाणाभावात् । अन्यथा लैङ्गादित्यपुराणादिपठित शिवनाम - सहस्रेष्वनन्तर्भूतविष्णुनामासम्भवात् ।

’ नामानि तव गोविन्द यानि लोके महान्ति च ।

तान्येव मम नामानि नान कार्या विचारणा ||

इति हरिवंशे कैलासयात्रायां शिववचनेन सर्वेषां विष्णुनाम्नामन्येषां चोत्कृष्टनाम्नां हिमकरनाम्नां घनसारनामत्ववत् शिवनामत्वस्य सिद्धेश्च । कचिदपि विष्णु-

196

परत्वनिर्णयो न स्यात् । किं च शिवं प्रस्तुत्य ‘सर्वाणि हवा एतस्य नाम - घेयानी’ त्याश्वलायनस्मरणात् । श्रुत्या वस्त्वन्तरनिर्णयो लुप्येत । अतो न शिवादिनाम्नां भगवद्वाचकत्वसिद्धिरिति

अत्रोष्यते

·

न तावत् सर्वार्थाभिप्रायेण शिवनाम्नां भगवन्नामत्ववर्णनस्योपपत्तिः । तथा सति घटादिशब्दानामपि तन्नामत्वेन विशिष्य कीर्तना सामञ्जस्यात् । नापि ’ यानि नामानि गौणानी’ त्युक्त्या गौणनामत्वेनोपपत्तिः । गौणशब्दस्य कल्याणगुणयोगनिमित्तत्वप्रदर्शनपरत्वेन शक्त्यसादृश्यनिबन्धनत्वप्रतिपादनपरत्वाभावात् । अत एव हि ‘शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः’ इत्यादिपाठ: सुसङ्गतः । न च गौणनामभूम्ना गौणानीत्युपपत्तिः । असिद्धेः । कतिपयान्येव हि पदार्थान्तरवाचकानि तत्र दृश्यन्ते । न च लिङ्गसमवायेन तदुपपत्तिः । गौणशब्दमुख्यार्थभङ्गापत्तेः । गौणशब्दसादृश्यनिबन्धनत्वप्रतिपादनपरत्वे भगवदुत्कर्षप्रतिपादककरणानां तस्यापत्तेश्च । तस्मात् गुणयोगनिमित्तत्व परत्वमेत्र । तदुक्तं भगवद्गुणदर्पणे श्रीपराशर भट्टायैः - दह चतुष्टयीशब्दानां प्रवृत्तिः । द्रव्य, जाति, गुण, क्रिया, विषयभेदेन, अत्र द्रव्योपयिकत्वेनासाधारण्येन वा द्रव्यजातिनिमित्तत्त्वात् प्रकृष्टगुणकर्मनिमित्तत्वमेव भगवन्नाम्नां ब्रवीति । गौणानीति । गुणेभ्यश्च कर्मभ्यश्च निमित्तभूतेभ्य आगतानि यौगिकानीत्यर्थः । गुणशब्दः कर्मणोऽपि प्रदर्शक: । ’ प्रसन्नात्मनो नाम्नां निरुक्तं गुणकर्मजम् ।’ भगवान्

‘गौणानि मम नामानि कीर्तितानि तु कानिचित् ।

नामकर्मार्थ वित्तात

….

निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ ॥ '

इत्यादि वचनादिति । न च देवतान्तरनाम्नां भगवद्वाचित्वे प्रमाणाभाव इति

वाच्यम् ।

विष्णोर्नामसहस्रं मे शृणुपापभयापहम् '

197

इत्युपक्रम्य मध्ये पाठस्यैव तत्र प्रमाणत्वात् । न च तद्वौणनामत्वेऽप्युपपन्नम् । अन्यथा लैङ्गादि पाठित शिवसहस्रनामान्तर्गत विष्णुनामासिध्या विष्णुपारम्य साघनकचैव लुप्येतेति वाच्यम् । तर्हि शिवादि शब्दानामुत्तीर्ण शित्रवाचित्वस्याप्य मावापत्तेः । न हि तद्वाचिःवे निघण्टादिकं किंचित् प्रमाणमस्ति । न च पौराणिक प्रयोगबलात् तत्र शक्ति कल्पनम् । तुल्यत्वात् ।

भगवत्पर-

ननु तत्र शिवादिशब्दानां मुख्यत्वमिति युक्तम् । निषण्डाद्य भिधानसम्बन्धि त्रिमूर्त्यन्तर्गत शिवसमानाकारत्वादुत्तीर्णस्येति चेत् - न । शिवसारूप्यं प्राप्तानामपि तत्समानाकारत्वेन शिवादिशब्दमुख्यार्थत्व प्रसङ्गात् । विष्णुनाम्नां शिवसहस्रनामसु पाठनेऽपि ’ न तु नारायणादीनां नाम्नामन्यत्र सम्भवि ’ ’ सर्वनानां गतिर्विष्णुरेक एव प्रकीर्तित’ इति वचनविरोधात् न तत्र शक्तिकल्पनम् । ’ नामानि तव गोविन्देत्यपि भगवन्नाम्नां महत्वविशिष्टनाम्नां च न शिवनामत्व व्यवस्थापकम् । भगवदुत्कर्षप्रतिपादकप्रकरणानां तु स्यात् । यथा चैतत्तथोक्तमधस्तात् । आश्वलायनवचनं तु ’ सार्वात्म्यभिप्रायेण सर्वनामवाच्यत्वप्रतिपादकमिति न साक्षादभिधाननिमित्तकविचार विरोधीति न कोऽपि दोषगन्धः । तस्मादस्मादुपक्रमगतपुरुषशब्दानुरोधादीशानशंभ्वादि, मित्युक्तम् । न च विष्णोर्जननश्रवणात् तत्परत्वं वक्तुं न शक्यत इति युक्तम् । अजायमानो बहुधा विजायत’ इत्यादिमिस्तज्जननस्याकर्मकृतत्वावर्णनात् । हिरण्मयः शकुनिर्ब्रह्म नाम । येन सूर्यस्तपति तेजसेद्ध: । पिता पुत्रेण पितृमान् योनि योनौ । नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मानं सम्पराये । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् ।’ ( तैत्तिरीयकाठके-8-8) इत्यनेन चाकर्मवश्यत्वं भगवतोऽवगम्यते । हिरण्मयशकुनिरिति भगवतो हंसावता रोक्त्या ‘येनादित्यस्तपति तेजसा भ्राजसा चे ’ ( तैत्तिरीयारण्यकं )त्यम्भस्यनुवाकस्थार्थकस्य ’ येन सूर्यस्तपति तेजसेद्ध इत्यनेनोक्त्या चास्य भगवत्परत्वावगमात् नानावर्णत्वस्य साधारण्योक्तिरपि निष्फला । वैदिकसामान्यात् ’ तस्य हैतस्य पुरुषस्य रूपमित्यादिवाक्यश्रुतरूपं ग्रहीतुं युक्तत्वेन ततो भगवदुपस्थिते सर्वत्रर्णा पुरुषदेवत्येत्यत्नार्धमात्रायाः

198

साक्षात्सर्ववर्णत्वाभावेन देवताद्वारकत्वस्य वाच्यतया तस्य देवतायाः पुरुषदेवत्येत्यनेन पुरुषशब्दवाच्यत्वावगमेन ’ तस्य हैतस्य पुरुषस्य रूपमिति वाक्ये पुरुषशब्दार्थे श्रुतस्य नानावर्णत्वस्योपस्थितेश्च । तस्मात् पुरुषशब्देन नानावर्णत्वलिङ्गेन चोपकमे भगवत्प्रतीतेः । तदनुसारादथर्वशिखा भगवत्परेति सिद्धम् ।

ननु शिवशम्भवीशानादिशब्दघटिताया उपनिषदो विष्णुपरत्व कीर्तनमति साहसमिति चेत्-न । न ’ चेह किं च नाम्र आसीत् दिव्यो देव एको नारायणः, एको ह वै नारायण आसीदित्यादिनारायणादिपदघटितानामुपनिषदां शिवपरत्वकीर्तनस्याप्यति साहसत्वमिति कल्प्यत्वात् । किं बहुना सर्वाणि भूतान्याकाशादेव समुत्पद्यन्ते मामुपास्ते’ त्यादिवाक्यानामाकाशेन्द्राद्यतिरिक्तपरत्वकथनमप्यतिसाहसं [ आदिशब्देन प्राणाधिकरणादीनां ग्रहणम् ] स्यादित्या काशाद्यघिकरणोच्छेदः प्रसज्येत । तस्मादापातप्रतीयमानार्थं विहाय न्यायत्रलादन्यार्थकत्वस्वीकारो न्यायविद्गोष्ठीनेदिष्ठमेवेति दिक् ।

वेदान्त विजयकृतस्तु - ‘अर्धमात्रासम्बन्धितया सोमसंवर्तक सर्ववर्णपुरुषश्रवणात् तदर्थस्यैव च तुरीयत्वेन प्राधान्यात् तत्परत्वावश्यम्भावेन शम्भुशब्दो भगवत्परः । तथा हि ’ यावसानेस्य चतुर्थ्यर्धमात्रा सा सोमलोकवत्यर्थमालासम्बन्धित्वेन सोमलोकश्रुतः । सोमश्च न प्रसिद्धः सोमः अयोग्यत्वात् । किं तु भगवानेवोत्तरतापनीये तयैवोपक्रमे श्रुतस्य सोमस्य नारसिंहत्वेनाप्रे प्रपश्ञ्चनम् । वाराहे - ब्रह्मरुद्रादीनां स्रष्टुः तुरीयस्य विष्णोस्सोमाख्यत्वमभिधायेयं श्रुतिरुदाहृता । तथा हि तत्र सप्तदशाध्याये

’ सर्वे देवास्स पितरो ब्रह्माद्याश्वाण्डमध्यगाः ।

विष्णोस्सकाशादुद्भूता इतीयं वैदिकी श्रुतिः ॥ '

इत्यारभ्य ’ अग्निस्तथाऽश्विनावित्यादिना शन्यादीनां प्रतिपदादितिथिदेवतानामुत्पत्तिमत्वात् । तेषां च वैश्वानरादिरूपाणां शरीरमाश्रितानां ज्यायस्त्वे वित्रादं तत्परिचिक्षित्रया एकैकशोनिर्गमेऽपि सोमांशे सृष्ट्रा या तस्य शरीरस्यापि शरणं

199

नत्रो लक्षितैस्तुतस्य सोमाख्यस्य परमेश्वरस्य स्थिति स्रष्टुः तस्य स्तुत्या प्रसाद शरीरान्तर्वैश्वानरादिरूपेण पृष्टानां बहिरग्न्यादिरूपेण सृष्टया मूर्तरूपद्वयदानं

हमूर्तरूपाणां चाग्न्याश्विन्यादीनां वरप्रदानं चोपन्यस्य,

"

एवं वेदान्तपुरुषः प्रोक्तो नारायणात्मकः ।

इत्येवं प्रभावो देवोऽसौ वेदवेो जनार्दन || '

इने प्रतिपादितम् । अनन्तरमष्टादशाध्यायप्रभृति पश्चत्रिंशाध्यायान्तेन कथमग्नेस्समुत्पत्तिरश्विनोर्वा महामुने’ इत्यादिना नक्षत्रदेवतानां शरीरात् हमूर्तिसृष्टिः प्रतिपादितः । यस्तत्र तद्देवत्यव्रतं चेत्येतान्युक्तानि तत्र सोमाख्येन देवेन शरीरान्तर्वर्तिदेवताया बहिर्विष्णुरूपेण सृष्टिस्तस्य पालनाधिकारतदपेक्षिमार्वज्ञयं भूषणायुधविशेषद्वादशीतिथिदानं तदूव्रतं तस्य नाभिपद्मात् ब्रह्मणः मम्भवश्चैकत्रिंशेऽध्यायेऽभिहितः । तत्र बहिर्मूर्तिवरप्रदानस्रष्टृत्वाबुक्ते प्रागुक्तः मोमाख्यपरमेश्वरो यन्ता नारायण इत्यवगम्यते । त्रयस्त्रिंशेऽध्याये ब्रह्मणो रुद्रादिसृष्टि रुद्राणामकरणादिकमुक्तम् । विंशेऽध्याये काश्यपसन्तानोक्तेगुदित्यान्तर्भावेनेन्द्रादीनांसृष्टिरुक्ता । एवं ब्रह्मविष्णुरुदेन्द्रप्रभृतिहेतुकत्वं सोमाख्यस्य नारायणस्यात्रोक्तम् । पश्चविंशे च

’ योऽसौ क्षेत्रज्ञसंज्ञाव देहेस्मिन्पुरुषः परः ।

स एव सोमोमन्तव्यो देहिनां जीव संशितः ॥ '

इति परस्यैव पुरुषस्य सोमशब्दवाच्यत्वमुच्यते । न च ’ जीवसंज्ञित’ इति वचनात् जीव एवात्र सोम इत्युच्यत इति भ्रमितव्यम् । तत्र ’ परः पुरुष ’ इत्यनुपपत्तेः । ’ क्षेत्रनं चापि मां विद्धीत्यादिषु भगवति प्रसिद्धे जीवसंज्ञितत्वस्य वदमिमान सङ्कर्षणादि मूर्तिमत्वसम्बन्धेन भगवति सम्भवात् । तया च मोक्षधर्मे-

‘अहं हि जीवसंज्ञो वै मयि जीवस्समाहितः ।

सर्वाबासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥

इति च । तस्मात् सोमोऽत्र नारायणः ।

200

तथाऽष्टपञ्चाशे च कान्तिव्रताध्याये

’ बलदेवाय पादौ तु केशवाय तथार्चयेत् । एवम तु मेधावी वैष्णवं रूपमुत्तमम् ॥ परस्वरूपं सोमाख्यं विमलं तदिने हि यत् ॥ '

इत्यादिना सोमाख्यस्य विष्णोर्व्रतमुक्तम् ।

"

कान्तिमानस्मि लोकेषु सर्वशं सर्वदर्शनम् । त्वत्प्रसादात् सोमरूपात् नारायण नमोस्तु ते ॥ '

इति तङ्गमात्रं चामिधाय प्रसिद्धिः सोमोऽप्येतत् व्रताचरणतोषितः सोमाख्यो जनार्दनः तदीयामृतकलायोगादेव सोमत्वं प्राप्त इत्युक्तम् । सोमाख्यत्वोक्त्या भगवति सोमशब्दस्य रूढ्यवगमात् । सोमलोक इत्यत्र सोमशब्देन योगेन देवतान्तर परिग्रहशङ्का निरस्ता ।

तथा प्रणवमात्राविभागकथने पूर्वमात्रालय सम्बन्धित्वेन वेदत्रयानन्तरं क्रमात् ब्रह्मविष्णुरुद्रा उक्ताः । अथार्धमानावा अथर्ववेदान्तरं संवर्तकोऽग्नि ब्रह्मदिदेवताः स तथा न श्रूयते । स चार्धमात्राप्रतिपाद्यस्तुरीयः प्रायपाठात् ।

स च संवर्तकोऽग्निर्भगवानेव यः पुरा । पुरानो भूत्वा और्वः संवर्तको विभुः ॥ '

इति हरिवंशे कृष्णावतार प्रश्नाध्याय वचनात् । तत्रैव पौष्करप्रादुर्भावे क्षीरोदे सागरे चाभं समुद्रे बडबामुखः ।

वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः ॥ '

इति मार्कण्डेयं प्रति भगवद्वचनात् ’ त्वां बाडबामुखाग्निमादुः ’ इति नारायणीये नारदस्तुति वचनात्

‘अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे ।

पिबामि सम्मतं हव्यं कव्यं च श्रद्धयाऽन्वितम् ॥’

201

इति नारदं प्रति भगवद्वचनात् नारायणीय एव नामनिरुक्त्यत्र सरे ’ अय नारायणो लोकहितार्थाय बडबामुखो नाम ऋषिः पुरा बभूवेति वचनात् । ‘अहः संवर्तकोव्याल ’ इति सहस्रनामपाठाच्च । तथा यावसानेऽस्य चतुर्थार्धमात्रा सा विद्युमती सर्वत्रर्णा पुरुषदेवत्येति सर्ववर्णत्वं श्रुतम् । तद्देवताभूत पुरुषस्य तद्वर्णत्वादुपचाराच्चाच्यं पूर्वमाशात्रये ब्रह्मविष्णुरुद्रदेवतया श्रुते मुक्तकृष्णशु कुवर्णस्य तथात्वदर्शनात् । तच्चानेकवर्णत्वं पुरुषशब्दितस्य भगवतो नारायणस्य रूपे प्रसिद्धं भारतादौ । यथा सभापर्वणि -

अव्यक्तोऽव्यक्तलिङ्गस्थ य एष भगवान् प्रभुः । पुरा नारायणो देवः स्वयं च प्रपितामहः ||

सहस्रशीर्षा पुरुषो ध्रुवो व्यक्तस्सनातनः । सहस्रस्य सहस्राक्षस्सहस्रचरणो विभुः || सहस्रबाहुस्साहस्रो देवो नाम सहस्रवान् । सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः ॥

अनेकवर्णो देवादिरव्यक्ताद्वै परे स्थितिः ॥ '

इति । अन पुरुषस्य पुरुषसूक्त प्रतिपाद्यस्य नानावर्णत्वमुक्तम् । महाद्युतिरिति विद्युन्मतीत्येतत् प्रत्यभिज्ञापकम् । मोक्षधर्मे च नारायणीये नारदस्तुत्यन्तरम् -

एवं स्तुतस्स भगवान् गुयैस्स्तव्यैश्च नामभिः । भगवान् विश्वदृसिंहः सर्वमूर्तिमयः प्रभुः ॥ तं मुनिं दर्शयामास नारदं विश्वरूपधृक् । किंचित् चन्द्रविशुद्धात्मा किंचित् चन्द्रविशेषवान् ॥ कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभः । शुकपत्रवर्णः किंचिच किंचित् स्फटिकसन्निभः ॥ किंचिन्मयूरग्रीवाभः मुक्ताहारनिभः कचित् । एतान्वर्णान् बहुविधानूपे बिभ्रत्सनातनः ॥202

सहस्रनयनः श्रीमान् शतशीर्षा सहस्रपात् । सहस्रोदरबाहु वाव्यक्त इत्र च कचित् ॥

इत्याद्युक्त्वा ’ मां प्रविश्य भवन्तीहमुक्ता भक्तास्तु ये मम ।

अहं हि पुरुषोज्ञेयो निष्क्रियः पञ्चविंशकः ॥

मां तु जानीहि ब्रह्मर्षे पुरुषं सर्वगं प्रभुम् ॥’

इति पुरुषत्वं चोक्तम् :

i

‘नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात् '

.

इति । ततः परं च निषिद्धम् । यथा अथर्वशिखायां ’ न कारणं कार - णानामित्यादिना ।

किं च ’ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।

ऋते मामेकमीशानं पुरुषं जीवलोकनम् ॥ '

इति अथर्वशिखार्थः स्फुटमनुगतः । तत्न ‘ध्यायीतेशानमिति शिखा निर्देशा - नुरोधेनेशानमिति पुरुषदेवत्येत्येतदनुराधेन पुरुषमिति ब्रह्मविष्णुरुद्रेन्द्रा इति वाक्यार्थभूतेतरनश्वरत्वाभिप्रायेण ‘नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ’ इत्युक्तम् । ततो

‘हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तकः । ब्रह्मसानुगतो देवो मम ब्रह्वर्थचिन्तकः ॥ '

इत्यादिना ब्रह्मविष्णुरुद्रेन्द्रा इति श्रुतिविवक्षितानां ब्रह्मादीनां सर्वेषां देवानामृषीगां च पितॄणां च पुरुषेण ईशितव्यत्वं प्रपञ्चितम् ।

’ प्रादुर्भावगतश्चाहं सर्वकार्येषु नित्यशः ।

अनुशास्यस्त्वया ब्रह्मा नियोज्यश्च सुतो यथा ॥ '

इत्यादिना ब्रह्मादिभिः सह विष्णोः प्रसूतिरवताररूपेत्याविष्कृतम् । एवं अथर्व शिखा स्थानेकार्थ प्रत्यमिज्ञापनेन पुरुषसंज्ञकस्य नानावर्णकत्व कीर्तनात्

'

203

अथर्व शिखा प्रतिपाद्यो नानावर्ण पुरुषोत्तम इति पञ्चवक्त्र सदाशिवमूर्ती प्रतिमुखं वर्णभेद मात्रामेद नानावर्णत्वस्यान्यभाव सिद्धिशङ्कावकाशः । पुरुषदेऋत्येत्यत्र पुरुषशब्दो भगवत्परः । पुरुषशब्दस्य भगवदसाधारण्यात् । तस्मात्

शम्म्वादिशब्दा भगवत्परा’ इत्यादुः ।

किं च ’ कारणं तु ध्येयः’ इत्यस्य त्येय प्रश्नोत्तरत्वस्य स्थापितत्वात् तस्य च प्रमाणान्तर प्रतिपन्नकारणानुवादेन ध्येयत्व विधिपरत्वात् । तच्छेषभूते चेतरसन्दर्भे पुरोत्रादपर्यालोचनायां कारणस्य नारायणत्वेन प्रतीत्या तद्विरोधेन प्रकरणाघीतपाश्चदश्यावरुद्ध प्रकृतिनिवेशासमर्थविकृति निवेशयोग्यसाप्तदश्य विध्यर्थ (जै. सू. 3 - 6 - 2 ) सामिधेनीप्राप्त्युपेक्षायां चेत् एकता पञ्चदश्यावरुद्धत्वेनैव तासां प्राप्तयां तद्विरोधेन सर्वासु विकृतिषु साप्तदश्यनिवेशासम्भवाच्छम्भुत्वस्य निवेशासम्भव वाक्यभेद प्रसङ्गाच्च । शम्भ्वादि शब्दानां शम्भुत्वादि विधायकत्वा सम्भवादनुवादत्वेन प्रमाणान्तर प्रतिपन्नकारण परत्वात् न रुद्रोपस्थापकत्वमिति नात्रोप संहारस्य प्राबल्यशङ्कावकाशः ।

सामिधेनीनां सप्तदश संख्यायाः विकृतिगामित्व | धिकरणम्

अनारभ्य श्रूयते - सप्तदशसामिधेनीरनुब्रूयात् इति । तपो वाचा - ऽभिद्यत्रः इत्याद्याः अग्नि समिधनार्थाः श्वचः सामिधेन्यः । तासां साप्तदश्यम् । अनारभ्याधीतत्वात् पूर्ववत् प्रकृतिगतम् । यदि प्रकृतौ पंचदशसामिधेनीरन्वाः इति विधिः स्यात् तर्हि पांचदश्य साप्तदश्ये विकल्पेयातामिति – पूर्वः पक्षः ।

सिद्धांतस्तु - विकृतावेव साप्तदश्यं निविशते । प्रकृतौ पांचदश्येनावरुद्धानाम् सामिधेनीनाम् संख्याकाङ्क्षायाः अभावात् । न च पांचदश्य साप्तदश्यवाक्ययोः समानबलत्वात् अवरोधाभावः इति शंकनीयम् । पांचदश्ये प्रकरणानुग्रहस्य अधिकत्वात् । तस्मात् मित्रविदाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते । न चात्र पूर्वन्यायेन साप्तदश्य वाक्यस्य प्रकृतौ निवेशः संभवति । साप्तदश्यस्य चोदक प्राप्त्यभावेन पुनर्विधाने दोषाभावात् । अतः साप्तदश्यस्य विकृतावेव निवेश: । (जै. सू. 8-8 - 2 )

204

यदत्रोक्तं केनचित् कारणशब्दस्य प्रतियोगिसापेक्षत्वार्थत्वस्य ’ सहस्रं देवमपरिमितमि’ त्यत्रापरिमितशब्दस्य बहुत्वार्थस्य सन्निहितसहस्रापेक्षित बहुत्वपरत्ववत् सन्निध्युपवर्णित कार्यभावानां ब्रह्मविष्णुरुद्राणां कारणे पर्यवसानात् । ब्रह्मविष्णुरुद्रशब्दैः स्वरसता प्रतीयमानानां गुणमूर्तीनां त्रयाणां कारणत्वेन श्रुत्यन्तरेऽपि शिवादन्यस्य प्रतिपादनादर्शनात् कथश्चित् सर्वकारणत्वादि प्रतिपादनान्तर्भावेन तत्र तत्सिध्यभ्युपगमे वा इहैव ब्रह्मादीनां प्रसूत्यन्तर्भावेन सिद्धस्य तत्कारण सामान्यस्य समनन्तर वाक्य सिद्धस्यैवानुवादसम्भवे श्रुत्यन्तरमुखनिरीक्षणायोगात् । ’ घ्यायीतेशानमिति ध्येयविशेषस्य प्रागेत्र निर्धारितत्वेन सोपपत्तिकं पुनस्तदर्योपसंहारपरेऽस्मिन्वाक्ये ध्यानविषयपरस्य शब्दस्य देवतान्तर परत्वकल्पनस्यात्यन्तानुचितत्वात् । कथंचिदस्यैव वाक्यस्य ध्येयविशेषनिर्धारणपरत्वेऽपि सामानाधिकृतशम्भ्वादि पदखारस्यानुरोध समनन्तरवाक्य सिद्धकारणमेवेह कारणशब्देनानूयते, न श्रुत्यन्तरसिद्धमिति

तदपि तदुपदेशश्रद्धालुजनेभ्यो रोचते; न तु न्यायपथानुवर्तिभ्यः । कारणशब्दस्य सापेक्षार्थतया सन्निहितकार्यभूतब्रह्माद्यन्वयेऽपि शिवस्यानुवादः । शिवस्यापि वाक्यान्तरे ब्रह्मादिकारणत्वेनाप्रतिपन्नत्वात् । मास्तु वाक्यान्तरे प्रतिपत्तिः । प्रकृतवाक्य एत्र तत्कारणत्वं विधीयत इति चेत् न । अस्य वाक्यस्य ध्येयप्रश्नोत्तरत्वेन ध्येयत्वविधायकतया तदर्थवादस्य ’ ब्रह्मविष्णुरुद्वेन्द्रास्ते सर्वे संप्रसूयन्त ’ इत्यस्य तदेकवाक्यतया तत्कारणत्व विधायकत्वाभावात् । अन्यथा वाक्यमेद प्रसङ्गात् । एतेन प्रसूतेरपादानाकाङ्क्षायां सन्निहितेशानस्य तथात्वेनान्वय इति शिवार्कमणिदीपिका निरस्ता । तथा सति नाशस्य ब्रह्मादिकारणत्वविधौ वाक्यमेद प्रसङ्गात् । अभ्युपगतं च परेणापि ब्रह्मादिप्रसूतिवाक्यस्यार्थवादत्वेन ध्येयविध्यैकवाक्यत्वम् । न चैवमपि नारायणस्याप्यनुवादः । तस्य वाक्यान्तरे प्रतिपादनादर्शनादिति वाच्यम् । विशिष्यातोऽन्यत्राप्रतिपत्तिः । अथ एव सामान्यकरणत्व सिद्धिमुपजीव्यानुवाद सम्भवात् । सामान्यतः कृत्स्नजगत्कारणत्वस्य भगवदेकान्ततयाबस्थापितत्वात् विशिष्य शिवातिरिक्तस्य ब्रह्मादि कारणत्वेन प्रतिपादनादर्शनादित्युक्तिरप्यज्ञानमूलेव ’ नारायणात् ब्रह्मा जायते,

205

नारायणात् रुद्रो जायते, नारायणादिन्द्रो जायत’ इति वाक्यैर्भगवतः स्थिरत्व प्रतिपादनात् । न चात्र विष्णोः कार्यत्वं प्रतीयते, तत्कारणत्वेन च न नारायणस्य प्रतिपत्तिरभेदात् तादृशवाक्यदर्शनाश्चेति वाच्यम् । अमेदेऽपि स्वावताररूपेण कार्यत्व सम्भवात् । ’ अजायमानो बहुधा विजायत’ इत्यादि वाक्यैश्च साधन्तर्गत खावतारकारणत्वस्य प्रतिपन्नत्वाच ।

एतेन ब्रह्मायन्तर्भावेन कृत्स्नजगत्कारणत्वस्यापि प्रकृतवाक्य एव सिध्या कारणसामान्यस्य समनन्तरवाक्यस्यैवानुवादसम्भवे श्रुत्यन्तरमुखनिरीक्षणायोगादिति परास्तम् । कारणत्वस्य समनन्तरवाक्यादसिद्धेरुपपादितत्वात् ।

यदप्युक्तं ‘ध्यायीतेश | नमिति ध्येयविशेषस्य प्रागेव निर्धारितत्वेन सोपपत्तिकं पुनस्तदर्थोपसंहाररूपेऽस्मिन् वाक्ये ध्यानविषयपरस्य शिवातिरिक्तविषयकल्पनस्यात्यन्तानुचितत्वादिति - तदेतन्न विद्वद्गोष्ठीषु शोभते - ’ कारणं तु ध्येय’ इत्यस्य ध्येयप्रश्नोत्तरत्वमभ्युपगम्येदमुच्यते । किं वा ध्यायीतेशानमित्यस्य तथात्वमभ्युपगम्य । नाद्यः ; दूषणस्यालग्नकत्वप्रसङ्गात् । ध्यायीतेशानमिति ध्येयविशेषस्य प्रमाण निर्धारितत्वेनेत्युक्ति व्याघाताच्च । न द्वितीय: ; कारणं तु ध्येय इत्यस्य ध्येयप्रश्नोत्तरत्वमभ्युपगम्य भगवत्परत्वे वर्णिते घ्यायीतेशानमित्यस्य तदुत्तरत्वमभ्युपगम्य दूषणस्य व्यधिकरणार्थत्वात् दूषितं चास्माभिः ध्यायीतेशानमित्यस्य प्रश्नोत्तरम् ।

यदप्यस्यैव वाक्यस्य ध्येयविशेषणनिर्धारणपरत्वेऽपि समानाधिकृतशम्भ्वादिपदस्वारस्या विरोधाय समनन्तरवाक्यसिद्धस्यैव कारणस्यानुवादयोग्यत्वादभ्युदयवाक्ये चान्यत्वेपि सामर्थ्यसिद्धस्यानुवादसम्भवाच्च । उदाहृतश्रुत्यर्थकथनप्रस्तावोपवर्णितेन सामर्थ्येन शिवरूपेणावगमितं समनन्तरवाक्यसिद्धं कारणमेव…. कारणशब्देनानूयत इति – तदप्यतिहासास्पदम् - अस्य ध्येयनिर्धारणपरत्वे कारणस्यैव ध्येयत्वम् । न तु कार्यभूतानामित्येवं ब्रह्मादीनां ध्येयत्वव्यवच्छेदाय - कार्यत्वस्यैव क्क्तव्यतया तत्कारणकथनस्यापेक्षितत्वात् कस्यचित् वस्तुनस्तकारणस्यातैव कपने वाक्यमेदप्रसङ्गाच्च । कारणसमनन्तरवाक्यसिद्धेः तदनु-

J

206

वादासम्भवादस्य वाक्यस्य ध्येयप्रश्नोत्तरत्वे कारणस्य सामर्थ्येन शिवरूपेणावगमासिद्धेश्च । ईशानस्य ध्येयत्वमुक्त्वा किमनेन तादृशेत्याकाङ्क्षायां ब्रह्मादिषु दोषमुद्भाव्य तद्दोषपरिहारकारणे क्रियमाणस्सामर्थ्यादीशान एव कारणमिति गमयतीति त्वयुक्तेः कारणं तु ध्येय इत्यस्य प्रश्नोत्तरत्वपक्षे एवाऽवतारात् ।

ननु ध्येयत्वव्यवच्छेदार्थ ब्रह्मविष्णुरुद्वेन्द्रा इति कार्यकोटिनिविष्टतया कथ्यमानस्य विष्णोः कथं ध्येयत्वमुच्यत इति चेत् न । किं कार्यकोटिनिवेशात् ध्येयत्वं न सम्भवतीत्यभिमतमुत ध्येयत्वव्यवच्छेदात् । नाद्यः, कर्मकृतस्यैव कार्यत्वस्य तत्प्रतिक्षेपकत्वात् । भगवतस्तु ‘अजायमानैः इत्यादिना कर्मकृतजननराहित्यावगमात् । न चेदं वाक्यं ध्येयत्वव्यवच्छेदाय जननं प्रतिपादयत् तस्य कर्मकृतत्वमप्यवगमयतीति वाच्यम् । कर्मकृतत्वाभावप्रतिपादक प्रत्यक्षश्रुतिविरोधेन तत्कल्पनानुदयात् । न द्वितीयः, ध्येयत्वन्यत्रच्छेदकस्याशाब्दत्वात् ।

ननु ध्येयविशेषनिर्धारणार्थ प्रवृत्तमिदं वाक्यमिति कारणैकध्येयत्वमत्रप्रतिपाद्यम् । तचेतराध्येयत्वप्रतिपादनमुखेन कारणध्येयत्वतदितराध्येयत्वयोर्भेदस्तु कथनमुखेन चात्र क्रियत इति ब्रह्माद्यध्येयत्त्रहेतुतयोच्यमानं कार्यत्वं कथं न कर्मवश्यत्वमवगमयति । कथं वाऽध्येयत्वस्य शाब्दत्वेन प्रतिक्षेप इतरध्येयत्वाभावं विना ध्येयविशेषनिर्धारणासम्भवादिति चेत् उच्यते - इतराध्येयत्वं कारणध्येयत्वमित्यर्थद्वयं न विधीयते वाक्यमेदप्रसङ्गात्, गौरवाच । किन्तु कारणध्येयत्वं नियम्यते । ततश्चार्थसिद्धं तदितराध्येयत्वं न शाब्दमिति न तत्र हेत्व - पेक्षा । येन तद्धेतुतयोच्यमानं कार्यत्वं कर्मकृतत्वमवगमयेत् । ततश्च ध्येयत्वहेतुतया प्रसूतिराहित्यमानं कथ्यत इति ब्रह्मादीनां कार्यत्वप्रतिपादनमनुवादो भवतीति यथा प्रापकं यस्य यादृशं जन्म तदनुवादमात्रमेत्र कर्तव्यमिति नेदं वाक्यं जन्मनः कर्मवृतत्वेऽपि प्रमाणम् ।

2

नन्वेवमपि ध्येयत्वहेतुप्रसूत्यभावप्रतिस्पर्धिप्रसूतिमतः कथं ध्येयत्वमुच्यत इति चेत् न । कारणनिष्टप्रसूत्यभावस्तुत्यर्थमन्यत्र प्रसूतिमात्रं कथ्यते । न

207

हि निन्दान्यायेनेति तत्प्रतिस्पर्धिकीर्तनरूपत्वाभावात् । न चैवं ब्रह्मादीनां कथं ध्येयत्वव्यवच्छेद इति शङ्क्यम् । कीर्त्यमानस्य प्रसूतिमत्वस्य बाधकाभावे कर्मकृतत्वावश्यम्भावेन ततस्तद्ध्येयत्वव्यवच्छेदात् । भगवति त्वजायमान इत्यादीनां तथात्वे बाधकत्वमित्यसकृदावेदितम् ।

नन्वेवं प्रसूतिमदभेदः कारणस्य किमर्थं वक्तव्यमिति चेत्प्रमाणस्वारस्यसंरक्षणायेत्यवैहि। सर्वेषां कारणत्राक्यानां नारायणे पर्यवसानं हि प्रथमपरिच्छेदे व्यक्तमुक्तम् । न चैवमप्येकत्र प्रसूतितदभावव्यवहारयोः कथं

सङ्गतिरिति वाच्यम् । मुख्यप्रसूत्यभावेन तदभावव्यवहारस्य सुसङ्गतत्त्रात् । प्रसूतिमत्वव्यवहारस्यास्याविर्भावे प्रसूत्युपचारेण सङ्गतव्यवहाराच्चोभयव्यवहारोपपत्तेः । न चैवं प्रसूयन्त इत्यस्य गौणमुख्यार्थकृतं वैरूप्यं प्रमाणानुसारेण तस्या दोषत्वात् । ज्योतिष्टोमेन स्वर्गकामो यजेते त्यात्मनेपदावगतं ज्योतिष्टोमे कर्तृव्यं हविस्त्यागदक्षिणादानादेर्दव्योत्सर्गादन्यत्र कर्मणि प्रयोजककर्तृत्वमादाय, द्रव्योत्सर्गेतु साक्षादिति वैरूप्यस्य ऋत्विग्भ्यो दक्षिणां ददाती ‘ति वचनान्तरानुसारेण सह सोमौ क्रीणातीत्यभिषेचनीयस्य दशपेयस्य चेत्यत्र क्रीणाते रूपसंपादलक्षणा ’ सद्यो दीक्षयन्ति सद्यस्सोमं क्रीणन्ती ‘ति वचनान्तरानुसारेण चाभ्युपगमात् ।

,

नन्वेवमप्येकत्र स्तुतिनिन्दयोः कथंमुपपत्तिरिति चेत् न । त्रिमूर्तिमध्यावतीर्णत्वरूपावस्थां कार्यरूपां मूलभूतस्वरूपं चादायो भयोपपत्तेः । तस्मादियमुपनिषत् कारणत्वध्येयत्व सामानाधिकरण्यमात्र प्रतिपादनप्रत्रणेत्यनया यत्कारणान्तययमित्येतावन्मात्रं सिध्यतीति कारणत्वप्रतिपादकशास्त्रान्तरपर्याछोचनेनैव ध्येयदेवताविशेषनिर्धारणम् नत्वनयेति सौबालादिषु सकलजगत् कारणतया निर्धारितस्य भगवतो मुमुक्षुध्येयत्वं निष्कण्टकं सिध्यति ।

अथ एव ह्यानुशासनिके

’ सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात् '

208

इति सारतमप्रश्नोत्तरेऽस्मद्वर्णितन्यायमर्यादामनुसृत्य नारायणेऽस्य सकलजगत् कारणवर्णनपूर्वकं ध्येयत्वनिर्धारणमेतच्छ्रुत्ययपबृंहणाभिप्रायेण कृतं दृश्यते ।

भीष्मः

श्रूयतामिदमत्यन्तं गूढं संसारमोचनम् ।

श्रोतव्यं च त्वया सम्यक् ज्ञातव्यं च विशांपते ॥ पुण्डरीकः पुरा विप्रः पुण्यतीर्थजपान्वितः । नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् ॥ नारदश्वाजवीदेतं ब्रह्मणोकं महात्मना । अप्रभूतं प्रभूतार्थ वेदशास्त्रार्थसागरम् || यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः । स एव सर्वभूतात्मा नर इत्यभिधीयते || नरात् जातानि तत्त्वानि नाराणीति ततो विदुः । तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥ नारायणात् जगत्सर्व सर्गकाले प्रजायते । तस्मिन्नेव पुनस्तच प्रलये सम्प्रलीयते ॥

नारायणः परं ब्रह्म तत्त्वं नारायणः परः । परादपि परश्वासौ नास्ति तस्मात्परात्परः ॥

वासुदेवं तथा विष्णुमात्मानं च ततो विदुः । संज्ञाभेदैः स एवैकः सर्वशास्त्रामिसंस्तुतः ॥

आलोज्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥

तस्मात् त्वं गहनान् सर्वान् त्यक्त्वा शास्त्रार्थविस्तरान् ।

अनन्यचेता ध्यायस्व नारायणमजं विभुम् ॥’

इति ॥ अत्र कारणं तु ध्येय इत्यस्य ’ ध्येयो नारायणस्सदे’ त्येतदुपबृंहणमिति सूचयितुं ’ नारायणाज्जगत्सर्वमित्यादिना कारणत्वस्य नारायणनिष्ठत्वं प्रति-

209

पादितम् । पराभिमतनारायणाधिकतत्त्वपरत्वं निषेद्धुं तदधिकतत्त्वस्य शशशृङ्गतुल्यता | परादपि परश्वासावित्यादिना प्रतिपादिता । ’ नादान्ते परमात्मनि इति परमात्मशब्दस्य भगवत्परत्वद्योतनायात्मानं च तथा विदुरित्युक्तम् ।

शम्भु -

नन्वथर्वशिखास्थध्येयत्वं कथं नारायणपर्यवसायि । अत्र शिवेशानादिशब्दसामानाधिकरण्यादित्याशङ्कानिराकरणाय ’ संज्ञाभेदैः स एवैकः मर्वशास्त्रामिसंस्तुत:’ इति तेषां शब्दानां भगवत्परत्वमुक्तम् ।

ननु हिरण्यगर्भादीनामपि तत्र तत्र कारणत्वादिकं प्रतिपाद्यमानं दृश्यते, तत्कथं नारायणस्य सर्वस्मात्परत्वम् । न च संज्ञाभेदैः इत्युक्तरीत्या हिरण्यगर्भशिवादिशब्दानां नारायणपरत्वं प्रमाणाभावादिति चोधनिराकारणपूर्वकम् ।

यच्छ्रेयः परमं कृत्यं अनुष्ठेयं महात्मभिः ।

सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात् ॥ '

इति पूर्वकृतस्यानुष्ठेयार्थप्रश्नस्योत्तरमाह - आलोड्य सर्वशास्त्राणीति । तद्वाक्यमात्रपर्यालोचनत्रतां सूक्ष्मन्यायानभिज्ञानामापातप्रतीतिसन्तुष्टानां च हिरण्यगर्भादिकारणत्वं प्रतीयते । सर्ववेद्गतसर्वशाखाध्यायिनां सम्यग्विचारपौनः पुन्यप्रवृद्ध सूक्ष्म न्यायौषधसंस्तुतस्वान्तनारायणकारणत्वम् । अतो न्यायवशात् हिरण्यगर्भादिशब्दानामपि भगवत्परत्वमुपपद्यत इति तस्यैव सर्वोत्कृष्टत्वं मुमुक्षुध्येयत्वं चोपपद्यत इत्यभिप्रायः । शिव एको ध्येयः सर्वमन्यत्परित्यज्येति वाक्यकटाक्षेण च ।

इत्युक्तम् ।

27

’ तस्मात्त्वं गहनान् सर्वान्त्यक्त्वा शास्त्रार्थविस्तरान् ।

अनन्यचेता ध्यायस्व नारायणमजं विभुम् ॥’

नन्वेतदुपबृंहणेना थर्वशिखाया विष्णुपरत्वं न निर्धारयितुं शक्यते ।

6

यस्मात् सर्वमिदं ब्रह्म विष्णुरुदेन्द्रपूर्वकम् । सह भूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥

210

कारणानां च यो धाता धाता परमकारणम् । न संप्रसूयतेऽन्यस्मात् कुतश्वन कदाचन ॥

स सर्वैर्य सम्पूर्णो नाम्ना सर्वेश्वरः खयम् । सर्वैर्मुमुक्षुमियः शम्भुराकाशमध्यगः ॥

इति शिवपुराणे शिवपरतयोपबृंहणात् । अव ह्यथर्वशिखावाक्यप्रत्याभिज्ञानेन तदुपबृंहणत्वं स्फुटतरमवगम्यत इत्येतदनुसारेणैव श्रुत्यर्थो वर्णयितुं युक्तः ।

किं च ।

‘प्रणवश्शतरुद्वीयं तथाथर्वशिखाः च या ।

एतेषां तु जपः पुत्र स्वाध्याय इति कीर्त्यते ॥ '

इति श्रीरुद्रतुल्ययोगक्षेमत्वकीर्तनात् शैत्रत्वं स्फुटम् |

अपि च ’ सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः ।

ध्येय इत्याह परमा श्रुतिराथर्वणी खलु ॥ '

इत्यादि । अस्याः श्रुतेः शिवपरत्वं शैवपाराशरस्कान्देषु प्रतिपन्नमिति तद्विरोधात् कथमेतदुपबृंहणेन विष्णुपरत्वमथर्वशिखायां वक्तुं शक्यम् ।

उच्यते

1

किं यस्मात्सर्वमित्याद्युपबृंहणविरुद्धत्वान्महाभारतस्थ मेतच्छ्रुत्युपबृंहणं न भगवत्यमिमतम् । किं वा तदुपबृंहणत्वेऽपि एतद्विरोधात् न प्रामाणिकत्वं शक्यमिति । नाद्यः ; तच्छ्रुति प्रतिपाद्यत्व प्रधानस्य मुमुक्षुध्येयत्वस्यात्र प्रतिपादनात् अन्यत्र धातृशम्भ्वादिशब्दवाच्यत्वाभिप्रायेण ’ संज्ञाभेदैः स एवैक’ इत्यस्य प्रवृत्तेः । तत्रत्यध्येयवस्तुकार्यत्वाभाव कथनसिद्धं तत्परतरवस्तुभावस्य ।

‘परादपि परश्चासौ नास्तिं तस्मात्परात्परा । '

इत्युच्यमानत्वात् तदुपबृंहणत्वनिर्धारणात् । न हि विरुद्धोपबृंहणान्तरसद्भावेऽन्यस्योपबृंहणत्वमुपैति । त्वया पुरुषसूक्तस्तु भगवत्परतायां परस्सहस्रोपबृंहणसद्भावेऽपि शिवपरतायामुपबृंहणत्वेन ।

211

द्यौर्मूर्धा तु विभोः तस्य खं नाभिः परमेष्ठिनः '

इत्यादेरुपन्यासदर्शनात् । न द्वितीयः, अविगीतमहाजनपरिग्रहेण सर्वलोकविदितेन सिद्धस्य भारतप्रामाण्यस्य त्वद्वचनविश्वासमात्रावगतं नव्यखरूपमातावचनेन बाधितुमशक्यत्वात् ।

नन्वस्तु भारतस्यापि प्रमाणत्वम्, तथापि तच्छ्रुतिस्थपदप्रत्यमिज्ञानेन शैवपुराणवचने तदुपबृंहणत्वं स्फुटतरमवगम्यत इति तत एव श्रुत्यर्थनिर्णयो युक्तः । नास्फुटतरतदुपबृंहणभावेन भारतवचनेन तदर्थनिर्णय इति चेत् न । इतरांशप्रत्यमिज्ञानाभावेऽपि तच्छ्रुतिप्रतिपाद्यध्येयत्वस्यात्र प्रतिपादनं स्फुटमिति तदशोपबृंहणत्त्रेऽपि षादाभावादुभयत्रापि मोक्षपरमोपायध्यानविषयनिर्धारणं हि क्रियते ।

नन्वेवमपि शिवपुराणवचनविरोधात् भारतं नास्याः श्रुतेर्नारायणपरत्वमवगमयितुमीष्ट इति चेत् न । ’ वैदिकैः स्मर्यमाणत्वात् तत्परिग्रहदार्त्यतः । सम्भाव्य वेदमूलत्वात् स्मृतीनां वेदमूलता ॥’ इत्युक्तरीत्या परिग्रहस्य प्रमाणहेतुत्वात् तदुत्कर्षापकर्षाभ्यां प्रामाण्येऽपि तयोरवगमात् । अत एव हि मनुयाज्ञवल्क्यादिस्मृतिविरोघे तदितरस्मृतेरप्रामाण्यमभ्युपगतं न्यायविद्भिः । तस्मादविगीतसकलवैदिकपरिग्रहार्थ्यातिशयेन भारतस्य प्रमाणतमत्वेन ततो नारायणपरत्वमस्या श्रुतेर्निर्धारयितुं शक्यम् । न तु तद्विरुद्धशिवपुराणवचनेन शिवपरत्वम् । एतेन किं चेत्यपि निरस्तम् । प्रणवश्शतरुद्रीयमि’त्यत्र तज्जपस्य पावनत्वमात्रमुच्यते न तु शिवपरत्वमपि ततोऽवगम्यते । न च श्रीरुद्रतुल्ययोगक्षेमत्व कीर्तनात् शिवपरत्वनिर्णयप्रणवस्य मैत्रायणीयश्रुत्या आत्मप्रबोधोपनिषदादिषु नारायणपरत्वावगमेन तत्साहचर्यबलात् भगवत्परत्वस्यापि वक्तुं शक्यत्वात् । न च शिवयोगिनिरूपणदशायां कीर्तनात् तथात्वनिर्णयः । अन्तः करणशुद्धिहेतुत्वमात्रेणैव तस्याप्युपपत्तेः । अपि चेत्यपि न ।

“212

’ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः '

इति ध्येयत्वं कृत्स्नशास्त्रपर्यालोचनया नारायणैकान्तमित्युक्त्या एकवाक्यापातप्रतीतिसिध्यर्यानुवादशि वस्तुत्यर्थमेषु वचनेषु कियत इत्यवगमात् न शैव पराशरस्कन्दादिवचनैः शिवपरत्वं निर्णेतुं शक्यम् ।

अपि च ‘एको ह वै नारायण आसीत् । न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा समचिन्तयत् । तत एते अजायन्त । विश्वो हिरण्यगर्भाऽग्निर्यमवरुणविष्णुरुद्रेन्द्राः । तस्य हैतस्य परमस्य नारायणस्ये ‘ति पैङ्गिरहस्यश्रुतावथर्वशिखा समानार्थायां विष्णुरुदेन्द्रादय इति शिखावाक्यप्रत्यभिज्ञापूर्वकं तज्जनकस्य नारायणादाविष्करणात् तद्विरोधात् नोपबृंहणानि शिवपरत्वं साधयितुं प्रभवन्तीति पूर्वोक्तोपबृंहणसहकृतैर्न्ययैरथर्व शिखाया भगवःपारम्य प्रतिपादकत्वमेवेति न ततः शिवपारम्य प्रत्याशाक्काश इति सर्व समञ्जसम् ।

ननु कारणानुवादेन ध्येयत्वविधावपि न विष्णोर्येयत्वविधिः । अथर्वशिरसि शिवस्य सर्व कारणत्व श्रवणादन्तर्यामित्वस्य कारणत्व सहचरितस्य तत्र श्रवणाच्चेति चेत् ।

अत्रास्मदाचार्याः

रुद्रत्वस्य सृज्यत्वश्रवणात्

परमकारणत्वा-

भावो दर्शितः । संहार्यत्वं च ’ न ब्रह्मा नेशान ’ इति । उपबृंहिता चेयं श्रुतिः

श्रीविष्णुधर्मोत्तरे

ब्रह्मा शम्भुस्तथैवार्कः

….

चन्द्रमाश्च शतक्रतुः ।

एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥

वितेजसाश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥ '

इति । अतः कार्यकोटिनिविष्टस्य सर्वात्मभावाद्यसम्भवात् व्रतदर्शनोपसनान्वयेन तच्छरीरकपरमात्मपरतयैव निर्वाहो युक्तः । न चात्र न्यायापेक्षा परमात्मानुप्रवेशस्य कण्ठोक्तत्वात् । तथा हि - ‘देवा ह वै स्वर्ग लोकमगमन् । ते देवा रुद्रमपृच्छन् । को भवानिति । सोऽब्रवीत् । अहमेकः प्रथममासे वर्तामि

213

च भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोऽन्तरादन्तरं प्राविशत् । दिशश्चान्तरं स प्राविशत् । सोऽहं नित्यो निजो ब्रह्माऽहं प्राश्चः प्रत्यनोऽहं अधश्चोर्ध्व च दिशश्च विदिशश्चाहं पुमान् स्त्रियश्चाहं सावित्र्यहं गायत्र्यहं त्रिष्टुप् जगत्यनुष्टुप चाहं ’ इत्यादि । अतः सर्वात्मभावमनुसन्दधतो रुद्रस्य बुद्धिस्थः परमात्मा स इति परामृश्यते । अन्नमयादेरन्तरात्मनो बुद्ध्यहङ्काररूपान्तः करणवर्गादन्तरं जीवात्मानं स परमात्मा प्राविशत् । दिक्शब्दो - स्टक्षितबाह्याचेतनानामन्तरं च जीवं स परमात्मा प्राविशदिति तदनुप्रवेशवर्णनोक्तिः ।

ननु सोऽन्तरादित्यादिकं श्रुतिवाक्यम्, न तु रुद्रवाक्यम् । नस्येति करणेन समाप्तत्वादिति न । ’ सोऽहं नित्यो नित्य’ इत्यादीनां रुद्रवाक्यानुगतिदर्शनेन रुद्रवाक्यापरिसमाप्तेः । तथा सति सोऽब्रवीदिति वाक्यान्तराध्याहारो (सम्भवति ) नोपपद्यते । तदसमर्थदेवतात्वेन साजात्येन प्रभा चेति सर्वात्मभाव उक्तः । अन्वयमुखेनोक्तं सर्वात्मभावं व्यतिरेकेणोपपादयति – नान्य इति । इति हेतौ ; मव्यतिरिक्ताभावादित्यर्थः । अयं सर्वात्मभाक्स्य व्यपदेशः, किं परमात्मत्वादुत परमात्मकत्वादिति शङ्कायां परमात्माऽनुप्रवेशनिबन्धन इत्याह सोऽन्तरादिति । खस्मिन् परमात्माऽनुप्रवेशस्य दृष्टान्ताभि-

। प्रायेणोक्तम् । विशश्चान्तरमिति । यद्वा मान्यः कश्विन्मत्तोव्यतिरिक्त इत्युक्ते सर्वात्मव्यपदेशः कीदृश इत्यपेक्षायामाह - इतीति । इतिः प्रकारे । इत्थमित्यर्थः । विवक्षितसर्वात्मत्वप्रकारमाह - सोऽन्तरादिति । शब्दस्योत्तरत्रान्वयः । दिशश्चान्तरं स प्राविशदिति । यस्मात्परमात्मा प्राविशत् । तस्माइस्मच्छरीरकपरमात्मनोऽन्यो नास्तीत्यर्थः । अध्याहारादपि श्रुतपदान्वयविशेषकल्पनं न्याय्यम् ।

….

अस्तु वाऽयमिति शब्दः समाप्त्यर्थः । उत्तरत्र च सोऽब्रवीदित्यघ्याहारः सत्यताम् । तदानीमप्ययमर्थः । स रुद्रः देहेन्द्रियादेरन्तरात् जीवा - दन्तरं परमात्मताबुध्या प्राविशदिति ।

214

यस्य यस्य हि यो भावस्तेन तेन हि तन्नरम् ।

अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ '

इतिवत् । एवं मामुपास्व (कौ - उ8 - 1 ) तद्वैतत् पश्यन्नृविर्वामदेवः प्रतिपेदे (बृ. उ. 1-4-10 )

अहं मनुरभवं सूर्यश्च ।

’ सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।

मत्तः सर्वमहं सर्व मयि सर्व सनातने ।

अहमेवाप्ययो नित्यः परमात्मेत्यचिन्तयत् ॥

इतीन्द्रबामदेवप्रह्लादादीनामिव सर्वान्तर्यामिपरमात्म बुध्या रुद्रस्य सर्वात्मत्वभावोपदेश इत्युक्तं भवति । तथा ह्युपबृंहितवान् सूत्रकारः । त्रिपुरविजये-

विष्णुरात्मा भगवतो भवस्यामिततेजसः ।

तस्माद्धनुर्ज्या संस्पर्श स विषेहे महेश्वरः ||

ब्रह्मरुद्रसंवादे - ‘तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिनः ।

सर्वेषां साक्षिभूतोऽसौ न प्राशं केनचित् कचित् ॥ '

इति च सोऽहमित्यादिना सर्वात्मभावप्रपञ्चनम् ॥ द्वितीयखण्डे - रुद्रवाक्यानुघादेन स्तुतिपरत्वात् तदन्तर्यामि परमात्मविषयम् । यो वै रुद्रस्स भगवान् इति रुद्वान्तर्यामिवासुदेव इत्यर्थः । भगवच्छन्दस्य वासुदेवासाधारणत्वात् । तच दर्शितम् –‘यो वै रुद्रस्स भगवान् यश्च विष्णुरित्यन्तर्यामिण एत्रावताररूपविशिष्टत्यमुक्तम् ।

तृतीये तु परमात्मनो वैभवं ह्याकारस्य नामधेयानि । चतुर्थेन निर्वचनम्, पञ्चमे षष्ठे तु तदेतदुपासितव्मम् नीचाय्यैतां शान्तिमत्यन्त एतीति रुद्रशरीरकपरमात्मोपासनं साङ्गमुक्तम् । तस्मादथर्वशिरसि रुद्रान्तर्यामि नारायण एव प्रतिपाद्यः । यथा प्रतर्दनविद्यायामि ( कौ. उ. 8 -1 ) न्द्रान्तर्यामि इन्द्रो मायामिः पुनरूपे ईयते । ’ इन्द्रं निचिक्युः परमेव्योमन् । इति कारणत्वो-

215

पास्यत्व प्राप्यत्वानि इन्द्रविषयाणि । प्रसिद्धेन्द्रव्यतिरिक्तविषयाणि तथैवान्यत्रापि रुद्रविषयाणि कारणत्वादिपराणि नेतव्यानि । ’ स ब्रह्मा स शिवः सेन्द्र ’ इतीन्द्रतुल्यया भगवद्विभूतित्वादि’ त्याहुः ।

यदाह कश्चित् ’ आयुरायुषा सत्वं सत्वेन धर्म धर्मेण तर्पयामि स्वेन तेजसे ‘त्यन्तं तत्र शिववाक्यम् । अनन्तरं ’ ततो देवा रुद्रं नाश्यन्नि’त्यादेः श्रुतित्राक्यत्वस्य स्फुटत्वात् तत्र शिववाक्यसमाप्तिबोधनाया इति करणं ‘नापश्यन्नि’त्यदर्शनोपपादनायान्तर्धानप्रतिपादनं चापेक्षितमिति ’ सोन्तरादि त्यादि ’ स प्राविशदि ‘त्यन्तं अतिक्लेशं विना न स्थानान्वयि तदन्तरेणैव च नान्यः कश्चित् मत्तो व्यतिरिक्तस्सोऽहं नित्यो नित्य इत्यादि श्रज्वनन्वयमिति च स्पष्टमेतत् । शक्तोऽपि च तत्तत्रापेक्षितं पूरयितुं देवदृश्यं स्थूलरूपं विहाय ततः परं सर्वान्तरं सर्वतो रहस्यं परिपूर्ण रूपं प्राविशदिति तदन्तर्धानप्रतिपादनोपपत्तेः । ततश्चान्योन्याकाङ्क्षाबलात् व्यवहितान्वयो युक्तः । आकाङ्क्षितायाः सन्निधानात् बलीयस्त्वात् ’ यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणमिति वार्तिकोक्तेः ’ आनन्तर्यमचोदने’ (जै. सू. 8-1-14)ति जैमिनिसूत्राच्चाध्याहारात् व्यवहितान्वयस्य ज्यायस्त्वे परेषामप्य-

हस्तावनेजनादीनां कृत्स्त्र प्रकारणिकाङ्गताऽधिकरणम् -

दर्शपूर्णमासप्रकरणे श्रूयते । ’ हस्ताववनेनिक्ते’ उलपराजिं स्तृणाति इति । वेद्यामास्तरितुं संपादितः तृणस्तंत्रः उलपराजि: । तत्र हस्तशुद्धि दर्भास्तरण वाक्ययोः नैरन्तर्येण पठितत्वात् क्रममात्रेण हस्तशुद्धि: आस्तरणमात्रस्यांगमिति पूर्वः पक्षः ।

सिद्धान्तस्तु - अवनेजनं हस्तसंस्कारः । संस्कृतौ च हस्तौ सर्वानुष्ठान योग्यौ । इत्येतादृशं सामर्थ्यं लिङ्गम् । प्ररकरणं च दर्शपूर्णमासयोः स्फुटम् । अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात् सर्वशेषो हस्तशुद्धिः । (जै. सू. 8-1-14)

216

"

विप्रतिपत्तेश्च । शिववाक्यमध्यपतितस्यापि सोऽन्तरादित्यादेः श्रुतिवाक्यत्वेन तदन्त एव निवेशो युक्तः । तस्मात् न सोन्तरादित्यादिवाक्यचलादन्तर्यामिपरत्वकल्पनं युक्तम् । न च तत् युक्तियुक्तम्, प्रतर्दनाख्यायिकायां ’ मामेव विजानीही’ त्यादेरिन्द्रवाक्यस्य शास्त्रदृष्ट्या ब्रह्मविषयत्वस्य तत्र ’ त्वमेववरं वृणीष्व यं तं मनुष्याय हिततमं मन्यस’ इति प्रश्नवाक्यस्य वस्तुतो यद्धितं तद्विषयत्वेनेन्द्रविषयत्वाभावात् अन्तर्यामिपर्यन्तत्यमाश्रित्य कल्पनेऽपीह देवानां को भवानिति शिवसाधारणरूपप्रश्ने तदुत्तररूपस्य ‘अहमेकः प्रथममासमित्यादि शिववाक्यस्यान्यसार्वात्म्यपरत्वे प्रश्नोत्तरयोर्वैयधिकरण्यापत्तेस्तथात्वकल्पनाया अनुन्मेषात् । एवं च ’ सर्वो वै रुद्र: ’ ’ रुद्रो ह्येतत् सर्वमित्यादिश्रुतिः कल्पसूत्र वचनानुगृहीता एतच्छ्रुतिबलात् ‘सर्व खल्विदं ब्रह्मेति ( छा. उ. 8-14-1 ) सर्वात्मकत्वेन प्रतिपन्नं ब्रह्म शिव एवाध्यवसीयते । अतो यद्यनेकस्यासार्वात्म्यो-

1 पदेशो विरुद्ध इति सौबलश्रुताविव कचित् शास्त्रदृष्ट्या उपदेश इति नेतव्यम् । तथा वैयधिकरण्यदोषाप्रसङ्गात् तत्रैव तदुपदेशस्तथा नेतन्यः ।

"

'’

तथा सति चक्षुश्च द्रष्टव्यं च नारायण’ इत्याद्यनन्तरं मन्त्रोपनिषदादौ शिवपरतया प्रतिपन्नेन ’ पुरुष एवेदं सर्व’ इति मन्त्रेण तदुपसंहारः शोभतेतराम् ।

किं च सोऽन्तरादित्यादेः सार्वात्म्योपपादकत्वेऽपि शिवस्यैव सर्वात्मकत्व प्रतिपादकत्वमस्तु । गीतासु -

’ तमेव शरणं गच्छ । मद्याजी मां नमस्कुरु '

इत्यादिषु तत्पदाहं पदयोरन्तरात्मदृष्टिं विना स्वात्मन्येव पर्यवसानायाभ्युपगमेन स्वात्मनि तत्पदप्रयोगस्योपपन्नत्वात् शिवस्यैव सर्वान्तर्यामित्वस्य प्रमाणान्तरसिद्धत्वेन तदतिरिक्तपरत्वस्य कल्पयितुमशक्यत्वाच्च । श्रूयन्ते हि शिवस्याधिष्ठानप्रतिपादनपरा मन्त्रा मन्त्रोपनिषदि - यो योनिं योनिमधितिष्ठति एको यस्मिन्निदं संच विचैति विश्वं स देवो भगवान् वरेण्यो योनिस्वभावादघितिष्ठत्येकः सर्वमेतद्विश्वं मयि तिष्ठत्येको गुणांश्च सर्वान् विनियोजयेत् यः घृतात्परं मण्डमिवातिसूक्ष्मम्, ज्ञात्वा शिवं सर्वभूतेषु गूढम् ’ इत्याद्याः । रुद्रोपनिषदि -

217

’ नमः स्रोतस्याय च द्वीप्याय चेत्याद्याः । सर्वेषु वस्तुषु शिवस्य सद्भावप्रतिपादनपराः रुद्रोपनिषदि ’ यो रुद्रो अग्नौ योऽप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेशे’ त्याद्याः । अपि चाष्टमूर्तित्वप्रतिपादक प्रमाणजातमपि शिवस्य सर्वान्तर्यामित्वे प्रमाणम् ।

ननु पृथिवीजलतेजोवाय्वाकाशसूर्यशशिदीक्षितशरीरकत्वमात्रं ततरिसध्यति

I ततश्च सर्वशरीरकात् तस्य मेद एव सिध्यतीति चेत्-न । बसु मूर्तिष्णन्तर्यामिब्राह्मणोक्तस्य सकलस्यान्तर्भावसम्भवात् भूतेषु तद्विकाराण्यन्तर्भवन्ति । न च महदादीनां अन्तर्भावः शक्यः ।

"

आत्मातस्याष्टमी मूर्तिः शिवस्य परमा तनुः ।

व्यापकेतरमूर्तीनां विश्वं तस्मात् शिवात्मकम् ॥ '

इति शैवपुराणे जीवानामष्टमूर्तित्वस्य श्रवणात् । तद्वारा सर्वेष्टदातॄणां ततनुत्वोपपत्तेः ।

ननु ‘भूम्यम्भोऽग्निमरुद्योमभास्करादीक्षितः शशी '

इति लैङ्गे यज्वन आत्मस्थाने निवेशात् । सामान्यशब्दस्य विशेषे उपसंहारात् शैवपुराणस्थोऽप्यात्मशब्दो यज्वपर एवेति चेत् न । व्यानेन मूर्तीनां ’ विश्वं तस्मात् शिवात्मक्रमि’ त्यस्यासङ्गतिप्रसङ्गात् ।

वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा । शिवस्य पूजया तद्वत् पुरुषत्वं वपुर्जगत् ॥ सर्वोपकारकरणं सर्वानुग्रहणं तथा ।

सर्वाभयप्रदानं च शिवस्याराधनं विदुः ॥

देहिनो यस्य कस्यापि क्रियते यदि निग्रहः । अष्टमूर्तेरनिष्टं तत् कृतमेव न संशयः ॥ '

इत्युत्तरसन्दर्भस्य सर्वदेहिनां शिवमूर्तित्वप्रतिपादनपरस्याप्यसामञ्जस्यापाताच्च । लैङ्गे दीक्षितकीर्तनं तु ‘भूम्यम्भोऽग्निमरुद्योमे त्याद्युपक यैकैकस्याः सर्वलोकोप-

28

218

कारित्वकीर्तनात् उपकारातिशयख्यापनार्थमिति नात्मान्तरशरीरत्वं निषेद्धुं प्रभवति । तस्मादष्टमूर्तित्वबलात् शिवस्य सर्वान्तरत्वं सिध्यतीति युक्तम् ।

यतु ‘तवान्तरात्मा मम चेत्यादिस्तुतिवचनम् । तन्महाभारते बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’ इति प्रश्ने ।

बहवः पुरुषा राजन्, सांख्ययोग विशारदाः । नैतमिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ '

इति मतमुपन्यस्य,

‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।

तथा तं पुरुषं विश्वमाख्यास्यामि गुणातिगम् ॥ '

इति श्लोकेन ‘स वा एष पुरुषोऽन्नरसमय’ इति श्रुति दर्शनात् पुरुषशब्दाभिलप्यमानानां शरीराणां ’ ययैका योनिरि’ति सैष सर्वशरीराभावेनावतिष्ठते । तथैवमेव पुरुषं विश्वं सर्व जीवभावेनावतिष्ठमानमाख्यास्यामीति स्वमतप्रतिज्ञानन्तरं पठितत्वादैकात्म्यपरम्, न तु कस्यचिदन्तर्यामित्वविधानपरम् । अपृष्टोत्तरत्वापत्तेः ।

यच ’ विष्णुरात्मा भगवतो भवस्यामिततेजस’

इति कर्णपर्ववचनम्, तत्रात्मशब्दो मोक्षधर्मे -

’ तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् '

इति कृष्णवचनस्थितात्मशब्दपदमिन्नस्खरूपपरः तत्रैव खारस्यात् । एवं च शिव एव सर्वान्तर्यामीत्यस्यार्थस्य व्यवस्थिते ’ सोऽन्तरादन्तरमित्यादेरन्यपरत्वकल्पनायोगे स्थिते ’ यो वै रुद्र’ इत्यादेर्नारायणविषयत्वकल्पनं रुदेशानमहेश्वरमहा - देवादीनामनिर्वचनस्य प्रसिद्धविरुद्धं रुद्रोपासनविधानस्य परोदितमधुविद्यान्यायेन तत्परत्वकल्पनं च परेषां निरस्तम् । भगवच्छन्दस्यान्यत्रापि पूज्यमात्रेपुराणादिषु प्रचुरप्रयोगदर्शनात् । तस्यापीतरसाधारण्यासिद्धेश्च ।

219

यत्तु नात्मनिर्वचनानां प्रमाणविषयत्वमुक्तम् तदप्यसमञ्जसम् । रुद्रेशानमहेश्वरादीनां निर्वचनानां नामिनोजगत्सृष्टिपालनसंहारत्वस्वतन्त्रत्वप्रतिपादनपराणां प्रकोपविषयत्वायोगात् । ओंकारप्रणवादिनामनिर्वचनं च नामनामिनोरमेदोपचारादुपपद्यते । तस्मादथर्वशिरसि शिवस्यैव जगत्कारणत्वादिकं प्रतिपाद्यत इति प्रतिभाति । न तावत् ‘रुद्रं नापश्यन्नित्यदर्शनोपपादनायामन्तर्धानप्रतिपादकवाक्यापेक्षा । अदर्शनप्रतिपादनेनैवान्तर्धानस्यार्थसिद्धत्वात् प्रतिपादकवाक्यान पेक्षणात् । अन्यथा रुद्रसमीपं गमनं विना प्रश्नाभोगेन तत्समीपगमनप्रतिपादकवाक्यान्तरस्यापि कल्पनाप्रसङ्गात् । शिवस्य परब्रह्मत्वे मुक्तिदशामन्तरेण तदीयहरस्य रूपदर्शनारूप तत्संवादादेस्साधकावस्थानां देवानामसम्भवेन तदाग्रहकृताविर्भावसंपादितदेहवता संवादादेः कर्तव्यतया दनुग्रह हेतुस्तुतिष्यानतदनुग्रहादिर्भारतादिप्रतिपादकवाक्यसमूहकल्पनाप्रसङ्गाच्च । न चार्थसिद्धत्वात् न कल्पनम् । अत्राप्यर्थसिद्धत्वस्य तुल्यत्वेन तदर्थं

• सोऽन्तरादि’ त्या देरुद्धारप्रक्षेपानियोगात् । सन्निहितान्वयसंभवे व्यवहितान्वयकल्पनायोगात् । अन्यथोपवेषाधिकरणविरोध (जै. सू. 8-4-14 ) प्रसङ्गात् ।

नन

यश्चैवं मूलतरशाखां परिवास्योपवेषं करोति उपवेषेण कपालान्युपदधाति शाखया वत्सानपाकरोतीति च श्रूयते । तत्र संशयः किं परिवासनादिकं प्रतिकपालोपधानं क्सापाकरणद्वयं प्रयोजकम् उत वत्सापाकरणोभयार्थमित्युभयं प्रयोजकमिति । तत्र शाखाशब्दस्य समूलाप्रवाचित्वेन शाखां परिवास्येति द्वितीया श्रुतिमूला । समप्रार्थं च परिवासनं तद्वारा कपालोपधानक्साप करणोभयार्थमित्युभयं प्रयोजकम् । न च शाखाशब्दस्य समूलाप्रवाचकत्वंमूलत: शाखां परिवास्येत्यनुपपन्नम् । मूलस्थापादानत्वकर्मत्वयोर्विरोधादिति वाच्यम् । शास्त्रां परिषास्य मूलत उपवेषं करोतीति व्यवहितोऽपि साकाङ्क्षेणोपवेषादानेनान्वयादिति पूर्वपक्षः ।

सिद्धान्तस्तु – सन्निपातान्वयसम्भवे व्यवहितान्वयायोगात् । आकारक्षाया अन्यार्थेनापि मूलेन पूरणसम्भवान् मूल इत्यस्य शाखां परिवास्येत्यने-

220

नान्वयात् शाखांशशब्दस्याग्रमात्रवाचित्वग्रहणार्थं परिवासनमिति तत्कार्य वत्सापाकरणमेत्र प्रयोजकमिति । एवं चाकाङ्क्षाया अन्यथा पूरणसम्भवे व्यवहितान्वयायोगात् स्वस्थान एवान्वयोयुक्तः । न च स्वस्थानेति क्लेश: उद्धारप्रक्षेपाङ्गीकारेण स्थलान्तरान्त्रयपक्षापेक्षया अनैव पदानां मुख्यवृत्तत्वात् स्थलान्तरान्वयपक्षे देवदृश्यं स्थूलरूपं विहाय सूक्ष्मरूपं प्राविशदिति ह्यर्षो वर्ण्यते । न ह्ययमर्थः पदैः स्फुटतरं प्रतीयते । स्थूलरूपसूक्ष्मरूपप्रतिपादकपदाभावात् ।

ततश्च

नन्वन्तरशब्दस्यान्तर्वर्तिपरस्य लक्षणया सूक्ष्मवस्तुपरत्वम्, मनुष्यतुर्दर्शरूपपरत्वं प्रथमान्तरशब्दस्य द्वितीयान्तरशब्दस्य देवदुर्दर्शरूपपरत्वं । अत उक्तार्थ उपपन्न इति चेत् न । अन्तरशब्दयोर्लाक्षणिकत्वप्रसङ्गात् । एकेनैवान्तरशब्देन ’ निरुपाधिकनिर्देशे ह्यसङ्कोचो मनीषिभिः ।

सिद्धे शब्दार्थसम्बन्धः ॥ "

;

इति न्यायेन कथ्यत इत्याचार्य पदोक्तरीत्या परमसूक्ष्मप्रतिपत्तिसम्भवे शब्दान्तरवैयर्थ्यप्रसङ्गात् । अस्मत्पक्षे तु कोशप्रत्यभिज्ञानार्थ शब्दद्वयमप्यर्थवत् । किं च दिशश्चान्तरं संप्राविशदित्येतत् परपक्षे सर्वथा अनन्वयि । कथंचिदन्त्रयसम्भवेऽपि वैयर्थ्यमनिवार्यम् । एतेनान्योन्याकाङ्क्षाबलात् व्यवहितान्वयो युक्त इत्यपि परास्तं वेदितव्यम् । अदर्शनप्रतिपादनेनैवान्तर्धानस्यार्थसिद्धत्वेन तस्यान्तर्धानप्रतिपादकवाक्याकाङ्क्षाया अभावात् ’ सोऽन्तरादि’ त्यादेरन्तर्धानप्रतिपादकत्वस्याप्रतीत्या तस्यादर्शन प्रतिपादकवाक्यापेक्षया अभावाच्च ।

यत्तु को भवानिति प्रश्नस्य शिवविषयत्वात् तदुत्तररूपस्याहमेक इत्यादेरन्यसार्वात्म्यपरत्वे प्रश्नोत्तरयोर्वैयधिकरण्यमिति तन्न सर्वात्मकखान्तर्यामिनिरुपाधिकार्थमादाय वैयधिकरण्यपरिहारसम्भवात् । किं च स ब्रह्मचार्यमित्यस्य स ब्रह्मचारिणो ह्यति विग्रहेऽपि कठ इति प्रतिवचनमुपपद्यत इत्येतदुपपादयितुं भगवता पतञ्जलिना महाभाष्ये वर्णितम् । तथैव खल्वपि के स ब्रह्मचारिणो-

1

221

ऽस्येति कठा इत्युक्ते सम्बन्धादेतद्गम्यते ’ अयमपि कठ इति’ एवं कठ इत्युक्ते सम्बन्धादेतत् भवगन्तव्यं स्यात् । नूनं तेऽपि कठा इति ।

ननु नात्राधिकारार्थमादाय समाधानं सम्भवति । को भवान् देवतामानं उत परमकारणभूत इति प्रश्नोत्तरस्याहमेक इत्यादे रुद्रधर्मिकप्रश्न विषयको - व्यन्तरपरत्वस्य क्क्तव्यत्वात् । न हि सर्वकारणसर्वान्तर्यामिकत्वस्योत्तरवाक्यतात्पर्यविषयत्वे तत्प्रश्न विषयकोट्यन्तरावलम्बनत्वमस्तीति चेत् न । परमकारणभूतान्तर्यामिकत्वस्य तात्पर्यविषयत्वे परमकारणत्वाभावमुखेन देवतामात्रत्वकोटिनिर्धारणावसायात् ।

ननु स्थाणुः पुरुषो वेति संशयानन्तरं पुरुष इत्युत्तरस्य यथा न स्थाणुपरत्वं तथा परमकारणत्वप्रतिपादकवाक्यस्य देवतामात्रत्वकोटितात्पर्यकत्वमिति चेत् - न । यदि वा आसमहमेकमित्यादेर्देवतामात्रत्वकोटौ लक्षणं ब्रूमः तदा पुरुषशब्दस्य स्थाणुपरत्वं यथा न सम्भवति इति तथेदमपीति वक्तुं शक्यम् । किं तु सौवीरराजप्रश्नस्य शरीरविशिष्टात्मगतजातिविशेषविषयस्योत्तररूपेण प्रवृत्तेऽनन्तरसन्दर्भे यथा परिशुद्धात्मखरूपं कृपया भरतेन प्रतिपादितं तथा स्वस्वरूपविषयकप्रश्ने कृते यदि स्वकारणत्वाभावः कथितस्स्यात् तदा परमात्मस्वरूपमेवैतर्न ज्ञायेतेति तज्ज्ञानार्थः । कृपया अहंप्रहेण स्वान्तर्यामिपरमात्मस्वरूपमुपदिष्टं ततोऽर्थात्स्वकारणत्वाभाव पर्यवसानमिति देवतामात्रत्वसिद्धिः । तस्मात् न कोट्यन्तरपरत्वासम्भवः । न च शिक्कारणत्वे प्रतिज्ञापादन परत्वेनोत्तरस्य सुसङ्गतार्थत्वं सम्भवतीति किमर्थं काष्ठागतिराश्रयणीयेति वाच्यम् । सोऽन्तरादन्तरमिति वाक्यसङ्गतये तदवैयर्थ्यायचान्तर्यामिपर्यन्तत्वाश्रयणात् । न च शिवसार्वात्म्योपपादकत्वेन सोऽन्तरादिति वाक्यं सुसङ्गतमिति वाच्यम् । एवमपि दिशश्चान्तरमिति वाक्यवैयर्थ्यस्य दुरुद्धारत्वात् । अस्मिन् पक्षे तु शिवानुप्रवेशप्रतिपादकं दिशश्चान्तरमिति वाक्यं रुद्रवाचकशब्देन पदार्थान्तरवाचकशब्दस्य सामानाधिकरण्यमुपपादयितुं वा दिशश्चान्तरमिति वाक्यं प्रवृत्तम् । न चाविशेषणसोऽन्तरादित्यनेनैव सर्वान्तरत्वोपदेशे सम्भवे दिश-

·222

श्चान्तरमित्येतव्यर्थमिति शङ्कितुमशक्यम् । सोन्तरादिति वाक्यमात्रसत्वे शिवस्यैवैतत्सार्वात्भ्योपपादकमिति शङ्कास्यात् । तद्वारणाय दिशश्चान्तरमित्यस्य सार्थ - त्वात् दिशश्चान्तरमिति वाक्यस्यापि सत्वे हि कृत्स्नपदार्थानुप्रवेशस्य तत एत्र सिद्धत्वात् सोऽन्तरादित्यादिकं रुद्रप्रवेश प्रतिपादकमित्यवगम्यते ।

किं च सोऽन्तरादन्तरमिति कोशप्रत्यमिज्ञाविरोधात् शिवसार्वात्म्योपपादकत्वं न सम्भवति । अन्नमयादिसर्वान्तरस्यानन्दमयस्य ’ सत्यंज्ञानमनन्तं ब्रह्मे त्यनन्तरशब्दानुसारेण विष्णुत्वावगमात् । अनन्तशब्दस्य ‘अनन्तो नागराडू - विष्णुरिति कोशबलात् नामत्नयान्तन्तर्गतत्वेन च भगवदुपस्थापकत्वात् ।

ननु ’ ब्रह्मविदामोति परमित्युक्ते किं तद्ब्रह्मेति जिज्ञासायां तत्खरूप लक्षणपरेस्मिन् वाक्ये सत्वादिशब्दवदनन्तशब्दस्यापि प्रथमान्ततया नपुंसकलिङ्गावेन विष्णुवाचित्व सम्भवात् न तदुपस्थितिः । न च ’ यो वेद निहितं गुहायामि’ त्यस्यानन्तरवाक्योक्तवेदनस्य कर्मसाकाङ्क्षत्वात् द्वितीयान्ता एव सत्वादिशब्दा इति वाच्यम् । तत्रैव ‘गुहायां सन्निहितमिति अस्य सन्निहितत्वात् । ब्रह्मवचनस्य कर्मसमर्पणपरस्य सत्वेन तदनुरोधात् । सत्यादिवाक्यस्य बुमुत्सितलक्षणप्रदर्शनपरत्वभङ्गायोगादिति चेत् - न । ब्रह्मविदाप्नोति परमि त्युक्ते ब्रह्ममात्रस्य बुभुत्सितत्त्रम् । किन्तु ब्रह्म तद्वेदनप्राप्तिप्राप्यानां बुभुत्सितत्वमित्येकस्यैव भङ्गया तद्विवरणम् । ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ त्यादिना क्रियत इत्येक वाक्तयैव सत्यं ज्ञानमित्यस्य ’ यो वेद निहितं गुहायामित्यादेश्चान्वयो युक्तः । अन्यथा वाक्यमेद प्रसङ्गात् । वेदेन प्रतिपादकवाक्यापेक्षायां मिनेन वाक्येन प्राप्ति प्रतिपादनस्यापि कर्तव्यत्व प्रसङ्गाच्च । न च ’ यो वेद सोऽश्नुते सर्वान् कामानित्युक्ते गुणानुभव एव प्राप्तिरित्यर्थात् - गम्यत इति न पृथक् प्राप्ति प्रतिपादक पदापेक्षेति वाच्यम् । ‘सत्यं ज्ञानमनन्तं ब्रह्म यो वेदे त्यन्वयोऽपि सत्यत्त्वादि विशिष्ट ब्रह्मेत्यर्थादवगन्तुं शक्यत्वात् ।

किं च सोऽन्तरादन्तरमित्यस्य रुद्रस्य तत्तदनुप्रवेशपरत्वे सोऽहं नित्य इत्यत्र स इति पदं व्यर्थम् । भगवतो रुद्रानुप्रवेशपरत्वे तु सामानाधिकरण्यस्य

223

भगवदात्मकत्व प्रतिपत्त्यर्थं सोऽहमिति तच्छब्द सार्थक्यम् । एतेन भगवद्गीतासु ’ तमेव शरणं गच्छेत्यत्र तच्छब्देन कृष्णव्यपदेशवत् सोऽन्तरादन्तरमित्यत्र तच्छब्देन रुद्रव्यपदेशस्सम्भवतीति परास्तम् ।

यत्तु ’ सर्वो वै रुद्र’ इति वाक्यानुग्रहाय रुद्रस्य सर्वान्तर्यामित्वं प्रतिपादयतीति तन्न - ’ तस्य पुरुषो वै रुद्र’ इत्युत्तरवाक्यानुसारेण भगवत्परत्वात् । प्रपश्चितश्चायमर्थः पुरुषसूक्तार्थविचारे । कल्पसूत्रकारवचनमप्येतत्समानार्थकत्वात् भगवत्परत्वम् ।

यदपि सौबला

कचित् शास्त्रदृष्टया नेतव्ये सति वैयधिकरण्यप्रसङ्गात् । सौबलादाविव शास्त्रदृष्टया नयनं ‘पुरुष एवेदं च सर्वमिति श्वेताश्वतर वाक्य प्रत्यमिज्ञासुरक्षणायेति तदप्यनुपपन्नम् यत्रान्तर्यामिपर्यन्तत्वे तात्पर्यप्राइकमस्ति । तवैव तथात्वस्य वक्तुं युक्तत्वात् । अत्र सोऽन्तरादन्तरमित्यस्य तथात्वग्राहकस्य सत्वात् । एवं सति हि सोऽन्तरादन्तरमित्यस्य सप्रयोजनत्वं श्रुतिद्वयविरोधशामकत्वात् रुद्रसार्वात्म्यहेत्वनुप्रवेश प्रतिपादनपरत्वे तु नातीव प्रयोजनम् तत्पक्षे सर्वात्मकं ब्रह्मेति निश्चितवतां देवानां रुद्रपरमात्मत्व सन्देहेन प्रश्नेश्रुते तदुत्तररूपेणाहमेक इत्यायनुत्तरसन्दर्भ प्रवृत्तेरङ्गीकृतत्वात् श्रुत्यन्तरे सर्वात्मकत्वस्यानुप्रवेश पूर्वकत्वस्य प्रवेशात् सर्वात्मकत्वोपदेशमात्रस्यैव रुद्रस्य परमात्मत्वसिद्धये कर्तव्यत्वात् । वैयधिकरण्यप्रसङ्गस्तु नातीवदोष

इत्युक्तम् ।

अस्तु वा को भवानिति प्रश्नस्यैवान्तर्यामि विषयत्वम् । तथा च प्रश्नोत्तर - यो वैयधिकरण्यम् ।

यदवोकं शिवकर्णामृते को भवानिति भगवच्छब्देनान्तर्यामिणं पृच्छता देवतानां सर्वशब्दानामन्तर्यामिणि पर्यवसाने व्युत्पन्नानामुत्तरवाक्यस्थिताहं शब्दस्यापि तात्पर्यावसायित्वं स्पष्टमेवेति तान् प्रत्युपपादनीयार्थाभावादुत्तरत्वोपपादकत्वेन सोऽन्तरादित्यादेरन्वयासम्भव इति

224

तन्न सोऽन्तरादित्यादे रुद्रवाक्यत्वेनान्वयासम्भवेऽपि प्रश्नप्रतिवचनयोरन्तर्यामिपर्यवसान तात्पर्यग्राहक वाक्यशेषत्वेनान्वय सम्भवात् । न च पुनस्सोऽहं नित्यो नित्य इत्यादि रुद्रवाक्यानुवृत्त्यनुपपत्तिः । सोऽब्रवीदित्यध्याहारेण तदुपपत्तेः । न च स एव दोषः सोऽन्तरादित्यस्य सार्थत्याय तस्यावश्य कच्यत्वात् । न च प्रश्नविषयाभावोऽन्तर्यामित्व जगत्कारणत्व सामानाधिकरण्याज्ञानेन प्रश्नोपपत्तेः । ’ पुरुष एवेदं सर्वमिति प्रत्यभिज्ञानकथनं तु स्वबाधकं तस्य पुरुषसूक्त प्रत्यमिज्ञापकत्वात् । अत एव हि श्वेताश्वतरस्य भगवत्परत्वमभ्युपगतमस्माभिः ।

यदपि ’ यो योनिमधितिष्ठत्येक ’ इत्यादिमिः शिवस्य सार्वात्म्यमुपदिष्टमिति तदतिरिक्तान्तर्यामिकल्पनमनुपपन्नमिति – तदप्यसङ्गतम् – ‘सूर्य आत्मा जगस्तस्थुषश्च '

’’ आपो वा इदं सर्वं विश्वा भूतान्यापः प्राण वा आपः ’ ’ अहं मनुरभवम् ’ ’ सूर्यश्च ब्रह्मा नारायणः शिवश्च नारायणः चक्षुश्च द्रष्टव्यं च नारायण’ इत्यादिषु शिवातिरिक्तानां सार्वात्म्यादि श्रवणेन शिव एव सर्वातर्यामीत्यस्यापि निर्धारणासम्भवेन विचारस्य सावकाशत्वात् । तर्हि नारायण एव सर्वान्तर्यामीति तत्र कथं निर्णय इति चेत् तत्र वा कथं विनिर्णयः । सूर्यादीनामपि तथात्व श्रवणात् । तस्मादेकस्य सर्वान्तर्यामित्व प्रतिपादक वाक्यानि तदितराणि गौणकानीत्यवश्यं वाच्ये सति येन कार्यत्वादि श्रवणेन सूर्यादिषु तथात्व प्रतिपादकानां मुख्यत्वं तेनैवकार्यत्व कर्मावश्यकादि श्रवणेन शिवस्य सर्वान्तरत्व प्रतिपादक वाक्यानां मुख्यत्वमिति न शिवस्य सर्वान्तरत्वसिद्धिः

ननु कार्यरुद्रापेक्षया अन्य एव सर्वान्तर्यामी रुद्र इति चेत् न । सूर्यादिष्वपि प्रसङ्गात् । ‘यो वै रुद्रस्स भगवान्’ ‘यश्च महेश्वर’ इति रुद्राद्वयश्रवणात् तथात्वमवसीयत इति चेत् न । रुद्रशब्द सर्वान्तर्यामिपरत्वाभाव सिध्यधीनत्वात् रुद्रद्वयासिद्धेः । नन्वेवं सति ‘यो वै रुद्र’ इत्यक्ष रुद्रशब्दस्य रुद्रान्तर्यामिपरत्वे तेनोक्तार्थत्वात् ’ यश्च महेश्वर ’ इत्यनुपपन्नं स्यादिति चेत् - न ! ‘यो वै रुद्र’ इत्यत्र रुद्रोपलक्षित परमात्म परत्वं महेश्वर इत्यत्र तद्विशिष्ट

परमात्मपरत्वमित्यङ्गीकार सम्भवात् । व्यपदेशोपपत्तिः ।

225

अत एवाहमेक इत्यत्र प्रलयकालवर्तित्व

<

यत्तु अष्टमूर्तित्व बलाच्छिवस्य सर्वान्तरत्वं सिध्यतीति तदप्यसारं पृथिव्यादीनां शरीरत्व कथनमात्रेण प्रकृतिमइदहङ्कार कालादिकत्वसिद्धेः । न चात्मन: शरीरतोक्त्या तद्वारा कृत्स्नशरीरत्व सिद्धिरिति वाच्यम् ।

‘भूम्यम्भोऽग्निमरुयोमभास्करादीक्षितः शशी’ त्यादिषु दीक्षितस्य मूर्तित्वकीर्तनेनात्मशब्दस्य तत्परत्वावसायात् । न च ’ व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ’ इत्यादि सङ्गतये ‘आत्मा तस्याष्टमूर्तिश्शिवस्य परमा तनुः’ इत्यत्रात्मशब्दस्य जीववर्गमात्त्रपरत्वं प्रतीयत इति वाच्यम् । तथा सति दीक्षितात्मशब्दयोरनितरस्य लक्षणावश्यम्भावे सामान्यशब्दस्य विशेषपरत्वमेव वक्तुं युक्तम् । न तु विशेषशब्दस्य दीक्षितशब्दस्यात्मसामान्य परत्वम् । मुख्यार्थव्यतिरिक्त लक्षणायां बहिरङ्गलक्षणत्व प्रसङ्गात् । न च वाक्यशेषसङ्गतये तथात्वमस्त्विति वाच्यम् । पृथिव्यां भूतमयदीक्षितशरीरव्याप्तिमादाय ’ व्यापिकेतरमूर्तीनामित्यस्योपपत्तेः । ’ विश्वं तस्मात् शिवात्मकमि’ध्ये तदपि ’ न हिंस्यात् सर्वाभूतानी’ ति सर्वपदवाक्यं संकुचितमेव । एतेन

शाखाः पुष्यन्तीति वै यथा ।

शिवस्य पूजया तद्वत्पुष्यस्यस्य वपुर्जगत् ॥ सर्वोपकारिणं तं तु सर्वानुग्रहणं तथा ।

सर्वाभयप्रदानं च शिवस्याराधनं विदुः ॥ '

महाभूतमयत्वेन सर्वेषां शरीराणां तत्तदेवतादि शरीरपोषणहिंसकाभ्यां शिवशरीरभूतपश्चमहाभूतविषयोनिग्रहानुग्रहयोः प्रसतेरात्मपदस्य जीवपरत्वं विनाप्यनन्तरसन्दर्भनयन सम्भवात् । अत एव वैष्णवे पुराणे

सूर्योजलं महीत्रायुर्वशिराकाशमेव च ।

दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥ '

226

इति मूर्त्यष्टकमुपन्यस्यादी क्षितशरीरकपत्नित्वेन ।

’ स्वाहादिकस्तथा दीक्षा रोहिणी च यथाक्रमम् '

इति दीक्षिताया: कीर्तनमुपपद्यते । एवं सति

‘या सृष्टिः सृष्टुराद्या वहति विधिहुतं या हविर्याच होत्री ’ । इति यत्तत्पित्तमुषस्य योऽस्य हविषे यस्तस्य जीवातवे |

व्योढा यद्गुणमेषमन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥

इति च महाकविव्यवहारः सङ्गच्छते ।

यदपि लैङ्ग उपकारातिशयख्यापनया दीक्षित कीर्तनमिति - तन्न - एवं सति शैवे आत्मकीर्तनस्मृतस्य लोकेऽनुष्ठीयमान सर्वभूतरक्षणादीनां शिवप्रीतिकरत्वं प्रतिपत्यार्थार्थवादित्वमिति वक्तुं शक्यत्वा पातात् । किं चैवमष्टमूर्तित्वं न शिवस्यैवासाधारणमिति वक्तुं शक्यम् । श्रीमति वाराहे

तथैका तस्य देवस्य मूर्तिराद्या धराधरे ।

द्वितीया सलिलं मूर्तिः तृतीया तैजसी स्मृता ॥ चतुर्थी वायुमूर्तिः स्यात् अकाशाख्या तु पश्चमी । एतास्तु मूर्तयस्तस्य क्षेत्रज्ञार्क हिमल्विषाम् ||

मूर्तित्रयं तथा तस्य इत्येता अष्टमूर्तयः ।

याभिर्व्याप्तमिदं विश्वं जगन्नारायणेन हि ॥

इति भगवतोऽप्यष्टमूर्तित्व प्रसिद्धिः शिवस्यैवेति चेत् - न । तस्यात्मनः तन्मूर्तिका दीक्षितस्यैव तन्मूर्तित्व प्रसिद्धेः । तस्मादष्टमूर्तिबलात् न शिक्स्य सर्वान्तरत्व सिद्धि: ।

किं च सुबालोपनिषदि ‘यस्य पृथिवीशरीरं यः पृथिवीमन्तरे - भ्यस्सश्चरन् यं पृथिवी न वेद । यस्याश्शरीरं योऽपामन्तरे सवरन् ’ इत्याद्युक्त्वा एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण’ इत्यन्तर्यामिणो नारायणत्वं स्फुटतरं श्रूयत इति न तदतिरिक्तान्तर्यामि कल्पनम् । अष्टमूर्तित्वं तु

227

नान्तर्यामित्वसाधकम् ; सूर्यस्य त्रयीतनुत्वव्यपदेशवत् । गरुडस्य छन्दोमयत्वव्यपदेशशब्दः यथा सिध्यर्थत्वात् । यत्तु एतानि ह वा अमृतस्य नामघेयानीति जाबालश्रुत्या शतरुद्रीयान्तर्गत शिवादिनामपर्यायत्वावगमात् अमृतशब्दस्य ‘तस्य चैष आत्मा अन्तर्याम्यमृत’ इत्यत्र श्रुते अन्तर्यामि ब्राह्मणस्य शिवपरत्वमिति तुच्छम् । शतरुद्वीयनाम्नां परम्परया मोक्षसम्बन्धमादायामृतस्य नामधेयानीत्युपपत्त्या तद्व्यपदेशस्यामृतशब्दे शिवपर्यायत्व साधकत्वाभावात् । यथा चैतत्तथोक्तमधस्तात् । तस्मात् शिवस्य सर्वान्तर्यामित्वस्य सौबालोपनिषदां नारायणपर्यक्सान प्रतिपादनादथर्वशिरसो नारायणकत्वमेव युक्तम् । ‘तवान्तरात्मा मम’ चेति महाभारते भगवतः शिवान्तर्यामित्वस्य विशिष्य प्रतिपादनात् ।

यत्तु ‘तवान्तरात्मा ममचे’ त्यैकात्म्यपरम् ; न तु कस्यचिदन्तर्यामित्वविधानपरम् ; अपृष्टोत्तरत्वापत्तेः । तद्भि

बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ’ । बहुत्रः पुरुषा राजन् सात्ययोगविचारिणः ।

नैतमिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ '

इति प्रश्न

इति परमतमुपन्यस्य

बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।

तथा तं पुरुषं विश्वमाख्यास्यामि गुणातिगम् ॥ '

इति लोके एकमेव पुरुषं विश्वं सर्वभावेनावतिष्ठमानमानीयास्यामीति स्वमत प्रतिज्ञानन्तरं पठितमिति - तन्न

प्रकरणस्य जीवनानात्वैकत्व संशयोपन्यास

पूर्वकं जी वैकत्वनिर्धारणेपरत्वासिद्धेः । अन्यथा

‘तत्न यः परमात्मा तु स नित्यो निर्गुणस्स्मृतः ।

स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ न लिप्यते कर्मफलैः पद्मपत्रमिवाम्भसा । कर्मात्मा त्यपरोऽसौ मोक्षबन्धैस्स युज्यते ॥ '

228

इत्युत्तरसन्दर्भविरोधापत्तेः । किं तु खतन्त्राः पुरुषा बहवो वा उतैक एवेति प्रश्न तदेकत्व निर्धारण परमेव तत्प्रकरणम् । अत एव

6 बहवः पुरुषा राजन् साज्ञययोग विचारिणः । नैतमिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ '

इति । ’ साङ्खयमेते पठतुण्डवदुभयोरपि संयोगस्तत्कृतस्वर्ग’ इति न्यायेनेश्वर सङ्कल्पादिना कृतजीवसंसर्ग निबन्धनत्वात् जगत्सृष्टे जगत्कारणभूताः पुरुषा बहव इति परमपतमुपन्यस्य

‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।

तथा तं पुरुषं विश्वमाख्यास्यति गुणातिगम् ॥ '

खपक्षप्रतिज्ञाकरणं सुघटितं भवति । तस्य ह्ययमर्थः - देवादिभावमापन्नानां पुरुषाणां यथैकः पुरुषोत्तमः तथा तं पुरुषोत्तममाख्यास्यामीति । न च परोक्तरीत्या ’ स वा एषपुरुषोऽन्नरसमय’ इत्युक्त्या पुरुषशब्दवाच्यानां यथैका योनिरिति सैव शरीरभावे कावतिष्ठते तथैकमेव परम्पुरुषं सर्वशरीरभावेनावतिष्ठमानमाख्यास्यामीति ।

वहवः पुरुषा : ब्रह्मन्नुताहो एक एव तु ।

को हाल पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥

इति त्रिष्वर्थेषु पृष्टेष्वेकोत्तर प्रतिज्ञापरत्ववर्णनस्यानुचितत्वात् । अस्मन्मते तु प्रश्नोत्तर प्रतिज्ञापरत्वं स्फुटमेव । देहादिरूपं बिभ्रतां बहूनामेकः कारणमित्युक्त्या कोव्यन्तरनिरासगर्भिततया पृथक् प्रश्नस्योत्तर प्रतिज्ञा कृता । गुणाधि - कमिति त्रिगुणविनिर्मुक्तत्वोक्त्या को सत्र पुरुष श्रेष्ट इत्यस्योत्तर प्रतिज्ञा कृता । अत एव को वा योनिरिति प्रश्नोत्तर प्रतिज्ञापि सिद्धा ।

अपि चास्मत्पक्षानुसारेणार्थ वर्णनमेवम्

’ बहवः पुरुषा ब्रह्मन् त्वया सृष्टा स्वयम्भुवा ।

सृक्ष्यन्ते चापरे ब्रह्मन् न चक्रुः पुरुषो विरट्

229

इणि प्रश्नोत्तर प्रतिज्ञा रूढत्वेन पुन रुपन्यासः सङ्गच्छते । अत एवोक्तार्थापवादकन्वेन

’ इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । '

इति पुरुषसूक्त कीर्तनमुपपद्यते । तत्र हि ’ मुखादिन्द्रश्चाग्निश्वेत्यादिना परमपुरुषस्य जगत्सृष्टृत्वं प्रतिपादितम् । न च पुरुषाणां नित्यत्वात् कथं तत्कारणत्वं. परमपुरुषस्येति वाष्यम् । देहद्वारकावस्थाश्रयत्वमादाय तत्सृज्यत्वस्य व्यपदेशोपपत्तेः ।

यदपि ’ विष्णुरात्मा भगवतो भवस्यामिततेजसः’ इति वचनस्थितात्मशब्दा मिन्नस्खरूपपर इत्यत्र

’ तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् '

इति वचनस्यात्मशब्दस्य दृष्टान्तत्कथनं तदप्यन्धस्य जात्यन्धेन यष्टिः प्रदीयत इति न्यायं सूचयति ।

’ अयमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन '

इति पूर्वार्धेन सर्वान्तर्यामित्वमुक्त्वा तस्मादिति तस्य हेतुकारणात् रुद्रान्तर्यामिणमिति तद्वाक्यार्थावधारणात् । न च पूर्वार्धस्थात्मशब्दो मिनखरूपपर एवेति वाच्यम् । तर्हि सर्वेषामात्मैक्ये सर्वैः क्रियमाणस्य नमस्कारस्य स्वनमस्कारत्वेन ’ न हि विष्णुः प्रणमति कस्मैचित् विबुधाय तु’ इत्युक्ति व्याघातापातात् । प्रपचितश्चायमर्थः पूर्वमेव । न च ’ तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् ’ इत्यत्र रुद्रशब्दस्य रुद्रान्तर्यामिणरत्वादात्मानमित्येतदमिन्न स्वरूपपरमेवेति वाच्यम् । एतावता भवदमिहित शिवामिन्न स्वरूप परत्वाभावात् । अहमात्मेत्यात्मशब्दवैरूपायान्तर्यामि परत्वस्यैव वाच्यत्वाच्च । रुद्रशब्दवाच्यद्विविधान्तर्यामिणं रुद्रं मामिति तत्त्रार्थक्त्वेन सम्भवात् । रुद्रेशानादीनामनिर्वचनमप्यपर्यवसानवृत्त्या भगक्त्परत्वात् ‘ साक्षादप्यविरोधं जैमिनिरिति ( ब्र. सू. 1-2-28 ) न्यायेनापि तेषां शब्दानां भगवत्परत्वं सम्भवतीत्यमिप्रायेणोपपन्नम् ।

230

यत्तु भगवच्छब्दस्यान्यत्रापि पूज्यमाने प्रयोगात् न नारायणासाधारण्यमिति तत्तुच्छम् । ईशानादि शब्दानामप्यन्यत्र प्रयोगदर्शनेनासाधारण्यसिद्धापत्तेः । न चासाधारण्यग्राहक प्रमाणबलात् तदसाधारण्यम् । तत्र पूज्यपदार्थोंक्ति परिभाषासमन्वितः । शब्दोऽयं नोपचारेणान्यत्र ह्युपचारत ’ इत्यसाधारण्य ग्राहकस्यात्रापि तुल्यत्वात् । तस्मात् भगवच्छन्दसामानाधिकरण्यमपि

यो वै रुद्र’ इत्यस्य नारायणपरत्वे साधकमेव ।

वेदान्तविजयकृतस्तु - ’ अजो वै रुद्र ’ इत्यादिकं परपक्षे सर्वथा असङ्गतमेव । तस्य हि यो रुद्रः स भगवानेव उतोभयात्मकाय भगवते नम इति ह्यर्थः खरसः । भगवच्छब्दस्य रुद्रपरत्वे यो रुद्रः यश्चान्यस्ताभ्यां नम इति वाष्यम् । तस्मा इत्यनन्वितमेत्र यो रुद्रो ब्रह्माऽभूदित्यर्थाङ्गीकारे द्वितीयया वा सामञ्जस्य यो रुद्रोऽभूत् यो ब्रह्माऽभूदित्यर्याङ्गीकारे धम्यन्तरं स्वरसतो लभ्येत । पक्षद्वयेऽपि स भगवानिति तच्छब्दस्य खारसिकतया भगवच्छब्द प्रतिनिर्देशकत्वभङ्गमयो वै रुद्रस्स भगवान् तस्मै नमः यश्च ब्रह्मा तस्मै नम इत्यर्थः । ब्रह्मशब्दो रुद्रपर्यन्त इत्यङ्गीकारेप्ययं दोषः समानः । तस्मै नम इति तृतीय वाक्येन तादृशस्य भगवत एव नमस्कारः क्रियत इति पूर्वोक्तार्थः स्वरसः । एत्रमुक्तार्थस्येह विवक्षितत्वादेव तद्विवक्षाभावे भङ्गयन्तरं दृश्यते । तथा तापनीये ’ यो वै नृसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै वै नम’ इति अत्र पूर्वोक्तार्थस्य तात्पर्यविषयत्वाभावेन ’ यश्च ब्रह्मा सोऽपि भगवानेवेत्येवं वाक्यभेदस्याविवक्षिततया भगवन्निस्यता प्रयुक्त तच्छन्दाप्रयोगः । अत्र ‘यो वै नृसिंहो देवो भगवान् तस्मै नम ’ इति खरूपेण नमस्कृत्य ’ यश्च ब्रह्मा तस्मै नम ’ इत्यन्तर्यामी नमस्यते तस्मै नम इत्येतदुत्तरवाक्य एवान्वितम् । अव्यवधानात् । भूरादिपर्यायेषु तत्पदलिङ्गवचनयोर्मूरादिलिङ्गवचनानुरोधित्वाच्च । पूर्ववाक्ये तत्सजातीय पदाध्याहारः । अतोऽस्मिन् प्रकरणे प्रतिपर्यायमुत्तरवाक्यं तत्तदन्तर्यामि नमस्कारपरम् । अत एव या सरस्वती तस्यै नमः या श्रीस्तस्यै या गौरी तस्यै या प्रकृतिः तस्यै या विद्या तस्यै याश्चतस्त्रोऽर्धमात्रा स्ताभ्यः ये च देवास्तेभ्यः ये चाष्टग्रहास्तेभ्यः यानि पञ्चमहाभूतानि तेभ्यः इत्येवं विशेषणानुसारि लिङ्गानुसा-

231

रीति वचन निर्देशः । स भगवानित्यन्वयस्याविवक्षिततया तत्तदन्तर्यामिनमस्कारस्यैव विवक्षितत्वात् । अथर्वशिरसितु ’ वेत्ति भगवानेव तादृशे भगवते नम’ इत्यन्त्रयस्य विवक्षितत्वादेव या च भूस्तस्यै या च पृथिवी तस्यै या त्वापस्तस्यै यानि च नक्षत्राणि तस्मै ये चाष्टग्रहास्तस्मै नम इति तत्तद्विशेषणातिलचि भगवच्छब्दानुरोधि लिङ्गवचननिर्देशः ।

नन्वस्त्वेवं योजना अथापि यो रुद्रस्स भगवानित्यत्र भगवच्छब्दे यौगिकत्वमेवेष्यत इति चेत् - न । बाधकं विना स्वारसिकरूढिपरित्यागायोगात् । किं च यो रुद्रस्स भगवान् स सार्वश्यादिगुणकः यच्च ब्रह्म सोऽपि सार्वश्यादि गुणकः इत्युक्त्वा अन्यत्रापि तथात्वेऽयोग्यार्थता । रुद्रस्तुति विरोधाच्च । तस्मात् रूढ्या भगवत्परतयैव प्रयुक्तमित्येतद्वाक्य सङ्गत्यर्थमप्यथर्वशिरसि भगवत्परत्वं युक्तमित्याहु: ।

·

यत्तु रुदेशानादीनामनिर्वचनानां नामिनो जगत्सृष्टिपाते संहार स्वतन्त्रत्वप्रतिपादनपराणां प्रणयविषयत्वायोगात् । ओङ्कारादिनामनिर्वचनान्यपि नामनामिनोरमेदोपचारात् शिवविषयाणीति तदप्यसारं उपक्रम ओङ्कारादि प्रणतारादीनामनिर्वचनदर्शनात् प्रतिपर्यायं यस्मादुच्चार्यमाण एवेति शब्दधर्मस्योश्चार्यमाणत्वस्य कीर्तनाच्च । तदनुसारेणोपसंहारगतरुद्रादीनामनिर्वचनानामपि तद्विषयत्वस्यैव युक्तत्वेन सृष्टयादि स्वतन्त्र प्रतिपादनस्यापि तदर्थस्यैवारादुक्तिरित्यनुपपन्नत्वात् । तस्मादुक्तरीत्या भगवत्परैवेयमुपनिषत् । अत एवैतत्सर्वमभिप्रेत्य भगवता बादरायणेन

‘अथर्वशिरसा चैव नित्यमाथर्वणा द्विजाः ।

स्तुवन्ति सततं ये मां तेऽपि भागवताः स्मृताः ॥ '

इत्यस्या उपनिषदो भगवत्परत्वं स्फुटीकृतम् ।

एवं च परोक्तानि तामसपुराणस्योंपबृहणान्यापाततः प्रतीयमानार्थमादाय शिवपरत्व प्रतिपादनपराणि न्यायाभासमूलानि वेदितव्यानि । तस्मात् न्यायोप232

बृंहणाभ्यामस्या उपपिषदो भगवत्परत्वात् निरर्गलम् । सौबलादिमिर्भगवत्कारणत्व प्रतिपादन सम्भवात् कारणत्वं भगवद्धर्म एवेति । ’ कारणं तु ध्येय इत्यथर्वशिखोक्तमपि ध्येयत्वं भगवद्धर्म एवेति सर्वमनत्रयम् ॥ हरिः ओं ॥

नन्वेवमपि कारणत्वं भगवद्धर्म इति न सिध्यति । श्वेताश्वतराणां मन्त्रोपनिषदि ’ कारणं तु ब्रह्म किं दैवतमित्येवं ब्राह्मवादिनां प्रश्नमवतार्य शिवः कारणमिति निर्धारणं दृश्यते । नैवात्र देवता निर्धारणं दृश्यत इति तदनुसारेणैव सर्वत्र कारणवाक्यस्थ नारायणादिपदानां तत्रैव वृत्तेर्वक्तव्यत्वात् । तथा हि तत्रोपक्रमे ब्रह्मवादिनो वदन्ति । किं कारणम् ? ब्रह्म कुतस्म जाता जीवात्मा केन बन्धत्वं प्रतिष्ठा अधिष्ठिताः केन सुखेतरेषु वर्तामहे । ब्रह्मविदोव्यवस्था मिति केषांचित् ब्रह्मवादिनामृषीणां ब्रह्म जगन्मूलकारणमित्येताव निश्चितवतां कारणभूतं ब्रह्म को द्व इति विशिष्टयाबुध्यमानानां कारणं ब्रह्म किमित्यादिरूपान् संशयान् प्रदर्श्य यः कारणानि निखिलानि तानि कालात्मयुक्तान्यचितिष्ठत्येक इत्यारभ्य ‘अक्षरं प्रधानममृताक्षरं हरः क्षरात्मना विशते देव एकः संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं हरते विश्वमीरा’ इत्यादिभिस्तैर्निर्मितमर्थ प्रदर्शयद्भिः मन्त्रैः कालाथवान्तरकारणवृन्दस्याधिष्टाता भगवान् परमशिव एव कारणं ब्रह्मेति स्फुटीकृतम् ।

ननु ’ अक्षरं प्रधानममृते ‘ति मन्त्रे हरशब्दस्य यक्षराक्षसेश्वरदेवताविशेषसमर्पकत्वेनान्वयः । किं तु संयुक्तमेतत्क्षरमक्षरं चेत्यादिमन्त्रस्याक्षराक्षर शब्दार्थबुभुत्सायां क्षरं प्रधानमिति क्षरशब्दार्थविवरणानन्तरं अक्षरशब्दार्य विवरणवाक्ये विधेयसमर्पकत्वेन अन्यथा तद्वाक्यापरिपूर्तेः । न चामृताक्षरमिति पदद्वय सत्वादमृतपदेनाक्षर पदविवरणं क्रियत इति तत्परिपूर्णमिति वाच्यम् । समासस्यैकप्रसरत्वेन विशिष्यैकार्थबोधन स्वभावस्योद्देश्यविधेयोभय प्रसरमेदेन सामर्थ्यविघातात् समासासम्भत्र प्रसङ्गात् । अत एव ’ पशौत्र्यङ्गैः स्विष्टकृतं

233

बजर्ता’ (जै. सू. 10-7-8 ) त्यत्र त्र्यन पदस्य समस्त प्रधान हविर्भूते हृदयाद्यङ्गानुवादेन वित्वविधानं न सम्भवमिति त्रित्व विशिष्टाङ्गान्तर विधानं निर्णीतम् । इज्या विशेषात् स्विष्टकृदिज्यते प्रकृतिवदित्यधिकरण उच्यते - अमृताक्षरमिति नेदं समस्तपदम् । एकार्थयोः पदयोर्विशेषण विशेष्यभावासम्भवेन समासस्यैव लक्षण विरुद्धत्वात् । न चामृताक्षरमिति विवरणीयानुवादो युक्तः । सन्निहित स्त्रान्तरश्रुताक्षर शब्दार्थस्यैव बुभुत्सितत्वात् । नापि हरशब्देन तद्विवरणं युक्तम् । नस्य शिवेरूढत्वात् । जीवशब्द प्रतिपादनक्षमेण हि शब्देन विक्रीतव्यम् । नियाम्ययोः प्रधानपुरुषयोः नियन्तुरीश्वरस्य च पूर्वोत्तरमन्त्रसन्दर्भे उपन्यासदर्शनात् । ’ क्षरंमाया चाक्षरं जीवरूपं क्षरात्मना विशते देव एक ’ इति ब्रह्मगीतोप बृंहणाच्च । न च हरशब्दो जीवे दृष्टप्रयोगः । कथंचिदवयवार्थकल्पने ऽप्युत्तरत्नान्वयेन शक्यसमर्थनाया रूढेस्यागायोगात् । तस्मादनुपपन्नमेतदमृताक्षरं हर इत्युद्देश्यविधेयभावेनान्वय इति । किं त्वमृतेति मिन्नं पदं ’ तृतीया तत्कृतार्थेने’ ति

ज्योतिष्टोमेऽनिज्याशेषैः त्र्यंगैः स्त्रिष्टकृद्धोमाधिकरणम् -

पशौ श्रूयते - त्र्यङ्गैः विष्टकृतं यजति इति । तत्र इज्यार्थानां हृदयाचेकादशाङ्गानां यैः कैश्चित्त्र्यङ्गैः इज्याशेषभूतैः खिष्टकृत् होतव्यः । कुतः । प्रकृताविज्याशेषेण पुरोडाशेन विष्टकृतो दुतत्वादनापि चोदकेन तथात्वात् इति पूर्वः पक्षः ।

सिद्धान्तस्तु – दोष्णः पूर्वार्धादनये समवद्यति, गुदस्य मध्यतः, श्रोण्या जघनतः इति वाक्यशेषेण हृदयादिभ्यः एकादशभ्योऽन्यानि त्रीण्यङ्गानि विष्ट - कृते समाम्नायन्ते । न च हृदयादिष्वपि गुदादीन्याम्नातानि इति शङ्कयम् । तद्विशेषस्य कल्पसूत्रकारेण दर्शितत्वात् । हृदयं जिह्वा वक्षो यकृत् वृक्कौ सव्यंदो: उमेपार्श्वे दक्षिणा श्रोणिः गुदं तृतीयम् इति दैवतावदानानि । दक्षिणोऽसः सव्या श्रोणि: गुदं तृतीयम् इति सौविष्टकृतानि इति । तस्मात् अनिज्याशे षैरङ्गैः विष्टकृद्धोमः । ( जै सू. 10-7-8 )

234

सूत्रे तत्कृतपदमित्र ‘सुपां सुलुगित्यादिना सूत्रेण लुप्तविभक्तिकं जीवपरं ’ क्षरं विद्या ह्यमृतं तु विद्या विद्ये ईशते यस्तु सोऽन्य’ इत्यस्यामेव श्रुतौ तत्र दृष्टप्रयोगत्वात् । ’ जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत’ इति श्रुत्यन्तरे तत्र तदर्थ सद्भावोक्तेश्च । तेन च बुभुत्सितार्थाक्षर शब्दार्थ विवरणं क्रियते । हरशब्दस्तु क्षराक्षरेश्वर देवता विशेष निर्धारणत्वेनोत्तरत्नान्वेतीति-

I

अत्नोच्यते किं कारणं ब्रह्मेत्यस्य देवताविशेष कोटिकसंशयरूपत्वं कुतोऽवसीयते येन देवताविशेषकोटिककारण संशयानन्तरं तन्निर्णायकवाक्ये श्रुतस्य हरशब्दस्य किमयं स्थाणुः पुरुषो वेति संशयानन्तरमयं पुरुष एवेति निर्णायकवाक्ये श्रुतस्य पुरुषशब्दस्येव व्यवच्छेदनीयायां प्रतिकोटी वृत्त्ययोगेन वृत्त्यन्तरकल्पनासहिष्णुत्वाभावेनान्यथासिद्धत्वमिति त्वन्मनोरथसिद्धिः स्यात् । न तावदेतद्वाक्यस्वरसबलात् अत्र तत्तदेवताविषयक कोटयनुपन्यासात् नाप्युत्तरानुसारात् । कारणं ब्रह्मा यमिति देवताविशेषनिर्णायकोत्तरादर्शनात् ।

ननु दृश्यते हि ’ क्षरं प्रधानममृताक्षरं हर’ इतिदेवताविशेषरूढहरपदघटितत्वेन तथा निर्णयजनकमुत्तरमिति चेत् न । अस्य कारणधर्मिकत्वाभावेन किं कारणमिति कारणधर्मिक संशय प्रदर्शनपरं प्रत्युत्तरत्वाकल्पनात् । यदि वा किं कारणमित्यादिकं देवताविशेषकोटिक संशय प्रदर्शनपरमिति निर्धारितं स्यात् । तदा देवता विशेषघटिते नैवोत्तरेण भवितव्यमिति कथंचित् क्लिष्टगत्या तदुत्तरत्वं कल्प्यं स्यात् । न च तत्कोटिकत्वं संशयनिर्धारितं एतदुत्तरबलात् देवताविशेषकोटिकत्वकल्पने चान्योन्याश्रयः । संशयवाक्यस्य देवताविशेषकोटिकत्वे सिद्धे देवताविशेषनिर्धारकेणैवोत्तरेण भवितव्यमपेक्षितत्वादिति कारण मकत्वाभावेऽपि तस्योत्तरत्वकल्पनम् । तस्योत्तरत्वे सिद्धे तस्य देवताविशेषनिर्धारकत्वात् किं कारणमित्यस्य देवताविशेष कोटिकत्वकल्पनमिति ।

ननु कारणधर्मिकनिर्णयजनक वाक्यान्तराभावात् करणत्वनियतनियन्तृत्व प्रतिपादकस्य क्षरप्रधानमित्यादेस्तदुत्तरत्वं सम्भवति । तदनुसारात् देवताविशेषकोटिकत्व संशयस्य ज्ञातुं शक्यमिति चेत् न । यः कारणानि निखिलानि

235

ऋनि कालात्मयुक्तात्मन्यचितिष्ठत्येक ’ इत्येकत्व प्रकारक निर्णयजनकाव्यवहित ऋक्यस्यवोत्तरत्वं एवं सति वक्तुं शक्यमिति तदनुसारात् संशयस्यैकत्वानेकत्व कोटिकत्वस्य खरसतो भासमानत्वेन देवताविशेषकोटिकत्वस्य सिध्यापातात् ।

किं च संशयस्य देवता विशेषकोटिकत्वे ते ध्यानयोगानुगता अपश्यन्नित्यम्यासाङ्गत्यं च स्यात् । यथा चैतत् तथाऽये वक्ष्यते ।

अपि च देवताविशेषरूढ एवात्रत्य हरशब्द इति कथं निर्णयः । योगेन जीवेऽपि सम्भवद्वृत्तिकत्वात् । न च रूढेबलीयस्त्वात्, शिवे च तस्य रूढत्वात् शिवपरत्व निर्धारणमिति वाच्यम् । संयुक्तमेतत् क्षरमक्षरं चेति मन्त्रस्यस्य क्षरशब्दस्य वित्ररणानन्तरमक्षरशब्दार्थस्य बुभुत्सिततया यौगिकार्थस्यैवापेक्षितत्वात् ।

ननु जीवप्रतिपादनक्षमेण हि शब्देनाक्षर शब्दविवरणं कर्तव्यम् । न च हरशब्दो जीवे रूढः । तत्कथं तेनाक्षरशब्दार्थ विवरणम् । तस्मादमृत शब्देन तद्विवरणं युक्तमिति चेत् न । तुल्यत्वात् अमृतशब्दस्य सुधायां मोक्षे च कोशबलात् रूढत्वात् योगेन तत्परत्वं सम्भवतीति चेत् - तुल्यमितरत्रापि ।

नन्वमृतशब्दस्यो देश्यान्तर्गतत्वोऽपि न रूयनुग्रहः हरशब्दस्यापि तूत्तरपदान्वयेन शक्यसमर्थनाया रूढेस्स्यागायोगात् । न तस्याक्षरशब्दार्थ विवरण परत्वम् ; किं त्वमृतशब्दस्यैवेति चेत् न । अमृतशब्दस्य जीवपरत्वं ज्ञातवन्तं प्रति हि तद्विवरणं स्यात् । न च तदत्र वक्तुं शक्यम् ; उभयोयोगनैव तत्पर - त्वात् । न च योगेन तत्परत्वेऽपि अक्षरशब्दान्तान्तर्गतक्षरशब्दार्याज्ञानात् इतरस्य ज्ञानाश्च । तेन तद्विवरणं युक्तमिति वाच्यम् । तस्य लोकत एव विदितत्वात् । अन्यथा ऽक्षरशब्दयोगार्थमज्ञातवन्तं प्रति तद्योगार्थप्रतिपादनप्रवृत्तत्वेऽमृतशब्दस्य तेनाक्षरशब्दस्य जीक्परत्वाज्ञानात् । तत्परत्वज्ञानार्थं पुनरपि हरशब्देनैव तद्विवरणं कर्तव्यमिति घट्टकुट्यां प्रभातन्यायापातात् । न चाङ्गरूढिभ्यामुभयलाभः, रूढेरसिद्धेः । न च लक्षणयाऽमृतशब्दस्य जीवपरत्वं प्रधान पुरुषेश्वरप्रकरण-

236

स्थत्वबलेनैव तस्य शब्दस्य जीवलक्षकत्वं ज्ञातव्यमिति तत एवाक्षरशब्दस्य जीवपरत्वं ज्ञातुं शक्यमिति तद्विवरणानर्थकतापातात् ।

किं चैत्रममृतशब्दस्य लाक्षणिकत्वे मुख्यार्थत्यागरूपदोषस्तत्रापि तुल्यः । अपि च प्रथमश्रुतस्यामृतशब्दस्य मुख्यार्थभङ्गस्तव । मम तु चरमश्रुतस्य हरशब्दस्येत्यस्मत्पक्ष एव ज्यायान् ।

अत एव ‘न प्रथमयज्ञे प्रवृखयात् (जै. सू. 8-8 - 12 ) इति प्रतिषेधो

प्रवर्षाधिकरणम् -

प्रवर्ग्यः अनारभ्याधीतः । यत्प्रवर्ग्य प्रवृणक्ति इति श्रुतः । तस्य च पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति - इति ज्योतिष्टोमाङ्गत्वेन विनियोगः । अव्यभिचरित ऋतु सम्बन्ध सहचरित द्विरुप्तन्यायेन तदुपस्थितेः । न च उपसदङ्गत्वमेत्र प्रवर्ग्यस्य किं न स्यात् इति वाच्यम् । उपसत्पदस्य पुरस्तात्काल प्रतियोगित्वेन स्वार्थापस्थापकस्य उद्देश्य समर्पकत्वाभावात् ।

उपसदः तद्वाचक पदान्तर कल्पनेन उद्देश्यत्वाङ्गीकारे तु उपसदां फलवत्व ज्ञापनार्थ ज्योतिष्टोमोपस्थिते: आवश्यकत्वात् । लाघवेन अव्यमिचरित क्रतुसम्बन्धेन साक्षादेव ज्योतिष्टोमार्थत्वमेव वाच्यम् । तत्र न प्रथम यज्ञे प्रवृञ्जयात् इति श्रुतम् । प्रथमयज्ञपदेन सर्वसंस्थः सर्वावस्थश्च ज्योतिष्टोमो ऽमिधीयते । उत तदीय प्रथमप्रयोगमात्रमिति संशयः । प्रथमयज्ञ शब्द : ज्योतिष्टोमनामैत्र । एष वाय प्रथमो यज्ञो यज्ञानाम् यज्ज्योतिष्टोमः इति सामानाधिकरण्यात् । तस्य प्रथमं प्रयुज्यमानत्वेन प्रवृत्तिनिमित्तत्वाच । यद्यपि अग्निष्टोम संस्थाक ज्योतिष्टोमस्य प्रथमं प्रयुज्यमानत्वं वर्तते - तथाऽपि ज्योतिष्टोमत्व सामानाधिकरण्येन तावत् तदस्य इति न प्रवृत्ति निमित्ताभिघातः । अतो वाक्यात् प्रकरणात् च ज्योतिष्टोमत्वावच्छेदेनैव अयं प्रतिषेधः । ज्योतिष्टोममिन्ने प्रवृणक्ति इति पर्युदासः था । अग्निष्टोमे प्रवृणक्ति इति वचनं अनूचानविषये पर्युदास प्रतिप्रसवार्थ उपसंहियते । तेन श्रोत्रियस्य अग्निष्टोम संस्थाक ज्योतिष्टोमे नित्यं करणम् । अन्यज्ज्योतिष्टोमे नित्यं अकरणं । विकृतिषु च नित्यमकरणम् इति पूर्वः पक्षः ।

237

ज्योतिष्टोमा प्रथमप्रयोगाङ्गं वेति संशय्य यज्ञशब्दस्य यागवचनन्वात् प्रथमशब्दस्य च तद्विशेषणत्वात् ज्योतिष्टोमाङ्गमिति पूर्वपक्षं प्रापय्य प्रयोगपरप्रथमशब्दयज्ञपरत्वे लक्षणा मुख्यस्य पदस्य स्यात् । यज्ञशब्दस्य लक्षणायामपि जघन्यत्वात् न दोष इति राद्धान्तितं प्रवर्ग्य विषये । तथा च हरशब्द एत्र तद्विवरणपरः योगाश्रयणात् । तदाश्रयणेन च तस्य प्रतिबन्ध्याकाङ्क्षायां पदन्यायेन सन्निहित प्रधान सम्बन्धादजा होका भोक्तृभोगार्थयुक्तेति पूर्ववाक्ये भोग्यत्व प्रतिपादनेन वस्तुसामर्थ्येन लिङ्गेन च तस्य भोग्यत्वेनान्वयात् । तथा तस्वीकरण रूपार्थस्य जीवासाधारण्यात् तस्य जीवप्रतिपादनक्षमत्वात् । अतोऽमृत शब्दाऽक्षरविशेषणम् । हरशब्दस्तु तद्विवरणरूप इत्यभ्युपगन्तुं युक्तम् ।

किं च हरपदस्य कथमुत्तरपदान्वयः । किमीशानकर्तृतया किं वा देवविशेषणतया । नाद्यः, देव इत्येकस्यानर्थक्यापातात् । ततो वरं हरपदमुख्यार्थत्व भङ्गः । आनर्थक्यात् वरं लक्षणेति न्यायात् ।

अत एव वाग्यतस्तिस्रो दोहयित्वा विसृष्टवागनन्वारभ्यतूष्णी मुत्तरा दोहयतीति (जै. सू. 11-1-9 ) वाक्ये किमुत्तरासां तिसृणां दोहनं किं वा

सिद्धान्तस्तु प्रथमशब्दस्य अप्रवृत्तप्रवर्तन विषयत्राचित्वात् । आद्यप्रयोगे परत्वावगतेः यज्ञशब्दस्य लक्षणया प्रयोगपरत्वम् । प्रकरणात् ज्योतिष्टोम परत्वं वा अङ्गीकृत्य प्रथम यज्ञपदेन ज्योतिष्टोम प्रथमप्रयोगः अभिधीयते । प्रत्येक शक्त्यैव अर्थ बोधोपपत्तौ अतिरिक्त शक्ति कल्पनायां प्रमाणाभावात् प्रथमशब्दस्य च अप्रवृत्तप्रवर्तन विषयवाचित्वात्, प्रथम प्रयोग परत्वावगतेः यज्ञ शब्दस्य च लक्षणया प्रयोगपरत्वम् । प्रथम यज्ञपदेन ज्योतिष्टोम प्रथम प्रयोगः अभिधीयते । स च अग्निष्टोम संस्थाक ज्योतिष्टोमस्य । अतः अनेन वचनेन प्रवर्ग्यस्य प्रतिषेधः पर्युदासो वा । न तु विकृत्यन्तरे । वस्तुतस्तु विकल्पापेक्षया पर्युदासः एव श्रेयान् (जै. सू. 8-3-12 )

उत्तरादोहयतीत्यत्र सर्वासां गवां दोहनं प्रतिपादयितुं प्रवृत्तं अघिकरणम् :–

दर्शपूर्णमासयोः सान्नाश्यदोहाधिकारे वाग्यतः तिस्रो दोहयित्वा विसृष्ट-

238

यावत्यो यजमानस्य गावस्तासां सर्वासां दोहनमिति संशग्य कपिञ्जल | धिकरण न्यायात् (जै. सू. 11-1-8 ) तिसृणां दोहनम् । न च नास्यैतां रात्रिं कुमारा अपि पयो लमेरन्निति सर्वासां दोहनविधानात् । तत एव प्रार्थकत्वात् यथा प्राप्ति चानुवादनोत्तरां दोहयतीत्यस्य कपिञ्जलाधिकरणन्यायविषयत्वमिति वाच्यम् । सर्वदोहविधायकत्वस्य तद्वाचकपदाभावेन वक्तुमशक्यत्वात् । तत्

वाक् अनन्वारभ्य तूष्णीमुत्तरा दोहयति’ इति श्रुतं । कपिञ्जलाधिकरणन्यायेन उत्तराः तिस्रः एव दोहितव्याः इति भवति । यद्यपि नास्यैतां रात्रिं कुमाराः अपि पयो लमेरन् नाग्निहोत्रं जुहोतीति वचनेन अवशिष्टानां सर्वासां गवां दोहनं संभवति । अथापि आद्यवाक्यस्य पयः प्रदान प्रतिषेधपरत्वेन द्वितीयस्य तत्पर्युदास परत्वेनापि सार्थक्य संभवात् न सर्वासां दोहनं इति पूर्वः पक्षः ।

सिद्धान्तस्तु नास्यैतां इत्यादि द्वयोः वाक्ययोः न प्रतिषेत्रपर्युदासपरत्वम् । अदृष्टार्थत्व प्रसङ्गात् । अपि शब्दस्य वैयर्थ्य प्रसङ्गाच । अतः एत्र तद्बलेन साकल्येन दोहनप्रतीतिर्भति । उत्तराः दोहयतीति अनुवादः अनन्वारंभ मात्रविधानार्थः । अतः सर्वासामेव गवां दोहनम् । न तिसृणामेव गवाम् । (जै. सू. 11-1-9 )

कपिञ्जलाधिकरणम् –(बहुवचनस्य त्रित्वपरत्वम् )

अश्वमेधे श्रूयमाणं वसन्ताय कपिंजलानालमेत इति वाक्ये विव चतुष्टादि संख्यानां बहुत्वसाम्यात् इच्छया याकाचित् बहुत्वसंख्या स्वीकार्या इति पूर्वः पक्षः ।

सिद्धान्तस्तु – त्रित्वेनैव शास्त्रस्य कृतत्वात् तदधिक संख्या न कार्या । चतुष्ट्रादि संख्यावापि त्रित्वस्य दर्शनात् त्रित्वमुपाददाने नतु चतुष्टादिकं वर्जयितुं शक्यते । अतः अवश्यं भावित्वेन लाघवेन च त्रित्वे उपात्ते शाखार्थ सिद्धौ ततोऽधिक पक्षि हिंसायाः प्रत्यवायात् । तस्मात् त्रित्वमेव उपादेयम् । (जै. सू. 11-1-8 )

239

सम्बन्धिपदार्थस्याप्यनुपात्तत्वेन लक्षणाया अप्यसम्भवात् । तस्मिन् नास्यैतां रात्रिमित्यनेन पयः प्राप्तयभावहेतुभूतं पयसोऽप्रदानमेत्र लक्षयित्वा विधीयत इति पूर्वपक्षं प्रापय्य सर्वासां दोहस्याविधानेऽपि प्रतीयमानं पयः प्राप्तथभावहेतुभूतं फ्यसो हविष्टमनेन लक्षयित्वा विधीयते । न च पयसोऽप्रदानमेत्र हेतुतया लक्षयित्वा विधीयताम् । अन्यथा कुमारादिपदानां सर्वेषां लक्षणा स्यादिति वाच्यम् । कुमारा अपीत्यपि शब्दस्यानर्थक्य प्रसङ्गात् । अत्र सर्वेषां पदानां लक्षणामप्यङ्गीकृत्य पयसो हविष्टुमनेन विधीयत इति । तत एव सर्वासां दोहप्राप्तया तूष्णीमुत्तरा दोहयतीत्यस्यानुवादकत्वमिति राद्धान्तित ‘मुत्तरासु यावत्स्त्रमपूर्वत्वादित्यधिकरणे ।

न द्वितीय:, देव एक ईशते सहचर इति वचनव्यक्तिद्वयस्त्रीकारे वाक्य मेदापातात् । तदपेक्षयाऽहंपदरूढिभङ्गस्य युक्तत्वात् । अत एवार्धमन्तर्वेदि अर्ध वहिर्वेदीत्यत्र देशलक्षणाऽङ्गीकृता । एवं च प्राथम्येनामृतशब्दस्य स्वरसतः प्रतीयमानमुद्देश्यकोव्यन्तर्गतत्वमप्यनुगृहीतं भवति । अत एव संज्ञिनमुद्दिश्य संज्ञाया विधेयत्वमभिप्रेत्य महाभाष्ये भगवता पतञ्जलिना ‘पूर्वोच्चारितसंज्ञा सतो हि कार्य कार्येण भवितव्यम् । तद्यथेतरत्रापि सतो मांसपिण्डस्य देवदत्तसंज्ञा कियते । कथं वृद्धिरादैजिति यदेकमाचार्यस्य मङ्गलार्थमृष्यतामिति प्रतिपादितम् । दृढीकृतश्चायं पक्षः शब्द कौस्तुमे

’ यच्छन्दयोगः प्राथम्यमित्याचुद्देश्यलक्षणम् ।

तच्छब्द एवकारश्च स्यादुपादेयलक्षणम् ॥’

इत्यमियुक्तोक्तेः तथैषानुभवाच्च । प्राथम्यं तावत्संज्ञित्वे लिङ्गम् । अदेङ् गुण इत्यादौ स्पष्टमेव । वृद्धिसंज्ञासूत्रे तु मङ्गलार्थं वृद्धिशब्दस्यादौ प्रयोगेऽपि वक्ष्यमाणैर्न्यायान्तरैरादैः अचां संज्ञे निश्चिते सति आदैवृद्धिरित्याकारकपदानुपूर्वीज्ञानानन्तरमेव वाक्यार्थबोधाभ्युपगमात् तज्जनकीभूतानुपूर्वीज्ञाने आदैचामेव प्राथम्यात् न व्यमिचार इति । न चात्रानुपूर्वीभङ्गकल्पना तां विनैवोपपत्तेः । तस्मात् न हरशब्दस्योत्तरपदान्वयः । किं त्वक्षरशब्दविवरणतया पूर्वपाद एवान्वयः ।

240

तदेतत्सर्वममिप्रेत्य श्रीमति शारीरकमीमांसाभाष्ये भगवद्भाष्यकारैरमिहितम् । अमृताक्षरं हर इति भोक्त्रा निर्दिश्यते । प्रधानमात्मनो भोग्यत्वेन हरतीति हर इति । न तु हरतेरनूद्यमानेऽजिति सोपपदाविधीयते कर्मण्यहित्यतः कर्मणीत्यनुवृत्तेः । अतः कथमत्र निरुपपदो हरशब्दः साधुरिति चेत् न । पचाद्यन्तभविनाच् प्रत्ययस्योपपन्नत्वात् । न च पचाद्यन्तर्भावे प्रमाणाभावः । शिवमरिष्टस्य कर इति प्रयोगदर्शनेन यन्दोचिचेत्यच् प्रत्ययपरे यलुग्विधानसामर्थ्याच्च । तत्याकृतिगणत्वात् विशिष्ठत्वादिति दिक् । पश्यद्भ्यो युक्तिदण्डे हरेष्विति वार्तिकेन हरशब्दे परतः षष्ट्या अलुग्विधानसामर्थ्येन हरशब्दस्य पचाद्यजन्तत्व कल्पनाच्च । अजपि सार्वधातुभ्यो वक्तव्य इति महाभाष्योदाहृतेन वार्तिकेन च तत्सम्भवात् परपक्षेऽप्यनुयोगस्य समानत्वाच्च ।

यदप्युक्तं न चामृताक्षरमिति विवरणीयानुवादो युक्तः । सन्निहितमतान्तरश्रुताक्षरशब्दार्थस्यैव बुमुत्सितत्वादिति – सदपि न किममृताक्षरेत्यत्राक्षर शब्दार्थाभावात् नोद्देश्यसमर्पकत्वम् । किममृतशब्दार्थस्याधिकस्य प्रवेशाद्वा । नाथः तत्पुरुषस्योत्तरपदार्थ प्राधान्येन तत्सत्वात् । अत एव न द्वितीयः, प्रधानमूतार्थमुद्दिश्यार्थान्तर विधानसम्भवात् । अमृतशब्दस्य यस्योदयं हविरार्तिमाच्छ्रे - दित्यत्रो भयमित्यस्यानुवादत्वसम्भवात् । अक्षरशब्दार्थ समनियतत्वादात्मनो नित्यत्व ग्राहकप्रमाणैर्वा तत्प्राप्तेः । अनुवादस्य प्रयोजनं तु ‘क्षरं त्वविद्या यमृतं तु विद्येति वाक्येऽमृतशब्देन जीवनिर्देशः । एवमेव हि श्रुत्यन्तरे ‘महतः परमव्यक्तं अनाद्यनन्तं महतः परं ध्रुवमित्यत्र ‘बुद्धेरात्मा महान्परः’ इत्यत्नान्येन विशेषणशब्देन निर्देशो दृश्यते । न चामृताक्षरशब्दयोरेकार्थत्वात् समासानुपपत्तिः ।, अपक्षय विनाशाभ्यां परिणामर्षिं जन्ममिः’ इत्यादौ विनाशद्वैविध्यप्रतिपादनेन द्विविधविनाशराहित्यरूपार्थमेदादिति निष्कण्टकोऽयं घण्टापथः ।

एतेन यदि चामृताक्षरमिति समासपदं, तथाप्यकृत शब्दे नैवाक्षरशब्द विवरणमिति नात्र हरशब्दान्वयः । सप्तदशारनिर्वाजपेयस्य यूप इत्यत्र यूपपदमुख्यार्थतानुरोधात् । समासपदेष्वरत्न्युद्देशेन साप्तदश्यविधि स्वीकारादिहापि

241

हरपदमुख्यार्थतानुरोधात् जगत्कारणे ब्रह्मण्युपक्षिप्त विशेषसंशयव्युदासलाभाय हरपदस्योत्तरत्र देवताविशेषसमर्पण परत्वेनान्वयस्यावश्यकत्वाच्च । अगत्याऽसमर्थ समासाभ्युपगमो दोष इति कस्यचित् साहसिनः प्रलपितमपास्तम् । अमृतशब्देन तद्विवरणासम्भवस्य प्रतिपादितत्वात् हरपदस्योत्तरत्नान्वयसम्भवस्य प्रपश्चितत्वाच्च । नंशयस्य देवताविशेष कोटिकत्वे प्रमाणाभावादित्युक्तत्वाश्च

1

यच सप्तदशारलिन योदाहरणं, (जै. सू. 3-1-9 ) तच्च हरिचन्दनपङ्कभ्रमेण तप्तायः पिण्डस्पर्शन्यायं स्मारयति । न हि तत्रारत्न्युद्देशेन साप्तदश्यं विधीयते । किं तु यूपोद्देशेन सप्तदशारत्नित्वं विधीयते । तत्रारत्निपदार्थस्य प्राप्तत्वात् साप्तदश्ये विधिपर्यवसानं यथा निर्णीत माघाराग्निहोत्राधि करणे (जै. सू.2-2-5 ) दघ्नाजुहोतीत्यत्र दधिविशिष्टहोम विधानपि होमस्यान्यतः प्राप्तेर्दघिमात्रे विधिपर्यवसानमिति फलतो गुणविधिरुच्यते । तेन प्रतीतिस

जाघारा मिहोत्राधिकरणम् -

अग्निहोत्रं जुहोति, दघ्ना जुहोति - इत्येवं कुत्र चिदाम्नायते ।

,

अन्यत च आघारमाघारयति ऋजु माघारयति ऊर्ध्वमाचारयति इति च । तत्र अग्निहोत्रं जुहोतीति वाक्यं -दना जुहोति इत्यादि वाक्यविहितस्य कर्म समुदायस्य अनुवादः | आघारवाक्यं च ऊर्ध्वादिवाक्यविहितस्य यागस्यानुवादः । अग्निहोत्र जुहोति आधारमाघारयति इति वाक्यस्य च न कर्मविधायकत्वम् । द्रव्यदेवतालक्षणस्य यागरूपस्याभावात् इति पूर्वः पक्षः ।

सिद्धांतस्तुः नाग्निहोत्र वाक्यं समुदायानुवादरूपम् । परंतु कर्मनामधेयमेव । तत्र द्रव्यं दना जुहोति इत्यादिवाक्यैः लभ्यते । देवतातु मांत्रवर्णिकी एव । आधारमाघारयति इत्यत्रापि, आघारशब्दस्य कर्मनामधेयत्वमेवांगीक्रियते । द्रव्यदेवते तु आज्येनाघारयति, प्रजापतिं मनसाध्यायनाधारयति - इन्द्रावान् स्वाहा इति मंत्र: देवतालाभः | अतः अग्निहोत्रशब्दः आघारशब्दश्च कर्मनामधेयमेव । ( जै. सू. 2-2-5 )

। (जै.

31242

इति आह च भवनाथः । न च समासेनापि विधौ प्राप्ता प्राप्तविवेको नास्ति । त्र्यमैरित्यत्र न पदद्वयमुख्यार्थात्मकविनियोगानुरोध इति । प्रकृते तु समासार्थविधौ न किंचिदुद्देश्यसमर्पकमस्तीत्यक्षरशब्दस्य तथात्वं वाच्यमिति व्यङ्गाधिकरणोक्तरीत्याएकप्रसरमेदे सामर्थ्यं हि विहन्यत इति दोषोऽनिवार्यः स्यात् ।

अत एव वषट्कर्तुः प्रथममक्ष (जै. सू. 85 - 10 ) इत्यत्र न भक्षो - देशेन प्राथम्यं विधीयते । समासस्यैकप्रसरत्वात् । किन्तु प्राथम्यविशिष्टभक्षणं विधीयत इति मीमांसाभिज्ञैर्वर्णितम् । तस्मात् समासाभ्युपगमपक्षेऽमृतशब्दे नै वाक्षरशब्दविवरणमिति मूर्खप्रलपितमेव । तथा च हरशब्द एव विवरणपर इति तस्य जीवपरत्वात् न देवताविशेषपरत्वमिति न हरपदघटितैतद्वाक्यबलात् संशयस्य देवताविशेषको टिकत्वकल्पनम् ।

नापि ‘व्यक्ताव्यक्तं भरते विश्वमीश’ इति वाक्यानुसारात् बन्धहेतुभूतानीशान प्रतिकोटिभूतेशानप्रतिपादनमात्रपरत्वेन रुद्रपरत्वासिद्धेः । अन्यया

वषट्कारस्य भक्षणनिमित्तताधिकरणम्-

सोमे वषट्कर्तुः प्रथम भक्षः इति श्रूयते । वष्टकर्ता च होता । तस्य भक्षणं च समाख्यया प्राप्तम् । परं तु प्राथम्यं न प्राप्तम् । अतः अप्राप्त प्राथम्य प्रापणार्थं वषट्कर्तुः प्रथम मक्षः इति उक्तमिति पूर्वः पक्षः ।

सिद्धान्तस्तु – न समाख्यया प्राप्तस्य प्राथम्य विधिः । प्रथम भक्षः इति समस्तपदेन यो मक्षः सप्रयमः इति भक्षोद्देशेन प्रायम्य विधानं कर्तव्यम् । परंतु नैतद्युज्यते । एक प्रसरता भङ्गापत्तेः । एकस्मिन्नेव पदे उद्देश्य विधेय भावः न समुचितः । अतः कर्मान्तरमेवेदं सर्वत्र उद्देश्य विधेयस्थले उद्देशे विधेयान्वयात् पूर्वं उद्देश्यस्य उद्देश्यत्वेन क्रियान्वयः अवश्यं वक्तव्यः । क्रियान्वयात् पूर्व भक्षप्राथम्ययोः विशेषण भावानवगमात् एकार्थी भावलक्षण सामर्थ्य भंगात् अपरिपूर्ण समास पदस्य पदांतरेणाख्यातेनापि अन्वयायोगः अतः वषट्कार निमित्तकमिदं भक्षणम् अपूर्वमेव प्रतिपाद्यते । विशिष्टविधौ न वाक्यभेदः । प्राप्ते विधानैः वाक्यभेदः स्यात् (जै. मू. 8-5-10)

243

योगार्थस्य रूढ्यर्थविशेषणतया निमग्नस्य प्राधान्येनोपस्थित्यभावेन प्रतीयमानप्रतिकोटित्वभङ्गात् । न चानीश इत्यत्रापि रुद्रमिन्नत्वमेवार्थ इति वाच्यम् । रुद्रमिन्नत्वस्य बन्धहेतुत्वाप्रसिद्धेः । असामर्थ्यस्यैव तेन पदेन बोधनात् । अतः नंशयदेवता विशेषकोटिकत्वेन किंचित् प्रमाणमिति ।

अत्र कस्यचिदर्थान्तरस्य वर्णयितुमशक्यत्वात् संशयस्य देवताविशेषकोटिकत्वमङ्गीक्रियते । तथा च तदनुरोधेन क्षरं प्रधानममृताक्षरं हर इत्यस्य कयंचिदुत्तरत्वेन देवताविशेष निर्धारकत्वं वाच्यम् ।

ननु नार्थान्तरस्य वर्णयितुमशक्यत्वं जगत्कारणं वस्तु ब्रह्म वा ततोऽन्यत् कालादिकं वेति संशयप्रदर्शन परत्वस्य वर्णनसम्भवात् । एवमेतस्यार्थो वर्णयितव्यः । ’ कालखभावो नियतिर्यदिच्छा भूतानि पुरुष ’ इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोरिति द्वितीयमन्त्रे कालादिकारणवादनिरासदर्शनात् । अन्यथा देवतान्तरस्यैव कोट्यन्तरस्य निरसनीयतया नन्दसाङ्गव्यापत्तेरिति चेत् न । न ह्यत्र जगत्कारणं वस्तु ब्रह्म वा कालादिकं वेति विमर्शो दर्शितः । द्वितीयकोटेरश्रवणात् संशयवाक्य सामान्यतस्सम्भावित यावत्को ट्युपस्थापनक्षम किं शब्दमात्रघटितं स्यात् । यथा कोऽयं वृक्ष इति विशिष्य तत्तत्कोटि विशेषपरशब्द विशेषघटितं वा । यथा अयं वृक्षः श्रुतः पनसो वेति विशिष्यैककोटिमात्रोपन्यासस्तु व्युत्पत्तिविरुद्ध इति समभिव्याहृत ब्रह्मपदान्वयलाभाच्च । कोट्यन्तराध्याहारस्तावदवर्जनीयः । किं यज्ञदत्त इति ऋदुत्कटकोटिकर्सशयवाग्रूपत्वे कुत स्म जाता इत्यादि कोट्युत्कटत्वशून्या प्रिम विमर्शवाक्यानां सामञ्जस्यापत्तेः ।

अपि चात्र किं शब्दः कोऽयं पुरोवर्ति स्थाणु पुरुषो वेति अत्रवत् यथा तथा कल्प्यमान धर्मिपर्यन्ते किमयं स्थाणुः पुरुष इत्यत्रेव विकल्पमात्रपरोवा | आधे सामान्यतो विमर्शवाक्यमेकं विशिष्यकोटिद्वय स्मिर्शप स्वाक्यमन्यदिति प्रतीतैकवाक्यताभङ्गः विशिष्य प्रदर्शितकोटिद्वयस्य वैकल्पिकत्व प्रत्यायक वाक्याध्याहारापत्तिश्च । द्वितीये कुत स्म जाता इत्यादि धर्मिपर्यन्त किं शब्दान्तर प्रायपाठाननुरोधः । पक्षद्वयेऽपि विशेषविमर्श वाक्यस्य तादृशविमर्शवाक्यान्तर

244

प्रायपाठाननुरोधश्च । अग्रे कालादिकारणवादनिरासान्यथानुपपत्तिबलात् कारणं ब्रह्म कालादिकं वेति विमर्शवाक्यस्य कल्पनीयतया सर्वमिदं न दोषायेति चेत् - न । तस्यैव तत्कल्पनारूप श्रुतित्वात् । तथा हि ’ ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढामि’ त्यनन्तरपठितो मन्त्रः स्वतो निर्णयाशक्तानां तेषां तन्निर्णयाय देवताध्यानानुष्ठानं श्रावयतीति ततः प्रागेव संशयविषयकोव्यन्तरस्फुरणे कथं तत्सङ्गच्छेत । न च निर्णयार्थ ध्यान कोट्यन्तरनिरासयोः पौर्वापर्यानियमात् क्रमिकोपाधिकरणन्यायेन पाठक्रमादर्थक्रमस्य बलवत्वात् । ’ एतस्मात् जायते प्राण’ इत्यादि मन्त्रे प्राणादिजन्मकोटिजननवत् देवताभ्यानात् परं कोट्यन्तरनिरासः कल्प्यत इति वाच्यम् । अन्योन्याश्रयापत्तेः । न हि कालादिकरणवादस्य कोट्यन्तरत्वं निरासस्य ध्यानान्तरत्वकल्पनं विना सिध्यति ।

किं च यदि कारणधर्मिक विशेषकोट्यन्तरनिरासार्थः कालस्वभाव इत्यादि मन्त्रः तदा यदृच्छापक्षस्यानुपपत्तिः । न किंचित्कारणमस्तीति पक्षो हि यदृच्छा पक्षः । किं च कारणस्य संशयात् प्रागेव चेतनत्वं प्रतिपत्त्यभावेऽचेतनस्य तत्याधिष्ठातृत्वासम्भवात् । तदविष्ठिताः के त इति विमर्शानुपपत्तिः । तस्मात् सामान्यतो ब्रह्मकारणमित्येतावन्निश्वितवतां किं कारणंब्रह्मेति विभावित सकलकोटिविंशेषित धर्मिपरेण किं शब्देन कारणं ब्रह्मविष्ण्वादि देवानां मध्ये को देव इति विमृशतां जगतः कारणत्वस्यान्यकारणत्वस्य चोपपत्तौ ब्रह्म कारणमित्येतदेवासिद्धमिति संशयस्य निरालम्बनत्वप्रसङ्गो मा भूदिति पक्षद्वयस्यापि निरास निर्णयार्थध्यानात् प्रागेवेति तदमिप्रायवर्णनं युक्तम् ।

ननु युक्तमेतत् एवं कालकारणवादनिरासामिप्रायवचनं तथापि कारणं ब्रह्म को देव इति न विमर्शः । किं त्वद्वितीयस्य सकलसहकारिविधुरस्य ब्रह्मणः कथं कारणत्वं समर्थनीयमित्यभिप्रायेण ब्रह्मणा जगदुत्पत्तौ साध्यायां किं कारणं किं सहकारीति । एवं च तेषां ध्यानानन्तरं तदीया विद्याशक्तिदर्शनोपन्या सस्सङ्गच्छते । ब्रह्मणो जगत्सृष्टौ किं सहकारीति सन्दिा स्वयं निर्णयाशक्या ब्रह्म ध्यायतां तत्संप्रसादादघटितघटनापटीयसी मायाशक्ति: सहकारिणीति तेषां

245

निर्णय आसीदिति तात्पर्यवर्णना न स्यात् । अन्यथाऽत्र मायाशक्तिदर्शनोपवर्णनमसङ्गतमेव स्यादिति ।

अनोच्यते एवं सहकारिविचारपरत्वकल्पनार्यां कारणपदं तावत् महकारिलक्षकं कल्पनीयं स्यात् । कुत स्मजाता इत्यादि विमर्शन |श्च नोपपद्येरन् । यदि कारणसामान्याभ्युपगमपूर्वकं तद्ब्रह्म अन्यचेति संशय इति कल्प्येत । यदि

1 या कारणं ब्रह्मेत्यभ्युपगमपूर्वकं तत् शिवो वै देवतान्तरं वेति तदा ते ब्रह्मणोऽन्यस्मात् वा शिवादन्यस्मात् वा वयं जाता इत्यादि प्रकारेण युज्येरन् । ब्रह्म सकलजगत्कारणमिति निश्वये तद्विशेषजिज्ञासानुदये च तत्सहकारिमात्रं जिज्ञासमानानां कः कुतस्माज्जात इत्यादि विचारस्य प्रसङ्गः । तत्र किं सहकारादिति त्र्याख्या क्लिष्टकल्पना । अप्रेमायाशक्तिदर्शनोपवर्णनं त्वसिद्धम् । ब्रह्मविद्याविदेवतायाः परशक्तेरम्बिकायाः प्रसादाद्विमुश्यमानार्थनिर्णयो भविष्यतीत्यामिप्रायेण तां ध्यायतां तेषां तत्साक्षात्कारोपवर्णनपरत्वेनध्यानयोगानुगता इति मन्त्रस्य अत एव तत्न शक्तिशब्दस्याविद्यासाधारण्यात् तद्ग्रहणं माभूदित्यात्मेति विशेषणम् । अम्बिका हि देवस्य चन्द्रमौलेरात्मभूता शक्तिरित्याचक्षते । तयोर्भेदमज्ञानात् परमार्थतः अमेदएवाऽ मेदः शिक्योः सिद्धो वहिदाहकयोरिबेत्यदिस्मरणात् । अविद्या कृतस्यात्मभूताशफिः सत्या । उक्तं च सङ्क्षेपशारीर के ’ चिच्छतिः परमेश्वरस्य विमला चैतन्यमेवोच्यते सत्यैवास्य जपा परा भगवतश्शक्तिस्त्वविचोच्यते’ इति । तस्मादम्बिकाप्रसादादयमस्माकमयों निर्णीतो भविष्यतीत्यभिप्रेत्य तत्प्रत्यक्षकरणाय तां ध्यायन्तस्तामपश्यन्नित्येतदर्थपरस्ते ध्यानयोगानुगता अपश्यन्निति मन्त्रस्तत्कृपा कटाक्षमहिम्ना परमकारणमहादेवनिर्णयप्रदर्शनपरो यः कारणानीत्यनन्तरमन्त्रसन्दर्भ इति युक्तम् । तस्मादन्यथा संशयस्य वर्णयितुमशक्यत्वात् देवताविशेषकोटिक एव संशय इति ।

अन ग्रूमः

एतावता संशयस्य देवताविशेषको टिकत्वे किं प्रमाणमुपन्यस्तम् । अन्यथाऽनुपपत्तिरेवेति चेत् न । तदसिद्धेः । किमेकमनेकं

त्रेत्यादिरूपेण तदर्थवर्णन सम्भवात् हरपदघटितोत्तरानुसारादित्येतन्निरस्तमेत्र |

246

कालात्मयुक्तान्यघितिष्ठत्येक इत्येकपदघटितोत्तरानुसारादुक्तरीत्याऽपि सम्भवतीति

सुवचनम् ।

ननु कथमेकत्वानेकत्वकोटिक संशयोक्तिरिति चेत् न । कथं वा देवताविशेषकोटिसंशयोत्थितिः ’ हिरण्यगर्भः समवर्तताग्रे’, ‘एको हवै नारायण आसीत् ’ ते देवा रुद्रमपृच्छन् सोऽब्रवीत् अहमेकः प्रथममासं वर्तामि च भविष्यामि चेत्यादि द्वैविध्यदर्शनादिति चेत् तत एवायं संशयोपीति पश्य । नन्वेतावताऽनेककोटयुत्थितिरेवेति चेत् न । ‘न तत्समश्वाभ्यधिकश्च दृश्यत इत्यादेः कोट्यन्तरोत्थिति हेतोरसम्भवात् ।

नन्वेवमपि स एको देवः को बेत्यपेक्षायां हरपदस्य देवताविशेषनिर्णायकत्वमिति चेत् न । एवमपि सन्देहविषयकोटयन्तरनिर्धारकत्वेन वृत्त्यन्तरकल्पनासहिष्णुत्वाभावेन हरपदस्यानन्यथा सिद्धत्वमिति त्वन्मनोरथस्यालाभात् । एकत्वस्यैव सन्देहविषयकोटित्वात् देवात्मशक्तिरित्यस्य देवस्यात्मनः शक्ति सामर्थ्यमपश्यन्नित्यर्थप्रतीत्या एतत्पक्ष एव स्वरसत्वात् कारणं ब्रह्म वा कालादिकं वेत्येवमपि संशयो वर्णयितुं शक्यः । न च द्वितीयकोटेरश्रवणात् तथा संशयप्रदानपरत्वमस्य न युज्यत इति वाच्यम् । अश्रवणेऽपि कोटयन्तराध्याहारसम्भवात् । अभे कालादिकारणवादनिरासदर्शनेन कोटयन्तराध्याहारस्यादोषत्वात् । संशयानन्तरं क्रियमाणः पक्षान्तरनिरासः तद्विषयीभूतकोटयन्तरनिरासरूप इत्येव हि वक्तुमुचितम् । न चैवं देवताभ्यानात् पूर्वमेव कोटयन्तरस्फुरणे खतो निर्णयाशक्तानां तेषां तन्निर्णयार्थ देवताध्यानानुष्ठानं श्रावयन् ते ध्यानयोगानुगता अपश्यन्नितिमन्त्रः कथं सङ्गच्छत इति वाच्यम् । ते ध्यानयोगानुगता इति मन्त्रस्य सन्दिग्धार्थनिर्णयहेतुदेवताध्यान प्रतिपादकत्वासिद्धेः । कालादिकारणत्वनिरासपूर्वक ब्रह्मकारणत्व निर्धारणरूपमननानन्तरं तदुद्ध्यानसाक्षात्कार प्रतिपादन परत्वोपपत्तेः ।

|

ननु कालादिकारणत्वनिरास एव दृश्यते न ब्रह्मकारणत्व निर्धारणमिति चेत् न । आर्षिकत्वात् स्थाणुपुरुषसंशयानन्तरं न स्थाणुरिति कोटयन्रा-

247

व्यवच्छेदे सति जायमानपुरुषनिर्णयवत् । तर्हि देवतान्तरशक्तिमत्त्रस्य कोऽर्थ इति चेत् देवताखरूपभूतां शक्ति, शक्तिशक्तिमतोरमेदव्यदेशः । परास्य शक्तिर्विविधैव श्रूयत’ इत्यादि श्रुतिसिद्धविचित्रशक्तिमन्तं देवमित्यर्थः । पद्वा देवस्यात्मनः शक्ति पश्यन् तां दृष्ट्वा देव एव कारणमिति निश्चितवन्त इत्यर्थः । एवं च नास्य वाक्यस्य सङ्गतिः ।

यदुक्तं यदृच्छापक्षस्यानुपपत्तिः न किंचित्कारणमस्तीति हि पक्षो यदृच्छापक्ष इति - तन्न - त्वत्पक्षेऽपि यदृच्छाभूतानि योनिः पुरुष इति कारणत्वार्थकशब्दसामानाधिकरण्यदर्शनेनानुपपत्तेस्तुल्यत्वात् । न हि निर्हेतुकत्वं कारणमिति

सम्भवति ।

नन्वत्रत्यकारणत्वार्थक शब्दसामानाधिकरण्यं कथश्चित् सम्भवति । संशय विशेषसमर्पककारणशब्दसामानाधिकरण्यं तु न सम्भवति । न हि भावाभाव प्रतिपादक शब्दयोस्संशयविशेष्य तत्कोटिसमर्पकत्वं सम्भवतीति चेत् न । तथापि तदंशस्य संशयकोटित्वाभावेऽपि प्रसङ्गाद्वा दृष्टान्ततया वा तन्निराकरणोपपत्तेः ।

ब्रह्म-

यदुक्तं कारणस्य संशयात् प्रागेव चेतनत्व संप्रतिपत्यभावे चेतनस्याघिष्ठातृत्वासम्भवेनाधिष्ठिताः केनेति विमर्शानुपपत्तिरिति - तदपि न कारणत्वपक्षे हि कारणेनाधिष्ठितत्वम्, पक्षान्तरे तु कालादीनामधिष्ठातृत्वाभावेन तदतिरिक्तेन चेतनेनाविष्ठितत्वमिति अधिष्ठिताः केनेत्यस्य किं कारणेनाविष्ठिता उतान्येनेति फलसंशयप्रदर्शनपरत्वेन वर्णनसम्भवात् ।

ननु कालादिकारणवादनिरासफलात् किलैवं कल्प्यते । स च देवताविशेषको टिकत्वपक्षेऽपि जगतः कारणत्वस्यान्य कारणत्वस्य वोपपत्तौ ब्रह्मकारणमित्येतत् देवतासिद्धमिति संशयस्य निरालम्बनत्वशङ्कायां तन्निराकरणार्थत्वेनोपपन्न इति नाघ्याहारादिकं कल्पनीयमिति चेत् न । देवताविशेषकोटिकत्वपक्षे

इतरकारणत्वनिरासाखारस्य मुख्यशब्दलक्षणादेवपदानर्थक्यवाक्य मेदोद्देश्य विधे-

248

यानुपूर्विभङ्ग कल्पनाद्यनेक दोषप्रसङ्गेनाभ्याहारस्यैकस्य सोढव्यत्वात् । अतो देवताविशेषकोटिकत्वे संशयस्य न किश्चित् प्रमाणमिति दिक् ।

न्यायसुदर्शनाख्ये तु श्रीमद्भाष्यनिबन्धने वरदनारायणाचार्यैरस्याः श्रुतेः प्रकारान्तरेणार्थः प्रपश्चितः । अयं हि प्रन्यः - - ’ किं कारणं ब्रह्म कुत स्मजाता जीवाम केन क च संप्रतिष्ठाः अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थां कुरुत इत्यर्थः । कालखभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावात् । आत्माऽप्यनीशः सुखदुःखहेतोरिति विचार्यैवं निश्चिक्युरित्याह । ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति स्वगुणैर्निगूढाम् ’ । यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः । ते देवा आत्मशक्तिमपश्यन् ते देवमात्मानं शक्ति चापश्यन् । शक्त्यात्मविशिष्टं देवं कारणतया अपश्यन्नित्यर्थः । किं कारणं ब्रह्मेति प्रक्रमात् । . अथवा देवा आत्मनो शक्तिमपश्यन् भोग्या नियाम्या च प्रकृतिर्भोक्तृनियन्त्रोस्साधारणीति कृत्वा तस्या उभयसम्बन्धिता । अनेनापि प्रकारेण त्रयाणां दर्शनं विवक्षितम् । देवात्मनोरदर्शने तत्सम्बन्धितया शक्तेर्दर्शनासम्भवात् । देवश्चात्मा शक्तिश्चोत्तरैर्मन्त्रैर्विविच्यन्ते ।

‘संयुक्तमेतत् क्षरमक्षरं न व्यक्ताव्यक्तं भरते विश्वमीशः ।

अनीशश्वात्माबध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ '

इत्यादिमि: ‘ज्ञात्वा द्वावजावीशनीशौ ’ अजायेका भोक्तृ भोगार्थयुक्ता अनन्तश्वात्मा विश्वरूपे कर्ता । त्रयं यदा विन्दते ब्रह्ममेतत् भोक्ता भोग्यं प्रेरितारं च मत्वा । सर्व प्रोक्तं त्रिविधं ब्रह्म एतत् ’ इति भोक्ता भोक्तारमित्यर्थः । किं कारणं ब्रह्मेति प्रश्नस्य त्रिविधं ब्रह्म एतदित्युत्तरं त्रिविधं त्र्यंशं स्वरूपेण खशरीराभ्यां च तस्य त्र्यंशत्वं विशिष्टं ब्रह्म कारणमिति प्रतिपादितमिति ।

अयं भावः

कारणं ब्रह्म किं रूपम् ! विशिष्टमविशिष्टं वेति प्रश्नः । तदर्थनिर्णयार्थ ध्यानरूद्धानां ब्रह्मविदां त्रितयदर्शनोक्त्या विशिष्टस्वरूपप्रदर्शन-

प्रतिपादनात् ’ सर्व प्रोक्तं त्रिविधं ब्रह्ममेतदिति वाक्ये कारणस्य ब्रह्मणः

249

त्र्यंशत्वकथनेन विशिष्टखरूपस्यैवात्र प्रतिपाद्यत्वावगमाच्च । न चैत्रं कालादि - वाक्यानुपपत्तिः, परोक्तरीत्यैव ब्रह्मणः कारणत्वं सिद्धम् । कालादीनामेत्र कारणत्वात् । अतः प्रश्नानुपपत्तिरिति शङ्कायां तद्वाक्यावतारादिति । एवं वा कारणं ब्रह्म कालो वा स्वभावो वेत्यादि किं शब्दोपस्थापितकालादिकोटिक एव नंशयः । न तु ब्रह्मकोटिकोऽपि । ब्रह्मशब्दस्तु धर्मपर एव । तथा च संशयवाक्यं संभावितयावत्कोटयुपस्थापकर्किशब्दमात्रघटितं वा तत्तत्कोटिविशेषशब्दघटितं वा । न त्वेककोटिमात्रप्रतिपादकशब्दघटितमिति चोदनस्यानवकाशात् । न च ब्रह्मणः संशयधर्मित्वे कालादिकोटिकत्वं संशयस्यानुपपन्नमिति त्राच्यम् । यत्कारणं तद्ब्रह्मेत्यभिप्रायेण तथा निर्देशसम्भवात् । अत एवाहु राचार्यपादाः कालस्वभात्रनियतिर्यदृच्छादिषु वस्तुषु कारणं किमित्रात्रेति तापसैरपि तर्कितमिति । अस्मिन् पक्षे च कालादिकारणवस्तुनिरास उत्तरत्र सुखेन सङ्गच्छते । न चैतत्पक्षे निर्णयहेतुदेवताध्यानानुष्ठानप्रतिपादकस्य ते व्यानयोगानुगता अपश्यन्नित्यस्य कथं सङ्गतिरिति वाच्यम् । तस्य तादृशदेवताच्या नानुष्ठानप्रतिपादकत्वासिद्धेः । ततो निर्णीतवन्त इत्येतदर्थप्रतिपादकस्य वाक्यस्य उत्तरत्र श्रवणप्रसङ्गात् । अतस्तस्य सन्दिग्धार्थनिर्णयप्रदर्शनपरत्वमेव युक्तम् । संशयप्रदर्शनपक्षान्तरनिरासप्रतिपादनानन्तरभाविनस्तस्य तथात्व एव स्वारस्यात् । महावाक्यस्वारस्यानुरोधेन ते ध्यानयोगानुगता इत्यस्य विजातीयव्यवधानरूपधर्ममादाय सावधानश्रुत्यर्थपर्यालोचनपरत्वेनोपपत्तेः ।

न चैवं यदृच्छापक्षस्यानुपपत्तिः । पक्षेऽपि कारणत्वार्थकशब्दसामानाधिकरण्येनानुपपत्तेस्तुल्यत्वात् यदृच्छाशब्दस्य दैवोपनतयत्किंचिदर्थकत्वेन नियतकारणपरत्वेनोपपत्तेः । प्रसङ्गाद्वा दृष्टान्ततया वा तन्निराकरणत्वोपपतेरित्युक्तत्वाच्च । अधिष्ठिता केनेत्यस्योपपत्तिरपि वर्णितैव । एवं संशयानन्तरं पक्षान्तरनिरासपूर्वकं कारणविशेषनिर्धारणं देव एकः कारणमित्येवं परेणोत्तरसन्दर्भेण क्रियते तदानीमेव विशिष्टस्वरूपं कारणमिति कारणलरूपपरिशोधनमप्युत्तरत्र क्रियत इति सर्व समञ्जसं भवति ।

32

250

न च कारणस्वरूपप्रश्नानन्तरत्रितयदर्शनोक्तौ त्रितयकारणत्वमेव सिध्येत । न तु देवस्यैकस्य कारणत्वमिति वाच्यम् । उत्तरत्र तस्य नियामकत्वादेर्भोक्तृभोग्ययोस्तनियाम्यत्वादेश्च कथनेन ज्ञात्वा देवं मुच्यते सर्वपापैरिति तज्ज्ञानस्य मोक्षसाधनत्वप्रतिपादनेन च तत्परत्वावसायात् । स चैको देवो नारायणः दिव्यो देव एको नारायण इत्येतत्प्रत्यभिज्ञानात् । ’ अनन्त श्रात्मे ‘ति भगवनामत्वेन प्रसिद्धानन्तशब्दबलात् ।

विष्णुः - कृष्णः केशवो मुखिकेशः श्रीवत्साङ्गो श्रीपतिः पीतवासाः । विष्वक्सेनो विश्वरूपो मुरारिः शौरिश्शाङ्ग पद्मनाभो मुकुन्दः ॥ '

इति इलायुधनिघण्टनुसारेण भगवन्नामत्वेनात्रगत विश्वरूपशब्दबला | न चैवं ’ न्यायसुदर्शन’ ग्रन्थे विशिष्य किं कारणमित्यस्यार्थवर्णनाभावादुक्तसंशयामिप्रायकत्वेन तद्ग्रन्थस्य योजयितुं शक्यत्वात् किमित्यन्यथा तदभिप्राय. वर्णनमिति वाच्यम् । शक्त्यात्मविशिष्टं देवं कारणतया अपश्यन् इत्यर्थः । किं कारणं ब्रह्मेति प्रक्रमात् किं कारणं ब्रह्मेति प्रश्नस्य त्रिविधं ब्रह्मैतदित्युत्तरं त्रिविधं त्र्यंशमिति तदीयग्रन्थस्वारस्यात् तथार्थवर्णनात् ।

यदि च किं कारणं ब्रह्मेति प्रक्रमात् कारणभूतब्रह्मखरूपं द्रष्टुं तच्चोत्तरवाक्यपर्यालोचनया देव एवेत्यवगम्यत इति शक्त्यात्मविशिष्टो देवः कारणतया सिद्ध इत्यमिप्रायेण तद्ग्रन्थोऽप्याचार्यामिप्राय विरुद्धतया वर्ज्येत तदा सुतरामस्मदमिमतार्थसिद्धिः । परपक्षे च ते ध्यानयोगानुगता इत्यादिवाक्यमसङ्गतम् । संशयवाक्यानन्तरं तदागमहेतुनिर्णयजनकवाक्येनैव भवितव्यमिति देवताविशेषदर्शनप्रतिपादकषाक्यस्यैव सङ्गतत्वेनास्य वाक्यशैल्यनुरोधित्वात् । न च तनिर्णयसाधनगौरवदर्शमप्रतिपादकत्वेन सङ्गतिरिति वाच्यम् । एतादृशकल्पनस्य गौरवदर्शनात् निर्णयो जात इत्यर्यकत्राक्यसद्भावाधीनत्वात् । अन्ययोत्तरवाक्यासङ्गतिप्रसङ्गात् ।

251

एतेन ब्रह्मविद्याधिदेवतायाः परशक्तेरम्बिकायाः प्रसादात् विमृश्यमानार्थनिर्णयो भविष्यतीत्यभिप्रायेण तां ध्यायतां तत्साक्षात्कारोपवर्णनपरत्वमस्य नत्रस्येति निरस्तम् ।

किं चाम्बिकाप्रसादात् निर्णयो भविष्यतीति कथं तेषां निर्णयः । येन ध्यानं स्यात् ब्रह्मविद्याधिदेवतात्वादेवेति चेत् - किमिदं ब्रह्मविद्याधिदेवतात्वं नाम । तस्या उपास्यान्तर्गतत्वं वा ब्रह्मविद्योपदेशकत्वं वा । नाथ : ; शिवस्य ब्रह्मत्वनिर्णयात् पूर्वं तस्या ब्रह्मविद्याधिदेवतात्वानिर्णयेन परस्पराश्रयप्रसङ्गात् । न द्वितीयः । ब्रह्मविदाचार्यकत्वस्य तस्यामप्रसिद्धत्वात् देवतात्वेन ब्रह्मादित्वं सम्भवातीति चेत् न । विशिष्य तदूध्यानप्रयोजकानुपन्यासात् प्रत्युत गौर्याः शिवपत्नीत्वात् स्वभर्तृ… प्रतिपादकत्वसम्भावनाया उत्कटत्वेन पक्षपातशङ्कायाः सम्भवात् न निर्णयोदयः । न च भ्रमाद्यभावनिर्णयात् पक्षपातशङ्का नोदेतीति वाच्यम् । कथं विशिष्य तत्रैव भ्रमाद्यभावनिर्णयः । गुणत्रयवक्ष्यत्वाभावनिर्णयात् तन्निर्णय इति चेत् न । तस्य गुणत्रयवश्यत्वाभावनिर्णयस्य तच्छेषिभूतस्य तत्संशयेऽसम्भवेन तस्य गुणत्रयत्रश्यत्वाभावनिर्णयानन्तरभावित्वेन शिवस्य ब्रह्मत्वनिर्णयानन्तरभावित्वेन चान्योन्याश्रयप्रसङ्गात् । शिवस्य ब्रह्मत्वे निर्णीते गौर्या गुणत्रयवश्यत्वाभावनिर्णयः । तस्मिन् सति ब्रह्माद्यभावनिर्णयात् ततो निर्णिनीषोदयः । निर्णिनीषोदये च तद्ध्यानानुष्ठानपूर्वकं साक्षात्कृतायाः तस्या उपदेशात् शिवस्य ब्रह्मत्वनिर्णय इति ।

अपि चाम्बिका वाचकपदाभावाच्च नात्र तद्दर्शनं कथ्यते । अस्ति शक्तिशब्दस्तद्वाचकः । शक्तिर्माहेश्वरीशिवेत्यादिप्रयोगात् तस्य तद्वाचकत्वमिति चेत्न । तथा सति देवात्मपदवैयर्थ्यापत्तेः ।

किं च सामर्थ्य रूढस्य तस्य कार्योपयोगित्वधर्ममादाय प्रयोगोपपत्तौ विशिष्य तद्वाचकत्वकल्पने मानाभावः । अङ्गीकृतं च विशिष्य तदनमिधायकत्वं देवात्मशब्दबलात् तत्प्रतीतिं वदता परेणापि । न च तदुक्तरीत्याऽपि तत्प्रतीतिः । देवशब्दस्य रुद्रासाधारणत्वसिध्या तद्बलात् गौरीप्रतीति-252

रित्युक्तेरुपपत्तिशून्यत्वात् । तस्मात् देवात्मप्रकृतिरूपत्रितयदर्शनमुपपाद्यते । उत्तरत्र तत्रितयविवरणदर्शनात् ।

नात्र द्वेधासमासः उपपादितः । तत्र प्रथमपक्षे इतरेतरयोगद्वन्द्वे बहुवचनं स्यात् । समाहारद्वन्द्वे देवात्मशक्तिरिति स्यादिति चेत् न । छान्दसत्वेनोभयचापि साधुत्वोपपत्तेः । न च तथा कल्पनमेव क्लिष्टतरमिति वाच्यम् । उत्तरवाक्यसन्दर्भे त्रितयस्वरूप विवेचनेन तथा कल्पनस्योचितत्वात् । भवदभिमतगौरीदर्शनस्य पूर्वोत्तरवाक्यासङ्गतत्वात् । न च द्वन्द्वस्य कृत्स्नपदार्थ - प्राधान्यात् सर्वेषां दर्शनोपपादने विशिष्टस्य ब्रह्मणः कथं कारणत्वसिद्धिरिति वाच्यम् । शब्दप्राधान्येऽप्यार्थिकाप्राधान्यस्यानिवार्यत्वात् । ’ व्यक्ताव्यक्तं भरते विश्वमीशः क्षरात्मानाविशते देव एक’ इति धारकत्वनियामकत्वादिकथनेन ब्रह्मणः शरीरत्वसिध्या तस्यैव प्राधान्यसिद्धेः । केवलब्रह्मस्वरूपकारणत्वव्यावृत्तौ तात्पर्यमात्रेण तत्रितयदर्शनोक्तिसम्भवात् ।

"

ननु ’ चार्थे द्वन्द्व’ इति सूत्रे वार्तिककता कात्यायनेन ‘द्वन्द्वक्चने समासेऽपि चार्थसंप्रत्ययात् अनिष्टप्रसङ्गमिति वार्तिकेनाहरहर्नयमानो गामश्वं पुरुषं पशुं वैवस्वतो न तृप्यति सुरया इव दुर्मति, इन्द्रस्त्वष्टा वरुणो वायुरित्यत्र प्रथमोदाहरणेन प्रतिक्रियायां गवादीनां समुच्चयात् द्वितीयोदाहरणे इन्द्रादीनां लोकपालत्वात् गम्यमानपालनक्रियायां समुच्चयात् वाऽर्थसद्भावात् द्वन्द्वप्रसङ्गमाशङ्कय ’ सिद्धं तु युगपदधिकरणे द्वन्द्ववचनादि ‘ति वार्तिकेन गामश्वमित्यादो परस्परनैरपेक्ष्येण पृथक् पृथग्गवादिप्रत्यायकत्वेन युगपदधिकरणवचनताया अभावात् नातिप्रसङ्ग इति परिहारमभिधाय शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमसम्भवम् । युगपदधिकरणवचनतया आशङ्क्य शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेत् - ‘द्विवचनबहुवचनयोरनुपपत्तिरित्यादिना युगपदधिकरणवचनतायाः साधितत्वात् द्वन्द्वस्य युगपद्वाचित्वेन सर्वेषां पदानां लक्षणाप्रसङ्ग इति चेत् - सत्यं वार्तिककारेण साचिता । महाभाष्यकारेण स्त्रियं युगपदधिकरणत्रचनता दुःखा दुरुपपादा चेत्यादिना

253

प्रतीतावनारोहात् प्रमाणाभावश्चैतदसङ्गतमित्युक्तम् । वृद्धव्यवहारादिशब्दार्थावसाय: । न च तत्र लक्षशब्दस्य न्यग्रोधाभिधायित्वं दृश्यते । न च गौणार्थत्वं लक्षशब्दस्य न्यग्रोधशब्देनैव न्यग्रोधस्य प्रतिपादनात् । न च प्लक्षन्यग्रोधावित्युक्तेरर्थद्वयप्रतीतेरावृत्तिः । यथा लक्षन्यप्रोधौ लक्षन्यग्रोधा इति समासेन चानेकार्थामिधानात् ततः परयोर्द्विबचनबहुवचनयोरुपपत्तिरिति तद्भाष्यतात्पर्यं वर्णयता कैयटेनापि विस्तरेण निराकृतम् । तन्त्ररत्वे च वचनान्तु द्विसंयोगस्तस्मादेकपाणिवदित्यधिकरणे ।

एतेन ’ राजपुरोहितौ सायुज्यकामौ यजेयातमित्यत्र किं षष्ठीतत्पुरुष उत द्वन्द्व इति संशय्य युगपदधिकरण वचनतायां द्वन्द्व इति द्वयोरपि पदयोरितरेतरसहितस्वार्थलक्षकत्वापत्तेः द्वन्द्वसमासासम्भवात् । षष्ठीतत्पुरुषे पूर्वपदलक्षणायामप्युत्तरपदस्य श्रुतिवृत्तत्वात् तत्पुरुषो न्याय्य इति पूर्वपक्षं प्रापय्य तन्निरा - करणार्थमितरेतरयोगे तु न कस्यचित् लक्षणता । तत्नापीतरेतरयोगो लक्ष्यत इति चेत् न । अर्थसिद्धत्वेन तस्य शब्देनाप्रतिपादनात् । यथा धवखदिरावुभावपि ह्येकेन विभक्त्यर्थेनान्वितौ तन्मुखेन विहितावेव पश्चात् क्रियान्वयमनुभवतां तेनैकविभक्त्यर्थान्वयादेवेतरेतरसिद्धो न शब्दस्य तत्प्रतिपादकत्वम् येन लक्षणा स्यात् तस्मादितरेतरयोगद्वन्द्वे न कस्यचिल्लक्षणा । तत्पुरुषे तु पूर्वपद लक्षणापत्ते दौर्बल्यमिति प्रतिपादितम् ।

1

अस्तु वा लक्षणा, तथापि ’ ते ध्यानयोगानुगता अपश्यन् ’ इति वाक्यं परपक्षे सर्वथाऽनन्वितमिति तदपेक्षया लक्षणा ज्यायसी । तथोत्थानविसर्जन इति न्यायात् न्यायश्चैवं सोमे श्रुतमुत्तिष्ठमाहाग्नीदग्नीन्विहरेति (जै. सू. 8-2-4 ) तथावृतं कृणुतेति वाचं विसृजत इति । तत्र संशयः किं मन्त्रयो-

आग्निविहरणादिप्रकाशकमंत्राधिकरणम्

}

सोमे - उत्तिष्ठन्नन्वाह, अग्नीदग्नीन्विहर इति तथा व्रतं कृणुतेति वाचं विसृजते इति च श्रूयते । तथा दर्शपूर्णमासयोः प्रणीताः प्रणयिष्यन्

254

रुत्थानविसर्गयोः शेषतावचनात् किं वा लिङ्गात् प्रेषणवचनं उतकालविधिपरमिति । तत्र कालविधिपरत्वे तद्वाचकपदाभावेनोत्तिष्ठन्नित्यादेरुत्थानादिकाललक्षणापूर्वकं तद्विधायकत्वं वाच्यमिति विधौ लक्षणात्यन्त क्लिष्टा समाश्रिता स्यात् । तद्वरमुत्थानविसर्गार्थतया मन्त्रविधिरिति । यद्यप्यचेतने प्रैषानन्वयः

1 तथापि भक्त्यभाषादुत्थानविसर्गार्थतया मन्त्रविधौ निश्चिते विनियोज्य मन्त्रगताग्नीत्पदेवतपदेचगुणात् योगात् वोत्थानविसर्गार्थे तत्र यज्ञोपयोगो गुणः । योगोऽप्यनीदित्यग्निमिन्ध इत्युत्थानेऽप्यस्ति । तथा व्रतपदेऽपि व्यक्तं यौगिकत्वं व्रतं वर्तनम् । प्रवर्तनं यागाचरणं वाग्विसर्ग इति पूर्वपक्षः ।

राद्धान्तस्तु

विनियोज्यमन्त्रगतप्रेषपदानां सर्वयाऽनन्वयात् वरं विधिवाक्यपठितैकपद लक्षणस्वीकारात् तत्सहित सर्वपदान्वितत्व मित्युत्थानादिलक्षितकालविधिरेवायम् । अय चेतनविषयेऽपि प्रैषपदोच्चारणमेव प्रैषः । तञ्चाचेतनोत्थानादावपीति चेत् न । न हि प्रैषपदोच्चारणं प्रैप: । किं तु प्रैषपदोचारणेन परप्रेरणा । सा च प्रवृत्यईचेतनविषयैवेति लोकसिद्धम् । व्रतोदाहरणे च यजमानस्यैव पूर्व नियतवाक्याद्वा विसर्गो याजमान इति व्रतं कृणुतेति प्रैषस्य ऋत्विकर्तृत्वे याजमान एवं व्रतं वाग्विसर्ग कृणुतेति प्रेषणीय इति बहुवचनान्वयः । यजमानकर्तृकत्वे च प्रेषस्य स्वात्मनि स्वकर्तृकप्रेषान्वयः ।

वाचे यच्छति - तान्सह हविष्कृताविसृजति इति च श्रुतम् । तत्र मंत्राणां मुख्येऽर्थे विनियोगः । ननु गौणयोः उत्पान वाग्विसर्गयोः । प्रबलस्यापि ब्राह्मण वाक्यस्य कालविधायित्वेनाप्युपपत्तौ गौणत्व तात्पर्यग्राहकत्वाभावात् न च लक्षणा । श्रुत्यैवान्वयोपपत्तेः । ततश्च उत्थानकाले विहरण मंत्र : पठनीयः इति कालविधिरेवायम् । व्रतं कृणुतेत्यत्र - इतिकरणस्यापि मन्त्र - स्वरूपमान परत्वात् - कालिकसंबंधस्यैव संसर्ग विधया भानोपपत्तेः न लक्षणा । अतश्च तद्वाक्ययोः पाठ क्रमावगत ततन्मंत्र पाठकाले वाग्विसर्गः कर्तव्यः इति सोऽपि कालविधिरेव । (जै. सू. 8-2-4 )

255

अथ व्रतं प्रवर्तनं कुरुतेति वाचामेव प्रेष्यता । तर्हि सुतरामेवाचेतनत्वात् प्रेषानन्वयः । अत्र ‘ह्यनन्वयात् वरं लक्षणेति मूलयुक्तिः । एतदभिप्रायेणैव शालिकानाथेन ऋजुविमलायां पश्चिकायामुक्तम् । विधि वाक्ये लक्षणायाः पदार्थानामशेषाणामन्वयः । मन्त्रे तु सर्वथैव प्रैषार्थो नान्वित इति अविवक्षितार्थताश्रयणीयेति । तथा च देवात्मशक्तिमिति लक्षणाङ्गीकारेऽपि न दोषः । तस्मादन्यथाऽनुपपत्त्यभावात् न संशयस्य देवताविशेषकोटिकत्वं प्रमाणवदिति सन्दिग्धार्थनिर्णायकत्वेनास्या उपनिषदः प्राबल्यमित्याशापाशविजृम्भितमिति सङ्क्षेपः ।

1

तत्त्वजिज्ञासमानानां हेतुमिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिर्नारायणः परः ॥

प्रधानं कारणं येषां पुरुषश्चापि कारणम् । स्वभावश्चैव कर्माणि दैवें येषां च कारणम् ॥

पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः ॥ '

इति महाभारतवाक्येनोपबृंहितेयमुपनिषत् भगवत्परेति परोक्तोपबृंहणानां तद्विरुद्धानां स्वार्थतथात्वसाधकत्वासम्भवात् नोपबृंहणबलादप्यस्या उपनिषदो देवतान्तरपरत्वम् ।

वेदान्तविजयकृतस्तु ‘सत्यं किं कारणं ब्रह्मेत्ययं संशयो देवताविशेषकोटिक एव । अथाप्यस्या उपनिषदो भगवत्परत्वमेव युक्तम् । तथा हितत्र प्रथमे खण्डे पुरुषेशहरपदानि त्रीण्येष श्रूयन्ते । देवतावाचकानीति । तदन्यतमे कस्मिन्नेव देवतानिर्धारणभावः पर्यवसितः । तत्र न तावदीशशब्दो निर्धारकः । ’ भ्यकाव्यकं भरते विश्वमीश’ इति आधारकत्वमेव हि श्रूयते । न तु कारणत्वम् । तत्र पृथगात्मानमुद्गीतमेतदिति नियन्तृनियाम्यमेदज्ञानस्य मोक्षसाधनत्वं तदनुष्ठानं चोक्त्वा तदज्ञानस्य मोक्षहेतुत्वं संयुक्तमेतदिति परमात्मनो बन्धकत्वादस्य जीवस्य बध्यत्वाच अस्य तदुपासनया बन्धनिवृत्तिः

256

युक्तेत्युपपद्यते । अतः कथमिदं वाक्यं कारणं ब्रह्म किं देवतारूपमित्यस्योत्तरं

स्यात् ।

किं च ‘अनीशश्वात्मा बध्यते भोक्तृभावादित्युत्तरवाक्ये समुच्च यासम्भवाच । ईशो बिभर्ति अनीशस्तु बध्यत इत्यनीशनं हेतुतया विवक्षितम् । अन्यथाऽन्यत्यमात्रविवक्षायामन्यश्वात्मा बध्यते भोक्तृभावादिति हि वाच्यम् । अतोऽनीश इत्यत्र योगार्थस्य विवक्षितत्वात् सर्वत्रापि तस्यैव वाच्यतया नात्रेशशब्देन देवताविशेषनिर्धारणसम्भवः । नापि हरशब्देन ‘क्षरं प्रधानममृताक्षरं हरः । क्षरात्मानाविशते देव एक’ इति हि श्रूयते । अत्रापि कारणत्वं न प्रतीयते । किं तु नियन्तृत्वमात्रम् । तच्च कारणस्यैव जीवस्यैव शरीरनियमन - वदुपपद्यते । किं चात्रा क्षरशब्दविवरणमेव । हर शब्दस्सकारान्तः स च ज्योतिर्हर उच्यते । लोकाहरांस्युच्यन्त’ इति नैरुक्तवाक्यात् तेजोवाचकत्वात् प्रकाशरूपत्वविवक्षयाऽऽत्मनि प्रयुज्यते । यथा ’ अत्रायं पुरुषः स्वयं ज्योतिरिति ।

यच्च भोग्यजातं स्वार्थतया हरतीति हरो जीवः अकारान्तश्च हरशब्दः सर्वयाऽक्षरपद विवरणमेवेदं हर इति । न तु देवताविशेषसमर्पणपरम् । संयुक्तमेतत् क्षरमक्षरं चेत्युक्त क्षराक्षरशब्दयोर्वित्ररणमिह क्रियते । तत्त्राक्षरं प्रधानमिति व्याख्येयम् । पूर्वमुपादायानन्तरं व्याख्यानात् उत्तरत्रापि तथैव वाच्यतया अक्षरं हर इति हरपदेन व्याख्यानं युक्तम् ; न तु पूर्वेणामृतशब्देन ।

किं च ‘संयुक्तमेतत् क्षरमक्षरं चे ‘ति व्याख्यानं, भर्तृभर्तव्ययोर्मिन्त्रामिम्भवादनिर्देशात् तद्वैरूप्यप्रसङ्गात् हरशब्दस्य न देवताविशेषपरत्वं युक्तम् । अतः पुरुषशब्द एव देवतानिर्धारकः । तथाहि अयमर्थः किं कारणमिति कर्तव्यनिर्देशः । कुतस्मज्जाता इत्युपादानस्य जीवाः केन जीवा इत्यन्वयः । अनेन रक्षकस्य क च संप्रतिष्ठा इति संहर्तुर्लब्धस्थानस्य च समान प्रतिष्ठारूपा । लयस्थानस्य लयकर्तृत्वसूचनसम्भवात् । तदधिकरणमस्य लयस्य तत्कर्तृकत्वासामीचीन्यं विवक्षितम् । अधिष्ठिताः केनेति नियन्तुर्नियाम्यत्वेन पारतन्त्र्ये

257

हेतुः सुखेतरेष्विति । अविष्ठितत्वं भावे दुःखित्वं न स्यादिति भावः । सुखानि तदितराणि दुःखानि च सुखेतराणि अव्यवस्था दुःखवृत्तौ वा सुखवृत्तौ वा व्यवस्थाशून्याः। व्यवस्थितत्वे हि स्वाभाविकत्वात् नाघिष्टानापेक्षैति शङ्कोदयादपीत्यं विप्रतिपत्तिरुपन्यस्ता ।

अथ सिद्धान्त उच्यते - ‘काल स्वभाव’ इत्यादि कालस्वभाव: कालविशेषः कारणमस्तीति निश्चित्य प्रवृत्ते स्वभाववादस्याप्रसक्त्या तन्निराकरणासम्मवात् । योनिपदानन्वयात् नियतिरदृष्टं यदृच्छा कचित् कचित् कार्यविशेषेषु हेतुभूतानि दैवानि दैवाथदृच्छयेति समानार्थकतया प्रयोगात् भूतानि महदादीनामुपलक्षणम् । एतानि पुरुषो निर्वाह्य निर्वाहकभावनिबन्धनं सामानाधिकरण्यम् । तेन कारणनिर्वोढुत्वेन कर्तृत्वमुक्तम् । एवं किं भूत इत्यस्यो - तरमुक्तम् । उभयविधकारणत्वरक्षकत्व व्याधिकरणत्व नियन्तृत्वमुक्तम् विशिष्टं वस्तु किं दैवतमिति हविः प्रतिपत्तिः । अतः कारणत्वादीना मेकधर्मिंगतत्वस्य कारणत्वादीनामेकधर्मिंगतत्वस्य निश्चितत्वात् प्रधानभूतकारणनिर्धारणेनैव निर्धारणान्तरमपि सिद्धमिति पृथक् तद्युक्तिः । चिन्त्यमिति निर्धार्यमित्यर्थः । सन्देहवाचिना तत्प्रयोज्यनिर्धारणामिधानात् । अत एव भावनायाः तत्सिद्भिजातिसारूप्य प्रशंसालिङ्गसमवाया’ दित्यतैवं (जै. सू. 1-4-18, 14, 15, 16, 17, 18 )

तत्सिद्ध्यधिकरणम्

तत्सिद्धि जातिसारूप्य प्रशंसालिङ्गभूममिः ।

षड्भिः सर्वत्र शब्दानां गौणीवृत्तिः प्रकल्पिता ’ ॥

इदमानायते ’ यजमानः प्रस्तरः इति । तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमान शब्दो नामधेयम्, कुतः - ‘उद्भिदा यागेन’ इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः । गुणविधिरित्यपरः पक्षः । तदाऽपि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावा गुणत्वं नास्ति । प्रस्तरकार्ये सुग्धारणादौ यजमानस्य शक्तत्वात् यजमानरूपो

33

258

शब्दिता स्थितिरिह न्यायान्तरात् गौणमुख्याधिकरणनयान्तरात् विशेषश्शाब्दत्वेऽपि इति विचिन्त्यमिति । अत एव सम्यग्विचिन्तितोऽयमर्थ इति वक्तारो

गुणो विधीयते । एवं सति पश्चाच्छतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वेऽपि प्रथमश्रुतो यजमान शब्दो मुख्यवृत्तिर्भवति । न चात्र पूर्वन्यायेन स्तुतिः संभवति, अष्टाकपाल द्वादश कपालयोरिव प्रस्तर यजमानयोरंशांशित्वाभावात् । वायुर्वे क्षेपिष्ठा देवता’ ’ ऊर्जाऽवरुध्यै’ इत्यादिवत्स्तुतिरिति चेत् । न क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः ।

तस्मात् ’ नाम गुणयोरन्य-

'

तरत्वम्’ इति पूर्वः पक्षः ।

सिद्धान्तस्तु

युक्तम् | गुणपक्षे तु

सति कर्मलोपः स्यात् ।

। न,

गोमहिषयोरिवार्थ मेदस्यात्यन्तप्रसिद्धत्वात् नामत्वं न अग्नौ प्रहरणस्य प्रस्तरकार्यत्वात् यजमाने प्रहृते तस्मात् विधेयः प्रस्तरो यजमान शब्देन स्तूयते । यथा ‘सिंहो देवदत्तः’ इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमान शब्देन स्तूयते ।

एवं ’ यजमान एक कपाल:’ इत्यादिषु द्रष्टव्यम् ।

जात्यधिकरणम्

इदमान्नायते ’ आग्नेयो वै ब्राह्मण:’ इति अत्रात्यन्त प्रसिद्धार्थमेदादाय शब्दो न ब्राह्मणस्य नामधेयम् । नाप्यग्निदेवतारूपो गुणो विधीयते, ‘आग्नेयं सूक्तं ’ ’ आग्नेयं हविः’ इत्येवं देवता तद्धितस्य सूक्त हविर्विषयत्वात् । नहि ब्राह्मणः सूक्तम् नापि हविः । अतः संबन्धवाचि तद्धितान्ताग्नेय शब्देन ब्राह्मणः स्तूयते । यद्यपि ब्राह्मणे नाग्निसम्बन्धः, तथाप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते । तथा चानि ब्राह्मणयोः मुखजन्यत्वं कचिदर्थवादे समाम्नायते ’ प्रजापतिरकामयत’ ’ प्रजाः सृजेय’ इति, स

259

भवन्ति । अतः कारणं ब्रह्मेति धर्मनिर्देशः किमिति नानादेवताको टिप्रदर्शनं पुरुष इति परदेवता निर्धारणम् । यदि हि कालादिवाक्यमाक्षेपः स्यात् तदा

मुखत त्रिवृतं निरमिमीत, तमग्निर्देवताऽन्वयुज्यत, गायत्री छन्दः, रयन्तरं माम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतोयसृजन्त’ इति । तस्मात् आग्नेय शब्द: स्तावकः ।

'’

एवं ऐन्द्रो राजन्यः ’ ’ वैश्यो वैश्वदेवः’ इत्यादिषु द्रष्टव्यम् ।

सारूप्याधिकरणम्

इदमाम्नायते - ’ आदित्यो यूप’ इति । तत्र सन्देहः किमादित्यस्य यूपत्वं विधीयते, यूपस्य वाऽऽदित्यत्वम् । नोभयमपि संभवति । दूरे वर्तमानस्याऽऽदित्यस्य यागीययूपत्वासंभवात् । तथा प्रत्यक्ष दृष्टस्य यूपस्य वादित्यत्वासंभवाञ्च इति पूर्वः पक्षः ।

सिद्धान्तस्तु आदित्य शब्देन यूपः स्तूयते, सादृश्यात् । धृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात्, आदित्य सदृशत्वम् । अतः सादृश्यमपि गमकं भवति । एवमेव ’ यजमानो यूपो भवतीत्यत्रापि चक्षुर्गम्यस्य ऊर्ध्वत्वस्य समानत्वात्, यजमानशब्देम यूपः स्वयते । अतः सादृश्यमादाय अर्थवादत्वं संभवत्येव ।

इदमानायते

प्रशंसाधिकरणम्

’ अपशवो वा अन्ये गोवेभ्यः पशवो गो अश्वाः ’ इति तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति, पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् । ततः पशुकार्यनिषेधरूपो गुणो विधीयत इति चेत् । मैवम् । अजादि पशुविधिवैयर्थ्यप्रसङ्गेन निषेद्रुमशक्यत्वात् । अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातममिदधाति । तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति । सोऽयं प्राशस्याभावोऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव

260

भूतानि पुरुषो योनिरिति चिन्त्यमिति वाच्यम् । पुरुषशब्देन परमात्मनिर्देशादेव हि तेन पदेन जीवनिर्देशे पूर्वनिर्दिष्टपुरुषप्रत्यमिज्ञा भवितेति

सन्तोऽप्यजादयोघटादि साम्यादपशुशब्देन लक्ष्यन्ते । पूर्वत्र यजमान कार्यसिद्धि:, आग्नेये मुखजन्यत्वम्, आदित्यक्तेजस्वित्वं च यजगानादि शब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् । तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा । इहत्व - पशुशब्दस्याजादिषु प्रवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च । द्विप्रकारा हि प्रशंसा । वस्तुनि विद्यमान गुणोत्कर्ष एकः प्रकारः, स्तावकेन शब्देन संपादितो गुणोत्कर्षोऽपरः प्रकारः । गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सोऽत्र निमित्तम् । अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वादौ प्रत्यपशवः संपन्नाः । ईदृशो गवाश्वयोर्महिमा’ इति स्तुति फलम् । तस्मात् ’ अपशवो वै’ इत्ययमर्थवादः ।

‘अयज्ञो वा एष

अयमेव न्याय उदाहरणान्तरेऽपि योजनीयः योऽसाम’ इत्येकमुदाहरणम् । ‘असत्रं वा एतबदच्छन्दोगम्’ इत्यपरमुदाहरणम् । अग्निहोशदर्शपूर्णमासादिर्योऽपि सामहीनत्वादयो भत्रति । ईदृश: साम्नो महिमा । छन्दोग शब्देन चतुर्विंशः, चतुश्चत्वारिंशः अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते । अक्षरसंख्या साम्येन गायत्री त्रिष्टुब्जगती छन्दोमिर्गीयमानत्वात् । तेषां च विष्टुतिः साम ब्राह्मणे द्रष्टव्या । अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोग रहितत्वा दसतं भवति । ईदृशछन्दोगानां महिमा । इत्येवं स्ताक्कत्वादर्थवादत्वात् ।

अग्निचयने श्रूयते

भूमाधिकरणम्

‘सृष्टीरुपदधाति इति सृष्टिशब्दोपेतामन्त्रा यासा मिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते । ’ सृष्टिम] नासामुपधानो मन्त्र:’ इति विगृह्य " तद्वानासामुपधानः” इत्यादिव्याकरण सूत्र सिद्ध प्रक्रिया तनिष्पादनात् । सृष्टिशब्दोपेताश्वोपधान मन्त्राः एक्या-

261

तन्निवृत्तये पुरुषजीवयोर्भेदप्रतीतिसिध्यर्थं आत्माऽप्यनीशकालात्मयुक्तानीत्यादिषु आत्मशब्देन जीवनिर्देशः कृतः । आक्षेपपरत्वे पुरुषमिति चिन्त्यमित्यनन्तरं तद्धेतूपन्यासे पुरुषोऽप्यनीशः सुखदुःखहेतोरिति वाच्यम् ।

ऽस्तुक्त’ इत्यस्मिन्ननुवाके समाम्नाता । इत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात् ।

’ ब्रह्मा सृज्यत, ‘ब्रह्मा सृज्यत,

भूतान्यसृज्यन्त

ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते कुतः ’ उपदधाति ’ इत्यनेनाख्यातेनामिसंबन्धात् । नचार्थवादत्वमस्य संभवति, विध्यन्तरेण सहैकवाक्यत्वाभावादिति पूर्वः पक्षः ।

सिद्धान्तस्तु

• यथा-

अग्निचयन प्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयन संबन्धोऽवगम्यते, विशेषसंबन्धो सृजतिलिङ्गादवगन्तव्यः । तथा सति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते । किन्तु - तान्मन्त्राननूबेष्टकोपधानं विधीयते । सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः । सृष्टमेत्रावरुन्धे’ इति हि वक्ष्यमाणोऽर्थवादः । यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात्, तदानीमर्थवादे सृष्टिशब्द प्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्य भ्रमः स्यात् । तस्मान्मन्त्रानुवादी सृष्टिशब्दो न गुणविधायकः, किंत्वर्थवादः । ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः । किन्तुदधांतिधातुः प्रयुक्तः । ’ एकयाऽस्तुक्त ’ ’ प्रजा अधीयन्त’ इति तत्पाठात् । बाढम् । तथाऽपि द्वितीय तृतीयादिषु बहुषु मन्त्रेषु सृजतिधातु प्रयोगाद्धूमरूपं सादृश्यमस्ति । यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिभूमता, तथाऽत्रापि’ इति भूमगुणयोगेन सृष्ट्य सृष्टिसंघे सृष्टिशब्द प्रयोगः ।

लिङ्ग-समवायाधिकरणम्

प्राणभृत उपदधाति’ इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्ष: । सिद्धान्तस्तु लिङ्गप्रकरण प्राप्तमन्त्रानुवादेनेष्ठकोपधानविधिः । ’ एतस्यैत्र प्राणान्दधाति ’ इत्यस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः ।262

एवं सति ‘ब्रह्मवादिनो वदन्ति किं देवत्यं पौर्णमासमिति प्राजापत्यमिति ब्रूयादित्यादिषु संशयप्रदर्शनवाक्यानन्तरवाक्यस्यैव निर्धारणपरत्वदर्शनात् इहापि तादृशश्रुतिशैल्यनुरोधो भवति । एवं परमपुरुषस्यैव कारणत्वं प्रतिज्ञाया अस्यैवेदमुपपद्यत इत्यभिप्रायेणाह - संयोग इति । कालादिसंयोगस्य कार्येऽपेक्षितत्वात् संयोगस्य च कालादिस्वरूपप्रयुक्तत्वाभावात् । तदनुगुणसार्वज्ञय सर्वशक्तियुक्तः परमपुरुष एव तत्संयोजकः । न तु ब्रह्मरुदादिजीववर्ग: । तस्य सुखदुःखभागित्वेन कर्मपरतन्त्रतया निरङ्कुशज्ञानशक्त्योरभावादित्यर्थः । सुखदुःखहेतोरिति ब्रह्मवादिनो वदन्तीत्यन्वयः । तस्मात् संशयस्य देवताविशेषकोटिकत्त्वं भगवत्कारणत्ववादिनामनुकूलमित्याहुः ।

ननु मास्तु किं दैवतमिति सन्देहविषयकोटिनिर्धारकत्वमाश्रित्य सर्वाणि कारणवाक्यानि श्वेताश्वतरानुसारेण वर्णनीयानीत्यभ्युपगमः । अथापि साक्षात्सर्वेषां कारणवाक्यानां शिवपर्यवसानं तत्र मन्त्रवर्णनेन प्रदर्शितमिति कारणवाक्यानन्तरं तदनुसारेणार्थो वर्णनीयः । न तु न्यायमवलम्ब्य । सौबालाद्यमिद्दितनारायणपरत्वेन कथं शिवे पर्यवसानं प्रदर्श्यते । इत्थम् अस्यामुपनिषदि - ’ यदा तमस्तन्न दिवा न रालि र्न सम्म चासत् शिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी’ त्याम्नायते मन्त्रः । तेन ‘तमो वेदमेकमास ’ ’ नासदासीनोसदासीत् ’ तदानीं प्रजापतिर्वेदमेक शासीत् नान्तरासीत् न रात्रिरासीत् सोऽस्मिन्नन्वे तमसि प्रासर्पदित्यादिश्रुत्यन्तरप्रतिपन्नतमोविशेषाङ्कितकालविशेषानुषादेन तदित्यादिना शिवस्य तत्कालवर्तित्वेन विधानात् । पुरोडाशादिद्रव्यसम्बन्धितया आग्नेयादिवाक्य-

प्रथममन्त्र

पूर्वत्र - द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् । इह तु एव प्राणभृल्लिङ्गमाम्नायते अयं पुरोभुवस्तस्य प्राणो भौवायनः ’ इति । एकस्यैव मन्त्रस्य प्राणभृत्त्वेऽपि ’ छत्रिणो गच्छन्ति’ इतिवत् तत्सहचरिता: सर्वैमन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते । तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः । (जै. सू. 1 - 4 - 18, 14, 15, 16, 17, 18 )

263

प्रतिपन्नानां यागानामेव ’ चतुरवतं जुहोती’ति (जै. सू. 10-8-12 ) तत्पुरोडाशादिद्रव्यादनुसम्बन्धिमेदमविघिबलात् होमरूपतेव तत्कालवर्तित्वेन पुरोवादप्राप्तपरादिशब्दोदितस्य ब्रह्मण एव शिवरूपता सिध्यतीत्यस्यार्थस्य निर्धारणादिति -

अनोच्यते - नात्र शिव एव केवल इति वाक्ये तत्कालाधिष्ठातृत्वेन, शिवो विधीयते । यथा तमोविशेषाङ्कितकालविशेषस्य प्राप्तत्वं तथा सौबालादिश्रुत्यनुसारात् तस्य नारायणाविष्ठितत्वं प्राप्तमित्यधिष्ठातुः प्राप्तत्वात् शिवशब्दस्यानुवादकत्वात् । न हि ’ नासदासीदित्यादिकमेव पुरोवादः न सौबालवाक्यमित्यत्र किंचिन्नियामकमस्ति । न च वाच्यं विरुद्धार्थकपदान्तरक्त्वात् न

उपस्तरणाधिकाराभ्यां अमिषारणाभ्याम् सहैव चतुवरचत्वसंपादनाधिकरणम् -

दर्शपूर्णमासयोः इदमाम्नायते । चतुरवत्तं जुहोति इति । तत्र संशयःकिं पुरोडाश द्रव्यगतस्य अवदानस्य चतुरसंख्या विधीयते – अथवा द्विर्हविषोऽक्यति इति वाक्येन द्वि: अवदानं - उपस्तरणामित्राराभ्यां चतुरवत्त संपादनं इति संशयः। तत्र चतुरवत्तस्य द्वितीयाविभक्त्या होम कर्मत्वमुच्यते । नहि - उपस्तरणामिघरणाद्यर्थस्याज्यस्य होमकरणत्वं संभवति । उपस्तरणामिधारणयोः आग्यावदानयोः विनियुक्तत्वात् । अतः पुरोडाशावदानस्यैव चतुरखदानं इति पूर्वः पक्षः ।

सिद्धांतस्तु – नात्र होमानुवादेन चतुरवत्तत्वं विधीयते । होमस्याप्राप्तत्वात् । नापि विशिष्ट विधिः । गौरवप्रसङ्गात् । होममात्रविधाने चतुरवत्तत्वं अनुवाच्चम् । तच उपस्तरणामिघारण आज्यसहितस्यैव युक्तम् । तत्र द्विर्हविषः अवयति इति विधिना पुरोडाशावदाने द्वित्वस्यैव प्राप्तत्वात् न पुरोडाशे चतुरवदानम् । परं तु द्विरवदानम् । उपस्तरणामिघारणाभ्यां चतुरवदानम् । (जै. सू. 10-8-12 )

264

सौबालवाक्यं तस्य पुरोवाद इति माङ्गल्यरूपप्रवृत्तिनिमित्तमादाय शिवशब्दस्य भगवत्यपि मुख्यत्वेन सर्वथा विरुद्धार्थकत्वाभावात् मङ्गलानां न मङ्गलमित्यादिमिस्तस्य तत्रैव पुष्कलत्वावगमात् ’ शाश्वतं शिवमच्युतम्’, ‘विष्णुं पीताम्बरं शिवम्, '

’ शिवयोर्देवयोस्तत्र हरेश्चैव हरस्य च ।

लोकनाथ महाबाहो शिवनारायणाच्युत ॥ '

इत्याचसख्येय प्रयोगसत्वाच्च । न चालकिमर्थद्वयानुप्रहाय शिवपदस्य रुद्रपरत्वात् विरुद्धार्थकत्वमस्तीति वाच्यम् । एकार्थपरत्वत्यौत्सर्गिकत्वात् सामान्यशक्तिव्यतिरेकेण शिवशब्दस्य रुद्रे विशिष्यशक्तिसद्भावे मानाभावाच्च । न चानुशासनं शक्तिकल्पकमित्युपपादितमधस्तात् ।

किं चार्थद्वयानुग्रहाय शिवपरत्वादस्य वाक्यस्य विरुद्धार्थपदान्तरवत् सौबालादिवाक्यं न पुरोवाद इति तत्प्राप्तनारायणानुवादत्वासम्भवात् ’ शिव एकः केवल’ इति विधायकमिति यचुच्येत तदा तत एव विरुद्धत्वात् । न सौबलवाक्यस्याप्येतद्वाक्यप्राप्तिरेव कारणत्वानुवादकत्वमिति तस्यापि नारायणकारणत्वविधायकत्वेनैकेश्वराभ्युपगमापत्तिः । तथा चान्यतरस्य वाक्यस्यानुवादकत्वमित्यवश्यमङ्गीकरणीयम् । तथा च शिवशब्दस्य बहुधादृष्टप्रयोगत्वाव माङ्गल्यरूपप्रवृत्तिनिमित्तस्य च तत्न पुष्कलत्वात् । यदा तम इत्यस्यैवानुमादकत्वं, अन्यथा नारायणशब्दे लक्षणाप्रसङ्गात् ।

यत्तु कश्विदाह - ’ शिव एव केवल’ इत्यत्र शिवशब्दो यबौत्सर्गिकार्यपरतां हित्वा पुरोवादप्राप्ते नारायण एवं पर्यवस्येत् तदा

यदा तम इत्यंशस्यानुवादत्वेन – तन्नवेत्याद्यंशे दिवा निशाभावस्य सदसदात्मकप्रपश्चाभावस्य च पुरोवादेभ्य एव प्राप्तेः ‘यदा तमस्तदिति किंचिद्विधातुमुद्यम्यार्थपथेस्थितं वाक्यं किं विधेयमासाद्य विश्राम्य तु । न हि तस्य नारायणवृत्तित्वे पुरोवादाप्राप्तं कंचिदर्थं पश्यामः । तथा च वाक्यवैयर्थ्यमेव स्यात् । तदपेक्षया नारायणपदे लक्षणैव ज्यायसी । अत एव ‘एकादश वै पशोरत्रदानानि तानि

265

द्विवद्यती ‘ति वाक्यवैयर्थ्यापरिहाराय यद्यपि ‘चतुरवर्ती यजमानः पञ्चावत्तैव क्या कार्येत्य’त्र पशुप्रकृतिकहविर्माले लक्षणाङ्गीकृतेति, तदेतत् बालव्यामोहनमालम्, न हि ’ यदा तम इत्यारभ्य ’ शिव एव केवल’ इत्येतावदेकं वाक्यम् । येनात्र विधेयान्तरस्याभावेन वाक्यवैयर्थ्य स्यात् । किं तु तदक्षरमित्यन्तं तत्र चाक्षरत्वविधानात् न वैयर्थ्यम् ।

ननु यदा तम इत्यनूथ तन्न दिवेति कस्यचित् विधेयस्य प्रतीतेः पुनरपि तदक्षरमिति तच्छब्दबलेन विस्पष्टं वाक्यमेदप्रतीतेर्न तदक्षरमिति पर्यन्तमेकवाक्यम् । न च तच्छब्दस्य सापेक्षतया प्रत्युतैकवाक्यतापादकत्वमेव । अन्यथा ’ स्योनन्त’ (जै. सू. 8-8 - 8 ) इत्यादेः कथं वाक्यलिङ्गविरोधोदाहरणमिति

वाक्याद्यापेक्षया लिङ्गस्य प्रावल्याधिकरणम्

,

}

दर्शपूर्णमासयोः श्रूयते - ’ स्योनं ते सदनं कृणोमि घृतस्य धारयासुषेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेधसुमनस्यमानः’ इति ।

भोः पुरोडाश, तव समीचीनं स्थानं करोमि । तच्च स्थानं घृतस्य धारया सुष्टु सेवितुं योग्यं कल्पयामि भो ब्रीहिसारभूत त्वं समाहित मनस्क - स्तस्मिन्समीचीने स्थान उपविश । तत्रपिरोभव’ इत्यर्थः । तत्र ’ तस्मिन् ’ इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वोऽप्ययं मन्त्रः स्थानकरणेऽङ्गं स्यात् । मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया - ’ सर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्’ इति । तथा

’ सर्वेण मन्त्रेण पुरोडाशः स्थापनीयः’ इत्यपि कल्पनीया । सदनाङ्गत्वक्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात् । तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यतीति पूर्वः पक्षः ।

सिद्धान्तस्तु – यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तरार्धस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नाईति । तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति । अतो

34

,

266

वाच्यम् । प्रकृतपरामर्शितच्छब्देन सापेक्षत्वप्रतीत्या तत्रैत्रवाक्यतापादकत्वेऽपि प्रकृते तच्छब्दं विनापि पदैकवाक्यताया उपपन्नत्वेन तच्छब्दवैयर्थ्यापत्त्या वाक्य मेदप्रतीतेः । अत एव ‘औदुम्बरस्सोमचमसो दक्षिणा सप्रियाय सगोत्राय ब्रह्मणे देयः इत्येतद्वाक्यद्वयमित्युक्तम् । (जै. सू. 10-8-19) तदुक्तं पार्थसारथिमिश्रेण ’ अत्रापि द्वे एव वाक्ये; सोमचमसो दक्षिणेत्येकम् स ब्रह्मणे देय इति चापरं विस्पष्टमेव ’ इति । तथा च प्रकृते ऽपि शिव एव केवल इत्येतावदेकं वाक्यमिति तत्न कस्यचित् विधानाभावे वाक्य वैयध्यै स्यादेवेति चेत् न । न हि तन्न दिवेस्यारभ्य किंचित् विधीयते । तच्छब्दस्य तमः परे देव एकीभवतीत्यादिश्रुतिसिद्धा विभक्तावस्थापरत्वेन तमोविशेषणत्वेन यदेत्येतत् प्रतिसम्बन्धिभूततदेत्यर्थपरत्वाभावेन कस्यचित् तत्र विधेयत्वाप्रतीतेः । किन्तु तदक्षरमित्यादेर्विधेयसमर्पकत्वं ततः पूर्वं कृत्स्नमनुवाद इत्येव वक्तुमुचितम् । एवं हि तदिष्यस्य नपुंसकलिङ्ग तमश्शब्द विशेषणत्वेन तद्रूपमुपपन्नं भवति । अन्यथा ‘सुपां सुलुगित्यादिना विभक्तिलोपादिकमाश्रित्य तदेत्यर्यकत्वं कश्चित् क्लिष्टगत्या समाश्रयणीयं स्यात् । न च तदिष्यस्यैव तयात्वकल्पनं युक्तम् । अन्यथा तदेत्यध्याहारापत्तिरिति वाच्यम् । ‘न दिवा न रात्रिरित्यस्य पुरोत्रादप्राप्तत्वस्य तत्रापि सम्मतत्वेन विघ्ययोगित्वेन शिव एव केवल इत्यस्य सौबालवाक्येन सम्भवत्प्राप्तिकस्यैवकारार्थोपसर्जनस्य षड्विंशतिरित्येव ब्रूयादित्यस्यै विध्ययोग्यत्वेन च विधिसूचकार्थपरत्वस्य तदित्यस्योक्त्यसम्भवेन तच्छब्दस्य तमो विशेषणत्वे सति वदेत्येतदाकाङ्क्षानुसारात् तदेत्यव्याहारस्य युक्तत्वात् । अन्यथा वाक्यभेदप्रसङ्गात् । तथा च वाक्यमेदप्रसङ्ग-

"

लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते । प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते । तथासति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम् । ननु - ‘ऐन्या गार्हपत्यम्’ इत्यत्रापि पदद्वयान्वय रूपस्य वाक्यस्य विनियोजकत्व प्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्रियताम् - इति चेत् । न । तत्र लिङ्गेन वाक्ये बाधिते । (जै. सू. 8-8-8 )

267

नारायणपद लक्षणैवकारार्थोपसर्जन विध्यादिबहुदोषापेक्षया

अध्याहारमङ्गीकृत्य

मक्यार्थवर्णनस्य ज्यायस्त्वात् तमोऽधिष्ठातुरक्षरत्वमेवात्र विघीयते, न तु नकाले शिवो विधीयते । तच्छब्दस्य तदर्थकत्वकल्पनेऽपि तदक्षरमित्यत्रे यस्यैव तथा कल्पनस्योचितत्वात् ।

नन्वेवं ’ यदा शिवस्तदाऽक्षरमित्युक्ते पुरोवादप्राप्ताधिष्ठानपेक्षयाप्रतिरिक्तधर्मिण एव विधानं स्यात्, नत्वक्षरस्येति चेत् - न । तमोऽधिष्ठातृव्यतिरेकेण वस्त्वन्तराभावस्य नैवेह किंचित् नाम्र आसीत् इत्यादिवाक्यैरवगम्यमानत्वेन तस्मिन्नक्षरत्वविधौ पर्यवसानस्यैवोचितत्वात् ।

अस्तु वा यदा तम इत्यादि शिव एव केवल इत्यन्तमेकं वाक्यम् । अथापि तस्यानुवादकत्वमेव । न च वैयर्थ्यम् । अनुवादत्वेऽपि समुदायसिद्धिप्रयोजनकस्य विद्वद्वाक्यस्येव तदक्षरमिति अक्षरत्वविधिप्रयोजनकस्यार्थवत्वात् । न हि शिव एवेत्यस्य विधायकत्वं सौबालवाक्येन तदर्थस्य प्राप्तिसम्भवात् ।

"

ननु सौबालवाक्यमेत्र पुरोवाद इत्यत्र किंचित् नियामकमस्ति । नासदासीनोसदासीत् तदानीं तमो वा इदमेकमास’ इत्यादीनां तद्वाक्यानूधमानतमः प्रापकाणां सत्वादिति चेत् न । तथा सति शिव एव केवल इत्यस्य विधायकत्वे नारायणकारणत्वप्रतिपादकानां वीनां श्रुतीनां व्याकोपप्रसङ्गात् । तत्नत्यानां नारायणादिशब्दानां मुख्यार्थभङ्गापत्तेः । एवकारोपहतविधिशक्तिकस्य शिवशब्दस्य षड्विंशतिरित्येव ब्रूयादित्यस्येव विष्ययोगाच्च । तस्मादनुवादत्वमेत्र

युक्तम् ।

किं च वैश्वदेवयागानामपि (जै. सू. 1-4-11 ) प्राचीनप्रवणे वैश्वदेवेन यजेतेति विधीयमान देश सम्बन्धार्थस्य दण्डिवल्लक्षणया वैश्वदेव-

वैश्वदेवादिशब्दानां नामधेयाधिकरणम् -

चातुर्मास्य यागस्य चत्वारिपर्वाणि वैश्वदेवः, वरुणप्रघासः, साकमेघः, शुनासीरीयः चेति । तेषु प्रथमेपर्वणि आग्नेयमष्टाकपालं निर्वपतीति अष्ठौ

268

समुदायानुवादस्य वैश्वदेवेन यजेतेति वाक्यस्यैव ‘विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति । भावाभावकरं शिवमित्यादिवाक्यप्रतिपाद्यार्थस्य नारायणे पर्यवसानरूपप्रयोजनवतः सौबालवाक्यप्रतिपन्ननारायणानुवादकस्य यदा तम इति वाक्यस्य न वैयर्थ्य शङ्कितुमपि शक्यम् । एवं च परस्य यदा तम इति वाक्योदाहरणं स्ववधाय कृत्योत्पादनम् |

अपि चैवं सति नारायणकारणत्वं प्रतिपादकस्य नैवेह किं च नेत्यादेः का गतिः ! शिक्कारणत्वानुवादकत्वमिति चेत् - न । नारायणकारणानुबादकत्वमस्येत्यपि सुवचनम् । न चैवमस्य वैयर्थ्यमित्युक्तमिति वाच्यम् । नैवेह किं च नानांसीत् अमूलमिमाः प्रजा प्रजायन्ते दिव्यो देव एको नारायण

यागाः विहिताः । तत्संनिधाविदमाम्नायते । वैश्वदेवेनयजते इति । आग्नेयादीन मागान् यजेत इत्यनूद्य वैश्वदेवशब्देन देवतारूपगुणः तेषु विधीयते । यथपि अष्टसु यागेषु अंतर्गत वैश्वदेवीयामिक्षावाक्ये विश्वेदेवाः प्राप्ताः । तथापि आग्नेयादिषु सप्तसु यागेषु अप्राप्तत्वात् विधीयते । स्ववाक्यविहित देवतायाः एतद्वाक्य विहित देवतया सह विकल्पः । नामधेयत्वे तु नाममात्त्रस्याविधेयत्वात् । द्रव्यदेवतयोः अभावेन यागस्यात्र स्वरूपासंभवात् - श्रूयमाणोविधिः निरर्थकः स्यात् । अतः गुणविधिरिति पूर्वः पक्षः ।

सिद्धान्तस्तु नावगुणविधिः । वैश्वदेवशब्दस्य यागविशेषनामपरत्वमेत्र । तत्तदुत्पत्तिवाक्यविहिताग्नेयादीन् यागान् यजेत इत्यनूब अष्टानां संघे वैश्वदेवनामत्वं वर्ण्यते । न च विधित्वासंभवेऽपि नामोपदेश वैयर्थ्यम् । प्राचीनप्रवणे वैश्वदेवेन यजेत इत्यादिषु वैश्वदेवशब्देन एकेनैव अष्टानां संघस्य व्यवहर्तव्यत्वात् । यद्यपि अष्टसु यागेषु एकः एव वैश्वदेवयागः - परंतु छत्रिन्यायेन यागसमुदायस्य वैश्वदेवत्वं संभवत्येव । देवताविकल्पस्तु समान बलत्वाभावात् न युज्यते । श्रग्न्यादयो देवताः उत्पत्ति शिष्टाः प्रबलाः विश्वेदेवाः पुनः उत्पन्नशिष्टाः दुर्बलाः । (जै. सू. 1-4-11 )

269

इत्यस्याप्यानर्थक्यमिति तुल्यम् । न च सृष्टिप्रलयप्रतिपादनेन चारितार्थ्यं प्रथमखण्डे ’ पृथिव्यप्सु प्रलीयत’ इत्यादिनैव तत्प्रतिपादनस्य चारितार्थेन तृतीयानुशासने नैवेह किं चिन्नाग्र आसीदित्याम्नायवैयर्थ्यस्य नारायणकारणत्वतात्पर्यवर्णनं विना दुरुद्धरत्वात् ।

नन्वेवमपि श्वेताश्वतरवाक्यमनुवादकमिति कथं निर्णीयत इति चेत्-तव वा सौबालवाक्यमनुवादकमिति कथं निर्णयः ? मास्तु निर्णय इति चेत् - कथं तर्हि शिवकारणत्वप्रतिष्ठापनम् ? मास्तु तत् ; तथापि नारायणकारणत्वसिद्धिरेवास्माकं प्रयोजनमिति चेत् - विकू त्वां मूर्ख यं स्वपत्निपरित्याग रूपं निप्रहम विगणय्य वितण्डावादधुरन्धरस्सन, महानर्थकरं भगवद्रोहमेव प्रयोजनतयाऽनुमन्यसे । सुद्धद्भावेन प्रश्न सौबालवाक्यस्यानुवादतया श्रुत्यन्तरसापेक्षत्वाभावेन नारायणकारणत्वं तत्र शीघ्रमेव प्रतीयते । अतोऽनुपसञ्जातविरोधित्वात् सौबालवाक्यस्थनारायणपदेन लक्षणाऽङ्गीकर्तुं युक्ता । श्वेताश्वतरवाक्यस्य तु यदा तम इत्यनुवादप्रतीत्या मैत्रेयश्रुत्यादिकमपेक्षत इति मन्थरप्रवृत्तिकत्वात् उपसञ्जातविरोधित्वात् शिव एव केवल इत्येतदेव सौबालवाक्यप्राप्तं नारायणकारणत्वं लक्षणयाऽप्यनुवदतीति युक्तमम्युपगन्तुमुत्तरम् । ’ विष्णुस्तदाऽसीद्धरिरेव निष्कल’ इति श्रुत्यन्तरेण मैत्रेयमुत्याद्यर्थस्यापि भगवत्येव पर्यवसानं दर्शितमिति तदनुसारात् शिवपदस्य भगवत्येव वृत्तिर्युक्ता । न च वैपरीत्यं विष्णुहरिपदयोरमुख्यत्व प्रसङ्गात् । शिवपदस्यैकस्यैव जघन्यत्वमस्मत्पक्षे इति न कोऽपि दोषः । वस्तुतस्तु शिवशब्दस्य भगवति मुख्यत्वात् न लक्षणेत्युक्तम् ।

अपि च यदा तम इत्यनुवादत्वेन पुरोत्रादापेक्षायां मैत्रेयवाक्यमेवास्य पुरोवादः न सौबालवाक्यमित्यत्र न किंचिन्नियामकं पश्यामः । विरुद्धार्थत्वात् न तस्य पुरोवादत्वमित्येतन्निरस्तमेव ।

270

एतेन यथा विश्वजित् सर्वपृष्ठोऽतिरात्रोभवती’ (जै. सू. 10 - 6 - 6 ) त्यत्र विधेय समर्पकसर्वशब्दानुसारात् पृष्ठ शब्दस्य बृहद्रथन्तररूपप्राकृतपृष्ठत्यागो षाडहिकपृष्टानुवादत्वं कल्प्यते । तथा यदा तम इत्यस्य विधेयशिवपदानुसारात् अन्यविषय सौचालादिपरित्यागेन कचिदप्यपर्यवसितमैत्रायणीयादिश्रुतिप्रापितार्थानुवादित्वं कल्प्यत इति निरस्तम् । शिवशब्दस्य विधेयसमर्पकत्वासिद्धेः । शिवशब्दस्य विधेयसमर्पकत्वेसिद्धे यदा तम इत्यस्य सौबालवाक्यार्थाननुवादकत्वसिद्धिः । यदा तम इत्यस्य तदननुवादकत्वे सिद्धे शिव एव केवल इत्यस्य विधेय समर्पकत्वमित्यन्योन्याश्रयत्वाच्च । तस्मात् सौबालादिवाक्यसिद्ध नारायणकारणत्वमनुवदति शिव एव केवल इति वाक्यमिति तत्त्वरहस्यविदां निर्णयः ।

एतदेवामिप्रेत्यानुगृहीतमाचार्यचरणैः

शिव एवेति वाक्यं तु

अनुक्तिः । उक्तं नारायणाधिष्ठितमिति च तमोऽनेकबाधोऽन्यथास्यादिति सर्वार्थसिद्धौ चातः कारणतमोऽधिष्ठातृत्वेन प्रसिद्धेः । नारायण एवात्र

सर्वपृष्ठे देशविशेषव्यवस्थाधिकरणम् -

इदमाम्नायते . ’ विश्वजित्सर्वपृष्ठ : ’ इति । षडहे पट्स्वहः सु क्रमेण ’ रथन्तरं बृहद्वैरूप्यम्’ इत्यादिमि: षडूमि: सामभिः पृष्ठस्तोत्रं निष्पादितम् । तानि सर्वाणि पृष्ठसामानि यस्मिन् विश्वजिति सोऽयं सर्वपृष्ठः । तत्र माध्यंदिन पवमानमैत्रावरुण साम्नोरन्तरालरूपे पृष्टस्तोत्रदेशे किं सर्वाणि पृष्ठसामानि कार्याणि किं वा यथा वचनं देशव्यवस्था इति संशयः । पृष्टकार्यगमकेन पृष्ठशब्देन पृष्ठदेशे प्राप्ते.

वचनेन देश विशेषो व्यवस्थाप्यते । वचनं चैत्रमाम्नायते । पत्रमाने रयंतरं करोति, आर्भवे बृहत् मध्य इतराणि । वैरूपं होतुः, पृष्ठं वैराजं ब्रह्मसाम, शाकरं मैत्रावरुण साम, रैवतमच्छावाक साम’ इति । वचनं हि न्यायाद्बलीयः । तस्मात् - देश विशेषो व्यवस्थितः । (जै. सू. 10-8-5 )

271

शब्दान्तरपरामृष्टः। अनन्तरं च तदक्षरं तत्सवितुर्वरेण्यमित्यादिना तत्प्रकारविशेषोपदेश इति ।

भवतु वा ‘शिव एव केवल’ इत्येतद्वाक्यं विधायकम् ; तथापि शिवशब्दस्य माङ्गल्यगुणयोगीत्यर्थे रूढत्वेन तमोऽधिष्ठातृत्वेन प्रमाणान्तरप्रतिपन्ने भगवति माङ्गल्यविधायकत्वेन चारितार्थ्यात् न रुद्रस्य तद्बलात् कारणत्वं सिध्यति । भगवतो निखिलजगत्संहर्तृत्वेन माङ्गल्यशङ्कायां तन्निवारणाय माङ्गल्यविधिर्ह्यपेक्षितो भवति । न तु नीलकण्ठत्वविधिः । अपेक्षितानपेक्षितयोश्चापेक्षितविधानं ज्यायः । अपेक्षितविधिर्ज्यायानपेक्षितचोदनादिति न्यायविद्यत्रहारात् । अत एव ’ द्वादशाहेन प्रजाकामं याजयेदिति (जै. सू. 11-4-5) प्रयोगविधिविहित सहत्वनिर्वाहार्थं पूर्वपूर्व महः कस्मि-

द्वादशाहे दीक्षोपसत्सुत्यानां प्रत्येकस्य द्वादशाहता धिकरणम्

द्वादशाहेन प्रजाकामं याजयेत् इति वर्तते । द्वादशाहो नाम द्वादशदिन कर्तव्यसुत्यः क्रतुः विहितः । तस्मिंश्च दीक्षाः द्वादश विहिताः - उपसत् च द्वादश विहिताः तथा सुत्याश्च द्वादशविहिताः । तादृश यागस्य ज्योतिष्टोम विकारत्वात् ज्योतिष्टोम विध्यतो ऽतिदिष्टः । अतिदिष्टानां दीक्षाणां उपसदां च प्राकृत संख्या बाधनाय पृथक् पृथक् द्वादशत्वं विहितम् । ततः दीक्षोपसदर्प चतुर्विंशति दिनानि सुत्यार्थमेकं दिनमिति पश्चविंशतिः । ईदृशस्य कर्मविशेषस्य द्वादशवारमावृत्तौ शतत्रयं स्यात् इति एकः पक्षः ।

तथा सति सुत्यानां श्रूयमाणं द्वादशत्वं बाध्येत । तस्माद्द्वादश दिवसाः इति मध्यमः पक्षः । तदाऽपि दीक्षोपसद्भ्यामुपेतस्य एकैकस्याः सांगज्योतिष्टोमविकारत्वात् सद्यः एव कर्तव्यमित्येकः पक्षः । प्रकृतौ दीक्षोपसदो: . मुख्यकालात् प्रागेवानुष्ठितत्वात् इहापि तथैवानुष्ठानं प्राप्तम् । तच्च दीक्षोपसदो: मुख्यकाले - अनुष्ठाने बाध्येत । तस्मात् अंग द्वयस्य प्रधानस्य च द्वादशदिनानीति विभज्यानुष्ठानं इति अपरः पक्षः ।272

चित्पदार्थेऽवस्थाप्योत्तरोत्तर मुपक्रम्यानुष्टातव्यमिति कवाऽवस्थाप्यमित्याकांक्षायां सत्यां पत्नीसंयाजान्तान्यहानीति (जै. सू. 9-1-9 ) पत्नी संयाजान्तत्वविधिर्युक्त इत्युत्तमत्रजं तद्विधायकमित्युक्तम् । अत एव सौम्यं चरुं निर्वपेत् यस्तोमं वा मिती’ति विधिर्वैदिके लौकिके दोषाभावात् प्रतीकारापेक्षा नास्तीत्यनपेक्षितं प्रायश्चितं प्रतीकारापेक्षास्तीति वैदिक एव वमने प्रायश्चित्तं इति व्यवस्थापितम् ।

ननु तमोऽधिष्ठाता क इत्याकाङ्क्षायां नीलकण्ठत्वविधिरूप्यपेक्षित विधिरेवेति चेत् न । सौबाला दिवाक्यैस्तमोऽविष्ठातुर्नारायणत्वस्य प्रतिपन्नत्वेन देवताविशेषाकाङ्क्षाया अभावात् ।

ननु ‘तमो वा इदमेकमास तत्परेणेरितं विषमत्वं प्रयाती’ त्येतद्वाक्यस्य प्रापकत्वमिति तदपेक्षाऽस्तीति चेत् न । तद्वाक्यमात्रप्राप्तानुवादकत्वनिर्णयस्य विधेयशिवशब्दस्य सौबालाद्यनुवादपक्षेऽनुपपन्नार्थत्वनिर्णयाचीनत्वात् । न च सौबालवाक्यं पुरोवाद इत्यत्र किं मानमिति वाच्यम् । विनिगमकाभावेन मैत्रेयवाक्यस्य सौबालादिवाक्यानां च पुरोवादस्य वक्तव्यत्वात् । तस्मात् तमोवाद इत्यादिवत् सौबालादिवाक्यानामपि पुरोवादत्वेन नारायणत्वप्राप्त्या देवताविशेषाकाङ्क्षायाश्शान्तेरनपेक्षित विधित्वमेव नीलकण्ठत्वविधेः ।

एतेन विश्वजित्सर्वपृष्ठेत्यनुरोधात् षाडहिकपृष्ठानामित्र शिवशब्दानुरोधात् तमो वेति वाक्यार्थस्यैवाधिष्ठातुरनुवाद्यत्वं कल्प्यत इति निरस्तम् । माङ्गल्परूपशिवशब्दार्थ विधानमासाद्य प्रकृतवाक्योपपत्तेर्वर्णितत्वात् शिवशब्दार्थ-

सिद्धांतस्तु – द्वादशदीक्षा, द्वादश उपसदः इति अंगयोः मुख्यवत् पृथक् द्वादशत्व श्रुत्या द्वादशसुदिनेषु कर्तव्य, सुत्या विधायक द्वादशाह वाक्येन च षट्त्रिंशदहस्सु अयंयागः कार्यः इति भवति । ततश्च षट्विंशदहोवा एष:, यद्वादशाहः इति लिंगमप्युपपद्यते । (जै. सू. 11-4-5 )

273

क्याऽनुग्रहाय सामान्यवाक्यमेव प्रापकतयेम्यतामिति चेत् न । नारायणकारणत्वश्रुतिव्याकोपप्रसङ्गात् । बहुकालसम्पादितभगवदपचारादिफलप्रतिरोधकत्वेन संहारस्यापि दयाकार्यत्वात् विहितं च माङ्गल्यकमुपपन्नं भवति । दुक्तमाचार्यपादैः -

आसृष्टिसन्ततानामपराधानां निरोधनीं जगतः ।

पद्मा सहायकरणे प्रतिसञ्चरिकेलिमाचरसि ॥ ’ ( दयाशतकम्.)

लीलासाधनशून्यत्वेनामाङ्गल्यशङ्कायां संहारस्यैव लीलारूपत्वात् नामाङ्गल्यमित्यभिप्रायेण शिवत्वविधिरिति वेदान्त विजयकृतः । अतश्शिव एव केवल इत्यस्य विधायकत्वेऽपि नारायणकारणत्वप्रतिपादकश्रुत्यविरोधाय माङ्गल्यविधायकत्वात् नैतद्वाक्यं शिवपारम्य साधकमिति दिक् ।

ननूपनिषदियं हरशिवेशरुद्रेशानमहेश्वरशब्दैर्लोकप्रसिद्धैरथ कस्मादुच्यते, सर्वव्यापि, विश्वेदेवाश्च यत्तस्मिन् विश्वरूपस्ततस्स्मृतिः । हंसो नाम सदाशिवः, अयाष्टमिर्नाममिरित्याद्यथर्वशिरो महाभारतबोधायनसूत्र । यवगतमिति विश्वरूपहंसमहदादिशब्दे श्वानन्यविषयै श्शिवनामरत्नैरलङ्कृतैः ‘क्षरं प्रधानममृताक्षरं हरः ’’ भावाभावकरं शिवं ’ ’ भूयः सृष्टः पतयस्तथेश: '

एको हि रुद्रो न द्वितीयाय तस्थे ’ ’ ईशानो ज्योतिरव्ययः मायिनं तु महेश्वरम् ।’ ’ सर्वव्यापी च भगवान् तं विश्वरूपं भवभूतिमीड्यम् ’ ’ एको हंसो भुवनस्यास्य मध्ये महान् प्रभुर्वे पुरुष’ इत्यादिभिः सर्वमन्त्रावयवैः मधुरा । न तत् समश्चाभ्यधिकश्च दृश्यत’ इति कण्ठोक्त्या शिवसदृश पुरुषान्तरनिषेधं कुर्वती शिवपारम्यमेव प्रतिपादयतीति महावाक्यपर्यालोचनयाऽत्रगम्यत इति तदनुसारेण ’ यदा तम’ इति वाक्यमपि शिवोत्कर्षप्रतिपादनपरमेवेत्यभ्यु-

पगन्तव्यम् ।

नन्वस्यास्तृतीयेऽध्याये ’ वेदाहमेतं पुरुषं महान्तमिति पुरुषसूक्तमन्त्रानानेन तत्प्रतिपाद्यस्य नारायणस्य प्रत्यभिज्ञानात् तत्परताऽवसीयते । न च

35

274

’ तेनेदं पूर्ण पुरुषेणा सर्व मित्यन्तेन तमनूद्य ततो यदुत्तरतरमित्यादिमन्त्रेण तमः परस्यैव कस्यचित् वेदनममृतसाधनत्वमुक्त्वा तदनन्तरमन्त्रे ’ तस्मात् सर्वगत: शिव’ इति तत्र शिवपदप्रयोगात् ततोऽपि परत्वेन शिवप्रतिपादनमेवास्या - स्तात्पर्यमिति वाच्यम् । प्रथममेव ’ वेदाहमिति मन्त्रेण नारायणवेदनस्यैव मोक्षहेतुत्वस्य ’ यस्मात्परतरं नेत्यनन्तरमन्त्रेण तस्मात् परः भावस्य च प्रतिपादनात् । तदनन्तरं मन्त्रसन्दर्भस्य तद्विरुद्धेऽर्थे तात्पर्यकल्पनायोगेन तत्त्रापि ’ सहस्रशीर्षा पुरुषः ’ ’ पुरुष एवेदं सर्व’ इति पुरुषसूक्तमन्त्रद्वयप्रत्यभिज्ञानात् । ’ सत्वस्यैष प्रवर्तक’ इति सत्वगुणोपाधिलिङ्गोपन्यासात् । तस्यापि नारायणपरत्वनिश्चयेन ततश्शब्दस्य पूर्वमन्त्रार्थस्य हेतुकारणे पूर्वमन्त्रान्तनिर्दिष्टस्य विश्वस्य हेतुकारणे वा तात्पर्यकल्पनादिति चेत् उच्यते श्रुतयो हि प्रत्यभिज्ञानात् स्थलद्वयपरामर्शापेक्षत्वेन विलम्बितात् बलवत्तराः । तथा चोपनिषदुपक्रममारभ्यानुवर्तमानात्यन्ताभ्यस्तानेकाभिधानश्रुतिप्रापितं शिवविषयत्वमपो न देत्रतान्तरविषयत्वमापादयितुं शक्नोति । पुंसूक्तमन्त्रप्रत्यभिज्ञाछान्दोग्यश्रुतायामुपनिषदुपक्रमपर्यालोचना लब्धोत्थावयव विषयायामुद्गीथविद्यायां बृहदारण्यक - श्रुतकृत्स्नोद्गीथकर्तृविषयोद्गीथ विद्याप्रकरणपठित देवासुरसङ्ग्रामासुरात्ययामिप्रायाअर्थवादप्रत्यमिज्ञेत्र तदेक विषयत्वम् ।

यः पशुकामः स्यात् सोऽमावास्या - मिष्ट्रा वत्सानपाकुर्यात् ये मध्यमाः स्युः तानप्रये दात्रे पुरोडाशमष्टाकपालं कुर्यात् येऽनिष्टाः तान् विष्णवे शिपिविष्टाय भृते चरुमित्यत्र (जै. सू. 6-5-1 ) ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्वरुमिति विशिष्टकर्म-

अभ्युदयेष्टयधिकरणम् –

दर्शपूर्णमासयोः - यस्य हविर्निरुप्तम् - पुरस्ताञ्चन्द्रमाः अभ्युदयति त्रेधा तण्डुलान् विभजति ये मध्यमाः स्युः तानग्नये दाते पुरोडाश मष्टाकपालं कुर्यात् । ये स्थविष्ठाः तानिन्द्राय प्रदात्रे दधन् चरुं ये अणिष्टाः तान् विष्णवे शिपिविष्टाय श्रिते चरुं इति श्रूयते । अनेन यदि दर्शभ्रान्त्या चतुर्दश्यां केनचित् हविः निरुतं भवति ततः प्रत्यूषे पूर्वस्यां दिशि चन्द्रमाः

275

दधिपयसोः

विधिवाक्येष्वभ्युदयेष्टिश्रुतदेवता सम्बन्धपरवाक्यच्छायाप्रत्यभिज्ञेव प्रदेयकर्मत्वम् । न च तत्र प्रतिपाद्य मेदोऽर्थवादादिमात्रसारूप्यविरुद्धम् । इह तु पुंसूक्तमन्त्रोपनिषदोः प्रतिपाद्यभेदे द्वयोः सर्वात्म्याद्ययोगात् । ’ पुरुष एवेदं सर्वमिति ‘नान्यः पन्था’ इति चोभयत्र विरुद्धमिति वाच्यम् । ऐक्यवादे वास्तवैक्यसत्वेन भूमात्मनोरिव परमते पुरुषसूक्तशाण्डिल्यविद्ययोर्विद्याभेदेऽपि तद्विषययोरिव च सार्वात्म्योपदेशस्य सर्वमूर्त्यनुस्यूतनिरुपाधिकचैतन्यामिप्रायेण सार्वात्म्योपदेशस्य तद्वेदनस्यैव मुक्त्युपायत्वमित्यवधारणस्य च तयोः प्रतिपादित-

dad

अभ्युदयति तदा निरुप्तान् तण्डुलान् त्रेधा विभज्य - अखण्डितान् ईषत् खण्डितान् - अतिसूक्ष्मकणांश्च विभज्य यथाक्रमं अग्नयेदात्रे - इन्द्राय प्रदात्त्रे - विष्णवे शिपिविष्टाय च - अष्टाकपालएकादशकपाल चरून् कुर्यादिति विहितम् । तत्र अनेन वाक्येन विहितं कर्म प्रक्रांतदर्शकर्मणः - अन्यद्वा - तदेव वा प्रकारांतर संयुक्तम् इति संशयः ।

कालापराध प्रायश्चित्तरूपस्य अस्य कर्मणः दर्शकर्मणः अन्यत्वमेव । अतः इदं प्रायश्चित्तं कृत्वा परेथुः दर्शकर्म अनुष्ठेयम् - इति पूर्वः पक्षः ।

सिद्धान्तस्तु - हविर्निरुप्तमिति निर्वापांत दर्शकर्मणः प्रत्यभिज्ञानात् तत्कर्म परित्यज्यकर्मांतरविधानं न युज्यते । प्रकृतहान अप्रकृत प्रक्रिये प्रसज्ये याताम् । अतः तस्मिन्नेव प्रवृत्ते दर्शकर्मणि पूर्वदेवताः अपनीय अनोद्दिष्टाः देवताः निर्देष्टव्याः । हविः दधि, इति प्रकृत दर्शयाग निर्दिष्ट द्रव्यस्य प्रत्यभिज्ञा हि भवति । यद्यपि प्रकृतौ स्थविष्ट मध्यमा णिमादि - अविभागेन तण्डुल समान्यस्य विनियोगो वर्तते अथापि विनियोग भेदात् अत्र प्रयोगांतरत्वमेवांगीकार्यम् । अतः निरुप्तस्य हविषः तस्मिन्नेव कर्मणि कालव्यत्यासंनिमित्तीकृत्य देवतांतर संयोगरूपः प्रयोग प्रकारभेदः एव उपदिश्यते । अतः दर्शस्यैवायं नैमित्तिकः प्रयोगः । नेदं प्रायश्चित्तरूपम् । दशस्यैव प्रयोगान्तरम् । (जै. सू. 6-5-1 )

(

276

मूर्तिभेदेऽप्युपपन्नकर्मत्वात् । पररीत्याश्रयणेऽपि शिवस्यापि ’ सर्वो वै रुद्र: ‘अहमेकः प्रथममासं वर्तामि च भविष्यामि च ’ नान्यः कश्चिन्मत्तो व्यतिरिक्तः, ’ ज्ञात्वा तन्मृत्युमत्येति, नान्यः पन्था विमुक्तय’ इत्यादिषु श्रुतिषु सर्वात्म्याच्धुपदेशदर्शनेन ’ आपो वा इदं सर्वमित्यादिवत् गौणत्वस्य द्वयोरपि मुक्त्यर्थं भजनीयत्वेन प्रासादाधिरोहणे सोपानपर्वणोरित्र तयोः पङ्क्त्यन्तरब्यवच्छेदेन मुक्त्युपायत्वोपदेशस्य च समर्थनीयतया श्रुत्यन्तरेष्वित्रात्रापि सर्वात्म्या दुपदेशस्य श्रुतिद्वयोऽपि प्रतिपाद्यजगत्कारणत्वामगमस्य बलानुरोधि - व्यवस्थया वक्ष्यमाणन्यायेन मूलकारणत्वावान्तरकारणत्वविषयत्वस्य चोपपन्नत्वे - नान्यथासिद्धप्रत्यमिज्ञामात्रेण प्रबलानेकश्रुतिसाधनायोगात् । अन्यथा मैत्र्युपनिषत्प्रत्यमिज्ञया पुरुषसूक्तस्यैव पराभिमतनारायणवाचि पुरुषश्रुत्यादिबाधेन शिवपरत्वमिति वैपरीत्यापत्तेर्दुष्परिहारत्वात् । तस्माद किंञ्चित्करीह पुरुषसूक्त - प्रत्यमिज्ञा । परोपन्यस्तं लिङ्गं तु सत्वशब्दस्यानेकार्थत्वात् अनेकश्रुतिविरुद्धलिङ्गानुन्मेषाञ्च शङ्काईः |

किं च रुद्राध्यायमन्त्राणामपीह परिमितत्वेन तत्प्रत्यभिज्ञायाः अपीह सत्वात् तमनादृत्य पुरुषसूक्तप्रत्यभिज्ञैकपक्षपातेन परेषां ततो निर्णायकता वृथैव पठ्यते । अस्य तृतीयेऽध्याय एव ’ याते रुद्रशिवा तन्: ’ ’ यामितुं गिरिशन्त हस्त’ इति मन्त्रद्वयं पठ्यते । तस्मात् परस्पर प्रतिपक्षिते प्रत्यभिज्ञाद्वये शिवरुद्रादि निरमिधानश्रुतिभिरेव देवताविशेषनिर्णयो युक्तः । अपि च प्रत्यभिज्ञयोरपि रुद्राध्यायमन्त्राणां पुरुषसूक्तमन्त्रेभ्यः प्राक् पश्चाच्च सन्दंशन्यायादुभयत मास्नानेन अन्नयादि साधारण्येऽपि शङ्कयम् । अत एवैतच्छुतिषिषयभवदेवतान्तर व्यावृत्तेन रुद्रेति लोकप्रसिद्धेन गिरित्र गिरिशन्तेति वेदप्रसिद्धेन च शिवनामतो भावघटितत्वेन शिवासाधारणानेककामरूपायुधादि प्रकाशनेन शिवविषयत्वस्य स्पष्टत्वेन च तत्प्रत्यभिज्ञाया बलवत्वात् विषयविशेष समर्पणक्षमत्वाच्च । तत एवास्याः प्रतिपाद्यविशेषनिर्णयो युक्तः । अत इयमुपनिषत् शिवपारम्य प्रतिपादन प्रत्रणेति ।

अन ब्रूमः

277

न तावदस्यामुपनिषदि हरशब्दो रुद्रोपस्थापकः । तस्य तदुपस्थापकत्वाभावस्य प्रपचितत्वात् । नापि शिवादिशब्दास्तदुपस्थापकाः ।

• अनन्तश्वात्मा विश्वरूपो ह्यकर्ता सर्वव्यापी च भगवान्’ ’ पुरुष एवेदं सर्वमित्यादि वाक्यस्यैः ’ अनन्तो नागराट् विष्णुः, विष्णुः कृष्णः, केशवो मुजिकेशः, श्रीवत्साङ्कः श्रीपतिः पीतवासाः, विष्वक्सेनो विश्वरूपो मुरारिः, शौरिश्शाङ्गी पद्मनाभो मुकुन्दः, भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधि च वर्तेते । ’ वासुदेवे सनातन’ इति प्रमाणसिद्धभगवदभिधानैरनन्तविश्वरूपभगवत्पुरुषशब्दै: ’ हंसः खगे स्मरे विष्णाविति निघण्टुप्रसिद्ध भगवन्नामभावेनैको हंसो भुवनस्यास्येति वाक्यस्थेन इंसशब्देन ’ महान् प्रमुर्वै पुरुषस्सत्वस्यैषः प्रवर्तक’ इति स्वत्वप्रवर्तकलिङ्गेन ’ हिरण्यगर्भं जनयामासे ‘ति वाक्यस्थेन हिरण्यगर्भजनकत्वलिङ्गेन च भगवदुपस्थित्या शिवादिशब्दस्तदुपस्थिति प्रतिरोधात् ।

ननु विश्वरूपहंसशब्दौ न विष्ण्वमिधानत्वेन लोकप्रसिद्धावित्यनन्तभगवत्पुरुषशब्दास्त्रय एव तदुपस्थापकाः । शिवोपस्थापकास्तु शिवेश रुद्रेशान महेश्वरशब्दा इति भूयस्तया शिवोपस्थितिस्तदितरोपस्थिति प्रतिबघ्नाति । न च प्रसिदूष्यभावेऽपि विश्वरूपहंसशब्दयोर्निघण्टुबलात् तदमिधानत्वमिति वाच्यम् । तथासति पौराणिक निर्वचनबलात् सर्वव्यापि विश्वरूपादिशब्दानामपि शिवोपस्थापकत्वे च सुतरां विष्णुपस्थिति प्रतिबद्धप्रसङ्गादिति चेत् न ।

अनन्तशब्दस्य प्रथमखण्डस्यस्योपक्रमस्थत्वेन प्रबलत्वात् सत्वप्रवर्तकत्व हिरण्यगर्भ जनकत्वयोश्चानन्यथा सिद्धयोर्विद्यमानत्वेन तत्सहकृतत्वेन वानन्तभगक्त्पुरुषशब्दानां प्रबलत्वात् । निर्वचनानान्तु भगवत्यपि सात्विकपुराणेषु सत्वेन तद्बलात् विश्वरूपव्याप्यादिशब्दाः शिवोपस्थापका इति वक्तुं युक्तम् ।

नन्वनन्तशब्दस्योपक्रमस्थत्वेऽपि श्रुतिद्वयप्रतिस्पर्धिमात्रक्षममिति तिस्रः श्रुतयः शिवोपस्थापनजागरूकाः । ततश्चावशिष्टाभ्यां भगवत्पुरुषशब्दाभ्यां

278

द्वयोः प्रतिबन्धेऽप्यधिकः शिवोपस्थापक एवास्तीति कथं विष्णू पस्थापकप्राबल्यमिति चेत् – न । अनन्यथासिद्धाभ्यां सत्यप्रवर्तकत्वहिरण्यगर्भजनकत्वाभ्यामविशिष्टायाः श्रुतेर्बाधात् । न च श्रुतेः प्राबल्यात् तत एत्र लैङ्गिकोपस्थिति - र्बाच्यत इति वाच्यम् । लिङ्गस्य दुर्बलत्वेऽपि अनन्यथासिद्धत्वेन प्राबल्यात् । अत एवानुष्ठेयार्थस्मृत्येक प्रयोजनकमन्त्रक्रम एवानेयाग्नीषोमीयानुष्ठानक्रमनियामकः । न तु विधानेनान्यथासिद्धब्राह्मणक्रम इत्युक्तम् । (जै. सू. 5-1-8 ) शिवेशादिशब्दास्तु अन्यत्रापि दृष्टप्रयोगा इष्यसकृदावेदितम् । न च शिवादिशब्दानां पुनः पुनरान्नानेन तात्पर्यक्त्वम् । पुरुषशब्दस्य ततोऽभ्यधिकाभ्यासत्वात् । न चानन्त-

ब्राह्मण पाठात् मन्त्र पाठस्य बलीयस्त्वाधिकरणम् –

नातः

अम्नोषोमीय यागस्तैत्तिरीय ब्राह्मणे पञ्चमप्रपाठके द्वितीयानुवाके समा’ ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्’ इति । आग्नेय यागस्तु षष्ठप्रपाठके तृतीयानुवाके समानातः ’ यदाग्नेयोऽष्टाकपालोSमावास्यायां च पौर्णमास्यां चाच्युतो भवति’ इति । तत्र अनुष्ठानस्य ब्राह्मणोक विध्यधीनत्वादनीषोमीयस्य प्रथम मनुष्ठानमिति पूर्वः पक्षः ।

सिद्धान्तस्तु - मन्त्रकाण्डे पूर्व पठिता आग्नेयमन्त्राः । तथाहि - हौत्रकाण्डे - आज्यभागमन्त्रानुवाकादुत्तरस्मिन्ननुवाके प्रथमम् ’ अग्निर्मूर्धा’ इत्यादिके आग्नेय्यौ याज्यानुवाक्ये आम्नाते । ततः ’ प्रजापते नत्वदेतानि ’ इत्यादिके प्राजापत्ये । ततः आग्नीषोमा सवेदसा’ इत्यादिके अग्नीषोमीये । आध्वर्यवकाण्डेऽपि - ’ अग्नयेजुष्टं निर्वपामि ’ ’ अग्नीषोमाभ्याम् ’ इत्याग्नेयः पूर्वमाम्नातः । यजमान काण्डेऽपि ’ अग्नेरहं देवयज्ययाऽनादो भूयासम् ’ इत्याम्नाय पश्चात् ’ अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् ’ इत्याम्नायते । मन्त्रक्रमश्च प्रबल: मन्त्रैः स्मृत्वा पश्चादनुष्ठेयत्वात् । ब्राह्मणत्वप्राप्तपदार्थविधिनाऽपि चरितार्थम् । अतोऽनुष्टानस्मरणायैवोत्पन्नान्मन्त्रान् बाधितुं नालम् - इति मन्त्रक्रमेणाऽऽग्नेयस्यैव प्रथमानुष्ठानम् । (जै. सू. 5-1-9 )

279

शब्दात्पूर्वं व्यक्ताव्यक्तं भरते विश्वमीश इत्युक्त्यामीशशब्दस्योपक्रमस्थत्वमिति चाच्यम् । अनीशश्चात्मेति प्रतिकोटितयोपादानेन तस्य यौगिकत्वात् । न च सत्वशब्दस्यानेकार्थत्वात् भगवदुपस्थापकत्वानिर्णय इति शक्यम् । अर्थान्तरव्यातिशयानाधायकस्याखीकारसम्भवात् । प्रसिद्धप्राचुर्यस्य गुणत्रयान्तर्वर्तिन्येव सत्वात् । सत्वस्येत्येकवचनस्वारस्यस्य परपक्षेऽसम्भवात् । पुरुषशब्दस्य विष्णुपस्थापकत्वेन तस्मिंश्च सत्वगुणप्रवर्तकत्वस्य ।

’ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।

सात्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥ ’ इत्यादिप्रमाणापन्नत्वेन तत्समभिव्याहारेण तस्यैवोपस्थितेः ।

अस्तु वा भगवदुपस्थापक श्रुत्यादिप्राबल्याभावः । तथापि शिवोपस्थापकप्रमाणानां परस्परं सत्प्रतिपक्षत्वमनिवार्यमिति पुरुषसूक्ताम्भस्यनुषाकादिप्रत्यभिज्ञानां निर्निरोधप्रवृत्त्या भगवदुपस्थितिरनिवार्या । न च रुद्राध्यायप्रत्यभिज्ञया प्रतिरोधः । भगवदुपस्थापकप्रत्यभिज्ञानां भूयस्त्वात् । तथा हि प्रथमखण्डे

’ देवात्मशक्ति खगुणैर्निगूढां ज्ञात्वा देवं मुच्यते सर्वपाशैः '

’ ध्याननिर्मथनाभ्यासात् देवं पश्येत् '

इत्यादिषु देवशब्दैः सुबालोपनिषत् प्रत्यमिहाप्यते । तत्र ‘दिव्यो देव एको नारायणः ’ ’ मृत्युर्वै परे देव एकीभवती’ स्यादिषु देवशब्देन व्यवहारात् । द्वितीयखण्डेऽपि - ’ ज्ञात्वा देवं मुच्यते सर्वपाशैरिति सौबालोपनिषत् प्रत्यमिज्ञाप्यते । ’ एष हि देवः प्रदिशो ऽनुसर्वा’ इत्यम्भसिवाक्यं प्रत्यभिज्ञाप्यते । तृतीयखण्डे च - ’ एतद्विदुरमृतास्ते भवन्तीत्यत्र ‘विश्वतश्चक्षुरुत विश्वतोमुख ’ इत्यत्र चाम्मस्यनुवाकः प्रत्यमिज्ञाप्यते । ’ हृदा मनीषा मनसाऽमिक्लृप्तो य एनं ’ इत्यम्भस्यनुवाकः ’ सहस्रशीर्षा पुरुष’ इति पुरुषसूकं प्रत्यमिज्ञाप्यते । ‘सर्वस्य शरणं सुहृदिति माता पिता भ्राता निवासः शरणं सुहृत् गतिर्नारायण, इति वाक्यं प्रत्यभिज्ञाप्यते । ’ तमाहुरप्रयं पुरुषं महान्तमिति

280

च ’ अद्भ्यः सम्भूता’नुवाकेऽपि प्रत्यभिज्ञाप्यते । चतुर्थखण्डे च ‘तदेवाग्निस्तद्वायुस्तत्सूर्य’ इत्यन्तस्यानुवाकः प्रत्यमिज्ञाप्यते । ’ द्वा सुपर्णा सयुजा सखायौ,’ ’ समाने वृक्षे’ इति मन्त्रद्वयं मुण्डकोपनिषत्प्रत्यभिज्ञापकम् । ’ हृदामनीषा मनसामिक्लृप्तो य एनं विदुरित्यम्भस्यनुवाकः प्रत्यभिज्ञाप्यते । नैनमू न तिर्यञ्चमिति च तस्यैव प्रत्यभिज्ञापकम् । षष्ठेखण्डे ’ न तत्त्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमिति मुण्डकोपनिषत्प्रत्यमिज्ञाप्यते । ’ तमेत्र विदित्वाऽतिमृत्युमेति नान्यः पन्था ’ इति पुरुषसूक्तं प्रत्यमिज्ञाप्यते । रुद्राध्यायप्रत्यमिज्ञा च ’ याते रुद्र शिवातनूः ’ ‘मानस्तोके तनय’ इति स्थलद्वय एवेति तस्यादौर्बल्यमिति प्रत्यभिज्ञाबलात् भगवत्परत्वसिद्धिरनिवार्या । न चैतत्प्रत्यभिज्ञया पुरुषसूक्तस्य शिवपरत्वमिति वैपरीत्यमस्त्विति वाच्यम् । श्रुतिलिङ्गत्वेन श्वेताश्वतरस्य शिवपरत्वनिर्णयाभावात् । पुरुषसूक्तस्य भगवत्परत्वनिर्णायकत्वं प्रपचितं प्रथमपरिच्छेदे न च रुद्राध्यायप्रत्यभिज्ञाया उभयतस्सन्देशात् प्राबल्यमिति युक्तिमत् भगवत्परमन्त्रप्रत्यभिज्ञाया एव प्रथमद्वितीयखण्डयोः षष्ठे च सत्वेन सन्दंशन्यायेन प्राबल्यस्याप्यत्रैव सत्वात् । तृतीयेऽपि खण्डे ’ याते रुद्र शिवातनूरिति पूर्व य एतद्विदुरमृतास्ते भवन्ति ’ ’ विश्वतश्चक्षुरि’ त्यम्भस्यनुवाकप्रत्यभिज्ञात्वात् ।

यत्तु ऐक्यवादे वास्तत्रैक्यसत्वेन सर्वमूर्त्यनुस्यूत निरुपाधिक चैतन्याभिप्रायेण सार्वात्म्योपदेशस्य तद्वेदनस्यैव मुक्युपायत्वावधारणस्य चोपपत्तिरिति - तन्न - एवं सतित्वया सार्वात्म्यादिश्रवणबलात् अथर्व शिरः - प्रभृतिभिः शिवस्य परमात्वसाधनस्यानुपपन्नत्वप्रसङ्गात् । न च साधकाभावात् शिवे श्रुतस्य सार्वात्म्यादेः प्रातिखिकीरूप एवान्वय इति वाच्यम् । ऐक्यवादे तत्रान्वयासम्भवात् । पुरुषसूक्तश्रुतसार्वात्म्यादौ बाधकानुपन्यासाच्च । न चोभयोरसम्भव इति वाच्यम् । श्वेताश्वतर श्रुतस्य चैतन्याभिप्रायत्ववदेनं विहाय पुरुषसूक्ते तथा वर्णितस्य भगवद्रोहहेतु गुणविशेषं विना न किंचित्कारणं पश्यामः ।

एतेन पररीत्याश्रयणेऽपीत्याद्यपि निरस्तम् । पुरुषसूक्तश्रुतस्य ‘आपो वा इदमित्यादिवत् गौणत्वकल्पनायां हेत्वभावात् । न च ’ नान्यः कश्चिन्मत्ते

281

व्यतिरिक्त’ इत्यादिषु सार्वात्म्यश्रवणं हेतुः तस्य गौणत्वकल्पनासम्भवात् । न च श्वेताश्वतरस्य रुद्राध्यायप्रत्यभिज्ञया शिवपरत्वात् ; तस्य च सार्वात्म्यादेस्तत्व प्रतिपादनात् द्वयोः सार्वात्म्या योगाश्च । पुरुषसूक्तश्रुत सार्वात्म्यादेरन्यथाकरणमिति वाच्यम् । श्वेताश्वतरस्य सार्वात्म्यादेर्मुख्यत्वे पुरुषसूक्तस्थस्य च गौणत्वे च विनिगमकानुपन्यासात् रुद्राध्यायप्रत्यभिज्ञायाश्वासम्भवात् वस्तुद्वयसमावेशार्थप्रतिपादनमन्त्रप्रत्यभिज्ञारूपत्वा भाषेन ततश्शिवपरत्वस्य साधयितुमशक्यत्वाश्च । पुरुषसूक्तश्रुतस्य सार्वात्म्यादेनं खरसतो वस्तुद्वयगतत्ववर्णनमित्यस्य स्फुटत्वाच्च । इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते ।

’ ऋतं सत्यं च विख्यातं ऋषिसिंहेन चिन्तितम् '

इति महाभारतोक्त्या तस्यातिशयक्त्वात् । ’ तदेतदृचाभ्युक्तमिति श्रुत्यन्तरे खोक्तार्थदृढीकरणाय मूलभूतत्वेनोक्त्या च तथात्वावगमात् । तदनुसारेणैव श्रुत्यन्तरार्थवर्णनस्यौचित्याच्च । तस्मात् शिवेशादिशब्दानां भगवत्पुरुषादिशब्दः सत्प्रतिपक्षत्वात् रुद्राध्यायप्रत्यमिज्ञायाश्च पुरुषसूक्तप्रत्यभिज्ञापेक्षयादुर्बलत्वात् । तुल्यबलत्वे वा शिवपरत्वनिर्णयस्याप्ययोगान्महावाक्यस्य शिवपरत्ववेदनासामर्थ्यात् तदनुसारेण ’ यदा तम’ इति वाक्यस्य शिवोत्कर्षप्रतिपादनपरत्ववर्णनमाशापाशविजृम्भितमिति सङ्क्षेपः ।

किं चायोग्यार्थत्वस्य शिवादिशब्देषु ’ बुद्धदा: त्र्यक्षः शूलपाणिः पुरुषो जायत’ इत्यादिप्रमाणसिद्धकार्यभावार्थप्रतिपादकेषु सत्वेन न तद्बलात् शिवप्रतिपादकत्वं श्वेताश्वतरोपनिषदो युक्तम् । न च संशयकोटिनिर्धारणकृत प्राबल्येन शिवकारणत्वे निश्चिते तद्बलादकर्मकृतत्वं शिवजननस्य कल्प्यत इति वाच्यम् । कर्मकृतजननवत्वशङ्कारहितार्थप्रतिपादकानन्तशब्द सद्भावेन हरपदस्य निर्धारकत्वमिति कल्पनस्यैवानुन्मेषात् । अनपहतपाप्मा वा अहमस्मीति प्रमाणविरोघेनाकर्मकृतत्वकल्पनस्याप्यनुदयाच्ञ्च । न चोत्तीर्णपरमशिवविषयत्वेनायोग्यार्थत्वाभावः । तत्र प्रमाणाभावात् ।

36282

,

अत्र कश्चिदाह-न त्रिमूर्त्यतिरिक्ततुरीयमूत्यसिद्धिः; श्रुत्यादिप्रमितत्वात् । तथा हि - ’ अथास्य पुरुषस्य चत्वारिस्थानानि भवन्ति । नाभि, हृदयं, कण्ठं, मूर्धा । तत्र चतुष्पादं ब्रह्मविभाति । जागरिते ब्रह्मा स्वमे विष्णुः सुषुप्तौ रुद्रस्तुरीयमक्षरं स आदित्यो विष्णुश्वेश्वरश्रे ‘ति ब्रह्मादिभ्यः परमक्षरशब्दतन्त्रत्वान्तरं दर्शितम् । ‘न तत्र देवा ऋषयः पितर ईशत इत्यनन्येश्वरत्वं, एको देवः सर्वभूतेषु गूढ ’ इत्यादिना सर्वान्तर्यामित्वं सकलफलदातृत्वं च दर्शितम् । तापनीयोपनिषदि - ’ अकारं ’ ब्रह्माणं नाभावकारं विष्णुं हृदये मकारं रुद्रं भ्रमध्य’ इति नामिहृदयभ्रूमध्येष्वकारादिमात्रात्रयवाच्यानां ब्रह्मविष्णु रुद्राणामुपासनानन्तर’मोङ्कारं सर्वेश्वरं द्वादशान्तर इति समष्टिप्रणववाच्यं द्वादशान्तोपास्यं सर्वैश्वर्यशालि तेभ्यः परं दर्शितम् । मैत्रयुपनिषदि - ‘तमो वा इदमेकमास’ इत्यारभ्य ’ तत्परेणेरितं विषयत्वं प्रयात्येतद्वै रजसो रूपम्’ इत्यादिना तमोऽधिष्ठात्वपरस्य सङ्कल्पेन तमोगुणविभागं निरूप्य ’ तस्य प्रोक्ता अप्रधास्तनुवो ब्रह्मविष्णुरुद्र’ इति ’ अथ यो ह खलु वाऽस्य राजसोंऽशः सोऽसौ योऽयं ब्रह्मा । अथयो ह खलु वाऽस्य तामसोऽशः सोऽसौ योऽयं रुद्रः । अथ यो ह खलु वाऽस्य सात्विकोंऽशस्सोऽसौ योऽयं विष्णुरिति तमोऽधिष्ठातुः परस्यांशभेदा ब्रह्मादय इति प्रतिपादनेन तेभ्यः परं तत्वान्तरं दर्शितम् । तस्य चोमासाहित्यं नयनत्रयनीलकण्ठत्वादियुक्तं वपुश्च उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्’ इत्यादि कैवल्योपनिषदादिमन्त्रेभ्यः प्रतिपन्नं महेश्वरमहादेवशम्भुरुदेशानादिशब्दवाच्यत्वं चाथर्वशिरश्शिवादिषु दृष्टप्रयोगात् निर्णीतम् । न चोदाहृतोपनिषन्निकुरुम्बप्रतिपाद्यो गुणी रुद्र इति शङ्कनीयम् । तत्र सर्वत्रापि तद्विभूतिषु ब्रह्मनारायणयोरिव गुणी रुद्रस्यापि पाठात् । न च तत्र विभूतिमध्याम्नातरुद्वशब्दो गुणी । रुद्रांशभूतरुद्रान्तरपरोऽस्त्विति वाच्यम् । ब्रह्मविष्णुसन्निध्याम्नातरुद्रशब्दस्य संहर्तृमूलरुद्रपरत्वौ - चित्यात् । ’ यत् प्रायेश्रूयते यच तत्तादृगवगम्यत’ इति न्यायात् ।

283

नन्वेवमपि शिवादिशब्दानां गुणिरुद्रवाचिनामेव वस्त्वभेददृष्ट्या तत्रापि प्रयोगोपपत्तेः न तस्य तद्वाच्यत्वमङ्गीकरणीयमिति चेत् न । नीलकण्ठत्वादिविशिष्टमूर्तिशबलिते ब्रह्मणि तेषां व्युत्पत्तेः प्रसिद्धत्वात् । अथर्वशिरश्शिस्वादिषु महेश्वरमहा देवादिशब्दानां तन्नामत्वेन निर्वचनाच्च । सदाशिवादिशब्दवाच्यत्वस्याप्यभ्युपगमाच्च । तस्मात् तुरीयं ब्रह्म रुद्रेशानमहेश्वरमहादेवशिवादिशब्दितमुमासहायं त्रिलोचननीलकण्ठत्वादिविशिष्टविग्रहमिति सिद्धम् । तथा च सूतसंहितायाम् -

’ उमार्धविग्रहाशुद्धा त्रिनेत्रा चन्द्रशेखरा । नीलग्रीवापरानन्दप्रमोदा ताण्डवप्रिया ॥

ब्रह्मविष्णुमहादेवैरुपास्या गुणिमूर्तिभिः । सर्वमूर्तिविहीनस्य सर्वभूताधिपस्य च ॥ तथा ह्येषा परामूर्तिरित्येषा शाश्वती मतिः ॥ '

इति । पराशरपुराणेऽपि

’ साक्षात्परतरस्यैव वस्तुतस्सर्वसाक्षिणः ।

अस्मिन् मूर्तिः पराशुद्धा खतन्त्रा पापनाशिनी ॥

तस्याः साधारणामूर्तिः साम्बा चन्द्रार्धशेखरा ||

इत्यारभ्य ’ ब्रह्मविष्णुमहादेवास्तं ध्यायन्ति निरन्तरम् ’ इत्यन्तेनोक्तम् । एवं कौर्मस्कान्दलैङ्गपाद्यगारुडशिवधर्मादिष्वपि वचनानि द्रष्टव्यानीति ।

अत्र ब्रूमः - सत्यं ब्रह्मोपनिषदादौ ब्रह्मादिभ्यः परं तस्वान्तरं श्रूयत इति । तत्तु भवदभिमतरूपमिति न सिध्यति । तथात्वे प्रमाणाभावात् ।

ननु कैवल्योपनिषदि उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षि तमसः परस्तात् ’ इत्युमासहायत्वादिश्रवणबलेन तुरीयस्य शिवरूपत्व सिद्धिरिति चेत् न । ‘घ्यावा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्’ इत्यनन्तरं ‘स ब्रह्मा स शिवः सेन्द्र ’ इत्याद्याम्नानेन भूतयोनिशब्दाभिहितस्य ब्रह्मादिविभूतिप्रतीत्या तुरीय उमा-

284

सहायत्वादिश्रवणासिद्धेः । न च भूतयोनिशब्दस्य यौगिकत्वेन विशेष्याकाङ्क्षायां सन्निहितशिव एववृत्तेः ’ तत्क्रतु न्यायात् ’ ( छा० उ. 3-14 -1 ) तदुपासनाया तत्प्राप्तेरेव युक्ततयां तस्य शिवानिवृत्तिकल्पनायोगाच्च । ध्येयप्राप्ययोरैक्यात् तस्य च ब्रह्मादिविभूतिकत्वादुत्तीर्णस्योमासहायत्वादिसिद्धिरिति वाच्यम् । उपक्रमे यथा चिरात्सर्वपाप्मव्यपोह्यपरात्परं पुरुषमुपैति विद्वान्’ इत्यनेन यद्वा पुरुषशब्दोऽयं ’ रूढ्यावक्ति जनर्दनमित्यादिप्रमाणसहस्र सिद्धरूढिशक्तिकपुरुषशब्दोपस्थितस्य नारायणस्य प्राप्यत्वावगमेन च । तद्विरोधेन नीलकण्ठे पर्यवसायितुमशक्यत्वात् । तथा चोपक्रमे प्राप्यत्वेनावगते नारायण एव पर्यवसानम् । कथं तत्र पर्यवसानमिति चेत् - इत्यम्’ नरायणादेव सर्वाणि भूतानि समुत्पचन्त’ इत्यादौ नारायणस्य भूतयोनित्वश्रवणेन तद्धर्मेण तदुपस्थितिरिति । एवं सति तं गच्छतीत्युपास्यप्राप्यैक्यप्रतिपादकपदरहितार्वान्तरोपस्थापनलब्धस्वारस्यभूतयोनिपदघटितवाक्यशैल्यनुरोधो भवति । अन्यथा तमसः परस्तात् स एव सर्वं यद्भूतं यच्चभव्यं सनातनं ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तय’ इत्यादिपुरुषसूक्तप्रत्यमिज्ञा बाध्येत । ’ स ब्रह्मा स शिवः सेन्द्र’ इत्यत्र नारायणानुवाकप्रत्यभिज्ञाऽपि साचितास्यात् ।

}

नन्वेवं सति ध्येयप्राप्ययार्भेदः स्यात् । ’ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिरिति त्रिलोचनस्य ध्येयत्वा-

वत्कतुन्यायः

इदमाम्नायते छान्दोग्ये - ’ सर्वं खल्विदं ब्रह्म’ तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयोऽयं पुरुषः यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूप: ’ इत्यादि ।

अत्र यथोपासनं इतः प्रेत्य पुरुषो भवतीति उपासनानुगुण भगवत्प्राप्तिः इह प्रतिपाद्यते । अयमेव न्यायः तत्क्रतुन्याय इत्युच्यते । ( छा० उ. 8-14-1 )

285

वगमादिति चेत् न । उमासहायमित्यादेर्मुमुक्षु प्रधानध्येयार्थ समर्पकत्वासिद्धेः । ’ अचिन्त्यमव्यक्तमनन्यरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ’ तथादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम्’ इत्येतावन्मात्रस्यैव तादृशार्थ समर्प - कत्वात् । तथा हि’हृत्पुण्डरीकं विरजं विशुद्धिमि’त्यत्न हृत्पुण्डरीकपदस्थ - द्वितीया व्यत्यनेन सप्तम्यर्थे षष्ठयर्थेवा वर्तते । अचिन्त्यमित्यादिना भगवान् चिन्तनीयत्वेनोच्यत इति । न च द्वितीयया हृत्पुण्डरीकस्य प्रतीयमानं चिन्तनकर्मत्वं परित्यज्य किमिति सप्तम्याद्यर्थस्वीकार इति वाच्यम् । उपक्रमे पुरुषशब्दार्थस्य नारायणत्वस्यैव प्राप्यत्वावगमेन प्राप्यस्यैव ध्येय इत्यत्न वक्तव्यतया तथैवार्थवर्णनस्योचितत्वात् । अत्रापि ’ यदेकमव्यक्तमनन्तरूपम्’ इत्यम्भस्यानुवाक्प्रत्यमिज्ञया ’ अचिन्त्यमव्यक्तममन्तरूपम् सत्वात् । ब्रह्मयोनिमिति चतुर्मुखकारणत्वलिङ्गाश्च । हृत्पुण्डरीकचिन्तनस्य निष्प्रयोजनत्वाश्च । न च तत्रोपास्यानुचिन्तनोपयोगितया तच्चिन्तनं युक्तमिति वाच्यम् । पूर्वं तच्चिन्तनाभावे तस्मिन्नुपास्यानुचिन्तनाभावात् तच्चिन्तनस्यासिद्धत्वात् । न च विशुद्धत्वेन विचिन्तनमुष्यत इति वाच्यम् । वस्तुतो विशुद्धत्वस्यैवोपास्यानुचिन्तनप्रयोजनकत्वात् । एवं च हृत्पुण्डरीककर्मकविचिन्तनविधानासम्भवात् विभक्तिव्यत्यय एव न्याय्यः । अत एव ‘सक्तून् जुहोती’ (जै. सू. 2-1-8 ) इत्यत्र

F

कर्मणां गुणप्रधान भाव विभागाधिकरणम् - (गुरुमतेन )

सक्तूञ्जुहोति’ इत्यत्र द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा क्रियाप्राधान्याय ’ सक्तुभिर्जुहोति’ इति तृतीयात्वेन विपरिणामो वक्ष्यते, तथा - ’ व्रीहिभि वहन्ति ’ इति विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगेऽन्वेतव्येति चेत् ।

"

मैवं । वैषम्यात् । तत्र ’ होमेन सक्तुषु संस्कारो न भवति ’ भस्मी-

| भूतानामन्यत्र विनियोगासंभवात् इत्यभिप्रेत्य संस्कार कर्मत्वं परित्यक्तम् । इह दृष्टस्तुष विमोक संस्कार उपपद्यते, वितुषाणां तेषां पुरोडाशे विनियोग संभवात् । (जै. सू. 2-1-3)

286

तथा स्वीकारः । आनर्थक्यात् वरं लक्षणेति न्यायाच्च । अत एव व्रीहीनन् प्रोक्षतीत्यत्र विधीयमानप्रोक्षणस्यानर्थक्य प्रसङ्गात् व्रीहिपदे पूर्वसाधन लक्षणाऽङ्गीकृता । कथं तर्छु मासहायमित्यादेः सङ्गतिरिति चेदित्थम्

• रुद्रं तु सारथिं कृत्वा मनः प्रग्रहवान्नरः ।

स याति परमं पारं विष्ण्वाख्यं पदमव्ययम् ॥’

इत्यादि श्रुतौ ईश्वरात् ज्ञानमच्छेित् मोक्षमिच्छेत् जनार्दनात्’ इत्यादि स्मृतिषु च रुद्रस्य ज्ञानप्रदत्वश्रवणेन तत्प्रसादाय तदङ्गभूतोपासनमनेन विधीयत इति । एवं हृत्पुण्डरीकमिति विभक्तिमात्रस्य लक्षणाङ्गीकारेणोक्तरीत्याऽर्यवर्णने उपक्रमगतपुरुषश्रुत्यबाधः । पूर्वोक्त प्रत्यमिज्ञयोर्नारायण कारणत्व प्रतिपादिकानां बद्दीनां श्रुतीनामव्याकोपश्च ।

नन्वेवं सति विचिन्त्य ’ उमासहायं ध्यात्वेति कथं चिन्तनानन्तर्यप्रतीतिर्ध्यानस्य सुसङ्गतास्यादिति चेत् न । किमनन्तरोक्त्या आनन्तर्य प्रतीति: आहोखित् पौर्वकालिकत्वार्थकत्व प्रत्ययबलात् । नाद्यः अग्निहोत्रहोमयबागूपाकयोरिव पाठक्रमस्यानयोरर्थक्रमेण बाघस्यैव वतुं युक्तत्वात् । (जै. सू. 51-2 ) न द्वितीयः तस्य गमनक्रियापौर्वकाल्यापरत्वेन ध्यानापेक्षया तत्परत्वासिद्धेः । उक्तं च महाभाष्ये - ‘सर्वषामेवात्रव्रजिक्रियाः प्रति

क्रमस्य कचिदार्थिकत्वाधिकरणम् -

‘अग्निहोत्रं जुहोति यवागूं पचति’ इति श्रूयते । गृहपत्यादिदीक्षासु पाठक्रमस्यैवाऽऽहतत्वदर्शनादिहापि अग्निहोत्रहोमयवागू पाकयोः पाठक्रम एव आदर्तव्यः । यद्यपि यवागूपाकस्याऽग्निहोत्र संबन्ध संभवादग्निहोत्रार्थत्वं यवाग्वा अग्निहोत्रं जुहोति’ इति श्रुतेः यत्रागू पाकस्याऽग्निहोत्रार्थत्वात् । अथापि पाठक्रमेण यवागू पाकस्योत्तरत्वात्, अग्निहोत्र होमानन्तरं यवागूपाकः अदृष्टार्थः कर्तव्य इति पूर्व पक्षः ।

संभवति ।

"

287

पौर्वकायां स्नात्वा व्रजति भुङ्क्त्वा व्रजति पीत्वा व्रजतीति । एवं च कृत्वा प्रयोगोऽप्यनियतः स्नात्वा भुक्त्वा पीत्वा व्रजति । पीत्वा भुक्त्वा स्नात्वा व्रजतीति । तथाचाङ्गभूतोपासनमेव ’ उमासहायमित्यादिना विधीयत इति न नस्यैतत्प्रकरण प्रतिपाद्यत्वम् ।

अपि च ’ स ब्रह्मा स शिव’ इति शिवस्य विभूत्यन्तर्गतत्व प्रतिपादनेन विभूतिमत्प्रतिपादकस्य भूतयोनिशब्दस्य न शिवे पर्यवसानं युक्तम् ।

नन्वन्यो विभूत्यन्तर्गत: तदव्यः परमशिवो विभूतिमानिति नोक्तदोष इति चेत् - अहो मनोरथराज्यानुभवकुशलता तत्र यदि इदानीमप्यसिद्धं परमशिवमादाय कक्ष्याञ्चालयति । अनया श्रुत्या तुरीयस्य नीलकण्ठत्वादिवैशिष्टये सिद्धेहि परमशिवसिद्धिः । तुरीये तद्वैशिष्टयसिद्धिरेव हि विवादग्रस्ता । तथा च कथं परमशिवसिद्धवत्कारेणान्योन्य विभूतिमानित्युक्तिः अन्योन्याश्रयप्रासात् । उमासहायमित्यादिनोपस्थिते भूतयोनिशब्दवृत्तिसिद्धौ तुरीये नीलकण्ठत्वादिसिध्या परमशिवस्य विभूतिमतोऽन्यस्य सिद्धिः । विभूतिमतोऽन्यस्य सिद्धौ उमासहायमित्यादिनोपस्थिते भूतयोनिशब्दवृत्तिसिद्धिरिति । न च ’ स ब्रह्मा स शिव’ इति विभूत्यन्तर्गतत्वमवताररूपत्वेनाप्युपपन्नमिति न तस्य विभूतिमत्वबाधकत्वमितिवाच्यम् । तथा सति तुरीयशिवकारणत्ववादस्य परित्यागापातात् । तदन्यस्यकार्यत्वकर्मवश्यत्वादिश्रवणेन भूतयोनिप्राप्यत्वापसम्भवाच ।

ननु ’ स एव विष्णुः स प्राण’ इति विष्णोरपि विभूत्यन्तर्गतत्वश्रवणात् तत्र कथं पर्यवसानम् ? अन्यथा शिवेऽपि पर्यवसानं सुवचमिति

’ यवाग्वा-

सिद्धान्तस्तु – दृष्टे संभवति, अदृष्टकल्पनाया अन्यायत्वात् । यवागूपाकस्याऽग्निहोत्रार्थत्वमेव । द्रव्यमन्तरेण होमासंभवात् । द्रव्यनिष्पत्त्यै, पाकस्यैव प्राथमिकत्वावश्यंभावात् । होमद्रव्यत्वं च यवाग्वाः ऽग्निहोत्रं जुहोति’ इति तृतीययाऽवगम्यते । तस्मात्पाठक्रमं बाघित्वाऽर्यतः क्रमोऽत्राभ्युपगन्तव्यः । (जै. सू. 5-1-2 )

288

चेत् - न । ब्रह्मेन्द्रादितुल्ययोगक्षेमतया शिवविष्णोरुभयोरपि विभूत्यन्तर्गतत्वेन श्रवणस्याविशेषेऽपि अत्नोपक्रमे पुरुषशब्दार्थस्य नारायणस्य प्राप्यत्वावगमेन ’ मुनिर्गच्छति भूतयोनिमि’त्यत्र प्राप्यस्य नारायणत्वमभ्युपगम्यतां आहोखित् विभक्त्यन्तर्गतत्त्रश्रवणेन नारायण अव्यतिरेकोऽभ्युपगम्यतामिति विशये उपक्रमावर्गतनारायणत्वावगमस्य प्रबलत्वात् विभूत्यन्तर्गतत्वस्य - ’ पद्मे दिव्यार्कसङ्काशेनाभ्यामुत्पाद्यमानमपी’ त्यारभ्य ’ रक्षार्थं सर्वभूतानां विष्णुत्त्रमुपजज्ञिवान्’ इति रामायणोक्तार्थरक्षार्थं ब्रह्मादिमध्ये पतितत्वावगमेन तदादायोपपत्त्या तत्त्र पर्यवसानसम्भवात् । शिवे पर्यवसानस्य च ध्येयप्राप्ययोरैक्यं वक्तुमुचितमिति न्यायबलात् कल्पनीयत्वेन तत्र च विभूत्यन्तर्गतत्वोक्तेः प्रतिबन्धकत्वात् ब्रह्मेन्द्रादितुल्यत्वापवादकप्रमाणभावेन विभूतिमत्वस्य वक्तुमशक्यत्वाच्च ।

ननु विभूत्यन्तर्गतत्वेन शिवश्रवणतुरीयशिवकारणत्ववादिनामनुकूलमिति चेत् -

  • न । किं प्रमाणान्तरादुत्तीर्णा शिवसिद्धिरित्यभिमतम्, अस्मादेव प्रमाणाद्वा । नायः ; तस्यैव प्रमाणान्तरस्य मृग्यत्वात् । तस्य सत्वे ध्येयप्राप्त्यैक्यावश्यम्भावोपजीवनेन तुरीयशिवसाधनप्रवृत्तया अस्या उपनिषद: प्रमाणत्वोपन्यासस्याप्रयोजकत्वापातात् । न द्वितीयः, शिवद्वैविध्यसिद्धेः । पूर्व भूतयोनिशब्दस्य शिवे पर्यवसाने तद्विभूतिकोटौ शिवश्रवणस्य प्रतिबन्धकत्वात् । न ह्यत्र तुरीये आहृत्योमासहायतादिवैशिष्ट्यं नोच्यते । येन तमः प्रतिबन्धो न स्यात् । किं तु न्यायलात् तद्वैशिष्ट्यं बोध्यम् । तथा च ततः प्रतिबन्धो दुर्वारः ।

ननु शिवद्वैविध्याभ्युपगमेन विरोधः सुपरिहार इति चेत् न । गौरवात् । भूतयोनिशब्दस्य च महोपनिषदाद्यनेकप्रमाणबलात् । जगत्कारणत्वेनावसिते नारायण एकवृत्तित्वसम्भवात् । तस्मात् न कैवल्योपनिषदा तुरीयस्योमासहायत्वादिसिद्धिः । न च ‘ऋतं सत्यं परं ब्रह्मेत्यनेन कृष्णपिङ्गलमित्यस्यैवान्यथैवोपपत्तेः । भगवत्यपि पीताम्बरसम्बन्धादिना कृष्णपिङ्गलत्वस्योपपत्तेश्च । तुरीयस्य तत्राप्राकृतत्वाच्च ।

289

ननु कैवल्योपनिषदि तुरीयस्योमासहायत्वाद्यश्रवणेऽपि अथर्व शिरश्शिखयोस्तुरीये ईशानरुद्रशम्भुशिवादिशब्दाम्नानबलात् तुरीयस्य शिवत्वसिद्धिरिति चेत् न । शिवादिशब्दानां योगवृत्त्या लक्षणया वोपपन्नत्वेन तुरीयस्य भवदभिमतशिवरूपत्वासिद्धेः ।

ननु रूढियोंगमपहरतिन्यायेन खढेर्योगपरिहारत्वात् लक्षणायाश्च शक्तिसम्भवेऽन्यायत्वात् रूढ्यैव शिवादिशब्दैस्तुरीयस्याभिधानात् । तेषां च शब्दानां नीलकण्ठत्वादि विशिष्ट विग्रह विशिष्ट वाचकत्वेन तुरीयस्योमासहायत्व नीलकण्ठत्वादि वैशिष्ट्यसिद्धिरिति चेत् न । रूढिर्लब्धात्मिका योगं बाधते न त्वलब्धात्मेति सकलन्यायवित्सम्मतत्वात् । उक्तं च तन्त्रवार्तिके लब्धात्मिका हि समुदाय प्रसिद्धिरित्यवयत्र प्रसिद्धिं बाधत इति । तथा च तुरीये शिवादि शब्दानां रूढ्यसिध्या योगो निष्परीव । तुरीये शिवादि शब्दानां रूढि : ’ उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः सुत’ इति ब्रह्मपुत्र एव तेषां शब्दानां प्रयोगदर्शनात् । कोशेष्वपि ब्रह्मादीनामनुशासनानन्तरं शम्भ्वादि शब्दानुशासनेन तेषां शब्दानां त्रिमूर्त्यन्तर्गत रूढत्वावसायात् । ’ यत्प्राये श्रयते यच्च तत्तादृगवगम्यत’ इति न्यायात् । ब्रह्मपुत्र एव ’ उग्रोऽसि मीमोऽसि शर्वोऽसि महादेवोऽसीति नामकरणदर्शनेन तन्नामत्वस्य श्रुतिसम्प्रतिपन्नत्वाच्च ।

एतेन नीलकण्ठत्वादि विशिष्टमूर्तिशबलिते ब्रह्मणि तेषामुत्पत्तेः प्रसि द्धत्वादिति गलहस्तितम् । ब्रह्मपुत्र एव शक्तेः प्रदर्शितत्वात् ।

किं च किमनुशासनात् प्रसिद्धिः उत प्रयोगात् । नाद्यः । अनुशासनस्य त्रिपुरान्तकक्रतुध्वंसिहरादिपर्यायत्वप्रतिपादकस्य कार्यरुद्रविषयत्वावश्यम्भावात् । त्रिपुरविजयक्रतुध्वंसादीनां ब्रह्मपुत्रचरित्रत्वेन महाभारते प्रतिपादनेन त्रिपुरान्तकादिशब्दानां कार्यरुद्रवाचकत्वात् । तत्र हि ‘प्रजापतिस्तमसृजत् । तपसोऽन्ते महातप’ इत्युपक्रम्य ।

’ प्रजापतेस्तु दक्षस्य यजतो वितते क्रतौ '

इत्यादिना कतुभङ्गस्य ’ असुराणां पुराण्यासन्त्रीणिवीर्यवतां दिवि इत्यादिना त्रिपुरविजयस्य प्रतिपादनात् । कर्णपर्वणि च -

37

290

’ तानब्रवीत् महादेवो मत्तः श्रेष्ठतरो हि यः ।

तं सारथिं कुरुध्वं वै स्वयं सचिन्त्यमाचिरम् ॥’

इत्यादिसन्दर्भपर्यालोचनया सारथ्यकर्तृ चतुर्मुखापेक्षया निकृष्टतया ऽवगतरुद्रचरित्रत्वेन त्रिपुर विजयप्रतिपादनाच्च ।

I

किं च ब्रह्मविष्णुसन्निध्याम्नातरुद्रशब्दस्य संहर्तृमूलरुद्रपरत्वौचित्यात् । ’ यत्प्राये श्रूयते यच्च तत्तादृगवगम्यते ’ इति न्यायात् इत्युक्त्या चतुर्मुखादीनामनुशासनानन्तरभाविनोऽनुशासनस्य परमशिवविषयकत्वं वक्तुं कथं न लज्जसे न द्वितीयः, विकल्पासहत्वात् । किं तु तुरीय एव प्रयोगात् शक्तिकल्पनमुतकार्यरुद्रेऽपि । नाथः प्रयोगस्य तन्मात्रविषयकत्वाभावात् । भूरिप्रयोगस्यान्यत्रैव सत्वाच्च । न द्वितीयः, किमुभयत्रैका शक्तिः आहोस्वित् शक्तिद्वयम् । नाद्यः, उभयसाधारण प्रवृचिनिमितस्यैकस्यासिद्रत्वात् । न च नीलकण्ठत्वादिकं प्रवृत्तिनिमित्तमस्तीति वाच्यम् । तुरीये नीलकण्ठत्वादेः प्रमाणान्तराप्रतिपन्नत्वात् । शिवादिशब्दबलात् तत्सत्वोपपादने चान्योन्याश्रयणात् । न द्वितीयः, गौरवात् । तथा चैकत्र शक्तिरन्यत्रलक्षणया प्रयोग इत्युपपादनीयम् । तथा च क शक्ति: क वा लक्षणेत्यालोचने त्रिमूर्त्यन्तर्गत एव प्रसिद्धिप्राचुर्यात् तत्रैव शक्ति: । अन्यत्र लक्षणेति युक्तं वक्तुम् । तथा च नीलकण्ठत्वादिविशिष्टमूर्तिशबलिते ब्रह्मणि तेषां व्युत्पत्तेः प्रसिद्धत्वादिति बालव्यामोहनमात्रम् |

तन्नामत्वेन

यत्तु अथर्वशिखादिषु रुद्रमहेश्वरमहादेवादिशब्दानां निर्वचनात् तुरीयंस्य रुद्रादिशब्दवाच्यत्वसिद्धिरिति । न तु मौढ्यात् पुरुषशब्दस्य निर्वचनबलात् न भगवदसाधारण्यसिद्धिः । चित्राज्याधिकरणे (जै. सू. 1-4-8 ) स्तोत्र विशेषनामत्वेन पृष्ठशब्दस्य क्वचित् ‘पृष्ठैरुपतिष्ठत

चित्राज्याधिकरणम् -

चित्रया यजेत पशुकामः इत्याम्नायते । तत्र चित्रा शब्द: न उद्भिच्छब्दवत् यौगिकः । किंतु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते । ततो न

291

इत्यादौ तत्साधने रथन्तरादौ लक्षणया प्रवृत्तिरस्तीति तन्निर्ब्राहेण चरितार्थस्य

• आपो ऋत्वियमार्च्छन्’ इत्यस्यैवान्यथासिद्धत्वात् निर्वचनानामिति स्वेनैवोक्तेः ।

पूर्वन्यायेन नामत्वम् । अग्नीषोमीयं पशुमालभेत इति विहितं पशुयागमात्रं यजेत इत्यनेन - पदेनानुच - तस्मिन् पशौ चित्रत्व सीत्वगुणौ विधीयेते । इति प्राप्ते प्राप्तयागोद्देशेन चित्त्रत्वस्त्रीत्व उभयविधाने वाक्यमेदः स्यात् । प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयंते बहवोऽप्येक यत्नतः । इति उक्तम् । अतः वाक्यभेद परिहाराय गुणद्वय विशिष्टं पशुद्रव्यरूपं कारकं विधीयते । तदा च गौरवं स्यात् । तस्मात् चित्राशब्दः पूर्ववत् यजि सामानाधिकरण्येन याग नामधेयं भवति । चित्रत्वं तु तस्य विलक्षण द्रव्य द्वारेणोपपद्यते । दघि, मधु, घृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजापत्यमिति दध्यादीनि विचित्राणि प्रदेयद्रव्यानि षडानातानि । तदेतत् चित्रानामकस्य - यागस्य उत्पत्तिवाक्यम् । यागखरूपभूतयोः दध्यादि द्रव्य प्रजापति देवतयोः अत्र अतिदिश्यमानत्वात् । उत्पन्नस्य तस्य यागस्य - चित्रया यजेत पशुकामः इति फलवाक्यम् । एवं सति प्रकृतार्थो लभ्यते । अग्नीषोमीय पवनुवादेन, गुणविधाने - प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । लिङ्प्रत्ययस्य अनुवादकत्वांगीकारात् मुख्यो विध्यर्थो बाध्येत । तस्मात् चित्रापदं नामधेयम् । यया चित्राशब्दे नामधेयत्वम् तथा बहिष्पवमानशब्दे - आग्यशब्दे पृष्टशब्दे च तन्नामत्वं योजनीयम् । एवं हि श्रूयते । त्रिवृद्बहिष्पवमानम् । पश्चदशान्याज्यानि - सप्तदशानि पृष्टानीति । अस्य वाक्यत्रयस्य अर्थः एवं विव्रियते । सामगानां उत्तराग्रंथे तृचात्मकानि सूक्तान्याम्नातानि । तत्र

उपास्मै गायता नर:’ इति आद्यं सूक्तम् । ‘दविद्युतत्यारुचा ’ इति द्वितीयम् । ‘पवमानस्य ते कवे’ इति तृतीयम् । ज्योतिष्टोमस्य प्रातस्सवनानुष्ठाने, तेषु त्रिषु सूक्तेषु गायत्नं साम गातव्यम् । तदिदं सूक्तत्रयगान साध्यं स्तोत्रम् - बहिष्पवमान - मित्युच्यते । तत्नावस्थितानामृचां पवमानार्थत्वात् - वहिस्संबंधात् - पहिष्पवमानत्वम् । न खल्विदं स्तोत्रं इतरस्तोत्रवत् सदोनामकस्य मण्डपस्य मध्ये औदुंबर्याःस्तंभशाखायाः संनिधौ प्रयुज्यते । किंतु सदसोबहिः प्रसर्पद्भिः

"

-292

किं चैत्रमपि रुद्रादिशब्दवाच्यत्वं सिध्येत् हिरण्यगर्भे इन्द्रादिशब्दप्रयोगबलादिव तद्वाच्यत्वम्, न तु नीलकण्ठत्वादिविशिष्ट विग्रह विशिष्टत्वसिद्धिः ।

प्रयुज्यते । तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमः भवति । तस्य च स्तोमस्य विधायकं ब्राह्मण वाक्येष्वेवमाम्नायते । तिसृभ्योहिं करोति । स प्रथमया - तिसृभ्यो हिं करोति स मध्यमया - तिसृभ्यो हिं करोति स उत्तमया । उद्यती त्रिवृतोविष्टुतिः । अयमर्थः - सूक्तत्रयपठितानामृचां गानं निमि: पर्यायैः कर्तव्यम् । तत्र प्रथमेपर्याये - त्रिषु सूक्केष्वायास्तितो वचः । द्वितीये पर्याये मध्यमाः, तृतीयेपर्याये चोत्तमाः । तिसृभ्यः इति तृतीयार्थे पंचमी | हिं करोति - गायति इत्यर्थः । सेयं ययोक्तप्रकारोपेतागीति: त्रिवृत्स्तोमस्य विष्टुतिः । स्तुतिप्रकार विशेषः । तस्याः विष्टुतेः उद्यती नाम । एवं परिवर्तिनीकुला यिनीति द्वेविष्टुती । तयोः परिवर्तिनी एवं आम्नायते । तिसृभ्यो हिं करोति - स पराचीभिः । तिसृभ्यो हिं करोति - स पराचीमिः । तिसृभ्यो हिं करोति - स पराचीभिः, परिवर्तिनी त्रिवृतोविष्टुतिः इति । पराचीमिः अनुक्रमेणान्नातामिः इत्यर्थः ।

I

तथा कुलायिनी एव मान्नायते - तिसृभ्यो हिं करोति - स पराचीभि स्तिसृभ्योहिङ्करोति । यामध्यमा सा प्रथमा - योत्तमा सा मध्यमा या प्रथमा सोत्तमा । तिसृभ्योहिङ्करोति योत्तमा सा प्रथमा - या प्रथमा सा यध्यमा । या मध्यमा सोत्तमा । कुलायिनी त्रिवृतोविष्टुतिः । इति । अत्र प्रथम सूक्ते पाठक्रमः एव । द्वितिये मध्यमोत्तम प्रथमाः । तृतीयेतूत्तम प्रथम मध्यमाः - इत्येवं व्यत्ययेन मन्त्राः गातव्याः । तदिदं विष्टुति त्रयं विकल्पितम् । त्रिवृच्छब्दस्येदं स्वरूपमर्थो - न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् ।

उत्तराम्रन्थे - बहिष्पवमान सूक्तेभ्यः त्रिभ्यः ऊर्ध्व चत्वारि सूक्तान्यानातानि । ’ अग्न आयाहि वीतये ’ इत्याद्यं सूक्तम् । ‘आनोमित्रावरुण’ इति द्वितीयम् । ’ आयाहि सुषुमाते ’ इति तृतीयम् । ’ इन्द्रानी आगतं सुतम् ’ इति चतुर्थम् । तानि एतानि प्रातः सवने गायत्र साम्ना गीयमानानि चत्वार्याज्य-

293

ननु कारणकार्ययोरुभयोरपि शिवादिशब्दप्रयोगोऽस्ति । न चोभयत्रापि धर्मी एक एव प्रतिपाद्यते इति वक्तुं शक्यम् । कर्मवश्यत्वतदभावरूपविरुद्ध-

स्त्रोत्राणीत्युच्यन्ते । तन्निवर्च्चनं च श्रूयते यदाजिमीयुः तदाज्यानामाज्यत्वम् । इति । तेष्वाज्यस्तोत्रेषु पंचदशनामकः स्तोमो भवति ।

तस्यस्तोमस्य विष्टुतिरेक्माम्नायते । पंचभ्यो हिं करोति स एकया स एकया । पंचभ्यो हिं करोति स एकया सतिसृभिः । स एकया। पंचभ्यो हिं करोति स एकया स एकया - सतिसृभिः । इति एकं सूक्तं त्रिवारमा वर्तनीयम् । तत्र प्रथमावृत्तौ - प्रथमाया ऋचः त्रिरभ्यासः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्ता वुत्तमायाः । सोयं पंचदशस्तोमः ।

·

उक्तेभ्यः चतुर्भ्यः सूक्तेभ्यः ऊर्ध्वमुत्तराग्रंथे त्रीणि माध्यंदिन पवमानसूक्तान्याम्नाय तत ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि तेषु - अभित्वा शूरनोनुम इत्याद्यम् - कयानश्चित्र आभुवत् इति द्वितीयम् - तंत्रो दस्ममृतीषहम् - इति तृतीयम् । तरोभिर्वो विदद्वसुम् इति चतुर्थम् । एतानि क्रमेण रथंतरवामदेव - नोधज कालेय सामभिः माध्यंदिनं सवने गायमानानि पृष्टस्तोत्राणीत्युच्यन्ते । स्पर्शनात् पृष्टानीत्येवं निरुक्तिः द्रष्टव्या । तेषु -स्तोत्रेषु सप्तदशस्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते । पंचभ्यो हिं करोति स तिसृभिः, स एकया - स एकया । पंचभ्यो हिं करोति स एकया सति सृभिः स एकया । सप्तभ्यो हिं करोति स एकया सतिसृभिः सतिसृमि:, इति । अत्र प्रथमावृत्तौ प्रथमायाः ऋचः त्रिरभ्यासः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्तौ मध्यमोत्तमयोः - सोऽयं सप्तदशस्तोमः । अत्र त्रिष्वपि वाक्येषु निवृत्पंचदशसप्तदश शब्दाः गुणविधायकत्वेन संमताः । यदि बहिष्पवमानाज्य पृष्टशब्दाः अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् । गुणद्वयविधानेन वाक्यमेदः स्यात् । तस्मात् बहिष्पत्रमानादिशब्दाः स्तोत्रनामधेयानि । तैर्नामभिः कर्माण्यनुथ त्रिवृदादिगुणाः विधीयते । (जै. सू. 1-4-8 )

294

धर्माध्यासात् । न चैकन मुख्यत्वमपरत्र गौणत्वमिति वक्तुं युक्तम्, विनिगमका - भावात् । तथा च कार्यभूतत्त्रिमूर्त्यन्तर्गत शित्रापेक्षया अतिरिक्तश्शिवस्सिध्यतीति चेत् - न । विनिगमकस्योक्तत्वात् शिवादिशब्दवाच्यत्वमात्रात् विग्रहविशेषविशिष्टत्वासिद्धेश्च ।

किं च ’ प्रजापतिश्चरति गर्भे अन्तरि’ त्यादिवाक्यप्रतिपन्नस्य ’ यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृडिश्वरूप’ इत्यादिवाक्यप्रतिपन्नकार्यकोट्यन्तर्गतप्रजापत्यपेक्षया विलक्षणस्य वाच्यत्वेन परमकारणस्य हिरण्यगर्भस्य प्रसिद्धिप्रसङ्गः ।

ननु तुरीये शिवादिशब्दान्नानं न त्वेवं प्रजापतिशब्दान्नानमिति विशेष इति चेत् किं ततः कार्यकारणभूतहिरण्यगर्भद्वयसिद्धेरनिवार्यत्वात् ननु कारणविषय हिरण्यगर्भादिशब्दानां गौण्या वृत्त्यायोगेन वा तुरीये प्रयोगोपपत्त्या न हिरण्यगर्भान्तरसिद्धिरिति चेत् - तुल्यमितरत्त्रापि । किं च तुरीये हिरण्यगर्भवाचकशब्दप्रयोगाभावाच्चासिद्धः । मैत्रयुपनिषदि ’ प्रजापतिर्वा एकोऽग्रेऽतिष्ठत् स नारमत, एकः स्वात्मानमभिध्यायन्नित्युक्तस्य ’ तमो वेदमेकमासेत्यादिवाक्येन ब्रह्मादित्रितयशरीरकत्वोक्त्या ब्रह्माबुत्तीर्णे प्रजापतिशब्दप्रयोगात् ।

अपि च पैङ्गिरहस्यश्रुतौ एको ह वै नारायण आसीत् न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा व्यचिन्तयत् । तत एते व्यजायन्त । विश्वे हिरण्यगर्भाग्नियमवरुणविष्णुरुद्रेन्द्रा’ इति वाक्ये हिरण्यगर्भादुत्तीर्णे नारायणशब्दस्यापि प्रयोगात् । कथं शिवादिशब्दानां कचित् प्रयोगमात्रात् तुरीयस्य शिवरूपत्वनिर्णयः ।

ननु मास्तूत्तीर्णस्य शिवत्वनिर्णयः । तथापि मैत्री श्रुत्यादिभिः सर्गस्थितिलयविधानफलतत्तद्गुणोपाधिकब्रह्मादिमूर्तित्रयोत्तीर्णस्य जगत्कारणत्वबोधनात् । न सत् ब्रह्मादिशब्दानां विष्णुसंज्ञायामन्यसंज्ञायां वा विश्रान्तिः शक्यते वस्तुम् । सृष्टयप्रिमदशावस्थिते हि कारणवशङ्कोदेतुमर्हति । न पुनरनन्तरसम्भावितोदयेषु ते हि गुणेभ्यः क्षुभ्यमाणेभ्यः त्रयो देवा जज्ञिर '

295

इत्यादिप्रमाणगणेन गुणक्षोभानन्तरभाविनः प्रत्यपद्यन्त । न च तेषु कारणत्वसम्भावना गन्धरहितेषु प्रत्युत ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्त इत्यादिभिः कार्यतयैत्रात्रसितेषु कारणवाक्यविश्रान्तिस्सुवचा । किं तु प्रधानपुरुषकालादिषु युज्यते तत्सम्भावना । तन्निरासकमश्च ब्रह्मसूत्रैरन्यैश्च पुराणागमादिभिः - ईश्चतेर्नाशब्दम् ’ ’ गौणश्चेन्नात्मशब्दात् ’ ( . सू. 1-1-5 ) ’ नेतरोऽनुपपते: ’ ( ब्र. सू. 1-1-17 ) प्रधानपुरुषव्यक्तकालानां परमं हि यत्पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् । प्रधानपुरुषादिदंप्रलयोत्पत्तिवर्जितमित्यादिभिर्निरणायि । अतो वैष्णवादिषु च विष्णुसंज्ञा अन्यसंज्ञा वा जगत्सर्गादिवादाः शङ्कितकारणभावप्रधानादिव्यार्तनेन सर्वज्ञता सर्वशक्तियुक्तब्रह्मकारणतैकसन्नद्धा नपुनर्ब्रह्मादिषु कस्यचित्कारणत्वतदभावनिर्धारणायालम् ।

यद्यपि ‘एको ह वै नारायण आसीत् न ब्रह्मा नेशानः । नारायणात् ब्रह्मा जायत’ इत्यादिभिः ’ तथा न सन्नचासन शिव एव केवल’ इत्यादिभिश्च नारायणस्य वा स्त्रेतरमूर्तिविवेकेन कारणत्वं प्रत्याय्यते तथाऽप्यस्य लोकस्य का गतिरिति । ‘आकाश इति होवाच सर्वाणि ६ वा इमानि

ह भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तयन्ती ’ ( छा० उ. 1-0 -1 ) इत्यादीनामाकाशादाविव प्रसिद्धेः । असम्भावितान्वयानामासमन्तात् काशत इति व्युत्पत्त्याश्रयणेन ब्रह्मान्वयित्वमिव प्रसिद्धनारायणादिशब्दार्थ परित्यागेन ब्रह्मपर्यवसानमेव नारायणादिशब्दानां वक्तुं न्याव्यं । प्रधानपुरुषादेर्नराश्रयत्वेन

1 नारत्वे तदयनत्वेन नारायणत्वं ब्रह्मणो न ह्यनुपपन्नम् । एवं शिवशब्दस्यापि शुद्धिकल्याणगुणयोगो न परब्रह्मण्येव वर्तनं नानुपपन्नम् । इयान् विशेष:

वैष्णवादिषु पुराणेषु विष्णुपर्यायनाममिरेव प्रधानपुरुषातीतस्य परब्रह्मणो Sमिधानं त्रिमूर्तिषु विष्णुमूर्तर्वैशिष्ट्य कीर्तनम् । एवमन्यत्र पुराणेषु चान्यपर्यायनाममिः परमात्मामिधानमन्यमूर्तिवैशिष्ट्य कीर्तनमिति सर्वपुराणार्थपर्यालोचने मूर्तित्रयप्रसिध्यासर्वनामामिधेयपरब्रह्मणस्तदंशकेन मूर्तित्रयस्यापि वैशिष्टयविशेष इति इममर्थमभिप्रेत्योच्यते ।

शैवपुराणे

296

अन्योन्यमनुरक्तास्ते अन्योन्यमुपजीविनः । अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः ॥ कचिद्रमा कचिद्विष्णुः कचिदिन्द्रः प्रशस्यते । नानेन तेषामाधिक्यं न्यूनत्वं वा कथञ्चन ॥ अयं परः परोनेति संरंभाभिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः ॥

इति । तथाचेत्यं श्रुतीतिहासपुराणागमेषु सर्वत्रापि ब्रह्मादिमूर्तित्रयमूलभूतप्रधानपुरुषातीतपरमात्मप्रतिपादनमन्तरेण तन्मूर्तिभूतेषु सृष्ट्याद्येकैकाधिकारित्वेन धर्म ग्राहकमान सिद्धेषु ब्रह्मादिषु न कस्यापि प्रमाणस्य पर्यवसानं कारणत्वप्रत्यायकस्योत्प्रेक्षितुं शक्यमिति न तेषु परापरचिन्तनप्रामाणिकतेति ।

अनबूम: - न तावन्मैलेयादि वाक्यैर्भगवद्वयतिरिक्तस्य कारणत्वनिर्णयः । ‘एको ह वै नारायण आसीत् ’ ’ नैवेह किश्चनाप्र आसीत् ’ दिव्यो देव एको नारायण:’ इत्यादिषु नारायणस्य सृष्टय प्रिमदशावस्थितत्वप्रतिपादने तद्व्यतिरेक निर्धारणासंभवात् । नह्येकवाक्यापातप्रतीतिसिद्धोर्योन्याय विद्भिर्ग्रहीतुं युक्तः । मीमांसानारंभप्रसंगात् । न च मैत्रेयादिवाक्यैर्नारायण व्यतिरिक्तत्वस्यापि प्रतीत्या न सौबांलादिवाक्यैर्नारायण कारणत्वनिर्धारिणमिति वाक्यम् । महोपनिषदादि प्रतिपन्ननारायणकारणत्व बाधनक्षमत्वाभावात् तेषां वाक्यानां नात्र नारायणस्य सृष्टय प्रिमदशावस्थितिर्नेति प्रतिपाद्यते । तथा न ब्रह्मा नेशान इति नापि तदशावस्थितयोग्यतापादकं किन्तु ब्रह्मादिमध्यपरिगणनमेवात्र क्रियते । न तत् बाधनक्षमम् । तथाहि – ब्रह्मोपनिषदि तन्मध्ये परिगणनं तावत् न बाधकम् । चतुष्पादं ब्रह्म विभाति इत्यादिना ब्रह्मादिरूपेण जागरिताद्यधिष्ठातृत्वं हि तत्र प्रतिपाद्यते । न चैतत् परब्रह्मव्यतिरेकबोधकम् । किन्तु तदभेदबोधकमेव । न चैवं सति ब्रह्मरुद्राभिन्नत्वमपि स्यादिति वाच्यम् । प्रमाणान्तरेण परब्रह्मत्वाभावनिर्णये सति तदमिव्यक्तयतिशय निबन्धनत्वावसायात

297

तद्वषपदेशस्य न तथात्वम् । भगवद्विषय व्यपदेशस्य कल्पयितुं युक्तम् । जीवत्वग्राहकप्रमाणान्तरा भावात् । नापि तापनीयवाक्ये तन्मध्यपरिगणनं बाधकम् । एकस्यैवोंकार समष्टिप्रणवोभय देवतात्वस्योपपत्तेः । एकस्यैव हृदयद्वादशान्तयोः स्थित्युपपत्तेश्च नापि मैत्रेयश्रुतौ परब्रह्मतनुत्वोक्तिस्तद्बाधनक्षमा । विष्णुशब्दस्य भगवद्विग्रहमात्र परत्वेन वर्णन सम्भवात् । नचेवं ब्राह्मादि सद्वैरूप्यं । नारायण कारणत्व प्रतिपादक प्रमाणान्तरानुसारेण तस्यादोषत्वात् । न च विग्रहपरत्वे उक्षणाप्रसङ्गः । प्रमाणान्तरानुसारेणैव तस्याप्यदोषत्वात् । न च मैत्रेयश्रुत्यनुसारान्महोपनिषदादिगत नारायणपदेषु लक्षणेति वैपरीत्यं किन्नस्यादिति वाच्यम् । महोपनिषन्मैत्रायणीयसुबालोपनिषदादि नानाशाखागत नारायणादि शब्दानां बहूनां लक्षणाप्रसङ्गात् । किञ्चास्मत्पक्षे अनुवाचे लक्षणा । ब्रह्मादीननूद्य तनुत्वस्य विधानात् । त्वत्पक्षे विधेयलक्षणा ।

अपि चास्मत्पक्षे मुख्यार्थैकदेशलक्षणेत्यंतरङ्गलक्षणा । त्वत्पक्षे अतिरिक्त पदार्थ लक्षणेति बहिरङ्गलक्षणेति वैषम्यम् । किं च तत्परेणेति हि परशब्दार्थस्य तमोधिष्ठातृत्वं प्रतिपादयति । तथा च परशब्दस्योत्कर्ष विशिष्टवस्तुवाचिवेन विशेषकाङ्क्षायामुत्कटत्वात् देवताविशेषवाचिनो नारायण शब्दस्य समानप्रकरणस्थस्य तदाकाङ्क्षापूरणरूप प्रयोजन सम्भवात् लक्षणाङ्गीकारे तत्त्यागप्रसङ्गात् । सा किमिति नारायणपदे अंगीकरणीया । एतादृश प्रयोजनरहितस्य विष्णुशब्दस्य लक्षणामङ्गीकृत्य सर्वनिर्वाह सम्भवात् । अथर्वशिखादिषु ब्रह्मादि मध्यपरिगणनं यथा न बाधकं तथा तत्तद्वाक्यविचारे निपुणतरं प्रपश्चितम् ।

यदपि सृष्ट्यप्रिमदशावस्थितेपि कारणत्वशङ्कोदेतुमर्हति न पुनर्गुणेभ्यः क्षुभ्यमाणेभ्य इत्यादिना गुणक्षोभानन्तरभावितया ब्रह्मविष्णुरुद्रेत्यादिना कार्यतया चावगम्यमानेषु कारणत्व सम्भावनाप्रधान पुरुषादिषु हि तत्सम्भाषनेति तदप्ययुक्तम् । ’ हिरण्यगर्भः समवर्तताग्र’ इत्यादि वाक्यैः सृष्टयग्रिमदशावस्थितत्व प्रतीत्या कारणत्व शोदय सम्भवात् कार्यत्व श्रवणाच्छङ्कानुदये च कथमाकाशादि करणारम्भसार्थक्यम् । तत्रापि कार्यत्व श्रवणेन कारणत्वस्य शङ्कानईत्व प्रसङ्गात् । ननु कारणत्व शङ्कानर्हत्यमित्यन्न तात्पर्य किन्तु वस्तुतो न तेषां

38

298

कारणत्वमित्यत्र तात्पर्यमिति चेत् तर्हि प्रधान पुरुषादिषु हि तत्सम्भावनेति उक्तिः असङ्गतास्यात् । ननु हिरण्यगर्भादिषु कारणत्व शङ्का मन्देत्यत्र तात्पर्यमिति चेत् किं प्रधानपुरुषादिषु सा न मन्दा । येन प्रधानपुरुषादिषु हि तत्सम्भावनेति वाक्यं सङ्गतं स्यात् । तत्रापि हि क्षणादयस्तद्बाधकास्तदैक्षतेत्यादिभिः स्फुटमवगम्यते । कैश्चित् हेतुभिस्तदाशङ्कात्वत्रापि । न चैत्रमपि गुणक्षोभानन्तरभाविनो विष्णोः कथं कृत्स्नजगत्कारणत्वं सङ्घटत इति वाच्यम् । रामकृष्णादिरूपेणेव ब्रह्मादिमध्यगत विष्णुरूपेणावतीर्णत्वेऽपि तत्पूर्वभावित्वसम्भवात् । तत्र किं पुनः प्रमाणमिति चेत् न -

परावरेशंशरणं व्रजध्वमसुराधर्दनम् । उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् । प्रजापतिपतिं विष्णुमनन्तमपराजितम् ॥ प्रधानपुंसो रजसोः कारणं कार्यभूतयोः । प्रणतार्तिहरं विष्णुं स च श्रेयो विधास्यति ॥ प्रकृतिर्यामयाख्याता व्यक्ताव्यक्तखरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेषां आधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥

इत्यादिषु मूलकारणत्वस्य प्रतिपादनात् । रक्षणाघिकृतस्य कारणीभूतस्य चात्यन्तामेदबोधकप्रमाणबलाच्च । तथाहि वैष्णवेपुराणे

तद्रूपमास्थाय सृजत्यजोयः स्थितौ च योसौ पुरुषस्वरूपः । रुद्रवरूपेण च योति विश्वं धत्तेतथानन्तवपुस्समस्तम् ॥ ब्रह्मत्वे सृजते सर्व स्थितौ पालयते नमः ।

रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥

इत्यनयोः श्लोकयोस्तदैक्यतात्पर्यकत्वमभ्युपगन्तव्यम् । रैवतकं प्रति ब्रह्मणा . कृष्णात्मना विष्णोरवतीर्णत्वं कथयितुमुयुक्तेन तत्स्वरूपमेवं कथितमिति प्रवृत्ते

299

सन्दर्भे हि प्रथम श्लोकः पठितः । तस्मान्न ब्रह्मादिरूपधरत्वं विष्ण्वतिरक्तस्यामिप्रेतमिति कल्पयितुं शक्यम् । द्वितीय श्लोकस्यापि प्रह्लादकर्तृकमस्तोत्रे नमस्ते पुण्डरीकाक्षेत्यादिके विद्यमानत्वात् । स्थितौ पालयते नम इति रूपान्तरपरिग्रहानुकूलतया स्वस्वरूपेण पालनाधिकृतत्व प्रतीतेश्च तदभेद-

मवगम्यते । तथा तत्रैव ।

’ प्रधानं पुरुषश्चैव प्रविश्यात्मेच्छया हरिः ।

क्षोभयामास संप्राप्ते सर्गकाले असौपुनः ॥ स एव क्षोभको ब्रह्मन् क्षोभ्यश्च पुरुषोत्तम ॥ '

इत्यादि मूलकारणत्वं हरेः प्रतिपाद्य ।

ब्रह्माभूत्वास्य जगतो विसृष्टौ संप्रवर्तते सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ॥ सत्वभूत् भगवान् विष्णुरप्रमेयपराक्रमः । तमोन्तेर्कीचकल्पान्ते रुद्ररूपीजनार्दनः ||

मैत्रेयाखिल भूतानि भक्षयत्यतिभीषणः ॥ '

इति सृष्टिस्थितिलय कारणत्वं प्रतिपादितम् । अत्र भगवत एव सृष्टिस्थितिलय कारणत्व प्रतिपादक सन्दर्भे ब्रह्माभूत्वा रुद्ररूपीत्युभयत्र तदुभय शरीरकत्वोक्तिवत् विष्णुशरीरत्वं न कथितमिति खरूपेणैव रक्षणाधिकृतत्वं प्रतिपाद्यते । न चात्र मूलकारणे प्रयुक्तहर्यादि शब्दानां तदतिरिक्त तत्वलक्षकत्वं युक्तम् ।

’ सम्भक्षयित्वा भूतानि जगत्येकार्णवीकृते ।

नागपर्यङ्कशयने शेते स परमेश्वर: || '

इति शेषशायित्वलिङ्गोपन्यासात् । महाभारते च भीष्मपर्वणि ब्रह्मणा साक्षात् कृतस्य तस्मात् भवविशालाक्षयदुवंश विवर्धन | धर्म संस्थापनार्थाय दैतेयानां वधाय च । जगतो रक्षणार्थायप्रसादं कुरुमे प्रभो । इति कृष्णात्मनावतार कारणाय प्रार्थितस्य त्वयाकृत संवादः कोयमिति प्रश्नोत्तरवाक्ये |

300

यत्तत् परं भविष्यच्च भवितव्यं च यत्परम् । भूतात्मायः प्रमुश्चैव ब्रह्म यच परं पदम् ॥

तेनाहाकृत संवादः प्रसन्नेनासुरर्षभ || '

इति परब्रह्मत्वमाविष्कृतम् । तथा सुपर्णवैकुण्ठ संवादे ।

’ ततो देवगणानाञ्च दानवानाश्च युध्यताम् ।

प्रादुरासीन्महातेजाः शङ्खचक्र गदाधरः ॥ '

इत्यादिना देवदानवयुद्धे आविर्भूय देवसाहाय्यकं कृतवानिति प्रतिपाद्य तस्य स्वरूपजिज्ञासायां उवाच ’ पद्मनाभस्य पूर्वरूपं प्रति प्रभो !’ इत्यादिना तत्स्वरूपकथनमुपक्षिप्य तदर्थमृषि सुपर्ण संवादरूपां कथां प्रस्तुत्य तस्य सुपर्णस्य तद्वाहनत्वहेतुत्वं प्रतिपाद्य तदनन्तरं सुपर्णस्य भगवता देशविशेष गमनादिकं प्रतिपाद्यानन्तरं भगवत्सुपर्ण संवादव्याजेन भगवतः सर्वोत्कर्ष वर्णयित्वा -

’ यदेतत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम् ।

तदेव परमो गुह्यो देवो नारायणो हरिः ॥ '

इत्युपसंहृतम् । आरण्यपर्वणि च मार्कण्डेयेन स्वदृष्टाश्चर्यकथनदशायां

’ अतसीपुष्पसंकाशः श्रीवत्सकृतलक्षणः ।

साक्षाल्लक्ष्म्या इत्रावासः स तदा प्रतिभाति मे ॥

इत्यादिना तदाश्चर्याधारतया कथितस्य पुरुषस्य तेन मार्कण्डेयेन संवादमुपक्षिप्य

’ आपो नारा इति प्रोक्तास्तासां नाम कृतं मया ।

तेन नारायणेत्युक्तो मम तध्ययनं सदा ॥ अहं नारायणो नाम प्रभवः शाश्वतोव्ययः । विधाता सर्वभूतानां संभर्त्ताच द्विजोत्तम ।

301

अहं विष्णुरहं ब्रह्मा शक्रश्वाहं सुराधिपः । अहं वैश्रवणो नाम यतः प्रेमाधिपस्तथा ||

अहं शिवश्च सोमश्च काश्यपश्च प्रजापतिः ||

इत्यादिना महता प्रबंधेन सर्वोत्कर्षमुपपाच

’ यस्य देवो मया दृष्टः पुरापद्मायतेक्षणः ।

स एव पुरुषव्याघ्रः सम्बन्धी ते जनार्दनः || '

इत्युपसंहृतम् । अत्र जगत्कारणत्वादि धर्मशालिनं पुरुषस्योपक्रमे श्रीवत्सधारी बृतिमान् पीतवासा महाद्युतिरित्यादिषु नारायणत्व लिंगभूत श्रीक्सधारित्व पीतवासत्व पुण्डरीकाक्षत्वादिकथनात् कृष्णामिन्नत्वोक्तेश्च । ब्रह्मणोपि विष्णुत्वकथा दूरोत्सारितापि तेन नारायणद्वैविध्यम् शिवानन्दलहर्युक्तं निरस्तं वेदितव्यम् । ‘नमो विष्णवे बृहते करोमीत्यादी बृहत्वादि विशेषणानां महानिन्द्रो वज्रबाहुरित्यत्र महत्वविशेषणस्येव इतरापेक्षया महत्वसाधकत्वेनोपपत्या विष्णु द्वैविध्यसाधकत्वाभावात् । न च ’ सर्वज्ञस्सर्वकर्तात्वं सर्वलोकनमस्कृतः । त्रैलोक्यशरणश्वत्वं भव विष्णुः सनातनः ॥ देवानां सर्वकार्य च कर्तव्यं ब्रह्मणस्तथेत्यादि । वराहपुराणे ’ योऽसौ नारायणोदेवः परात्परतरोविभुः । तस्य चिन्ता समुत्पन्ना सृष्टिं प्रति नरोत्तम ॥ ’ इत्यादिपूर्वसन्दर्भे प्रतिपादितेन नारायणेन स्वसृष्ठाय विष्णवे सार्वज्ञपालनाधिकार तदपेक्षित भूषणायुधदानादिप्रतिपादनात् विष्णुद्वैविध्यं प्रतीयत इति वाच्यम् । पूर्वोक्तवादप्रमाणानुसारादस्य वचनजातस्य पालनार्थमवतीर्णस्य स्वस्य नियाम्यकोट्यन्तर्भावाभिव्यक्तयर्थं भगवदमिनयप्रतिपादकत्वोपपत्तेः ।

·

यदप्येकोहवे नारायण आसीदित्यादेराकाशकारणत्वबोधकतुल्ययोगक्षेमत्ववर्णनं तदपि स्थवीयः । तत्र बाधकबलात् त्यागोऽपि प्रकृते तादृशबाधकाभावात् । तत्र हि कार्यस्य विधेय जगत्कारणत्वविरोघे बाधकः । न चात्र सोस्तीत्यसकृदुपपादितं । न च ब्रह्मादिमध्यपरिगणनं बाधकमित्युपपादितम् । न च शिव चतुर्मुख नारायण कारणत्व प्रतिपादक वाक्यानां परस्परसत्प्रति-302

पक्षत्वेन परबाधनासामर्थ्यात् । उत्तीर्ण ब्रह्मत्व प्रतिपादकश्रुतिर्निरर्गलं प्रवर्तत इति वाच्यम् । कार्यत्वकर्मवश्यत्यादिविशिष्टतया प्रमाणान्तराव गम्यमान चतुर्मुखादिकारणत्वत्रोधिकानां श्रुतीनामयोग्यार्थत्वेन भगवत्कारणत्वबोधकवाक्यानाश्च योग्यार्थ त्वेन तुल्यत्वाभावेन परस्परसत्प्रतिपक्षत्वासिद्धेः परस्परसत्प्रतिक्षवदुत्तीर्णवाक्यानामपि तैर्वाक्यैः सत्प्रतिपक्षत्वस्य तुल्यत्वेन निष्कण्टकवृत्त्यसिद्धेश्च । न च भगवज्जन्मनोवताररूपत्वस्याजायमान इति वाक्यादवगन्तव्यत्वेन तस्य च वाक्यस्य परमात्मप्रकरणस्थत्वात् भगवज्जन्मनोवताररूपतायां न तत्प्रमाणत्वेनोपन्यासार्ह - मिति वाच्यम् । लक्ष्मीपतित्व लिङ्गेन भगवदुपस्थितेः । न च तदप्युत्तीर्णकारणत्वबोधकश्रुतिबलादन्यथयितुं शक्यत इति वाच्यम् । अन्योन्याश्रयात् उत्तीर्णकारणत्व सिध्यन्तरं लक्ष्मीपतित्वस्यान्यथासिद्धि निश्चयादजायमान इति वाक्यस्य नारायणपरत्वाभावात् तत्कारणत्वप्रतिपादकवाक्यानां योग्यार्थत्वनिश्चयः । तन्निश्चये सत्युत्तीर्णवाक्यानात्मलाभ इत्युत्तीर्णकारणत्वनिश्चय इति । न च ब्रह्म विष्णुरुद्रेन्द्रा इति कार्यत्व बोधनमात्रादयोग्यार्थत्वनिश्चयः । यस्मिन् बौरिति वाक्यस्य परमात्मपरत्वेन ‘घुम्वाद्यायतनं स्वशब्दादिति सूत्रेण ( ब्रह्म. सू. 1-8 -1 ) निर्णीतस्योपरि ’ स एषोन्तरते बहुधा जायमान '

शारीरक द्युभ्वाद्यधिकरणम् -

|

आपर्वणिका अघीयते ’ यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चय अमृतस्यैष सेतुः ’ इति । तत्र संशयः - किमयं पृथिव्यादीना मायतनत्वेन श्रूयमाणो जीवः, उत परमात्मा इति । किं युक्तम् ? जीव इति । कुतः - ’ अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमानः’ इति परस्मिन् श्लोके पूर्ववाक्य प्रस्तुतं चुपृथिव्याद्यायतनं ’ यत्र’ इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य माड्याधारत्वमुक्त्वा, पुनरपि ’ स एषोऽन्तश्चरते बहुधा जायमानः इति तस्य बहुधा जायमानत्वं चोच्यते ; नाडीसंबन्धो देवादिरूपेण बहुधा जायमानत्वं च जीवस्यैव धर्मः । अस्मिन्नपि लोके ‘ओोतं मनस्सह प्राणैश्च सर्वैः’ इति

303

इति जायमानत्वश्रवणात् अन्याधीनमेव हि कार्यत्वं तदापादकम् । अन्यथा देवाहवै स्वर्ग लोकमगमन्निति देवसंवाददर्शनेन तद्योग्यरूपपरिप्रहरूपाविर्भावस्यावयवक्तव्यत्वेन त्वदीयोत्तीर्णकारणत्वप्रतिपादक वाक्यानामपि अयोग्यार्थत्वापातात् । अद्भयः संभूत इत्यस्य नारायणातिरिक्त परत्ववादिनोऽपि तत्रैवाजायमान इति वाक्ये बहुधा विजायत इत्युक्तया कार्यत्वमात्रमयोग्यार्थत्वापादकमित्युक्तेः

व्याहतत्वाच्च ।

प्राणपश्चकस्य मनसश्चाश्रयत्वमुच्यमानं जीवधर्म एव । एवं जीवत्वे निश्चिते सति पृथिव्याद्यायतनत्वादिकं यथा कथश्चित्सङ्गमयितव्यम् - इति पूर्व पक्षः ।

सिद्धान्तस्तु - ग्रुपृथिव्याद्यायतनं ब्रह्म, न जीवः, परब्रह्मासाधारण शब्दात् । अमृतस्यैष सेतुः इति परस्य ब्रह्मणः असाधारणशब्दः, तथाऽमृतस्य प्रापकत्वं ब्रह्मण एव संभवति । आत्मशब्दश्च निरुपाधिकः परस्मिन् ब्रह्मणि मुख्यवृत्तिः । आप्नोति इति हि आत्मा । खेतर समस्त नियन्तृ-वेन व्याप्तिस्तस्यैव भवति । यः सर्वज्ञस्सर्वविदित्यादयश्च उपरितनाः परस्यैव ब्रह्मणश्शब्दाः । नाड्याधारत्वमपि तस्यापि संभवति । बहुधा जायमान इत्यपि परस्मिन् ब्रह्मणि संगच्छते । स्वकीयं प्रभावं अजहदेव स्वेच्छया विजायते परः पुरुष इत्यमिधानात् । अयं चुपृथिव्याद्यायतन: भूतः पुरुषः संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते । अतः विधूतपुण्यपापैः निरञ्जनैः प्रकृतिसंसर्गरहितैः परेण ब्रह्मणा परमं साम्यमापन्नैः प्राप्यतया निर्दिष्टः चुभ्वाद्यायतन पुरुषः परं ब्रह्मैव । यथा प्रधानं नात्र प्रतिपाद्यते, तथा जीवोऽपि न प्रतिपाद्यते । जीवाद्विलक्षणत्वेन ब्रह्मव्यपदिश्यते यदास्वस्मादन्यं सर्वस्येशं प्रीयमाणं, अस्य महिमानं च निखिलजगन्नियमनरूपं पश्यति तदा वीतशोको भवति । प्रकरणं च इदं परस्य ब्रह्मणः । तथा एकस्य कर्मफलादनं अन्यस्य च कर्मफलमनश्नत एव ईप्यमानतया शरीरान्तः स्थितिमात्रं प्रतिपाद्यते । अतः शुभ्वाद्यायतनं परमात्मा । (श्रीरामानुजभाष्यानुसारि ) | ( ब्र. सू. 1-3-1 )

1

304

….

यत्तु अन्योन्यमनुरक्तास्त इत्यादि वचनेन त्रयाणां साम्यं प्रतीयत इति तदप्यसाधु । ’ ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् । ते वै पाषण्डिनो ज्ञेया नरकार्हानराधमाः ॥ नत्वत्समोभ्याधिकः कुतोन्ये लोकद्वयेप्यप्रमितप्रभावः । नास्ति नारायणसमं न भूतो न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान साधयाम्यहम् । यस्तु नारायणं देवं समत्वेनामिमन्यते ॥ सतु तेनात्रमानेन नकारान्नातिवर्तते । नित्यं हि नास्ति जगति भूतंस्थावरजङ्गमम् ॥ ऋते तमेकं पुरुषं वासुदेवं सनातनम् । ’ इत्यादि बहुप्रमाण विरोधान्न सर्वात्मना साम्यप्रतिपादकम् । किन्त्वन्योन्य प्रणामादिवशात् न तेषु कस्यचिदतिशयो वक्तव्यः । तस्य लीलामात्रत्वादित्येवमभिप्रायकं नेतृव्यम् । स्यादेतत् उत्तीर्णस्य शिवस्य प्रमाणान्तरेणासिद्धावपि उभ विग्रहाशुद्धेत्यादिसूतसंहिता वचनानां जागरूकत्वात् ततस्तत्सिद्धिर्भविष्यतीति चेन्न । महाभारत वैष्णवादिषु नारायणस्य ब्रह्माद्युत्तीर्णार्याबोधनेन सूतसंहितादि वचनानां उत्तीर्णनीलकण्ठत्वादिविशिष्टत्रस्तु साधकत्वासंभवात् । तानि चेमानि वचनानि - महाभारते - आरण्यपर्वणि ‘आपोनारा इति प्रोक्ता’ इत्युपक्रम्य ’ अहं विष्णुरहं ब्रह्माशक्रश्चाहं सुराधिपः । अहं शिवश्च सोमश्च काश्यपश्च प्रजापतिः ||’ इति भीष्मपर्वणि वासुदेव नते शक्यं मयागीतं यथातथं । सृष्ट्रा सङ्कर्षणं देवं स्वयमात्मानमात्मना ॥ सृजस्त्वामात्मनाकृष्ण प्रद्युम्नं चात्मसंभवम् । प्रद्युम्नं चानिरुद्धं च यं प्राहुर्विष्णुमव्ययम् ॥ अनिरुद्धोऽसृजत्साम्बं ब्रह्माणं लोकधारिणम् । वासुदेवमयस्सोहं त्वयैवास्मिविनिर्मित || ’ इति । आनुशासनिके-सुपर्णवैकुण्ठसंवादे । मत्तश्च संप्रसूतान्वै विद्धिलोकान् सदैवतान् । मयापि च चतुर्धात्मा विभक्तः प्राणिषुस्थितः ॥ आत्मभूतो वासुदेवोस्यनिरुद्धोमतौ स्थितः । सङ्कर्षणोऽहं कारश्च प्रद्युम्नोमनसि स्थितः ॥ अन्यथा च चतुर्भाय तत् सम्यक् श्रोतुमर्हसि । हिरण्यगर्भपाख्यो यत्र ब्रह्मा व्यजायत || ब्रह्मणश्चापि सम्भूतः शिव इत्यत्रधार्यताम् । शिवात् स्कन्दः सम्बभूव एतत् सृष्टि चतुष्टयम् ॥ इति । न चात्र विष्ण्वपेक्षया उत्तीर्णत्वं न कथितमिति वाच्यम् । प्रद्युम्नस्यैव प्रद्युम्नाश्चानिरुद्धं चयं प्राहुर्विष्णुमव्ययम् । इत्युक्त्वा त्रिमूर्तिमध्यगत विष्णुरूपत्वात् तस्य च प्रद्युम्नो

305

मनसिस्थित इत्यत्रोक्तत्वात् पूर्वं एकामूर्तिर्निर्गुणाख्या योगं प्रथममास्थिता । द्वितीया सृजते तात भूतग्रामं चराचरम् ॥ सृष्टं संहरते चैका जगत्स्थावरजङ्गमम् । जातात्मनिष्ठा क्षपये मोहयन्निव मायया || क्षिपन्ती मोहयन्ती च स्वात्मनिष्ठा स्वमायया । चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा ॥ रक्षते ऋपि नियता सोहमस्मिन्नभश्चरे ति प्रतिपादनाच्च । आश्वमेधिके कृष्णोदकवादे । ’ तमो रजश्च सत्वं च विद्धि भावान् मदाश्रयान् । सृष्टिस्थितिलयाध्यक्षो ब्रह्मविष्ण्वीशसहितः ।

कदाचित्तमसारुद्रो विष्णुस्त्वेगुणेस्थितः ।

रजस्यपि तथा ब्रह्मा खान्गुणान् गुणानुग ||

इति । वैष्णवे च पुराणे - यत्व प्रसादादहमच्युतस्य भूतप्रजासर्गोन्तकारी । क्रोधाच्च रुद्रः स्थितिबन्धहेतुः यस्माच्च मध्ये पुरुषः परस्मादिति प्रतिपादितम् । ब्रह्मत्वे सृजते सर्वमित्यादीनि वचनानि पूर्वमुदाहृतानि । सृष्टिस्थित्यन्तकारिणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञा याति भगवान् एक एव जनार्दन इति ।

ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः ।

1

निभूतयो हरेरेताः जगतः सृष्टिहेतवः ॥ विष्णुर्मम्वादयः कालः सर्वभूतानि च द्विज । स्थितेर्निमित्तभूतस्य विष्णोरता विभूतयः ॥ रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धाप्रलयायैते जनार्दन विभूतयः ॥ '

इति । वराहपुराणे - विष्णुरेव परं ब्रह्म त्रिमेदमिह पज्यते । इति । लैंगे -

त्वत्कोपसंभवोरुद्रस्तमसा च समावृतः ।

त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः ||

1

त्वरूपात् स्वयं विष्णुः सत्वेन पुरुषोत्तमः ॥’

इति । तथा

306

‘परमात्मानमीशानां तमसा रुद्ररूपिणम् ।

रजसा सर्वलोकानां सर्वलीलाप्रवर्तकम् ॥ सत्वेन सर्वभूतानां स्थापकं परमेश्वरम् । सर्वात्मानं महात्मानं परमात्मानमीश्वरम् || '

दृष्ट्वा प्राह

वै ब्रह्मा भगवन्तं जनार्दनमिति प्रतिपादितम् । पूर्वोक्त प्रमाणबलात् उत्तीर्णरक्षयाधिकृतयोरमेदात् त्रिमूर्त्यन्तविलक्षणस्य शि बोधक प्रमाणानान्नबाध इति वाष्यम् । रक्षणाधिकृतस्य भगवतः उत्ती कथनस्य तदतिरिक्त तत्वाभावतात्पर्यकत्वस्य वाच्यत्वेनार्थात्तुल्यार्थतां प्राप्येति वार्थसम्भवात् । न च सूतसंहितादि वचनै भरतादि वचनानां बाध शक्यं वक्तुम् । परिग्रहातिशयेन भारतादीनां प्रामाण्योत्कर्षात् । न च शि पदघटिताथर्वशिरश्शिस्त्व। दिमूलत्वेन सूतसंहितादिवचनानां प्राबल वाच्यम् । नारायणकारणत्वप्रतिपादक श्रुतिमूलत्वस्यात्रापि विशिष्ट अथर्वशिरः प्रभृति वाक्यस्य शिवादिपदानां नीलकण्ठत्वविशिष्टवस्तुबोधक सिध्या स्रुतसंहितादिवचनानां तन्मूलत्वोक्स्ययोगाश्च । यदि सूतसंहि वचनैर्नीलकण्ठत्वादि वैशिष्ट्य बोध्यमान प्रमाणान्तरविरोधोन स्यात् । त नीलकण्ठत्वा दिवैशिष्ट्यसिध्या शिवादिशब्दानामुत्तीर्णे प्रयुक्तानां तादृ बोधकत्वं स्यात् । न च तत् सिध्यतीत्युक्तम् । नचाथर्व शिरश्शिखादिम् प्रबलत्वं सूतसंहितावचनानामिति न प्रमाणान्तरेण बाध इति युक्तं । नीलक विशिष्टवस्तुबोधनांशे शिवादिशब्दानां सूतसंहिताद्युपजीवित्वेन तदंशे तन्मूल योगात् । अन्यथा अन्योन्याश्रयात् नीलकण्ठत्वादिविशिष्टबोधकत्वे शिवादिघटिताथर्व शिरश्शिखादिमूलत्वेन प्राबल्यात् । सूतसंहितादिभिः कण्ठत्वत्रे शिष्टयबोधनमुत्तीर्णे सिध्यति तत्सिद्धौ चोत्तीर्णविषयक शिवादिश नीलकण्ठत्वविशिष्टवस्तुबोधकत्वसिद्धिरिति । तथा च भारतादिवचनैः नारा तुरीयत्वावेदकैर्महाजन परिग्रहातिशय लब्धप्रामाण्यैर्नारायण कारणत्वावेद बाल्याद्यनेक श्रुतिमूलत्वजनित निरङकुशप्रवृत्तिभिर्बाध एव सूतसंहि

|

307

वचनानां युक्तम् । ननु नारायणोत्तीर्णत्वपरवचनानां स्वव्यूहत्रयोत्तीर्णत्वपरत्वेनान्यथासिद्धत्वात् न ततो नारायणस्य तुरीयत्वसिद्धिः । सृष्ट्यधिकारनामान्यात् ब्रह्मादिव्यपदेशोपपत्तेः ।

एका भगवतीमूर्तिर्ज्ञानरूपाशिबामला । वासुदेवामिधानासा गुणातीता सुनिष्कला ॥ द्वितीयारुद्रसंज्ञास्यात्तामसीशेषसंज्ञिता । निहन्ति सकलं चान्या वैष्णवी परमातनुः ॥ सत्वोद्रिक्ता तृतीयान्याप्रद्युम्नेति च संज्ञिता । जगत् स्थापयते सर्व स विष्णुः प्रकृतिभुवा ॥ चतुर्थी वासुदेवस्य मूर्तिर्ब्रझेति संज्ञिता । राजसी चानिरुद्धाख्या पुरुषसृष्टिकारिकेति ॥

कौमें तेषां तद्वयपदेशदर्शनाचेति चेन्न । तथा सति ब्रह्मादिशब्दानां तादृशबहुवचनस्थानां मुख्यार्थभङ्गापत्तेः । कौर्मवचनं तु तमोघिष्टात्रीशेषसंज्ञिता । द्वितीया वासुदेवस्य मूर्तिः । रुद्रात्मनावतीर्य रुद्रसंज्ञिता सती सकलं निहंतीत्येवमर्थकत्वेनोपपन्नमिति न तत् बलादनिरुद्धादीनां ब्रह्मादि शब्दवाच्यत्वसिद्धिः । सूतसंहितावचनानुसारान्मुख्यार्थभङ्गो न दोष इति चेत् - अहो मौख्ये तव यलोकप्रसिद्ध प्रामाण्यातिशयानां भारतादिवचनानां त्वादृशकतिपयगोष्ठिमात्रसिद्धप्रामाण्यैः तथाविधसत्ताकैश्च वचनैर्बाधं श्रूषे । - किचैवं यस्य प्रसादादहमच्युतस्य भूतप्रजासर्गकरोन्तकारि । क्रोधाश्च रुद्रस्थिति हेतुभूतोयस्माच्च मध्ये पुरुषः परस्तादिति चतुर्मुखवक्त्रके वाक्ये कथमन्यथासिद्धिमुपपादयसि - यत्तु अहंकारामिमानित्वादनिरुद्धस्य वैकारिकस्तैजसश्च तामसश्चेत्यहं क्रियेति अत्रैव तत्रापि नामैकदेशत्वेनाहं शब्दप्रयोगोपपत्तेर्वक्तृपरत्वेपि यस्माच्च मध्य पुरुष इत्यत्र पुरुष पदस्य प्रद्युम्नपरत्वेनाप्युपपत्तेश्च न विष्णोस्त्रिमूर्त्यत्तीर्णत्वं सिध्यतीति, तत्तुच्छं । खरसतः प्रतीयमानं वक्तृपरत्वं परीत्यज्यातिक्लेशेननामैकदेशत्वं स्वीकृत्यान्यया सिद्धिकरस्य विद्वद्गोष्ठी बहिष्ठत्वात् ।

"

308

अय चैवं । ’ मद्रूपमास्थाय सृजत्यजोयः स्थितौ च योसौ पुरुषखरूपः । रुद्रस्वरूपेण च योत्ति विश्वं धत्ते तथानन्तवपुस्समस्तमित्युत्तरश्लोके । कां गतिं यास्यसि तत्त्राहङ्कारशब्दैकदेशग्रहणरूपकुमष्ठेरप्यनवकाशात् । न च तस्य शब्दस्य प्रत्ययोत्तरपदयोश्चेत्यादेश सम्भवः । युष्मदस्मदोरनादेश इत्यधिकृत्य विहितत्वात् । पुरुषपदस्य प्रद्युम्नपरत्वेनोपपत्तेरित्यप्यवगतम् । ’ यत् प्राये श्रूयते यच्च तत्तादृगवगम्यते’ इति न्यायेन रक्षणाधिकृत विष्णुपरत्वस्यैवौचित्यात् । प्रद्युम्न एव रक्षणाधिकृत इति चेत् तर्हि त्रिमूर्तिमध्यगतो विष्णुः स एवेति ब्रह्मादित्रितयोत्तीर्णत्वसिध्या नारायणस्यात्ममनोरथसिद्धेः । नह्यतिरिक्तं ब्रह्मणस्तुरीयत्वं नामास्ति । यदपि पुराणप्रतिपाद्यनारायणं प्रस्तुत्य ’ स परस्सर्वशक्तीनां ब्रह्मणः समनन्तर’ इति तस्य जगत्कारण ब्रह्मावरत्वमुक्तमिति । तदपि अतिक्षुद्रं ’ एवं प्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ तद्ब्रह्म परमं योगी पुनर्नावर्तते यत’ इत्यनन्तरोपक्रमविरोधप्रसङ्गात् । अतो न ब्रह्मावरत्वं तस्यार्थः । किन्तु पूर्व एवं प्रकारमित्याद्यनन्तरं

J

द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तिमेव च । क्षराक्षरखरूपे ते सर्वभूतेषु च स्थित’ इत्यादिना ब्रह्म-विष्णु-शिषा ब्रह्मन् प्रधाना ब्रह्मशक्तयः । ततश्च देवामैत्रेय न्यूना दक्षादयस्तथा ॥ तमो मनुष्याः पशवो मृगपक्षिसरीसृपाः । न्यूनान्यूनतराश्चैव वृक्षगुल्मलतास्ततः ॥ यदेतदक्षयं नित्यं जगन्मुनिवरा खिलम् । आविर्भाव तिरोभाव जन्मनाश विकल्पवत् ॥ सर्वशक्तिमयो विष्णुरित्यन्तेन रूपद्वयं प्रतिपाद्य तद्विलक्षणमादित्यवर्णं तमसः परस्तात् यदा पश्यः पश्यते रुक्मवर्णमित्यादि श्रुतिप्रतिपन्नमुक्तिसाधनीभूतंरूपं स्वरूपं ब्रह्मणः परमं मूर्त यद्योगिभिः पूर्वं योगारम्मेषु चिन्त्यते । सालम्बनो महायोगः स बीजो यत्र संस्थितेः । मनस्यव्याहते सम्यक् यज्यतां जायते मनः ॥ इति प्रतिपाद्यानन्तरं स पर इत्येतत्पठितमिति तदनुगुण एव तस्यार्थः । स च स विष्णुः प्रतिपादितब्रह्मादिरूपाणां पर उत्कृष्टः यदेतत्स्वरूपं ब्रह्मणः परमित्यादिना प्रतिपादितं रूपानन्तरं तत् ब्रह्मणोन्तरङ्गमिति । तथा च । ब्रह्म विष्णु शिवा ब्रह्मन् इत्यादिना शक्तिवेनोपवर्णितब्रह्मादि तुल्यतानिराकरणार्थं स परः सर्वशक्तीनामिति

309

विष्णोरतिशय उच्यते । ब्रह्मणस्समनन्तरमित्यनेन तु तृतीयस्वरूपस्यान्तरङ्गत्वमुच्यत इति । ब्रह्मणः समनन्तर इति पाठेप्युत्तीर्णस्य त्रिमूर्त्यन्तर्गत विष्णोश्च

भ्रमो मा भूदिति ब्रह्मणः समनन्तरं ब्रह्मणानन्तरं पठितः सर्वशक्तीनां परः नर्वशक्युत्तीर्णपरब्रह्माभिन्न इत्यमेदोमिधीयते । वस्तुतस्तु ब्रह्मणः समनन्तरं मूर्त ब्रह्म महाभागेत्युत्तरवाक्यस्थसामान्याधिकरणवादः नपुंसकान्त पाठ एव युक्तः । तथा च विष्णोर्ब्रह्मान्यत्वमनेन प्रतिपाद्यत इति क्वनं पूर्वसन्दर्भापर्यालोचनाजृम्भितम् । उत्तरसन्दर्भापर्यालोचना जृम्भितश्च ।

उत्तरत्र सर्व ब्रह्ममयो हरिः ।

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ॥

ततो जगज्जगत्तस्मिन् सजगच्चाखिलं मुने । क्षराक्षरमयो विष्णुर्विमर्त्यव्यय. ईश्वरः ॥

इति जगत्कारणत्वादेर्विष्णुनिष्ठत्व प्रतिपादनात् ब्रह्मरूपत्वेन कथितयोः क्षराक्षरयोः राक्षरमयो विष्णुरिति विष्णुपरत्व कथनाच । भगवतो ब्रह्मत्वावेदनात् महावाक्यतात्पर्यविरुद्धं च । ब्रह्मावरत्वकथनं आदिमध्यान्तपर्यालोचनायां कृत्स्नस्यास्य पुराणस्य भगवत्पारम्य प्रतिपादनैकान्तत्वावसायात् सत्वरजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः । परमपुरुष एक इहास्य धसेस्थित्यादयो हरिविरिधि हरेति संज्ञां श्रेयांसि तत्र खल्लुसत्वतनोर्नृणांस्युरिति पुरुषशब्दवाच्यस्य नारायणस्यैव त्रिमूर्तिरूपेण सृष्टयादिकर्तृत्वं प्रतिपादयत् ’ श्रेयांसि तत्र खल्लु सत्वतनोर्नृणांस्युरिति मध्यस्य विष्णोर्मुक्तिहेतुत्वप्रतिपादनमुखेन कारणीभूतपुरुषवाप्यनारायणाभिन्नत्वं प्रतिपादयतीति नारायणातिरिक्तवस्तुसद्भावतात्पर्यम्, भागवतस्तस्यास्तीति वचनमुपपत्तिशून्यम् । नारायणकलाः शान्ता भजन्त्यस्यानसूयवः । रजस्तत्वप्रकृतयः सत्वशीलान् भजन्ति ॥ पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सव इति । शिवादिभजनस्यैव हि फलसाधनत्वस्य भगवद्भजनस्य मुक्तिहेतुत्वस्य स्फुटीकारात् । यदपि ।

310

सृजत्यशेषमीशस्य शासनाच्चतुराननः । तिसृभिर्मूर्तिमिश्चापि पातिचेत्तन्निहंति च ॥ विष्णुः पालयते विश्वं विश्वयोर्नियोगतः । सृजते प्रसतेचापि खकामिस्तनुभिस्त्रिभिः || हरत्येतज्जगत्सर्वं हरस्तस्यैव शासनात् ।

सृजत्यपाञ्च विश्वात्मा त्रिधामिन्नस्तुरक्षति ॥

इति शिवपुराणे खव्यूहसहितानां ब्रह्मविष्णुरुद्राणां शिवनियोगेन स्व स्ववृ प्रवृत्युपन्यासेन शिवस्योत्तीर्णपरवचनानां न भवमृडहररूप स्वरूपतयोत्ती । परत्वेनान्यथा सिद्धमिति वैषम्यमिति तदप्यसारम् । मीष्मपर्वणि -

सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना ।

सृजस्त्वमात्मना कृष्ण प्रद्युम्नं चात्मसंभवम् ॥ प्रद्युम्नश्चानिरुद्धं च संप्राहुर्विष्णुमव्ययम् । अनिरुद्धोऽसृजत्साम्बं ब्रह्माणं लोकधारिणाम् ||

इति । पृथक् व्यूहभूत सङ्कर्षणादीनां साम्बशब्दवाच्यस्य रुद्रस्य चतुर्मुखस्य भगवत उत्पन्नत्वावगमेन भगवदुत्तीर्णत्वपरवचनानां स्वव्यूहत्रयोत्तीर्णत्वपर नान्यथासिद्धिवर्णनानुपपत्तेस्तुल्यत्वात् । सुपर्णवैकुण्ठसंवादे च - ‘म चतुर्धात्माविभक्तः प्राणिषु स्थित:’ इत्यादिना व्यूहप्रतिपादनानन्तरं अन्न चतुर्धा यत् सम्यक् त्वं श्रोतुमर्हसीति ब्रह्माद्युत्पत्तिप्रतिपादनाञ्च । तस नारायणोत्तीर्णत्ववचनैः शिवस्य तथात्व प्रतिपादकवचनानां बाध एवोचित दिक् । नन्वयापि नारायणस्य तुरीयस्य प्रतिपादकप्रमाणानि शिवस्य तथा प्रतिपादकप्रमाणबाधनं कर्तुं न शक्नुवन्ति । शक्ति विशिष्टस्य शि परब्रह्मत्वाङ्गीकारेण नारायणस्य पराशक्तिभूतभवानिरूपत्वाङ्गीकारेणतत्प्र पादकतया नारायणोत्तीर्णत्वप्रतिपादकप्रमाणानामन्यथासिद्धत्वात् । न नारायणस्य पार्वत्यमेदे मानाभावः। कूर्मपुराणवचनैस्तथावगमात् । तथा f

6

311

कूटस्थोह्यक्षरोस्यात् योगी नारायणाह्वयः । तारक: पुरुषोह्यात्मा केवलं परमं पदम् ॥

सैषामहेश्वरी गौरी मम शक्तिर्निरञ्जना ।

शान्ता सत्यासदानन्दा परं पदमिति श्रुतिः ॥ '

इतेि । तत्रोक्तम् । अत्र केवलं परमं पदमित्यनेन कृष्णमहिमवर्णनानन्तरं कथमयं परमंपदं शक्तिर्हितत् पुराणप्रसिद्धेति शङ्कायां सैषामहेश्वरीति श्लोकः

कः कृष्ण एषा माहेश्वरी गौरी ममशक्तिः अस्याः परमं पदमिति प्रसिद्धिरस्तीत्येतदमेदात् कृष्णोऽपि परमं पदमित्युक्तिरुपपद्यत इति भावः । तथा पुत्रार्थ कैलासे कृततपश्चरणाय कृष्णाय शिवेनामिमतवरे दत्ते गौरीवचनम् ।

6

वत्सजाने तथानन्तान्निश्चलान् सर्वदाच्युत । अनन्यामीश्वरे भक्तिमान्यामपि च केशव ।

त्वं हि नारायणः साक्षात् सर्वदा पुरुषोत्तम । प्रार्थितो दैवतैः पूर्व संजातो देवकीसुतः || पश्यत्वमात्मनात्मानं अमलं परमं पदम् ।

नाक्योर्विद्यते मेद ऐक्यं पश्यन्ति सूरयः ॥

इति । ’ प्रकृतिस्त्वं पुमान् रुद्रस्त्वयि तद्वीर्यमाहितम् । त्वनामिपङ्कजाज्जातः पञ्चवक्त्रः पितामह ||’ इति । ब्रह्माण्ड पुराणे - नाषयोर्विद्यते मेदोमच्छक्तिस्त्वं न संशयः’ इत्यादि पुराण वचनात् । ’ उमाया स हरिः साक्षात् यो हरिः सा शिवास्मृते’ति वचनात् । लिङ्गपुराणे -

एषबीजी भवान् बीजं अहं योनिस्सनातनः । स एवमुक्तो विश्वात्मा ब्रह्मा विष्णुमपृच्छत ॥ भवान् योनिरहं बीजं कथं बीजी-महेश्वरः । एनं मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ॥}

312

ज्ञात्वादिविषदोत्पत्तिं ब्रह्मणो लोकतंत्रः । इमं परमसूक्ष्मार्थे प्रश्नमम्यवदद्धरिः ॥ अस्मान्महत्तरं भूतं गुह्यमन्यन्न विद्यते : महतः परमव्यक्तं शिवमध्यात्मिनां परम् ॥ द्वैधी भावेनचात्मानं प्रविभज्यव्यवस्थितः । निष्कलं सूक्ष्ममव्यक्तं सकलस्तु महेश्वरः ॥ अस्य मायाविधिज्ञस्य अगम्य गगनस्य च | पुरालिङ्गादभूद्वीजं प्रथमं त्वादिसर्गिकम् ॥ मम योनौ समासिकं तद्वीजं कालपर्ययात् । हिरण्मयमकूपारे योन्यामण्डमजायत || '

इति । विष्णोः शिवक्षेत्र स्फुटीकरणातुरीय कोटिनिविष्टस्यापि नार शिवोपसर्जनत्व सम्भवात् । न शिवस्य तुरीयत्वे किंचित् बाधक अत्रोच्यते - न तावद्विष्णोरन्योपसर्जनत्वं सम्भवति । मैत्रायणीय

स्वतन्त्र चैतन्यं स्वमहि नितिष्ठमानं पश्यतीति स्वतन्त्रत्वम् । नन्वाधारत्वप्रति विरोधात् अचलममृतं ध्रुवं विष्णुसंज्ञं सर्वाधारं धामेति बहुकृत्वाभ्यासेन भगवति तात्पर्यातिशयात् न तस्येशे कश्चन तस्य नाममहद्यश इत्यम्भस्त च: भगवतोऽनन्येश्वरत्वम् श्रयत इति तद्विरोधाच्च नान्योपसर्जनत्वस किं च पतिं विश्वस्यात्मेश्वरं शिवमच्युतमिति नारायणानुवाके अन प्रतिपाद्यते । आत्मेश्वरशब्दस्य तदर्थकत्वात् पतिं विश्वस्येत्यनेन नैव स सिध्या तस्य तदर्थकत्वस्य वाच्यत्वात् । न च पतिं विश्वस्येत्यनेनाचेतन ईश्वरत्वं प्रतिपाद्यत इति वाच्यम् । असङ्कोचेन पतिं विश्वस्येत्यस्यैव चेतनोभयेश्वरत्वप्रतिपादकत्व सम्भवे वस्तुत आत्मेश्वरमित्यस्यानर्थक्याप तस्मादात्मेश्वरमित्यस्यानन्येश्वरप्रतिपादकत्वे नैव सार्थक्यमिति तद्विगं नान्योपसर्जनत्व सम्भवः ।

313

अपि च कठवल्लिषु ’ पुरुषान्नपरं किश्चित् साकाष्ठा सा परागतिरिति काक्दधिकत्वनिषेघेन तद्विरुद्धानां विरोधाधिकरणन्यायेन (जै. सू. 1-3-2) ऋषितार्थकत्वाश्च, नार्थतथात्वसाधकत्वम् । नचास्याः श्रुतेः अन्यपरत्वं शङ्कितुं शक्यम् । पुरुषशब्दस्य ’ यथापुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते तथा शङ्करशब्दोऽयं महादेवे व्यवस्थितः ’ इति दृष्टान्तत्वेनोपन्यासात् । यद्वा पुरुषशब्दोऽयं

• रूढ्या वक्तिजनार्दनमित्यादि प्रमाणैश्च भगवदसाधारणत्वात् । न च तद्विष्णोः समं पदमित्युपकमे व्यतिरेकनिर्देशादन्यपरत्वशङ्का । विष्ण्वाख्यं परमं पदमिति नारायणोपनिषदनुसारेण षष्ठ्या अभेदेप्युपपन्नत्वस्याङ्गीकर्तव्यत्वात् ।

सात्विकोपबृंहणान्यपीममर्थमनुरुन्धन्ति । तत्र महाभारते सभापर्वणि । राजसूयाध्वरे अग्रपूजाईत्वप्रतिपादनार्थं महता प्रबंधेन भगवदुत्कर्षवर्णनं कृत्वा

विरोधाधिकरणम् :-

ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते। तस्याश्च वाससावेष्टनं स्मर्यते - ‘औदुम्बरी सर्वावेष्टयितव्या’ इति । सा स्मृतिः प्रमाणम्, अष्टकादि स्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति पूर्वः पक्षः ।

सिद्धान्तस्तु ‘औदुम्बरीं स्पृष्टोद्वायेत्’ इति प्रत्यक्षवेदवचनेन स्पर्शो विधीयते । न च सर्ववेष्टने स्पर्शः सम्भवति । अतो विप्रलम्भक वाक्यवन्निर्मूला स्मृति प्रमाणम् ।

अस्मिन्नेवाधिकरणे मतान्तरमाह – स्पर्शसर्ववेष्टन विषययोः प्रत्याक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रमाण्यमिति पूर्वः पक्षः ।

अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् । यदि पुरुषान्तर प्रत्यक्षवेद: सर्ववेष्टन स्मृतेर्मूलमित्युच्यते, तर्हि माभूत्तस्या अप्रामाण्यम् । तथाऽपि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो न तु सर्ववेष्टनम् ॥ (जै. सू. 1-3-2 )

40

314

1

’ यथा बुद्बुद उत्थाय तत्रैव तु निलीयते । चराचराणि भूतानि तथा नारायणे सदा ॥ न प्रमातुं महाबाहुश्शक्यो भारत केशवः । परमं हि परमस्तस्मात् विश्वरूपान्नविद्यते ॥

इति तदधिकत्वनिषेधः कृतः । भीष्मपर्वणि ।

‘न परं पुण्डरीकाक्षात् दृश्यते भरतर्षभ ।

श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः ॥ नारदस्य च देवर्षः कृष्णद्वैपायनस्य च ॥ '

इति । शान्तिपर्वणि मोक्षधर्मे अनुस्मृतौ । तमस्मि शरणं गतः’ इति । आनुशास नेके |

’ नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।

तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥

नारायणपरं ब्रह्म तत्वं नारायणः परः ।

यस्मात् परतरं नास्ति

परादपि परश्वासौ नास्ति तस्मात्परात्परम् ॥’ इत्युक्तं ।

आश्वमेधिके पर्वणि - ’ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।

श्रीहरिवंशे -

श्रीवराहे

एवमादित्य पुराणे -

ब्रह्मा मामाश्रितो राजन् नाहं कश्चिदुपाश्रितः || ममाश्रयो न कश्चित्तु सर्वेषामाश्रयोयहम् । इदं रहस्य कौन्तेय प्रोकवानहमव्ययम् ॥ ’ इति । ’ एतदेवपरं वस्तु नैतस्मात्परमस्तिवः ।

एतमेव विजानीध्वमेतद्वः परमं तपः ॥ ’ इति । नारायणात् परोदेवो न भूतो न भविष्यति । एतदहस्यं वेदानां पुराणानाश्च सत्तम ॥’ इति । ‘अहं विष्णोस्तु संभूतः स च सर्वमयो हरिः ।

न तस्य परमो भूतं विद्यते यत्तदुत्तमम् ॥’ इति

गीता भगवता

315

’ मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय । इति । ’ सत्यं सत्यं पुनस्सत्यं उद्धृत्यभुजमुच्यते ।

वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ॥ '

इति च प्रसिद्धम् । तथा प्राजापत्यस्मृतौ -

ब्रह्मांड कौर्मयोश्च -

’ नारायणं परित्यज्य हृदिस्थं प्रभुमीश्वरम् ।

योन्यमर्चयते देवं परबुध्या स पापभागिति ॥ ’ येन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः ।

नारायणाज्जगन्नाथात्ते वै पाडिनः स्मृताः ॥ '

इति । भागवते भगवन्तं प्रस्तुत्य -

‘अस्मादन्यं परत्वेन चेतयानोह्यचेतनः ।

सपाषण्डीति विज्ञेयः सर्वकर्मबहिष्कृत

इति एवं प्रबलतर सात्विकोपबृंहणेषु भूतेषु वैष्णवादिषु पुराणेषु बहूनि वचनानि सन्तीति तद्विरोधात् कौर्माद्युक्तं भगवतोन्योपसर्जनत्वं केवलं शिवस्तुत्यर्थमित्युमीयते । न च कौर्मादिवचनविरोधाद्वैष्णवादि पुराणगतवचमानां स्ताक्कत्वं किमिति नोच्यत इति वाच्यम् । तनिर्धारणापत्तेः । न च शैवपुराणानां संख्यया भूयस्त्वात् तदादाय प्राबल्यमिति वाच्यम् ।

असिद्धेः । ’ चतुर्भिर्भगवान् विष्णुः द्वाभ्यां ब्रह्मा तथा रविः ।

अष्टादशपुराणेषु शेषेषु भगवान् शिवः ॥ '

इति । वचनं प्रत्यक्ष विरुद्धम् । वराह, वामन, वैष्णव, नारदीय, नारसिंह, पाद्म, गारुड, भागवत, मार्कण्डेय, ब्रह्माण्डेषु भगवत्पारम्य प्रतिपादनात् ।

’ अष्टामिः कथ्यते विष्णुर्दशमिः कथ्यते शिव: । '

इत्यपि वचनं प्रत्यक्षविरुद्धमेव । वचनद्वय परस्परविरुद्धम् । हिरण्यगर्भादिप्रतिपादकपुराणादि भगवद्वचनविरुद्धं च । न चैतेषु शिवमाहात्म्यमपि प्रति-

316

पायत इति कथं विष्णुपारम्यप्रतिपादकत्वमिति वाच्यम् । तर्हि शिवपारम्य प्रतिपादकेष्वपि पुराणेषु भगवन्माहात्म्यस्यापि प्रतिपादनमिति तुल्यत्वात् । तस्मात् परस्परविरोधे सति समान विद्यास्थान परिग्रह विशेषपरिष्कृत भारतादिसंवादवत्वाद्वैष्णवपुराणादिपर्यालोचनयैव श्रुत्यर्यनिर्धारणं युक्तम् । सात्विकत्वेन वैष्णवपुराणानां प्राबल्यमिति निपुणतरमुपपादयिष्यते । महाभारतस्य देवतान्तरपारम्यतात्पर्यकत्वमपि निराकरिष्यते । - ’ यानि विष्णोः शिवक्षेत्रत्वप्रतिपादकानि तानि ‘अहं बीजप्रदः पिता मम योनिर्महद्ब्रह्म तस्मिन् गर्भ दधाम्यहम् ’ । इति भगवद्गीता विरुद्धानि । लिङ्गपुराणभगवद्गीता वचनयो: विरोधे लिङ्गपुराणवचनं प्रबलमिति न मौढ्याते वक्तुं शक्यम् । मनुस्मृतौ - ‘सोमिध्याय शरीरात् स्वात् सिसृक्षुर्वि (वि)धाः प्रजाः ।

अप एव ससर्जादौ तासुवीर्यमपासृजत् ॥ तदण्डमभवद्धेमं सहस्रांशु समप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः || आपोनारा इति प्रोका आपो वै नरसूनवः ।

ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥ '

इति । प्रतिपादनात् तद्विरुद्धानि तथा विष्णुः स्वयंभूर्भगवान् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासुवीर्यमपासृजत् । ’ आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः । हिरण्यवर्णमभवत् तदण्डमुदकेशयम् । तत्न जज्ञे स्वयंब्रह्मा स्वयंभूरिति न श्रुतिरिति हरिवंशवचन विरुद्धानि ।

‘अतीन्द्रियः परोव्यक्तात् अन्तर्यामी सनातनः ।

नारायण इति ख्यातः स एव स्वयमुद्बभौ ॥ स्वशरीरादमिध्यायन् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तालुवीर्यमपासृजत् ॥

तदेवाण्डं समभवद्धेमरूपमयं महः ॥ '

317

इत्यादि । मात्स्यवचनविरुद्धानि च -

वस्तुतस्तु बीजशब्दस्य सप्तमधातुः परत्वे प्राकृतत्रपुष्टप्रसङ्गेन बृद्धिमिच्छतो मूलहान्यापत्तेरिति न्यायेनाभ्युपगत ब्रह्मत्वहानि प्रसङ्गात् ।

मूलहान्यापत्तेरितिन्यायेनाभ्युपगत कार्योत्पादनशक्ति परत्वस्य वाच्यत्वात् न लैङ्गादि वचनानि शिवपत्नीत्वं नायितुं शक्नुवन्ति । स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । प्रकृतिस्पर्शगृहित्यात् स्वातंत्र्याद्वैभवादपि । स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते । स्त्रीप्रायमितरत्सर्वं जगत् स्थावरजङ्गममिति । नारसिंहपुराणवचने भगवतोऽ न्यस्य स्त्रीप्रायत्वं भगवतस्तु पुरुषधर्मपौष्कल्यं प्रतिपाद्यत इति तद्विरोधादपि न शिवपत्नीत्वकल्पनं युक्तम् । शिवनामिशिलायाः केशव क्षेत्रत्वबलात् विष्णोः शिवपत्नीत्वसाधनं तु मौढ्य साम्राज्य विलसितम् । विष्णुमूर्तिषु अपि गोपालादिमूर्तिषु कूर्मादिक्षेत्रत्व दर्शनेनावतारान्तरपत्नीत्व प्रसङ्गात् हरिहरमूर्तिरपि नरसिंह हगामीवादिवत् विष्णोः शिक्त्य पत्नीत्वाद्रूपान्तरमिति न तत्र वामार्धत्वम् पत्नीत्वसाधकम् । तस्मान्नारायणोत्तीर्णत्रप्रतिपादकवचनविरोधात् शिवस्य तथात्वप्रतिपादकवचनानि न स्वार्थसमाधानक्षमाणीति न शिवस्योत्तीर्णत्वं प्रमाणपयानुयायि इति न तमादाय शिवप्रकरणत्व प्रतिपादकवाक्यानां अयोग्यार्थत्व परिहारः शक्यते कर्तुमिति सर्वे समञ्जसमिति सङ्क्षेपः ।

ननु मास्तु शिवस्य सर्वोत्कर्षत्वम् । अथापि भक्ता साम्यं तु स्यात् मूर्तित्रयस्य केषुचिद्वचनेषु साम्यप्रतीतेः । तयाहि ।

’ तपसा तोषयित्वा तं पितरं परमेश्वरम् ।

ब्रह्म नारायणौ पूर्व रुद्रः कल्पान्तरेऽसृजत् ॥ कल्पान्तरेपुनर्ब्रह्मा रुद्रं विष्णुं जगन्मयम् । विष्णुश्च भगवानाद्यं ब्रह्माणमसृजत् पुनः ॥ नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः । एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ परस्परस्माज्जायन्ते परस्परजयैषिणः ।

तत्तत्कल्पान्तवृत्तान्तमधिकृत्यमहर्षिभिः ॥

318

प्रभावः कथ्यते तेषां परस्परसमुद्भवात् । तत्तत्कल्पवृत्तान्तमधिकृत्यमहर्षिभिः ॥

तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति । अयं परः परोनेति सम्म्भामिनिवेशिनः ।

यातुधाना भवन्त्येव पिशाचाश्च न सम्शयः ॥

इत्यादिषु साम्यं प्रतीयते । एवं च । यत् जुहवं गृह्णाति प्रयाजेभ्यस्त यदुपभृति प्रयाजानुयाजेभ्यस्तदिति जौहवस्य औपभृतस्य चाविशेष प्रयाजार्थत्व श्रवणेप्यतिहायेडोबर्हिः प्रति समानीयते जुहामौपभृतमिति जुहामौप भृताज्य समानयनकालविघिबलात् तत्पूर्वोत्तरप्रयाजविशेषविषयतया व्यवतिष्ठ इति न कश्विद्विरोधः । एवं हि सर्वपुराणप्रामाण्यं संरक्षितं भवति इति चेन्न पूर्वपरिच्छेदोदाहृतश्रुतिभिर्जगत्कारणतया वगतेन नारायणेन न ब्रह्मा नेशान व्युदस्तयोस्साम्यायोगात् नचैकोहवै नारायण इत्यादिकं कल्पविशेषविषयक तयानेतुं शक्यमिति प्रथमपरिच्छेदे व्यक्तमुपपादितम् ।

किं च किं त्रयाणामीश्वरत्वमभिक्तमुत त्रिषु न कस्यचिदीश्वरत् किन्त्वन्यस्यैवेति । नाथः । कल्पविशेषविषयतया व्यवस्थितैश्वर्यशालि त्रयाणामीश्वरस्यानुपपन्नत्वात् व्यवस्थितैश्वर्यशालिनामपीश्वरत्वे इन्द्रादीनाम तथात्वापाताच्च । न द्वितीयः । उत्तीर्णपक्षस्य भारतादिप्रमाणविरुद्धत्वोप पादनात् ।

यत्तु ’ तपसा तोषयित्वा तमित्यादि वचनबलात् साम्यं प्रतीयत इति

’ तन्नाहं प्रसादजस्तुभ्यं लोकधाने स्वयंभुवे ।

त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ चाक्षुषं वै द्वितीयं मे आसीज्जन्म पुरातनम् । त्वत्प्रसादाच मे जन्म तृतीयं वाचिकं महत् ॥ त्वत्तो मे श्रवणं चापि चतुर्थ जन्म मे विभो । नासिक्यं नैव मे जन्म त्वत्तः पञ्चममुच्यते ॥

319

अण्डजंचापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् । इदं तु सप्तमं जन्म पद्मजं मेऽमितप्रभो ॥ सर्गे सर्गेप्यहं पुत्रस्तव त्रिगुणवर्जितः ।

प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पित ॥’

ते हयशिरोपाख्याने चतुर्मुखस्य सर्वेषु कल्पेषु भगवत उत्पत्ति प्रतिमादनविरोधात् नास्वार्थसाधकत्वसंभवात् । वसन्ते वसन्ते ज्योतिषा यजेतेति वाक्ये (जै. सू. 8-2-11 ) वीप्सा बलात् सर्ववसन्तकाल सम्बन्धित्ववत्सर्गे सर्ग इत्यात्रापि वीप्सा बलात् सर्वसर्ग सम्बन्धित्वस्य भगवत् सकाशाच्चतुर्मुखोत्पत्तौ प्रतीयमानत्वात् । तथा ।

बीप्सायाः नित्यताधिकरणम् :-

इदमाम्नायते – ‘सोमेन यजेत ’ ‘खाध्याय मधीयीत ’ प्रजामुत्पादयेत्’ इति । तत्र सोमः काम्यः, ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति कामसंयोगे - नाम्नातत्वात् । अध्ययन प्रजोत्पादनयोरपि विश्वजिन्नयायेन खर्गे फलत्वेन कल्पिते कमियोगोऽपि कल्प्यते । तस्मात् - इदं त्रयं काम्यमिति चेत् ।

मैवम् । वीप्सादिना नित्यत्वसिद्धेः * वसन्तेवसन्ते ज्योतिषायजेत ’ इति बीप्सा प्रतिवसन्तं निमित्तीकृत्य सोमयागं विधत्ते । अध्ययनस्य तु न स्वर्गः फलम् दृष्टप्रयोजनस्यानुष्ठेय विज्ञानस्य सम्भवात् । तत्र क्रत्वनुष्ठानस्य नित्यत्वात्तद्धेतोरध्ययनस्यापि नित्यत्वमनिवार्यम् | अनुत्पाद्य सुतान्न लोकं गच्छति ’ इति स्मृतेर्लोक सिद्धयर्थमुत्पादनस्यापि नित्यत्वम् । अनेनैवाभिप्रायेणेदमाम्नातम् ’ जायमानो हवै ब्राह्मणस्त्रिभिरृणवा जायते । ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्यः एषवा अनृणो यः पुत्री यज्वा ब्रह्मचारी इति । अत्र ब्राह्मण ग्रहणमितरयोरप्युपलक्षणार्थम् । सोमादि विधिषु विशेषस्याश्रवणात् । तस्मात् सोमादिकं नित्यम् । (जै. सू. 8-2 - 11 )

320

‘कल्पादावुद्भवत्येते कल्पान्ते यान्ति संहतिम् ।

ब्रह्मेशानादयो विष्णुरेकस्तिष्ठति सर्वदा ॥

पुरायः प्रलये प्राप्ते नष्टे स्थावरजङ्गमे । ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे ॥ आभूतस्संलवे प्राप्ते प्रलीने प्रकृतौ महान् ।

एकस्तिष्ठति विश्वात्मा सतु नारायणः प्रभुः ॥ '

इत्यादि वचन विरोध उद्भाव्यः । तस्मान्न देवतान्तरसाम्यं भगवत: प्रमाणपदवी अधिरोहतीति दिक् ।

नन्वस्तु मूर्तित्रयैक्यपक्षः । तत्र च नानेकेश्वराभ्युपगमदोषः । न वा हिरण्यगर्भादिकारणत्वप्रतिपादक वाक्येषु कस्यचित् बाधः । न च न ब्रह्मा नेशान इति व्युदासानुपपत्तिः । तादृशविग्रहविशिष्टतया प्रलयकालसत्वनिषेधपरत्वेनोपपत्तेः । शिवहिरण्यगर्भादिकारणत्वप्रतिपादकवाक्यानि तु कृष्णादि कारणत्व प्रतिपादकवाक्यत्रास्तवैक्यमादायोपपद्यन्त इति चेत् - उच्यते - अपहतपाप्मादिव्योदेव एको नारायण इत्यपहतपाप्मत्वेन श्रुतस्य ’ भगवतोऽनहत पाप्मा वा अहमस्मिनाममेघेही’त्यत्रानपहतपाप्मत्वेन श्रुतेन शिवेन न तावदैक्यं सम्भवति विरोधात् ।

नापि चतुर्मुखेनैक्यं ’ स प्रजापतिरेकः पुष्करपर्णे समभवदिति’ कार्यत्व श्रवणेन तस्य कर्मवश्यत्वावश्यंभावात् न चावताररूपत्वेन तदुपपन्नमिति वाच्यम् । तयात्व ग्राहकप्रमाणाभावात् । न चाजायमान इति वाक्यमेव तस्यावताररूपत्वे प्रमाणं तस्य प्रजापतिश्चरति गर्भे अन्त इति प्रजापतिविषयकत्वावगमादिति वाच्यम् । पुरुषशब्द श्रवणेनैषा वैष्णवीनाम संहितेति सूक्तस्य वैष्णवत्वोक्त्या अनन्यथा सिद्धलक्ष्मीपतित्व लिङ्गेन च तस्य भगवद्विषयकत्वात् तस्य त्वष्टाविदधदूप मेतीत्युपक्रम श्रुतत्वष्टृशब्देन प्रजापतिशब्दस्य स्वार्थपरत्व प्रच्यवनात् । न च कर्मवश्यत्वावगम बलात् विश्वकर्मणो न त्वष्टृशब्दस्य स्वार्थपरत्वमिति वाच्यम् । चतुर्मुखस्यापि ।

321

ब्रह्माचाः सकला देवा मनुष्याः पशवस्तथा । विम्णुमायामहावर्तमोहांधतमसा वृताः ॥

प्रजापतिं च रुद्रं चाहमेव सृजामि वै ।

तौ तु नूनं न जानीतो मम मायाविमोहितौ ॥

प्रत्यादिषु तथात्वावगमात् । न च शिवहिरण्यगर्भादिकारणत्वप्रत्यायकवचना-

चाय तदैक्याभ्युपगम इति वाच्यम् ।

‘अहो बत महादुःखं वेदनाजननं मम ।

प्राप्तं धुनोति हृदयं तीव्रशोकमयं स्वयम् ॥ कोहि शोकार्णवे मग्नं मामिहाद्य समुद्धरेत् । ब्रह्महाकुलितो भूत्वा चरैस्तीर्णानि भूतले ॥ तमोहठादवाकू देवी हिमक्तं शिलोच्चयम् ॥’

इत्यादिषु वेदापहारगुरुपातकादिनिमित्तदुःखत्वस्य ब्रह्मादिष्वपि श्रवणेन तदैक्यं न परब्रह्मण इति तुल्यम् ।

न चैवं रामायणादिषु नारायणस्य सीतापहरणादिनिमित्तदुःखक्त्वप्रतिपादनात् कथं परब्रह्मत्वमिति वाच्यम् ।

ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तुं कीनाश इव दुर्लभः ॥

तेन वचयते लोकान् मायायोगेन केशवः ॥ '

इत्यादि प्रमाणबलात् । दुःखित्वामिनयस्य तामसजनमोहनार्थत्वेन तत्प्रतिपादकत्वेन रामायणादीनां वस्तुतो दुःखित्वसाधकत्वासम्भवात् । न चाजायमान इति वाक्यमेव त्रयाणां कर्मवश्यत्वाभावं प्रतिपादयति । वस्तुतस्त्रयाणामैक्यादिति वाच्यम् । परस्पराश्रयप्रसङ्गात् ब्रह्मरुद्रयोर्भगवता एकीभावसिध्या अजायमान इत्यनेन ब्रह्मरुद्रयोर्जननस्यावताररूपत्वसिद्धिः । तयोर्जननस्यावतारत्वसिद्धौ कर्मवश्यत्वराहित्यान्नायोग्यार्थत्वमिति भगवता तयोरैक्य सिद्धिरिति ।

41322

नारायणस्यैव

तस्मात् साम्यैक्योत्तीर्णव्यक्त्यन्तरपक्षाणामसम्भवात् परब्रह्मत्वं पूर्वपरिच्छेदोदाहृत श्रुतिबलं अभ्युपगन्तुं युक्तम् । तदुक्तमाचार्यपादैः - ‘आत्मैक्यं देवतैक्यं त्रिकसमधिकतातुल्यतैक्यं त्रयाणां अन्यत्रैश्वर्यमित्याच्चनिपुणभणितीराद्रियन्ते न सन्तः । वय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिमिश्च श्रीमन्नारायणो नः परनिखिलतनुर्मुक्तिदो मुक्तिभोग्यः’ इति ।

एतेन ’ परमात्मविभागत्वं ब्रह्मादीनां सुरर्षभाः ।

समानमपि रुद्रस्तु वरिष्ठो नात्र संशयः ॥ '

इत्यादिवचनबलाच्छिवस्य ब्रह्मविष्ण्यपेक्षयातिशयित्वमिति निरस्तम् ।

केषाञ्चनसूतसंहितादिवचनानामर्थतथात्वसाधकत्वं तेषां वचनानां तामस पुराणस्थत्वेन यथार्थज्ञानमूलत्वाभावात् । ननु महर्षिप्रणीतेषु पुराणेषु केषांचिदयथार्थज्ञानमूलकत्वं इति कथमिदं वैषम्यमुपपद्यत इति चेत् ।

अन|हुरस्मदाचार्याः मात्स्ये । ’ सङ्कीर्णास्सात्विका श्चैव राजसास्ता-

मसास्तथे ‘ति कल्पविभागमुक्त्वा

यस्मिन् कल्पे यत् प्रोकं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते 11

इति अनेन ततत्कल्पप्रोक्तपुराणेषु तत्तत्कल्पसम्बन्धिदेवतामाहात्म्य वर्णनं तत्तगुणमयेन ब्रह्मणाप्रोष्यत इति प्रतिपाद्य कस्य माहात्म्यं कस्मिन् कल्पे वर्ण्यत इत्याकाङ्क्षायां ।

‘अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥

सङ्कीर्णेषु सरस्वत्याः पितॄणां न निगद्यते । सात्विकेषु सकल्पेषु माहात्म्यमधिकं हरेः ॥

तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥ '

323

ते प्रतिपादनाच्छिवचतुर्मुखा तिशयप्रतिपादक पुराणानां रजस्तमोमूलकत्वाषवेन भगवत्पारम्यप्रतिपादकपुराणानां च सत्वमूलकत्वावगमेन च वैषम्यं वो नापन्होतुं शक्यम् । सत्वस्य च यथार्थज्ञानहेतुत्वं रजस्तमसोश्चान्यथा इनविपरीतज्ञानहेतुत्वम् ।

'

सत्वात् सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतो ज्ञानमेव च ॥ प्रवृत्तिं च निवृर्ति च कार्याकार्ये भयाभये । बन्धं मोक्षं ययावेत्ति बुद्धिस्सापार्थसात्विकी || यया धर्ममधर्म च कार्यञ्चाकार्यमेव च । अयथावद्विजानाति बुद्धिस्सापार्थराजसी ॥

अधर्म धर्ममिति या मन्यते तमसावृता ।

सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थ तामसी ||

इत्यनेनावगम्यते । ननु चतुर्मुखशिवादिप्रतिपादकपुराणानां रजस्तमोमूलत्वरवचनस्य रजस्तमोमूलत्वेन प्रामाण्याभावात् सात्विकपुराणप्राबल्यासिद्धिः । अस्य वचनस्य समूलत्वे प्रमाणं नास्ति । अत एव तद्वचनमात्रस्याप्रामाण्यं युक्तम् । न तु बहूनां पुराणानां भूयसां बलीयस्त्वात् । उच्यते - न तावदस्य वचनस्य प्रामाण्ये विमतिर्न्याया । बाधकादर्शनात् स्वतः सिद्धप्रामाण्यस्यानपोदिवात् । यो छ खलु वास्य राजसशस्सोसो ब्रह्मचारिणो योयं ब्रह्मा, योह स्खलु षास्य सात्विकशस्सोसौ ब्रह्मचारिणो योयं विष्णुः, योह खलु वास्य तामसोशस्सोसौ ब्रह्मचारिणो योयं रुद्रः’ इति । महान् प्रमुर्वै पुरुषस्सत्वस्यैष प्रवर्तक इति च । स्मृत्यागण्येन तत्तद्गुणमयत्वेनावगतस्य तत्तत्तत्वस्य तत्तत्कल्पे तत्तद्गुणमयेन ब्रह्मणा तेषु तेषु पुराणेषु प्रतिपादितत्वपरवचनस्य उपपन्नार्थत्वाच्च सकलशास्त्रार्थव्यवस्थापके भारते च मोक्षधर्मे ।

’ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।

सात्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥ '

324

इत्यादिना भगवत्कटाक्षेण सत्वमूलसम्यग्निश्चयमुक्त्वा ।

पश्यत्येनं जायमानं ब्रह्मा रुद्रो यथा पुनः ।

रजसा तमसा चास्य मानसं समभिप्लुतम् ॥’

इति चतुर्मुखशिवयोः कटाक्षेण रजस्तमोमूलकालुष्यप्रतिपादनाच्च । चतुर्मुखशिवप्रतिपादकप्रबन्धानां रजस्तमोमूलत्वमुपपद्यते । अस्य वचनस्य रजस्तमोमूलपुराणस्थत्वेऽपि नाप्रामाण्यं शङ्कनीयम् । ब्रह्मशिवप्रतिपादनामिविष्टस्य प्रबन्धस्य भगवत्प्रकर्षोक्तावाग्रहासम्भवेनास्य वचनस्य तत्वपरत्वोपपत्तेः । स्वप्रतिपाच देवतायामेव हि वक्तुराग्रहसम्भवः । नत्वन्यत्र । तस्मान्नास्य वचनस्य कारणदोषसम्भवः ।

यदुक्तमनेकपुराणाप्रामाण्या देतद्ववचनमात्राप्रामाण्यं युक्तं भूयसां बलीयस्त्वादिति तदयुक्तम् । साक्षादर्यविरोधाभावात् । नहि विविशिवप्रतिपादकप्रबन्धानां रजस्तमोमूलत्वं नेति तेषु पुराणेषु अवगम्यते । तत्तत्प्रबन्धेष्वेव प्रमाणतया प्रतिपन्नानां तेषां प्रामाण्यं रजस्तमोमूलत्वच विरुद्धमिति परम्परया विरोधः फलितः । तत्र भूयसां बलीयस्त्वमिति चेत् यदि केवलतद्वचनमात्रविरोधेन तेषां अप्रामाण्यं तदा स्यादयं दोषः पुराणानां परस्परविरोधेन सर्वेषामविशेषेण प्रामाण्ये अनुपपन्ने सर्वाप्रामाण्यादपि कतिपयप्रामाण्यसिध्यनुगुणनिर्वाह न्याय्ये सति कस्य प्रामाण्यं कस्यचाप्रामाण्यमिति अपेक्षायां विषयव्यवस्थामानपरत्वात् अस्य वचनस्य । अतोऽनेन सत्वादिमूलत्वेनान्विते सत्यदुष्टमूलैः प्रबन्धैः दुष्टमूलप्रबन्धबाधः । अतो न भूयसां बलीयस्त्व नयनेनैतद्वचनबाधः । भगवत्प्रतिपादकपुराणेभ्यो विविशिवप्रतिपादकपुराणबाहुल्यात् तत्प्राबल्यमिति चेत् इदं तावद्वचनम् बाषितम् । इह भूयसां बलीयस्त्वनयानवतारात् । एवं बाधकराः । तेन वचनेन सत्वादिमूलत्वे पुराणानामवगते सति दुष्टमूलपुराणबाहुल्यमदुष्टमूलमेकमपि पुराणं न बाधितुं प्रभवति, नहि भ्रान्तपुरुषसहस्रवचनैरेकस्याभ्रान्तस्य वचनं बाध्यते । अतो भगवत्प्रतिपादकानां सत्वमूलत्वान्न कारणदोषसम्भवः । श्रीमद्वैष्णव पुराणस्य तु बहूनि वैलक्षण्यानि

325

सन्ति । तथाहि तस्य प्राच्योदीच्यादिसर्वविद्वज्जनविदितस्य पुराणान्तरेभ्योपि सिद्धिप्राचुर्याद्धर्मशास्त्रेषु मानवस्येव व्याकरणेषु पाणिनीयस्येव सजातीयप्रबन्धेभ्यः प्रकर्षातिशयो नापहोतुं शक्य इत्येकं वैलक्षण्यम् । तत एव प्रसिद्धिप्रचुर्यात् कौर्मादेरिव नष्टकोशत्वशङ्का दूरोत्सारितेत्यपरं वैलक्षण्यम् । अनतिविस्तरत्वाश्च । पक्षोपप्लवशङ्का नाक्तरति । अन्यपरोक्तिप्रसिद्धपरिग्रहातिशयं च दम्परं पराशरसन्दर्भमिति । तथा वक्तृवैलक्षण्यं च प्रत्यक्षश्रुतिसिद्धम् । सहोबांच व्यासः पाराशर्य’ इति । अत्र पराशरात्मजत्वेन व्यासोत्कर्षउच्यते । तथा लैङ्गेऽपि पराशरवैलक्षण्यं प्रतीयते । यथा तत्र द्वितीयेऽध्याये ।

’ पराशरस्यावतारो व्वासस्य च शुकस्य च ।

'

विना तं राक्षसानान्तु कृतं वै शक्तिसूनुना ॥ ’ .

इति । अन पराशरस्यावतार इत्युक्तिर्हि प्रकर्षातिशयार्थः । अन्यथा पराशरस्य चोत्पत्तिर्व्यासस्य च शुकस्य चेष्यपि हि वक्तुं शक्यते । पुलस्त्यवसिष्ठवरदानलब्धदेवतापारमार्थ्यज्ञानवरस्य च महद्वैलक्षण्यम् । वरलामे सत्येतत् पुराणप्रामाण्यं तत् प्रामाण्ये सति तत्प्रतिपन्नवरलाभसत्यत्वमित्यन्योन्याश्रय इति न वाच्यम् । वरलाभवचनस्य पराशरो न लब्धवर इति बाधकप्रत्ययाभावेन स्वतस्सिद्धप्रामाण्यस्यानपोदितत्वात् । लैङ्गे च देवतापारमार्थ्यज्ञानलाभः पराशरस्यावगम्यते । यथा तत्र द्वितीयेऽध्याये ।

’ देवतापारमार्थ्ये च विज्ञानं च प्रसादतः ।

पुराणकारणं चैव पुलस्त्यस्याज्ञया गुरोः ॥ '

इति । तत्रैव त्रिषष्टितमेऽध्याये |

6

अतस्तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः । प्रसादाद्वैष्णवं चक्रे पुराणं स पराशर ॥’ इति ।

षट्प्रकारकसमस्तार्थसाधकज्ञानसंश्रयः ।

दशसाहस्रममितं सर्ववेदार्थसंयुतम् ॥’

326

इत्यनेनास्य पुराणरत्नस्य सर्ववेदार्थसंयुतत्वं अत एव समस्तपुरुषार्थसाधकज्ञानप्रसादकत्वं चोच्यते । अतो वक्तृवैलक्षण्यं प्रबन्धवैलक्षण्यं च पुराणान्तरसिद्धमिति तत् दुरपह्नवम् ।

इदश्चापरं सुमहद्वैलक्षण्यं यत्सामान्यप्रश्नपूर्वक विशेषनिष्ठप्रतिवचनरूपत्वं ।

सोहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।

बभूव भूयश्च यथा महाभाग भविष्यति । यन्मयं च जगह्रक्षन् यतश्चैतचराचरम् ॥

इत्यादिना सामान्येन पृष्टे विष्णोः सकाशादुद्भूतमिति विशेषनिष्ठं प्रतिवचनं झवगम्यते । विशेषे पृष्ठे सति प्रतिवचनस्य पक्षपातेन तदुत्कर्षकथनं प्रशंसामादापरं न तत्परमिति शङ्कनीयं स्यात् । सामान्येन पृष्टे सति प्रतिवचनमर्थवशाद्विशेषे व्यवस्थितमिति तत्परत्वमेव स्यात् अतश्च ।

तस्मात् भवन्तं पृच्छामि सूतपौराणिकाथ तु ।

पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसम्युताम् ॥ '

इति विशेषनिष्ठप्रश्नोपक्रमतत्प्रतिवचन रूपपुराणान्तरेभ्यः प्रकर्षातिशयः स्पष्टतमः ।

एतत्पुराणार्थश्च लैङ्गादिषु कचित् कचिदङ्गीक्रियते । यथा लेने

द्वितीये पुराणार्थक्रमेण,

‘सर्वावर्तषु विष्णोश्च जननं लीलयैव तु ।

विष्णोः प्रसादाजिष्णोश्च विष्णोश्चैव तु संभवः ॥ ’ तत्र लीलयाचैव कृष्णेन खकुलस्य च संहृतिः । जननं तच्छलेनैव गमनं स्वेच्छयैव तु ॥ '

इति भगवदवतारस्य भूलोकपरित्यागस्य च लीलामात्रनिबन्धनत्वं हि तत्रोच्यते । अत एतत्पुराणार्थस्यान्यत्राभ्युपगन्तव्यत्वात् अप्रकंप्यत्वमवगम्यते । तर्हि एतदैकार्थ्यात् तान्यपि पुराणानि प्रमाणानि स्युरिति चेन्न । कायेंनाविरुद्धत्वाभावात् । भगवदुत्कर्षप्रतिपादकांशांस्तु तस्मिन्नंशे आग्रहाभावादा-

327

दरणीय इति पूर्वमेवोक्तम् । अस्य च पुराणस्य कार्त्स्न्येनाग्रहमूलत्वच उपक्रमगतप्रश्नखभावात् अवगतमिति चोक्तम् । अतोन्यत्र बद्धाप्रहैरपि आदरणीयखोकार्थत्वमप्रकम्प्यता हेतुः ।

किञ्च पुराणांतरेष्विवास्य पुराणस्य न खव्याहतार्थप्रतिपादकं प्रदृश्यते । कार्त्स्न्येन भगवत्प्रकर्षस्यैवावगमात् । पुराणान्तरेषु व्याघातः प्रतीयते । यथा लेगे ।

’ युवां प्रसूते गातेभ्यो मम पूर्व सनातनौ ।

'

अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ।

वामपार्श्वे च मे विष्णुः विश्वात्माहृदयोद्भवः ||’ इति ।

ततः प्रइष्टः सुमनाः प्रणिपत्य महेश्वरौ ।

प्राह नारायणो देवः सलिङ्गं निवर्जितम् ॥

यदि प्रीतिः समुत्पन्ना यदि देवोवरश्च नौ ।

भक्तिर्भवतु नोनन्या त्वयि चाव्यभिचारिणी || '

इति । हरिविरिश्वयोः शिवादुत्पत्तिः । तदाराधनवरणादिकमुक्तम् । तत्र

कचित् ।

’ त्वत्कोपसंभवो रुद्रः तमसा च समावृतः ।

त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः ॥ '

इति चतुर्मुखशिक्योर्भगवत्प्रसादकोपसंभवत्वमुक्तमिति स्वव्याघातः । न च

वासुदेवादेरुत्पत्तिवत् कैलासयात्रादिवच्च

रित्यविरोधः । पुराणरत्न भारतादौ ।

रुद्रादुत्पत्तितदाराधनरूपलीलोक्ति-

‘मनसैव जगत्सृष्टिं संहारं च करोति यः ।

तस्यारिपक्षक्षपणक्रियानुद्यमविस्तरः ॥ तथापि यो मनुष्याणां धर्मस्तदनुवर्तनम् । कुर्वन् बलवता सन्धि हीनैर्युद्धं करोत्यसौ ||

328

साम चोपप्रदानञ्च तथा मेदप्रदर्शनम् । करोति दण्डपातश्च कचिदेव पलायनम् ||

मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । लीलाजगत्पतेस्तत्र छन्दतः सम्प्रवर्तते ॥ ईशानोऽपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यालभते कर्तुं कीनाशा इव दुर्बलाः ॥ तेन वञ्चयते लोकान् मायायोगेन केशव ।

ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः || '

तत्र प्रसक्तापकर्षपरिहारप्रन्यादर्शनात् भारतादिषु दशरथ-

सुदेवादीनां रामकृष्णाद्यपेक्षया परत्वस्य जगत्कारणत्वादिमुखेन प्रतिपादनाभावादिह च भगवदपेक्षया रुद्रपरत्वस्य प्रतिपादनाच्च । अतः खव्याघातो दुष्परिहारः । न चात्र स्वव्याहतिः प्रतीयत इति इदं च महद्वैलक्षण्यम् । उक्तलक्षणप्रकर्षवतो वैष्णवपुराणस्य कारणदोषबाधकप्रत्यय खव्याहति मत्प्रबन्धान्तरस्य विरोधेऽपि पुराणरत्नस्य प्राबल्यमन्येषां च दौर्बल्यं स्पष्टम् । एवं प्रसिध्यतिशयलब्धसजातीयप्रबन्धप्रकर्षयत्वात्तत एव नष्टकोशत्वाभावात् अनतिविस्तृतया प्रक्षेपशङ्कारहितत्वादन्यपरोक्तिसिद्धपरिग्रहातिशयत्वात् सामान्य-

एवेदृशवैलक्षण्यरहितस्वन्याहतिमत्

1

प्रश्नपूर्वप्रतिवचनरूपत्वेनानाप्रहमूलत्वादत प्रबन्धान्तराणामेव तद्विरोधे सति दौर्बल्यस्यावर्जनीयत्वाच्च । श्रीमद्वैष्णवमिदं

I

पुराणं प्रमाणतमं । तस्माद्वैष्णव पुराणादिविरुद्धानां सूतसंहिता दिवचनानां नार्थतथात्वसाधकत्वमिति ।

अत्र कश्चित् – उदाहृतवचनजातं ब्रह्मविष्णुरुद्राणां परस्परस्मादुत्कर्ष विभावयतां पुराणानां मिन्नमिन्नकल्पवृत्तान्तविषयत्वप्रदर्शनेनाविरोधेन सर्वपुराणप्रामाण्योपपादनपरम् । ननु केषाश्चिदप्रामाण्योपपादनपरं । तथा हि । यथा ग्रीष्महेमन्तादीनामुष्णागमहिमागमत्वादिव्यपदेशस्तत्कालेषु उष्णतुहिनाबुत्कर्षात् । यथा च पुरुषाणां सात्विकादिव्यपदेशस्तत्तत्पुरुषेषु सत्वादि-

329

बर्षादेवं सङ्कीर्णा सात्विकाः इत्यादिश्लोकेन कल्पितानां सात्विकादिबेन्यगस्तत्तत्कल्पेषु परमशित्राज्ञापालनसत्वात्कर्षादेव । ननु तत्तत्कल्पानयिनो ब्रह्मणस्तद्गुणोत्कर्षात् । तत्र तथा कण्ठोक्त्यभावात् प्रयोजनानुछत् तथा विभागाभिप्रायः कल्प्यत इत्यप्ययुक्तम् । मात्स्य एवं प्रतिपादितम् ।

पुराणं मानवो धर्मस्साङ्गोवेदश्चिकित्सकम् ।

आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुमिः ॥ '

इति पुराणमात्र प्रामाण्यं विनीतमहाजनपरिग्रहं चानादृत्य केषाश्चित् पुराणानां भ्रान्तिमूलत्वकल्पनस्य वैदिकमार्गविद्वेषविजृम्भितस्यप्रयोजनत्वायोगात् । परमते क्षेत्रपुराणानां प्रामाण्यस्य भूयसश्चार्थस्य बाघेन सर्वथैववर्जनीयत्वात् । अस्मयुक्तरीत्यासात्विकादि कल्पविभागस्य श्रौत्सर्निकसकल्वैदिकसम्मत निखिल - पुराण प्रामाण्योपपादनेन तत्रैव । ’ तेष्वेव योगसंसिद्धागमिष्यन्ति परां गतिमि ति सात्विककल्पवाक्यशेषात् । कौमें सात्विककल्पान् प्रस्तुत्य ।

’ दानं तपस्तथाज्ञानं लब्ध्वा तेष्वेव योगिनः ।

आराध्य मां च गिरिशं यान्ति तत्परमं पदम् ॥ '

इति वचनाच्च तपश्चरणादीनामुत्कृष्टापकृष्ट कालप्रदर्शनेन प्रयोजनत्वाच । न च यस्मिन् कल्पे तु यत्प्रोक्तं इत्यनन्तर श्लोकः पुराणानां तचत्कल्पेषु ब्रह्मप्रणीतत्वविधिपरः । किन्तु तत्तत्कल्पेषु ब्रह्मणा प्रणीतानि परस्परविरोधत उत्कर्षापकर्षप्रख्यापनपराणि पुराणान्यनूध तेषां तत्कल्पप्रवृद्धदेवता विशेषमहिमावर्णनावृत्तविधिपरः तद्वृत्तमेकारश्चस्यादुपादेयलक्षणमित्यमियुक्तोकेः । यद्यपि तत्र श्लोके । ’ तस्य तस्य तु माहात्म्यमिति तत्तत्कल्पमाहात्म्यमिति तत्तत्कल्पमाहात्म्यवर्णनात्मत्वविधिरेव प्रतीयते । तथापि पुराणानां स्वरूपेण कल्पमाहात्म्यवर्णनार्थं प्रवृत्तिस्तेषु देवताविशेषमाहात्म्यवर्णनस्यैवोपलम्भादग्नेश्शिवस्य माहात्म्यमित्यनन्तरसन्दर्भानुरोधाश्च तत्तत्कल्पमाहात्म्यवर्णनपरत्व विधिः । तत्तत् कालोद्रिक्तगुणानुगुण देवता माहात्म्यवर्णनात्मकविधावेव पर्यवस्यति । एवश्वा-

42

}

330

नन्तरश्लोके प्रतिपाद्यमानोर्थः परमत एव न सङ्गच्छेतेति तत्सङ्गत्यनुरोधादपि - सात्विकादिविभागोऽस्मदुक्तरीत्यैवास्थेयः ।

वस्तुतस्तु तत्तत्कपल विशेषेषु ब्रह्मणा प्रणीतानि न तानि । किन्तु सर्गाद्यकृतयुगे वेदप्रवर्तनकाले अविभक्तब्रह्मादिप्रभेदोयं पुराणस्कन्धः शतकोटिप्रविस्तरो युगपदेव तेन प्रणीतः । तस्यैव पुनस्त्रेतायां ब्रह्मादिमिरष्टादशऋषिमि रष्टादशधा विभज्यग्रन्थकोट्या संक्षेपः कृतः । मात्स्य एव ।

6

पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणाकृतम् ।

अनन्तरन्तु वक्त्रेभ्यो वेदास्तस्य विनिर्गता: । पुराणमेकमेवासीत् शतकोटि प्रविस्तरम् ॥’

इत्यारभ्य तदर्थोत्र चतुर्लक्षैः संक्षेपेण निवेशित इत्यन्तेन तथा प्रतिपादनात धर्मसंहितायामपि ।

’ ब्रह्ममेव कृतेचा पुराणं धर्मसंहितम् ।

अष्टाविधव्रतन्तञ्चत्रतं कोटिप्रमेदतः ॥

इत्यादिना तथा प्रतिपादनाच्च । तथा च तदनुरोधाद्यस्मिन् कल्प इति कल्पमेदेषु पुराणविशेषाणां प्रवचनमात्रपरं न प्रणयनपरं ’ तेन प्रोक्त पाणिनि सूत्र इत्र प्रोक्तपदेन प्रवचनमात्रार्पणादिति नानुवाद स्वारस्यादपि सात्वि विभागः पराभिमत प्रयोजन इति ।

अन्ये तु सर्गाथकृतयुगेऽपि पुराणस्कंधो न ब्रह्मणाप्रणीतः । तदानीं वेदैःसह परमेश्वरात् गृहीत्वा तेन प्रवृत्तिः ‘यो वै वेदांश्च प्र तस्मा’ इति चशब्देन पुराणस्कन्धस्य समुच्चयात् । ’ तस्मै वेदान् पुर दत्तवानग्रजन्मनः । इत्युपबृंहणदर्शनात् अस्य महतो भूतस्य निश्वसि ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेद इतिहासः पुराणमित्यादिश्रुत्या अष्टा विद्यानां एतासां भिन्नवर्त्मनां । श्रुतः कविः साक्षत्च्छूलपाणिरिति १ तदुपबृंहणेन भूयस्स भगवान् ध्यात्वा चिरं शूलवरायुधः । अस

·

'

331

शाखाणि महादेवो महेश्वर’ इत्यादिना ’ इत्येतेशङ्करप्रोक्ता विद्यारशब्दार्थता’ इत्यन्तेन राजधर्मवचनेन च सर्वविद्या स्थानानामपि परमेश्वरकर्तृकत्वपादनाचेति वदन्ति । तत्पक्षे तु कथंचिदपि कृतचोद्यावकाशः । तस्मासद्गुणोत्कर्षकालत्वेन कल्पानां सात्विकादिविभागपर : ’ सङ्कीर्णा इत्यादि - कः । यस्मिन् कल्पेत्विति श्लोकस्तु पुराणानां तत्तद्गुणोत्कर्षप्र चुरितकल्पमेद -वृद्धतत्तद्देवतामाहात्म्यवर्णनपरत्वेन । ’ यथर्तावृतुर्लिङ्गानि नानारूपाणि - न्वये । दृश्यन्ते तानि तान्येत्र तथा भावायुगादिष्विति पौराणिक श्लोकवदक्रोधप्रदर्शनपर इत्येव युक्तम् । एवं प्रदर्शितमविरोधं सत्याद्युत्कर्षसमयेषु तदुपाधिगुणमूर्त्यत्कर्षस्यौचित्यरूपेण वस्तुसामर्थ्येनोपपादयितुं देवतान्तराणामपि ईषाञ्चित् कल्पभेदेषूचितोत्कर्षप्रयोजकमुपाविविशेषं च दर्शयितुमनेः शिवस्य यहात्म्यमित्यादिना तु परोक्तरीत्या किं गुणकेन ब्रह्मणाप्रोकं पुराणं किं देवतासमिति जिज्ञासायां तद्विशेषं दर्शयितुं सात्विकेष्वय कल्पेष्वित्यत्र कल्पग्रहणेन नाविकादिशब्दानां कल्पपरत्वेन पुराणपरत्वाभावात् कल्पविशेषेषु च माहात्म्यमधिकं हरेरिति स्वतः सम्भावितमाहात्म्याधिक्यस्य प्रतिपादनात् निराकाङ्क्षा-

क्ये निगम्यत इत्यादि पूर्ववाक्यश्रुत क्रियानुषङ्ग कल्पनायोगात् । पूर्ववाक्येषु प्रकीर्त्यते विदुर्निगद्यत इत्यादि क्रियाश्रवणेन तामसकल्पे असन्नप्यग्नेरुत्कर्षः कीर्त्यते परमित्यादिक्रमेण पूर्ववाक्यानां कथचितुं शक्यत्वेऽपि ‘सात्विकेष्वथकल्पेषु माहात्म्यमधिकं हरेरि’ति हरेरुत्कर्षस्य कल्पविशेषव्यवस्थाप्रतिपादनदर्शनेन पूर्ववाक्यानामपि देवताविशेषमहिम्नां कल्पविशेषव्यवस्थाप्रतिपादन-

परत्वावसायात् ।

‘असंख्याताः स्मृताः कल्पाः ब्रह्मविष्णु शिवात्मकाः ।

कथिताश्च पुराणेषु मुनिभिः कालचिन्तकैः ॥ सात्विकेष्वयकल्पेषु माहात्म्यमधिकं हरेः ।

तामसेषु महेशस्य राजसेषु प्रजापतेः ॥ ‘332

इति । कौर्मे ।

’ कचिद्रह्मा कचिद्विष्णुः कचिद्रुद्रः प्रशस्यते । नानेन तेषामाधिक्यं न्यूनत्वं वा कथञ्चन ॥ तत्तत्कल्पान्त वृत्तान्तं अधिकृस्यमहर्षिभिः ।

तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति ॥ '

इति । वायुसंहितायाश्च स्पष्टमेव कल्पमेदेन ब्रह्मादीनामुत्कर्षापकर्षप्रतिपादनाच्च । तस्मात् परोदाहृत मात्स्यवचनैरेव सर्वपुराणानां प्रामाण्य व्यवस्थापनात् तद्विरोधादेव न युक्तः परेषां केषाश्चित् पुराणानां अप्रामाण्या

शहा ।

किञ्च तेषां परोक्तार्थपरत्वेऽपि शैवपुराणादीनां तद्रूपगुणाद्युपाधिकब्रह्मप्रणीतत्वमात्रं सिध्येत् । नत्वप्रामाण्यं । केषांचित् ’ ज्ञानप्रतिबन्धश्च वैराग्यं

I च जगत्पतेः । ऐश्वर्यं धर्मश्च चतुष्टयमिति ब्रह्मणोऽव्याहतज्ञानशक्तित्वस्मरणात् । पुराणविशेषप्रणयनोपाधिभूतस्यापि तमसः परब्रह्मणः संहर्तृत्वोपाधिभूतस्यैव तत्त्वज्ञानप्रतिबलत्वायोगात् । प्रयोगमूलज्ञानमदृष्टतरम्ध प्रयोगाप्रामाण्यानापादकत्वात् । यदि च ब्रह्माप्यस्मदादिवत् तमः प्रतिबद्धतत्वज्ञान इति तत्प्रणीतपुराणेषु कानिचिदप्रमाणानि स्युः । तदोदाहृतमात्स्य वचनेष्वपि तथात्वशङ्काया दुर्निवारत्वात् कथं तैः किञ्चिदर्थव्यवस्थासिद्धिः ।

यंतु अपवादकवचनादर्शनात्तेषामौत्सर्गिकप्रामाण्यानपाय इति तदपि मयुक्तम् । एकक्रतुपुराणानिसेतिहासानिकृत्स्नशः । एकत्रचेदमपरं एतदेवातिरिष्यते । धर्मनैपुण्यकामानां ज्ञाननैपुण्यकामिनां । इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम् ’ । इत्यादि कौर्मादि पठित तत्तत्पुराणोत्कर्ष प्रतिपादकानेकापवादश्रवणात् ।

यदपि वस्तुसामर्थ्यनौचित्यलक्षणेन प्रामाण्यमेषां स्थिरीकृतमिति तदपि तुच्छम् | भारतादिष्वसुरवृत्तान्तं वर्णयतोपि व्यासस्य सात्विकेन प्रतिपाच-

333

गुणानुरोधेन वक्तृगुणौचित्यस्यासिद्धत्वेन च तामसत्वेनापकर्षयोग्यस्य उत्कर्ष वितस्तामसत्वमुचितमिति एवमादिक्रमेणौचित्यं वित्रक्षितमिति वाच्यम् ।

करुद्रस्य संहारार्थं तमः परिग्रहस्यापकर्षहेतुत्वाभावात् ।

एतेन वैष्णव नारदीय गारुड भागवत पाभवराहपुराणानि सात्विनि । ब्राह्म ब्रह्माण्ड ब्रह्म वैवर्तमार्कण्डेयभविष्यद्वामन पुराणानि राजसानि ।

शैवाग्नेयस्कान्दकौर्ममात्स्यानि तामसानि । अतः तामसैर्लेङ्गादिभिरुक्तं न मिति केषाश्चिदर्वाचीनानां स्वदेशिकामिप्रायविरुद्धसात्विकादि विभागो-

प्रत्याख्यातः । तस्य सत्वाबुद्विक्तवक्तृकत्वादिविषयत्वासिद्धेः । सत्वादिगुणक देवतापरत्वविषयत्वे अस्माकं हान्यभावात् । सात्विकत्वाभिमते गारुडे शिवरहस्ये पाने शिवराघवसंवादाद्यनेक प्रदेशेषु च लैङ्गादिभ्योभ्यधिकं शिवोत्कर्ष व्यवस्थापन दर्शनेन विभागेन परदुराशा निर्वाहणायोगाच ।

यत्तु पुलस्त्य वसिष्ट वरदानलब्ध देवताविशेषमहिमविषयक श्नोत्तरनन्दर्भरूपपुराणान्तरवचनमिव न बुद्धिमेदं जनयेदिति न्यायेन प्रष्टुरमिमतार्थोपबन्धकृत इति नेतुमशक्यतयाऽनन्यथासिद्धत्वाच्च विष्णुपुराणं सर्वपुराणेभ्यः प्रसिद्धमिति तन्त्र । नहि पराशरादप्युत्कृष्टज्ञानशक्तिभिर्ब्रह्मविष्णुरुद्रैरनाद्यन्तन्तं परंब्रह्म नदेवा अपि यं विदुः । एकस्तद्वेदभगवान् आदित्यो ज्योतिषां पतिरित्यादिवचन प्रतिपन्नपरत्वावबोधैरादित्यादिभिश्व, पराशरेणापि कृतारशैव पुराणेषु शिवस्य परभावोपदेशा न दृश्यन्ते । न वा वायुसंहितादिषु परतत्व सामान्यप्रश्ने शिव: परतत्वमिति निर्धारणरूपोक्तक्रमेणावताराणि नोपलभ्यन्ते ।

इयांस्तु विशेषः । विष्णुपुराणे प्रष्टुरेकस्य प्रागेव शिष्यभूतस्य परिचितहृदयेन गुणासामान्य प्रश्नेपि तदीयपूर्वसिद्धभक्तिवर्धनाय तदनुकूल विशेषविषयमुत्तरमुक्तमिति वक्तुं शक्यम् । वायुसंहितायां तु परस्परं विवदमानानामनेकेषामृषीणां प्रश्ने प्रवृत्तमुत्तरं न तथा नेतुं शक्यमिति तस्मात् पुराणानां नैवं बलाबलविभागो युक्त इति ।

334

अत्रोच्यते । न तावत् सङ्कीर्णा इत्यादिवचनैर्विरुद्धदेवतोत्कर्ष प्रतिपादकविषयकत्वप्रदर्शनेन सर्वपुराणप्रामाण्योपपादनं क्रियत इति वक्तुं शक्यम् । असम्भवात् । तथा हि किं तमः प्रेरकत्वमहदहंकार स्रष्टत्वाद्यंशस्य शिव-

दादिगतत्वेन प्रतिपादितस्य कल्पभेदविषयकत्वं कल्प्यते, किं वाऽत्रान्तर-

तर्गतत्व विषयकस्य तत्तदंशगतस्य अथ परस्परनन्तृनन्तव्य -

,

भावदिह । यश परस्पर स्रष्टृत्वस्य । नाद्यः । ईश्वरानेकत्वदोषात् । चतुर्मुखसृष्टिपूर्वभाविनष्टृत्वस्य चतुर्मुखदिवस विषयत्वकल्पनानुन्मेषाच्च । शिवचतुर्मुखाचांधिक्यस्य कल्पविशेषगतत्वोक्तौ वस्तुतस्तत्तत् पुराणप्रधानप्रतिपाद्यार्थस्य तमः

पर्यवसाने सति सर्वपुराणाप्रामाण्यस्यैव मूर्धाभिषेकप्रसङ्गात् च ।

द्वितीयः । त्रयाणां प्रत्येकं सृष्ट्याद्यवान्तरकारणत्वस्य सर्वपुराणाभ्युपगतत्वेन तत्र विरोधाभावात् ।

ननु नारायणनियमनेन चतुर्मुखशिवयोरुत्पत्तिसंहारकर्तृत्वं वैष्णवपुराणेषु प्रतिपाद्यते । शिवनियमनेन चतुर्मुखस्य स्थित्युत्पत्ति कर्तृत्वं शैत्रपुराणेषु । एवं चतुर्मुखपरेषु तन्नियमनेनैतयोः स्थितिसंहारकर्तृत्वमिति विरोध इति चेत् कथमस्य विरोधस्य परिहारः । कल्पमेदेन त्रयाणां परस्परनियाम्य नियामकाभावोपपत्तिप्रदर्शनमुखेनेति चेन्न । एवं सति तत्तन्नियामकत्वादि कथनस्य तत्तत्परब्रह्मत्वतात्पर्यकस्य बाधप्रसङ्गेन सर्वपुराणाप्रामाण्यदोषस्य पूर्वोक्तस्य प्रसङ्गात् ।

ननु तत्तन्नियामकत्वकथनं परब्रह्मतात्पर्यकम् । किन्तु तत्तत्कल्पाधिक्य तात्पर्यकमित्येतद्वचनबलात् सिध्यतीति एवं समाधानस्य विष्ण्वादीनां परमकारणत्वप्रतिपादकवचनविरुद्धत्वात् । न च तेषां परस्परविरुद्धत्वेन स्ववाक्य प्रतिपादनासामर्थ्यान्नियामकत्वपरवचनस्य एवं समाधानमुपपद्यत इति वाच्यम् । तर्हि तादृशविरोधासमाधाने अवान्तरार्थं विरोधसाधनस्याप्रयोजकत्वात् । चतुर्मुखस्य नाभिपद्मजन्यत्वाण्डजन्यत्व प्रतिपादक वचनयोरिवानन्यसिद्धिवचनानां कल्पभेदविषयकत्वेन युक्त्युपपादनस्य न्यायबलात् सिद्धिसम्भवेन ततः पुराणानामप्रामाण्यप्रसक्त्यभावेन विरोधसमाधानकरणेप्यदोषाच्च ।

335

ननु त्रयाणां आधिक्यस्य कल्पमेदविषयकत्वोक्तौ त्रिषु न कस्यचिदपि करणत्वमित्येवं पर्यवसानेन कारणप्रकरणस्थ शिवादिशब्दानां लक्षणया गौण्या एतदतिरिक्तपरकर्तृत्वं परमकारणत्वविषयकवचनांशेप्यविरोधः समर्थितो भवतीति चैत्र । एवंहि त्वदभिमतपरमशिवकारणत्वस्य दत्तजलाञ्जलिकत्व प्रसङ्गात् ।

ननु परमकारणेशिवंवादिशब्दमात्रात्तुरीय शिवकारणत्वं न ब्रूमः । किन्तु उमार्धविग्रहत्वाद्याम्नायबलादिति चेत् । तर्हि :-

’ प्रधानं पुरुषंचैव प्रविश्यात्मेच्छया हरिः ।

क्षोभयामास सम्प्राप्ते सर्गकालेव्ययान्ययौ ॥

इत्यादिना परमकारणत्वेन प्रतिपादितस्य नागपर्यङ्कशयने शेते स परमेश्वर इत्यादि नागपर्यङ्कशायित्वप्रतिपादनेन विष्वादिशब्दानामपि न लक्षणा वक्तुं शक्येति विरोधस्यापरिहार्यत्वमवर्जनीयम् ।

ननु परब्रह्मणो विष्णुभिन्नत्वेऽपि सत्वमेददृष्टया नागपर्यङ्कशायित्वादिप्रतिपादनमुपपद्यत इति चेत् । न हि शिवमिन्नत्वेपि वस्त्वभेददृष्टया उमार्ध विग्रहत्वादि व्यपदेश इति शिवकारणत्वत्यागप्रसङ्गः ।

नन्वस्तु शिवकारणत्वासिद्धिः । नारायणकारणत्वासिद्धिरेवास्माकं प्रयोजनमिति चेन्न । कालमुहूर्तादिभ्यश्च कालोनयद्विभूतेः परिणाम हेतुः । कालस्यापि मृत्योश्च जङ्गमस्थावरस्य च । ईशते भगवानेक इत्यादि प्रमाणबलात् कालावच्छेदरहितैश्वर्यवत्वस्य भगवति प्रतिपादनात् तद्विरोघेन कल्पविशेष परिच्छिन्नत्वोक्त्ययोगात् । न च तत्रापि परब्रह्ममेदादृष्टयैव तथा च प्रतिपादनमिति वाच्यम् । तथा कल्पकासिद्धेः । इदमेव सात्विकेषु स कल्पेष्विति वचनं कल्पकमिति चेत् अन्योन्याश्रयात् । अस्य माहात्म्य परिच्छिन्नत्वप्रतिपादकत्वे सिद्धे एतद्वचनानुसारात् भगवन्माहात्म्यकालापरिच्छिन्नत्वप्रतिपादकवचनानामुपचरितार्थत्वे तेषामुपचरितार्थत्वे सिद्धे तद्विरोधाभावादस्य परिच्छिन्नत्व प्रतिपादकत्वमिति शिवमाहात्म्यस्य तयात्व प्रतिपादकान्यपि सन्तीति चेत् को नेत्याह । अत एव विरोधोदुरुद्धर इत्यस्माभिरुच्यते । सर्वपुराणस्थानां देवता-

336

विशेषवाचकशब्दानां लक्षणाद्यङ्गीकारेणाविरोधसमर्थनं कर्तुं शक्यमिति चेन्न । एवं सर्वपुराणस्थशब्दानां मुख्यार्थत्यागाङ्गीकारस्य मुखान्तरेण तदप्रामाण्यकोट्यन्तर्गतत्वात् । अन्यथा कृत्स्नमन्यस्थपदलक्षणाङ्गीकारेण विरोधसमर्थनस्य सर्वत्र कर्तुं शक्यते । संख्याधिकरणासङ्गति (जै. सू. 2-2-7) प्रसङ्गात् । सात्विकेतर पुराण प्रामाण्योक्तिरपि आपातप्रतीयमानार्थविषया । तत्रत्यानां शिवादिशब्दानां नारायण लक्षणकत्वादिति वक्तुं शक्यत्वेन तदप्रामाण्योक्तौ वैदिकपरिग्रह विरोधात् । भावनस्यानुपपन्नत्व प्रसङ्गात् तमोगुणमूलत्वोक्तेरपि देवतान्तरपारम्यभ्रमजनकपप्रटक्षेपेण ग्रन्थप्रणयनस्य मन्दबुद्धिव्यामोहजनकत्वेन तदादायोपपत्तेः । एतेन तृतीयचतुर्थावपि निरस्तौ । प्रधानांश विरोधस्य दुष्परिहरत्वात् ।

किच ‘तपस्तप्त्वा पुराब्रह्मा तपोदीर्घेण चक्षुषा । वीक्ष्य पूर्ववदेवेदं ससर्ज विविधं जगत् ॥

सृष्टैवमखिलं यज्ञैरयजयज्ञमब्जजः ।

यज्ञेश्वरपुर/शं तथाचान्ये प्रजेश्वराः ॥ '

संख्याधिकरणम् –

’ तिस्र आहुतीर्जुहोति’ इति श्रूयते । तत्न जुहोति इत्येतदाख्यातं समिधो यजति’ इत्यादिवन्नाभ्यस्तम्, किन्तु सकृदेवान्नातम् । तत एक मिदं कर्म । त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा प्रयाजेष्वेकादशत्वसंख्या पश्चानामेव प्रयाजानामावृत्त्या नीता तद्वदिति पूर्वः पक्षः ।

1

सिद्धान्तस्तु किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम् । नाद्यः वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात् । द्वितीये - त्रित्वसंख्यया विशेषितेनाऽऽख्यातेन कर्मत्रत्वं गम्यते प्रयांजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इहत्वेतद्विधितः पूर्व कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् । (जै. सू. 2-2-7)

337

नेषु सर्वेषां चतुर्मुखानां भगवदाराधकत्वं प्रतीयत इति विरोधो दुर्निवारः ।

’ आदिकल्पे चतुर्वक्त्रो ब्रह्मानारायणांशजः । अण्डंभित्त्वा ऽभवत्तस्यह्या युर्वर्षशतं स्मृतम् ॥

यदा वर्षशतं पूर्ण तदा नारायणेऽव्यये । स्वसृष्टैः सहितो ब्रह्मा लीयते परमात्मनि ॥ पुनस्तेनाभिसम्भूतं नलिने सम्प्रजायते ।

पुनः सृजति सर्वं स विष्णुशक्त्या विजृंमितः ॥ '

षु सर्वेष्वपि कल्पेषु चतुर्मुखस्य भगवदुत्पन्नत्वं प्रतीयत इति परस्पर प्रतिपादितांशेऽपि विरोधो दुर्निवारः ।

किश्चैवं वदतः शिवपुराणानां किं परत्वं मतमायुष्मतः । किं अन्तर्गत शिवविषयत्वं आहोखित् परमशिवविषयत्वम् । नाद्यः । तथा । तच्छ्रुत्युपबृंहणदशायां शिक्कारणदार्दयार्थं त्वया शैवपुराणोदाहरणस्य हतत्व प्रसङ्गात् । तथापि प्रत्यासत्यतिशयात् परमशिवपरेष्वेव पुराणेषु प्रतिपादनमित्यादि स्वग्रन्थविरोधाच्च ।

’ माहेश्वरपुराणानि समस्तानि महामुने ।

असाधारणयामूर्त्या नाम्ना साधारणेन च ॥ वदन्ति परमं तत्वं शिवं साम्बं विलोचनम् । त्रिमूर्तीनां हरं चापि तदंशं तस्य वैभवम् ॥’

इत्यादि खोदाहृतपौराणिकवचनविरोधापाताच्च ।

ननु त्रिमूर्त्यन्तर्गत शिवविषयत्वेपि तेषां परमशिव कारणत्व निर्णयाय तत्स्य वचनोदाहरणं न व्याहतमं प्रसङ्गात् । परमशिवस्य प्रतिपादनसम्भवेन तदुदाहरणोपपत्तिरिति चेन्न । उभयोरुत्कर्षप्रतिपादने अन परमशिवस्य तत्त्रान्तर्गतशिवस्य प्रतिपादकमिति विवेकस्य दुर्ग्रहत्वात् ।

43

338

ननु त्रिमूर्त्यपास्यत्वतत्कारणत्वादिधर्मविशिष्टतया सर्वजगत्कारणतया प्रतिपाद्यमानः परमशिवः संहारमात्रकर्तृतया किश्चित्कार्यविशेषकारणतया प्रतिपाद्यमानः त्रिमूर्त्यन्तर्गत शिव इति विवेकः सुग्रहः इति चेत् प्रायशः शैत्रपुराणेषु शिवस्य कृत्मजगत्कारणत्वात् अनन्येश्वरत्वादिधर्मप्रतिपादनेन तेषां पुराणानां परमशिव परत्वस्यैव प्रसङ्गात् पुराणप्रधानप्रतिपाद्यत्रिमूर्त्यन्तर्गत शिवोत्कर्षस्य सङ्कुचितस्य शैवपुराणप्रतिपाद्यस्य वैष्णवपुराणेष्वपि दर्शनेन विरोधाभावेन तत्समाधानयतन नैरर्थ्यापाताच्च ।

ननु प्रासङ्गिक परमशिव सर्वोत्कर्षप्रतिपादनांशस्य वैष्णवपुराणप्रतिमाच विष्णुत्कर्वविरोधोस्तीति तत्समाधानाय यत्नसाधकमिति चेदेवं तर्हि परममिवोत्कर्षस्यापि एतद्वचनबलात् सङ्कुचितत्वमप्यवदातमिति सम्यक् समर्थित शैक्पारम्यम् ।

किञ्चैतद्वचनबलात् सङ्कुचितमेव परमशिवैश्वर्यमपि सर्वत्र प्रमाणतया शैवपुराणवचनोदाहरणं व्याहतमिति पूर्वोक्तदोषोऽनिर्वार्यः ।

ननु त्रिमूर्त्यन्तर्गत शिवपरस्यैव पुराणप्रधानप्रतिप्राद्यस्येतरैः सह विरोधामानेऽपि विष्णुचतुर्मुखोत्कर्षप्रतिपादकपुराणानां परस्परविरोधे सति तत्समाधानार्थ या सार्थक शिवमाहात्म्यस्य कल्पमेदनिबन्धनत्वकथनन्तु दृष्टान्ततयोपपक्त इति चेन्न । विष्णुचतुर्मुखयोरवान्तरकारणत्वस्य तत्पुराणप्रतिपाद्यस्य विरोधाभावेन तत्समाधानप्रयत्नोपि व्यर्थः । परमकारणत्वस्य तत्तत्पुराणप्रतिपाचस्य विरोधे सति समाधाने कर्तव्ये तुल्यन्यायतया परमशिवकारणत्वांश एव बलादेषां वचनानां व्यापारः प्रसरेदित्यन्तर्गत शिवपरत्वेऽपि पुराणानां कथञ्चिदमीष्टलाभः |

किञ्चैवमपि चतुर्मुखविष्णुपारम्यप्रतिपादकपुराणानां अप्रामाण्यमेवैतत् वचनबलादापतेदिति कथं सर्वपुराणप्रामाण्यसमर्थनपरत्वमेतेषां वचनानाम् । न द्वितीयः । तुरीयमाहात्म्यस्य कालविशेषनियतत्वे सर्वमूलकारणत्वाभावप्रसङ्गात् ।

339

किञ्च कल्पमेदेनाविरोधवर्णनं - आप्तवाचोर्विरोधे स्यात् सृष्टिमेदादियं गतिरिति न्यायेनैव सिद्धमिति सात्विकादिविभागप्रकरणस्यैव वैयर्थ्य स्यात् ।

अपि च कल्पमेदेन त्रयाणान्तु व्यवस्थितमित्याद्युक्तिमात्रा देव उक्तार्थसिद्धौ सात्विकराजसतामसरूपेण कल्पविभागो व्यर्थ एवापद्यते ।

यदत्रोक्तं ऋतुभेदेषु हिमादिप्राचुर्यवत् कल्पभेदेषु तमस्सत्त्रादिप्राचुर्य भक्तीति तत्तद्गुणनिबन्धनत्वात् तामसादिविभागस्य उपाध्युत्कर्षेसति तदुपाधिकोत्कषों युक्त इत्यौचित्यरूपं न वस्तुसामर्थ्येन तामसादिकल्पेषु संहारक रुद्राद्युत्कर्षोपपादनेन सार्थकोयं विभाग इति तन्न । एवं सत्यपि ब्रह्मणो दिवसाच त इति ब्रह्मादिवस्त्वकीर्तनस्य यस्मिन् कल्पेत्विति श्लोकस्य च वैयर्थ्यापातात् ।

साङ्कीर्णास्सात्विकाञ्चैव राजसास्तामसास्तथा । कल्पाश्चतुर्विधाः प्रोक्ताः ॥ '

इत्यनन्तर ‘मग्नेः शिवस्येत्य’ चभिधाने सति उक्तार्थस्य स्पष्टतरत्वात् ।

मित्यत्र

एतेन तपश्चरणादीनामुत्कृष्टापकृष्टकालप्रदर्शनेन सार्थक्यमिति निरस्तम् । ननु अग्नेः शिवस्येत्यत्र तत्तदेवतानां तदुपाघित्वं न प्रतीयत इति तत्प्रतीत्यर्थं यस्मिन् कल्पइत्यादि श्लोकस्सार्थक इति चेन्न । यस्मिन्कल्पे इत्यत्रापि

1 तत्तद्गुणोपाधिकत्वस्य तत्तदेक्तायामकथनात् । न च तस्य तस्य तु माहात्म्यकल्पमाहात्म्य वर्णनस्याक्रियमाणत्वेन तत्तदेवतापरत्वस्य वाच्यतया तत्तद्गुणोपाधिकत्वसिद्धिरिति वाच्यम् । कल्पपदस्य देवतापरत्वं किञ्चित् सम्बन्धमात्रेणोपपन्नमिति देवतायां तत्तद्गुणत्वसाधनसामर्थ्येन श्रुत्यन्तरादिपर्यालोचनेनैव तथात्वं ज्ञातव्यमित्येतत् श्लोकाभावेऽपि तात्पर्यालोचनेन ज्ञातुं शक्यत्वात् । न च तत्तद्गुणोत्कर्षप्रचुरितकल्पभेदप्रवृद्धतत्तद्देवतामाहात्म्यवर्णन परत्वेनाविरोधप्रदर्शनपरो यस्मिन् कल्प इति श्लोक इति वाच्यम् । वैयर्थ्यापरिहारात् तत्तदेवतोत्कर्षस्य कल्पभेदेन निबन्धनत्वोक्त्यैव विरुद्धदेवता-

340

माहात्म्यप्रतिपादन विरोधपरिहारस्य सुज्ञानत्वात् । अस्मिन् मते तु यस्मिन् कल्प इति श्लोकस्तत्तद्गुणकल्पप्रोक्तपुरोनुवादेन तत्तद्गुणदेवतामाहात्म्यवर्णनात्मत्वतत्तद्गुणमूलत्व विधिपरः । अनेोः शिवस्येत्यादिस्तु प्रतिपाद्यत इति विशेषाकाङ्क्षायां तद्विशेषेणनिर्णयार्थ इति सप्रयोजनत्वम् । यः विकल्पानां सात्विकत्वादि विभागस्तत्तत्कल्पेषु पुरुषाणां सत्वाद्युत्कर्षादेव न तु तत्तत्कल्पावस्थायिनो ब्रह्मणस्तत्तद्गुणोत्कर्षात्, तत्र तथा कण्ठोक्त्यभावादिति तदपि न ब्रह्मणो दिवसाश्च त इत्युक्त्यवैयर्थ्याय ब्रह्मणस्तत्तद्गुणसंबन्धनिबन्धनत्वावसायात् ।

नन्वेवं त्वत्पक्षेपि सङ्कीर्णा इत्यादि श्लोकानन्तरं अग्नेः शिवस्येत्याबुछि मात्रादेवामिलाषितार्थसिद्धौ यस्मिन् कल्प इत्यादिश्लोको व्यर्थ एवेति चेन ब्रह्मणः सामान्यतो रजस्तमस्सम्बन्धसिद्धावपि तत्पुराणप्रणयनस्य रजस्तमः सत्वमूलत्वप्रतिपत्त्यर्थमेव यस्मिन् कल्प इत्यादिश्लोकसार्थक्यात् ।

1

ननु तमः प्राचुर्यदशायां अग्निशिवमाहात्म्यं कथितवान् । सत्य प्राचुर्यदशायां विष्णुमाहात्म्यं कथितवान् इत्याशुक्तिमात्रादेव तत्तद्गुणमूलत्वं प्रबन्धानां प्रतीयत एवेति यस्मिन् कल्प इत्यादिव्यर्थमेवेति चेन्न । सात्विकादिशब्दानां पुरुषान्तराणां तत्तद्गुणत्वप्राचुर्यनिबन्धनत्वमेव ब्रह्मणो दिवसाश्च त इत्येतदपि वस्तु सदर्थकथनपरमात्रमेवेति मन्दाशङ्कावारकत्वेन प्रबन्धानां ब्रह्मनिष्ठतद्गुणमूलत्वप्रतिपादकस्यास्य वचनस्य सार्थक्यात् तत्खरूपेण वयं इत्यस्य तद्गुणमयेन ब्रह्मणा वर्ण्यत इति अर्थप्रतिपादकत्वात् । न च यथावस्थितरूपेण वर्ण्यत इत्यर्थवर्णन सम्भवात् तस्यान्यथा शङ्काया न परिहार इति वाच्यम् । अग्नेः शिवस्येत्यस्य कल्पमेदेन तत्तदेवतोत्कर्षसत्व प्रतिपादकत्वपक्षे पुराणानां यथावस्थितार्थकथनपरत्वस्य तत एव सिध्या तथोक्तिवैयर्थ्यात् ।

ननु कीर्त्यते विदुः निगद्यत इत्यादिक्रियाबलादययावस्थित प्रतिपादकशङ्कायां तद्वारणाय तत्खरूपेण वर्ण्यत इति सार्थकं पक्षान्तरेपीति चेन्न । राजसेषु तु माहात्म्यमधिकं ब्रह्मणो भवेदिति तादृशशङ्कारहितपदप्रक्षेपणोपपन्ने,

341

शृङ्कान्तरावकाशजनकपदप्रक्षेपेण तामुपजनय्य तत्परिहारो यस्मिन् कल्प इत्यादि कोकणयनासम्भवात् ’ प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वरमिति हि न्यायवेदोऽनुमन्यन्ते ।

ननु - तस्य तस्य तु माहात्म्यमित्यस्य तत्तत्कल्पसंभविदेवतामाहात्म्यं +खरूपेण तत्तद्गुणविशिष्टयथावस्थितरूपेण वर्ण्यत इत्यर्थवर्णनात् तत्तद्गुणप्रचुरकाले प्रणीते पुराणे तत्तद्गुणोपाधिकतया सम्भवदुचितोत्कर्ष देवतामाहात्म्य वर्णनं क्रियत इति पर्यवसानात् न तस्य वैयर्थ्यमौचित्यप्रदर्शनमुखेनाविरोध समर्थनार्थत्वादित्युच्यते । नात्र तत्स्वरूपेणेत्यस्य यथावस्थितरूपेणेत्यर्थपरत्वं वयत इत्यस्य कर्तृसमर्पकत्वेन ब्रह्मणेत्यन्वयस्यावश्यकत्वात् नन्सामानाधिकरण्येनान्वये संम्भवति वैयनिकरण्येनान्वयायोगात् वैयधिकरण्ये - नान्वयेपि ब्रह्मकर्तृकत्क्वीनेन ब्रह्मनिष्ठवत्वस्यैवहेतुत्वेनाम्वयौचित्यात् गुणमयेन स्वरूपेण हेतुना वर्ण्यत इत्यर्थकथनात् अन्यथा विभक्तिस्वारस्यापातात् पूर्वश्लोके ब्रह्मणोदिवसाश्च त इत्युक्तिभङ्गया ब्रह्मणः सत्वादिगुणसम्बन्धस्य प्रतीयमानत्वेन एवमेवार्थवर्णनस्यौचित्याच्च ।

किञ्च किमेतदविरोधप्रदर्शन परमौचित्यप्रदर्शनपरं वा । नाच: । अविरोधस्य माहात्म्याधिक्यप्रतिपादनादेव सिद्धिसम्भवात् । न द्वितीयः । तस्य तस्येत्येतत् कल्पपरं कुसुमादिवर्णनायवसन्तादिवर्णनात्वत्रदेवतामाहात्म्यवर्णस्यापि कल्पमाहात्म्यवर्णनत्वमिति तत्खरूपेणेत्यत्र तच्छन्दस्य देवतापरत्वाभावेनौचित्यास्फोरणात कल्पसम्बन्धिदेवता परत्वपक्षेऽपि तत्खरूपेणेत्यत्र तच्छन्दस्य कल्पसम्बन्धित्वेनैव देवतोपस्थापकत्वात् देवतायां तद्गुणोपाधिकत्वस्य शब्दादप्रतीतेः ।

यदपि - ‘पुराणं मानवोधर्मः साङ्गोवेदश्चिकित्सकः । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभि:’ इति कृत्स्नपुराण प्रामाण्योक्तिविरोध इति तन्न । ’ न हन्तव्यानि हेतुमिरि ‘ति हेत्वहन्तन्यतामात्रस्यैवोक्तत्वेन प्रबलप्रमाणविरुद्धांशाप्रामाण्यस्य तेनावारणात् ।342

एतेन महाजनपरिग्रहोऽपि प्रबलप्रमाणविरुद्धांशमादाय निर्व्यूढः, अन्यथा ’ सांख्यं योगः पञ्चरात्तं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुमिरिति प्रतिपादनान्मन्वादिस्मृति विरुद्धकपिलस्मृत्यप्रामाण्यप्रतिपादक शारीरकस्मृत्यधिकरणस्य ( ब्र. सू. 2 - 1 - 1 ) पत्युरसामजस्याधिकरणस्य चासङ्गति प्रसङ्गात् ।

यदपि भूयस धतुर्थबाधेन शैवपुराणानां सर्वथैवाप्रामाण्यं स्यादिति तन्न । त्वत्पचे सर्वपुराणाप्रामाण्यप्रसङ्गस्या वर्जनीयत्वेन तदपेक्षयाऽस्य ज्यायस्त्वात् । नहि

स्मृत्यधिकरणम् -

वेदान्तानां समस्तचिदचिद्वस्तु विलक्षणास्पृष्ट हेयगन्ध सर्वज्ञतादि अनन्तकल्याणगुणाकर ब्रह्मैकपरत्वं प्रतिपादितं कपिलस्मृति विरोधेन चालयितुं शक्यम् उतनेति संशयः । शक्यमिति पूर्वः पक्षः । श्रुति विरुद्धायाः स्मृतेः बनादरणीयत्वे स्थितेऽपि वेदान्तवेद्यार्थस्य दुर्ग्रहत्वेन, अल्पश्रुतैः, मन्दअतिथि रात प्रणीत श्रुत्युपबृम्हणेन विना तेषां निश्चयो नोपपद्यते । कपिल स्मृति: केवल तत्वपरेति, तथैवोपबृंहणं न्याय्यम् । अन्यथा आप्तप्रणीतायाः केवळतत्वपरायाः कपिल स्मृतेरनवकाशप्रसङ्ग इति वेदान्तवेद्यं जगत्कारणं प्रधानमेव इति पूर्वः पक्षः ।

1

सिद्धान्तस्तु - वेदान्तस्योपबृंहणापेक्षत्वेऽपि आप्ततममन्वादिस्मृतिभिः वेदान्ताविरोधिनीमिरेवोपबृंहणं न्याय्यम् । अन्यथा तासां बबीनामनवकाश प्रसङ्गः, महानयं दोषः स्यात् न च तासां धर्मप्रतिपादनांशोपबृंहणत्वेन सावकाशत्वम् । यतो धर्माणामपि स्वरूपं परब्रह्मभूतपरमपुरुषाराधनत्वं श्रुतिस्मृतिमि रवगम्यते । अतीन्द्रियार्थ साक्षात्कार समर्थस्य कपिलस्य वेदान्तानां ब्रह्मपरत्वानुपलब्धेः प्रधानपरत्वमेवाश्रयणीयमित्याक्षेपे प्राप्ते मन्वादीनां वेदविदप्रेसराणां सर्वातीन्द्रियार्थ साक्षात्कारसमर्थानां प्रधानपरत्वानुपलब्धेः ब्रह्मपरत्वोपवेश्च ब्रह्मपरत्वमेवाऽऽश्रयणीयम् । वेदान्तप्रतिपन्नार्थविरुद्धायास्तु कपिलोपलब्धेः भ्रान्तिमूलत्वं कल्पयितव्यम् । ( ब्र. सू. 2-1-1 )

,

343

राणप्रतिपाद्योत्तीर्णत्वमुक्तप्राप्यत्वतत्तदतिरिक्तत्वभाव

मुमुक्षुप्रधानोपास्यत्व म: प्रेरकत्वादीनां कल्पमेदनिबन्धनत्वं सम्भवतीति । अयंचापरो विशेषः । दीनां परिग्रहातिशयस्य प्रामाण्योत्कर्षहेतोरस्मत्पक्षेऽनुरोधः । त्वत्पक्षे दर इति ।

यदपि यस्मिन् कल्प इति श्लोके तस्य तस्य तु माहात्म्यमित्यनेन कालोद्रिक्त गुणानुगुण देवतावर्णनात्मत्वस्य विधेयतया केषांचिदप्रामाण्यपक्षे व सङ्गच्छेतेति तदप्युपदेशश्रद्धालुजन प्रलोभनमात्रम् । तत्तत्कालोद्रिक्त नोपाधिकवर्णनात्मत्वेप्यप्रामाण्यस्य तत्तद्गुणमूलकस्यानपायात् । न च कालविशेषोत्कर्षवत्पुराणवर्णनात्मत्वमप्रामाण्यविरोधित्वमिति वाच्यम् । किं कालविशेषोत्कृष्टत्वमप्येतद्वचनप्रतिपाचमित्यभिमतमुक्कौचित्यसिद्धम् । नाद्यः । कालवेशेष प्रवृद्धत्वप्रतिपादकशब्दाभावात् यस्मिन् कल्पेत्येतत् प्रतिनिर्देशकस्य तस्य नस्येत्यस्यकल्पपरत्वयोग्यस्य पुराणानां कल्पमाहात्म्यवर्णनात्मत्वाभावेन तत्संबन्धिदेवताप्रतिपादनमात्रे विश्रान्तेः । न द्वितीयः । योह खलु वास्येत्यादौ सत्यादिगुणसम्बन्धित्वावगमने प्रमाणप्रतिपन्नतद्गुणकत्वस्वीकारसम्भवे तत्कालप्रवृद्धत्वस्वीकारे मानाभावात् । यस्मिन् कल्पे तु यत्प्रोक्तमिति सत्वादिगुणककालप्रोक्तत्वप्रतिपादनसामर्थ्येन तद्गुणमूलत्वस्य पुराणेषु खरसतः प्रतीयमानत्वेन तद्विरोधेन तत्कालप्रवृद्धवर्णनात्मत्वस्य विधेयत्वेन स्वीकारायोगाश्च ।

यद् अपि “वस्तुतस् त्व्” इत्यादि तद् अपि मन्दम् ।
शत-कोटि-प्रविस्तरस्य ग्रन्थकोट्या सङ्क्षेपवच् चतुर्-लक्षण-संख्याया संक्षेपवच्च तत्तत्कल्पे शतकोटिविस्तरपुराणादुद्धृत्य ब्रह्मणा तेषां पुराणानामानुपूर्वीमेदेन प्रणयनसम्भवात् । न हि ग्रन्थकोट्यादि संक्षेपदशायां पूर्वानुपूर्वी विशिष्टस्य स्थापनसम्भवः । न च शतकोटिप्रविस्तरपुराणप्रणयनदशायां रजस्तमः प्रकर्षक्त्वे प्रमाणाभावात् ततः उद्धृत्य संक्षेपेण तदर्थस्यैव तत्र निवेशात् कथमस्य तन्मूलकत्वशङ्केति वाच्यम् । प्रन्यान्तरप्रणयनदशायामुद्धारप्रक्षेपसम्भवात् प्राथमिक पुराणप्रणयनदशायामपि सत्वाद्युन्मेषासम्भवाच्च । नन्वत्र किं प्रमाणामिति चेन्न ।

344

न तदस्तिविना यत्स्यादिवि देवेषु वा पुनः ।

सत्वं प्रकृतिजैर्मुक्तं यदेमिस्यात्त्रिभिर्गुणैः ॥ '

इति सर्वेषां गुणत्रयवश्यत्वप्रतिपादनात् ।

नन्वेवमपि रजस्तमः प्रकर्षदशायामेत्र चतुर्मुखाद्याधिक्यं सत्योत्कर्षदशायामेव । तत्रापि भगवदाधिक्यं प्रतिपाद्यत इत्यत्र किं प्रमाणमिति चेन्न ।

‘शास्त्राण्यपि च सर्वाणि त्रिविधानि महामते ।

यानि सत्वपदं विष्णुं वदन्ति परमेश्वरम् || तानि शास्त्राणि सर्वाणि सात्विकानि मतानि वै प्रजापतिं कृशानुं च तथा देवीं सरस्वतीम् ॥ परत्वेन वदच्छास्त्रं राजसं च प्रचक्षते । यच्छास्त्रं लिङ्गपारम्यं वामदेवमुमापतिम् ।

तमः प्रवर्तकं वक्ति तत्तामसमुदाहृतम् ॥’

इति गारुडपुराणे भगवत्पारम्य प्रतिपादकानां सत्यमूलत्वस्य तदतिरिक्त पारम्य प्रतिपादकानां रजस्तमोमूलत्वस्य चावगम्यमानत्वात् । न च गुणत्रय प्रवर्तक देवता प्रतिपादकत्वमात्रेण सात्विकादिव्यपदेश इति वाच्यम् । तथात्वस्यानुकि सिद्धत्वेन शास्त्रतैविध्य विभागर्वैयर्थ्य प्रसङ्गात् । विरुद्धतत्वाधिक्य प्रतिपादकत्वेन मियो विरोधात् सर्वाप्रामाण्ये प्रसक्ते प्रवृत्तानि होतादृशवचनानिकचिदप्रामाण्यानुक्तौ मिथो विरोधस्य तादवस्थ्य प्रसङ्गात् । तामसपुराणाप्रामाण्यप्रतिपादकान्येवैतादृशवचनानि । अत एव ।

’ सात्विका मोक्षदाः प्रोक्ताः राजसाः खर्गदाः शुभाः ।

तथैव तामसा देवि निरयप्राप्तिहेतवः ॥ '

इति पाद्यवचनेन तामसशास्त्राणां निरयहेतुत्वमुच्यमानमुपपद्यते ।

एतेनान्येत्वित्यादिमतान्तरमप्यपास्तं वेदितव्यम् ।

परब्रह्मसकाशा-

चतुर्मुखेन गृहीतस्यैत्राविप्लुतस्य सन्दर्भस्य चतुर्मुखेन प्रवर्तितत्वे प्रमाणाभावात् ।

345

कोट्या संक्षेपस्य चतुर्लक्षणसंख्यायाः संक्षेपस्य च

श्रवणात् सन्दर्भविप्लुत्यङ्गीकारावश्यंभावाच्च । सन्दर्भान्तरेण प्रणयनसम्भवात् भगवदुपदिष्टस्य पुराणस्य श्रुतिस्थानीयत्वेन तत उद्धृत्य कल्पविशेषेषु तत्तत्पुराणप्रणयनदशायां चित्कल्पे तात्पर्यप्रमया कचित्कल्पे तात्पर्यभ्रमेण च पुराणप्रणयनं सम्भवतीति नान्तरोपन्यसनमाशामोदकमात्रम् ।

यदपि किं गुणकेन ब्रह्मणा प्रोक्तं पुराणं किं देवतापरमिति जिज्ञासायां नशेषं कथयितुं नाग्नेः शिवस्येत्यादिकं प्रवृत्तमिति वक्तुं शक्यम् । सात्विकेष्वथ-

पेष्वित्यत्र कल्पग्रहणेन सात्विकादिशब्दानां पुराणपरत्वाभावादिति तदप्यनुम्नम् । यस्मिन् कल्पेत्विति श्लोके तत्तत्कल्पप्रोक्तपुराणेषु तत्तत्कल्पसम्बन्धिदेवतामाहात्म्यं वर्ण्यत इति सामान्यतः प्रतिपादने सति कस्मिन् पुराणे कस्याः ऋतायाः माहात्म्यं वर्ण्यत इति विशेषाकाङ्क्षाया उत्कटत्वेन तच्छान्त्यर्थममेः शिवस्येत्यादेः प्रवृत्तिरित्यवश्यमङ्गीकर्तव्यत्वेन तदनुसारिणोऽध्याहारस्य प्रामाणि - कत्वेन पुराणवाचकपदाध्याहारात् । अत एव प्रवर्तनात्मकविध्यविरोधात सामान्यतः फलसम्बन्घेऽवगते सति तद्विशेषाकाङ्क्षाया उत्कटत्वात् तदनुरोघेन स्वर्गकामपदाध्याहारो विश्वजिदधिकरणे स्वीकृतः ।

यदपि सत्वाद्युत्कर्षसमयेषु तत्तदुपाधिगुणमूर्त्यत्कर्ष उचित इत्युपपादयितुमनेः शिवस्येत्यादिदेवतासु ततद्गुणोपाधिकत्वप्रत्यायनाभावेनौचित्यस्फोरणार्थत्वाप्रतीतेः । यदि वस्तुकीर्तनमात्रादेव तत्तद्गुणोपाधिकत्वप्रत्यायनाभावेप्यौचित्यस्फोरणं स्यादित्यभिमतम्, तदा पुराणानां तत्तद्गुणकल्पप्रोक्तत्वप्रतिपादनादेव तत् गुणकदेवतामाहात्म्यवर्णनात्मत्वं ज्ञातुं शक्यमिति तत्प्रतिपादन मप्यनर्थकं स्यात् । कल्पानां सत्वायुत्कर्षत्रत्वकीर्तनादेव श्रुत्यन्तरे तद्गुणाघिष्ठातृत्वेन प्रतिपादितस्याधिक्यमपि सिद्धमित्यग्नेः शिवस्येत्यपि अनर्थकं

स्यात् ।

यदपि माहात्म्यमधिकं हरेरिति निराकाङ्क्षवाक्ये निगद्यत इत्यादि पूर्ववाक्यश्रुत क्रियानुषङ्गकल्पनायोगादिति तदप्यसङ्गतम् । क्रियावाचकपदं विना

44

346

वाक्यस्य निराकाङ्क्षत्वासिद्धेः । भवतीत्यध्याहृत कियापदेन निराकाङ्क्षमिति चेन्न । तदपेक्षयानुषङ्गकल्पनायाः ज्यायस्त्वात् अन्यथा वाक्यान्तरवैरूप्यापातात प्रदेशान्तरे सात्विकेष्वधिकं तद्विष्णोर्माहात्म्यमुच्यत इति श्रवणाच्च ।

ननु कीर्त्यते विदुः निगद्यत इत्यादीनामपि वस्तुसत्व एव तात्पर्य - मस्त्विति चेत्तमः प्रचुरदशायां कीर्तनप्रतिपादनस्य वस्तुसत्वतात्पर्यकत्वकल्पनायाः अयोगात् ।

यदद्भ्यसंख्याताः स्मृताः कल्पाः इत्यादि कौर्मवचने कल्पमेदेन ब्रह्मादीनामुत्कर्षप्रतिपादनं गम्यत इति । तदप्यसङ्गतम्, असात्विकमसात्विकेष्वेत्र कल्पेषु ‘माहात्म्यमधिकं हरे’ रित्यत्र क्रियावाचकपदाकाङ्क्षायां कथिताश्च पुराणेष्विति वाक्यश्रुतस्य कथितपदस्य विभक्तिपरिणामेनानुषङ्गकल्पनात् । अत एत्र तामसेषु शिवस्योक्तमित्यवैरूप्यम् तामसेषु महेशस्येति पाठेऽपि माहात्म्य-

वचनेपि कीर्त्यते विदुः निगद्यत इति क्रियान्वयदर्शनेन कथितपदानुषङ्ग एव कल्पयितुं युक्तः ।

यदपि

’ कचिद्रह्मा कचिद्विष्णुः कचिदुद्रः प्रशस्यते '

इति वचनबलात् त्रयाणां साम्यं प्रतीयत इति तदपि खाभ्युपगमविरुद्धम् ।

’ परमात्म विभागत्वं ब्रह्मादीनां सुरर्षभाः ।

समानमपि रुद्रस्तु वरिष्टो नात्र संशयः ॥

विष्णोरपि परः साक्षात् रुद्रः संहारकारकः || '

इत्यादि वचनैः शिवस्याधिक्यप्रतिपादनादिति खेनैवोक्तेः ।

यदपि ’ ज्ञानमप्रतिबन्धस्य वैराग्यं च जगत्पतेरित्यादि वचनबलादप्रतिहतज्ञानशक्तित्वप्रतिपादनात् ब्रह्मणः पुराणप्रणयनोपाधिभूतस्यापि तमस्तत्वज्ञान प्रतिबलत्वयोग इति तदप्यनुपपन्नम् ।

347

’ ब्रह्माद्याः सकलाः देवा: मनुष्याः पशवस्तथा ।

विष्णुमायासमावर्त मोहांधतमसावृताः ॥ प्रजापतिं च रुद्रं चाप्यहमेव सृजामिवै ।

तौ तु नूनं न जानीतो मम मायाविमोहितौ ॥

इत्यादिषु मोहादिश्रवणेन ज्ञानमप्रतिबन्धस्येत्यस्येन्द्राद्यपेक्षयोत्कृष्टज्ञानवत्वमात्रनात्पर्यकत्वा वसायात् ।

यदपि ब्रह्मणोऽपि तमः प्रतिबद्धज्ञानवत्वे तत्प्रणीतोदाहृत वचनेष्वपि नयात्वशङ्कास्यादपषादकवचनाभावोप्यसिद्धः । एकत्र तु पुराणानि सेतिहासानि इत्यादि कौर्मादिपठित तत्तत्पुराणप्रामाण्यप्रतिपादकवचनपरमेवैतदपवादत्वादिति, नदप्यसारम् । शैववैष्णवादिपुराणप्रामाण्यप्रतिपादकवचनानां परस्परं विरोधे नृत्येतद्वचनानां निरर्गलं प्रवृत्तत्वेन चैतेषामपि वचनानां शैत्रपुराणप्रामाण्यप्रतिपादकवचनैः सत्प्रतिपक्षितमेवेति वाच्यम् । तर्ह्यर्थाव्यवस्थाशून्यतया सर्वपुराणाप्रामाण्यापत्तेः । न कस्मात् सर्वाप्रामाण्यादपि कतिपयाप्रामाण्यं ज्याय इति केषाश्चित् प्रामाण्यं केषांचिदप्रामाण्यमित्यवश्यं वक्तव्यमिति केषां प्रामाण्यं केषां वाऽप्रामाण्यं अङ्गीक्रियतामित्यपेक्षायामिदं वचनं प्रवृत्तमिति अपेक्षितार्थप्रतिपादकत्वादस्य न केनचिद्वाधः । किन्त्वनेनैव तामसपुराणैस्सह तत्प्रामाण्यप्रतिपादकवचनानामप्रामाण्यमेतद्वचनात् प्रमाणविरुद्धांशे सिध्यतीत्यवश्यमभ्यु-

पगन्तव्यम् ।

किञ्च तत्तत्पुराण प्रामाण्योपपादकवचनानां धर्माद्यंशेऽपि सावकाशत्वेन शिवाद्यतिशय प्रतिपादकांशे रजस्तमोमूलत्वप्रतिपादनस्य निरवकाशत्वान्न तुल्यबलत्यमिति न सत्प्रतिपक्षत्वम् ।

यदपि भारतादिषु असुरवृत्तान्तं वर्णयतोऽपि व्यासस्य सात्विकत्वेन प्रतिपाद्यगुणानुरोधेन वक्तृगुणसिद्धासिद्धेर्नवत्रस्तु सामथ्र्यमेतेषां वचनानां प्रामाण्यसाधकमिति तदप्यज्ञानविजृम्भितम् । नहि भारतादिष्वसुरपक्षपातो

348

सुरातिशयः प्रमाणान्तरविरुद्धः प्रतिपाद्यते । येन तत्रैतादृशन्यायः प्रसरेत् । किन्तु कृष्णाद्यतिशयप्रतिपादनोपयुक्तयैव तत्प्रतिपादनम् । किञ्च विरुद्धकेषांचिदप्रामाण्यस्यावश्यवाच्यत्वेन रजस्तमो-

तत्वाधिक्यप्रतिपादकपुराणेषु

मूलत्वं वक्तव्यमिति किं सत्वोपाधिक देवताप्रतिपादकपुराणानां रजस्तमोमूलत्वं युक्तं किं वा रजस्तमोगुणोपाधिकदेवताप्रतिपादक पुराणानां रजस्तमोमूलत्वं युक्तमिति विषये रजस्तमोगुणोपाधिदेवताप्रतिपादकवचनस्य तथात्वं वक्तुमुचितमिति औचित्यं कथ्यत इति कः प्रसङ्गोतिप्रसङ्गस्य । न च तत्र कचिदासुरप्रकृतिकत्वस्यावश्यमभ्युपेयत्वं प्रसक्तम् ।

अपि च

’ सात्विकैः सेव्यते विष्णुः तामसैरेव शङ्करः ।’ इत्यादिषु रजस्तामसजनसेव्यत्वं विधिशिवयोः प्रतिपाद्यते ।

’ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । '

इत्यादिषु तत्तत्कटाक्षस्य सत्वरजस्तमोहेतुत्वं प्रतिपायत इति तुल्यन्यायतया तत्प्रतिपादकप्रबन्धानां तत्तद्गुणमूलत्वं प्रतिपादयद्वचनं पर्युपपन्नार्थकम् ।

यदप्येते सात्विकादीनि वैष्णवादीनि ब्रह्मादीनि राजसानि लैङ्गादीनि तामसानीति विभागो निरस्त इति तदपि न । पानपुराणे तथा विभागकारणात्तेषु तद्देवतामाहात्म्यप्रतिपादन भूयस्त्वमादाय तथात्वोक्तेरुपपन्नत्वात् ।

यसु सात्विकत्वेनामिमते गारुडे पाये च शिवातिशयप्रतिपादनाच्छिषोत्कर्षः सिध्यतीति तन्न । भूयस्सुप्रदेशेषु भगवत्पारम्यप्रतिपादनेन कचित् कोणे देवतान्तरातिशय प्रतिपादनेपि तत्र तात्पर्याभावस्यावगमात् ।

यत्तु पुलस्त्यवसिष्ठ वरप्रदानलब्ध देवतापारमार्थ्यज्ञानवता पराशरेणोपदिष्ठत्वाद्विष्णुपुराणं प्रबलमिति न शक्यं वक्तुं ततोप्यतिशयितज्ञानशक्ति मिब्रह्मादिभिः कृतानामुपदेशानां शिवपारम्येऽपि सत्वादिति तन्न ।

349

’ अथ तस्य पुलस्त्यस्य वसिष्टस्य च धीमतः । प्रसादाद्वैष्णवं चक्रे पुराणं वै पराशरः ||

देवतापारमार्थ्येन विज्ञातं च प्रसादतः ।

पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः ॥

इत्यादि प्रमाणैर्वैष्णव पुराणानि बध्यमानदेवतोत्कर्षविषयज्ञानस्य पारमार्थ्य कन्यादनवदाहत्य तत्तत्पुराणनिबध्यमान तत्तद्देवोत्कर्षज्ञानस्य ब्रह्मादिगतस्य समार्थ्यत्वप्रतिपादकस्य पुराणान्तरगतस्य प्रमाणस्याभावात् । न च सामान्यनोऽतिशयितज्ञानत्वत्वप्रतिपादनाद्देवता पारमार्थ्यज्ञानमपि सिद्धमिति वाच्यम् ।

क्याविमोहितत्वगुणन्त्रयवश्यत्वादेरपि प्रतिपादनदर्शनेन ज्ञामातिशयस्य परतत्वातिरिक्तविषयकत्वावसायात् । यद्यपि भगवतोत्तमस्वमस्ति तथापि न तेन काचन शिव पारम्यप्रतिपादकपुराणसंहिता प्रणीतति न कोपि दोषः । प्रणयते वा विप्रलिप्सापि सम्भाव्यते अन्यकर्तृके पुराणे तद्वक्तृकत्वं वचनत्वसदर्थवादतायाऽप्युपपद्यते । न च पराशरपुराणे तेनैव पराशरेण शिवपारम्यमपि प्रतिपादितमिति वाच्यम् । अनेनैव पराशरेण शिवपारम्यप्रतिपादकं पुराणं प्रणीतमित्यत्र प्रमाणाभावात् । समाननामकपुरुषान्तरसम्भवात् । तत्पुराणे नादृशं वचनमस्तीति निर्णयस्य प्रक्षेपशयानुदात् । न हि वैष्णवपुराणस्य सर्वदेशप्रसिद्धिवक्तृत्व वचनानां ग्रन्थकर्तृर्मिरुदाहरणं च तादृशपुराणस्य प्रसिद्धिः । त्वदतिरिक्तपुराणान्तरेण तत्र वधमोदाहरणं वास्ति । अलाभे पुस्तकत्त्रयमिति परस्परवार्तानभिज्ञमूलोत्पन्न पुस्तकत्रय दर्शनेन हि वचनसद्भावनिर्णयः । न हि प्रामाणिकजन गेहगतपुस्तकत्रयं तस्य पुराणस्यासेतुहिमाचलं शतवारं पर्यटनेप्युपलब्धुं शक्यम् ।

एतेन परोक्तमानव पुराणादिगत वचनान्यप्यप्रामाण्यशङ्का कलङ्कितत्वात्

प्रमाणीकर्तुं न शक्यानि ।

यदपि वायुसंहितायाम् -

350

‘मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् । इदं परमिदं तत्वविवादः सुमहानभूत् ॥

परस्य दुर्निरूपत्वाज्जातस्तत्र न निर्णयः । '

इत्युपक्रम्य तेषामृषीणामन्योन्यं विवदमानानां ब्रह्मसभोपसर्पणमुक्त्वा

’ भगवन्नन्धकारेण महता वयमावृताः ।

खिन्ना विवदमानाश्च न पश्यामोऽत्र यत्परम् ॥ '

इत्यादिना तेषां सामान्येन सकलकारणभूतस्य परदैवतस्य प्रश्नमुत्थाप्य

हस्तदा मोत्यारभ्य |

’ उत्थाय सुचिरं ध्यात्वा रुद्र इत्युच्चरन् गिरम् ।

आनन्दक्लिन्नसर्वाङ्गः कृताञ्जलिरभाषत ॥ '

इत्यादिना ब्रह्मवाक्येन शिवस्य सर्वोत्कर्षविभावनात् अस्य च सामान्य प्र विशेषोत्तररूपत्वाद्वैष्णवपुराणस्य तथात्वमादाय प्राबल्यमुक्तमिति अत्रापि शक्यते वक्तुं इति तन्न । सामान्यप्रश्ने विशेषोत्तररूपत्वमात्रस्यैव प्रान कारणत्वेनानुक्तेः ।

तस्मात् भवंतं पृच्छामि सूतपौराणिकाद्यतु ।

पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसंहिताम् ॥ '

इत्यादिरूपेण प्रवृत्तपुराणापेक्षया प्राबल्यकारणत्वेन हि तदुक्तम् । शैवादिपुराणापेक्षया किं प्राबल्यमिति चेत् सत्वगुणोन्मूलत्वं पूर्वोक्तं प्रस्मर्तव्यम् ।

यदपि इयांस्तु विशेषः विष्णुपुराणे प्रष्टुरेकस्य प्रागेवशिष्यभू परिचितहृदयेनगुरुणासामान्यप्रश्नेऽपि तदीयपूर्वसिद्धभक्तिविवर्धनाय तदनुव विशेषविषयमुत्तरमुक्तमिति वक्तुं शक्यम् । वायुसंहितायान्तु परस्परं वि मानानां प्रश्नं प्रवृत्तमुत्तरं न तथा नेतुं शक्यमिति तत्तुच्छम् ।

351

पराशरमुनिं वारं कृतपौर्वाह्निककियम् ।

मैत्रेयः परिपप्रच्छ प्रणिपत्यामिवाद्य च ॥ '

इति रहस्यार्थप्रश्नानुगुणप्रणामाद्यनुष्ठानपूर्वकं पृष्टवते सच्छिष्याय विपरीतोपदेशः आस्तिकाप्रेसरेण पराशरेण कृत इति कल्पनायाम् ।

द्विविधो भूतसर्गोऽयं देवासुर एव च ।

विष्णुभक्तिपरोदेवो विपरीतस्तथासुर ॥ '

इति श्रीविष्णुधर्म वचनावगम्यमान राक्षसस्वभाव जृम्भितत्वावसायात् प्रत्युतपरस्पर कलहपूर्वकं सर्वैः संहत्यप्रश्ने रहस्युपदेष्टव्योर्थः बहुजनसन्निधौ न वक्तुं युक्तः । गुरुशुश्रूषापूर्वकं ज्ञातव्योर्य आक्षेपपूर्वकं प्रश्न च वक्तुमयुक्त इति बुध्यैव चतुर्मुखेणान्यथोपदिष्ट इति कल्पयितुं शक्यत इति वैष्णवपुराणगतसामान्यप्रश्नपूर्वकत्वान्यथाकरणमयुक्तिमत् । न चैवमपि व्यासार्थ ग्रन्थे लैन पुराणस्य व्याहतार्थत्वमुपपादयितुं शिवात् ब्रह्मविष्णुज निप्रातिपादकं वचनं विष्णोश्चतुर्मुखशिवोत्पादकत्वप्रतिपादकवचनोदाहरणं तदनुपपन्नम् । कल्पमेदेन तदुपपत्तेरिति वाच्यम् । प्रतिसर्ग विष्णोश्चतुर्मुखोत्पत्तिप्रतिपादक महाभारतादिवचनानुसारेण विष्णोश्वतुर्मुखोत्पत्तिप्रतिपादकवचनस्य लैङ्गपुराणगतस्यापि सर्वसर्वोत्पत्तितात्पर्यकत्वेन विरोधावश्यंभावात् -

"

त्वत्कोपसम्भवोरुद्रस्तमसा च समावृतः ।

त्वत्प्रसादाज्जगद्धातारजसा च पितामहः ।

त्वत्स्वरूपात् स्वयं विष्णुः सत्वेन पुरुषोत्तम ॥ '

इति त्रिमूर्तयुत्तीर्णत्वस्य भगवति प्रतिपादकत्वदर्शनेन विरोधानपायात् । हिरण्यगर्भकारणत्वस्य जगत्कारण व्याप्यत्वेन कल्पमेदकल्पनाया असम्भवाच । तस्माद्वैष्णवादिपुराणानामेव सत्वगुणमूलत्वादिभिर्हेतुभिः प्रबलत्वात्तदनुसारेणैव वेदोपबृंहणं कर्तव्यमिति सिद्धम् ।

किञ्च महाभारतानुगुणत्वाच्च सात्विकपुराणानामेव प्रामाण्यं तद्विरुद्धार्थ बोधितत्वाच्च । तामसपुराणानामप्रामाण्यम् । कथं महाभारत विरुद्धत्वम-352

प्रामाण्यसाधनसमर्थमिति चेन्न । प्रबलप्रमाणविरोधस्याप्रामाण्यसाधकत्वेन न्यायवित्संमतत्वात् । अत एव मनुवचनविरोघे वचनान्तरं न प्राह्मं इति सिद्धं । कथं प्राबल्यमिति चेन्न । प्रामाण्यहेत्वतिशयात् । तथाहि । प्रामाण्यं तावच्छात्राणां परिग्रहबलेन कर्तुराप्तत्वाच्च प्रतिष्ठितं भवति । तत्र परिग्रहस्य वेदेपि प्रामाण्यसाधकत्वम् । अपौरुषेयत्वेन वेदस्य निर्दोषत्वनिर्णयात् प्रामाण्यं निर्णाय्य तेन परिग्रहतः सत्यम् । अपौरुषेयत्वमेत्र न परिग्रहमन्तरेणावगन्तुं शक्यते । तथाहि । सत्यामेत्र स्मर्तव्यतायां कर्तुरस्मरणादभावोऽवगन्तव्यः । स्मर्तव्यता च सति कर्तरि स्मरणावश्यं भावः । स च सत्येव तत्कृतस्परिग्रहे भवति गुणवर्तकत्वस्मरणं अन्तरेण बहुव्यवसायायासत्वसाध्य विषयस्य ग्रन्थस्यानन्तपरीक्षकपरिग्रहानुपपन्नेनान्यथा नह्यपरिगृहीतग्रन्थकर्तृस्मरणावश्यंभावि । सत्यपि तस्मिन् जीर्णकूपारामादि कर्तुरिव प्रयोजनाभावेनैवास्मरणोपपत्तेः । तस्मात् सिद्धमेतत् परिग्रहाधीनमेवापौरुषेयत्वमिति ।

अथ कोयं परिग्रहः । प्रामाण्याध्यवसायस्तदर्थानुष्ठानादिरूपो व्यापारः द्विविषश्चायं परिग्रहः लोकपरिग्रहश्शाखपरिग्रहश्वेति । लोकपरिग्रहोपि द्वेषा ग्रन्थोदाहरणं तदर्थादरश्चेति । शास्त्र परिग्रहस्तु त्रिविधः । शास्त्रान्तरेणात्मना तन्मूलत्वाभ्युपगमम् । यथोक्तं कात्यायनसूत्रे ययामायिकं तत्प्रामाण्याव अस्ति इति, स्वामिमतार्थ समर्थनाय च तद्वाक्योपन्यासः श्रद्धधते, मनुना गीतौ श्लोकावितिवत् । शास्त्रान्तरेषु प्रशंसा च यथा पुराणेषु भारतस्य ।

अथ कोयं कर्तुराप्तिर्नामाययार्थ दर्शनसामध्यं यथा दृष्टार्थवादित्वं च । सा च लोकतश्शास्त्राच्छास्त्रगुणैश्वावगताप्रामाण्यनिर्णयकारणं भवति । शास्त्रगुणाश्च प्रमाणान्तरविरोधः । माध्यस्थमर्थेषु पूर्वापराविरोध इत्यादयः तदेवं परिगृह्यस्याप्तेश्च प्रामाण्य हेतुत्वमविगीतमिति, तदतिशयस्य प्रामाण्यातिशय हेतुत्वेनाल्पपरिग्रहाच्छाखात् बहुपरिग्रहस्याप्तप्रणीतादाप्तप्रणीतस्य च प्राबल्यान् महाभारतस्येतरापेक्षया प्राबल्यमवसीयते । लोकपरिग्रहस्य द्विविधस्य ग्रन्थधारणतदर्थादररूपणस्य सार्वत्रिकस्य विद्यमानत्वाच्छास्त्रान्तरेषु प्रशंसारूपस्य शास्त्र-

353

ग्रहस्यापि विद्यमानत्वात् । परिग्रहातिशयोऽस्तीत्यध्यवसीयते । शाखान्तरे प्रशंसा कृतेति चेदुच्यते । वायुप्रोक्ते शैवयोगे -

’ मतिमन्धानमासाद्य येनासौ श्रुतिसागरात् ।

जगद्धिताय जनितो महाभारतचन्द्रमाः ॥ '

भविष्यत्पुराणे-

45

’ विमेति ग्रहणाच्छास्त्रान्नरस्तीवादिवौषधात् ।

भारत: शास्त्रसारोयं अतः काव्यात्मना कृतः ॥ आस्तिक्यारोह सोपानमेतद्भारतमुच्यते । श्रुत्वा तु स्वर्गनरकौ लोकः साक्षादिवेक्षते ॥ देवतातीर्थतपसां भारतायस्य निश्चयः । न जन्यते नास्तिकता तत्य मीमांसकैरपि ॥ विष्णौ वेदेषु विद्वत्सु गुरुषु ब्राह्मणेषु च । भक्तिर्भवति कल्याणि भारतादेव धीमताम् ॥ अजिझो भारतः पन्याः निर्वाणपथगामिनाम् । मोक्षधर्मार्थकामानां प्रपचो भारते कृतः ॥ एवं विधं भारतं वै प्रोक्तं येन महात्मना । सोयं नारायणः साक्षात् व्यासरूपी महामुनिः ॥ तथोक्तं भारतं वीर पाराशर्येण धीमता । वेदार्थ सकलं बोध्यधर्मशास्त्राणि च प्रभो || कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे । वर्णानां च विबर्णानां कृतं पोतमनुत्तमम् ॥ अष्टादशपुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यक्तीसूनुश्चके भारतसंहिताम् || यां श्रुत्वा पुरुषो नित्यं मुच्यते ब्रह्महत्यया । कृष्णं वेदं पश्चमं तद्यन्महाभारतं स्मृतम् ॥ '

354

मात्स्यपुराणे -

यस्य द्वैपायनः पुत्रः स्वयं विष्णुरजायत । प्रकाशो जनितो येन महाभारतचन्द्रमाः ॥ '

‘कृष्णद्वैपायनं पुंसां विद्धिनारायणं प्रभुम् ।

कोह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥ '

वैष्णवपुराणे -

मार्कण्डेयपुराणे -

'

भगवन् भारताख्यानं व्यासेनोक्तं महात्मना । युक्तमस्तमलैः शुभ्रैर्नानाशास्त्र समुच्चयैः ॥ जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् । पूर्वपक्षोक्तिसिद्धान्त परिनिष्ठासमन्वितम् ॥ त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा । भूषणानां तु सर्वेषां यया चूडामणिर्वरः || यथायुधानां कुलिशं इन्द्रियाणां यथा मनः । तथैव सर्वशास्त्राणां महाभारतमुत्तमम् || अत्रार्थश्चैव धर्मश्च कामोमोक्षश्च वर्ण्यते ।

परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक् ॥ कामशास्त्रमिदं श्रेष्ठं अर्थशास्त्रमिदं परम् । मोक्षशास्त्र मिदं चाग्रयं धर्मशास्त्रं तथोत्तमम् || चतुराश्रमधर्माणां आचारस्थिति शासनम् । प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता ॥ तथा तात कृतं ह्येतद्व्यासेनोदारकर्मणा । यथा प्राप्तमहाशाल विरोधैर्नाभिभूयते ॥ व्यासवाक्यजलौघेन कुतर्कतरुहारिणा । वेदशैलावतीर्णेन नीरजस्का महीकृता ॥

355

जलशब्दमहाहंसो महाख्यान पुरांबुजः । कथा विस्तीर्णसलिल: काष्णवेदमहाहदः ॥ तदित्थं भारताख्यानां बर्थबहुविस्तरम् ।

तत्वतो ज्ञातुकामोऽहं भगवन्तमुपस्थितः ॥ '

ते । एवमन्यत्रापि पुराणान्तरेष्वेव जातीयकानि वचनानि सन्ति । तस्मात् परिग्रहातिशयसिद्धिः । एतेनाप्युत्कर्षोऽपि निर्व्यूढः । एषु वचनेषु भारतकर्तुराप्ततमत्वप्रतीतेः । लोकपरिग्रहातिशयः न प्रमाणोत्कर्षहेतुः । ग्रन्थशोभाप्रयुक्तत्वेनान्यथा सिद्धत्वादिति चेन्न । धर्मार्थानां परिग्रहस्य प्रन्यशोभाप्रयुक्तत्वाभावात् । नहि बृहत्कथामञ्जर्यादौ प्रन्यशोभायां विचित्रकथावत्वेन सत्वेपि शिष्टानां परिग्रहो दृश्यते । न वा स्कान्दपुराणस्यान्यत्रापरिदृष्टविशेषवत्वप्रसिद्धिमचेपि भारततुल्यपरिग्रहो पते ।

अस्तु वा शोभाप्रयुक्त एव परिप्रहातिशयः । तथाप्यविप्लवनिर्णय कारणत्वात् प्रामाण्येनिर्णय हेतुत्वमविचाल्यम् । नहि प्रसिद्धे ग्रन्थे केनचिद्विप्लवः शक्यते कर्तुं । तदानीमेव बहुभिस्तन्निराससम्भवात् ।

किञ्च सत्वादिगुणविभक्तकल्पविशेषाधिकारेण प्रवर्तमानानां पुराणानां सत्वादिगुणक देवताविशेषतदनुबन्धि धर्मपक्षपातित्वं सम्भवतीत्याद्यन्ययासिद्धिवर्णनं न भारते सम्भवति । देवताविशेषतदनुबन्धि धर्मविशेषादिषु सङ्गदोषरहितत्वेन माध्यस्थ्यात् तस्माच्छावगुणाचीप्सतमत्वं भारतकर्तुरवसीयते । न च ’ यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमामित्यादि नारायणपक्षपातित्वमवसीयत इति वाच्यम् । अन्यपरवाक्ये नारायणचरितवर्णनात्मकत्व कीर्तनस्य पक्षपातित्वासाधकत्वात् । न हि वक्ष्ये लिङ्गोद्भवम्, शुभमित्यादिवदत्र नारायणकथात्वं कीर्तितम् ।

अपि च । ’ इतिहास पुराणाभ्यां वेदं समुपबृंहये दि’ त्यादावितिहास शब्दस्य पूर्वनिपातबलेनेतिहासस्य पुराणापेक्षयाभ्यर्हितत्वावसायात् । भारतस्ये तेह्रासतयापि प्राबल्यमवसीयते । अल्पाच्तरमिति पुराणशब्दस्य पूर्वनिपाते

356

कर्तव्ये इतिहासशब्दस्य पूर्वनिपातोभ्यर्हितत्वनिबन्धनः । नचाभ्यर्हितं पूर्व निपततीत्यस्याल्पाच्तरमित्यस्य चैकन समावेशे कथं निर्णय इति वाच्यम् । अभ्यर्हितत्वनिमित्तस्य प्राबल्यबोधनात् । उक्तं च महाभाष्ये । ’ सर्वेभ्य एवाभ्यर्हितं पूर्वनिपतति वक्तव्यमिति’ ।

I

नन्वेवमपि आप्ततमेन भगवता बादरायणेन प्रणीतत्वं भारत इव

उपपुराणेष्वप्यस्ति ।

‘अष्टादशपुराणानां कर्ता सत्यवतीसुतः '

इत्युकेरिति चेत् उच्यते ।

‘ब्राह्मं तु ब्रह्मणा प्रोक्तं पानं तेनैव शोभनम् ।

पराशरेण कथितं वैष्णवं मुनिपुङ्गव ।

शैवं शैलालिनाप्रोक्तम् ॥’

इत्यादिषु कर्त्रन्तरप्रतिपादनेन कर्ता सत्यवतीसुत इत्यस्य प्रवर्तकत्वाभिप्रायेणोप-

पत्तेः ।

अत एव -

‘अष्टादशपुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥’

इत्यादिकमुपपन्नम् । अत एव च भारतप्रणेतृत्वेनैव तस्य प्रसिद्धिः । न चैवं भारतमूलभूतत्वेन पुराणानां प्राबल्यमायातमिति वाच्यम् । अष्टादशपुराणानि ज्ञात्वा न्यायैस्तत्प्राबल्यपरिज्ञानपूर्वकं विरुद्धाशा प्रहाणेन वास्तवार्यमुद्धृत्य भारतप्रणयनं कृतं इति तदर्थावगमात् । न हि भारतप्रणयने अष्टादशपुराणज्ञानमेव हेतुरित्यवधारयितुं शक्यम् । व्यासस्य स्वतः सकलवेदसर्वशाखाद्रष्टृत्वादतो न भारताधिक्यं साम्यं वा पुराणानां वक्तुं युज्यत इति भारतस्यैव सर्वप्रमाणश्रेष्ठत्वम् ।

357

अस्तु भारतस्य प्रमाणतरत्वम् । अथापि तस्य नारायणपरत्वे किं

प्रमाणमिति चेत् न ।

"

भारताध्ययनात् पुण्यादपि पादमधीयतः ।

श्रद्धधानस्य पूयन्ते सर्वपापान्यशेषतः ॥

देवर्षयो यत्र पुण्या यत्र ब्रह्मर्षयस्तथा । कीर्त्यते पूतपाप्मानस्तथा यक्षमहोरगाः ।

भगवान् वासुदेवश्च कीर्त्यते ऽत्र सनातनः ॥ '

इत्यनेन नारायणतात्पर्यकत्वप्रतीतेः देवर्षिप्रमुखकीर्तनतुल्यतां वारयितुं प्राधान्य सूचकचकारः प्रयुक्तः । न च प्राधान्येन वासुदेवकीर्तन त्वोक्तावपि तस्यैव परब्रह्मत्वमत्र कथ्यत इति कथमनेनावगम्यतेति वाच्यम् । चकारसूचित प्राधान्योपपादकतया ।

‘सहि सत्यमृतं चैवपवित्रं पुण्यमेव च ।

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ॥

इत्युक्त्या ब्रह्मत्वाकार कीर्तनादेव तत्कीर्तन प्राधान्यमिति तात्पर्याविष्करणात् । न च वस्तुतः परब्रह्मभूतवासुदेवकीर्तनात्मत्ववर्णनपरत्वेनाप्युपपन्नमिदमिति वाच्यम् । तत्कीर्तनप्राधान्यस्य कृतिना एकीकृतत्वं पाण्डवानामेवेति तथात्वमादाय वर्णनासम्भवात् । ’ आकारान्तरस्य तद्धेतोरभावाद्वासुदेवश्च कीर्त्यत’ इति सूचितम् | प्राधान्ये को हेतुरित्याकाङ्क्षायां सत्यां वाक्यशेषकीर्तितब्रह्मत्वमेवेति अवगम्यमानत्वात् भगवान् वासुदेवश्च कीर्त्यतेऽत्र सनातन इत्यनेन ।

"

सहि सत्यमृतं चैत्र पवित्रं पुण्यमेव च । शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिस्सनातनम् ॥ यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः । असच्च सदसश्चैव यस्माद्देवात्प्रवर्तते ॥

358

सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवः । अध्यात्माश्रूयते यत्र पञ्चभूतगणात्मकः ।

अव्यक्तादिपरं तच स एव परिगीयते ॥

यं ध्यायन्ति सदा युक्ता ध्यानयोगबलान्विताः । प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥

इत्यस्यैक वाक्यत्वायोक्त विशेषणविशिष्टो वासुदेवः कीर्त्यत इत्यर्थस्य वाक्य तया दिव्यचरित्र वर्णनत्वाज्जगत्कारणत्व योगिध्येयत्वादिवर्णनमपि क्रियत इत्यक्गत्या नारायणपरब्रह्मत्ववर्णनात्मत्वस्यापि प्रतीतेः । न च जगत्कारणत्वादीनां विशेषणत्व सम्भवे उपलक्षणत्वस्वीकारो युक्तः ।

किञ्च ।

इत्युपक्रमे ।

‘आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।

"

तमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् || असच सश्चैव च यद्विश्वं सदसतः परम् । परापराणां स्रष्टारं पुराणं परमव्ययम् ॥ माङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ महर्षेस्सर्वलोकेषु पूजितस्य महात्मनः । प्रवक्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ '

वासुदेवं स्मरन् विद्वान् पुण्डरीकायतेक्षणम् । इतिहासमिमं पुण्यं महार्थं वेदसम्मितम् ॥’

इत्युपसम्हारे च प्रबन्धे भगवत्कीर्तनादध्यवसीयते । भगवतः कृष्णद्वैपायनस्य श्रीमन्नारायणः परादेवतेति सिद्धान्त इति । प्रतिपादितश्च भगवत्पारम्यमनन्यथा सिद्धम् । बहुषु स्थलेषु तस्मिन् प्रदेशे भगवता बादरायणेन तथाहि सम्भवपर्वणि पञ्चमेऽध्याये - ओम् ।

359

’ अनुग्रहार्थं लोकानां विष्णुलोकनमस्कृतः । वसुदेवात्सदेवक्यां प्रादुर्भूतो महायशाः ॥

अनादिनिधनो देवरसाक्षाल्लोकेश्वरः प्रभुः ।

अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥’

इत्यादि । चतुरशीतितमेऽध्याये | अर्जुनं प्रतिद्रोणः ।

कृष्णः कमलपत्राक्षः कम्सकालीयमर्दनः ।

सजेता सर्वलोकानां सर्वप्रहरणायुधः ॥ नैतावता ते पार्थ भवाम्यमृतवाहि । तदधीनं जगत्सर्वं तत्प्रलीलं तदुद्भवम् ॥ तत्पदं न विजानन्ति मानादयोपि च । तन्नामिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे ॥ स एव कर्ता भोक्ता च संहर्ता च जगन्मयः । स एव भूतं भव्यं च भवश्च पुरुषः परः ॥ सत्यः सर्वगतः स्थाणुरचलोयं सनातनः । प्रादुर्भवति योगात्मा पालनार्थं सलीलया || तत्तुल्याहि न जायन्ते न जातो न जनिष्यते । यत्पदस्य तु माहात्म्यं न मातुं मुवि शक्यते ॥ सहिमातुलजोऽभूत्ते चराचरगुरुः पिता ॥’ इति ।

सभापर्वणि मीष्मः -

’ तमिमं सत्वसम्पन्नमाचार्य पितरं गुरुम् । अर्न्यमर्चितमस्मामित्सर्वे सम्मन्तुमईय ॥ कृष्ण एव हि लोकानामुत्पत्तिरपि चाम्ययः । कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् ॥

इति । तत्रैव

360

एष प्रकृतिरव्यक्तः कर्ता चैत्र सनातनः । परश्च सर्वभूतेभ्यः तस्माद्वृद्धतमोच्युतः ॥ बुद्धिर्मनो महान् वायुस्तेजोभः खं मही च या । चतुर्विधं च यद्भुतं सर्वं कृष्णे प्रतिष्ठितम् ॥ आदित्यश्चन्द्रमाश्चैव नक्षत्राणि प्रहास्तथा । दिशश्चोपदिशश्चैव सर्व कृष्णे प्रतिष्ठितम् ॥ एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः । अक्षरः क्षररूपेण मानुषत्वमुपागतः ॥ '

अव्यक्तो व्यक्तलिङ्गस्यो य एष भगवान् प्रभुः । पुरा नारायणोदेवः स्वयंभूः प्रपितामहः || सहस्रशीर्षा पुरुषो ध्रुवोऽव्यक्तः सनातनः । सहस्रास्यः सहस्राक्षः सहस्रचरणो विभुः ॥

सहस्रबाहुः साहस्रो देवो नाम सहस्रवान् ।

सहस्रमकुटो देवो विश्वरूपो महाद्युतिः ||

अनेकवर्णो देवादिरव्यक्ताद्वै परेस्थितः । असृजत्सलिलं पूर्व स च नारायणः प्रभुः । ततः स भगवांस्तोये ब्रह्माणमसृजत् स्वयम् ॥ ब्रह्मा चतुर्मुखो लोकान् सर्वांस्तानसृजत्स्वयम् । आदिकाले पुराह्येवं सर्वलोकस्य चोद्भवः ॥ पुरार्थे प्रलये प्राप्ते नटस्थावरजङ्गमे । ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे ॥ आभूत संप्रवे प्राप्ते प्रलीने प्रकृतौ महान् । एकस्तिष्ठति विश्वात्मा सत्यनारायणः प्रभुः ॥

361

नारायणस्य चाङ्गानि सर्वदेवानि भारत । शिरस्तस्य दिवं राजन् नार्मिः खं चरणौ मही ॥ अश्विनौ कर्णयोदेवौ चक्षुषी शशिभास्करौ । इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः ॥ अन्यानि सर्वदेवानि तस्याज्ञानि महात्मनः । सर्व व्याप्य हरिस्तस्यौ सूत्रं मणिगणानिव ॥

सर्व तमोन्वितम् ।

आभूतसम्प्लवान्तेऽय दृष्ट्टा

नारायणो महायोगी सर्वज्ञः परमात्मवान् ॥ ब्रह्मभूतस्तथात्मानं ब्रह्माणमसृजत्त्रयम् । सोभ्यक्षः सर्वभूतानां प्रभूतः प्रभवोच्युत ॥ सनत्कुमारं रुद्रश्च मनुं चैव तपोधनान् । पूर्वमेवासृजझा ततो कोकान् तथा प्रजाः ॥ कल्पानां बहुकोट्यश्च समतीता हि भारत । आभूतसंप्लवाश्चैव बहुकोट्यो ऽमिचक्रमुः || मन्वन्तरं युगाजस्रं सकल्पं भूतसंप्लषाः । चक्रवत्परिवर्तन्ते सर्व विष्णुमयं जगत् ॥ सृष्ट्वा चतुर्मुखं देवं देवो नारायणः खयम् । स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः ॥ ब्रह्मातु सर्वदेवानां खोकस्य च पितामहः । ततो नारायणो देवस्सर्वस्य प्रपितामहः ॥ '

| एकोनसप्ततितमेऽध्याये ।

46

विष्णुर्नारायणस्सोमस्सूर्यश्च भवितास्वयम् । अप्रमेयो महेज्यश्च यत्र कामगमो वशी ॥ मोदते भगवान्भूतैर्बालः क्रीडनकैरिव । नैष गर्भत्वमापेदे न योन्यामवसत्प्रभुः ॥362

आत्मनस्तेजसा कृष्णस्सर्वेषां कुरुते गतिम् । यथा बुदबुद उत्थाय तत्रैव तु निलीयते । चराचराणि भूतानि तथा नारायणे सदा ॥ न प्रमातुं महाबाहुश्शक्यो भारत केशवः । परं हि परमस्तस्मात् विश्वरूपान्नविद्यते ॥ एवमुक्त्वा ततो मीष्मो विरराम महायशाः । व्याजहारोत्तरं तत्र सहदेवोऽर्थतत्ववित् ॥ केशवं केशिहन्तारं अप्रमेयमरिन्दमम् । सर्वलोकेश्वरं कृष्णं विज्ञाय पुरुषोत्तमम् ॥ तमिमं सत्वसम्पन्नमाचार्य पितरं गुरुम् । अर्च्यमर्चितमस्मामिः सर्वे सम्मन्तुमईथ ॥ यो वानपहते कश्चिद्राज्ञां सबलवाहनः । तस्य मूर्ध्नि सुविन्यस्तं रात्रः सव्यं पदं मया । एवमुक्तो मया सम्यगुत्तरं प्रत्रवीत्तुसः ॥ ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् । मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे ॥ ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि । अदृश्यदेहा वाचश्च साधुसाध्विति चाब्रुवन् ॥ आविध्यदर्जुनिं हृष्टो भविष्यद्भूतजल्पकः । सर्वसंशयनिर्मुक्तो नारदः सर्वधर्मवित् ॥ '

इति । आरण्यपर्वणि -

’ सन्ध्यानामपि देवानां वस्तूनामीश्वरेश्वरः ।

लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ दिवं ते शिरसा व्याप्तं पद्भयां च पृथिवी विभोः । जठरं खमिमे लोकाः पुरुषोऽसि सनातनः ॥

363

विद्यातपोभितप्तानां तपसा भावितात्मनाम् । आत्मदर्शनदृप्तानां ऋषीणां ऋषिसत्तम ॥

राजर्षीणां पुण्यकृतां आहवेष्वनिवर्तिनाम् । सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ॥ त्वं प्रमुक्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातन । लोकपालाच लोकाश्च नक्षत्राणि दिशस्तथा ॥ नभश्चन्द्रश्चसूर्यश्च त्वयि सर्व प्रतिष्ठितम् । मर्त्यतांचैव भूतानां अमरत्वं दिवौकसाम् ॥ त्वयि सर्व महाबाहो महत् कार्य प्रतिष्ठितम् ॥

इति । तत्रैव भगवन्तं देषाः ।

त्वम्नस्वष्टा च पाता च हर्ता च जगतां प्रभो । त्वया सृष्टमिदं सर्व स्थावरं जङ्गमं च यत् ॥

त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते ॥ '

इति । शताधिके द्विनवतितमेचाध्याये मार्कण्डेयं प्रति भगवान् ।

’ आपो नारा इति प्रोक्तास्तासां नाम कृतं मया ।

तेन नारायणो युको नाम यतं सदा ॥ अहं नारायणो नाम प्रमणः शाश्वतोऽव्ययः । विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ अहं विष्णुरहं ब्रह्मा शक्रश्वाहं सुराधिपः । अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ अहं शिवश्च सोमश्च काश्यपश्च प्रजापतिः । अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम । अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने । नभश्च सकलं कालो वायुर्मनसि मे स्थितः || '

364

इत्यादिना महता प्रबलेन भगवत्पारम्यं प्रतिपादितम् । शताधि के पद्मानवतितमेऽध्याये |

’ एकार्णवे निरालोके नष्टस्थावरजङ्गमे ।

नष्टेषु सर्वभूतेषु सर्वेषु भरतर्षभ ।

प्रभवो लोककर्ता च सविष्णुः शाश्वतोव्ययः ||

सुष्वाप भगवान्विष्णुरप्छायायां स एव हि । नागस्य भोगे महति शेषस्यामिततेजसः ॥ लोककर्ता महाबाहुर्भगवानच्युतो हरिः । नागभोगेन महता परिगृह्य च मेदिनीम् ॥ खपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् । नाभ्यां विनिस्सृतं तत्र तत्रोत्पन्नः पितामहः || '

इति । उद्योगपर्वणि ।

’ एकदेवो जगत्कृत्स्नं एकदेवो जनार्दनः ।

सारतो जगतः कृत्मादतिरिको जनार्दनः ॥ मनसैव जगत्कृत्स्नं भस्मीकुर्याज्जनार्दनः । ननु कृत्स्नं जगच्छतं किञ्चित्कर्तुं जनार्दने || पृथिवीं चान्तरिक्षं च द्यौश्चैव पुरुषोत्तमः । मनस्येव विसृष्टात्मा नयत्यात्मवशं वशी ॥ पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः । विचेष्टयति भूतानि क्रीडन्निव जनार्दनः ॥ कालचक्रं जगचकं युगचक्रं च केशव । आत्मयोगेन भगवान् परिवर्तयतेऽनिशम् ॥ कालस्य हि च मृत्योश्च जङ्गमस्थावरस्य च । ईशते भगवानेकस्सत्यमेतद्रवीमिते ॥

1

365

ईशन्नपि महायोगी सर्वस्य जगतो हरिः । कर्माण्यारमते कर्तु कीनाश इव दुर्बलः ॥ तेन वचयते लोकान् मायायोगेन केशवः ।

ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥’

भीष्मपर्वणि । भीष्मदुर्योधनसंवादे । भगवन्तं प्रति ब्रह्मा ।

‘क्षितिः पादोद्भवादेव दिक् बाहुर्योर्महाच्छिरः । मूर्तिस्तेषां सुराकायाश्वन्द्रादित्यौ च चक्षुषी ॥ बाळं तपश्च सत्यं च धर्मकामोद्भवास्तव | तेजोहि पवनश्वास्य मापस्तेष्वेव सम्भवः || अश्विनौ श्रवणी देव देवी जिल्हा सरखती । देवाः संस्कारनिष्ठा हि त्वयीदें जगदास्थितम् ॥ न संख्या न परिमाणं न तेजो न पराक्रमम् ॥’

कोन्वयं यो भगवता प्रमाणं विनयाद्विभो ।

वाग्मिस्तुतो वरिष्ठामिः ॥ '

देवैः पृष्टेन च ब्रह्मणोक्तम् ।

’ यत्तद्भूतं भविष्यच्च भवितव्यं च यत्परम् ।

भूतात्मायः प्रभुश्चैव मा

पदम् ॥

तेनाहं कृतसंवादः प्रसवेन सुरर्षभाः । जगतोऽनुग्रहार्थाय याचितो वै जगत्पतिः ॥

मानुषं लोकमातिष्ठ वासुदेवेति विश्रुतः ॥ '

। अयं च वृत्तान्तो मुनिभिरुपदिष्ट इत्येतच्छ्रुतं मया तातेत्युक्त्वा

रम्यं प्रतिपाद्य पुनश्च भीष्मेणोक्तं दुर्योधनं प्रति ।

'

वासुदेवो

महतं हि दैवतम् ।

नपरं पुण्डरीकाक्षात् दृश्यते भरतर्षभ ।

श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः ॥

366

नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च । असितो देवलश्वापि बाल खिल्यास्तपोधनाः ॥ मार्कण्डेयश्च गोविन्दे कपयस्यद्भुतं महत् । सर्वभूतात्मभूतात्मा महात्मा पुरुषोत्तमः ॥ आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् । स सृष्टा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥ अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः । सर्ववेदमयो देवः शयानः शयने सुखम् ॥ मुखतः सोनिमसृजत् प्राणाद्वायुमथापि च । सरखती च वेदांग वासुदेवो महायशाः ॥ एष लोकान् ससर्जादौ देवान् ऋषिगणैस्सह । निधनं चैव मृत्युश्च प्रजानां प्रभवाप्ययौ || एष धर्मश्च धर्मज्ञो वरदस्सर्वकामदः । एष कर्ता च कार्य आदेरादिः स्वयंप्रभुः । भूतं भव्यं भविष्यच पूर्वमेतदकल्पयत् ॥ उमे सन्ध्ये दिशः खं च नियमं च जनार्दनः । ऋषीश्चैवापि गोविन्दः तपश्चैवाप्यकल्पयत् ॥ सृष्ट्रा यज्जगताश्चापि महात्मा प्रमुरव्ययः । अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् ॥ शेषं चाकल्पयद्देवमनन्त इति यं विदुः । यो धारयति भूतानि धरां चेमां सपर्वताम् । ध्यानयोगेन विप्रांश्च तं वदन्ति महौजसम् || कर्णस्रतोद्भवश्चापि मधुर्नाम महासुरः । तमुप्रमुप्रकर्माणमुप्रबुद्धिं समाश्रितम् ॥ ब्रह्मणोपचितिं कुर्वन् जघान पुरुषोत्तमः । तस्य तात वादेव देवदानवमानवाः ||

367

मधुसूदन: इत्याहुः ऋषयश्च जनार्दनम् । वराहं नारसिंहंच त्रिविक्रमं इति प्रभुम् ॥ एष धाता विधाता च सर्वेषां प्राणिनां प्रभुः । परं हि पुण्डरीकाक्षान भूतं न भविष्यति ॥ असृजन्मुखतो विप्रान् बाहुभ्यां क्षत्रियांस्तथा ।

वैश्यांश्चाप्यरुतो राजन् शूद्रान् पद्भ्यां तथैव च ॥ '

इत्यादि । शान्तिपर्वणि । स्तवराजाध्याये । भगवतः सर्वोत्तमत्वं प्रतिपादितम् । मोक्षधर्मे ।

इति प्रश्ने

….

‘कुतस्सृष्टमिदं सर्व जगत्स्थावरजङ्गमम् ।

प्रलयं च किमप्येति तन्मे ब्रूहि पितामह ॥

स सागरस्सगगनः काकः ।

1

स भूमिस्सापिनो खोप केन निर्मितः ॥’

। भृगु भारद्वाजीयं संवादमुपक्षिप्य - ’ नारायणो जगन्मूर्तिरनन्तात्मा सनातनः ।

कूटस्थोक्षर अव्यक्तो निर्लेपो व्यापकप्रभुः ॥ प्रकृतेः परतोनित्य इन्द्रियैरप्यगोचरः । स सिसृक्षुः सहस्रांगादसृजत्पुरुषं द्विधा । मानसो नाम विख्यातः श्रुत्यू मनीषिमिः ॥ अनादिनिधनो देवस्तथाऽचोऽजरामरः । अव्यक्त इति विख्यातः शाश्वतः साक्षयोव्ययः ॥ यतः सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च । सोसृजत्प्रथमं देवो महान्तं नामनामतः ॥ '

इत्यादि । द्वात्रिंशेऽध्याये | मनुबृहस्पति सम्वादे बृहस्पतिः ।

’ एवं विद्वन् विजानीहि परमात्मानमव्ययम् । तत्तद्गुणविशेषेण संज्ञानामादिसम्युतम् ॥ सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः ॥

368

सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् । सर्वसाधारणः सर्वैरुपास्यः स महात्मभिः || वासुदेव इति ख्यातस्तं विदित्वाऽश्नुतेऽमृतम् ॥ अद्भयो महत्तरं चैव तेजसः पवनो महान् । पवनाच्च महद्व्योम तस्मात्परतरं मनः ॥ मनसो महती बुद्धिः बुद्धेः कालो महान् स्मृतः ।

कालात् स भगवान्विष्णुः यस्य सर्वमिदं जगत् ।

नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यत || '

इत्यादि प्रतिपादितम् । मायत्री मारद संवादे च तस्मिन्नेव सर्ववेदप्रतिपाद्यत्वं प्रपंषितम् । त्रयत्रिंशेऽध्याये |

श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।

नारदस्य च देवर्षे: कृष्णद्वैपायनस्य च ॥ असितो देवलस्तात वाल्मीकिश्च महातपाः । मार्कण्डेयश्च गोविन्दं कथयन्त्यद्भुतं महत् ॥ केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः । पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥ किन्तु यानि विदुलेकि ब्राह्मणाः शार्ङ्गधन्वनि । महात्मनि महाबाहो शृणु तानि युधिष्ठिर || यानि चातुर्मनुष्येषु ये पुराणविदोजनाः । श्रुत्वा सर्वाणि गोविन्दे कीर्तयिष्यामि तान्यहम् ॥ महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः । सर्वतेजोमयस्तस्मिन् शयानः शयने शुभे ॥ सोप्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् । आश्रयं सर्वभूतानां मनसेति ह शुश्रुम ॥ ससारमिति भूतात्मा उमे भूते भविष्यति । प्रद्युम्नमसृजत्तस्मात्सर्वतेजः प्रकाशकम् ॥ '

इत्याद्युक्त्या,

'

ब्राह्मणानां शतं ज्येष्ठं मुखादभ्यसृजत्प्रभुः । बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् ॥ पद्धयां शूद्रशतं चैव केशवो भरतर्षभ । स एव चतुरोवर्णान् समुत्पाच महातपाः ॥ अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः । वेदविद्याविधातारं ब्रह्माणममितद्युतिम् । भूतमात्रगणाध्यक्षं विरूपाक्षं च सोऽसृजत् ॥ '

इत्यादि प्रतिपादितम् । षट्र्विशेऽध्यायें

प्रयाणकाले किंजप्यं मोशिमिव चिन्तकैः । किन्नु स्मरन, कुरुश्रेष्ठ माने समुपखिते ॥

प्राप्नुयात्परमासिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥ '

,

इति प्रश्नोत्तरकथनपरे सन्दर्भे वासुदेवद्वादशाक्षरस्य जप्यमन्नत्वप्रतिपादनात् तदर्थस्य स्मर्तव्यत्वाविष्करणात् मुमुक्षुध्येयत्वमुपवर्णितम् । अनन्तरं स्तोत्र व्याजेन भगवतः परब्रह्मत्वमा विष्कृतम् । सप्तर्विशेऽध्याये ।

योगं मे परमं तात मोक्षस्य वद भारत । तमहं तत्वतोज्ञातुमिच्छामि वदतां वर ॥ '

इति प्रश्ने गुरुशिष्यसंवादमुपक्षिप्य ।

‘कुतश्चाहं कुतश्चत्वं तत्सम्यक् ब्रूहि तत्परम् ।

वेदेषु चैव यद्वाच्यं लौकिकव्यापकं च यत् ॥ '

इति शिष्पप्रश्नोत्तरे गुरुवाक्यसन्दर्भे

47

’ शृणुशिष्यमहाप्राज्ञ ब्रह्म गुह्यमिदं परम् ।

अध्यात्मं सर्वभूतानां आगमानाश्च यद्वसु ॥

370

वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् । सत्यं ज्ञानं तपोयज्ञस्तितिक्षादम आर्जवम् || पुरुषं सनातनं विष्णु यं तं वेदविदो विदुः । सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ॥ तदिदं ब्रह्म वार्ष्णेय इतिहासं शृणुष्वमे । ब्राह्मणो ब्राह्मणः श्राव्यो राजन्यः क्षत्रियैस्तथा ॥ माहात्म्यं देवदेवस्य विष्णोरमिततेजसः । अर्हस्त्वमसि कल्याण वार्ष्णेयाध्यात्ममुत्तमम् ॥ यत्तदक्षरमव्यक्तममृतं ब्रह्मशाश्वतम् । वदन्ति पुरुषव्याघ्राः केशवं पुरुषोत्तमम् ॥ कालचक्रमनाद्यन्तं भावाभाव विलक्षणम् । त्रैलोक्ये सर्वभूतेषु वक्त्रवत्परिवर्तते ॥ पितन् देवान् ऋषींचैत्र तथावै यक्ष राक्षसान् । नागासुरमनुष्यांश्च सृजते परमव्ययः ॥

तथैत्र वेदान् शास्त्राणि ठोके धर्मांश्च शाश्वतान् । प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः ॥ यथर्तुष्वृतुलिङ्गानि नामरूपाणि पर्यये ।

दृश्यते तानि तान्येव तथा ब्रह्महरादिषु || '

इत्यादिके भगवत्पारम्यं प्रपश्चितम् । एवं वृत्रोशनस्संवादे च भगवत्पारम्यं आविष्कृतम् । नारायणस्यापि च भगवतः सर्वस्मात्परत्वं बहुधाप्रपश्चितम् । आनुशासनिके मद्रराजव्याससंवादे - ’ विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः कृष्णो विष्णुर्यश्च कृत्स्नं प्रभुश्च । कृष्णो वेदाः वेदवादाश्च कृष्णः ए (वं) नं जानन् ब्राह्मणो ब्रह्म एति । स्थानं सत्र वैष्णवं यज्ञमार्गे चातुर्होतं वैष्णवं तत्र कृष्णः इत्यादीनां ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयी च । त्रयोनयश्वाहुतयश्च पश्च सर्वेदेवा देवकीपुत्र एवेत्यन्तेन सन्दर्भेण भगवदुत्कर्ष

371

उत्पादितः । सनत्कुमार-नारद संवादे च । यं विश्वमुपजीवन्ति येन सर्वमिदं ततम् । यं प्राप्य न निवर्तन्ते तं भवान्वक्तुमर्हसीति प्रश्नोत्तरत्वेन प्रवृत्ते यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम् । तं वै शृणु महाबुद्धे नारायणमनामयम् |

’ एष नारायणो नाम यं विश्वमुपजीवति ।

एष स्रष्टा विधाता व मर्ता पालयिता प्रभुः । प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्म चिन्तकाः || एतावदेव वक्तव्यं मया नारद पृच्छते । परं न वेद्मि तत्सर्व यावांश्चाहं यथाप्यहम् || निशासुप्तोऽय भगवान् क्षपान्ते प्रत्यबुध्यत ।

पश्चाद्बुध्वा ससर्जापस्तासु वीर्यमपासृजत् ॥

इत्यादि सन्दर्भे भगवदुत्कर्षवर्णनं तमः। सुपर्णवैकुण्ठ संवादे च महता प्रबन्धेन भगवतः परत्वं प्रपश्वितम् । सनत्कुमाररुद्र संवादे ।

’ किं वा ज्ञानेन द्रष्टव्यं यद्भवाननुपश्यति ।

यच्च ध्यात्वा न शोचन्ति यतयस्तत्वदर्शिनः ॥ कथयत्वमिमं देवं देहिनां यत्र संमतम् । श्रेष्ठो भावोहि सर्वेषां ज्ञानमनिन्दितम् ॥ चतुर्थस्त्वं त्रयाणान्तु ये गताः परमां गतिम् ॥

इति रुद्रेण पृष्टेन सनत्कुमारेण ।

6

‘देवदानवगन्धर्वा यक्षराक्षस किन्नराः ।

यं न जानन्ति कोषः कुतो वा भगवानिति ॥ ओमित्येकाक्षरं ब्रह्म यत्तत् सदसतः परम् । अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम् ॥ योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगद्गतिम् । अनादिनिधनं देवं आत्मयोनिं सनातनम् ॥372

अप्रमेयमविज्ञेयं हरिं नारायणं प्रभुम् ।

"

कृताञ्जलिः शुचिर्भूत्वा प्रणम्य प्रणतोच्चय || अनाद्यन्तं परं ब्रह्म नदेवा नर्षयो विदुः । एकोयं वेद भगवान् धाता नारायणः स्वयम् || नारायणादृषिगणास्तथा सिद्धमहोरगाः । देवा देवर्षयश्चैव यं विदुर्दुःख मेषजम् ॥ यमाहुर्विजितस्लेशं यस्मिंश्च विहिताः प्रजाः ।

यस्मिन् लोकाः स्फुरन्तीशे जाले शकुनयो यथा ॥ '

इति भगवद्दुस्कर्षः प्रतिपादित इत्युक्तम् । पुण्डरीकनारद संवादे

यत् ज्ञेयं परमं कृत्यं अनुष्ठेयं महात्मभिः । सारं मे सर्व शास्त्राणां वक्तुमईस्यनुग्रहात् ॥ '

इति प्रश्नोत्तरत्वेन प्रवृत्ते

’ श्रयतामिदमत्यन्तं गूढं संसारमोचनम् ।

श्रोतव्यश्च त्वया सम्यक् ज्ञातव्यं च विशांपते । पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः । नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् ॥ नारदश्वाब्रवीदेनं ब्रह्मणोक्तं महात्मना । अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थ सागरम् ॥ यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः । स एव सर्वभूतात्मा नर इत्यमिचीयते ॥ नराज्जातानि चत्वारि नाराणीति ततो विदुः । तान्येव चापनं तस्य तेन नारायणः स्मृतः ॥ नारायणाज्जगत्सर्व स्वर्गलोके प्रजायते । तस्मिन्नेव पुनस्तच प्रलये संप्रलीयते ॥

373

नारायणः परं ब्रह्म तत्वं नारायणः परः । परादपि परश्वासौ नास्ति तस्मात्परात्परम् || वासुदेवं तथा विष्णुं आत्मानं च तथा विदुः । संज्ञा भेदैस्स एवैकस्सर्वशाखामिसंस्तुतः ॥ आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा । तस्मात्वं गहनान् सर्वास्त्यक्त्वा शास्त्रार्थ विस्तरान् ॥ अनन्यचेता घ्यायख नारायणमजं विभुम् । मुहूर्तमपि योध्यायेन्नारायणमतंद्रितः ॥

सोपि बद्धतिमामोति किं मुरायणः ।

नमो नारायणायेति यो वे

साधतम् ॥

अन्तकाले जपमेति तद्विष्णोः परमं पदम् । श्रवणान्मननाञ्चैव गीतिस्तुत्यर्चनादिभिः ॥ आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा । लिप्यते न स पापेन नारायणपरायणः ॥ पुनाति सकलं लोकं सहस्रांशुरिवोदितः । ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽय मिक्षुकः ॥ केशवाराधनं हित्वा नैक्याति परां गतिम् । जन्मान्तरसहस्रेषु दुर्लभा तद्गतामतिः ॥ तद्भक्तवत्सलं देवं समाराधय सुव्रत । नारदेनैवमुक्तस्तु स विप्रोप्यर्चयद्धरिम् ॥

स्वमेऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् । किरीटकुण्डलघरं लसच्छ्रीक्सकौस्तुभम् ॥

इति सन्दर्भे भगवदुत्कर्षः प्रतिपन्नः । - एवं भगवत्पारम्य प्रतिपादकानि वचनानि बहूनि सन्ति । तानि च सामस्त्येनोदाहर्तुं न शक्यानीति दिङ्मात्रमुदाहृतम् |

374

….

,

अपि च । ’ श्रुतोयमथरामस्य ’ ‘श्रुतं मे तात रामस्य ज्ञानवृद्धामया राजन् बहवः पर्युपासिताः । आदुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवको व्यासः स्वयं चैव ब्रवीषि मे । विहितोसि हि दुर्धर्ष नारदादेवखात्तथा । इत्यादिषु बहुषु स्थलेषु ब्रहाचार्याभिमतत्वाख्यानात् भगवत्पारम्यं भारतसिद्धान्तः ।

किञ्च भीष्मसिद्धान्त एव भगवतो बादरायणस्य सिद्धान्तः । यदि हास्ति तदन्यत्र यत् नेहास्ति न तत् कचिदित्युक्तरीत्या सकलधर्मरहस्य निधाने प्रबले मीष्मोपदेशमुखेनैव तेषां व्यक्तीकरणात् भीष्मेणोपदेशदशायां - ‘नारदस्य च देवः कृष्णद्वैपायनस्य च । व्यास नारदयोश्चापि श्रुतं श्रुतवतां वरेत्यादिषु खोपदिश्यमानार्थानां व्याससकाशाच्छ्रतत्वाभिधानात् मीष्मस्याप्ततमत्त्रप्रतिपादनाच । - तथाहि शान्तिपर्वणि राजधर्मेषु युधिष्ठिरः - ’ श्रोतुमिच्छामि भगवन् विस्तरेण महामुने । राजधर्मं द्विजश्रेष्ठ चातुर्वर्णस्य चाखिलान् । आपत्सुच यथा नीतिः प्रणेतव्या द्विजोत्तम’ । एवं पृष्टः

तमुवाच महातेजा व्यासोयवदतांवरः । नारदं सममिप्रेक्ष्य सर्व जानन् पुरातनम् ॥ श्रोतुमिच्छसि चेद्धर्मान् निखिलेन नराधिप । हि मीमं महाबाहो वृद्धं कुरुपितामहम् ॥ स ते सर्वरहस्येषु संशयान्मनसि स्थितान् । देता भागीरथीपुत्रः सर्वज्ञः सर्वतत्त्ववित् ॥ जनयामास तं देवी साक्षात्त्रिपथगामिनी । साक्षाद्ददर्श देवान् सर्वान् शक्रपुरोगमान् ॥ बृहस्पति पुरोगांश्च ब्रह्मर्षीनसकृद्विभुः । तोषयित्वोपचारेण स च नीतिमधीतवान् ॥ उशनादेव यच्छासं देवासुरगुरुद्विजः । तच सर्व सवैयाख्यं प्राप्तवान् गुरुसत्तमः ॥

375

भार्गवाच्च्यवनाच्चापि वेदान् सांगोपबृंहितान् । प्रतिपेदे महाबाहुर्वसिष्ठाचरितव्रतः ॥ पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् । अध्यात्मगतितत्वज्ञमुपातिष्ठदयं पुरा ॥ मार्कण्डेयमुखात्कृत्स्नं यद्रि धर्ममवाप्तवान् । रामादस्त्राणि शुक्राश्च प्राप्तवान् पुरुषर्षभ ॥ मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि । तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः ॥ यस्य ब्रह्मर्षयः पुण्या नित्यमासन् सभासदः । यस्य नाविदितं किचित् ज्ञानं ज्ञेयेषु विद्यते ॥ सते वक्ष्यति धर्मको धर्मान: सूक्ष्मार्थतत्ववित् ॥ '

इत्याप्ततमत्वं प्रतिपादितम् । तथा—

’ वसिष्ठशिष्यं तं तातं मनसास्मि गतो नृप ।

दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् ॥ सांगांश्च चतुरो वेदान तमस्मि मनसा गतः । रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव ॥ आधारं सर्वविद्यानां समस्मि मनसागतः । सहि भूतं च भव्यश्च भगश्च पुरुषः परः ।। वेत्ति धर्मभृतां श्रेष्ठस्ततों में तद्गतं मनः । तस्मिन् हि पुरुषव्याघ्रे शान्ते मीष्मे महात्मनि । भविष्यति महीपाल नष्टचन्द्रेव शर्वरी ॥ चतुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च । चातुर्वण्यं च धर्मं च पृच्छ त्वं पृथिवीपते ॥

तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे ।

ज्ञानान्यल्पी भविष्यन्ति तस्मात्वां चोदयाम्यहम् ॥’

376

इत्यादिषु भगवता व्याप्ततमत्वं भीष्मस्याख्यापितम् ।

‘तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् ॥’

इति मीष्मे ज्ञानातिशयवत्परवचनस्य तथ्यत्वकथनं च व्याससिद्धान्तमाविष्करोति ।

यद्भवानाह मीष्मस्य प्रभावं प्रति माधव । तत्र नान सन्देहो विद्यते मम माधव ॥ महाभाग्यं च भीष्मस्य प्रभावं च महात्मनः । श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् || भवांश्च कर्ता लोकानां यद्ववीत्वरिसूदनः । तथा तदवबुध्येयं वाक्यं यादव मन्दन || '

इत्यपि भीष्मस्याप्ततमत्वं दृढयति । तस्मात् भीष्मस्याप्ततमत्वेनोपदेशस्य तत्सिद्धान्तस्य स्वसिद्धान्तख्यापनार्थत्वात् । भगवत्पारम्यस्य तेन भीष्मेष समापर्व भीष्मपर्व शान्तिपर्वानुशासनिकादिषु सामान्यप्रश्ने विशेषोत्तररूपेण तत्वपरेषूपाख्यानेषु बहुधा प्रपश्चितत्वात् भारतकतुर्भगवत्पारम्यमेत्र सिद्धान्त इति सिध्यतीति सर्वमनवद्यम् ।

यदाह कश्चित् – कृष्णेन कृष्णावताररूपेण प्राक् प्रतिगृहीतैः पूर्वरूपैः परवासुदेवात्मक मूलरूपेण च सदा पूज्यमानत्वं महाभारते शिवस्य प्रतिपाक्त इति तस्यैव नारायणापेक्षयोत्कर्षो भारतात् इत्युन्नीयते । तत्र तात् सौप्तिके अश्वत्थामानं प्रति शिववचनम् -

‘सत्यशौचार्जवत्यागैस्तपसा नियमेन च ।

क्षांत्या भक्त्या च धृत्या च कर्मणा मनसा गिरा ॥

अहं यथावदाराध्यः कृष्णेनाक्लिष्टकर्मणा ।

तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥ '

इति - आदिपर्वणि सुभद्रापरिणयप्रस्तावे । समुदमध्ये

कचिद्दीप विशेषे

कृष्णेन शिवस्य पूजार्थं प्रवर्तितो महोत्सवः प्रपश्चितः । उपमन्यूदेशेन

377

कृष्णस्य द्वादशाब्दात्रधिक पाशुपतव्रतानुष्ठानपूर्वकं शिवाराधन मानुशासनिके णि प्रपचेन प्रतिपादितम् । स प्रसिद्धं भारतशेषे हरिवंशे पार्थचरितं विहाय श्रीकृष्णचरितमेव निबन्धुं कृते पारिजातसंहितायां कैलासयात्रायामन्यत्त्र न तत्र तत्र पूजास्तुति तपोभिः कृष्णेन शिवप्रीणनं वैकृतमिति प्रपचेन वर्णितम् । द्रोणपर्वणि । द्रोणवधानन्तरं क्रोधेन स्वप्रहितमाग्नेयास्त्रं कृष्णार्जुनयोः प्रथितं दृष्ट्ा ब्रील्या घिगिति शस्त्रं परित्यज्य दक्षिणां दिशं प्रस्थितमश्वत्थामानं प्रति मार्गेिणागतस्य वेदव्यासस्य वचनम् ।

’ देवदेवस्त्वचिन्त्यात्मा अजय्यो विष्णुरव्ययः । सर्वरूपं भवंज्ञात्वा लिङ्गेचयति स प्रभुम् । तस्मिन्नभ्यधिकां प्रीतिं करोति सुषभध्वजः ॥ '

इति – तथा तत्रैव । एतौ कृष्णार्जुनों पूर्वं मरनारायणावृषी । ताभ्यां लिङ्गार्चनया षष्टिवर्ष सहस्राणि शिवमाराधयितवद्भ्यां शिवेनातुलबलवीर्यपराक्रमादयो बहवो वरादत्ता इति वेदव्यासेन कथितेनाहं किं शिवपूजक इति कृतानुयोगमश्वत्थामानं प्रति तस्यैव वचनम् ।

जन्मकर्मतपोयोगास्तयोस्तत्र च पुष्कलाः ।

आभ्यां लिङ्गेर्चितो देवस्वयार्थाय युगे युगे ॥ '

इति । इदश्च मैनाके श्रीकृष्णस्य तपश्चरणं; बहुलाई श्वेत्युभयम् । पारिजातजिगीषया शिवं सम्पूज्य स्तुवन् कृष्णः शिवेनैव स्मारितः ।

48

’ इति संस्तूयमानो वै भगवान् गोवृषध्वजः । प्रसार्य दक्षिण बाहुं वासुदेवमथाब्रवीत् ॥ मनीषितानामर्थानां प्राप्तिस्तेस्तु सुरोत्तम । पारिजातं च हर्ताहं माभूत्ते मनसो व्यथा ॥ पुरा मैनाकमाश्रित्य तपार्थमकरोद्यदा । तदा मम वचः कृष्ण संस्मृत्य स्थैर्यमाप्नुहि ॥

378

अत्रभ्यस्त्वमजय्यस्त्वं मत्तः शूरतरस्तथा ।

भवितासीत्यवोचं यत्तत्तथा न तदन्यथा ||

इति – एवं कृष्णस्य स्वपूर्वपरिगृहीतरूपैः कृते शिवाराधने कानिचिद्वच उदाहृतानि तस्य मूलरूपेण कृतं शिवाराधनं ततो वरलाभश्चेत्युभयमार पर्वणि तीर्थयात्राविधौ दर्शितं

’ ततो गच्छेत् सुपर्णाक्ष त्रिषु लोकेषु विश्रुतम् ।

यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ||

वरांश्च सुबहून् लेमे दैवतैरपि दुर्लभान् । उक्तं च त्रिपुरघ्नेन परितुष्टेन भारतः ॥

अपि चान्यैः प्रियतमो लोके कृष्ण भविष्यसि ।

त्वन्मुखं च जगत्सर्वं भविष्यति न संशयः ॥

इति – एवं दैवतकण्टकत्रघे सम्भावितस्य दोषस्य प्रायश्चि शिवाराधनरूपमेव भगवता कृतमिति तीर्थयात्राविधावेव पठ्यते ।

’ तीर्थ कुरुकुलश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ।

प्रयाति नाम्ना विख्यातं सर्वपापप्रणाशनम् ॥ यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् । तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ॥ जन्मप्रभृतिपापानि कृतानि नुदतेहरः । देवी चात्र नरश्रेष्ठ सर्वदेवैरेभिष्टुता ॥ तत्र स्नात्वा नरव्याघ्रहयमेधमवाप्तवान् ॥

जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ।

पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् ’ ॥

इति । अत्र शौचशब्देन शिवाराधनरूप प्रायश्चित्तमेवोक्तम् । यत्र ग्रह देवा उपासन्ते महेश्वरमिति सन्निविपाठात् तीर्थयात्रा विधावेव नारा‍

379

माहित हिरण्यगर्भस्य शिवपत्न्याराधकत्वोक्तया कैमुतिकन्यायेन सदा शिवाराधसत्यमपि भगवतो नारायणस्य विभावितम् ।

’ ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् । सहस्रकं च तत्रैव द्वैतीर्थे लोक विश्रुते ॥ उभयोश्च नरः स्नात्वा गोसहस्रफलं लभेत् । तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते ॥ अन्वास्ते कुरुश्रेष्ठ नारायणपुरोगमैः । सान्निष्यं तव राजेन्द्र शिवपत्न्या कुरूद्वह || अर्चयित्वा तु तां देवीं न दुर्गतिमवाप्नुयात् ॥’

इति । अन्नक्षेत्रे देवी सानिध्यस्य तदचनतत्फलयोश्च वचनेन सम्भूय स्थिते: नारायणादिभिर्देवैः अन्वास्यमानस्य प्रह्मणोवस्थानं देव्याराधनार्थमित्युन्नीयते ॥ आनुशासनिके च

’ त्वं च ब्रह्मा च विष्णुश्च त्वं च शक्रसमाहरैः ।

अर्चयध्वं सदा लिङ्गं तस्मात् पूज्यतरो हि कः ॥ '

इत्युपमन्युवचनेन ब्रह्मविष्ण्वादिना नित्यमेव शिवाराधकत्वं स्पष्टीकृतम् । एवं मौप्तिकादिषु अवताररूपस्य परसादेवस्य च श्रीकृष्णस्य च शिवपूजने : सकलवरलाभोक्त्या यत् भारते शिक्त्य पारम्यं व्यञ्जनावृत्त्या प्रतीयते तदेव श्रीमहाभारतस्य वाच्यम् । श्रीनारायणचरितद्वारा व्यज्यमानं श्रीमहाभारतस्य प्रतिपाद्यम् । तस्य काव्यश्रेष्ठत्वेन व्यंग्यार्थ प्रधानकत्वात् । अतो भारतस्य शिवपारम्यतात्पर्यत्वमिति

अत्नोच्यते - न तावत् कृष्णेन शिवाराधनानुष्ठानप्रतिपादनात् शिवोत्कर्षपरत्वं भारतस्याभ्युपगन्तुं युक्तम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे । '

380

इति वचनेन धर्मसंस्थापनार्थायाक्ती णित्वेनावगतस्य सन्ध्यावन्दनाग्निहोत्रदर्शपूर्णमासाद्यनुष्ठानवदस्याप्युपपत्तेः । न हि सन्ध्यावन्दनादिसम्बन्धिसूर्यादीनां कृष्णापेक्षया परत्वं वक्तुं युक्तम् । किं बहुना - ‘पपौ पादोदकं मुनेरि त्यादि - मिर्नारदाद्यभ्यर्चनत्वमपि तस्यावगम्यत इति न कृष्णार्चितत्वात् तदा धिक्यं

साधकम् ।

किं च किं नारायणाभ्यर्चितः त्रिमूर्त्यन्तर्गत उत परमशिवः । नाथः,

ब्रह्मपुत्रस्य तस्यानपहतपाप्मा वा …..

अहमस्मिनाममेवे हि ’ इत्युक्त्याऽनपहतपाप्मत्वेनावगतस्यापहतपाप्मत्वेनावगतनारायणापेक्षयोत्कर्षोक्त्ययोगात् ।

किं च महाभारत एव सनत्कुमाररुद्रसंवादे - ’ तं प्रोत्राच खागतं महेश्वर सूत एतदासनमासताम्’ इत्यत्र ब्रह्मपुत्रत्वेनावगतस्य,

  • चतुर्थस्त्वं त्रयाणां तु ये गताः परमांगतिम् । ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात् ॥ वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा || '

इलनेन कर्मवश्यत्वप्रतिपादनात् न तस्य सनत्कुमारापेक्षया न्यूनत्वेनावगम्यमानस्य भगवदपेक्षयाधिक्यम् । न च ब्रह्म भगवद्रुद्रापेक्षया संहाररुद्र-

….

तोऽन्य एवेति वाच्यम् । एवमपि कृष्णेनोपासितत्वं ब्रह्मपुत्रस्यावगम्यत यत्वेन संहाररुद्रस्य तदन्यैश्चैवाधिक्यसाधनासम्भवात् कथं कृष्णाचे-

त्वं सिष्यतीति चेत् - उच्यते

‘अश्वत्थामार्चितः कृष्णोऽर्चितश्च शिव एक एव ।’

इति तावत् सिद्धम् ।

'

क्षान्त्या भक्त्या च धृत्या च कर्मणामनसागिरा ।

अहं यथावदाराध्यः कृष्णेनाक्लिष्टकर्मणा ॥ तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते । '

इत्याद्यश्वत्थामाराधनपूजितशिक्वाक्यात् ।

381

’ आभ्यां लिङ्गेऽर्चितो देवः त्वयार्चायां युगे युगे । '

व्रत व्यासवचनाश्चाश्वत्थामोपास्यश्च ब्रह्मपुत्र एव । युधिष्ठिरेण कथमेके-

त्याना बहवो धृष्टद्युम्ना हता इति पृष्टेन कृष्णेन ।

’ नित्यं सदैव देवानां ईश्वरेश्वरमव्ययम् ।

जगाम शरणं देवमेकरलेनाववीत् बहून ॥ '

इति रुद्रमाहात्म्यात् धृष्टद्युम्नादिहन्तृत्वमुपपाय |

सिसृक्षुरय भूतानि स सृजेत्प्रथमं प्रभुः । पितामहोऽब्रवीचैनं भूतानि कुरु मा चिरम् ॥ हरिकेशस्तथेत्युक्त्वादीर्घदर्शी तथा प्रभुः । दीर्घकालं तपस्तेपेऽसि महातपाः ॥

इति ब्रह्मपुत्रत्वाविष्करणात् ।

किं चाश्वत्थामोपास्य चरित्रमुपक्रम्य ।

ततस्स यज्ञं देवेशो विव्याध हृदि पत्रिणा । व्यपासरत्तदा यज्ञो मृगो भूत्वा स पापकः ॥ त्र्यम्बकः सवितुर्बाहु भगस्य नयने तथा ।

पूष्णश्च दशनान् सर्वान्न-धनुकोव्याप्यशातयत् ॥

इत्यादि चरित्रं वर्ण्यते । तस्य पुरत्वं ‘प्रजापतिस्तमसृजत् । तमसो - 5ते महातप’ इत्युपक्रम्य शतरुद्रीये ।

’ प्रजापतेस्तु दक्षस्य यजतो बिततेक्रतौ '

इत्यादिना वर्णनादवसीयते । अपि च क्रतुध्वंसत्रिपुरसंहरणयोरेकपुरुषचरित्रत्वमर्जुनसाहाय्यकर्तृत्वेन प्रतिपादित पुरुषचरित्रत्वेन तयोद्रोणपर्वणि प्रतिपादनादवसीयते । त्रिपुरसंहरणं चतुर्मुखापेक्षया न्यूनस्य चरित्रमिति ।

तानब्रवीत् महादेवो मत्तः श्रेष्ठतरो हि यः ।

तं सारथिं कुरुध्वं वै स्वयं संचिन्त्यमाचिरम् ॥382

इत्यादि कर्णपर्ववचनबलादवगम्यते । ततोऽपि कृष्णोपास्य चतुर्मुखपुत्र

1

न चास्य नारायणापेक्षयोत्कर्षो वर्णयितुं शक्यः ।

’ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।

ब्रह्मा मामाश्रितो नित्यं नाहं किंचिदुपाश्रितः || '

इत्यादिप्रमाणविरोधात् । स एव न द्वितीयः । उक्तप्रमाणबलात् ब्रह्म तदर्चनीयत्वावगमात् । परमशिवगामित्वायोगात् कृष्णार्चनीयत्वस्य ।

अपि च द्रोणपर्वणि लिङ्गाचकत्वप्रतिपादनप्रकरण एव

बादरायणेन ।

1

योऽसौ मारायणो नाम पूर्वेषामपि पूर्वजः । आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः ॥ रक्षिता सर्वलोकस्यानादिनिधनोऽच्युतः । व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ६ ॥ अजेतव्यः सर्वभूतैः मनसाऽपि जगत्पतिः । तस्मादिमं जेतुकामोऽज्ञानतमसावृतः ॥

मा शुचः पुरुषव्याघ्र विद्धि तद्वदिहार्जुनम् । तस्याश्शक्तिरसौ पार्थ तस्माच्छोकमिमंत्यज ॥

इति । प्रथमं भगवतो जगत्कारणत्ववेदवेद्यत्वादिप्रतिपादनमुखेन स्वाभावि शयार्यमजस्यत्वहेतुं प्रतिपाद्य पुनरपि ।

यो द्रौणेरात्मनोजन्यत्वहेतुर्महेश्वरप्रसादादप्रतिहतवीर्यात्रा दिलाभो |

स्वत्रापि तदतिशयं वकुम् ।

विश्वे परोऽय लोकादिपरमात्माऽप्यधोक्षजः । सहस्रसम्मितादंशादेषांशोऽयमजायत । वेद्यानां हितकार्यार्थ लोकानां चैव सत्तम ।

व्याजायत सत्कार्यायै पुत्रो धर्मस्य विश्वसृक् ॥ '

383

इत्यादिना तपश्चरणं शिवस्तुतिः ततो वरलाभादिकं च प्रतिपादितमिति ।

"

पुनस्त्वहं देवयोनौ वर्तामि भृगुनन्दन ।

तदेह देववत्सर्व आचरामि न संशयः ॥

कर्माण्यारभते कर्तुं कीनाश इस दुर्बलः ।

तेन वचयते लोकान् मायायोगेन केशवः ॥ '

इल्यादिप्रमाणप्रतिपन्नया रीत्या अवतारमर्यादानुसारित्वं स्फुटमवगम्यत इति न शिवाचकत्वं भगवन्निकर्षापादकम् ।

किं च

प्रीस्यास्य वै लोकपितामहे शिवात्मानमात्मानमनन्यभावम् । '

विद्वानेवं ब्रह्मशुक्रमिति वचनेनापि तत्रत्येन भगवन्निकर्षपरिहारः सुच्यत इति न भगवदपेक्षया शिवाधिक्यसाधकं तदाराधकत्वम् । किं च ब्राह्मणादिसाधारणमप्यनिर्वचनीयत्वं देवतान्तरापेक्षया भगवति निकर्षशङ्कामपि जनयितुं न प्रभवति ।

मया प्रमाणं हि कृतं लोकस्समनुवर्तते । प्रमाणानीह पूज्यानि ततस्तं पूजयाम्यहम् ॥ न हि में केनचिदेयो वरः पाण्डवनन्दन । इति संचिन्त्य मनसा पुराऽहं विश्वमीश्वरम् || पुत्रार्थमाराधितवानात्मानात्मानमात्मनः ।

न हि विष्णुः प्रणमति कस्मैचित् विबुधाय तु ॥ ऋतमात्मानमेवेति ततो रुद्रं नमाम्यहम् ।

स ब्रह्मकाः स रुद्राश्च सेन्द्रा देवा महर्षिभिः ॥ अर्चयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् ॥’

इति । तत्त्रैव भारते भगवत्कृतशर्वार्चनस्य धर्मसंस्थापनार्थत्वस्य स्वभावतस्तस्यान्यार्चनकरत्वाभावस्य ब्रह्मरुद्रार्चनीयत्वस्य चाविष्करणात् । किं च कृष्ण-

384

कृतशिवोपासनावर्णनप्रकरण एव कैलासयात्रायां परवस्तुनिर्धारणासमर्थम् शङ्कापनोदनार्थमुपासकातिशयस्य तदुपास्यापरत्वस्य च ।

इत्यनेन -

एतदेव परं वस्तु नैतस्मात् विद्यते परम् ।’

’ ध्यात्वा मां सर्वयलेन ततो जानीत केशवम् ।

उपास्योऽयं सदा विप्रा उपायोऽस्मि हरेः स्मृतौ ॥ '

इत्यनेन ‘क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।

आवां तत्राने सम्भूतौ तस्मात्केशवनामवान् ॥ '

इत्यनेन च प्रतिपादनात् कथं कृष्णकृतशिवाराधनं तस्यावरत्वमापादयेत् ।

ननु माऽस्तु कृष्णाथवतारदशाभाविधर्म संस्थापनार्थ शिवार्चनं शिव साधकमिति मूलरूपेण नारायणकृतं तु शिवाराधनं तदतिशय साधकं रु चेत्-न । मूलरूपेण शिवार्चनं कृतमित्यत्र भारतेऽनन्यथासिद्धवचनादर्श’ ’ यक्ष विष्णुः प्रसादार्थ रुद्रमाराधयत्पुरा’ इत्येतदवतारदशाभाव्यर्चन योपपनं तस्य तीर्थप्रशंसापरस्य यथाकथश्चिदुपपन्नार्थत्वात् । अन्यथा |

• न हि मे केनचिद्देयो वरः पाण्डवनन्दन

इत्यादिविरोधात् । न चावतारदशाभाव्यचनपरत्वे ।

’ तन्मुखं च जगत्सर्वं भविष्यति न संशयः '

इत्येतदनुपपन्नमिति वाच्यम् । तस्य राक्षसादिवधकरणेनावतारदशास्वपित सौख्यसम्पादनेन जगत्पालनं करिष्यसीत्येतावन्मात्रामिप्रायकत्वात् ।

यत्तु - ’ जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ।

पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् ॥

इत्यत्न शिवाराधनमेत्र शौचशब्देनाभिधीयते इति तत्तु न सम्यक् । शौच शिवाराधनपरत्वे मानाभावात् । आयुधक्षालनपरत्वेन हस्तपादक्षालनपर‍ पतेः । न च ’ यं ब्रह्मादयो देवा उपासन्त’ इति सन्निधिपाठात् नाराया

385

केराकत्वं प्रतीयत इति वाच्यम् ।

भावात् । न च ।

ब्रह्मादय '

इत्यत्र नारायणग्रहणे

’ तीर्थयात्राविधावेव नारायणपुरोगमैः

ते नारायणादिसहितस्य हिरण्यगर्भस्य शिवपत्न्याधिकत्वोक्त्या कैमुतिकन्यायेन गुणस्य शिवाराधकत्वमपि सिध्यतीत्यत्रापि तस्य ग्रहणं युक्तमिति वाच्यम् । रायणपुरोगमैरन्वास्यते तत्र ब्रह्मेत्येतावन्मात्रप्रतिपादनदर्शनेन देव्याराधकत्वाकतिपादनात् । न च ब्रह्मवस्थानस्य प्रयोजनाकाङ्क्षायां देव्याराधनमेत्र प्रयोजनमुन्नीयत इति वाच्यम् । कचित् ब्रह्मण उपासकत्वकीर्तनस्य सर्वत्र नयात्वापादनासामर्थ्यादुपास्योपासकभावात् क्रमस्य बहुशो दर्शनेनोपास्यत्वेन मन्निधिरित्यपि वक्तुं शक्यत्वाच । स्तुतो ममादय इत्यत्र नारायणस्य ग्रहणेऽपि तस्य शिवार्चकत्वमवतारदशामनुसृस्योपपन्नमिति प्रपश्चितमधस्तात् ।

न च - ’ यस्य ब्रह्मा च विष्णुश्च त्वं च शक्रः सहामरैः ।

इति विष्णोः शिवार्चकत्वं प्रतीयत इति वाच्यम् । अस्यापि वराहपुराणाद्यवगतशिवसम्प्रदानक भगवत्कर्तृकवरप्रदानानुपालनार्थं

भगवदनुष्ठितशिवार्चनमादाय

रुद्रस्तावकत्वात् तानि च शिवकर्तृवाराधनाभ्यर्थनतदभ्युपगमपूर्वक भगवत्कर्तृकवरप्रदानप्रतिपादकवचनानि प्रथमपरिच्छेदे समुदाहृतानि ।

’ अहमप्यवतारेषु त्वां च रूद्र तपोधन ।

तामसानां मोहनार्थं पूजयामि युगे युगे ॥ '

इति च पाद्मपुराणे प्रतिपाद्यते । न च,

’ मया प्रमाणं हि कृतं लोकः समनुवर्तते '

इत्यादिना धर्मसंस्थापनार्थत्वप्रतिपादनव्याकोपप्रसङ्गः इति वाच्यम् । भगवदपेक्षया परत्वज्ञानहेतुत्वेन तामसजनव्यामोहकत्वस्य प्रचुर मतीनां भगवज्ज्ञानादि - फलार्थं शिवार्चनमनुष्ठेयम् । विशिष्टजनानुष्ठितत्वादित्येवं बुध्युत्पादनद्वारेण धर्मसंस्थापनार्थस्य चोपपत्तेः ।

F-49

386

एतेनास्य ’ काव्यस्य कवयो न समर्था विशेषण '

इत्यादिभिः भारतस्य काव्यत्वावगमात् । काव्यस्य च व्यंग्य नारायणस्य पूज्यत्वप्रतिपादनाव्यंग्ये शिवपारम्य एव भारतस्य ता निरस्तम् । तत्रैव भारते ।

मया प्रमाणं हि कृतं लोकर समनुवर्तते । प्रमाणानीह पूज्यानि ततस्तं पूजयाम्यहम् ॥ न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु । स ब्रह्मकाः सरुद्राश्च सेन्द्रा देवा महर्षयः || अर्चयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् । सर्वेषामप्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥

इत्यादिवाक्येन स्वतोऽन्येन पूज्यत्वाभावस्येतरप्रणामस्यावतारमर्यादानुर स्वस्यैत्र वस्तुतः शिवादिपूज्यत्वस्य प्रतिपादनेनान्यथासिद्धेन भगवदा ब्राह्मणादिसाधारण्येन शिवस्यैकस्य तदपेक्षया परत्वकल्पनानुन्मेषात् कत्वस्य कल्पयितुमशक्यत्वात् ।

किं चैवं सति कुन्ती युधिष्ठिरभीमसेनकुचेलादिप्रणामाद्यनुष्ठ विमानशिकाणामादित्रलात् न मदपेक्षया तस्य परत्वभ्रमः कार्य

चितुं स्यादिति भगवदपेक्षया परत्वमपि व्यञ्जयितुं शक्यम् । तस्यावतारमर्यादानुसरणमादायाप्युपपन्नत्वात् न शिवावरत्वव्यञ्जनमिति तर्हि न शिवपारम्यव्यञ्जकत्वमपि व्यञ्जयितुं शक्यम् । अवतार सरणमादाय तस्याप्यन्यथासिद्धत्वात् ।

यदपि - ’ ततस्तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।

प्रनृत्तकभयं वीर तेजसा तस्य मोहितम् ॥

अह्मादिभिः सुरैः राजन् ऋषिभिश्च तपोधनैः । विज्ञप्तो वै महातेजा ऋषेरर्थे नराधिपे ॥ '

387

| मङ्कणनृत्तेन ब्रह्मादिस्थावरान्तस्य मोहोक्त्या तदनन्तरं शिवेन मङ्कणकविरामकरणप्रदर्शनात् तस्य मोहाभावावगत्या शिवपारम्यं व्यञ्जितमिति - सङ्गतम् - ब्रह्मादीनां मोहितत्वस्यात्र प्रतिपादनादर्शनात् ’ स्थावरजङ्गमं च मेहिनमित्येतावदुष्यते । न च स्थावरजङ्गमप्रनृत्तत्वोक्त्या तदनन्तर्गतानां दीनां प्रनृत्तत्वमपि सिद्धमिति वाच्यम् । सकलजगत्सृष्टिसमर्थस्य चतुर्मुखस्य : प्रभावजनितलोकोत्तरसामर्थ्यानां नारदादीनामृषीणां च किंचिन्नृत्तनत्रामोहितत्वोक्त्ययोगात् । तर्हि किमर्थं शिवप्रार्थनं कृतमिति चेत् न । तरजनव्यामोहनिवृत्त्यर्थं तदुपपत्तेः । न च स्वत एव मङ्कणनृत्तविरामकरणनमसम्भवे किमिति शिवप्रार्थनं कृतमिति वाच्यम् । तदंशे सामर्थ्यातिअयवत्वेन तत्प्रार्थनोपपत्तेः । शिवस्य मोहाभावोऽपि न पारम्यसाधकः । कृतचतुरत्वेनान्यनृत्तदर्शनेन मोहितत्वोपपत्तेः ।

यदपि - ’ नान्यं देवमहं मन्ये रुद्रात्परतरं महत् ।

चराचरस्य जगतो गतिस्त्वमसि शूलधृत् ॥

त्वया सृष्टमिदं सर्व त्रैलोक्यं सचराचरम् ।

त्वामेव भगवन् सर्वे प्रविशन्ति युगक्षये ॥ '

इत्यादि मङ्कणेन शिवपारम्य प्रतिपादनात् सर्वोत्तरत्वमिति - तदप्यनुपपन्नम् - अनन्यथासिद्धपूर्वोक्तभारतस्य बहुवचनविरोधेन तेषां वचनानामवान्तरसृष्ट्यादिकमादाय संकुचितार्थत्वात् ।

एतेन मैनाके नारायणतपश्चर्यानन्तरं तत्कृतस्तुतौ जगत्कारणत्वादिकीर्तनात् शिवस्य परब्रह्मत्वमिति निरस्तम् । सामान्यप्रश्ने विशेषोत्तररूपैः पूर्वोदाहृतैर्बहुभिर्वचनैर्विरुद्धानां स्तुतिप्रकरणगतानां स्वार्थसाधकत्वासम्भवात् ।

नन्वेत्रमपि पाशुपतास्त्रसन्धानप्रकाशविशेषाभिज्ञानाय कृष्णार्जुनकैलासगमनवर्णनप्रकरणे |

स्तूयमान स्तवैर्दिव्यैर्ऋषिभिः ।

गोप्तारं सर्वलोकानां इष्ट्वा स परमाच्युतम् ॥

388

वासुदेवस्तुतं दृष्ट्टा जगाम शिरसा क्षितिम् । पार्थेन सह धर्मात्मा गृह्णन् ब्रह्म सनातनम् ॥ लोकादि विश्वकर्माणं ऋषिमीशानमव्ययम् । तमसः परमं ज्योतिः खं वायुज्योतिषांपतिम् ॥ सारं वारिधाराणां भुवश्च प्रकृर्ति पुरा ।

देवदानवयक्षाणां मनुष्याणां च शासकम् ॥’

इत्यादिना ब्रह्मधर्मोक्तिपूर्वकं परब्रह्मत्वमाविष्कृतं भगवता बादरायणेनैवेति चेत् - न - अस्याप्यवान्तरसृष्ट्यादिकर्तृत्वमादाय सङ्कोचसहिष्णुत्वात् श्रीमन्नारायणावेशावतारत्वेन भगवत्काल सत्वयोगसत्वेन भगवद्धर्मवर्णन सम्भवाश्च । भगत्रत्यारम्भशिक्पारम्ययोरुभयोरपि तस्मिन् प्रत्रले प्रतीयमानत्वेनैकस्यान्यथासिद्धिवर्णनायावश्यंभावे सति भगवत्पारम्ये अन्यथासिद्धिवचनभूयस्त्वोपलम्भात् तात्पर्यातिरेके प्रतीतेश्शिवपारम्यप्रतिपादकांश एव कचित् कोणेस्थितोऽन्यथासिद्ध इत्युन्नीयते । न हि ‘कुतस्सृष्टमिदं सर्व ’ ’ प्रयाणकाले किं जप्यं’

‘योगमेव परं तत्त्वं मोक्षस्य वद भारत । कुतश्चाहं कुतश्चत्वं यं विश्वमुपजीवति ॥

….

येनविश्वमिदं ततम् ।

यं प्राप्य न निवर्तन्ते तं भवान् वक्तुमर्हसि ||

किं वा ज्ञानेन द्रष्टव्यं

….

यज्ज्ञेयं परमं कृत्यं अनुष्ठेयं महात्मभिः ||

सारं मे सर्वशास्त्राणां

1

….

इत्येवं रूपेण च प्रवृत्तप्रश्नोत्तरभूतेषु सन्दर्भेष्वन्ययासिद्धिसम्भावनोदेतुमर्हति ।

प्रसिद्धः ।

अपि च पश्चमवेदत्वेनामिमतस्य भारतस्योपनिषत्वेन हि भगवद्गीतांशः

अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् । '

389

इन विशिष्य कीर्तनेन व्यास सिद्धान्तत्वं च स्पुटीक्रियते । तदर्थस्य परिग्रहोज्यतिशयितः प्रवेशान्तरापेक्षया तस्य । अतस्तदनुसारेणैव शेषोंऽशो नेयः । पवस्व तदन्यपरत्यभाषणस्य लघुत्व प्राप्तिप्रकारश्च प्रथमपरिच्छेदोपपादितयादिशा उन्नेयः ।

किं च आनुशासनिके

’ त्वत्त एव तु राजेन्द्र राजधर्माश्च पुष्कलाः ।

श्रुतं पुराणमखिलं नारदेन निवेदितम् ॥ गुह्यं नारायणाख्यानं त्रिविधं क्लेशनाशनम् । एकान्तधर्मनियमाः समासा व्यारुकल्पिताः ॥

इति रहस्यतमत्वेन कथितेन - नासपतीये

‘गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ मिक्षुकः । य इच्छेत्सिद्धिमास्थातुं देवतांकांयजेतजसः || कुतो ह्यस्य धुत्रः स्वर्गः कुतो नैश्रेयसम्पदम् । विधिना केन जुहुयात् देवपित्र्यमथापि च ॥ मुक्तश्च कांगतिं गच्छेत् मोक्षश्चैव किमात्मकः । स्वर्गतश्चैव किं कुर्यात् येन मध्यवते दिवः ॥ देवतानां च को देवः पिता च पिता तथा । सृष्टेः परतरं यश्च तन्मे ब्रूहि पितामह ॥ '

इति प्रश्नोत्तरत्वेन प्रवृत्ते सन्दर्भे नारायणाभ्यां नारदस्य संवादमुपक्षिप्य

यत्तु सूक्ष्ममविज्ञेयं अव्यक्तमचलं धुवम् । इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम् ॥ स सन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते । त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः ॥

390

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ।

अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरन्यया ॥ तां योनिमावयोर्विद्धि या सा सदसदात्मिका । आवाभ्यां पूजितोऽसौ हि दैवे पित्र्ये च कल्पिते ॥ नास्ति तस्मात् परोन्यो हि पिता देवोऽथवा द्विजः । आत्माहितौ हि विज्ञेयस्ततस्तं पूजयावहे || तेनैव स्थापिता ब्राह्मी मर्यादा लोकभाविनी । दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥ ब्रह्मास्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः । मरीचिरङ्गिरश्चात्रिः पुलस्त्यः पुलहः क्रतुः || वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च । कर्दमश्चापि यः प्रोक्तः कृतोपि कृतिरेव च ॥ एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः । तस्य देवस्य मर्यादां सृजन्तं च सनातनीम् ॥ दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः । आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥ स्वर्गस्था अपि ये केचित् तं नमस्यन्ति देहिनः । ते तत्प्रसादात् गच्छन्ति तदाविष्टफलां गतिम् ॥ ये हीनाः सप्तदशभिः गुणैः कर्मभिरेव च । कालः पश्चदशत्यक्त्वा ते मुक्ता इति निश्चिताः ॥ मुक्तानां तु गतिं ब्रह्मन् क्षेत्रज्ञ इति कल्पितः । स हि सर्वगतिश्चैव निर्गुणश्चैव कथ्यते ॥ दृश्यते ज्ञानयोगेनावां च प्रसृतौ ततः । एवं ज्ञात्वा तमात्मानं पूजयावस्सनातनम् ॥ तं वेदाश्वाश्रमाश्चैव नानातनुसमाश्रितम् । भक्त्या संपूजयत्याद्या गतिं चैषा ||

….

391

ये तु तद्भाविता लोके एकान्तत्वं समाश्रिताः । एतदभ्यधिकं तेषां तत्तेजः प्रविशन्त्युभे ॥ '

वादिना भगवत्पारम्यं प्रपचितम् ।

प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः ।

ददर्श तानेव नरान् तांश्चन्द्रप्रभान् शुभान् ॥ पूजयामास शिरसा मनसा तैश्च पूजितः ।

दिदृक्षुर्जप्य परमस्सर्वाश्चर्यधरं हरिम् ॥ '

इत्यादिना भगवत्स्तोत्र भगवद्दर्शनवर्णनानन्तरं

एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः । इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥

न च मां ते ददृशिरे म च

यति कश्चन ।

ऋते ह्येकान्तिनः श्रेष्ठान् त्वं चैवैकान्तिकोमतः ॥

ममैतास्तनवः श्रेष्ठा जाता धर्मे गृहे द्विज ।

तांस्त्वं भजख सततं ध्यायख च यथातथम् ॥

इति पाश्चरात्रशास्त्रप्रतिपाद्यैकान्तिधर्मनिष्ठैकदृश्यत्वं धर्मात्मजनारायणादिरूपेणावतीर्णत्वमुक्त्वा भगवतस्सर्वजगत्कारणत्वादिकमुपपाय

‘अव्यक्तं पुरुषैर्ब्रह्म निष्क्रिये संप्रलीयते ।

नास्ति तस्मात्परं भूतं पुरुषाद्वै सनातनात् ॥ नित्यं हिनस्ति जगति भूतं स्थावरजङ्गमम् । ऋते तमेकं पुरुषं वासुदेवं सनातनम् ॥

इत्युक्त्वा सङ्कर्षणप्रद्युम्नानिरुद्धादिरूपवत्वं जीवमनोऽहङ्कारामिमानित्वं तैरूपंर्वर्णयित्वा ब्रह्मादिवृन्दत्वमुपपाद्य मत्स्यकूर्माद्यवतार भाक्त्वमुपपादितम् । इदं च प्रघट्टं स्वप्रतिपाद्यत्वे तात्पर्यातिशयवत्, सामान्यप्रश्ने विशेषोत्तररूपेण प्रवृत्तत्वात् । ’ गुह्यं नारायणाख्यानम्’ इत्यानुशासनिके रहस्यतमत्वज्ञापनात् ।392

मुक्तोऽन्यानि च ते राजन् उपाख्यानशतानि च । यानि भूतानि धर्माणि तेषां सारोऽयमुद्धृतः ॥ '

इत्यत्रापि सर्वोपाख्यानश्रेष्ठत्वप्रतिपादनाश्च ।

अपि च ’ योदास्माकं गुरुश्रेष्ठः कृष्णद्वैपायनः प्रभुः ।

स जगौ परमं जप्यं नारायणमुदीरयन् ॥ शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः । पराशरसुतः श्रीमान् व्यासो वाक्यमुवाच ह । य एष गुरुरस्माकमृषिः सत्यवतीसुतः । तेनैतत्कथितं तात माहात्म्यं परमात्मनः ॥

अस्माच्छुतं मयाचेदं कथितं च तवानघ । कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ॥ को धन्यः पुण्डरीकाक्षात् महाभारतकृद्भवेत् । धर्मान्नानाविधांश्चैव को ब्रूयात्तमृतेप्रभुम् ॥ एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम । मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः || एवं स भगवान् व्यासो गुरुर्मम विशांपते । कथयामास धर्मज्ञो धर्मराजे द्विजोत्तम ॥

ऋषीणां सन्निधौ राजन् शृण्वतोः कृष्णभीमयोः ।

तस्याप्यकथयत् सर्वान्नारदस्सुमहातपाः ॥ '

इत्यादिषु नारायणीय प्रतिपादितानामर्थानां

तत्सिद्धान्तत्वमवसीयते ।

साक्षाद्यासोपदिष्टत्व

किं च नारायणीयप्रतिपादितस्यैकान्तिधर्मस्य ब्रह्मणा स्वर्क वाचित्राक्षुषादिजन्मसु तत्तन्मुनिमुखेन प्रवृत्तिमत्वमुपपाद्य पुनरपि ।

’ यदिदं प्रथितं जन्म पद्मजं ब्रह्मणो नृप ।

तत्रैष धर्मः कथितः स्वयं नारायणेन हि ||

393

पितामहाय शुद्धाय युगादी लोकधारिणे । पितामहश्च दक्षाय धर्ममेतं पुरा ददौ || '

नारायणसकाशादधिगम्य पूर्ववत्प्रवर्तनम् ।

’ ततो ज्येष्ठः सदौहित्रे प्रादात् दक्षो नृपोत्तमः । आदित्ये सवितृज्येष्ठे विवखान् जगृहे ततः ॥ त्रेतायुगादौ च ततो विवखान्मनवे ददौ । मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ || '

यादिना वैदिक सार्वभौमप्रवृत्तित्वं चामिधाय ।

’ नारदेन तु सम्प्राप्तः समः सखङ्ग्रहः ।

एष धर्मों जगमाया साथ यणान्तृप । एवमेष महाधर्मः आदी राजम् सनातनः । दुर्विज्ञेयो दुष्करच सात्वतैर्व्यायते सदा ॥ धर्मज्ञानेन चानेन संप्रयुक्तेन कर्मणा ।

अहिंसा धर्मयुक्तेन प्रीयते हरिरीश्वरः ॥ '

इति भगवतोऽधिगम्य नारदेन प्रवर्तितत्वं तस्य धर्मस्यातिशयेन भगवत्प्रीतिहेतुकत्वं चोपपाच ।

यत्र चैकान्तिनो यान्ति नारायणपरायणाः । तदेव केवलं स्थानं मुक्तानां परमं भवेत् ॥

इत्येकान्तिधर्मनिष्ठामेव मुक्तिरित्युक्त्वा ।

F-50

एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम । मया. गुरुप्रसादेन दुर्विज्ञेयो ऽकृतात्मभिः || एवं स भगवान् व्यासो गुरुर्मम विशांपते । कथयामास धर्मज्ञो धर्मराजे द्विजोत्तम ||

394

ऋषीणां सन्निधौ राजन् शृण्वतोः कृष्णमीमयोः । तस्याप्यकथयन् सर्वान् नारदः सुमहातपाः ॥ '

इति स्वसंप्रदाये वैशम्पायनेन वर्णिते ।

’ एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् ।

न कुर्वन्ति कथं विप्रा आद्यं नारायणेरितम् ॥

इति पृष्टवन्तं जनमेजयं प्रति ।

‘एकान्तिनो हि पुरुषा बहवो दुर्लभा नृप ।

कान्तिमिराकीर्ण जगत् स्यात् कुरुनन्दन || अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः । जनैः कृतयुगप्राप्तिरीदृशैः कर्मवर्जितैः ॥

तिस्रस्तु भावा: ये राजन् देहबन्धेषु निर्मिताः । सात्विकी राजसी चैव तामसी चेति भारत ॥ देहबन्धेषु पुरुषश्रेष्ठः कुरुकुलोद्वह ।

सात्विकः पुरुषव्याघ्रः भवेन्मोक्षार्थचिन्तकः ॥ तत्रापि यो विजानाति पुरुषं ब्रह्मवर्तिनम् । नारायणपरं मोक्षं ततो वै सात्विकः स्मृतः ॥ मनीषितं च प्राप्नोति चिन्तयन् पुरुषोत्तमम् । एकान्तभक्तस्सततं नारायणपरायणः ॥ मनीषिणो हि ये केचित् यतयो मोक्षकाङ्क्षिणः । तेषां वै च्छिन्नतृष्णानां योगक्षेमवहो हरिः ॥ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्विकस्स तु विज्ञेयो भवमोक्षार्थचिन्तकः ॥ नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् । एवमेष महाभाग प्रतिबुद्धो विजायते ॥

395

साख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः । नारायणात्मको मोक्षः ततो याति परां गतिम् ॥ राजसी तामसी चैव व्यामिश्रा प्रकृतिस्स्मृता । तदात्मकं हि पुरुषं जायमानं विशांपते । प्रवृत्तिलक्षणैर्युक्तं नापेक्षति हरिस्वयम् । पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः ॥

रजसा तमसा चैव मानसं समभिप्लुतम् ॥’

इत्यादिना भगवत्कटाक्षवीक्षापरिशुद्धहृदयसात्विका प्रगण्यः सुलभतरं तदितर-

नदुर्लभतां चास्य धर्मस्य प्रतिपाच

’ इत्थं हि दुष्करो धर्म एष पार्थिवसत्तम ।

यथैव त्वं तथाऽन्ये न भवन्ति विमोहिताः ॥ कृष्ण एव हि लोकाना भावनो मोहनस्तथा । स एव कारक श्चैव कारणं च विशांपते । '

इति तेनैव वैशम्पायनेन मोहाघीनमितरजनाननुष्ठानमिति प्रतिपादनात् अत्रा - इरातिशयः स्फुट इति नारायणपारम्यतदैकान्तिकत्वादिकं भारत कृदभिमतमिति युक्तमुत्पश्यामः ।

उपमन्युपाख्यानस्य भारतस्थत्वेऽपि शिवमाहात्म्यं वदेति प्रश्न मति तदुत्तररूपेण प्रवृत्तत्वादर्थवादया नेतुं शक्यमिति तत्र शिवस्य सर्वोत्तमत्वप्रतिपादनात् भारतस्य तत्तात्पर्यकत्वमिति मूर्खानां प्रलापो नादर्तव्यः ।

एतेन ’ सोऽसृजदक्षिणादङ्गात् ब्रह्माणं लोकसम्भवम् ।

वामपार्श्वात् तथा विष्णुं लोककर्तारमीश्वरम् ॥

युगान्ते चैव संप्राप्ते रुद्रं प्रभुरथासृजत् ॥ '

इति त्रिमूर्तिसृष्टृत्वप्रतिपादनात् शिवस्योत्तीर्णत्वं ततस्सिध्यतीति निरस्तम् । भगवत्कलावैशमादाय शिवस्ताक्कत्वादस्य वचनस्य अन्यथा बहुषु स्थलेषु भगवत्पारम्यप्रतिपादनव्या कोपप्रसङ्गः ।

396

यत्तु ’ यं विष्णुरिन्द्रश्शम्भुश्च ब्रह्मालोकपितामहः ।

स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् ॥ तमर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते ॥

इसनेनोचीणत्वं सिध्यतीति - तन्न -

य एष संरकपद्माक्षः पीतवासा महाभुजः । ’ इत्यारभ्य ’ अस्मिन्नर्पितकर्माणं सर्वभावेन भारत ।

कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्त्युत ॥

इत्यनेन भगवद्भजनस्य दुर्गाण्यतितरणहेतुत्वमुक्त्वा

‘लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम् ।

देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥

ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् । यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते ॥ '

|

उनन्तरमस्य पाठात् पूर्वोपात्तदेवतार्चनीयत्वेनातिशयस्य प्रसिध्या शिव यादस्योचीर्णत्वे प्रमाणाभावसम्भवात् । शम्भुश्चेत्यत्र शम्भुश मुखेऽपि शक्या तत्परत्वोपपत्तेः । यदि तत्र विष्णुचतुर्मुखकीर्तन बिन्तर्गतरुद्रकीर्तनानन्तरादयं श्लोकः पठितः स्यात्, तदोत्तीर्ण

स्वात् ; न हि तथा । अतो यत्प्रायेश्रूयते यच्च तत्तादृगबगम्यत नान्तर्गतपरत्वमेव युक्तमिति शङ्करशब्दस्य ब्रह्मविशेषणत्वमेव स्वरसम् । विश्वाद्यर्चनीयत्वेन शिवातिशयः सिध्यतीति वाच्यम् । अवत देशामान्यर्चनमादाय स्तावकत्वात् ।

क्तु शिवाराधनस्य दुर्गातितरणहेतुत्वोक्त्या विष्ण्वादीनां स्तोत् तदर्थमित्यध्यवसीयत इति तन्न - वराहपुराणे भारतादिष्वन्यार्थत्वस्य प्रत् मानत्वेन भगवत्कृतस्तुतेः तदर्थत्वकल्पनानुन्मेषात् ।

397

यत्तु - ’ ईश्वरश्चेतनः कर्ता पुरुषं कारणं शिवम् ।

विष्णुर्ब्रह्मा शशिस्सूर्यः शक्रो देवाश्च सान्वयाः ॥ सृज्यते गृह्यते चैव तमोभूतमिदं यदा । अप्रज्ञातमिदं सर्वं तदा ह्येको महेश्वरः ॥ '

इमे वाक्यशेषात् संहाररुद्रस्यापि प्रासो विवक्षितः इति त्रिमूर्त्यत्तीर्णत्वं शिवस्य नम्यत इति तत्र ‘शिवश्शूलीमहेश्वर’ इति कोशपाठेन महेश्वरशब्दस्य त्रिमूर्त्य तर्गतपरत्वात् स्वेच्छाकृतभगवदवतारस्यापि तदधीनत्वेन स्तुतिरत्र क्रियत तिन । ततश्शियस्य विष्ण्वपेक्षया विक्यसिद्धिः ।

यदपि रुद्रनिकर्षप्रतिपादकवचनानि संहाररुद्रांश भूतब्रह्माङ्ग भवरुद्रविषयकतया हरिकोषजरुद्रविषयतया नेतव्यानीति तदप्ययुक्तम् -

एतौ द्वौ विबुधश्रेष्ठ प्रसादोषजौ स्मृतौ ।

मया दर्शितपस्यानी सृष्टिसंहारकारको

इति भगवत्को जरुद्वस्य संहारकारित्वश्रवणेन संहाररुद्रहरि क्रोधजरुद्रभेदासिद्धेः । तथैव भारते

‘अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ।

हरचैव क्रोधजस्तस्य तृात पूर्व सनातने । '

इति वचनेनैकस्यैव कल्पमेदेन हरिकोन्यवझाङ्ग भवत्वप्रतीतेस्तद्भेदकल्पनाया अप्यनुदयाच्च । तातेति सम्बोधनेन हि ब्रह्मपुत्रविषयत्वमस्यावगम्यते । दक्षकतुध्वंसरूपचरित्रमुपक्रम्य तनिमिते नारायणरुद्रयोः कलहे सति तच्छान्त्यर्थचतुर्मुखवाक्यं तत्त्वाश्वास्य चतुर्मुखपुत्रविषयकत्वं सिद्धम् ।

अपि चायमेवार्जुनस्य साहाय्यकर्तेति

यस्तु ते सोऽमतो याति युद्धे संप्रत्युपस्थिते '

इति अर्जुनसाहाय्यकर्तेव कृष्णोपास्य इति तत्राभिमतम् ।

’ मयैवैते निहताः पूर्वमेत्र निमित्तमात्रं भव सव्यसाचिन् '

इति कृष्णेन स्वनिहतत्वेनोक्तानां रिपूणां,

398

’ निहतांस्तेन पूर्व त्वं हतवानसि वै रिपून् '

इति शिवनिहतत्वोक्त्या मयैव त इति आद्यतदन्तर्यामि भूत शिवपरत्वमितित्वदुकेः । तथा च निष्कर्ष प्रतिपादकवचनस्य कृष्णोपास्यभिन्नविषयकत्वकल्पन-

मसङ्गतम् ।

नन्वेवमपि निकर्षप्रतिपादकवचनानां संहाररुद्र विषयकत्वं उत्कर्षप्रतिपादकवचनानामुत्तीर्ण विषयकत्वमिति वक्तुं शक्यत्वेन शिवकारणत्वमपि शक्यसमर्थनमिति चेत्-न । कृष्णोपास्यशिवेतरपरब्रह्मत्वाभ्युपगमहानिप्रसङ्गस्यैवमप्यनिवार्यत्वात् ।

नमु मास्तु कृष्णोपास्य शिवस्य परब्रह्मत्वमिति निर्बन्धः ।

तथा ‘सोऽसृजत् दाक्षिणादङ्गात् ब्रह्माणं लोकसम्भवम् ।

वामपार्श्वात् तथा विष्णुं लोकरक्षार्थमीश्वरम् ॥

युगान्ते चैव संप्राप्ते रुद्रं विभुरयासृजत् ॥ '

·

इत्यादि प्रतिपाद्यस्य शिवस्य परब्रह्म त्वसिद्धिरनिवार्येति चेत् न एवमपि जगत्कारणतया प्रतिपाद्यमानस्य दक्षऋतुध्वंसादिमत्वदर्शनेन तस्य पूर्वोदाहृतवचनैर्ब्रह्मसुतचरित्रत्वेनापि वर्णनेन निकर्षोत्कर्ष प्रतिपादनयोर्विषय विवेकस्य दुर्महत्वात् ।

ननु दक्षाध्वरध्वंसादीनां चतुर्मुखसुतचरित्रत्वेऽपि तस्योत्तीणीशिवांशयोगित्वेन तदादायोत्तीर्णे जगत्कारणीभूते शिवे दक्षक्रतुध्वंसादिविशेषणोक्तिसम्भव इति चेत् एवं तर्हि शिवे जगत्कारणत्वादिविशेषणवैशिष्टयप्रतिपादकस्य नारायणांशयोगमादायोपपत्तेर्वर्णयितुं शक्यत्वेन शिवपरब्रह्मत्वप्रतिपादकवचनानामन्ययासिद्धिप्रसङ्गः । कचित् कीर्त्यमानविशेषणोपपादनस्यांशयोगमादाय कीर्तितव्यत्वावश्यम्भावेऽनन्ययासिद्धिभूयः प्रदेशस्यवचनसहस्रानुरोधेन कारणस्वान्तर्यामित्वादिवैशिष्टय कीर्तनस्य तथात्ववर्णनस्य युक्तत्वात् ।

399

इयान् विशेष:

दक्षाध्वरध्वंसादिविशेषणानामनुयोगिनिविद्यमानानां

गिनि कीर्तनं जगत्कारणत्वादीनां त्वंश प्रतियोगिनि विद्यमानानामनुयोगिनि नामिति । न च नारायणस्य शिवोपासकत्वादिनिकर्षप्रतिपादनात् कथं

मिति वाच्यम् ।

ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तु कीनाश इव दुर्बलः ||

तेन वचयते लोकान् मायायोगेन केशवः || '

ब्रह्लादिमिरपकर्षपरिहारस्य कृतत्वेन भगवतः परब्रह्मत्वप्रतिपादकवचनानां निरर्गलं

वृत्तेः । न च रुद्रनिकर्षप्रतिपादनांशस्य परिहारः कचिदुपलभ्यते ।

‘रुद्रं समाश्रिता देवा रुवो मसाणमाश्रितः ।

तवान्तरात्मा मम च ये चान्ये देहि संज्ञिताः सर्वेषां साक्षिभूतोऽसौं न प्रायः केनचित् कचित् । प्रजापतिं च रुद्रं चाप्यहमेव सृजामि वै ॥

तौ तु नूनं न जानीतो मम मायाविमोहितौ ॥ '

इत्यादिषु हि निकर्ष: प्रतिपादितः ।

,

एतेन च दक्षाध्वरध्वंसिरुद्रभेदमादाय जगत्कारणे तद्विशेषणापत्तिरिति निरस्तम् । कर्मवश्यस्य जगत्कारणत्वायोगात् उत्तीर्णशिवकारणत्वपरित्यागापाताञ्च । तस्मात् मंगवत्कारणत्वावेवक पूर्वोदाहृतानन्यथासिद्धवचनविरोधेन शिवस्य परब्रह्मत्वं साधयितुं न शक्नुवन्ति । कचित् कोणे स्थितानि शिवोत्कर्षावेदकानि वचनानि न भारतस्य शिवोत्कर्षतात्पर्यकत्वमिति स्वाभाविकसामर्थ्याभावावगमेन परब्रह्म त्वायोग्यात् । अतो ब्रह्मपदप्रयोगः परब्रह्मत्वं साधयितुं शक्नोति ।

नापि शिवस्तत्र ब्रह्मपदोक्तः,
‘युधिष्ठिरो धर्ममयो महाद्रुम’ इत्यत्र
शब्दोपात्त–धर्ममयत्व-कारण-विशिष्ट-हेतु-ग्रहणे सम्भवितत्वाद्
धृत-राज-भावोपगूढ-स्थिति-हेतु-ग्रहणस्यायोगात् ।

तत्र च कृष्णस्य

’ वेदैश्च सर्वैरहमेव वेद्यः '

[[400]]

’ वेदे रामायणे चैव
भारते भरतर्षभ आदौ मध्ये तयाऽन्ते च
विष्णुस् सर्वत्र गीयते । '

इत्य्-आदि-प्रमाणैर्
वेद-वेद्यतया प्रसिद्धस्य,
ब्राह्मणानां प्रमातृत्वेन प्रसिद्धानां ग्रहणेन
प्राणस्य वेदस्यैव+++(=??-)+++ ग्रहणम् उचितम् ।
प्रमातृ-प्रमा-प्रमेयानां त्रयाणां धर्म-प्रमिति-हेतुत्वेनानुष्ठान-द्वारा धर्मस्याधीनत्वात्
तेषाम् एव मूलत्व-निरूपणं युक्तम् ।

एवं च चेपखननुरोचेऽप्यदोषः । ब्राह्मणानां कृष्णशिवयोरिव दृष्टद्वाराजयहेतुभावेन सर्वत्रैक-रूप्यस्य त्वयाऽप्य् आश्रयितुमशक्यत्वात् । चेतनग्रहणस्य सुबे वा कथं शित्रस्यैव तत्र ग्रहणमिति निर्णयाय भगवतो नारायणस्यैव तत्र मात् । न च कृष्णशब्देनोक्त्या पौनरुक्त्यम् । मूलरूपेणावतार-

रूपेण च ग्रहणात् । न च तस्यमूलत्वं नेति वक्तुं शक्यम् । मङ्कमुकेन मूलत्वासम्भवात् । न च शिवस्याग्रहणे किं निदानमिति वाच्यम् । कावताराम्यर्थनकाले सर्वैरपि देवैस्सहायकारणस्य प्रतिज्ञातत्वेन शिवमहाष्यस्य भगव्यापारोपसर्जनत्वेन पृथग्ग्रहणानवश्यम्भावात् कृष्णो ब्रह्मेत्यर्यत्वं बनु । एवं चकारद्वयस्वारस्यलामेऽपि । तस्मादुक्तरीत्या महाभारतस्य रम्यतात्पर्यकत्वाभावात् भगवत्पारम्यतात्पर्यकत्वस्य बहुप्रमाणानुनरेवाभ्युपगन्तयनात्, तदनुमारित्वात् सालिकपुराणप्राबल्यमिति सिद्धम् ॥ रामायणस्यापि भगवत्पारम्य निरूपणम्

एवं ‘वेदोपबृंहणार्थाय तावप्रयतप्रभुः ॥ '

इति वेदोपबृंहणरूपत्वेनाव गतस्यासेतुहिमाचलवासि सकलवैदिकमूर्धन्यपरिगृहीतस्य श्रीमद्रामायणस्यापि भगवत्पारम्य प्रतिपादकत्वात् तदनुसारित्वमित्यपि सात्विकपुरान्त्राकल्यसाधकम् । तथा हिबालकाण्डे

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥

ब्रह्मणा च समागम्य तत्र तस्यौ समाहितः । तमब्रुवन् सुरास्सर्वे सममिष्टुष्य सन्नताः ||

401

इत्युपक्रम्य ’ सिद्धगन्धर्वयक्षाश्च ततस्त्वा शरणं गताः । त्वं गतिः परमा देव सर्वेषां नः परन्तप ॥

वधाय देवशत्रूणां नृणां लोके मनः कुरु । एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः ॥ पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ।

अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥ भयंत्यजत भद्रं वो हितार्थं युधि रावणम् । सपुत्रपौत्रसामात्यं समित्रज्ञाति बान्धवम् ॥ हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च ॥ वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् || मानुषे चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥ पितरं रोचयामास तदा दशरथं नृपम् ।

ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ॥ स्तुतिभिर्दिव्यरूपामिः तुष्टुवुर्मधुसूदनम् ।

इत्यनेन सन्दर्भेण भगवत्पारम्यं व्यञ्जितम् । अत्र ‘पीतवासा जगत्पतिरिति, सिद्धे शब्दार्थ सम्बन्ध’ इति न्यायेनासङ्कोचेन सर्वजगत्पतित्वं प्रतीयते ।

"

तमब्रुवन सुरास्सर्वे समभिष्टुत्य सन्नताः

,

इति चतुर्मुखसहित सर्वदेवस्तुत्यत्वनन्तव्यत्वप्रतिपादनेन पारम्यं स्फुटीकृतम् ।

त्वं गतिः परमादेव सर्वेषां नः परन्तप । '

इति स्वतस्सर्वदेवादिशरण्यत्वमित्युक्त्याऽपि तदेव प्रकटीकृतम् । ’ त्वं गतिः परमा देवेत्यत्र रुद्रशरण्यत्वमपि भगवतोऽस्तीत्यभिप्रेतमिति । ततो देवास्स-

F-51402

गन्धर्वास्रुद्रा’ इत्युत्तर सन्दर्भचलादवगम्यते । देवप्रार्थनाधीनत्वस्य भगवज्जन्मनः प्रतिपादनात् च अकर्मकृत्यत्वस्फोरणेन तस्य भगवत्पारम्यं प्रकाशितम् ।

एकोनत्रिंशे सर्गे -

’ तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ।

शरीरे तत्र पश्यामि जगत्सर्वमिदं प्रभो ॥

त्वमनादिरनिर्देश्यः त्वामहं शरणं गतः ॥ '

इति सर्वजगदाधारत्वम् । अनादित्व कीर्तनात्परत्यमुक्तम् ।

पश्चसप्ततितमे -

‘जृम्भितं तद्धनुर्दृष्टा शैवं विष्णुपराक्रमैः ।

अधिकं मेनिरे विष्णुं देवास्सर्षिगणास्तथा || '

इति शिवापेक्षयाधिक्यप्रतिपादनेन कैमुतिकन्यायेनेतरापेक्षया परत्वं सिद्धम् ।

यतु शिवेन सापेक्षयाधिकं शौर्य नारायणाय दत्तमिति भारतादिभ्योऽवगमात् स्वदत्तवरपरिपालनाय न्यूनबलत्वामिमानेनान्यथासिद्धमिति नाधिक्यं गमयितुमीष्ट इति - तन्न

’ न हि मे केनचिद्देयो वरः पाण्डवनन्दन

इत्यादिषु वरदानप्रयुक्तातिशयाभाववत्वप्रतिपादनेनावतारदशासु ’ मां त्वमाराधय ’ ’ मत्तो वरं गृहाणे’ ति शिवप्रार्थनायां ’ तस्मैत्वामाराधयिष्यामि ’ ’ त्वत्तो वरं प्रहीष्यामीति वरो भगवता दत्त इति वराहपुराणवचनबलादवगम्यमानत्वेन स्वदत्तत्ररपरिपालनार्थं स्वाभाविकेऽतिशये वरप्रतिग्रहलब्धत्वाभिनयो भगवता कृत इति भारतत्रवनतात्पर्यात्रसायात् । ’ अधिकं मेनिर ’ इत्यस्य स्वाभाविकोत्कर्षप्रतिपादनपरत्वावसायात् ।

अयोध्याकाण्डे - राममधिकृत्य

403

सूर्यस्यापि भवेत् सूर्यो ह्यग्नेः अग्निः प्रभोः प्रभुः । श्रियः श्रीश्च भवेदप्रया कीर्त्याः कीर्तिः क्षमाक्षमा |

दैवतं देवतानां च भूतानां भूतसत्तमः ॥

इति सर्वदेवश्रेष्ठत्वं प्रतिपादितम् ।

’ तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्’ इति वाक्यं चचेपबृंहितम् ।

आरण्यकाण्डे – ’ अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति ।

त्वयि देववरे राम पूजिते पुरुषर्षभ ॥

इति शचरिवाक्येन सर्वदेवश्रेष्ठत्वं भगवतः प्रकटितम् ।

सुन्दरकाण्डे – ’ किं वैष्णवं वा कपिरूपमेत्य

रक्षोविनाशाय परं सुतेजः ।

अनन्तमव्यक्तमचिन्त्यमेकं

स्वमायया साम्प्रतमागतं च ॥ '

इति भगवत्पारम्यमाविष्कृतम् । अत्र पूर्वम् ।

"

वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोनिलो वा । रुद्रोऽग्निरको धनदश्च सोमो न वानरोऽयं खयमेव कालः || '

इति महेन्द्रादीनां कपिवेषधारित्वमुल्लिख्य ’ किं ब्रह्मणः सर्वपितामहस्ये’ त्यादिना चतुर्मुखस्य तद्रूपधरल्यमुत्प्रेक्ष्यानेन विष्णोस्तद्रूपधरत्वमुल्लिख्यते । तत्र च प्रथम श्लोकोत्तरापेक्षया चतुर्मुखस्य तदपेक्षया भगवतश्वातिशयो वाक्यशैल्यनुरोधेन प्रतीयते । ’ अनन्तमव्यक्तमचिन्त्यमेकमित्यत्र ’ यदेकमव्यक्तमनन्तरूपमिति श्रुत्यर्थोपबृंहणतात्पर्यक विशेषण प्रक्षेपप्रबलादपि सर्वोत्कर्षः प्रतीयते ।

404

ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेवस्त्रिपुरान्तको त्रा । इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं न शक्तो युधि रामत्रयम् ॥’

इत्यनेन च ब्रह्माद्यपेक्षयोत्कर्ष: प्रतीयते ।

युद्धकाण्डे ’ व्यक्तमेष महायोगी परमात्मा सनातनः ।

अनादिमध्यनिधनो महतः परमो महान् ॥

तमसः परमो धाता शङ्खचक्रगदाधरः ।

श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ '

इत्युक्तम् । न चात्र महायोगीत्युक्त्या जीवत्वं शङ्कनीयम् । योगाराध्यस्यापि तत्सम्बन्धित्वेन तदूव्यपदेशोपपत्तेः । अन्यथा परमात्मत्वाद्युक्ति सङ्गत्यभावापत्तेः । योगशब्दस्य सन्नहनपरत्वेन जगत्सर्जन हेतु सन्नहनपरत्वोपपत्तेः । अत एवानेन सृष्टृत्वस्य कथितत्वेन सनातन इत्यनेन सृज्यत्वाभावव्यक्तीकरणमुपपद्यते । ’ महतः परमो महान्’ इति ‘अणोरणीयान् महतो महीयान् परात्परं यन्महतो महान्तमित्यर्थो विवृतः । ’ तमसः परम’ इति ’ आदित्यवर्णं तमसः परस्तात् ’ ’ क्षयं तमस्य रजसः पराक’ इत्यादिश्रुत्यर्थोऽभिप्रेतः ।

’ नित्यश्रीरि ‘ति ’ ह्रीश्चते लक्ष्मीश्च पन्याविति श्रुत्यर्थो विवृतः । शाश्वतो ध्रुव’ इति ‘ध्रुवमचलं विष्णुसंज्ञितमिति श्रुतिकटाक्षेणोक्तम् ।

6

विंशतितमे सर्गे

’ कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ।

ऋतधामा वसुः पूर्व वसूनां त्वं प्रजापतिः || त्वं त्रयाणां हि लोकानामादिकर्तास्वयं प्रभुः । रुद्राणामष्टमो रुद्रः साध्यनामसि पञ्चमः || अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी । अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥

इत्युक्तम् । तथा

‘भवान्नारायणोदेवः श्रीमांश्चक्रायुधप्रभुः ।

एकशृङ्गो वराहस्त्वं भूतभव्यसपत्निजित् ॥ अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव । लोकानां त्वं परो धर्मों विष्वक्सेनश्वतुर्भुजः ॥ शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गधृग्विष्णुः कृष्णचैवबृहद्बलः ॥ सेनानीर्मामणीश्वत्वं युषिस्तत्वं क्षमादमः । प्रभावश्चाप्यधश्च त्वमुपेन्द्रोमधुसूदनः ॥ इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभोयुगान्तकृत् । शरण्यं शरणं च त्वामाहुः दिव्यामहर्षयः ।। सहस्रशृङ्गो वेदात्मा शतजिहो महर्षयः । त्वं त्रयाणां हि लोकानामादिकर्ता स्वयं प्रभुः ॥ सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः || प्रभवं निधनं वा ते न विदुः को भवानिति । दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ॥ दिक्षु सर्वासु गगने पर्वतेषु वनेषु च । सहस्रचरणः श्रीमांच्छतशीर्षः सहस्रदृक् ॥ त्वं मारयसि भूतानि वसुधां च सपर्वताम् । अन्ते पृथिव्यास्सलिले दृश्यसे त्वं महोरगः ॥ त्रीन् लोकान् धारयन् राम देवगन्धर्ववानरान् । अहं ते हृदयं राम जिल्हा ते च सरस्वती ॥ देवा गात्रेषु रोमाणि निर्मिता ब्राह्मणाः प्रभो । निमेषस्तेऽभवत् रात्रिरुन्मेषस्तेऽभवत् दिवा ॥

406

संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना । जगत्सर्वं शरीरं ते स्थैर्य च वसुधातलम् || अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः । त्वया लोकास्त्रयः क्रान्ताः पुराणैर्विकमैस्त्रिभिः ॥ महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् | सीतालक्ष्मीर्भवान्विष्णुः देवः कृष्णः प्रजापतिः ॥ वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥

इति भगवत्पारम्यं प्रपञ्चितम् ।

"

अक्षरं ब्रह्म सत्यं त्वमित्यत्र ’ येनाक्षरं पुरुषं वेदे ‘त्यादेः ‘सत् ज्ञानमनन्तं ब्रह्मे’त्यादेश्च भगवत्परत्वमुक्तम् । ’ त्वं त्रयाणां हि लोकानामादि कर्ते’त्यत्र जगत्कारणत्वप्रतिपादकवाक्यानां ‘त्यं यज्ञस्वं वषट्कार’ इत्यादिन सर्वयज्ञाराध्यत्वं वर्णितम् । ’ दिक्षु सर्वासु गगन’ इति स एवाधस्ताद् परिष्टादित्यादीनां भगवत्परत्वमुक्तम् । ’ वधार्थं रावणस्ये हे ‘ति भगवज्जन्मनोरकर्म

कृतत्वमुक्तम् ।

उत्तररामायणे

यथामृतघटं जीवा मकरा इव चार्णवम् । तथा रक्षोधनुर्मुक्ता वज्राशनि मनोजवाः ||

हरिं विशन्ति स्म शरालोकास्तमिव पर्ययः ॥ '

इत्यत्र दृष्टान्तत्वेन भगत्रतो जगल्लयस्थानत्वप्रतिपादनात् भगवत्पारम्यं प्रपञ्चितम्

तत्रैवान्यत्र -

'

सङ्क्षिप्य च पुरो लोकान् मायया स्वयमेव हि ।

महार्णवे शयानोऽप्सु भात्वं पूर्वमजीजनः ॥

भोगवन्तं ततो नागमनन्तमुदकेशयम् ।

इत्युक्तम् ।

407

मायया जनयित्वा तु द्वौ च सत्वौ महाबलौ ॥ मधुं च कैटभं चैव ययोस्संसेचनैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ॥ पदे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं च यत् कर्म सर्व मयि निवेशितम् ॥ सोऽहं सन्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥

ततस्त्वमपि दुर्घर्षः तस्मात् भावात् सनातनात् । रक्षार्थं सर्वभूतानां विष्णुस्त्वमुपजज्ञिवान् ॥ अदित्यां वीर्यवान् पुत्रो भ्रातणां हर्षवर्धनः । समुत्पन्नेषु कृत्येषु लोकसायाय कल्पते ॥

अत्र ’ सङ्क्षिप्य चेति जगत्संहर्तृत्वमुक्त्वा ’ मां त्वं पूर्वमजीजन ’ ते चतुर्मुखसृष्टथुक्त्या मध्यभाविमहदहङ्कारादि सृष्टिरप्यर्थसिद्धा । ’ तस्माद्भावासनातनात् ‘, रक्षार्थं विष्णुत्वमुपजज्ञिवानित्युक्त्या खेच्छात एव रूपान्तरपरिग्रहमात्रमित्यस्य व्यञ्जनेन पालनाधिक्यत्वस्य मूलकारणत्वस्य च न भेद एवेति प्रकाशितम् । न च रक्षार्थमित्यस्यावतारान्त रपरत्वमस्त्विति शङ्कनीयम् । त्रिमूर्तिमध्यगतस्यैव रूपस्य रक्षणाधिकृतत्वात् ।

अदित्यां वीर्यवान पुत्रो भ्रातॄणां हर्षवर्धनः । समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे ॥ '

इत्युपेन्द्ररूपेणावतीर्णत्वस्योत्तरत्र वक्ष्यमाणत्वात् । न चदित्यामित्यस्य पूर्वेणैकअक्यत्वमस्त्विति वाच्यम् । लोकसाहाय्यकल्पन इति दैत्यत्रधादिरूपकार्येषु देवेन्द्रादि साहाय्यकरणरूपप्रयोजनं स्यादिति पुत्रत्वात्र स्थापन्नस्योच्यमानत्वेन रक्षार्थमिति प्रयोजनसम्बन्धिरूपान्तरपरिग्रहः पूर्वत्र कीर्त्यत इत्यस्य वक्तुमुचितत्वात् ।

अन्तिम सर्गे

408

’ ततः पितामहो वाणीमन्तरिक्षादभाषत ।

आगच्छ विष्णो भद्रं ते दिष्टया प्राप्तोऽसि राघव ॥ भ्रातृभिः सह देवाभैः प्रविशस्त्र स्वकां तनुम् । वैष्णवीं वा महातेजस्तद्वाकाशं सनातनम् ॥ त्वं हि लोकगतिर्देव न त्वां केचन जानते । ऋते मायां विशालाक्षी तत्र पूर्वपरिग्रहाम् ॥ त्वमचिन्त्यं महद्भूतमक्षय्यं सर्वसङ्ग्रहम् । यामिच्छसि महातेजस्तां तनुं प्रविशस्त्रयम् ॥ पितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ '

इत्यभिहितम् । अत्र ’ स्वकां तनुमित्युक्त्वा ।

• वैष्णवीं वा महातेजस्तद्वाऽऽकाशं सनातनम् '

इत्युक्त्या ’ यदेष आकाश आनन्दो न स्यात्’ इत्युक्त्या आकाशशब्दवाच्यं ब्रह्म नारायण इति स्फुटमवगम्यते ।

स्वतनुत्वोक्तेः । ’ यामिच्छसि महातेजस्ता तनुं प्रविशस्वयम्’ इत्युत्तरवाक्यानुसाराच्च । न त्वां केचन जानत’ इत्यत्र सङ्कोचे प्रमाणाभावेन चतुर्मुखेनापि दुर्ज्ञानत्वमुच्यते ।

। ’ विवेश वैष्णवं तेजस्सशरीर ’ इत्युक्त्या रामशरीरस्य दीपस्य दीपान्तरेणै की भाववत् प्रवेशस्य गम्यमानत्वेन तच्छरीरपरिग्रहस्याकर्मत्रश्यत्वं व्यञ्जितम् । अनन्तरं च —

’ ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथापुरम् ।

येन प्राप्तमिदं सर्वं त्रैलोक्यं सचराचरम्, ॥

इति सर्वान्तर्यामित्वमुपवर्णितम् । तदेवं श्रीरामायणस्य नारायणपारम्ये तात्पर्यमिति सिद्धम् ।

कश्विदाह

409

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे । भावते सर्वभक्षाय रौद्राय वपुषे नमः ॥ '

व्रते ब्रह्माच्युतहरेश्वरत्वं शिवस्य प्रतिपादितम् । मण्डलाभिमानिन्याघिकारिके दन्त्रयायोगात् ’ रौद्राय वपुषे नम’ इति विशेषणसामर्थ्याच्च । तदन्तर्वर्ति शित्रे पर्यवसानात् ।

,

अपि चोत्तररामायणे - अश्वमेधारम्भात् प्राक् कर्तव्यक्रमविचारनमयेऽश्वमेधेन विष्णुनाराध्य शतक्रतुर्ब्रह्महत्यामतरदित्यश्वमेधे लक्ष्मणेन श्लाघिते नस्य श्लाध्यतामङ्गीकृत्य स्वयमिलोपाख्यानकथनेन

तस्य शिवप्रीतिकरत्वं

प्रतिपादयतो रामचन्द्रस्य ।

’ नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम् ।

नाश्वमेधात् परो यज्ञः प्रियश्चैव महात्मनः ॥ '

इति तदुपाख्यानान्तर्गततदीयश्लाघनेन शिव एवाराधनीय इति भावसूचनेन रहसि मममत्राणामनन्तरंवसिष्ठादीनां भूयश्चिकीर्षिते ख्यापिते तु ।

‘तेतु रामस्य तच्छ्रुत्वा नमस्कृत्य वृषध्वजम् ।

अमेधं द्विजाः पूर्वे पूजयन्ति स्म नित्यशः ॥ '

ते शिवसम्बन्धित्वेनैवाश्वमेधस्य लाप्यतोपन्यासेन चाश्वमेधेन रामचन्द्रश्शिवमाराधितवानिति तदाराध्यत्वं विभावितम् ।

आरण्यकाण्डे -

'

कृताभिषेकः सरराज रामः सीताद्वितीयः सहलक्ष्मणेन । कृताभिषेकेत्वगराजपुत्र्या रुद्रः सनन्दी भगवानिवेश: ॥ '

·

इत्युपमानिबन्धव्याजेनाप्यादिकविना शिवोत्कर्षः प्रतिपादित इति तदसारम् - ‘ब्रह्मशानाच्युतेशाये ‘त्यत्र शिवे त्रिमूर्त्यत्तीर्णत्वाप्रतीतेः । सूर्यस्य हि तद्विशेषणम् । न च सूर्यस्य तन सम्भवतीति शक्यम् । अनेन प्रसिद्धसूर्यातिरिक्त

F-52

410

सूर्यकल्पनासम्भवात् । स्तुतिरूपत्वेनास्य कथञ्चित्सूर्य एव सङ्गमनसम्भ ’ रौद्राय वपुषे नम’ इत्यस्यापि सूर्यविशेषणत्वेन गुणानां च परार्थत्व (जै. सू. 3-1-12 ) न्यायेन परस्परान्त्रयाभावेन ब्रह्मेशानाच्युतेशा रुद्रान्वयित्वस्य वक्तुमशक्यत्वात् । सर्वभक्षायेति द्वादशादित्यसङ्घ प्रलयकाले सर्वसम्भर्तृत्वावगमे उप्रवपुष्मत्ताप्रतीतिपरत्वात् । त्वत्पक्षे परम

संहारमात्रकारित्वाभावेन सर्वभक्षायेत्यनेन तत्प्रतीतिप्रतिबन्धात् ।

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः '

इति सर्वनिर्वाहकत्वप्रतिपादनमपि स्तुतिरूपत्वादेवोपपादनीयम् । न च तदन्त

गुणानां मिथोऽसंबंधाघिकरणम् -

आधानप्रकरणे दारुपानं होमार्य यज्ञार्थं च श्रूयते – ‘तस्मा यज्ञात्रचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादे इति । यज्ञाववरो यज्ञप्रचारहेतुः । तत्र - वारण वैकङ्कतादिपात्रं प्र बलादाधाने प्रथममन्वेति । एतेन पात्रेणाssधाने प्रयोजनाभावादाधा पत्रमानह विष्वेव तत्पात्रं निविशते । अस्ति हि पवमानह विधामाधानाङ्ग तत्प्रकरणे पाठात् । ’ कृत्तिका स्वग्निमादधीत’ इत्यस्मिन्प्रकरणे ’ प्रजाप सत्यमपश्यत् ’ इत्यस्मिन्ननुवाके ’ त्रीणि हवींषि निर्वपति’ इत्यादिना विहितानि । ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवात्तदङ्गप निविशते ; तद्वदिदमपि - इति पूर्वः पक्षः ।

तथा प

सिद्धान्तस्तु – अग्निमुद्दिश्याssधानं यया विहितं हवींष्यपि । ’ यदाहवनीये जुइति तेन सोऽस्या भीष्टः प्रीतः’ इत्याह देशेन पत्रमानह विर्होम विधानात् । तस्मादग्निसंस्कारत्वेन समाम्नाताना हविषां नास्ति परस्परमङ्गाङ्गिभावः । तथा सति प्रकरणस्य पात्रं विनियोजकत्वाभावात् ’ वैकङ्कतो यज्ञावचरः’ इति वाक्येन दर्शपूर्ण सर्वयज्ञेषु तद्विनियुज्यते ॥ (जै. सू. 8-1-12 )

411

शिवे पर्यवसानमस्त्विति वाच्यम् । शिवस्य सूर्यमण्डलान्तर्वर्तित्वासिद्धेः । प्रपञ्चयिष्यते चायमर्थस्तृतीयपरिच्छेदे ।

――

यदप्यश्वमेधाराध्यत्वमुक्तम् - तदप्यनुपपन्नम् न श्वमेधेन श्रीरामः शिवमारा घितवानित्याहत्य श्रीरामायणे प्रतिपाबते । न चेलोपाख्यानस्य रामोक्तचैन शिवाराधनरूपत्वमश्वमेधस्य तदभिमतमिति तदाराधनरूपमेवाश्वमेधं रामोऽनुष्ठितवानिति कल्प्यत इति वाच्यम् । ब्रह्महत्यानिवर्तकत्वेन परमपावनत्वं इन्द्रवृत्तान्तप्रदर्शनेन लक्ष्मणेनानुप्रदर्शितेऽनिर्तनीयस्त्रीत्वहेतुता निवर्तकत्वेनापि तस्य परमपावनत्वं कथयता भगवता रामेण तादृशोपाख्यानं प्रदर्शितमिति तस्य शिवाराधनतात्पर्येणैव प्रवृत्तिरिति निश्चेतुमशक्यत्यात् । न च ।

’ नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम् ।

मेधात्परो यज्ञः प्रियश्चैवं महात्मनः || '

इत्युक्त्या शिवप्रियत्वं रामाभिप्रेतमिति गम्यत इति वाच्यम् । तस्यान्यवाक्यत्वे - नैवानुवादेन साक्षाद्वामवाक्यभावात् ।

‘श्रीभूतपौरुषं लेभे यद्वाऽन्यदपि दुर्लभम् ।’

इत्येतावद्धि रामेण साक्षात्प्रतिपाद्यते । न च कर्दमोक्त्याऽनुवादस्य प्रयोजनाकाङ्क्षायां शिवाराधनरूपत्वममिमतमिति गम्यत इति वाच्यम् । रुद्रकृतस्त्रीभावं तदनुग्रहा देवोपकृतक्त इत्यर्थसूचनाय तदनुवादोपपत्तेः । न चै

'

रामस्य तच्छत्वा नमस्कृत्य वृषध्वजम्’ इति कविवाक्यबलाच्छिवाराधनरूपत्वं

गम्यत इति वाच्यम् । वृषध्वजप्रीतिकरणत्वश्रवणेन तन्नमस्कारोपपत्तेः । न च लक्ष्मणं प्रत्येव वृषध्वजप्रीतिकरत्वं कथितम्, न तु मुनीन् प्रतीति कथं मुनिकृतनमस्कारस्य तच्छ्रवण हेतुकत्वं इति वाच्यम् । ‘अश्वमेधः कर्तव्य ’ इत्यभिप्रायामिधानदशायां मुनीन् प्रत्यपीलोपाख्यानं कथितमिति मुनिकृतनमस्कारबलादेव कल्पनात् । न च नमस्कृत्य वृषध्वजं ’ अश्वमेधं पूजयन्ति स्मेत्यनेन शिवसम्बन्धित्येंनय श्लाध्यतामिमतेति गम्यत इति वाच्यम् ।412

"

‘एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण '

इतीन्द्रकृतविष्णूद्देश्यकाश्वमेधानुष्ठानाभ्युपगमदर्शनेन शिवसम्बन्धित्वेनैव श्लाध्य तामिमतेत्यस्य कल्पयितुमशक्यत्वम् । न च विष्णुप्रीतिहेतुत्वस्य रामाभ्युपगमत्वे ऽपि मुनीनां शिवसम्बन्धित्वेनाभिमतमिति वाच्यम् ।

’ ते तु रामस्य तच्छ्रुत्वा नमस्कृत्य वृषध्वजम् ।

अश्वमेधं द्विजास्सर्वे पूजयन्ति स्म नित्यशः ॥ ’ इत्यनन्तरं ’ तमेषा द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।

अश्वमेधाश्रितं श्रुत्वा भूयः प्रीतिरवर्धत ||

इत्युक्स्या मुनिमिरश्वमेधाश्रितोपाख्यानान्तरकथनस्य गम्यमानत्वेन देवताविशेषौदासीन्येनाश्वमेधश्लाष्यतामात्रमेत्र मुन्यभिमतमिति कल्पनात् । शित्रनमस्कारस्तु रामोक्तलीलोपाख्यानश्रवणेन तदीयसामर्थ्यातिशयप्रतिबोधादुपपद्यते । तर्हि कां देवतामुद्दिश्याश्वमेधानुष्ठानं कृतमिति कल्पयितुं युक्तमिति चेत् -

’ गते पुरोहिते रामः स्नातो नियतमानसः ।

||

सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा । महते देवतायाज्यं जुहाव ज्वलिते ऽनले ॥ शेषं हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् । ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ वाग्यतः सह वैदेल्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोश्शिस्ये नरवरात्मजः ||

·

इति श्रीरामायणेऽयोध्याकाण्डे नारायणस्यैव तत्कुलदेवतात्वावगमात् ।

अस्तु वा शिवमुद्दिश्य रामेणाश्वमेधकल्पनं तथापि मर्यादामनुसृत्य कृतत्वोपपत्तेर्न तदपेक्षया शिवस्याधिक्यं कल्पयितुमीष्टे । न च ‘रुद्रः स विष्णुरित्यादि निर्देशेन विष्ण्यपेक्षया शिवस्याधिक्यं कल्पयितुं शक्यम् ।

413

सन्ददर्श ततो रामं तिष्ठन्तमपराजितम् ।

लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ॥’

इत्यादि निर्देशेनेन्द्राद्यपेक्षयास्यावरत्वमिति कल्पनापत्तेः । ’ सेन्द्रैरपि सुरासुरैः ’ ’ ततो देवर्षिगन्धर्वाः सरुद्रास्साप्सरोगणाः’ इत्यादिनिर्देशात् रुद्रेन्द्राद्यपेक्षया इतरेषां देवानामाधिक्यापत्तेश्च । तस्मात् स विष्णुरिति निर्देशस्य विष्णुपरत्वतात्पर्यकत्वकथनं उन्मत्तप्रलपितमेव । रुद्रः स नन्दिरिति पाठो बहुषु कोशेषु

दृश्यत इत्यसङ्गतम् ।

यत्तु - ’ तत्न तु ब्रह्मणः स्थानमनेकस्थानमेत्र च ।

विष्णोस्स्थानं महेन्द्रस्य स्थानं चैव विवखतः ॥ सोमस्थानं मगस्थानं स्थानं कौबेरमेत्र च । धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च ॥

स्थानं च पाशहस्तस्य वरुणस्य महात्मनः । स्थानं तथैव गायत्र्याः वसूनां स्थानमेव च ॥

स्थानं च नागराजस्य गरुडस्य तथैव च । कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ॥ '

इति सर्वेषां देवानां स्थाननिर्देशदशायां शिवस्य स्थान निर्देशाभावादगस्त्योपास्यः शिव एवेति निर्णीयते ।

अत्र देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः । अगस्त्यं नियताहारं सततं पर्युपासते ॥

अत्र देवाश्च यक्षाश्च नागाश्च पतकैस्सह ।

वसन्ति नियताहाराः धर्ममाराधयिष्णवः ॥ '

इति, पूर्व सामान्येन सर्वेषां देवानामुपासकत्वमुक्त्वा विशिष्य तानुल्लिख्यस्थाननिर्देशेन तदुपासकत्वावसायादिति तदप्यमञ्जुलम् - अगस्त्यस्य चतुर्मुखाद्युपास्य-

त्वस्य वक्तुमशक्यतया ’ अत्र देवा’ इत्यस्य चतुर्मुखाद्यतिरिक्तपरत्वस्य

414

’ अगस्त्यं पर्युपासत’ इत्यस्य समीपावस्थानप्रतिपादनपरत्वस्य वा वक्तव्यत्वात् । न ह्यगस्त्यस्य चतुर्मुख विष्णूपासकत्वमुत्प्रेक्षितुं शक्यम् ।

किं च ’ अत्र देवा’ इत्यत्रोक्तानामेव स तत्र ब्रह्मणः स्थानमित्यत्र स्थानसम्बन्धित्वेन कीर्तनमित्यत्र किं नियामकमस्ति ।

अत्र देवाश्वेत्यस्य रामवाक्यत्वेन स तत्र ब्रह्मा इत्यस्य कविवाक्यत्वेनैकवाक्यत्वात् ।

एतेन ’ अत्र देवाश्च यक्षाचे ‘ति श्लोके ’ धर्ममाराधयिष्णव’ इति धर्माराधकत्वं चतुर्मुखादीनां प्रतीयत इति परास्तम् । स तत्र ब्रह्मण स्थानमित्यनेनैकवाक्यत्वाभावात् । न चास्य सङ्कोचार्थं चतुर्मुखादिपरत्वम् । तर्हि शिवपरत्वस्यापि प्रसङ्गात् । न च शिवस्यापि सन्निधाने तस्य स्थान निर्देश: स्यादिति वाच्यम् । येषां धर्माराधकत्वं तेषां स्थान निर्देश इत्यत्र नियामकाभावेन स्थाननिर्देशता तयोर्देवशब्देन ग्रहणाग्रहणयोरनियामकत्वादगस्त्योपासनाप्रीतानामपि देवानां कामविशेषे प्रेम्णा तदाश्रमे कञ्चित्कालमवस्थिति संभवात् तस्मादेतादृशकुशकाशावलम्बनेन शिवपारम्ये रामायणस्य तात्पर्यमस्तीति वर्णयितुमशक्यत्वात् । पूर्वोदाहृतभूयस्तरवचनानुरोधात् भगवत्पारम्यतात्पर्यकत्वमेवेति सकलमहाजनपरिग्रहावगत प्रमाणमूर्धन्यभाव श्रीमद्रामायणानुसारित्वात् सात्विकपुराणानां प्राबल्यमिति मैत्रेयोपनिषदुपबृंहणस्य कर्तव्यतया तदनुसारेण श्रुतीनां भगवत्येव तात्पर्यमिति शिवहिरण्यगर्भादिविभूतिक श्रीमन्नारायण एव जगत्कारणं ब्रह्मेति सिद्धम् ॥

इति श्रीशठमर्षणकुल तिलकाने खिलवेदान्तविद्यानिषद्यायितहृदयकमल श्रीताताचार्यनन्दनस्य हयवदनकरुणाकटाक्षवीक्षालब्धपदवाक्य प्रमाण सारस्य श्रीमन्निगमशिखगुरुचरणसरसीरुहचञ्चरीकायमाणमानसस्य श्रीवेङ्कटदेशिकपदसेवासमधिगत श्रीमच्छारीरकमीमांसाभाष्यहृदयस्य वेङ्कटाचार्यस्य कृतिषु सिद्धान्तरत्नावल्यां

द्वितीयः परिच्छेदः ॥

415

हरिः ओम् । श्रीमच्छ्रीरौलपूर्णकुलतिलकशतक्रतु चतुर्वेदि श्रीमद्वेङ्कटाचार्यमहागुरवे नमः || श्रीमन्नारायणगुरवे नमः || सिद्धान्तरत्नावली वेङ्कटाचार्यकृता ।

तृतीयः परिच्छेदः

रङ्गेशः यच्छ्रतिकिरीटरहस्यमात्म-

पादाब्जभक्तिरिति नः कथयन् कराभ्याम् | लीलोपधानपरजानुविलम्बिताभ्यां

भक्ति परादिशतु भव्यसमृद्धिहेतुम् ॥

उक्तं परिच्छेदयुगेन विश्व-

हेतुत्वमाश्रित्य हरेः परत्वम् । तदेव चास्मिन्ननवद्यविद्या-

वेद्यत्यमालम्ब्य निगद्यतेऽब ॥

मोक्षसाधनभूता: स्युर्विद्या ब्रह्मैकगोचराः । अतस्तद्वेद्यता लक्ष्मीपतेर्ब्रह्मत्वसाधनम् ॥ तत्त्रादितः सूत्रभाष्यप्रणेतृभ्यां प्रकाशितः । न्यायः प्रकाश्यते सर्वविद्यावेद्यत्वगोचरः ||

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । नारायणा नुवाकः कृत्स्नोविषयः । संशयस्तु किं सर्वविद्यासु नारायण एवोपास्यः उत दहरविद्यामात्रे । किं नारायणानुवाकेन सर्वविद्यानामुपास्य विशेषोनिर्धार्यते । उत दहरविद्याया एव । किमत्र दहरो शेन नारायणत्वं विधीयते उत सर्वविद्योपास्योद्देशेन । किं हृदयायतनत्व श्रवणमनुरोद्धव्यम् । उत लिङ्गभूयस्त्वमिति । तत्र हृदयायतनत्वानुरोघे दहरोद्देशेन नारायणत्वविधानान्नारायणानुवाकस्य दहरविद्यामात्रोपास्य विषयत्वात्तस्यामेव नारायण उपास्यः स्यादिति पूर्वपक्षे फलफलिभावः । राद्धान्ते तु लिङ्गभूयस्त्वानुरोधे सर्वोपास्योदेशेन नारायणत्वविधानान्नारायणानु-

416

वाकस्य सर्वविद्योपास्य विशेषनिर्धारकतया सर्वविद्यासु नारायण एवोपास्य इति फलफलिभावः । तत्र पूर्वः पक्षः । अस्मिन्ननुवाके पद्मकोशप्रतीकाशमिति हृदयायतनत्वश्रवणेन दहरविथा प्रत्यभिज्ञानात् । अणोरणीयानित्यस्मिन्ननुवाके दहर विद्यायाः प्रकृतत्वाच्च दहरोद्देशेन नारायणत्व विधायकत्वस्य युक्तत्वात दहर विद्योपास्यनिर्धारकत्वात्तत्रैव नारायणस्योपास्यत्वं ततः सिध्यति न सर्व विद्यासु न च नारायणपरोज्यो तिरित्यादिवाक्यैः सर्वपरविथा सम्बन्धः तद्वाक्येषु द्वादशाहीनस्येति तत्तद्विद्योद्देशेन नारायणविध्यप्रतीतेः । अतो न वाक्यात् प्रकरणबाधशङ्का । सहस्रशीर्ष देवमिति द्वितीयाविभक्तिदर्शनेन कारकत्वेन क्रियाकाङ्क्षित्वेन पूर्वानुवाकोदितोपासिना सम्बन्धाच्च तदैक्यं प्रतीयत इति दहरविद्योपास्योद्देशेन नारायणत्वविधायकत्वं युक्तमिति ।

राद्धान्तस्तु सर्वपर विद्योपास्यत्रस्त्वनुवादेन नारायणत्वविधायकत्वमेवास्य युक्तं तत्तद्विद्यास्वक्षरशिवशम्भु पर ब्रह्मपरंज्योतिः परमात्मपरतत्वादिशब्दनिर्दिष्टं वस्तु तैरेव शब्देरनूध तस्य नारायणत्वविधानस्य वाक्यप्रमाणकत्वात् प्रकरणेन दहरविद्योपास्यनिर्धारकत्वस्य वक्तुमशक्यत्वात् । प्रकरणस्य वाक्यापेक्षया दुर्बलस्यात् । (जै. सू. 3-3-13 )

द्वादशोपसचायाः अहीनांगताधिकरणम् -

1

ज्योतिष्टोम प्रकरणे श्रूयते - ’ तिस्र एव साहस्योपसदो द्वादशाहीनस्य’ इति । एकेनाहा निष्पाद्यत्वात्साहो ज्योतिष्टोमः । दीक्षादिवसादूर्ध्व सोमाभिषत्र दिवसात्पूर्व कर्तव्या होमा उपसदः । तासां द्वादशत्वं प्रकरण बलात् ज्योतिष्टोमे निविशते । अहीनशब्दश्च तस्मिन्नेव कल्पते । ज्योतिष्टोमस्य निखिलसोमयाग प्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेश विकल विकृतीनामित्र हीनत्वाभावात् । अतो द्वादशत्वत्रित्वयोर्विकल्पः इति पूर्वः पक्षः ।

सिद्धान्तस्तु आवृत्त सोमयागरूपो द्विरात्र त्रिरात्रादिरहर्गणः । तस्मिन्नहीनशब्दो रूढः । यौगिकत्वे तु ‘न हीनः’ इति विगृत्य समासे कृते

417

न च पद्मकोशप्रतीकाशमित्यादि बलाद्दह र विद्याशेषत्वमवगम्यत इति वाच्यम् । ऐतदात्म्यमिदं सर्वमिति सामान्येनोक्तस्य ब्रह्मात्मकत्वस्य तत्त्वमसीति जीत्रविशेषे उपसंहारवत् सर्व विद्योपास्यतयामिहितस्य नारायणस्य विद्याविशेषे उपसंहारमात्रपरत्वात् । न च विद्यान्तरानुवादादर्शनमिति युक्तं ज्योतिरादिशब्दैस्तदुपास्यानुवादस्योक्तत्वात् । तन ’ अथ परायया तदक्षरमधिगम्यत’ इत्यादि क्यनिर्दिष्टमक्षरं ‘विश्वं नारायणं देवमक्षरं परमं प्रभुमित्यनूध नारायणत्वं विधीयते । ‘अथ यदितः परो दिवो ज्योतिर्दीप्यत’ इत्यादिवाक्योपात्तं वस्त्वनूच नारायणपरो ज्योतिरिति नारायणत्वं विधीयते । ’ आत्मा वारे द्रष्टव्यः वा इदमेक एवाग्र आसीत् ’ आत्मानमेव लोकमुपासीत, तमेवैकं जानथात्मान मित्यादिवाक्योपास्यमनूद्य आत्मा नारायणः पर इति नारायणत्वं विधीयते । एवमन्यत्राप्यूह्यम् ।

,

आत्मा-

च सहस्रशीर्षमिति द्वितीयाविभक्तिदर्शनात्तस्य च पूर्वानुवाकस्थोपासिना सम्बन्धाद्वाक्यादेव नारायणस्य दहर विद्यामात्रान्त्रयो गम्यत इति वाच्यम् । उपासितव्यमिति कृत्यप्रत्ययेन कर्मणोऽभिहितत्वेन द्वितीयाविभक्तेरन्वयात् । शाब्दस्मृतौ हि कृत्तद्धितसमासैरमिहिते द्वितीयानुशासनम् । अतः प्रथमार्थ एव द्वितीया । उत्तरत्र नारायणः पर इति प्रथमार्थत्वदर्शनाच्च । न च प्रथमार्थत्वस्वीकारे उपासिनान्वयः सुतर स्यादिति वाच्यम् । स्वारसिकेन सर्वस्मात्परत्वप्रतिपादनेन वाक्यस्य निराकाङ्क्षत्वे सत्यपि पूर्वानुवाकस्यपदाकर्षणेनान्वयायोगात् नारायणं परं ब्रह्मेत्याद्यनेकवाक्यत्रैयर्थ्यप्रसङ्गाच । अतः सर्वपरविद्योपास्यवस्त्वनुवादेन नारायणत्वविधायकत्वमेवास्य युक्तमिति ।

सत्ययज्ञादिशब्दवदाबुदात्तः स्यात् । मध्योदात्तस्त्वाम्नायते । रूढिश्च विग्रह निरपेक्षत्वाच्छीघ्रबुद्धिहेतुः । अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते । तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते । तत्सिद्धये प्रकरणादिदमपनेतव्यम् । (जै. सू. 3-3-13)

F-63

418

शङ्करादयस्तु-लिङ्गभूयस्त्वादिति सूत्रं राद्धान्तोपक्रमत्वेनोत्तराषिकरणशेषतया व्याचक्षते । तदनुपपन्नम् । लिङ्गैरेव राजान्तोपक्रमे दुर्बलप्रकरणावलम्बनेन पूर्वपक्षोत्थानानवकाशात् । कयश्चिलिङ्गान्यथाकरणपूर्वकं पूर्वपक्षोत्थितित्रर्णने श्रुत्यादिबलीयस्त्वादिति सूत्रे आदिशब्दोपात्तत्वं लिङ्गस्यानुपपन्नं स्यात् । तत्र प्राबल्यहेतुर्विवक्षित इति चेन्न । अशाब्दत्वात्प्रकरणेन पूर्वपक्षं वर्णयित्वा तन्निराकरणपूर्वकं सिद्धान्तत्रणीनस्य कर्तुं शक्यत्वेन तावतैवोपपस्यालिङ्गभूयस्त्वादिति सूत्रवैयर्थ्यप्रसङ्गश्च । तस्मादस्मद्भाष्यकृन्मर्यादेत्र सूतकृदमिमतेति नारायणानुत्राको नारायणस्य सर्वविद्योपास्यत्वसाधक इति सिद्धम् ।

यदाह कश्चित् एवं सति यदा तम इति मन्त्रे सौबालवाक्यसिद्धकालविशेषप्राप्ततमोऽनुवाद इति मन्यमानानां कथं न सुबालोपनिषदः शिवपरत्वं सिध्येत् । तत्र यद्वृत्तयोगेन तत्कालवर्तिनस्तमोऽधिष्ठातुः सुबालोपनिषत्प्रतिपाद्यस्यानुवाद इत्यस्य इतोऽपि स्पष्टत्वात् । अपि च एवं ’ सर्वो वै रुद्र’ इत्यादिमन्त्राणां त्वदुक्तरीत्या सर्व पुरुषसन्महः प्रभृतिशब्दः शाण्डिल्य विद्या पुरुषसूक्त सद्विद्याव्याहृतिविद्यादि सकलपर विद्योपास्यत्रस्त्वनुवादेन रुद्रत्वविधायकत्वस्याभ्युपगन्तव्यतया कथं नारायणः सर्वविधोपास्य इति निर्णयः । बलाबल - विचारे तु ’ सर्वो वै रुद्र’ इत्यादिमन्त्रैः रुद्रः सर्वपर विद्योपास्यः सिध्यतीति निर्णय एत्र युक्तः । सर्वो वै रुद्र इत्यादिवाक्यानां स्पष्टभेदानां सर्वपुरुषाद्यनुवादेन रुद्रत्वविधायकत्वस्य स्पष्टत्वात् । सहस्रशीर्षं देवमित्यादिमन्त्राणां तद्विश्वमुपजीवतीति नारायणस्य विश्वोपजीवित्वोपवर्णनेन तत्प्रशंसापरतया प्रतीयमानानां तत्र तत्र वाक्यभेदस्य द्वितीयान्तानां प्रथमार्थत्वस्य च कल्पनीयत्वात सर्वपरविद्योपास्यवस्त्वनुवादेन नारायणत्व विधिपरत्वकल्पनस्य क्लिष्टत्वात् । किं च अथर्वशिखायां कचिद्धयेय इति विद्याविशेषोपक्रमाभावात् सकलपरविद्यासु ध्येयप्रभे शिवस्य ध्येयत्वनिर्धारणस्य स्पष्टत्वेन सहस्रशीर्ष देवमित्यादिमन्त्राणां तद्विरुद्धार्थत्वकल्पनानोन्मेषमर्हति । अतो न नारायणस्य सर्वपरविद्याबेद्यत्वमिति ।

अत्र वदामः

419

यदा तम इति मन्त्रस्य सौचालवाक्यसिद्धतमोऽनुवादकत्वमात्रेण कथं त्वस्या उपनिषदः शिवपरत्वं सिध्येत् । तत्र शिव एव केवल इतेि शिवत्वविधानात् सिध्यतीति चेन्न । तथा सति दिवानिशाद्यभावस्यापि विधेयत्वप्रसङ्गात् । न च शिवशब्दार्थ विध्यभावे वैयर्थ्यमस्येत्युपपादितमास्तात् । किं च नारायणत्वेन सौबालब, क्यात्रगते तमोऽधिष्ठातरि कथं शिवत्वविधिसम्भवः कथं तर्हि शिवशम्भ्वादिशब्देनोपास्यवस्त्वनूद्य नारायणत्वविधिरुपपद्यत इति चेन्न । अनुपहतपाप्मावा अहमस्मीत्यादिवाक्यैः प्रसिद्धशिवस्यकर्मवश्यत्वावगमेन परविद्योपास्यत्वायोगेन तदतिरिक्तपरत्वे अवश्यवाच्ये सति सक इत्याकाङ्क्षायां तदनुवादेन नारायणत्त्रविधिसम्भवात् । अपि चेत्यपि न सर्वो वै रुद्र इत्यस्य तस्मै रुद्राय नमोऽस्त्विति कीर्त्यमान नमस्कारोद्देश्यत्वोपयोगित्वेन सर्वात्मकत्ववर्णनपरत्वेनान्यथासिद्धस्य शाण्डिल्यविद्या वेद्यवस्त्वनुवादेन रुद्रत्वविधायकत्वासिद्धेः । पुरुषो वै रुद्र इत्यस्यापि कीर्तितसर्वात्मकत्वो - ‘पयोगित्वेन रुद्रशब्दस्य पुरुषशब्दवाच्य नारायणपर्यन्तत्वकीर्तनपरत्वेन पुरुषसूक्त प्रतिपाद्ये रुद्रत्वविधायकत्वायोगात् त्वया पुरुषो वै रुद्र इत्यादिवाक्यचलाद्रुद्रस्य पुरुषशब्दवाच्यत्वसिद्धिरित्यन्यत्रोक्तत्वेन तद्विरोधापाताच्च । एतेन बलाबलविचारेत्वित्यादिकमपास्तम् । न च सहस्रशीर्षमित्यादिना तत्तद्विद्योपास्य वस्त्वनुवादेन नारायणत्वविधाने वाक्यमेदः स्यादिति वाच्यम् । " विश्वं नारायणं देवं " " विश्वं नारायणं हरि’ मिति नारायणपदपौनः पुन्यानर्थक्यापातात्तदपेक्षया वाक्यभेदाङ्गीकारस्य युक्तत्त्रात् । एतेन तद्विश्वमुपजीवतीति कर्माकाङक्षयान्वयसम्भवे द्वितीयान्तानां प्रथमार्थकत्वकल्पनं क्लिष्टमिति अपास्तम् । नारायणपद पुनः पुनः श्रवणानर्थक्यापातात् ’ अन्तर्बहिश्चतत्सर्वं व्याप्यनारायणः स्थितः ’ इत्यनन्तरश्रुतानामनन्तमव्ययमित्यादीनां प्रथमार्थत्वकल्पनस्यावश्याभ्युपगन्तव्यत्वाश्च विद्योपास्यवस्त्वनुवादेन नारायणत्वविधिपरत्वानङ्गीकारे कृत्स्नस्यानुवाकस्य प्रयोजनशून्यत्वापत्तेश्च । न च नारायणप्रशंसापरत्वमानर्थक्यापातात् ।

यत्तु अथर्वशिखायां विद्याविशेषोपक्रमाभावाच्छित्रस्य सर्वपरविद्यासु ध्येयत्वं सिध्यतीति तन्न । तस्य कारणानुवादेन ध्येयत्वनिर्धारकत्वेन शिवस्य

?

420

ततो ध्येयत्वावगमात् । विस्तरेण चायमर्थो द्वितीयपरिच्छेदे प्रतिपादितः । तस्मान्नारायणानुवाकस्य सर्वपरविद्या वेद्यनिर्धारकत्वं निष्कण्टकमिति संक्षेपः ।

अथ तत्तद्विद्या प्रकरणपर्यालोचनया भगवतः परविद्यावेद्यत्वं दिङ्मात्रेण प्रदर्श्यते । * तत्रान्तरादित्य विद्या तावत् भगवन्निष्टा । तथा हि छान्दोम्पे ’ य एषोऽन्तरावित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेत्रमक्षिणी तस्योदितिमम स एष सर्वेभ्यः पाप्मभ्य उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदे”ति श्रूयते । एतद्वाक्यप्रतिपाद्यमानत्वं भगवत एव वक्तुमुचितं पुरुषश्रुत्या तदुपस्थानात् सर्वेभ्यः पाप्मभ्यः उदित इति अपहतपाप्मत्वस्य एव सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण इति सौबालवाक्ये भगवद्धर्मतया श्रुतस्य श्रवणात् अक्षिद्वित्वाम्नानात् पुण्डरीकाक्षत्वोपन्यासाञ्च ।

·

अत्र कश्चिदाह न तावत्पुण्डरीकनयनत्वं तस्यासाधारणं लिङ्गं । लोकवेदयोरन्यत्रापि बहुलं तत्प्रसिद्धेः । तस्यासाधारण्येऽपि पुण्डरीकाक्षशब्दस्य विष्णाषसाधारण्योपपत्तेश्च । न च यथेत्यादिश्रुतिरिति वक्तुं शक्यते । न च योगरूढशब्दवदवयवार्थप्रतिपादकवाक्यस्यापि प्रयोगनियमो ऽस्ति । अतो न पुण्डरीकाक्षत्वोक्तिबला द्विष्णुपरत्वम् । नाप्यचिद्वित्वोपन्यासात् अक्षिद्वित्वस्य

“अन्तरादित्य विद्या

य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेव मक्षिणी तस्योदितिः नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । तस्यर्क् च साम च गोष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गाते तस्य हि गाता स एष ये चामुष्मात्पराचो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ।

421

ग्रहैकत्ववदुद्देश्यगतत्वे (जै. सू. 3-1-7 ) नाविवक्षिततया संमार्गस्य सर्वग्रहविषयत्ववत् पुण्डरीकसादृश्यस्या क्षित्त्रयविषयत्वसम्भवेन सूर्यान्तर्वर्तिविग्रहस्य शैवत्वेऽप्युपपत्तेः । न च कप्यासशब्दोक्तसूर्य कर विकसितत्वविशिष्ट पुण्डरीकसादृश्यं मुकुलिते तृतीयलोचने न सम्भवतीति कथमक्षिलयविषयत्वमिति

ग्रहसंमार्जनाधिकरणम्

सोमे श्रूयते

" दशापवित्रेण ग्रहं संमार्ष्टि " इति । दशापवित्रं

वास: खण्ड: । यथा

" पशुनायजेत” इत्यत्रोपादेय पशुगतमेकत्वं विवक्षितम्, तद्वदुद्देश्यग्रहगतमप्येकत्वं विवक्षितत्र्यम् । किं च ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कार्यत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्येऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति । तस्मात् एक एवग्रहः शोधनीय इति पूर्वः पक्षः

सिद्धान्तस्तु

"

ग्रहम् " इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते । ग्रहं प्रति गुणः संमार्गः । प्रतिप्रधानं च गुण आवर्तनीयः इति न्यायेन यावन्तो ग्रहाः सन्ति ते संमार्जनीयाः । एवं निश्वये सति संमार्गयितव्यग्रहेयत्ताया अबुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् । अत्नोच्येत – नेदमुद्दश्यगतम्, किन्तु द्वयं विधेयम् इति । तन्न । वाक्यमेदापत्तेः । ’ ग्रहं संमृज्यताम्, तं चैकम्’ इत्येवं विधेयार्थमेदा द्वाक्यभेदः । पशुना यजेत’ इत्यत्र तु यागं प्रति गुणभूतः पशुः । नहि

प्रतिगुणं प्रधानस्याऽऽवृत्तिः’ इति कश्चिन्न्यायोऽस्ति ।

इति कश्चिन्न्यायोऽस्ति । तत इयत्ताया बुभुत्सितत्वाच्छ्रयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् । न च जातिः संस्कार्या,

"

1

तस्या अमूर्तत्वात् । ततो द्रव्यलक्षको ग्रहशब्दः | तत्र चाऽऽवृत्तिरुक्ता । तस्मात् सर्वे ग्रहाः संमार्जनीयाः । (जै. सू. 3-1-7 )वाच्यम् ।

422

कप्यासशब्दस्य तदर्थकत्वासिद्धेः प्रोद्गातृन्यायेन ( जै. सू. 3-3-6 ) योगापेक्षया रूढिपूर्वकलक्षणाया ज्यायस्त्वेन कपिर्मर्कटः तस्यासं आस्यते उपविश्यते अनेनेति पश्चाद्भागः तत्सादृश्यात्तच्छब्दं तथा च मर्कटपश्चाद्भागवल्लोहितं यत् पुण्डरीकं तत्सादृश्यमर्थ इति व्याख्यानस्य युक्तत्वात् । ‘य उदगान्महतोऽर्णवा द्विभ्राजमानः सरिरस्य मध्यात्समा वृषभो रोहिताक्ष ’ इति मन्त्रे मण्डलान्तर्वर्तिनो लोहिताक्षत्ववर्णनदर्शनेनावापि श्रुत्यन्तरप्रतिपन्नार्थवर्णन सम्भवे ऽर्थान्तरवर्णनानौचित्यात् । न चैवं सति हीनोपमादोषः । उपमितोपमात्वात् ।

ननु पुण्डरीकं सिताम्भोजमित्यनुशासनेन तस्य सिताम्भोजवा चकत्वात्तत्र कप्यास विशेषणोपनीतस्य रक्तसाहित्यस्य कथमन्वय इति चेन्न । नवमाध्याये पौण्डरीकाणि चषि (जै. सू. 9 - 9 - 2 ) भवन्तीति विहितेषु पौण्डरीकेषु

समाख्यायाः विनियोजकताधिकरणम् -

याज्या पुरोनुवाक्या पाठादयो धर्मा ऋग्वेदे प्रोक्ताः । दोहन निर्वापादयो यजुर्वेदे । आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे । तत्र अस्यैवैते धर्माः इति नियामकस्य दुर्निरूप्यत्त्राद्येन केनाप्यत्विजा यः कोऽपि धर्मइच्छया संपद्यत इति पूर्वपक्ष: ।

सिद्धान्तस्तु - मैवम् । हौत्रम्, आध्वर्यवम् औगात्रम् इति समाख्यानेन नियतिर्बोध्यते । न च समाख्यानस्य बाधकं किञ्चित्पश्यामः । तस्मादबोधकत्व बाधितत्बयोर प्रामाण्यकारणयोरभावाच्छुतिलिङ्गादि पश्चकवत्प्रमाणेन सामाख्यानेन धर्मा व्यवस्थाप्यन्ते । (जै. सू. 3-3-6 )

पौण्डरीकेषु बर्हिःषु स्तरणमंत्रस्योहाधिकरणम् -

66

मौद्रं चरुं निर्वपेच्छ्रियै श्रीकामः" इत्यत्र " पौण्डरीकाणि बहींषि भवन्ति " इति श्रुतम् । तत्रस्तरणमन्त्र श्रोदकप्राप्तः - " दर्भैः स्तृणीत हरितै: "

423

दर्भैस्तृणीत हरितैरिष्यतिदेश प्राप्तस्य मन्त्रस्य हरितपदस्थाने रक्तपदमूहितव्यमिति ऋदद्भिः शबरस्वाम्याद्यभियुक्तैः रक्ताम्भोजपरत्वाङ्गीकारात् । तद्विरोधेन कतिपयकाव्यदर्शि कोशकारवचनस्य बाधात् । अस्तु षा अक्षिणी इत्यत्र द्वित्वविवक्षा । कप्यासमित्यस्य सूर्यकर विकसितत्वमर्थः । तथापि पुत्रत्रयवन्तं पुरुषं निर्दिश्यास्य पुत्रौ द्वावग्निकल्पौ इत्युक्ते यथा पुत्रगतद्वित्वं न पुत्रान्तरव्यवच्छेदकं किन्तु अग्निसादृश्यमात्त्रव्यवच्छेदकं तथाक्षिगतद्वित्वं नाक्ष्यन्तरव्यवच्छेदकं किंतु तत्र सूर्यकरविकसितपुण्डरीकसदृशत्वस्यैवेति नाक्षिद्वित्वोपन्यासाद्विग्रहत्वस्य वैष्णवत्वं सिध्यतीति ।

अत्रोच्यते - पुण्डरीकनयनत्वस्य साधारण्यान्न ततो भगवदुपस्थितिरिति यदुक्तं तदनुपपन्नम् । तस्य साधारण्येऽपि भगवति प्रचुरप्रसिद्धिपुण्डरीकाक्षशब्देन योगार्थोपस्थितिदशायामेकपदोपात्तत्वप्रत्यासत्तिमतो रूढ्यर्थस्यापि सहोपस्थितिसम्भवेन ततो भगवदुपस्थितेरप्रत्यूहत्वात् ।

यदप्यक्षिद्वित्वस्योद्देश्य गतत्वेना विवक्षितत्वात् पुण्डरीकसादृश्यम क्षित्रयविषयकमिति तदप्यविचारितरमणीयम् । उद्देश्यगतत्वेनाविवक्षितत्वोक्तात्रप्यक्षित्रयानुवादकत्वे बहुवचनप्रसङ्गस्यावर्जनीयत्वात् । अत एव बृहस्पतिसवादिषु बार्हस्पत्यं गृह्णातीत्यादिना समाम्नातानां वैकृतग्रहाणां प्राकृतैन्द्रवायवादिनिवर्तकत्वमस्ति न वेति संशय्य ग्रहाणां यागनिर्वृत्त्यर्थकेनैककार्यत्वात्प्रत्यक्षश्रुतैर्वैकृतग्रहैर्निर्वर्तिते यागे चोदकप्राप्ता निर्तन्त इति पूर्वपक्षं

इति । तत्र पूर्वन्यायेन दर्भशब्दस्याने पुण्डरीकशब्दः प्रयोक्तव्यः । हरित शब्दस्तु प्रकृतौ नापूर्वीय द्रव्यत्राची । ततोऽसमवेतत्वा द्विकृतावप्यदृष्टार्थमनूहेन प्रयोक्तव्य इति पूर्वः पक्षः ।

सिद्धान्तस्तु गुणद्वारा गुणिद्रव्यप्रकाशने सति दृष्टार्थत्वलामेन समवेतार्थत्वात् । तस्मात् - ‘पुण्डरीकै स्तृणीत रक्तैः’ इत्यूहनीयम् । (जै. सू. 9-3-2 )

424

प्रापय्य यागानुवादेन बार्हस्पत्यग्रह विधायकस्य बार्हस्पत्यं यजेतेत्येवंविधस्य वाक्यस्याभावेन प्रयोगवचनस्यैव शरणीकरणीयतया तस्य चोपदेशातिदेशोभयानन्तरं प्रवर्तमानस्य यौगपद्येन समुच्चितप्राकृतत्रैकृत ग्रहया गान्वयबोधकत्वाद्विनापि ग्रहणेन यागनिर्वृत्तिसिद्धिः । ग्रहणानां दृष्टार्थत्वाभावात् । प्रत्यक्षेणापि निरपेक्षयागसाधनत्वस्य वक्तुमशक्यत्वाच्च । न वैकृतैः प्राकृतानां बाध इति सिद्धान्तयित्वा ग्रहान् गृह्णातीत्यादा वेतन्न्यायप्रसरेऽपि बार्हस्पत्यं गृह्णातीत्यस्य नोदाहरणत्वम् । सत्यां गतौ विशिष्टविधिगौरवस्यान्याय्यत्वात् देवतावा चकपदस्याप्रमादपाठत्वाय ग्रहणविधिपक्षेऽपि वाक्यार्थविधेरवर्जनीयत्वात् श्रुत्यर्थ विधिरीप्सया ग्रहणविधिरिति पक्षस्यानुन्मेषात् चोदकस्य कार्यप्रधानत्वेऽपि तन्मुखेन पदार्थानामप्यतिदिष्टतया प्राप्तग्रहानुवादेन बृहस्पतिदेवतारूपगुणविधिरित्येवाङ्गीकर्तुं युक्तम् । विकृतौ शब्दवत्त्वात् प्रधानस्य गुणानामधिकोत्पत्तिसंनिधानादित्यधिकरणे तथा व्यवस्थापनादित्याशङ्कय प्राकृतग्रहानुवादेन देवतारूपगुणविधिरित्येवाङ्गीकर्तुं युक्तं, विकृतौ विधौ तेषां बहुत्वादाग्नेया ग्रहा भवन्तीति बहुवचनं स्यात् । यद्यपि चानुवाद्यगतसंख्या न विवक्षिता । तथापि बहुषु बहुवचनेनैव भवितव्यम् । सोऽयमभिधानबाधः । विशिष्टविधौ तु गौरत्रमात्रं तस्माद्देवताविशिष्टग्रहणान्तर विधिरेव न्याय्य इति युक्तमुदाहरणत्वमिति ब्यवस्थापितं पूर्वतन्त्रे ।

नन्वेवं ग्रहं संमाष्टत्यत्र यागसाधनी भूतप्रहोद्देशेन संमार्गविधानाभ्युपगमो विरुध्येत । तेषां बहुत्वेन बहुवचनप्रसङ्गस्यानिवार्यत्वादिति चेत्, न । महोद्देशेन संमार्गविधिमनङ्गीकृत्य ग्रहसाधनक संमार्गविधौ द्वितीयाश्रुतिचाधप्रसङ्गात् ग्रहोद्देशेन संमार्गविधौ कर्मत्वप्रतिपादकत्वेन द्वितीयाया उपपन्नत्वादेव वनस्य जात्यैक्यावलम्बनत्वसम्भवात् । बार्हस्पत्यं ग्रहं गृह्णातीत्यत्र तु ग्रहानुवादे ग्रहान्तर विधाने वा संस्कार्यत्वेन द्वितीयाया अबाधात् । वचनानुप्रहार्थ ग्रहान्तर विधानस्य युक्तत्वात् । नन्वत एव सर्व महोद्देशेन संमार्गविधाने बहुवचनप्रसङ्गात् । ग्रहैकत्वं वित्रक्षितमापद्येतेति चेत्, न । एकत्वस्य विवक्षितत्वे उद्देश्यतया उद्देश्य विशेषणतया विधेयतया वान्वयः स्यात् । तत्र

425

नाद्यः । ग्रहैर्जुहोतीति वाक्यान्तरेण ग्रहाणां प्राप्तत्वेन ग्रह विधेस्तदुद्देश्यकत्वस्य वक्तुमशक्यत्वात् संमार्गे विधीयमाने तस्योद्देश्यत्वमित्यपि न सम्भवति । प्रहोदृश्यकत्वात्संमार्गविधेः एकत्वस्याप्युपदेश्यत्वे सत्युद्देश्यानेकत्व कृतवाक्यमेदः ।

न द्वितीयः । युगपद्विभक्तया संख्याकारकयोरभिधीयमानत्वेन प्रथमं संख्यामभिधाय पश्चात्कर्मत्वामिधानाभावेन संख्याविशिष्टस्य कर्मत्वेनान्वय इति

पक्षस्यासम्भवात् ।

न तृतीयः । ग्रहोद्देशेन तद्विधानेन संमार्गस्यापि तदुद्देशेन विधानाद्वाक्यभेदप्रसङ्गात् । संमार्गोद्देशेन तद्विधानमपि न सम्भवति । द्वितीयायाः प्राधान्यवाचित्वात् । अन्यथा ग्रहस्यापि गुणत्वप्रसङ्गः । एवं च पूर्वपक्षावलम्बने वाक्यभेदप्रसङ्गात् ग्रहसाधनक संमार्गविधांने द्वितीयायाः सर्वथा बाधप्रसङ्गात् । ग्रहं संमाष्टस्यत एकवचनस्यं जात्याख्यया कथञ्चिन्नयनेऽपि न बार्हस्पत्यं ग्रहं गृह्णातीत्यत्र गत्यन्तराभावकल्प्यं जात्यैक्यावलम्बनमभ्युपगन्तुं युक्तं विशिष्ट विधिस्वीकारेण वचननिर्वाहसम्भवात् । एवं च तन्न्यायेनात्रापि लोचन - त्र्यानुवादे बहुवचनप्रसङ्गात् लोचनद्वयानुवाद ( क ) वमेत्र वक्तुं युक्तम् । एतेन स्तनादीनां द्वित्वविशिष्टाजातिः प्रायेणेति वामनसूत्रे विधानात् ‘स्नान्तीनां बृहदमलोदबिन्दुचित्रं रेजाते रुचिरहशासुरोजकुम्भौ’ इत्यादिप्रयोगदर्शनात् ।

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ।

दीप्ताभ्यामित्र दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ '

इति रामायणे दशाननकोपवर्णने च नेत्राभ्यामिति द्विवचनदर्शनाच्च । लोचन - त्रयानुत्रादपक्षेऽपि द्विवचनमुपपद्यत इति निरस्तम् । जात्यालम्बनत्ववर्णनस्यानन्यगतिकत्व एव प्रवृत्तेः । अन्यथा बार्हस्पत्यं गृह्णातीत्यत्रापि प्रसङ्गात् । तस्माल्लोचनद्वयोपन्यासाद्भगवत्परत्वमिति सुष्ठुक्तम् ।

यदपि योगापेक्षया रूढिपूर्वकलक्षणाया ज्यायस्त्वान्मर्कटपश्चाद्भागसदृशपुण्डरीकसादृश्यमर्थ इति, तत्तुच्छम् । अक्षित्रयानुवादेन लौहित्यमात्रविधाने-

F-54

426

ऽभ्युपगम्यमाने कप्यासपदवैयर्थ्यापत्तेः । रक्ताम्भोज मादृश्योक्तिमात्रेण लौहित्यप्रतीतेरुपपन्नत्वात् अत्यन्तलौहित्यविधाने ऽभ्युपगम्यमाने वामदक्षिणलोचनयोर्महापुरुषलक्षणप्रान्तलौहित्यमेत्र ऊर्ध्वलोचन एव तु सर्वात्मना लोहितत्वमिति त्वयाप्युक्तत्वे नात्यन्तलोहितत्वस्याक्षित्रय निष्टत्वासिद्धेरयोग्यार्थत्वापातात् । न चोर्ध्वलोचन एव तद्विधीयत इति वाच्यम् । पुण्डरीकमादृश्यस्याक्षित्रयविषयत्वं भविष्यतीति स्ववाक्यविरोधप्रसङ्गात् । अपि च योगाङ्गीकारस्यात्यन्तजघन्यत्वेऽपि कं जलं आस उपवेशने इति धातुरपि पूर्व: ’ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः’ इति वचनादकारलोपः । कप्यासं सलिलस्यमित्यपरित्यक्तरूढ्यर्थ व्याख्यानान्तरं विहाय कपिगुदे तव रुचिः कथं जातेति न विद्मः । किं च ‘कपयोऽर्के च वानरा’ इति सूर्येऽपि नैघण्टुकैरनुशासनेन ‘कपिर्विभर्ति तेजन’ मिति वैदिक प्रयोगेण च तत्रापि रूढेरेव सत्त्वेन सूर्यकर विकसितत्वरूपार्थस्य जघन्यत्वकथनमप्यसङ्गतं प्रत्युत त्वत्पक्ष एवं कपिगुदसादृश्ये लक्षणाङ्गीकाराज्जघन्यत्वमिति न्याय विद्गोष्ठीबहिष्कारः ।

यदपि समावृषभोरोहिताक्ष इति श्रुत्यन्तरप्रतिपन्नार्थवर्णनसम्भवे ऽर्थान्तरवर्जनानौचित्यादिति, तदप्यज्ञानात् । कपिगुदसादृश्यस्य तत्र श्रुतावप्रतिपादनेन कप्यासशब्देऽर्थान्तरवर्णनस्य प्रकृतश्रुत्यविरोधात् पुण्डरीकशब्दस्य रक्ताम्भोजपरत्वेन न तत एत्र लोहिताक्षत्वप्रतिपत्तेः । न ह्यास्माकीनैर (चार्यैः श्वेताम्भोजपरत्वं पुण्डरीकशब्दस्याङ्गीकृतं येन लोहिताक्षत्त्रप्रतिपादकश्रुतिविरोधः स्यात् । प्रत्युत श्रुतप्रकाशिकायां कप्यास पुण्डरीकशब्दयोरनन्वयकथनाभावेन कप्यासशब्दे गौणतास्यादित्युक्त्या च पुण्डरीकपदस्य रक्ताम्भोजपरत्वमेत्राभ्युपगतमित्यवसीयते । ’ य एष रक्तपद्माक्ष’ इत्यादिप्रमाणबलादपि भगवल्लो वनयोस्तथात्वमत्रगतम् |

यदपि उपमितोपमात्वाद्धीनोपमा नतादोष इति, तदप्यसारम् । उपमेयातिशयानाधायकत्वेन तन्निकर्षवृत्त्या च हीनोपमाया दोषत्वेन तद्दोषकथनस्य कप्यासशब्दवैयर्थ्य तात्पर्य कवात् । अत एव हि व्यासायैः श्लाध्पार्थतया निर्वाह

427

सम्मत्रति हीनोपमायोगादित्युक्तम् । एतेन वेदपरिहरणीयन्यायविरोधमगणय्य काव्यपरिहरणीयहीनोपमादोषभयात् कपिशब्दस्य सूर्येयोगाश्रयणमारोपितवृश्चिकमयात् पलायमानस्याशीविषमुखनिपतनमिति प्रलपितमपास्तम् । कप्यासशब्दवयस्योक्तत्वात् । एवं च योगाङ्गीकारप्रसङ्गभीत्या कप्यासशब्दस्य मर्कटगुद परत्वाश्रयणमेव वृश्चिकभयात्पलायमानस्याशीविषमुखनिपतनम् । आनर्थक्यस्य महादोषत्वात् । ’ आनर्थक्याद्वरं मुख्यार्थभङ्गः’ इति हि मीमांसकानां घण्टाघोषः (जै. सू. 8-1-9 ) अत एव च हीनोपमानदोषमेकं परिहर्तु - कामानामश्लीलनिहतार्थत्वरूपौ द्वौ दोषौ प्रसज्येयातामिति वचनमकाण्डे नाण्डवितं बोध्यम् ।

जानर्थक्यतदंगन्यायाधिकरणम् -

""

वाजपेय प्रकरणे श्रूयते – “ सप्तदशारनिर्वाजपेयस्य यूपो भवति इति । तत्र – यूपद्रव्यगतं सप्तदशारनिशब्दोदितं यदूर्ध्वमानं तद्वाजपेय कर्मणोऽङ्गम्, सप्तदशारनिशब्द वाजपेय शब्दयोरानन्तर्यात् । प्रकरणं चैवमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वं यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्वारा कर्मणाऽन्वेति इति पूर्वपक्ष: ।

सिद्धान्तस्तु ‘सप्तदशारनिर्यूप:’ इति सामानाधिकरण्या द्यूपेन साक्षात्संबध्यते । तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि वाजपेय यूपशब्दयोरानन्तर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम् । ’ वाजपेयस्य’ इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहित संबन्धमप्यसावमिधत्ते । ’ देवदत्तस्य नप्ता ’ इति प्रयोगात् । यत्तु - सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, यच प्रकरणम् । तदुभयमप्यविरुद्धम्, पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् । किं च पूर्वपक्षे यूपशब्देन षोडशिपात्रं लक्षणीयम् । सिद्धान्ते तु नासौ दोषः । (जै. सू. 3-1-9 )

428

श्रीकण्ठेनोक्तं - अक्षिगत द्वित्वं नाश्यन्तरव्यवच्छेदकं किं तु रविकरविकसितपुण्डरीकसादृश्यस्यैव । द्वावस्य पुत्रां त्रग्निकल्पावित्यत्राग्निसादृश्यव्यवच्छेदस्यैव दर्शनादिति तदतिस्थवीयः । अनुवादपक्षे अक्षिद्वित्वविवक्षायां वाक्यमेदप्रसङ्गेन तद्विवक्षाया असम्भाविततया द्वावस्य पुत्राविति वाक्यतुल्यत्वाभावात् ।

,

नन्वेवं द्वावस्य पुत्रावित्यत्रापि वाक्यभेदप्रसङ्ग इति चेत्, न । पुत्रमात्रोद्देशेनाग्निकल्पत्वविधाने द्वावित्यस्यानन्वयप्रसङ्गात् । लौकिकवाक्यस्य वक्तृविवक्षाधीनत्वेन वाक्यभेदप्रसङ्गस्यादोषत्वाच्च । द्वित्वविशिष्टोद्देशांगीकारात् । प्रकृते तु तद्विवक्षायां प्रमाणाभावात् न लोचनान्तरे रविकर विकसितपुण्डरीकसादृश्यव्यवच्छेदकत्वम् । कथं तर्हि लोचनद्वयानुवादबलाद्विग्रहस्य वैष्णवत्वमिति चेन्न । अनुवादस्वारस्यात् । शैव वे अक्षिणी इत्यत्र बहुवचनप्रसङ्गात् । तस्मादस्य पुत्रावग्निकल्पावित्यत्र यथा पुत्रान्तरव्यवच्छेदः तथात्राप्यक्ष्यन्तरव्यवच्छेदः प्रतीयत इति विग्रहस्य वैष्णवत्वसाधनमप्रत्यूहम् ।

किं च उद्देश्यविशेषणत्वे परमेवं लोचनत्रय प्रतिपादनशङ्कावकाशः तदेव न निश्चयार्ह अक्षिविधानसम्भवात् । न च विग्रहत्वसामान्याल्लोचनप्राप्तिरिति वाच्यम् । ’ पश्यत्यचक्षुः स शृणोत्यकर्ण: ’ इति शास्त्रेणापोदितस्य लोचनद्वयस्य द्वारलोपापोदित कृष्णलश्रवणवद्वि (जै. सू. 10-1-1 )

विकृतौ लुप्तार्थप्राकृतानां बाधसाधकादिकरणम् -

" रनिनामेतानि हवींषि भवन्ति " इति वाक्येन राजसूये रतिनामकानां देवानां संबन्धीनि कानिचिद्भवींषि दर्शपूर्णमासेष्टि विकृति रूपाणि विहितानि । तेषु मैनाबार्हस्पत्ये हविषि श्रूयते - " स्वयंकृतावेदिर्भवति, स्वयंदितं बर्हिः, स्वयंकृत इध्मः " इति । इष्टावुद्धनन खननपरिलेखनादिभिः क्रियाविशेषैर्वेदिनिष्पाद्यते । " स्फ्यनोत्तमां त्वचमुद्धन्ति, " देवस्य त्वा सवितुः प्रसवे - " इति खनति, स्पयेन वेदिं परिलिखन्परिगृह्णाति ” इति तद्विधानात् ।

429

धानसम्भवात् विग्रहत्वसामान्याल्लोचन द्वयाक्षेपे

लोचनत्रयस्याप्राप्त्या शिव-

व्यवच्छेदाच्च । न च पुराणप्रसिद्धया लोचनानुवाद इति शक्यशङ्कम् । तथा सति पुण्डरीकसादृश्यस्यापि तत एव प्राप्तिसम्भवेन तद्विधानमपि भज्येत । न च श्रुत्यन्तरासिद्धलोचनानुवादसम्भव इति वाच्यम् । विनिगमनाविरहेण श्रुत्यन्तरस्यैतच्छूतिप्राप्ताक्ष्यनुत्रादित्वमिति वक्तुं शक्यत्वात् ।

"

"

यज्ञस्य घोषदसि" इत्यस्मिन्ननुवाके प्रोक्तैर्मन्त्रद त्रिच्छिन्नं बर्हिः सम्पद्यते । " त्रीन् परिधीन् ” इत्यादिमन्त्रोपेतामिक्रियाभिरिध्मः सिद्ध्यति । विवृति रूपे तु हविष्युद्धननापपेक्षां वारयितुं ‘स्वयं’ इत्युक्तम् । यथावस्थित एव भूप्रदेशो वेदित्वेन स्वीकर्तव्यः । इध्मापी अपि खत एव च्छिन्ने शास्त्रीयच्छेदन निरपेक्षे प्राह्ये इत्यर्थः । तत्न प्रकृतौ सप्रयोजनानां उद्धननादीनां विकृतौ प्रयोजनं लुप्यते । उद्धननादिकृतस्य वेद्युपकारस्य स्वयंशब्देन निवारितत्वात् । बर्हिस्तरण हविरासादनादयो वेदिधर्मा विकृतावप्यलुप्तार्थाः । तत्र संशयः – ’ किं लुप्तार्थमलुप्तार्थं च सर्वमङ्गजातं विकृतावप्यनुष्ठेयम्, उत लुप्तार्थ वर्जनीयम्’ इति पूर्वः पक्षः ।

सिद्धान्तस्तु - अङ्गी श्रजैरुपकृतः फळं साधयति । तथा सत्यङ्गिनोऽङ्गकृत उपकारे साक्षादपेक्षा, उपकारद्वारात्वङ्गेषु । प्रत्यासन्नश्चाङ्गिनं प्रत्यङ्गेभ्य उपकारः । योग्यतापि साक्षादपेक्षां पूरयितुमुपकारस्यैवास्ति । नत्वङ्गानाम् । वेदिनिष्पादन लक्षणदृष्टोपकार युक्तानि प्रकृतावुद्धननाद्यङ्गानि । विकृतौ तु वेद्याः खतः सिद्धत्वेन निष्पादनोपकारो लुप्यते । तत उपकार द्वारकाण्याकाङ्क्षा सन्निषियोग्यत्वान्युद्धननाद्यङ्गेषु हीयन्ते । तस्मात् - उद्धननादीनि नानुष्ठेयानि । सोयं चोदकप्रापितस्योद्धननाद्यनुष्ठेयत्व प्रत्ययस्य भ्रान्तित्वेन निश्वयो बाध इत्युच्यते । चोदकस्यत्वलुप्तोपकारैरुपकारद्वारेणाकाङ्क्षा सन्निघियोग्यत्वयुक्तैर्ह विरासादनाद्यङ्गैश्चरितार्थता सम्पाद्यते । (जै. सू. 10-1-1 )

430

अथोच्येत विशिष्टविधिगौरवपरिजिहीर्षया अवानूच गुणविधानमिति, तन्न । गुणान्तरश्रवणरहित केवलाक्षिप्रापकश्रुत्यन्तर दर्शनात् । गुणान्तरश्रवणे तु श्रुत्यन्तरेऽपि विशिष्ट विधिगौरवप्रसङ्गात् । न च सूर्यमण्डलान्तर्वर्तिविग्रहेऽक्षिविधिः । तत्र च पुण्डरीक सादृश्य विधिरित्यर्थद्वय विधानाद्वाक्यमेदप्रसङ्ग इति वाच्यम् । ’ य एषोऽन्तरादित्य’ इति वाक्यस्योपासनाविधायकत्वेन पुण्डरीकसादृश्याक्षिविग्रहाद्यनेकविशेषणविशिष्टा या स्तस्या विधानेन “एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो लेतेन यजेत, यदाश्नयोSष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीत्यादिविशिष्टविधिस्थल (जै. सू. 1-4-7 ) इव वाक्यभेदप्रसङ्गाभावात् । अतोऽक्षिद्वयोपन्यासात् ’ य एषोऽन्तरादित्य’ इत्यस्य भगवत्परत्वमिति युक्तमभ्युपगन्तुमः । एवं मैत्रायणीयोपनिषदपि भगवत आदित्यान्तर्वर्तित्वमानम् | एवं हि श्रूयते -

आशेपादीनामनामताधिकरणम्

दर्शपूर्णमासयोः श्रूयते – “ यदाग्नेयोऽष्टाकपालोऽमात्रास्यायाम्, पौर्णमास्यां चाच्युतो भवति " इति । तत्र यथाऽग्निहोत्र शब्द : ’ अग्नये होत्रमत्र ’ इत्यमुमर्थं निमित्तीकृत्य नामधेयम् । तथाऽऽमेयशब्दोऽमि संबंधं निमित्तीकृत्य कर्मनाम स्यादिति पूर्वपक्ष: 1

'

सिद्धान्तस्तु – मैवम् । नामत्वे देवताराहित्य प्रसङ्गात् । अग्निहोत्रे तु “ अग्निर्जोतिज्योतिरग्निः स्वाहेति सायं जुहोति " इत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते । इह तु न तादृशो मन्त्रो - ऽस्ति । आग्नेयशब्दस्तु देवतां विधातुं शक्नोति ।

अग्निर्देवताऽस्य ’ इत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् । न च द्रव्यदेवतयोरुभयोर्गुणविधाना द्वाक्यभेद इति शङ्कनीयम् । कर्मणोऽप्राप्तत्वेन गुणद्वय विशिष्टस्य कर्मण एकेन वाक्येन विधानात् । तस्मात् आग्नेय शब्देन देवतागुणो विधीयते । (जै. सू. 1-4-7 )

6

431

‘हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

सत्यं पूषन् अपावृणु सत्यधर्माय विष्णवे ॥

|

योऽसावादित्ये पुरुषः सोऽसावह’ मिति । विष्णवे इत्यस्य विष्णुं इष्टुमित्यर्थः । ’ क्रियार्थोपपदस्य कर्मणि स्थानिनः’ इति चतुर्थी । ‘योऽसावादित्ये पुरुष’ इत्यत्र पूर्वप्रकृतविष्णुमसाविति निर्दिश्य आदित्ये पुरुष इत्यादित्यान्तरवस्थितत्वेन सिद्धवन्निर्देशादित्यन्तर्वर्तित्वं भगवतः स्फुटतरं प्रतीयते । ततः शुद्धतवान्तरवस्थितमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वाधारं धामेत्यादिनाऽचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितमित्यस्य बहुशो अभ्यासेनास्या उपनिषदो भगवदेकान्तत्वम् । तथा तत्तैव । अत्र हि सौरसौम्याग्नेयसात्विकानि मण्डलानि उत्तवा ततरशुद्धसत्वान्तरवस्थितमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वाधारं धाम सत्यकाम सर्वज्ञत्वसंयुक्तं स्वतन्त्रचैतन्यं स्खे महिनि - तिष्ठमानं पश्यति । अत्रोदाहरन्ति

"

’ रविमध्ये स्थितस्सोमस्तस्य मध्ये हुताशनः ।

तेजोमध्ये स्थितं सत्वं सत्वमध्येस्थितोऽच्युतः || '

शरीरप्रादेशमात्रमङ्गुष्ठमात्रमणोरप्यणुतरं ध्यातः परमतां गच्छती’त्युक्तम् । अपि च स्वर्णधर्मानुवाकोऽपि भगवत आदित्यान्तर्वर्तित्वे प्रमाणम् । अन्तरादित्ये मनसाचरन्तं अजस्रं ज्योतिर्नभसा सर्वदेति’ इति तत्प्रतिपाद्यस्यादित्यान्तर्वर्तित्वावगमात् तत्प्रतिपाद्यत्वं हि ’ त्वष्टारं रूपाणि विकुर्वन्तं विपश्चित’ मित्यत्र ’ तस्य त्वष्टा विदधद्रूपमेती’ त्युत्तर नारायणानुवाकार्थप्रत्यमि - ज्ञानात्तस्य लक्ष्मीपतित्वलिङ्गेन भगवदेकान्तत्वात् । ’ इन्द्रं निचिक्युः परमे व्योम’ निति ’ तदक्षरे परमे व्योमन्नित्यस्यानुवाकवाक्यश्रुतपरमव्योमवर्तित्वस्य समुद्रे अन्तः कवयो विचक्षत’ इति समुद्रशायित्वस्य च श्रवणात् ‘यज्ञो वै विष्णुरिति श्रुत्या ’ यज्ञेन यज्ञमयजन्ते ‘त्यादि प्रयोगैश्च भगवत्परतयावा गतस्य यज्ञशब्दस्य अमृतस्य प्राणं यज्ञमेत ‘मित्यत्र श्रवणाच्च भगवत एवेत्यवगम्यते ।432

उपबृंहणान्यपि भगवत आदित्यान्तर्वर्तित्वं स्पष्टं प्रतिपादयन्तीति ।

पुराणे -

’ वैष्णवशः परस्सूर्ये योन्तर्ज्योतिरत्रस्थितम् ।

अमिधायकमोङ्कारं तस्य तत्प्रेरकं परम् ॥’

इति तृतीये अंशे याज्ञवल्क्यादित्यस्तोत्रे

‘ध्येयाय विष्णुरूपाय परमाक्षररूपिणे । '

इति । उदकाञ्जलिविधौ च –

गा

‘नमो विवस्वते ब्रह्म भावते विष्णुतेजसे । '

इति । हरिवंशे घण्टाकर्णस्तुतौ

‘सूर्यो मां रक्षतां विष्णो नमस्ते सूर्यतेजसे ।

इति । सनकश्च आदित्यमण्डलान्तर्वर्तिनं विष्णुं स्मरति

’ आदित्यमण्डले ध्यायेत्परमानन्दमव्ययम् । विष्णुं चतुर्भुजं रक्तपङ्कजासनमध्यगम् ॥

इति । नारसिंहपुराणे

अर्चन्ति मुनयोनित्यं जलेन रविमण्डले । आदित्यमण्डले नित्यं देवदेवमनामयम् || शंखचक्रगदापाणि ध्यात्वा विष्णुमुपासते || ’ ’ ध्येयस्सदा सवितृमण्डले’त्यादि ।

योगयाज्ञवल्क्ये

• ईश्वरं पुरुषाख्यं तु सत्यधर्माणमच्युतम् । भर्गाख्यं विष्णुसंज्ञं तु ध्यात्वामृतमुपाश्नुते ॥ हृद्योम्नि तपतिह्येष बाह्ये सूर्यस्य चान्तरे ।

अग्नावधूमके ह्येष ज्योतिश्चित्रतरोह्ययम् ॥’

433

इति । अत्रिस्मृतौ-

योसौ विष्ण्वाख्य आदित्ये पुरुषोऽन्तहृदिस्थितः । सोऽहं नारायणो देवः पुरुषो लोकभावनः ॥ '

इति । मोक्षधर्मे

‘विद्यासहायवन्तं मामादित्यस्यं सनातनम् |

कपिलं प्रादुराचार्याः सांख्यानिश्चितनिश्चयाः || '

इति : नामनिर्वचनाध्यायवचनं च प्रमाणम् ।

अत्र विद्येति लक्ष्मीरुच्यते ।

सा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । तस्मान्माधवनामासि धवः खामीति शब्धते ॥ '

इति कैलासयात्रागतवचनात् । त्रिधामेति समाख्यापि भगवत आदित्यान्तर्वर्तित्वे

प्रमाणम् ।

"

क्षीराब्धिर्मण्डलं भानोर्योगिनां हृदयानि च ।

स्त्रीणि धामानि मे सन्ति त्रिधामाहमतः स्मृतः ॥ '

इति नामनिर्वचनात् । तस्मात् सोपबृंहणामिरुदाहृत श्रुतिभिर्भगवानेवा दित्यमण्डलान्तर्वर्तीति सिद्धम् ।

ननु तैत्तिरीयोपनिषदि ’ आदित्यो वा एष एतन्मण्डल’ मित्याद्यन्तरादित्यविद्या प्रकरणे ’ सर्वो वै रुद्र’ इत्यारभ्य ‘नमो हिरण्यबाहवे हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः’ इति मन्त्रोपनिषदि असौं यस्ताम्रोऽरुण इति प्रस्तुत्य ’ असौ योवसर्पति नीलग्रीवो विलोहित’ इति मन्त्रः कृच्छ्राङ्गादित्योपस्थापनमन्त्रेषु ‘नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये शर्वायेशानायोप्राय च वक्रिणे घृणिने कपर्दिने नमो नमः | सूर्ययादित्याय नमो नमः । नीलग्रीवाय शितिकण्ठाय नमो नमः । चन्द्र-

F-55

434

ललाटाय कृत्तिवाससे नमः’ इत्यादिमन्त्राश्च उमासहायत्वनीलगीवत्वादिवि रूपमुपदिशन्ति । अतरिंशवस्यादित्यान्तर्वर्तित्वमभ्युपगन्तव्यमिति चेत् ’ ; न तावत्तैत्तिरीयकवाक्याच्छिवस्यान्तरादित्यविद्यावेद्यत्वसाधनं पुरुषशब्दस्य भग साधारणस्य ’ य एषोन्तरादित्ये हिरण्मयः पुरुष’ इति तत्रत्यवाक्यश्रवणे भगवत एव तस्माच्छब्दादुपस्थितेः । तथा चोत्पत्तिशिष्टगुणावरु गुणान्तर निवेशायोगस्य ‘सा वैश्वदेव्यामिक्षावाजिम्यो वाजिन मित्यत्र सम्प्रतिपन्नत्वेन (जै. सू. 7-8-8) तदवरुद्धायामुपासनार शिवस्योपास्यत्वस्य वक्तुमशक्यत्वात् । सर्वो वै रुद्र इत्यायनुत्राकलय ’ उपायोऽस्मिहरेःस्मृतौ ’ इत्यादिप्रमाणावगतभगत्रज्ञान निष्पत्ति हेतु भूत शिवस्तुि परत्वेन प्रकृतसङ्गतत्वस्य सम्भवात् । न च ’ पुरुषोवैरुद्र’ इत्यनेन ’ एषोऽन्तरादित्ये हिरण्मयः पुरुषः इत्यत्र वाक्ये प्रतिपाद्यमानः पुरुषो रुद्र एवेत्यवगम्यत इति वाच्यम् । तेन तस्य रुद्रत्वसाधनासम्भवात् । तथाहि पुरुषों रुद्र इति मिन्नार्थकयोः पदयोः सामानाधिकरण्यासम्भवादन्यतरशब्दवाच्यत्वविधिपरं इदं वाच्यम् । तत्र किं पुरुषशब्दार्थोद्देशेन रुद्र शब्द वाच्यत्व-

प्रणयनशब्देन सौमिकधर्मानतिदेशाधिकरणम् -

चातुर्मास्येषु श्रूयते – “ द्वयोः प्रणयन्ति । तस्मात् द्वाभ्यां यन्ति " इति । तत्र - सौमिकं यत्सधर्मकमभिप्रणयनम्, तदेव ग्रहीतव्यम् । कुतः सोमस्य चातुर्मास्य प्रकृतित्वाभावेन तदीय प्रणयनस्यात्त्र चोदका प्राप्तस्य विध्यईत्वात् । दर्शपूर्णमासगं त्वग्निप्रणयनं चोदक प्राप्तत्वाद विधेयम् । तस्मात् - सौमिकस्य धर्मा अत्र प्रणयनशब्देनातिदिश्यन्ते इति पूर्वपक्ष: ।

सिद्धान्तस्तु नायं प्रणयन शब्दः सौमिकस्य प्रणयनकर्मणोनामधेयम् । किन्तु निर्मन्ध्यबर्हिरादिशब्दबल्लौकिक एव । ततो न धर्मातिदेशः । यदि प्राकृत प्रणयनस्य प्राप्तत्वाद्विधिवैयर्थ्यम्, तार्थवाद संबन्धाय तद्वाक्यमस्तु । (जै. सू. 7-3-8)

435

विधिपरगिवं वाक्यं उत रुद्रशब्दार्थोदेशेन पुरुषशब्दवाच्यत्वविधिपरम् ।

नामः । पुरुषशब्दस्य ।

यद्वा पुरुषशब्दोऽयं रूढ्यावक्ति जनार्दनम् '

इत्यादिप्रमाणसहस्रेण भगवदसाधारणत्वेन तस्य रुद्रशब्दार्थत्व प्रतिपादनमुखेन - सर्वो वै रुद्र’ इत्यस्य भगवत्परत्वप्रतिपादनपर्यत्र सायितयात्वदिष्टासिद्धिप्रसङ्गात् । न च हिरण्मयः पुरुष इति पुरुषशब्द श्वेतनसामान्यवाचक इति नव रुद्रत्वविधिपरमिदं वचनमिति वाच्यम् । चेतनसामान्यपरत्वाभावस्य प्रथमपरिच्छेदे प्रतिपादितत्वात् । पुरुषशब्दस्य चेतनसामान्यपरत्वप्रकरणे रुद्रशब्दऋणादेव छागपशुन्यायेन (जै. सू. 6-8-9 ) रुद्ररूपतासिद्धया ‘पुरुषो वै

रुद्र’ इत्यस्यानर्थक्यापाताच |

न द्वितीयः - पुरुषशब्दस्यानुवाद द्योतकवैशब्दशिरस्कत्वविरोधापत्तेः । यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षण’ मित्युक्तरीत्या प्रथमोपात्तपुरुषशब्दार्थस्यैवोद्देश्यत्वस्य वक्तुं युक्तत्वाच्च । तस्मान्नेदं वाक्यं हिरण्मयः पुरुष इति वाक्यप्रतिपाद्यस्य रुद्रत्व साधकं किं तु ’ सर्वो वै रुद्र’ इति वाक्यप्रतिपाद्य सार्वात्म्यस्योपपत्तिप्रतिपादकतया पुरुष एव रुद्रशब्दवाच्य इति रुद्रान्तर्यामिणो भगवतः सर्वात्मकत्वात् सर्वो वै रुद्र इत्युपपन्नम् । आपो वा इदं सर्वमित्यादि-

छागपशुन्यायाधिकरणम् -

ज्योतिष्टोमे श्रूयते – “ अग्निषोमीयं पशुमालमेत” इति । तत्र विहिते पशौ विशेषाश्रवणाद्यः कोऽपि पशुरालब्धव्यः इति पूर्वपक्ष: ।

सिद्धान्तस्तु – मैवम् । छागस्य वपाया मेदसोऽनुब्रूहि इति मन्त्रे

विशेषितत्वात् । तस्मात् छाग

"

·

एवाऽऽलब्धव्यः - शाखान्तरे विधावेत्र

“ अजोऽग्नीषोमीयः " इत्येवं विशेषः श्रूयते इति चेत् । तर्हि कृत्वा -

चिन्ताऽस्तु । (जै. सू. 6-8-9 )

436

वदित्यमिप्रायेण पुरुषो वै रुद्र इति वाक्यं प्रवृत्तमिति वर्णयितुं युक्तम् । अतो न हिरण्मयस्य पुरुषस्य रुद्रत्वसिद्धिः ।

वेदान्तविजयकृतस्तु - ’ आदित्यो वा एषः '

’ आदित्यो वै तेज इति द्वाभ्यामनुवाकाभ्यां सफलामन्तरादित्य विद्यामभिधाय तदन्ते इत्युपनिषदित्युपसंहारात्तद्विद्याप्रकरणविच्छेदान्न सर्वो वै रुद्र इत्यादिकमन्तरादित्यविद्यायाः शिवपरत्वं साधयितुं शक्नोति । न च हिरण्यबाहव इति बाहुग्रहणस्योपलक्षणतया हिरण्मयपुरुषप्रत्यभिज्ञा । हिरण्यबाहव इति बहुव्रीहिणा हिरण्यालङ्कृतबाहव इत्यर्थकत्वात् । अन्यथालक्षणाप्रसङ्गादित्याहुः ।

न चैवमपि,

‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।

ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ॥ '

इति पूर्वानुवाक प्रतिपन्नपुरुष एव ’ य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ’ इति पुरुषशब्देनोच्यत इति ततश्शिवपरत्वं साधयितुं शक्यमिति वाच्यम् । तथापि शिवपरत्वासाधनात् । न हि ऋतं सत्यमित्यादिकं शिवपरमित्यत्र किचित्प्रमाणमस्ति । न च विरूपाक्षशब्दबलात् तत्परत्वम् । उपक्रमस्थ पुरुषशब्दविरोधात् । भगवल्लोचनयोस्सूर्यचन्द्रात्मकत्वेन शीतोष्णत्वेन वैरूप्याद्वि रूपाक्षशब्दस्य भगक्त्युपपन्नत्वात् । पुल्लिङ्गस्यैव रुद्रपरत्वे नपुंसकलिङ्गस्याल रुद्रपरत्वासिद्धेश्च । न च कृष्णपिङ्गलत्वोक्तया उमासहायत्वं प्रतीयत इति रुद्रपरत्वं प्रतीयत इति रुद्रपरत्वं शङ्कितुं शक्यम् । लक्ष्मीशोभायुक्ततया भगवतः कृष्णपिङ्गलत्बोपपत्तेः । ’ मयूरकर्णच्छविशुद्ध हेमे’ ति शिल्पशाखानुसारेण मयूरप्रीवासदृशवर्णतया शुद्धसुवर्णस्य हिरण्मयस्य भगवतः कृष्णपिङ्गलत्वोपपत्तेश्च ।

’ तन्मध्ये परमात्मानं वपुषा कृष्णपिङ्गलम् । नारायणं जगन्नायं वासुदेवमनामयम् ॥’

437

इति योगार्णववचनाद्भगवद्धर्मत्वावगतेश्च विश्वरूपशब्दस्य

’ विष्णुः कृष्णः केशवो मुञ्जिकेश:

श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।

विष्वक्सेनो विश्वरूपो मुरारिः

शौरिः शार्ङ्गं पद्मनाभोमुकुन्दः ॥ '

इति हलायुधनिघंटुनुसारेण भगवत्परत्वाच ऋतं सत्यमित्यादेर्भगवत्परत्वमिति तदनुसारे ऽप्युत्तरानुवाकस्य भगवत्परत्वमेव । तस्मान्न तैत्तिरीयोपनिषदक्लम्बनेन शिवस्यान्तरादित्यविद्यावेद्यत्वं सिध्यति । उपबृंहिताचेयमुपनिषत् भगवत्परत्वेन श्रीविष्णुपुराणे -

‘सर्वा शक्तिः पराविष्णोः माभ्यस्तामसंज्ञिता । सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति यत् ॥ सैव विष्णुः स्थितस्सत्यां जगतः पालनोद्यतः । ऋग्यजुस्समभूतोऽन्तः सवितुर्द्विज तिष्ठति ॥ मासि मासि रविर्योयस्तत्र तत्र हि सापरा ।

त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ।। '

इति । अत्र ’ सैषात्रय्येव विद्या तपती’ति वाक्यस्यैव किश्चिद्विकृतस्य निबन्धनादृग्यजुस्साममयत्ववर्णनाच्च तदुपबृंहणत्वं स्फुटम् । अत इयमुपनिषत् भगवत एवान्तरादित्यविद्यावेद्य त्वमवगमयतीति न शिवस्य तथात्वमवगन्तुं शक्यम् । नाप्यसौ योऽवसर्पतीति वाक्याद्रुद्रस्य अष्टमूर्तित्वेन सूर्यामिमानिदेवतात्वेन तदादायाभेदेन व्यपदेशोपपत्तेः । एतेन ‘नमो रुद्राय पशुपतये महते देवाये’ त्यपि व्याख्यातम् ।

यत्तु ’ यश्शुक्र इव सूर्यो हिरण्यमिव रोचत’ इति रुद्रसूक्तवाक्यं तत्र प्रमाणमिति, तन्न । शुभ्रत्वगुणविशिष्टसूर्यवद्रोचत इत्यर्थवर्णनसम्भवेन सूर्यान्तर्वर्तित्वासाधकत्वात् । तस्माद्देवतान्तरस्यान्तरादित्यविद्यावेद्यत्वसाधका-

438

नन्यथासिद्धप्रमाणाभावात् । भगवत एव पूर्वोक्तप्रमाणचलादन्तरादित्य विद्या-

वेद्यत्वं सिध्यतीति निरवद्यम् । ननु ।

’ आदित्यमण्डलासीनं रुक्माभं पुरुषं परम् ।

ध्यायञ्जपेत्तदित्येतां निष्कामो मुच्यते द्विजः ॥ आदित्यमण्डलान्तस्स्थं परं ब्रह्माधिदैवतम् ।

छन्दो निचृत् स्याद्गायत्री मया दृष्टा सनातनी ॥ '

इत्यादिस्मृतिवचनैरादित्यान्तर्वर्ति परंब्रह्म गायत्री प्रतिपाद्यमिति तात्रदवसीयते । गायत्रीप्रतिपाद्यश्च शिव एव । भर्गशब्दस्य शिववाचकस्य तत्र श्रवणात्

हरः स्मरहरो भर्गस्त्रयम्बकखिपुरान्तकः '

इति निघंटुनुसारेण तस्य शिवे रूढत्वात् । सवितुर्वरेण्यमिति सवितुर्वरणीयत्व - प्रतिपादनादपि तस्य तेजः प्रदतया समाश्रयणीये तदन्तर्वर्तिनि तात्पर्यमस्याः सिध्यति । न च सवितुर्भर्ग इत्यन्वयोऽस्तु । तथा सति सवितृशब्दस्य जगत्प्रसवितरि ब्रह्मणि वृत्त्या भर्ग इत्यस्य भयो आमर्दने इति धातोरसुन् प्रत्ययेन निष्पन्नस्य पापभञ्जके तस्मिन्नेव ब्रह्मरूपे ज्योतिर्वृत्त्या राहोः शिर इति वदुपचारेण सवितुर्भर्ग इत्यस्य ब्रह्मैवार्थः स्यादिति वाच्यम् । सवितृशब्दस्य संनिहितं प्रति सम्बन्ध्यपेक्षणं तदन्तरं तत्सवितुर्वरेण्यं तां सवितुर्वरेण्यस्य चित्रामित्यादिमन्त्रान्तरेषु क्लृप्तखान्वयं वरेण्यशब्दं विहायान्यान्वयासम्भवाब्रह्म गायत्र्यादैवमित्यस्यार्थस्य

दुदाहृतस्मृतिवचनजातसिद्धस्यादित्यान्तर्वृत्तिपरं

प्रसिद्धये सवितृशब्दस्य रविपरत्वावश्यम्भावाच्च । मैत्रायणीयानां गायत्र्यर्थनिरूपणप्रकरणगतेन ’ यदेष रुद्रो भर्गाख्यो ब्रह्मवादिन’ इति वाक्येन तलवकारिणां द्वितीय: पादो भर्गमय इति वाक्येन,

’ आदित्यान्तर्गतं यच भर्गाख्यं वै मुमुक्षुभि: '

इति योगयाज्ञवल्क्यस्मृतिवचनेन तद्भर्गाख्यं किमपि परमं ब्रह्म धाम प्रपद्ये इति साम्ब स्तोत्रप्रयोगेण चाकारान्ततयावगतस्य तत एव रूढ्या शिवपरस्य

439

भर्गशब्दस्य सकारान्तत्व ज्योतिः परत्वयोरयोगाच्च । न चाकारान्तः वे धीमहीत्यनेन कर्माकाङ्क्षेणान्त्रयो न स्यादिति वाच्यम् । छन्दसिविभतयादिव्यत्ययस्मरणेण ‘सुपां सुलुगिति’ अस खादेशेन वा मर्ग इत्यस्य कर्मार्थतोपपत्तेः प्रधानप्रकृत्यंश मुख्यार्थलाभात् प्रयमाविभक्तिव्यत्ययादिकल्पनोपपत्तेः । न च तथा सति तदिति नपुंसक निर्देशानुपपत्तिः । नपुंसकलिङ्गस्य तत्पदस्य ब्रह्मनामतया तदुपपत्तेः । तदिति वा एतस्य महतो भूतस्य नाम भवतीत्यैतरेयोपनिषदि -

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः

इति गीतासु च तस्य तन्नामत्वप्रसिद्धेः । न च तथा सत्युत्तरार्धगतं यत्पदाकाङ्क्षापूरणाय तत्पदान्तरमध्याहरणीयमिति वाच्यम् । उत्तरवाक्यगतयत्पदस्य तत्पदनिरपेक्षतायाः ’ वीरप्रसूर्जगति भार्गव रेणुकैत्र या त्वां त्रिलोकतिलकं सुतमभ्यसूत’ इत्यादिप्रयोगेषु प्रसिद्धत्वात् ।

यदि भर्ग इत्यस्य सकारान्तत्वमिष्यते तथापि च्छान्दसो वर्णविकार इत्यकारान्तरूढ्या शिववाचित्वमेव तस्य सिध्यति न तु सान्तयोगेन ज्योतिर्वाचित्वम् । रूढिशब्दत्वकल्पनसम्भवे यौगिकशब्दत्वाभ्युपगमायोगात् । किश्चिद्वर्णविकारेऽपि बहुसारूप्ये लोकवेदयोः शब्दार्थानन्यत्वस्य लोकवेदाधिकरण सिद्धत्वात् (जै. सू. 1-3-10 ) ’ गूढोत्मा न प्रकाशते ’ ’ सर्व

लोकवेदाघिकरणम् -

"

वैदिकौ पदपदार्थो लौकिकाभ्यां पदपदार्थाभ्यामन्यौ । कुतः । रूपमेदात् । पदे तावद्रूपभेदोदृश्यते । आत्मशब्द आकारादित्वेन लोके नियतः । वेदे तु कचिदाकाररहितः पव्यते" प्रयतं पुरुषात्मना ” इति

ब्राह्मणाः’ इति लोके वेदे त्वन्यथा सोम्यासः " इति । अर्थमेदोऽपि स्फुट: । इति श्रूयते । मनुष्यगवास्त्राचो वहन्ति ।

(

पठ्यते " ब्राह्मणासः पितर:

·

उत्ताना वै देवगवा वहन्ति " वेदे वनस्पतिर्हिरण्यपर्णः । तथा

440

प्रोक्तं त्रिविधं ब्रह्ममेतत् ’ ’ चक्षोस्सूर्यो अजायत’ इत्यादिष्वात्मादिशब्दानामाकाराभावाद विकारे सत्यप्यात्मादिशब्दरूपत्वस्य प्रसिद्धार्थ परत्वस्यचाङ्गीकाराश्च । एवं च देवस्य द्युतिमतः सवितुरादित्यस्य वरेण्यं तेजः प्रदत्वेन समाश्रयणीयं भर्ग शिवं ध्यायामः य आदित्यान्तर्वर्ती भर्गोनोऽस्माकं धियः प्रचोदयात् अन्तर्यामित्वेन प्रेरयतीति मन्त्रयोजना | ननु

’ योदेवस्सवितास्माकं घियोधर्मादिगोचराः ।

प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥ '

तस्य

इति स्मृतौ यदिति विशेषणेन सान्तत्वं भर्ग इत्यस्य प्रख्याप्य सवितुरित्यनेनान्वयं धीप्रेरकत्वस्य सवितृविशेषणत्वं च समाश्रित्य विधान्तरेण

च श्रूयते - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्” इति तस्मात् लोक वेदयोः पदपदार्थावन्यौ इति पूर्वः पक्षः ।

सिद्धान्तस्तु - य एव लौकिकाः पदार्थाः, त एव वैदिकाः । तथाहि - वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् । यथा प्रयोक्तणां पुरुषाणां मेदेऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणमेदेऽपि ‘त एवामी वर्णाः’ इति प्रत्यभिज्ञानाद्वर्णैक्यम् । तथा ’ यानि लोके गवादिपदानि

तान्येव वेदे -

Saीयमानानि ’ इत्यबाधित प्रत्यभिज्ञया पदैकत्वमभ्युपेयम् ।

त्मना देवास: ’ इत्यादिपदमेदस्तु काचिः कः । नैतावता बहुतरप्रत्यभिज्ञात्रगतं पदैक्यमपोढुं शक्यम् । अन्यथा ’ सोयं देवदत्तः’ इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोचेत । पदैकत्वे चार्यैकत्वमवश्यंभावि । अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत । एतदेवामिप्रेत्योक्तम् - " लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः " इति । स्वरुयूपाहवनीयादिशब्दानां तदर्थानां चालौकिकत्वेऽपि प्रसिद्धपदसमभिव्याहाराद्युत्पत्तिः संभवति । उत्तानवहनादिकं त्वर्थवादः । अस्तु वा तथावहनम् ’ तथाऽप्युत्तानादिशब्दास्तदर्याश्च लोकसिद्धा एव । तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः । (जै. सू.

1-8-10)

441

योजना दर्शिता, सत्यम् । पूर्वोदाहृतसवितृवरेण्य शब्दान्क्योपपादकन्यायविरुद्धत्वान्नातीव श्रद्धेया सा । घियोयोन इत्यस्यादित्यपरत्वे च प्रकाशदानेन चाक्षुषज्ञानजनकतामात्नं तदर्थः स्यात् । असङ्कुचितधीप्रेरकत्वं तदर्थो न न्यात् । तदेव हि तदर्थत्वेन वाच्यम् । असङ्कोचलाभात् । न च न्यायबेरोवमुपन्यस्य स्मृतिवचनं कथमुपेक्ष्यत इति बाच्यम् । विध्यन्तरेणापि स्त्रयोजनाप्रदर्शकानां स्मृतिवचनानां दर्शनेन परस्परपराहतेषु तेषु न्यायस्यानुगेयत्वात् । दृश्यन्ते हि,

'

देवस्य सवितुर्मध्ये यो भर्गोनोधियः क्रमात् । प्रचोदयात्तं वरेण्यं धीमहीत्यन्वयक्रमः ॥ '

इत्यादीन्यपि स्मृतिवचनानि श्रुतिविरोधाच्च तदुपेक्षणीयमुदाहृतानि हि भर्गशब्दस्याकारान्तत्वे सक्तृिवरेण्यशब्दयोः परस्परान्वये च गमकानि श्रुतिवचनानि । तस्माद्गायत्रीप्रतिपाद्यश्शिव एव । ननु आवमेधिके पर्वणि

’ तन्मण्डलस्थं मांध्यायेत्तेजोमूर्ति चतुर्भुजम् । उदुत्यं तु जपेन्मन्त्रं चित्रं तचक्षुरित्यपि ॥

गायत्री च ययाशक्ति जप्त्वा सूकं च मामकम् ॥’

इति कृष्णवचनेन विष्णोरादित्यान्तर्वर्तित्वं गायत्र्युपास्यत्वं च प्रकाशितम् । मैवं सन्ध्यासु विष्णुभक्तैरादित्यमण्डले तन्मूर्तियतव्येत्येतावत्परं तद्वचनजातं न तु विष्णोरादित्यान्तर्यामित्वगायत्री प्रतिपाद्यत्वपर्यन्तस्थापनक्षमम् । श्रुतिविरुद्धे ऽर्थे तस्य तात्पर्यायोगात् ।

’ ततष्षडक्षरं मन्त्रं षट्कृत्वः परिवर्तयेत् '

इति पूर्वश्लोके षडक्षरमन्त्रजपविधानदर्शनेन तदनन्तरमादित्यमण्डले तदर्थध्यानविधेरोचिष्याश्च तत्तदेवतामन्त्रजपनिष्ठानां सर्वेषामपि हि तत्तद्देवतामन्त्रजपानन्तरं वत्तद्देवतापूजानन्तरं चादित्यमण्डले तत्तद्देवताध्यानविधिरुपलभ्यते । अत एत्राग्नेयपुराणे विष्णुपूजां विधाय तदवसाने

‘ध्येयस्सदे’त्यादि श्लोकः

F-56442

पठितः । किं चाश्वमेधिके वैष्णवधर्मशास्त्रात्मकः कृष्णयुधिष्ठिरसंव वैष्णवागमधर्म विधानार्थं प्रवृत्तो न तु वैदिकधर्मविधानार्थम् ।

भगवन् वैष्णवाधर्माः किं फलाः किंपरायणाः । कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशस्तु ते ॥

कथं वैखानसा ब्रूयुः कथं वा पाश्चरात्रिकाः ।

एवमेतत् पुरावृत्तं वैष्णवं धर्मशासनम् || '

इति । तत्रादिमध्यान्तवचनोपलम्भात् उपक्रमे च ’ श्रुतामे मानवा धर्मा इति वैदिकधर्मेभ्यः श्रुतेभ्यो व्यावर्त्य

‘युष्मदीयान् परान् धर्मान् पुण्यान् कथयमेऽच्युत '

इति तान्त्रिकधर्माणां प्रश्नविषयत्वेनोपक्षिप्तत्वात् मानवधर्मा इति हि वैदिकध एवोच्यन्ते । ’ यद्वै किं च मनुरबदत्तद्वेषज’ मिति श्रुतेः । एवं च तन्त्रनिष्ठे गायत्र्या विष्णुचिन्तने कर्तव्येऽपि न तद्वेदिकैः कार्यम् ।

’ कचित्तन्त्रानुरोधेन धर्मान् पौराणिका अपि ।

वदन्ति तादृशोऽशस्तु ब्राह्मस्तान्त्रबलं विना ॥ यत्तु तन्त्रानुसारेण कथितं तत्परित्यजेत् । धर्मशास्त्रे पुराणे च यत्नतो वैदिकोजनः ॥ '

इति पौराणिकैरेव तथा व्यवस्थायाः प्रदर्शितत्वात् । तस्माच्छिव एव गाय प्रतिपाद्य इति ।

अनोच्यते – न तावद्गायत्र्या रुद्रपरत्वे भर्गपदवत्त्वरूपं लिङ्गं प्रमा धीमहीति क्रियापेक्षितकर्म समर्पकेण द्वितीयान्तसकारान्तशब्दत्वावसायेन रुद्र वाचक भर्गशब्दमिन्नत्वावसायेन तद्वत्त्वस्य प्रमाणयितुमशक्यत्वात् । न व्यत्ययेन प्रथमायाः कर्मत्वपरत्वमिति वक्तुं शक्यम् । लक्षणाप्रसङ्गात् । च मुख्यप्रकृत्यर्थरूढ्य नुग्रहायविभक्तौ लक्षणाङ्गीकियते । तेजः परत्वे योग

443

वाच्यत्वेन रूढिभङ्गप्रसङ्गादिति वाच्यम् । ‘भर्गसीरेत आलोका’ विति वैजयन्त्यां तेजस्यप्यनुशासनेन भर्गशब्दस्य तत्र रूढतया विभक्तिष्यत्ययकल्पनाया अप्रसरात् । न चच्छन्दसि व्यत्ययानुशासनात्तदङ्गीकारेण रुद्र परत्वं वक्तुं शक्यमिति वाच्यम् । गरमन्तरसत्त्वे किष्टगत्याश्रयणायोगात् । छन्दस्यपि विभक्तिव्यत्ययकल्पनस्य विष्टमतित्वात् । अन्यथा प्रास्मा अर्मि मरतेत्यधिगुप्रैषस्य पुरुषधर्माणां (जै. सू. 94-8) सामानविध्यपक्षे मेच्या निवृत्त्यङ्गीकारस्यानुपपन्नत्वप्रसङ्गात् लिङ्गव्यत्ययेन निर्वाहसम्भवात् । एतेन ’ सुपांसुलुक्’ इत्यादिना छान्दसखादेशाश्रयणेन निर्वाहोऽपि परास्त: । छान्दसत्वकल्पनस्य क्लिष्टगतित्वात् । न च किचिद्वर्णविकारेऽपि लोकवेदयोशब्दार्थानन्यत्त्रस्य लोकवेदाघिकरण सिद्धत्वात् सान्तस्यापि रुद्रोपस्थापकत्वमिति युक्तम् । लोकवेदाधिकरणे " देवास " " रमने’ स्यादौ न्यूनातिरेककृतमेदे

अधिगुप्रैषेश्येनादिशब्दानां कात्सूर्यवचनाधिकरणम् -

अध्रिगुप्रैषवचन एतदान्नायते - " श्येनमस्य वक्षः कृणुतात् " इति । तत्र - यथा अमीपिष्टपिण्डाः सिंहाः क्रियन्ताम्’ इत्युक्ते प्रसिद्ध सिंह संनिधानात्पिष्ट पिण्डेषु सिंहसादृश्यं कर्तव्यतया प्रतीयते । तथैव ’ अस्य पशोर्वक्षः श्येनं कृणुतात्’ इत्यत्र स्पेनसादृश्यं वक्षसि कर्तव्यतया प्रतीयते । ततो वक्ष उद्धृत्य कर्तनाद्युपायेन पक्षचरण चवादिकं संपाच श्येन संस्थानं कर्तव्यम् इति पूर्वपक्ष: ।

सिद्धान्तस्तु – वक्षसि श्येनसादृश्यं स्वत एव पूर्वमस्ति । ततो ’ यथा तन्न नश्यति तथा साकल्येनोद्धरणीयम्’ इति विवक्षया श्येनशब्दः प्रयुज्यते । तथा सति हविरविकलं भवति ।

अंसादिष्वनेन म्यायेन साकल्य विवक्षया तत्तद्रूपकोक्तिर्द्रष्टव्या । एतदेवामिप्रेत्य श्रूयते - " गानं गात्रमस्यानूनं कृणुतात् " इति । (जै. सू. 9-4-6)

444

सत्यपि तद्रूपस्यार्थान्तरानक्गमात् । किश्चिद्रूपभेदे सत्यपि लौकिकामेदप्रत्यमिज्ञानाद्देवात्मशब्देक्याङ्गीकारेऽपि लोकत एव न्यूनातिरेकत्रशात्प्रतीयमानता यत्रार्थान्तरस्य तत्रापि शब्दैक्याङ्गीकारस्य तदधिकरणन्यायाविषयतया तेजोरूपार्थान्तरस्य सकरान्तस्थले रूढिवशादु निमषितप्रतीतिकत्वेन तन्न्यायेन रुद्रोपस्थापकत्वस्य वक्तुमशक्यत्वात् । न च रूढिरसिद्धेति वाच्यम् । ‘भर्गसीरेव आलोका’ विति कोशबलात्तत्सिद्धेः । न चाकारान्तभर्गशब्दत्वेऽपि यो भर्गो नोघियः प्रचोदयादित्युत्तरपादान्वयेन छान्दसत्वादिकल्पनं विनैव निर्वाहः कर्तु शक्य इति वाच्यम् । व्यवहितान्वयकल्पनाप्रसङ्गात् । न चाव्यवहितान्वयसम्भवे व्यवहितान्क्यो युक्तः । अन्यया मूलतः शाखां परिवास्योपवेन (जै. सू. 6-8-2) करोतीत्यत्रापि मूलत उपवेषं करोतीत्यन्वयाङ्गीकारप्रसङ्गात् । वरेण्यशब्दस्य विशेष्याकाङ्क्षाशान्त्यभावप्रसङ्गेन तच्छब्दे लिङ्ग-

नैमित्तिकानामनित्यार्थत्वाधिकरणम् -

" अपः प्रणयति" इति प्रकृत्य श्रूयते मृण्मयेन प्रतिष्ठाकामस्य प्रणयेत् " इति । तत्र - अपां प्रणयनस्य नित्यप्रयोगेऽपि मृण्मयपात्रमेत्र साधनम् । कुतः - नित्येऽपि पात्रस्याऽऽकाङ्क्षितत्वात् । न च - • लोकसिद्धं किञ्चित्पात्रमुपादीयते - इति वाच्यम् श्रौते कर्मण्यत्यन्तगश्रुताच्छ्रुतस्य संनिहितत्वात् इति पूर्वपक्ष: ।

64

सिद्धान्तस्तु - कामार्थ मृण्मयमाम्नातम् । तच्च सति कामे योग्यम् । म हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति । पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते । अपः प्रणयति" इति हि पात्रविशेषमनुपन्यस्य विहितम् । तञ्चान्यथाऽनुपपन्नं तत्पात्रं किञ्चित्सामान्येन कल्पयति । तस्मान्नित्यप्रयोगे तत्काम्यं मृण्मयं नान्वेति किंत्वितरत्पात्रं यत्किञ्चिदुपादेयम् ।

" चमसेनापः प्रणयेत्" इति नित्ये पात्रं विधीयते इति चेत् । तर्हि कृत्वा चिन्ताऽस्तु । (जै. सू. 4-8-2)

445

व्यत्ययस्य वातमित्यध्याहारस्य वा प्रसङ्गाच । न च तच्छब्दस्य ब्रह्मवाचकत्वाङ्गीकारेण वरेण्यशब्दाकाङ्क्षा पूरणमशक्यमिति वाच्यम् ।

"

भर्गः प्रचोदयति योधियमस्मदीयाम् ।

तं धीमहीति घटनाविनिमा लिङ्गम् ॥’

इति त्वदभियुक्तवचनविरोधप्रसङ्गात् । तथा सति य इत्यस्य सवितृपरामर्शकत्वेनाप्युपपन्नत्वेन रुद्रस्य ध्यानकर्मत्वे प्रमाणाभावेन गायत्र्यर्थत्वहानिप्रसङ्गाच्च तच्छब्दस्य सर्वनामत्व एव हि तदैकार्थ्याय यच्छन्दस्य सवितृव्यतिरिक्तपरत्वमभ्युपेयम् । न च प्रधानपरामर्शित्वसिद्धये सवित्रतिरिक्तपरत्वमभ्युपेयमिति वाच्यम् । सावित्रीति समाख्यायाः किञ्चिदनुमहलिप्सया सवितृपरामर्शकत्वस्यैव युक्तत्वात् न च सवितृपरामर्शकत्वे भर्म्स : इति व्यर्थमिति वाच्यम् । सवित्रुद्राभेदबोधनद्वारा ध्यानकर्मस्तुत्यर्थत्वात् । न च तस्या एष द्वितीय: पादो भर्गमय इति श्रुतिबलादकरान्तत्वावसायाच्छान्दसत्वादिकल्पनं युक्तमिति वाच्यम् । तस्या भर्गश्शब्दैकदेशानुवादकत्वेन चरितार्थत्वेनाकारान्तत्वाभावात् । न हीयं श्रुतिर्गायत्रीस्थोऽकारान्तो भर्गशब्द इत्याहत्य प्रतिपादयति । येन तन्निर्धारणं स्यात् । किं तु निर्देशबलात्कल्पनीयं कल्पनं च यथा ’ आदित्यानेव खेन भागधेयेनोपधावती’ त्यनेन ’ आदिष्यं चक्रं निर्वपे’ दित्यत्र देवताप्रतिपादक आदित्यशब्दः नादितिशब्द इति कल्पनं तथा न खरसतः सम्भवतीति च्छान्दसत्वादिकल्पनया निर्वाह्यम् । तथा चावश्यके कचित् केशाश्रयणे तस्या एष द्वितीय: पादो भर्गमय इत्यत्रैव तवाश्रयणं युक्तम् । तस्य भर्गशब्द प्राथम्योक्तिमुखेन पादोपस्थित्युपलक्षणत्वेन तत्र भर्गशब्दस्य लक्षणया शब्दपरत्वेनैकदेशस्य सकारान्तशब्दलक्षकत्वस्य वक्तुं युक्तत्वात् सकारान्तशब्दस्य तत्पादप्राथम्येऽपि तदेकदेशाकारान्तशब्दप्राथम्यस्यापि सत्त्वेन भर्गमयशब्दस्य केशं विनैव निर्वाहाच्च । न च रुद्रप्रचुरत्वोक्तिमुखेन पादोपस्थापकत्वं गायत्र्याः कृत्स्नाया अस्ति । त्वत्पक्षे तत्प्रचुरत्वेन द्वितीयपादस्यैव तत्प्रचुरत्वासिद्धेः । तस्मान्न तलवकारश्रुतिबलादकारान्तशब्दत्वाध्यवसानम् ।

446

नन्वथापि मैत्रायणीयानां गायत्र्यर्थनिरूपणप्रकरणगतेन यदेष रुद्रो भर्गाख्य इति वाक्येन रुद्रपरत्वोक्तया निर्देशबलाच्चाकारान्तत्वं सिध्यतीति चेन्न । मैत्रायणीयश्रुतावेव,

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय विष्णवे ॥ '

’ योऽसावादित्ये पुरुषः सोसावइ’ मित्यनन्तरं यदादित्यस्य मध्येऽक्षिण्यमौ चैतद्वद्वैतदमृतमेतद्भर्ग एतत्सत्यधर्म’ इत्यादित्यान्तर्वर्तित्वेन प्रतिपन्ने भर्गवति प्रयुक्तत्वेन रुद्रवाचकाकारान्तशब्दत्वाध्यवसानायोक्तत्वात् हिरण्मयेन पात्रेणेत्यत हि सूर्यनिष्ठशुद्धसत्वान्तरवस्थविष्णुदर्शनप्रतिबन्धकनिवृत्ति प्रार्थनं प्रतिपाचते योऽसावादित्ये पुरुषः सोसावहमित्युत्तरवाक्यानुसारात्

’ रविमध्ये स्थितस्सोमस्तस्य मध्ये हुताशनः ।

तेजोमध्येस्थितं सत्त्वं सत्वमध्ये स्थितोऽच्युतः ॥

इत्युक्तत्वाच्च । स एव च यदादित्यस्य मध्येऽक्षिण्यमौ चैतदित्यत्र प्रतिपाथत इत्येतद्भर्ग इति प्रयोगो भगवद्विषयकः । न च भगवद्विषयकत्वेऽपि रुद्रान्तर्यामित्वप्रतिपादनोपपन्नत्वान्न तेजोवाचकत्वं साधयितुं शक्नोतीति वाच्यम् । न भसोऽन्तर्गतस्य तेजसोंऽशमात्रमेतत् यदादित्यस्य मध्ये भगवत एव तत्सवितुर्वरेण्यमित्युत्तरत्र गायत्रीस्थस्य वरेण्यशब्दस्यैतच्छब्दावस्थित तेजोविशेषणत्वदर्शनेन एत एतदमृतमित्यत्र तत्तदेवतात्मत्वो चयदर्शनेन च तेजोवाचकत्वा-

वश्यम्भावात् ।

न चास्यादित्यान्तर्वर्ति प्रतिपादकत्वेऽपि गायत्र्यर्थनिरूपणपरत्वानवश्यम्भा वात् गायत्रीस्थभर्गशब्दस्य सकारान्तत्यतेजोवाचकत्वयोर्न प्रमाणयितुं शक्यमिति वाच्यम् । गायत्र्या आदित्यान्तर्वृत्तिपरत्वस्य बहुप्रमाणसिद्धत्वेन तथात्वेन प्रतिपन्नस्य भगवतो गायत्रीप्रतिपाद्यार्थत्वकथने सति गायत्र्या अप्यर्थात्तत्परत्वस्य कथितत्वात्तम्याख्यानत्वसम्भवात् । यच्छन्दस्तदेतदोमिति यदस्यानं तच्छान्तम-

447

शब्दमुभयमानन्दतृप्तं सुस्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञकं सर्वाधारं घामेत्यारभ्य

6

योऽसौ परावरो देव ओङ्कारो नामनामतः । '

इत्यन्तेन प्रणवं व्याख्याय हिरण्मयेन पात्रेणेत्थादिकं प्रवृत्तमिति गायत्रीपदप्रत्यमिज्ञानेन गायत्रीव्याख्यानत्वावसायाश्च ।

न च गायत्र्यर्थनिरूपणत्वानवश्यम्भावेऽपि विष्णोरादित्यान्तर्वर्तित्वप्रतिपादनस्य गायत्र्या अन्यपरत्व विरोधित्वाभावे च भर्गाख्यत्वप्रतिपादकश्रुतिविरोधादियं श्रुतिः कथं विष्णोरादित्यान्तर्वर्तित्वं गमयितुमीष्ट इति वाच्यम् । अन हि सौरसौम्याग्नेयमण्डलानि मित्त्वा ततश्शुद्धसत्वान्तरवस्थमचलममृतं ध्रुवं विष्णुसंज्ञं सर्वाधारं धाम सत्यकामसर्वज्ञत्व संयुक्तं खतन्त्रचैतन्यं खे महिम्नीति तिष्ठमानं पश्यतीत्यादित्यान्तर्वृत्तित्वं भगवतः प्रतिपाच खोकार्थद्रढिने अत्रोदाहरन्ति -

रविमध्ये स्थितस्सोमस्तस्य मध्येडुताशनः ।

तेजोमध्ये स्थितं सत्वं सत्वमध्ये स्थितोऽच्युतः ॥ '

इति श्रुत्यन्तरमुपादाय यच्छब्दस्तदेतदोमिति यदस्यानं तच्छान्तमशब्दमुभयमानन्दतृप्तं सुस्थिरमचलममृतमच्युतं धुर्व विष्णुसंज्ञं सर्वाधारं धामेत्यावर्त्य - हिरण्मयेन पात्रेणेत्यादिना भगवतो गायत्रीस्वपदार्थत्वकथनपूर्वकमादित्यान्तर्वृत्तित्वं कथयतीति ध्रुवमचलमित्याद्यभ्यासेन श्रुत्यन्तरसंवादप्रदर्शनेन चास्याः श्रुतेस्तात्पर्यातिशयावगमात् भर्गाख्यमित्यस्य पूर्वत्रासिद्धत्वाभावकल्पनयोपपन्नत्वाद्यदेष रुद्र इत्यस्य गौण्या लक्षणया वा भगवत्परत्वेन नेतुं शक्यत्वाश्च । ’ आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुमिः ।’ इति योगयाज्ञवल्क्यवचनमपि शिवपरत्वसाधकम् ॥

‘ईश्वरं पुरुषाख्यं तु सत्यधर्माणमच्युतम् ।

मर्गाख्यं विष्णुसंज्ञं तु ध्यात्वामृतमुपाश्नुते ||’

448

इति तत्रत्यवचनान्तरेण भगवत्परत्वावसायात् । तत् भर्गाख्यं किमपीत्यादि - वचनमपि भर्गश्शब्दाभिधेयं तेजः प्रपद्ये इत्यर्थकत्वात्तेजः परत्वानुकूलमेत्र । न च सकारान्त शब्दत्वाङ्गीकारेतस्य तेजोवाचकत्वेन संबन्ध्याकाङ्क्षितत्वेन तदनुसारात् सवितुरित्यनेन नान्वयस्य वाच्यत्वेन तदक्षरं तत्सवितुर्वरेण्यं ’ तां सवितुर्वरेण्यस्य चित्रामिति वरेण्यशब्दान्वयप्रतिपादकश्रुतिविरोधप्रसङ्ग इति वाच्यम् । गायत्र्यां विशेष्योपादाने वरेण्यशब्दस्य वरणीयत्वमात्रपरत्वेऽपि तदक्षरं तत्सवितुर्वरेण्यमित्यत्र भर्गशब्दानुपादानेन वरणीयत्वविशिष्टभर्गशब्दार्थपर्यन्ततया वरेण्यशब्दस्य तत्संबन्धित्वश्रवणस्य गायत्र्यां सवितृशब्देन भर्गश्शब्दान्वयबाधना समर्थत्वात् । न च ( भर्ग) शब्दस्य तेजोत्राचकत्वमङ्गीकृत्व विष्णुपरत्वाङ्गीकारे सवितृशब्दस्य जगत्सवितृपरत्वं वाच्यम् । अन्यथा सूर्यधर्मत्वापातात् तथा विश्वामित्रऋषिच्छन्दो गायत्रीदेवता रविरिति स्मृतिविरोधप्रसङ्ग इति वाच्यम् । त्वत्पक्षेऽपि सवितृशब्दस्य वरेण्यमित्यनेनान्वयेन भर्गशब्दार्थस्यैव देवतात्वेन सूर्यदेवताकत्वस्मृतिविरोधस्या निवारणात् । न च ख्यन्तर्यामिणो देवतात्वप्रतिपादकं तद्वचनजातमिति वाच्यं तुल्यत्वात् । सवितृ - शब्दस्य तदन्तर्यामिपरत्वसंभवात् ।

वस्तुतस्तु सवितृशब्दस्सूर्यपर एव, भर्गश्शब्दश्च तेजस्त्वेन निमित्तेन भगवन्तमभिधत्ते । न चैवं तस्य ध्येयत्वात् कथं गायत्र्यास्सूर्य देवताकत्वमिति वाच्यम् । सूर्यसंबन्धितेजस्त्वेनैव ध्येयत्वप्रतिपादनेन सूर्यदेवताकत्वाविरोधात् । न चैवं भगवतस्सूर्यधर्मत्वप्रसङ्गः । इष्टत्वात् । न च तात्रता स्वातन्त्र्यहानिः निरङ्कुशस्वतन्त्रस्य भगवतः पार्थसारथ्येन्द्रानुजत्वादिपरिग्रहवदुपपत्तेः । एवं सति सावित्रीं गायत्रीं निरन्वाहेति तद्धितश्रुतिरुपपद्यते । तथा च तेजोवाचकसकारान्त एवायं शब्द: । व्युत्पादितश्चायमसुन्प्रत्ययान्तत्वेनोणादिषु

अञ्जयजी युजिरुजिग्रजां रुचेति सूत्रेण ।

66

यत्तु भंजो आमदन इति धातोरसुन्प्रत्यये व्युत्पन्न इति तब्याकरणशास्त्रपरिज्ञानजृम्भितं नलोपरेफकृत्वप्रापकशास्त्राभावेन भर्ग इति रूपस्यासिद्धि-

449

प्रसङ्गात् । अतो भृजिधातोरसुन्प्रत्यय एव भर्गशब्दोव्युत्पन्नः । एवमसुन्नन्तत्वादेवदात्ततयान्नानमुपपद्यते । असुनोऽनित्येन जनित्यादी नित्यमित्याशुदात्तत्वविधानात् अकारान्तत्वपक्षे च भर्जयतीति भर्ग इति पचाद्यच् संज्ञादित्वात् कृत्वमिति टीकासर्वस्वोक्तरीत्या अच्प्रत्ययान्तत्वे चित इत्यन्तोदात्तत्वप्रसङ्गात् । पुंसि संज्ञायामितिघप्रत्ययान्तत्वे ऽपि प्रत्ययस्वरस्य सति शिष्टत्वेन प्रचलत्वात्तत्स्वरेणान्तोदात्तत्वप्रसङ्गस्यानिवारणात् । न च घञन्तत्यमङ्गीकृत्य वरनिर्वाहात् ‘अकर्तरि च कारके संज्ञायामिति तस्य कर्तृव्यतिरिक्तकारक एव विधानात् भर्जने च शिवस्य कर्तृत्वात्तत्प्रसक्तयभावात् । न च कर्तरि करणत्वो पचारान्निर्वाहः । उत्कृष्टे अपकृष्टधर्मारोपस्यातिशयानाधायकत्वात् । कर्तुश्च मकल कारकनिर्वाहकत्वेनोत्कृष्टत्वात् । उक्तं च महाभाष्ये ‘सकलसाधनविनियोगकारी खल्वसा’ विति ’ उतमादेशमप्राक्ये ’ इत्यत्रादेशशब्दे आङ्पूर्वस्य विशेश्शासने रूढित्वेन मुख्यप्रकृत्यर्थानुसारेण प्रत्यमे क्लिष्टगतिराश्रीयते । न चेह तदाश्रयणं युक्तमनन्ततयोपपतेः । न च शिववाचकशब्दस्यानन्यगतिकत्वं, अच्प्रत्ययान्तत्वेन व्युत्पादितत्वात् । एतेन शब्दस्मृतेरसुनि वा घञ् वा पदान्ते युक्तम् । वदन्त्युभयथा स्वरमाद्युदात्तं ’ व्यत्यस्तकारक मवैमिपदं घञन्तं मैत्रायणश्रुतिपराहतसान्तभाव मिति प्राचीनशैवजल्पितं निरस्तं वेदितव्यम् । अतस्तेजो वाचक एवायं शब्दः । तथाचायमर्थः - नो घियो यः प्रचोदयात तस्य सवितुर्देवस्य तत् प्रसिद्धं वरेण्यं भर्गस्तेजो धीमहीति । “यो देवस्सवितास्माकं धियो धर्मादिगोचराः । प्रेरयेत्तस्य यत् भर्गस्तद्वरेण्यमुपास्महे " ।

देवस्य सवितुस्तस्य धियो यो नः प्रचोदयात् ।

भर्गो वरेण्यं तद्ब्रह्म धीमहीत्यर्य उच्यते ॥ '

इति अगस्त्यविश्वामित्रवचनानुसारात् ।

ननु देवस्य सवितुर्मध्ये यो भगों नो घियः क्रमात् प्रचोदयात्तं वरेण्यं धीमहीत्यन्वयक्रम इत्यनेन प्रकारान्तरेणात्यर्थ: प्रतिपाद्यत इति चेन्न । उभयथा स्मृतिवचनसत्त्वे न्यायानुगृहीतस्मृतेरेव स्वीकर्तुमुचितत्वात् । भर्ग-

F-57

शब्दस्य उत्तरपदान्वये व्यवहितान्वयप्रसङ्गात्, वरेण्यशब्दस्याकाङ्क्षापूर्त्यभावप्रसङ्गात्तदित्यस्य व्यत्ययाङ्गीकारे तस्यैत्र दोषत्वात् । पूर्वपादान्त्रये छान्दसस्वादेशादिकल्पनस्य स्वरव्यत्ययकल्पनस्य च प्रसङ्गात् । असुन्नन्तत्वे तदभावाच्च तेजोवाचकत्वाङ्गीकारेण प्रवृत्तस्यैव स्मृतिवचनस्य न्यायानुग्रहात् । किञ्च त्वदुदाहृतस्मृतिवचनं सवितुर्वरेण्यं भर्ग घ्यायाम इति त्वदभिहितान्वयविरुद्धत्वेन नोदाहरणत्वयोग्यम् । न च तेजः परत्वपक्षे यच्छब्दस्य सवितृपरत्वे घी शब्दस्य प्रत्यक्षज्ञानमात्रपरत्वेन सङ्कोचप्रसङ्ग इति वाच्यम् । प्रथमश्रुतभर्गशब्दे अस्वारस्यद्वयाङ्गीकारापेक्षया धीशब्दसङ्कोचस्याभ्यर्हितत्वात् । अतो न गायत्र्या रुद्रपरत्व भर्गपदवत्त्वं साधयितुं शक्नोतीति दिक् ।

वेदान्तविजयकृतस्तु - पूर्वानुभूतभर्गशब्दान्त्रयसंभवे उपसर्जनवरेण्यशब्दान्वयायोगात् विशेषणस्याप्यव्यवधायकत्वाच्च सवितुरित्यस्य भर्गशब्देनान्वयो युक्तः । किञ्च सवितुरिति देवविशेषण व्यावर्तकत्वात् । ततश्च देवस्येत्यनेनैव वरेण्यशब्दस्य चान्वयो वाच्यः । देवस्येत्यनेन भर्गशब्दस्यैवाव्यवधानमिति तस्यैव तेनान्वयो न्यायः । यस्सवितेत्यनुक्त्वा यो देव इति वदन्नगस्त्योप्यमुमेवार्थमाह । न च तदक्षरं तत्सवितुर्वरेण्यमिति श्रुत्यनुसारात् तथान्वयः । तत्र किं प्रकृतशिवापेक्षया वरेण्यमिति निर्देशः किं वा गायत्री स्थभर्गापेक्षया, नोभययापि नपुंसकोपपत्तिः । अतो गायत्री स्थवरेण्यशब्दस्य द्वितीयान्तस्य भर्गविशेषणतया नपुंसकस्या विपरिणामेन प्रथमान्ततया निर्देश इत्यास्थेयतया अनेन वाक्येन गायत्र्यां सकारान्तभर्गशब्दासिद्धया घट्टकुट्यां प्रभातः । ततश्च सवितुर्वरेण्येन भर्गसा वान्वये भगवत्परत्वेन किञ्चिदपि बाधकम् । अथापि सविता वै देवः योऽस्य भार्गाख्यस्तञ्चितयामीति मैत्रायणीयश्रुत्या सवितुर्देवस्य भर्गसान्वयस्य दर्शितत्वात्तथैवान्वयः । तस्याः श्रुतेर्गायत्र्यर्थपरतया तच्छेषत्वादिदं तु वाक्यं न तत्परं, किन्तु प्रकृतशिवस्योत्कर्ष प्रतिपादनाय गायत्रीवेद्यतापरम् । तस्मात् भर्गसो विशेष्यपदस्य पुरोवादप्रसिद्धस्या निर्देशेन विशेष्यविवक्षयैव विशेषणपदप्रयोगः कृतः । अतो न तत्सवितुर्वरेण्यमित्यादिकं भर्गरशब्दान्वयाभावसाधकम् । न च तलवकारिणां

451

'

मर्गाय इति श्रुतेरकारान्तत्वावगमः । उपक्रमे प्रथमपदार्थकथने ‘अग्निर्वैवरेण्यमापो वै वरेण्यं चन्द्रमा वै वरेण्य’ मिति त्रिष्वपि नपुंसकैकवचननिर्देशेन गायत्रीस्थवरेण्यशब्दस्य नपुंसकत्वावगमात् । तन्निर्देशस्य व्याख्येयानुरोधित्वात् । बल्या….दिशब्दानुरोघेनानालिङ्गवचननिर्देशापत्तेः । गायत्र्यां च वरेण्यशब्दस्य विशेष्यलिङ्गत्वात् सकारान्तं विशेष्यपदं भर्गमय इति तु भर्गशब्दे सकारान्त्याक्षरांशेन पादो निरूपितः । दृष्टं च पदैकदेशेनापि निरूपणम् । यथा चारवन्तीयमिति । तत्र हि वारवन्तीयसामयोनिभूतायामृचि ’ अश्वं नत्वा कारवन्तामिति द्वितीयान्तवारवन्तशब्देन तद्वदसानो निर्देशः । तस्या एष द्वितीयपाद इत्यनन्तरं भुवो भर्गो घीदेवस्य धीमहीति वक्तव्यं, भर्गमय इस्यतिरिक्तमाम्नातं, तस्य चैतत् प्रयोजनं घियो य इति पुंलिङ्गानुरोधात् भर्गशब्दोऽयमकारान्तस्तृतीयपादान्वयीती - ततुच्छान्दसमिति शङ्कत द्वितीयपादान्तर्भाव उच्यते । भर्गमयः भ्रर्गशब्दप्रचुरोऽयं पादः । प्राचुर्यं चार्थतः स्वरूपतश्च तत्रैवान्वयात् पादस्य विशेष्यशब्दार्थकत्वात् । भर्गशब्दे मयट् प्रकृत्यर्थस्वरसतोऽवगम्यते । भर्गशब्दस्य द्वितीयपादान्वयस्य शङ्कितत्वान्तस्यैव द्वितीयपादान्तर्गतेर्वाच्यत्वात् । सकारं विना पदैकदेशनिर्देशः कृतः । मुक्तामरकतयोर्मरकताज्ञानात् मुक्तामात्रे चोरेणापहते तावन्मात्रमेव हि पुनराहर्तव्यं, न तु मरकतमपि । सानंतत्व एवात्रान्वयोपपत्तिः । द्वितीयान्तत्वात् न त्वकारान्तत्व इति तात्पर्यतो रुद्रस्य गायत्रीप्रतिपाद्यत्वाभावसिद्धिः । तेजस्त्वसामान्यरूपेणापि तत्परत्वे अकारान्तत्वेन तृतीयपादान्वयेऽपि तदेवेति तन्निवारणवैयर्थ्यात् । अन्वयविशेषमात्रार्थत्वस्यार्थ विशेषला भरूपप्रयोजनवत्त्वे संभवत्यग्राह्यत्वात् । न च वाच्यं द्वितीय: पादोभर्गमयो रुद्रमय इति । गायत्र्या रुद्रपरत्वज्ञापनं प्रयोजनमिति । गायत्र्या एव रुद्रपरत्वेन पादविशेषे भर्गमयत्वकथनस्य प्रयोजनविशेषाभावेनानुचितत्वात् । विभक्तिव्यत्ययादिकल्पनारहितप्रयोजनसंभवे तस्यैव ग्राह्यत्वात् । मैत्रायणीयोपनिषदि भर्गाख्यं विष्णुसंज्ञं सर्वाधारं धामेति दर्शनेन तद्विरोधाच ।

11

452

ननु भर्गमय एवायं न भर्गोमय इत्येवमकारान्तत्वप्रतिपादनार्थमेवेदमिति चेत्, किं मयट् विकारार्थकः, उत प्राचुर्यार्थकः । नाद्यः । पदत्रयात्मकस्यास्य पादस्य एकपदरूपत्वोक्तयसंभवात् । न द्वितीयः । प्राचुयांके: प्रयोजनाभावात् । सकारान्तत्वभ्रमवारणार्थं भर्गशब्दसंबन्धमात्रं हि वक्तव्यम् । सिद्धान्ते तु देवतान्तरनिरास: प्रयोजनमित्युक्तमेव । अथ स्यात् सिद्धान्तरीत्यास्मिन्नेव पादे अर्थान्वयोऽप्यतिविवक्षया प्राचुर्यार्थमुपपद्यत इति चेन्न । अकारान्तत्वे उत्तरान्वयस्यैवाभ्यर्हितत्वात् । इहैवान्वये विभक्तयस्वारस्यात् । न चास्य पक्षे तदिति नपुंसकांतस्य भर्गशब्देनान्वयः, तस्य ब्रह्मपरत्वाभिधानात् । उत्तरवाक्यस्ययच्छब्दस्य प्रतिनिर्देशकतच्छब्दानपेक्षा चोक्ता । एवं च देवस्य सवितुर्वरेण्यं तद्धीमहि । यो भर्गो नो धियः प्रचोदयादिति अन्वयः । एवं च न किञ्चिदपि अखरसं तस्मादकारान्तत्वेनोत्तरान्वयो निषेधार्हः । व्यवहितान्वयस्य दुष्टत्वान्निषेधे विभक्तयस्वारस्यमपि परित्याज्यमेवेति कथं तदविनाभूताया अकारान्तताया विधानम् । तस्मात् यादृशसमन्वये गायत्र्या पदास्वारस्यं व्यवहितान्वयश्च नास्ति तस्मिन्नेव समन्वये गायत्री प्रतिपादयितुमिदं वाक्यं प्रवृत्तमितीदमुसराम्भयनिषेधमुखेन सकारान्तत्वव्यञ्जनार्थमेव, अतो सकारान्तत्वख्यापनमस्य प्रयोजनमिति युक्तम् । एवं च तलवकारश्रुतिरेव भगवति भर्गशब्दप्रयोगप्रयुक्तरुद्रपरत्वभ्रमवारणाय सकारान्तत्वं ख्यापयितुं प्रथमपादव्याख्याने भिन्नलिङ्गवचनैर्वरेण्यशब्दस्य नपुंसकैकवचनस्य सामानाधिकरण्येन द्वितीयपादव्याख्याने भर्गशब्दस्य तदन्वयकथनेन तृतीयम्याख्यानेन तस्या एष तृतीयः पादः धियो यो नः प्रचोदयात् इति । यज्ञो वै प्रचोदयतीति यज्ञस्य प्रचोदयितृत्ववचनेन च गायत्री विष्णुपरेति दृढीकरोति । सविता वै देषः योऽस्य भर्गाख्यस्तं चिन्तयामीति मैत्रायणीयश्रुतावपि शब्देकदेशे आख्याशब्दो औपचारिक: अकारान्तत्वे च योऽस्य भर्गाख्य इति सवितृशब्देनान्वयदर्शनं न स्यात् । न हि सवितृरुद्र इत्यन्वयस्समञ्जसो भवति । तु सवितुस्तेज इति तस्मादेव ताभिः श्रुतिभिर्भगवान् गायत्र्या प्रतिपाद्यत इत्याहुः ।

453

आनन्दतीर्थीयास्तु

गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः । भारतीज्ञानरूपत्वात् भर्गो ध्येयोऽखिलैजनैः ॥

प्रेरकोऽशेषबुद्धीनां गायत्र्यर्थ इतीरितः ॥ '

इति ऋग्भाष्ये " स एव भर्गशब्दार्थः " इत्यनुव्याख्याने च भर्गशब्दस्याकारांतत्वाश्रयणेन गायत्रीस्थोऽकारान्त एव भर्गशब्दः । स च एतत् सवितुर्वरेण्यं ध्रुत्रमचलममृतं भर्गाख्यं विष्णुसंज्ञं सर्वाधारं धामेति मैत्रायणीयश्रुत्या

‘ईश्वरं पुरुषाख्यं तु सत्यधर्माणमच्युतम् ।

भर्गाख्यं विष्णुसंज्ञं तु ध्यात्वामृतमुपाश्नुते ॥ '

इत्यादि योगयाज्ञवल्क्यादिवचनैव विष्णुवाचकभर्गशब्दस्य शिवे रूढत्वेऽप्युक्तप्रमाणानुसारात् उपक्रमे तदित्यस्य

’ ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः '

इति प्रमाणसिद्धपरत्रह्माभिधानस्य श्रवणेन नारायणातिरिक्तस्य कार्यत्वकर्मवश्यत्वादिभिः परब्रह्मत्वायोगेन तदनुसाराच गर्गशब्दस्य योगार्थाश्रयणं युक्तमिति गायत्री भगवत्परेत्याहुः ।

यत्त्वा श्वमेधिकवचनजातं, ’ सन्ध्यासु विष्णुभक्तैरादित्यमण्डले तं मूर्ति ध्येयेत्येतावन्मात्त्रप्रतिपादनक्षमं न तु तस्यादित्यान्तर्वर्तित्व गायत्रीप्रतिपाद्यत्वपर्यन्तस्थापनक्षममिति तदसम्बन्धं तन्मण्डलस्थ’ मित्यनेन मण्डलान्तर्वर्तित्वस्य तेजो मूर्तिमतीत्यनेन भर्गशब्दार्थत्वस्य च सिद्धेः । न च तन्मण्डलस्थस्य तन्मण्डलस्थत्वेन ध्यानं विधीयत इति वक्तुं युक्तं, सूर्यमण्डलस्थत्वाभावग्राहकप्रमाणाभावेन खारसिकप्रामाण्यानपवादात् । न च शिवस्यादित्यान्तर्वर्तित्वग्राहक प्रमाणानामेतदभावसाधकत्वं अन्यपरत्वस्य प्रपश्चितत्वाद्यदपि ’ ततः षडक्षरं मन्त्रं षट्कृत्वः परिवर्तयेदिति पूर्व पडक्षरमन्त्रजपविधानदर्शनेन

454

तदर्थध्यानविधिपरत्वं तन्मण्डलस्थम् ध्यायेदित्यस्येति तदसङ्गतं दर्भेषु दर्भपाणिरसन्

प्राङ्मुखस्तु समाहितः ।

’ प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना ।

सहस्रकृत्वस्सावित्रीं शतकृत्वस्तु वा जपेत् ॥’

इति प्राधान्येन सावित्रीजपविधानदर्शनेन प्रधानभूत सावित्रीप्रतिपाद्यध्यानत्वस्यैव वक्तुं युक्तत्वात् । प्रधानमन्त्रार्थध्यानकथनं अनुचितम् । “ मद्गतेनान्तरात्मने"ति गायत्रीप्रतिपाद्यध्यानं विहितमिति चेत्, सिद्धं नस्समीहितम् ।

किञ्च " शतकृत्वस्तु वा जपे “दित्यनन्तरम् -

’ समाप्ते तु जपे तस्मिन्सावित्र्या चामिमन्त्र्य च । मन्देहानां विनाशाय रक्षसां च प्रतिक्षिपेत् ॥ जलं सीत्यथाचान्तः प्रायश्चित्तजलं क्षिपेत् । अथादाय स पुष्पाणि तोयान्यञ्जिलिना द्विजः || प्रक्षिप्य प्रतिसूर्य च व्योममुद्रां प्रकल्पयेत् । ततो द्वादशकृत्वस्तु सूर्यस्यैकाक्षरं जपेत् ॥ ततः षडक्षरं मन्त्रं षड्वारं परिवर्तयेत् । सदक्षिणं परामृश्य मुद्रया सुमुखं तथा ॥ ऊर्ध्वबाहुस्ततो भूत्वा सूक्ष्ममीक्षेत्समाहितः तन्मण्डलस्थमाध्यायेत्तेजोमूर्तिं चतुर्भुजम् ॥

उदुत्यं तु जपेन्मन्त्रं चित्रं तत् चक्षुरित्यपि । सावित्रीं च यथाशक्ति जप्त्वा सूक्तं च मामकम् ॥ मन्मयानि च सामानि पुरुषव्रतमेव च । ततश्चालोकयेदकं हंसस्शुचिदित्यृचा ॥

प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम् ॥

45.5

इति ग्रन्थसन्दर्भेण सावित्रीजपा जातप्रतिपादनात् तन्मध्यनिविष्टयोः कृष्णमन्त्रजपभगवद्धयानयोर्गुणानां च परार्थत्वादसंबन्धस्समत्वात् स्यादिति न्यायेनैकस्यान्यतराङ्गत्वं वक्तुमनुचितमिति कथं कृष्णमन्त्रार्थध्यानविधिपरत्वं तन्मण्डलस्थमित्यस्य ।

I

यदपि वैष्णव धर्मशास्त्रस्य तान्त्रिकधर्मविधानार्थं प्रवृत्तत्वान्न तत्र विहितमादित्ये विष्णुचिन्तनं वैदिकैः कार्यमिति । तन्मौढ्य विलसितम् । वैष्णवधर्माणामवैदिकत्वग्राहकप्रमाणाभावात् । न च “ श्रुता मे मानवा धर्मा

इति मानवधर्मेभ्यो व्यावर्तितत्वादवैदिकत्वमिति वाच्यम् । वासिष्ठाः काश्यपास्तथेति कीर्त्यमानत्रासिष्ठ|दिधर्माणामप्यवैदिकत्वप्रसङ्गात् । किञ्चैत्रम्

"

’ एतेभ्यस्सर्वधर्मेभ्यो विशिष्टास्त्वन्मुखनिस्सृताः । पात्रनत्वाद्यथार्थत्वाद्विशिष्टा इति मे मतिः ॥

तस्माच्च त्वां प्रपन्नस्य त्वद्भक्तस्य च भावतः । युष्मदीयान्परान् धर्मान्पुण्यान् कथयमेऽच्युत || '

इति सर्वाधिकत्वकीर्तनमुखेनात्यादरेण धर्मसूनुप्रश्नोऽनुपपन्नः स्यात् । तदा

t

युधिष्ठिरस्तु धर्मात्मा हृदिकृत्वा जनार्दनम् ।

तद्भक्तस्तम्मना युक्तस्तथाजीतत्परोऽभवत् ॥ '

इति धर्मसूनोस्तद्धर्मनिष्ठत्वकीर्तनमप्यसङ्गतं स्यात् ।

एवमुक्तः पुरावृत्तं वैष्णवं धर्मशासनम् । मया ते कथितं राजन् पवित्रं पापनाशनम् ॥ तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह ।

तेन गच्छसि नान्येन तद्विष्णोः परमं पदम् ॥’

इति वैशंपायनेन जनमेजयस्य तत्र प्रवर्तनमप्यनुपपन्नं स्यात् । न हि वैदिकस्या-

वैदिकधर्मेषु प्रवर्तनमुपपद्यते ॥

456

यत्तु पुराणाद्युक्तमपि तन्त्रानुसारि चेन्न ग्राह्यमिति । तदत्यन्ताज्ञानविजृम्भितम् । भस्मोद्धूलनरुद्राक्षधारणलिङ्गार्चनप्रभृतीनां शिवपुराणोकामां शैवागमानुसारित्वेन त्वन्मतप्रविष्टानां तदनुष्ठानस्याधर्मत्वप्रसङ्गात् । किं बहुना | शिवपारम्यप्रतिपादकसून संहितादिवचनानां तत्प्रतिपादकशैवतन्त्रामुसारित्वमनिवार्यमिति । तद्बलात्तच्छिवपारम्यसाधनमुच्छिद्येत । न च तत्र श्रुतयस्सन्तीति तदनुसारित्वमिति वाच्यम् । श्रुतेरर्यान्तरवर्णने त्वया उपबृह्मणविरोधकथनस्यानुपपन्नत्वप्रसङ्गात् । उपबृंहणानां शैवतन्त्रा नुसारित्वेन प्रमाणत्वस्य शिथिलत्वात् । खबुद्धिकल्पितान्यात् गरीयो ह्युपबृंहणमिति उपबृंहण प्राधान्यमाश्रित्य हि त्वया तत्र श्रुत्यर्यो वर्णितः । न चौसर्गिकं श्रुतिमूलत्वं बाधकाभावेन त्यागाईमिति वाच्यम् । तस्यादित्यान्तर्वर्तित्वं भगवत आवेदयन्तीनां श्रुतीनामनापि मूलत्व संभवान्न त्यागार्हमिति समस्समाधिः ||

वस्तुतस्तु पश्चरात्रतन्त्रस्य कृत्स्नस्य प्रमाणतमत्वेन तदनुसारित्वेऽपि

वैष्णवधर्मशास्त्रस्य नावैदिकधर्मप्रतिपादकत्वम् | न तु पञ्चरात्रस्य कथं प्रमाणतमत्वमिति चेदित्थं - प्रामाण्ये हि परिग्रहः, कर्तुराप्ततमत्त्वं चेति द्वयं हेतुः । तदुभयमप्यत्र समस्ति । निरस्त समस्त दोषत्वेनापहतपाप्मा दिव्यो देवः एको नारायण इत्यादिप्रमाणसिद्धेन भगवता नारायणेन प्रणीतत्वस्य

पश्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् '

इति भारतवचनादवगम्यमानत्वेन कर्तुराप्ततमत्वसिद्धेः । कर्षणादिप्रतिष्ठान्तानां कर्मणां भगऋसमाराधनतदुत्सवादीनां च पञ्चरात्रोक्तमार्गेणानुष्ठीयमानत्वेन तदर्थादररूपपरिग्रहस्य सत्वाच्च । महाभारते तत्प्रशंसा कृतेति शास्त्रान्तरप्रशंसारूपश्शास्त्रपरिग्रहोऽपि निरङ्कुशः । तथा हि-

’ इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आविध्यमतिमन्यानं दनोघृतमिवोद्धृतम् ॥ नवनीतं यथा दो द्विपदां ब्राह्मणो यथा । आरण्यकं च वेदस्य ओषधीभ्यो यथामृतम् ॥

457

इदं महोपनिषदं चतुर्वेदसमन्वितम् । संख्यायोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥ इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । ऋज्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥

भविष्यति प्रमाणं वै एतन्मदमुशासनम् ॥’

इति तत्प्रामाण्यं प्रसाधितं नारायणीये । किञ्च महता प्रबन्धेन च तत्र तत्प्रशंसा कृता । तत्प्रदर्शनार्थं व्यासार्यग्रन्थो लिख्यते

रूढं मां प्राश्नवित् प्रश्नं पृच्छसेत्वमिहानघ । न ह्येष कृत्स्नशरशक्यं वक्तुं वर्षशतैरपि ॥

ऋते देवप्रसादाद्वा राजन् ज्ञानागमेन वा । गहनं तदाख्यानमाख्यातव्यं तवारिहन् ॥ अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् ॥ '

इति । पृष्टार्थस्य परमरहस्यत्यमयोम्येष्ववक्तव्यत्वं च दर्शितम् ।

‘तेनैव प्रथिता ब्रह्मन् मर्यादा लोकपावनी '

इति लोकहिताय प्रवृत्ततया बाह्यागमव्यावृत्तिर्दर्शिता ।

’ तत्र प्रशासतो राज्यं धर्मेणामित्रघातिनः ।

नानृता वाक् समभवन्मनो दुष्टं च नाभवत् ॥ संस्थिते तु नृपे तस्मिन् शास्त्रमेतत्सनातनम् । अन्तर्धास्यति तत्सत्यमेतद्वा कथितं मम ॥ '

• तत्र 1

योग्यजनभूयिष्टकाले प्रवृत्तिः । कालान्तरे तिरोधानं चेति वैलक्षण्यमुक्तम् । तत्राप्याविर्भावतिरोभावकथनादर्यशरीरस्य वेदार्थवदनादित्वं दर्शितम् । ततश्च बाह्यागमव्यावृत्तिः ।

F-58

458

’ उत्पद्यन्ते व्ययन्ते च यान्यतोऽन्यानि कानिचित् ।

तान्यर्वाकालिकतया निष्कलान्यनृतानि च ॥ '

इति बाह्यागमानामर्वाक्कालिकत्वस्मरणात् ।

’ वेदैश्चतुर्भिस्तमितं कृतं मेरौ महागिरौ '

इति सर्वमर्यादास्थापकमुनिजनभूयिष्ठे मेरौ प्रवर्तिततया देशतो वैलक्षण्यमुक्तम्

’ एकाग्रमनसो दान्ता ऋषयस्संयमेरताः । इति – ‘दिव्यवर्षसहस्रं वै सर्वे ते मुनिसत्तमाः । ’ इति -

’ नारायणानुशिष्टा हि तदा देवी सरस्वती ।

विवेश तान् ऋषीन् सर्वान् लोकानां हितकाम्यया || ’ इति - तैरेकमतिभिर्दृष्ट्रा यत्प्रोक्तं शास्त्रमुत्तमम् । '

इति च प्रवर्तकानां ऋषीणामत्र गुणवत्त्वं तपोमहिमवत्त्वं भगवत्प्रसादलब्धसरखतीकत्वं ब्रह्मनामैकमत्यं च दर्शितम् ।

उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः ।

तदा प्रवक्ष्यतरशाखं युष्मन्मतिमिरुद्धतम् ॥’ इति - ’ युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः ।

बृहस्पतिसकाशाद्वै प्राप्स्यते मुनिसत्तमाः ॥ '

इति प्रकृष्टदेवऋषिपरिग्रहः । प्रकृष्टशिष्याविगमश्च दर्शितः । वदैश्चतुर्भिस्संहितं इदं महोपनिषदम् । अत्र धर्मार्थकामामिमोक्षः पश्चाच्चिकीर्षेत इति सर्ववेदवेदान्तसारत्वम् । गुळजिहिकान्यायेन त्रिवर्गप्रतिपादकत्वं मोक्षैकपरत्वमनुवृत्तमहिमवत्त्वं चोक्तम् ।

सर्व प्रमाणं हि तथा यथैतच्छास्त्रमुत्तमम् । भविष्यति प्रमाणं वै एतन्मदनुशासनम् ॥ अस्मात्प्रवक्ष्यते धर्मान्मनुः खायम्भुवः खयम् ॥’

459

इति मन्वादिभिरप्युपजीव्यत्वमितरप्रबन्धप्रामाण्ये

दृष्टान्तभूतत्वमप्यवधानेन

भगवदनुशासनरूपत्वं भविष्यति प्रमाणमिति भगवता नियमितत्वं च दर्शितम् ।

’ तस्य यज्ञो महानासीदश्वमेधो महात्मनः ।

बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥ '

व्रते पश्चरात्रनिष्ठस्योपरिचरस्याश्वमेधकथनाद्वैदिकपश्चरात्रकर्मणां कर्तृसामान्यं दर्शितम् |

’ प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ।

साक्षात्तं दर्शयामास अदृश्योऽन्येन केनचित् ॥ '

हने वेदपञ्चरात्रोक्तकर्मणामप्यवधानेन परदेवतासामान्यं च दर्शितम् ।

6

अत्र श्येनतो भागो देवेन इंरिशेषसा ।’

इति सर्वदेवतासाक्षात्कारि बृहस्पत्यदृश्यतया उपरिचरेण दृष्टतया चाघिकारिलक्षण्यं दर्शितम् ।

दर्शितम् ।

एकतद्वितत्रितवृत्तान्तमुखेनार्थवादरूपं तात्पर्यलिङ्गं

’ मेरोरुत्तरभागेऽत्र क्षीरोदस्यानुकूलताम् ।

सदेशो यत्र नस्तप्तं तपः परमदारुणम् ॥’ इति । एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः ।

गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥ ’ इति । ततो नो दृष्टविषयस्तदा प्रतिहतोऽभवत् । ’ इति । ’ व्रतावसानेऽस्य शुभान्नरान्ददृशिमो वयम् |’ इति । ’ बलिः किलोपहियते तस्य देवस्य तैः सुरैः ।

वयं तु तेजसा तस्य सहसा नष्टचेतसः ॥ ’ इति । पुरुषाणां सहस्रेषु तेषु वै शुद्धयोनिषु ||

अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् || '

460

,

इति भगवद्धर्मनिष्ठपुरुषाध्युषितदेशस्य प्राप्यत्वं तस्य बहुतपोलभ्यत्वं धर्मान्तरनिष्ठेस्तद्धर्मनिष्ठानां दुर्दर्शत्वं तेषां बहुतपोदृश्यत्वं तेषामितराधिकारिष्वनादरत्वं, तन्मुखेनेतराधिकारिणां निकृष्टत्वं, भगवद्धर्मनिष्ठानां प्रकृष्टत्वं, भगवता स्वयमागष्मदर्शनप्रदानाश्च तेषां महत्त्वं दर्शितम् ।

एकश्च शब्दो विरत श्रुतोऽस्मा मिरुदीरितः ।

आकाशं पूरयन्सर्वं शिष्टाक्षरसमन्वितः ॥ '

इति भगवत्स्तोत्र श्रवणस्यापि तपस्साध्यत्वेन भगवद्धर्मप्रकर्षो ज्ञापितः ।

द्रष्टा वः पुरुषा श्वेताः पचेन्द्रियविवर्जिताः । दृष्टो भवति देवेश एमिः पृष्टैर्द्विजोत्तमाः ॥ '

इति भगवदर्शमतुल्यत्वं तेषां दर्शनस्य प्रतिपादितम् ।

’ प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः ।

ददर्श तानेव नरान् श्वेतांश्चन्द्रप्रभान् शुभान् ॥ पूजयामास शिरसा मनसा तैस्तु पूजितः ॥ ’ इति । ‘न होतत् ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् ।

इति भगवद्धर्मनिष्ठानां देवर्षिवंधत्वं ब्रह्मादिभ्योऽपि महत्त्वं दर्शितम् ।

उवाच वचनं भूयो गच्छ नारद माचिरम् ।

इमे ह्यनिन्द्रियाद्वारा मद्भक्ताश्वन्द्रवर्चसः ॥

एकाग्राश्चिन्तयेषुम नैषां विघ्नोभवेदिति चोक्तम् । नारदसंभाषणस्यापि विघ्नरूपताकथनेन नारदादपि तेषामासन्नतरत्वं दर्शितम् ।

‘अहो हि दुरनुष्ठयो मोक्षधर्मस्सनातनः ।

यं हित्वा देवतास्सर्वा हव्यकव्यमुजोऽभवन् ॥ नूनमेकान्तिधर्मोऽयं श्रेष्ठो नारायणप्रियः । एकान्तिनो हि पुरुषा गच्छन्ति परमे पदे ||

यद्येकान्तिमिराकीर्ण जगत्स्यात्कुरुनन्दन ॥

भवेत् कृतयुगप्राप्तिः ।

एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ।

ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् || '

इति कृतयुगैकान्तस्य भगवद्धर्मस्य परममोक्षप्रदत्वं तन्मुखेनाधिकारिवैलक्षण्यं दर्शितम् । तथा —

’ मया सृष्टः पुरा ब्रह्मा यद्यज्ञमयजत्स्वयम् | ततस्तस्मै वरान्प्रीतोऽददामहमनुत्तमान् ॥ मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च । एष माता पिता चैव युष्माकं च पितामहः || मयानुशिष्टो भविता सर्वभूतवरप्रदः । अस्य चैकानुजो रुद्रो लााचः समुत्थितः ॥ ब्रह्मानुशिष्टो भविता सोऽपि सर्ववरप्रदः ।

स ब्रह्मकास्तरुद्राश्च सेन्द्रा देवा महर्षिभिः || अर्चयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् || '

इत्यादिभिः वेदान्तवेद्यपरदेवताया एवात्र प्रतिपाद्यत्वं दर्शितम् । ’ वेदैश्चतुर्भिस्संमित’ मित्युपक्रमः । ’ इदं महोपनिषद’ मित्युपसंहारः । एवमभ्यासादिलिङ्गानि दर्शितानि । एवमाशयदोषविरह देशका प्रवर्तक वक्तृश्रोतृप्रबन्धतदुक्तधर्मकर्तृतद्धर्मतत्फलप्रदायिदेवतावैलक्षण्यमुखेम बहुमुखं प्रामाण्यं प्रपञ्चितमिति ।

ननु भवतु उपरिचरवसूपाख्यानस्थवचनानां पञ्चरात्रप्रामाण्यविषयप्रमाणभावः । भगवद्धर्मनिष्ठातिशयप्रतिपादकवचनानां तु कथं तत्र प्रमाणतयोपन्यास इति चेदुच्यते । प्रकरणं हि धर्माणां भगवदेकान्ततां प्रतिपादयितुं प्रवृत्तम् । तथैवोपक्रमात् तदुपपादयितुं प्रवृत्ते चोपाख्याने भगवदेकान्ततायाः प्रमाणतां पञ्चरात्त्रप्रतिपन्नत्वनिबन्धनश्रेष्ठतां स्फोरयितुं पञ्चरात्रप्रामाण्यमुपक्षिप्तमिति तत्प्रमाणक भगवदैकान्त्यनिष्ठ श्रेष्ठता प्रतिपादनमपि462

तत्प्रामाण्यपर्यवसाय्येव । किश्चैकान्तिधर्मप्रतिपादनानन्तरम्

’ इदं महोपनिषदं गुह्यं चतुर्वेदसमन्वितम् ।

सांख्ययोगकुनान्तेन पञ्चरात्रानुशब्दितम् || '

इति वचनात् ।

’ धर्म च मत्तो गृह्णीष्व सात्वतं नाम नामतः । ’ इति । ’ अतोऽत्र सात्वतो धर्मों व्याप्य लोकानवस्थितः । '

इति वचनाश्च । तस्य पश्चरात्रधर्मत्वमवसितं इति तत्प्रामाण्यपर्यवसाय्येव भगवद्धर्मातिशयप्रतिपादनम् । एतेन ’ मया सृष्टाः पुरा ब्रह्मेत्यादिभिर्वेदान्तवेषपरदेवतायाः प्रतिपादनेऽपि पञ्चरात्रस्य तत्प्रतिपादकत्वं कथं प्रतिपाद्यत इति शङ्का निरस्ता ।

’ इदं महोपनिषद’ मिति सन्दर्भबलात्तथावगमात् । न चास्य नारायणीयप्रघट्टकस्य प्रक्षेपशङ्कासंभवः ।

‘गुह्यं नारायणाख्यानं त्रिविधं क्लेशनाशनम् ।

इत्यानुशासनिकेऽनुवाददर्शनात् भारतकथामनुसृत्य भाषाप्रबन्धं कृतववातिचिरन्तनेन नारायणीयोक्तार्थप्रपञ्चनात् । यादव प्रकाशमतानुसारिमिर्नारायणायैरत्रत्यवचनान्तत्वनिर्णयाख्ये खप्रबन्धे उदाहरणात् ।

शङ्करभाष्येऽपि " स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न अन्यस्मृत्यनवकाशदोषप्रसङ्गादिति सूत्रव्याख्यानदशायां ईश्वरकारणवादिन्यः स्मृतयोSनक्काशाः प्रसज्येरन् । ता उदाहरिष्यामः । यत्तत्सूक्ष्ममज्ञेयमिति परं ब्रह्म प्रकृत्य’ सह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।” इति चोक्त्वा ।

" तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम । '

इत्याह । तथान्यत्रापि -

’ अव्यक्तं पुरुषं ब्रह्म निष्क्रिये संप्रलीयते । '

463

इत्याहेत्येतत् सन्दर्भस्योपन्यासात् त्वयापि ।

’ तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ।

यस्तु ते सोऽप्रतो याति युद्धे संप्रत्युपस्थिते ॥ तं रुद्रं विद्धि कौन्तेय देवदेवं कपर्दिनम् ।

निहतास्तेन पूर्व त्वं हतवानसि वैरिपून् ॥’

इत्यादिवचनानां त्वदमिलषितसिद्धये समुदाहृतत्वाच्च । तस्मान्नारायणीयत्रचनसन्दर्भो निरङ्कुशः पञ्चरात्त्रप्रामाण्ये प्रवर्तते । ननु तत्र

’ साख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा ।

किमेतान्येकनिष्ठानि पृथनिष्ठानि वा मुने । '

इत्यादिना सांख्यादीनामप्यादरणीयतोच्यत इति चेन्न । तदसिद्धेः । तथाहि । सांख्ययोग इत्यादिप्रश्नस्य तावदयमर्थ: - सांख्ययोगपाशुपतवेदपञ्चरात्राण्येकतत्वप्रतिपादनपराणि, किं वा पृथक्तत्वप्रतिपादनपराणि । यदैकतत्वप्रतिपादनपराणि, किं तदैकतत्वं, यदा तु पृथक्तत्वप्रतिपादनपराणि तदैषां परस्परविरुद्धार्थप्रतिपादकत्वाद्वस्तुनि विकल्पासंभवाच्चैकमेव प्रमाणमङ्गीकरणीयम् । किं तदेकमिति । अस्योत्तरम् -

‘सांख्यं योगः पञ्चरात्रं वेदाः प्रानुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै

साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ॥

अपान्तरतपा नाम वेदाचार्यस्स उच्यते । प्राचीनगर्भ तमृषि प्रवदन्तीह केचन ॥ उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः स्मृतः । उक्तवानिदमव्यप्रो ज्ञानं पाशुपतं शिवः ॥

पञ्चरात्तस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥

,

464

सर्वे (षु) च नृपश्रेष्ठ ज्ञानेेतेषु दृश्यते ।

यथागमं यथान्यायं निष्ठा नारायणः परः ॥’

,

इति । अस्य चायमर्थः । किन्त्वया तत्तद्रून्धकारामिप्रायः पृष्टः, उतार्थस्थितिः पृष्टा । आधे साङ्ख्ययोगादीनां पौरुषेयाणां तन्त्राणां परस्परविरुद्धवस्तुवादितया अपौरुषेयत्वेन निरस्तप्रमादादिनि खिलदोषगन्धवेदवेद्यवस्तु विरुद्धाभिधायित्वाच यथावस्थित वस्तुनि प्रामाण्यदुर्लभमित्यभिप्रायेण ‘साङ्ख्ययोगः पञ्चरात्र’ मित्यायुक्तं अपान्तरतपानाम वेदाचार्यस्स उम्यत इति वेदानामपौरुषेयत्वं ’ सांख्यस्य वक्ता कपिल’ इत्यादिभिः पौरुषेयत्वं वर्णितमित्ययमर्थो लभ्यते । द्वितीये दूरं सर्वेषु च नृपश्रेष्ठेति । एवं च किमेकनिष्टानि पृथनिष्ठानि तत्तद्रन्थकारामिप्रायपर्यालोचने पृथनिष्टत्वं तत्र च वेदस्य तस्य च प्रामाण्यमित्युत्तरं न्यायानुगृहीततत्तदागमो तत्रस्तुपर्यालोचने चैकनिष्ठत्वं स चैको नारायण इत्युत्तरम् । न चैवं पञ्चरात्त्रस्याप्यप्रामाण्यं सांख्यादितुल्यकक्ष्यतया स्यादिति वाच्यम् । वेदविरोधाभावेन तदुक्तययोगात् । न च नानागमतत्वोक्तत्या सांख्यादिवत् पञ्चरात्रस्यापि वेदापेक्षया पृथक् प्रस्थानत्वं गम्यत इति वाच्यम् ।

’ यथागमं यथान्यायं निष्ठा नारायणः परः । '

इति परत्वेन प्रतिपाद्यमानस्यैव नारायणस्य ’ वक्ता नारायणः स्वयमिति कर्तृतया प्रतिपादनात् । वाग्दोषराहित्यसूचनेन वेदापेक्षया पृथक्स्थानत्वस्य वक्तुमयुक्तत्वात् । तस्माद्वेदपञ्चरात्रे एकराशीकृत्य साङ्ख्ययोग इति वक्नोक्तनानामतत्वोक्तिनिर्वाह्या । अत एव -

’ एवमेकं सामयोगं वेदारण्यकमेव च ।

परस्पराङ्गान्येतानि पञ्चरात्रं तु कथ्यते ॥ '

इति तत्रत्यवचनान्तरैकायं भवति । तस्य ह्ययमर्थः - साङ्ख्यं च योगश्च साङ्ख्ययोगं वेदाश्चारण्यकानि च वेदारण्यकं परस्परान्वितान्येतानि एकतत्व -

465

प्रतिपादनपरतया एकीभूतानि एकं पञ्चरात्रमिति कथ्यत इति । साइयोक्तानि नञ्चविंशतितत्वानि योगोक्तं च यमनियमाद्यात्मकं योगं वेदोदितकर्म स्वरूपाण्यङ्गीकृत्य

कचानां ब्रह्मात्मकत्वं योगस्य च ब्रह्मोपासनप्रकारत्वं कर्मणां च तदाराधनरूपत्वनमिदधति । ब्रह्मखरूपं प्रतिपादयन्त्यारण्यकानि एतदेव परेण ब्रह्मणा नारायणेन स्वयमेव पचरात्रतन्त्रे विशदीकृतमिति यावत् । एवं च पञ्चरात्रस्य नारनिष्कर्षरूपत्वकथनेन प्रमाणतमत्वद्योतनया न तस्य वेदविलक्षणप्रस्थानत्वशङ्कात्रकाशः । न च साङ्ख्यायुक्त प्रक्रियाङ्गीकारे शारीर के कथं तदप्रामाण्यकथनं वटेत । कथं चात्र नानातमत्वकथनं वेति वाच्यम् । साङ्ख्यप्रतिपादिततत्वस्वरूपमात्राङ्गीकारेऽपि तत्प्रतिपादितात्मकत्वांशमादाय तदप्रामाण्यकथनस्य नानातमत्वस्य निर्वाहसंभवात् । एवं योगस्यापि केवलनिमित्तेश्वरादित्वमादाय तथात्वं निर्वाह्यम् । एतेनाप्रमाणभूतसाज्ञयादिसारनिष्कर्षत्वकथनादप्रामाण्यमपि द्योत्यत इति परास्तम् । परस्पराङ्गान्येतानीत्यनेन वेदान्तांशस्यैव पञ्चरात्रमूलत्वकथनात् । तस्मान्नारायणीयवचनजातं सात्यादिविलक्षणमेव प्रामाण्यं प्रतिपादयतीति दिक् ॥

नन्वयापि नैतानि वचनानि पचराश्रप्रामाण्यं साधयितुं शक्नुवन्ति । तन्त्रानुसारित्वेनैतेषामपि वचनानां दृढप्रमाणभाषासिद्धेरिति चेन्न । न हीदं प्रकरणं पाश्चरात्रिकधर्मान् प्रति उत्तरत्वेन प्रयुतं येन तथात्वमुच्येत । किन्तु -

’ ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽच मिक्षुकः ।

य इच्छेत सिद्धिमास्थातुं देवतां कां यजेत सः ॥ '

1

इत्यादिप्रश्नोत्थापने सति कथं तत्रानुसारित्वम् । यद्येवमपि अवैदिकाधिकारिकतन्त्रानुसारित्वमुच्येत तदा

F-59

एवं बहुविधं धर्म प्रतिबुद्धैर्निवेदितम् ।

न कुर्वन्ति कथं विप्रा आद्यं नारायणं परम् ॥’

इति पृष्ठवन्तं जनमेजयं प्रति

‘एकान्तिनो हि पुरुषा बहवो दुर्लभा नृप ।

यद्येकान्तिमिराकीर्ण जगत्स्यात् कुरुनन्दन ॥ अहिंसकैरात्मविद्भिस्सर्वभूतहितेरतैः । भवेत्कृत युगप्राप्तिरीदृशैः कर्मवर्जितैः ॥ निसृष्टकृतयो राजन् देहबन्धेषु निर्मिताः । सात्विकी राजसी चैव तामसी चेति भारत ॥

देहबन्धेषु पुरुषश्रेष्ठः कुरुकुलोद्वह ।

सात्विकः पुरुषव्याघ्र भवेन्मोक्षार्थचिन्तकः ॥ '

इत्यादिना सात्विकजनानामेत्र भगवदैकान्त्यरुचिमत्त्वेन, तदेकानुष्टे प्रतिपाद्य

’ एष ते कथितो धर्मस्तत्वतः कुरुपाण्डव । कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ॥ एवमेत्र महाभागो नारदो गुरवे मम । श्वेतानां यमिनामाह एकान्तगतिमव्ययाम् ॥ व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते । स एवायं मयातुभ्यमाख्यातं प्रशिषा गुरोः ॥ इत्थं हि दुष्करो धर्म एष पार्थिव मा ।

….

यथैक्त्वं तथैवान्ये न भजन्ति विमोहिताः ॥ '

इति वैदिकजनाटतत्वकगनपूर्वकं मोहाचीनमितरजनानुष्ठानमिति वैशंपायनेनं कथनमसङ्गतं स्यात् । यद्यप्यत्राप्यतिशङ्का भवति तदा भारतप्रामा दूरोत्सारितं स्यात् । विप्रलिप्साक्लङ्कितत्वात् । तस्मान्नान्त्रान्यथासिद्धि इति पञ्चरात्रप्रामाण्यं नारायणीयवचनबलात् सिद्धमेत्र । भीष्मपर्वणि च

467

‘ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥

सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः ॥ '

ते भगवतस्तात्वतः शास्त्रविहितमर्यादया पूजनीयत्वमुत्कर्षहेतुत्वेन प्रतिपादनमिति ननोऽपि प्रामाण्यं सिद्धम् । तथा आनुशासनिके श्राद्धपात्रविधौ

‘इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः ।

यतयो मोक्षधर्मज्ञा योगिनश्चरितव्रताः ॥

पञ्चरात्नविदो मुख्यास्तथा भागवताः परे । '

इति पञ्चरात्त्रविदां पङ्क्तिपावनत्वकीर्तनेन तत्प्रामाण्यं व्यञ्जितम् । वाराहे

'

पौरुषं सूक्तमास्थाय ये वजन्ति द्विजास्तु माम् । संहिता जपमास्थाय ते मां पश्यन्ति ब्राह्मणाः ॥’ ‘अलाभे वेदमन्त्राणां पञ्चरात्रोदितेन हि ।

मार्गेण मां प्रपद्यन्ते ते मां पश्यन्ति मानवाः ॥ ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते । शूद्रादीनां न तच्छ्रोत्र पदवीमुपयास्यति ॥ एवं मयोक्तं विप्रेन्द्र पुराकल्पे पुरातनम् । पश्चरात्रसहस्राणां यदि कश्चित् प्रहीष्यति ॥ कर्मक्षये च मां कश्चिद्यदि भक्तो भविष्यति ।

तस्य वेदाः पञ्चरात्रं नित्यं हृदि वसिष्यति ॥ '

एतदुदाहरणे जिह्वाच्छेद इति निषिद्धवेदश्रवणानामपि शूद्राणां तदभिहितस्यसत्यवचनाहिंसादावधिकारत्रत् पश्चरात्त्रश्रवणानधिकृतानामपि तेषां सर्ववर्णानामधिकृत्य विहितेषु चक्राङ्कनादिधर्मेष्वधिकारसंभवेन शूद्रैश्च कृतलक्षणेरित्यनेन विरोधाप्रसक्तेरुपदेष्टृत्वनिषेधकल्पनायोगात् । न च तच्छ्रवणनिषेधेऽपि तद्धर्माधिकारसंभवे शूद्राधिकारधर्मप्रतिपादकत्वेऽपि पञ्चरात्रस्य शूद्रादीनां न

468

तच्छ्रोत्रमिति वचनमुपपद्यत इति वाच्यम् । यथावचनमधिकारकल्पनेन तत्प्रतिपादितमर्यादातिलङ्घीकल्पनाकारीत्यनेन तत्रत्यसर्वधर्माणां शूद्राघिकारिकल्त्रकल्पनाया अप्रसारात् । तद्विहितधर्मेषु शूद्रानधिकारप्रतिपादकत्वेऽपि न तद्विरोधः । उत्सर्गापवादन्यायेन सर्ववर्णसाधारणधर्मातिरिक्त विषयकत्वकल्पनं तत् । एवं च शास्त्रान्तरप्रशंसारूपशास्त्रपरिग्रहबलात् प्रामाण्यं सिद्धम् । एतेन नारायणस्य भ्रमासंभवेऽपि विप्रलिप्सासंभवेन तन्मूलत्वं पञ्चरात्रस्य संभवति । तत् प्रयुक्तम् । परिग्रहबलात्तत्प्रामाण्याङ्गीकारात् । न च साङ्गेषु वेदेषु निष्ठामलभमानश्शाण्डिल्यः पञ्चरात्रं शास्त्रमधीतवानिति वेदनिन्दादर्शनादप्रामाण्यमिति वाष्यम् । न हि निन्दान्यायेन पञ्चरात्रस्तावकत्वेन वेदनिन्दातात्पर्यसिद्धेः । भगवो ध्येयंयजुर्वेदं सामवेदमाथर्वणमित्यारभ्य सोऽहं बायो, मन्त्रविदे वास्मिन्नात्मवदिति भूमविद्या प्रकरणगतवाक्ये तथात्वस्य

वक्तव्यत्वात् । अन्यथा

’ चत्वार एकतो वेदा भारतंवेकमेकतः । समागतैस्सुरर्षिमिस्तुलामारोपितं पुरा ।

महत्त्वात् भारवत्वाच्च महाभारतमुच्यते ॥ '

इति दर्शनात् । भारतस्याप्रमाणत्वप्रसङ्गः । वस्तुतस्तु वेदार्थस्य दुर्ज्ञेयतया तत्सुखावबोधकत्वात् पश्चरात्रस्य चतुर्षु वेदेष्वित्यादिकं प्रतिपादयतीति न

शङ्काशूकावकाशः । अत एव ।

'

वेदान्तेषु यथासारं संगृह्म भगवान् हरिः ।

भक्तानुकंपया सिद्धान् सश्चिक्षेप यथासुखम् || '

"

इति तत्रत्यवचनं दृश्यते । न च मूलाभावादप्रामाण्यम् । मन्वादि - स्मृतिवन्मूलानुमानसंभवात् । एकायन श्रुतिमूलत्वाच्च । जाबाल, बाष्कल माध्यंदिन शाखानामिव एकायनशाखाया अपि देशान्तरेऽवीयमानत्वात् । ऋग्वेदं भगवो ध्येयमित्याद्यारम्य वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यामिति

469

मूमविद्योपक्रमे तदुपादानाच्च । न च ऋग्वेदादिमि: पृथक्कृत्य निर्देशादवेदत्वं शङ्कनीयम् । ब्रह्मविद्याशब्दवाच्यवेदान्तभागस्येव तदुपपत्तेः । न च ब्रह्मविद्याशब्दो ब्रह्मज्ञानपरं सोऽहं मन्त्रविदेवास्मिन्नात्मविदिति तदभाववचनविरोधापत्तेः ।

"

ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणे । पश्चिमे सामवेदः स्यादपर्व चोरारे भवेत् ॥ एकायनीयशाखो मन्त्रान् सर्वासु दिक्षु च । श्रावयेत् पावनान् पश्चादग्निसंस्कारमारमेत् ॥ ततः प्रीतमना नाथस्साक्षात्सब्रह्मसंज्ञितम् । वेदमेकायनं ब्रह्म व्याकर्तुमकुतोभयम् ॥

व्याजहार स सब्रह्ममयं प्रणवमादितः ॥ '

"

इत्यादिकालो तर संहितादिवचनेषु वेदपरत्वेन प्रसिद्धस्यैकायनशब्दस्याप्रसिद्धार्थकल्पनायोगाच्च । अतस्तस्य वेदत्वस्यापोतुमशक्यत्वात् तन्मूलत्वात्, पञ्चरात्रस्य प्रामाण्यं दुर्वारम् । अत्यार्थस्य विस्तरस्तु श्रुतप्रकाशिकायामनुसन्धेयः ।

नन्वेक्मपि न पश्ञ्चरात्रं प्रमाणमिति निर्णेतुं शक्यम् । कूर्मपुराणे

’ एवं संचोदितो रुद्रो माधवेन मुरारिणा ।

चकार मोक्षशास्त्राणि केशवोऽपि शिवेरितः ॥ कापालं लागुडं शास्त्रं भैरवं पूर्वपश्चिमम् । पाश्चरात्रं पाशुपतं तथान्यानि सहस्रशः । बुद्धश्रावकनिर्बन्धाः पाञ्चरात्रविदो जनाः ॥

कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः । यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ॥

न तस्य तद्भवेच्छ्राद्धं प्रेत्येह चैवतत्फलम् ॥’

470

इत्यादिवचैनस्तस्य मोहशास्त्रत्वादिप्रतिपादनात् । ननु भारते तत्प्रं समर्थितमिति तद्विरोधः स्यादिति चेन्न । अनुष्ठेयांशेषु कुण्डगोलकस्त्री वेदानधिकृतविषयतया प्रामाण्यं वैदिकानघिकारिवर्णनविषये श्रतियुक्तिस्व विरुद्धविषये चाप्रामाण्यमिति व्यवस्थोपपत्तेः । इयं च व्यवस्था कौम तत्र हि -

’ स तेषां मायया जातं गोवधं गौतमो मुनिः । केनापि हेतुना ज्ञात्वा शशापातीव कोपनः ॥

भविष्यथ यीबाह्या महापातकि मिस्समाः ॥ '

इत्यादिना वेदबाह्यत्वेन गौतमशप्तान् प्रस्तुत्य

’ सर्वे संप्राप्य देवेशं शङ्करं विष्णुमव्ययम् ।

अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सेक्काः ॥ '

इत्यादिना शिवकेशव सन्निधौ तेषां वैदिकमन्त्रैः स्तोत्रेऽनधिकारात् प्रबन्धैः स्तुतिपूर्वकं गतिप्रार्थनामुपन्यस्य

’ तस्माद्वै वेदबाद्यानां रक्षणार्थं च पापिनाम् । विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥

एवं संचोदितो रुद्रो माधवेन मुरारिणा ।

चकार मोहशास्त्राणि केशवोऽपि शिवेरितः || '

इत्यादिना वेदेबाह्यत्वेऽप्यन्तःकरणशुद्धिमतां रक्षणार्थं वैदिकत्वेऽपि चित्तानां विमोहनार्थं च शिवकेशवाम्यां पाशुपतपश्चरात्रशास्त्राणि निर्मि श्रुतम् । कुण्डगोलकादीनां पञ्चरात्राधिकारोऽपि कौर्मे दर्शितः ।

‘अयांशस्सात्वतो नाम विष्णुभक्तः प्रतापवान् ।

महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ स नारदस्य वचनाद्वासुदेवार्चने रतः ।

शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥

471

तस्य नाम्ना तु विख्यातं सात्वतं नाम शोभनम् । प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥ '

इन पचराते स्त्रीशूद्राधिकारस्त्रीकरणमुखमुपक्रोशं प्रस्तुत्य भागवते वर्णितः

’ तेनोक्तं सात्वतं तन्त्रं यत् ज्ञात्वा मुक्तिभाक् भवेत् ।

यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥ '

इति पञ्चरात्रप्रविष्टस्यापि क्रमेण वैदिकमार्गावाप्तिद्वारा श्रेयः प्राप्तिरित्युक्तम् ।

बासिष्ठ - तत्र हि शाण्डिल्यं प्रति भगवद्वचनम् -

’ मत्तन्त्राश्रयणेनैव मत्पूजा च कृता स्वया ।

तया न प्रीतवानस्मि तब शाल्य मे प्रियः ॥ कुमार्गेणापि शाण्डिल्य कृता पूजा मम त्वया । अतः कालेन महता वेदमार्ग गमिष्यसि ॥ ’ इति ।

ये तु पञ्चरात्रमार्गेण विष्णुं प्रपन्ना अपि प्राचीन शापदोषेण शिवनिन्दादिषु प्रवर्तन्ते तेषामाकल्पं निरय एव न तु भवान्तरेऽपि वेदमार्गप्राप्तिः । तदुक्तं कौमें ।

4

एक्मुक्त्वा तु विप्रर्षिश्शशापेश्वरविद्विषः । समागतान्ब्राह्मणांस्तान्दक्षसाहाय्यकारिणः || यस्माद्बहिष्कृता वेदा भवद्भिः परमेश्वरः । विनिन्दितो महादेवः शङ्करो लोकवन्दितः ॥ भविष्यथ त्रयीबाह्याः सर्वेऽपीश्वर विद्विषः ॥ निन्दन्तो मैश्वरं मार्गे कुशास्त्रासक्तमानसाः ॥ मिथ्याघीतसमाचारमिथ्याज्ञानप्रलापिनः ।

प्राप्य घोरं कलियुगं कलहैः कलिपीडिताः ॥472

त्यक्त्वा तपोवनं घोरान् गच्छध्वं नरकान्पुनः । भविष्यति हृषीकेशः स्वाश्रितोऽपि पराङ्मुखः ॥ '

इति पुष्करप्रायश्चित्तपापापादितवैदिकमार्गबहिर्भावानामपि तन्त्रेष्व विकारः

पुराणे दर्शितः ।

‘श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयं गतः ।

क्रमेण श्रुतिसिद्धयर्थं मनुष्यस्तन्त्रमाश्रयेत् ॥

धर्मशास्त्रे पुराणे च प्रोकं हि मरणान्तिकम् । प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् ॥ भयदुर्बलचित्तानां मरणे जायते भृशम् ।

तेषामेवाभिरक्षार्थं खल्वहं तन्त्रमुक्तवान् ॥’ इति ।

’ पाञ्चरात्रं भागवतं तन्त्रं वैखानसामिधम् । वेदष्टान्समुद्दिश्य कमलापतिरुक्तवान् ॥ '

इति च । तस्माद्भारतादिषु पञ्चरात्नप्राशस्त्यवचनान्यधिकारि विशे तत्प्रामाण्यव्यवस्थापनपराणीत्युन्नीयते ।

यत्तु भारते

‘भविष्यति प्रमाणं वै एतत् वृद्धानुशासनम् । '

इति पचरासं प्रस्तुत्य वचनं तत्तु कूर्मपुराणादिगतकलिदोष कीर्तनप्रव

कुर्वन्ति चावताराणि ब्राह्मणानां कुलेषु च । दधीचिशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥

निन्दन्ति च महादेवं तमसा विष्टचेतसः । इत्यादिवचनैर्येषां कलौ प्राचुर्यमुत्तरे || '

सर्वेऽपि वैदिकान्प्रति वस्तुतोऽप्रमाणमपि प्रमाणत्वेन ग्रह तस्मिन्युगे वैदिकमार्गप्रच्युति प्राचुर्याचेऽपि तदूग्रहीष्यन्तीत्येतत्परम्

473

बाफलरक्ततादिवत् भाविप्रामाण्यपरम् । पूर्वमप्रमाणस्य पश्चात् प्रमाणत्वादिति न कश्विद्विरोधः । किञ्च स्कान्दे पञ्चरात्रे च कापाले तथा कालानुखेऽपि च ।

श्रद्धया दीक्षया यूयं भवन्तु ब्राह्मणाधमाः । '

इति पञ्चरात्रस्य तदुक्तदीक्षाया श्वावैदिकत्वप्रतिपादनेन तस्य मोहशास्त्रत्वमङ्गीऋणीयम् । अतः पञ्चरात्रप्रामाण्यमालूनविशीर्णमिति - अत्र प्रतिविधीयते । न यावदेतानि वचनानि पञ्चरात्रस्याप्रामाण्यं साधयितुं शक्नुवन्ति । परस्परविरोधात् ।

न ह्यधिकारि विशेषहितावहत्वप्रतिपादकववनानां मोहशास्त्रत्वप्रतिपादकवचनानां चाविरोधसंभत्रः । न वाघिकारिविशेषे हितावहत्वप्रतिपादकशाखान्तर। पर्यालोचनदशायां वैदिकानामधिकारप्रतीत्या तदादाय मोहशास्त्रत्ववर्णनमुपपद्यत इति वाच्यम् । तादृशभ्रमजननमादाय मोहशास्त्रत्ववर्णनस्यातिप्रमुञ्जकत्यात् । न चावैदिकानुष्ठेयाना वैदिकानुष्ठेयत्वप्रतिपादनान्मोहशास्त्रत्वमधिकारिविशेषत्वमधिकृत्य प्रामाण्येऽप्युपपन्नमिति वाच्यम् । पश्वरात्त्रप्रतिपाद्यसर्वधर्माणां तन्त्रवैदिकैरेवानुष्ठेयत्वप्रतिपादनस्यासिद्धेः । केषां चित्तदनुष्ठेयत्वप्रतिपादनेऽपि तदंशे मोहशास्त्रत्वमेभिर्वचनैः प्रतिपाद्यत इति पर्यवसानेन तच्छास्त्रमात्रस्य मोहशास्त्रत्वप्रतिपादकवचनानां सङ्कको वावश्यंभावेन पञ्चरात्रप्रामाण्यप्रतिपादकवचनैरपि तत्सङ्कोचस्यैव युक्तत्वेन तत्प्रामाण्यस्य निरर्गलं प्रवृत्तेः । न च सर्वांशप्रामाण्याङ्गीकारे मोहात्यवर्णनं न कथचिदुपपद्यत इति वाच्यम् । पञ्चरात्रशास्त्रे स्वप्रतिपाद्यधर्माणां सर्वोत्तमत्वप्रतिपादकार्थवादमात्रपर्यालोचनया वैदिककर्म श्रद्धायां चलचित्तानां शैथिल्यजननात्तदनुकूलत्वेन च तस्य तदादाय मोहशास्त्रत्ववर्णनापरत्वात् । न च तत्तत्प्रतिपाद्यधर्मातिशयप्रतिपादकार्थवादजनितधर्मान्तर श्रद्धावैकल्यमादाय मोहशास्त्रत्ववर्णनं प्रमाणान्तरापर्यालोचनादशोत्पन्नम्भ्रमहेतुत्वस्यापि सर्वसाधारणत्वेन त्वत्पक्षे ऽप्यनुयोगस्य तुल्यत्वात् । न च सामान्येन प्रवृत्तवचनेष्वापातप्रतीतिजननेऽपि वैदिकजनानुष्ठेयत्वप्रतिपादकवचनेषु तात्पर्यपर्यालोचनानन्तरोत्पन्नभ्रमहेतुत्वमादायैव मोह-

F-60

,

474

शास्त्रत्वमुपवर्ण्यत इति न प्रसङ्गतौल्यमिति वाच्यम् । वेदप्रोक्तदुष्करधर्मानुष्ठानाशक्तानां पुरुषाणां स्वप्रतिपाद्यधर्मविषयकप्रवृत्ति जननोपयोगि विश्वासजननार्ष तत्प्रतिपाद्यमिति त्वद्रीत्या वैदिकेतराधिकारप्रतिपादकव चनप्राबल्येन तात्पर्यनिर्णयसंभवात्तात्पर्यनिर्णयानन्तरभ्रमजनकत्वासिद्धेः । तस्मात् स्वारस्यत्यागातिप्रसङ्गयोः पक्षद्वयेऽपि तौल्येन विशेषोक्त्ययोगात् (जै. सू. 92 - 1 ) । त्वपक्षेऽपि मोहशाखत्वत्र चनं सङ्कुचितमेवेति प्रामाण्यप्रतिपादकवचनबलादपि तत्सङ्कोच एव न्याय्यः । न तु मोहशास्त्रत्वोक्तिबलात् प्रामाण्यप्रतिपादकभारतवचनसङ्कोचः दृष्टः । सङ्कोचवचनानामेत्र सङ्कोचस्य युक्तत्वेन तादृशानां तादृशवचनैसङ्कोवायोगात् । अत एव संस्थिते संस्थितेहनि गृहपतिर्मृगयां यति समान्मृगान्दन्ति तेषान्तरसमया सवनीयाः पुरोडाशा इति ( कै स्. 8-8-28) वाक्ये पुरोडाशानलङ्कुर्वित्यत्र प्रकृतौ दृष्टलक्षणा-

गीतीनां सामनामताधिकरणम्-

नवमेद्वितीय पादस्य प्रथमाघिकरणे ( गीतीनां सामनामता प्रदर्शकम् )

प्रथमवर्णकमारचयति

सामान्यवाची सामशब्दः

विशेषवाचिनो बृहद्रथन्तरादिशब्दाश्च

गानमात्रे वर्तन्ते, न तु गानविशिष्टायामृचि इत्ययं निर्णयः सप्तमस्य द्वितीयपादे सिद्धः सोऽत्र वक्ष्यमाण विचारोपयोगितया स्मार्यते । (जै. सू. 9-2-1)

सवनीयानां मांसमयताधिकरणम् -

षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम् । तत्र श्रूयते । संस्थितेऽहनि गृहपतिर्मृगयां याति स यान्मृगान् हन्ति तेषां तरसाः सवनीयाः

7

पुरोडाशाः भवन्ति । इति । तत्र यथा नवनीतं सर्वेष्वंगेषु निविष्टं तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते इति चेत् ।

475

वृत्तिकपुरोडाशपदस्यैव लक्षणाभ्युपगता । न त्वदृष्टलक्षणसवनीयशब्दस्येति नवनीयानामेव तरसत्वमिति शेषलक्षणेऽभिहितम् । अत एव जननरूपनिमित्तानन्तरं (जै. सू. 4 - 8 - 19 ) कर्तव्यत्वेन प्राप्ता जातेष्टिः प्रयोजनरोधादुत्कृष्टा जातकर्मानन्तरं कर्तव्यत्वेन प्राप्ताशौचकालाद्यङ्गोपसंग्रहाय पुनरुत्कृष्टा सत्याशौचविगमे पौर्णमास्यादिकाले कर्तव्येति प्रयुक्तिलक्षणेस्वतम् । कथं तर्हि भवतां शैवपुराणानामप्रामाण्योक्तिरुपपयेत । श्रुत्याद्यनुमारितात्पर्यनिर्णयानन्तरं तेषां भ्रमजनकत्वाभावादिति चेन्न । तात्पर्य हि दर्थप्रतीतीच्छयोश्च्चरितत्वं, तञ्च न श्रुत्याद्यानुगुण्येन तेषामस्तीति तत्स्वरूपेण ऋत इति शास्त्रादवगम्यते । न च पञ्चरात्त्रस्य वैदिकधर्मप्रतिपादकत्वतात्पर्यग्राहकतया किचित्प्रमाणमस्तीत्यभ्युपगतम् । येनावैदिकाधिकारप्रतिपादकवचनानुसारेण पश्चरात्रवचनानि न निन्येरन् । तस्मात् तात्पर्यपर्यालोचनानन्तरभाविभ्रमहेतुत्वस्यापि तामसपुराणेषु सच्चात् पश्चरात्रे तदभावाद्वैषम्यमस्तीति पञ्चरात्त्रस्य मोहशास्त्रत्वोतिरस्वरसैवेति तादृशमोहशास्त्रचोक्तिर्न प्रामाण्य-

मैवम् - तदाहि ये पुरोडाशास्ते तरसाः इति वचनव्यक्तौ व्यत्रहितान्वयः स्यात् । तरस शब्द पुरोडाश शब्दयोर्मध्ये सवनीय शब्देन व्यवधानात् । इह तु तरसाः सवनीया:, इति संनिधिः श्रयते । तथा सति ये सवनीयास्ते तरसाः इत्यनेन संनिष्यनुगृहीतेन वाक्येन मांसत्वं सवनीय पुरोडाशेष्वेव नियम्यते । (जै. सू. 8-8-28 )

जातेष्टिन्यायाधिकरणम् -

यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म सन्निहितं भवति, तथाऽप्यशुचिना पित्रा ऽनुष्ठीयमानमङ्गविकलं भवेत् । जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिः शास्त्रेणैव दर्शिता । ततो मुख्य संनिघेरवश्यं बाघितत्वाच्छुद्धि लक्षणाङ्गवैकल्यं वारयितुं आशौचादूर्ध्वमिष्टिं कुर्यात् । (जै. सू. 4-8-18 )

476

प्रतिपादक वचनविरोधिनीति निष्कण्टकभारत वचनबलात्प्रामाण्यं सिद्धयतीति दिक् ।

ननु दुष्टसङ्कोचवचनत्वं प्रामाण्यप्रतिपादकवचनानामप्यस्ति । कुण्डगोल्कस्त्रीशू वेदभ्रष्टाधिकारिकत्वप्रतिपादकवचनबलात् सङ्कोचावश्यंभावात् । अतो मोहशास्त्रप्रतिपादकवचनैः प्रामाण्यप्रतिपादकवचनानां न बाध इति कथं निर्णव इति चेन्न ।

’ अथांशः सात्वतोनामा विष्णुभक्तः प्रतापवान् ।

महात्मा दाननिरतो धनुर्वेदविदां वरः ॥

स नारदस्य वचनाद्वासुदेवार्चनेरतः ॥ ’ इति ।

कौर्मत्रचने, होतृत्वदाननिरतत्वनारदाघिगतज्ञानवत्त्वाद्युपक्रम श्रुतकर्तृगुणकीर्तनस्वारस्यानुसारेण कुण्डगोलदिभिः श्रुतमित्यस्य तैरपि श्रुतमित्यभिप्राय कल्पनात् कुण्डादीनां हितावहमित्यस्यापि तथैव कल्पनात् नारदस्य वचनाच्छास्त्रं प्रवर्तयामासेत्यन्वयेऽपि महामुनेर्नारदस्यावैदिकाधिकारप्रवर्तकत्वस्य असमञ्जसत्वाच्च । ’ सात्वतं नाम शोभनं प्रवर्तन्ते महाशास्त्र मिति शोभनत्वमहाशास्त्रत्व कीर्तनं च कुण्डगोलकमा त्राधिकारिकत्वेऽनुपपन्नम् । महत्त्वं हि शास्त्रस्य मुक्तिसाधनीमूतज्ञाननिष्पादकत्व एव संगच्छते । शोभनत्वं चासङ्कुचितदुःखासंमिन्नसुखसाधनसंपादकत्व एवोपपद्यते । भागवते च - ’ यद्ज्ञात्वा मुक्तिभाग्भवेदित्युक्तषा वैदिकानामधिकारप्रतीतेः । यत्र स्त्रीशूद्रदासानामित्यस्यापि तन्मात्राघिकारिकत्वप्रतीतिः । अपशूद्राधिकरणे हि अध्ययनगृहीतस्वाध्यायनिष्पभब्रह्मज्ञानानामेवोपासनाधिकारः प्रपञ्चितः । न च परंपरया मुक्तयुपयोगमादाय तथोक्तिरुपपद्यत इति वाच्यम् । धर्मप्रतिपादकशास्त्रमात्रस्य क्रमेण मुत्युपयोगित्वस्य सत्त्वेन विशिष्योक्तिवैयर्थ्यात् । क्रममुक्तिफलकत्वस्य ’ मन्त्राश्रयणेनैव मत्पूजा च कृतात्वये ‘त्युपक्रम्य ’ अतः कालेन महता - वेदमार्ग गमिष्यसीत्युक्तया केवलतन्त्रमार्गविषयत्वप्रतीत्या वैदिकधर्मानुष्ठान पूर्वकतान्त्रिकधर्मानुष्ठाननिष्टानां मुक्तयविरोधेन भागवतवचनसङ्कोचायोगात् ।

477

यत्तु

’ यावत्कर्म खगृह्योक्तं न्यूनं वाघिकमेव वा ।

तस्य तावति शास्त्रार्थे कृते सत्र कृतं भवेत् ॥ '

इति वचनविरोधात् न वैदिककर्मप्रयोगमध्ये तान्त्रिककर्मानुष्ठानसंभवः । वैष्ण-

1 कर्तव्यानां तान्त्रिकहोमानां स्वगृह्यो काग्निषु होमासंभवाच्च । नापि वैदिकधर्मानुष्ठानानन्तरं वैष्णवाग्निसंपादनपूर्वकं तान्त्रिकधर्माणां प्रयोगभेदेनानुष्टानसंभवः । वैदिकानां तान्त्रिकधर्मानुष्ठाने प्रत्यवायाभावादिति तन्न । कर्मप्रयोगनव्येऽनुष्ठेयत्वेन भगवच्छास्त्रविहितानां तन्मध्ये वैदिकप्रयोग समाप्त्यनन्तरमनुष्ठेयत्वेन विहितानां च तदनन्तरं मर्यादानतिलङ्घनेनानुष्ठानसंभवात् । यावत्कर्मसु गृह्येोक्तमित्यस्य पुरुषबुद्धिकल्पनया धर्मान्तरसाङ्कर्येणानुष्ठानमात्रनिषेधपरत्वात् वचनेनाहत्य किश्चित्प्रयोगमध्ये विहितानां च वचनबलादेवानुष्ठाननंभवात् गृह्यान्तरोक्तधर्ममात्रनिषेधपरत्वोपपल्या व यावत्कर्मेति वचनस्य सर्वनाधारणं भगवच्छास्त्रविहितानां धर्माणां सर्वत्रावासंभवाच्च । स्वस्वगृह्याग्निषु वैदिककर्मणः क्रियमाणत्वेऽपि तस्यैव वैष्णवत्वसंपादनसंभवात् तन्मध्ये भगवच्छास्त्रोक्त धर्मानुष्ठानाविरोधः । तद्धि ज्ञानविशेष विषयत्वमात्ररूपतया गृह्याग्निस्वरूपप्रच्यवनेनैव संभवत्सर्वाश्रमसर्ववर्णसाधारण्येन विहितानां च धर्माणामननुष्ठाने प्रत्यवायस्य भगवच्छास्त्रे श्रवणेन प्रत्यवायाभावान्न तान्त्रिकधर्मानुष्ठानं वैदिकैः कर्तव्यमित्यपि परास्तम् । न च तत्र प्रकरणादिपर्यालोचनया तन्त्रदीक्षायुक्तब्राह्मणादिमात्रपरो ब्राह्मणादिशब्द इति युक्तम् । देवालयाथर्चनोपयुक्तदीक्षाविधानप्रकरणातिरिक्तस्थलेष्वपि सर्ववर्णाश्रमसाधारण्येन विधानात् । अन्यथा शैत्रपुराणाद्युक्तशिवार्चनादिधर्माणां शिवद्विजविषयत्वप्रसङ्गात् । अतः क्रममुक्तिफलकत्ववचनस्य केवलतन्त्रमार्गनिष्ठविषयत्वेन न भागवतस्थस्य " यदूज्ञात्वे “त्यस्य वासिष्टङ्गवचनात् सङ्कोचः । यतु ये तु पञ्चरात्नमार्गेण विष्णुं प्रपन्नाः अपि प्राची नदधीच्या दिशापदोषेण शिवनिन्दादिषु प्रवर्तन्ते । तेषामाकल्पं निरय एवेति तदिष्टापत्त्यैव परिहृतम् ।

478

ननु तर्हि शिवनमस्कारादित्यङ्गादिकं भवदीयानां कथमुपपद्यत इति चेत् न, ’ नान्यं देवं नमस्कुर्यात् ’ ’ येऽनन्यदेवताभत्तया’ इत्यादिवचन-

सिद्धत्वेन तदुपपत्तेः ।

‘ब्रह्माणं शितिकण्ठं च यावान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम् ॥

इति वचनं च तत्र प्रमाणम् । अस्य वचनस्य परोक्तार्थान्तरनिराकरणप्रकार: प्रथमपरिच्छेदे प्रपश्चितः ।

नन्वेवं “ सर्वधर्मान् परित्यज्ये ‘ति वचनबलात् सर्वधर्मपरित्यागोऽपि कर्तव्यः स्यात् । न च सर्वधर्मपरित्यागस्य सागरतरणवदशक्यानुष्ठानतया न विधानाईतेति वाष्यम् । तथासति स्वखशाखान्तर्गत “देवव्रत” “शतरुद्रीया”ध्ययनकालीनवाचिकनमस्काराणां वर्जनीयतया वैदिकानां शिवनमस्कारत्यागस्यापि विधानानर्हत्वमिति तुल्यत्वात् । न च कायिक एव नमस्कारो न नमश्शब्दोच्चारणमिति वाच्यम् । लोके वाचिकनमस्कारप्रसिद्धेर्निरालम्बनत्वापातात् । ’ नमस्ते हरसेशोचिष इत्याह नमस्कृत्य हि वसीयां समुपचरन्तीति’ वैदिकलिङ्गविरोधप्रसङ्गाच्च । अतो न देवतान्तरनमस्कारनिषेध उपपद्यत इति चेन्न | प्रपन्नमेवाधिकृत्य ’ मनीषी वैदिकाचारं मनसापि न लङ्घये दिति विधानेन तद्विरोषप्रसङ्गेन सर्वधर्मपरित्यागस्य विधानासंभवात् । विशिष्टविधिगौरवप्रसङ्गाच्च । उपायान्तरनैराकाङ्क्षयानुवादेन प्रपत्तिमात्त्रविधायकत्वस्यैव वक्तुं युक्तत्वात् । विशिष्टविधानाङ्गीकारेऽपि प्रमाणविरुद्धार्थान्तरविधानसंभवस्य आचार्यपादैः प्रपश्चितत्वेन न तस्य सर्वधर्मत्यागविधायकत्वमिति न सर्वधर्मपरित्यागकर्तव्यता प्रसज्यते । न चैवं शिवनगरकारत्यागोऽपि न विधानाहः । शतरुद्रीयाध्ययनविधायकनित्यखाध्यायाध्ययनप्रापकवाक्यविरोधादिति वाच्यम् । नित्यकर्मसंबन्धिभिन्नतन्नमस्कारतत्पूजादिनिषेधपरत्वसंभवात् । न च नित्यं सदा यावदायुर्न कदाचिदतिक्रमेदिति शिवपूजायाः नित्यत्वप्रतिपादकत्र चनबलान्नित्यत्वेन शिवार्चनं वैष्णवानामनिवार्य स्यादिति वाच्यम् । महादेवं महापुरुषं

479

अच्येदिति वचनेन विकल्पप्रतिपादनात्तत्र च नान्यं देवं नमस्कुर्यान्नान्यं देव जयेदिति वैष्णवस्य देवतान्तरपूजनादिनिषेधवचनानुसारेण वैष्णवातिरिक्तविषय स्व । तन्नित्यत्वस्य समर्थनीयत्वात् । न च स्कान्दपुराणे वैष्णवान्प्रत्येत्र शेवार्चननित्यत्वं प्रतिपन्नमिति न तद्वयतिरिक्तविषयत्वमिति वाच्यम् । तस्यैकान्तित्र्यतिरिक्तविषयकत्वेऽप्युपपत्तेः । अन्यथा विकल्पस्या गतिकत्वप्रसङ्गात् । अतो अचनिकशिवनमस्कारत्यागो न शिवनिन्दापादकः ।

"

यत्तु भविष्यति प्रमाणं वै इत्येतन्न भाविप्रामाण्यपरं पूर्व प्रमाणस्य पश्चात् प्रमाणत्वायोगात् । किन्तु वस्तुतोऽप्रमाणमपि प्रमाणत्वेन ग्रहीष्यन्ति इत्येतत् परमिति तन्न भविष्यति प्रमाणमित्यस्यानुष्ठान सद्भावप्रतिपादननात्पर्येणानुष्ठानशिरस्कत्वस्य प्रामाण्ये तेन प्रतिपादनात् । तस्मात्पश्चरानाप्रामाण्यप्रतिपादकतया त्वदुदाहृतानां वचनानां तदप्रामाण्यसाधना समर्थत्वादुदाहृतमहाभारतादिवचनैस्तत्प्रामाण्यं निष्कण्टकं सिद्धयतीति दिक् ।

वस्तुतस्तु -’ इतिहासपुराणं पञ्चममितिहासपुराणाभ्यां वेदं समुपबृंहयेदित्यादिष्वितिहासशब्दस्य पूर्वनिपातबलादभ्यर्हितत्वावगमेन पुराणापेक्षया प्रबलत्वान्न पुराणवचनानि भारतसिद्धप्रामाण्यबाधनक्षमाणि । कौर्मादीनां तामसत्वाश्च न भारतविरुद्धार्थ साधयितुं प्रभवन्ति । न च तत्प्रामाण्येऽप्यधिकारि विशेषविषयकं तदिति वक्तुं शक्यम् । पचरात्रधर्माणां अश्वमेधानुष्ठानपुरुषानुष्ठितत्वप्रतिपादनादि विरोधापातातदनुष्ठानस्य मोह निबन्धनत्वप्रतिपादनविरोधापाताश्च । तस्मान्महाभारतादिप्रमाणबलात् पञ्चरात्रप्रामाण्यं वैदिकैरवश्यं स्वीकरणीयमिति तदनुसारित्वेऽपि न वैष्णवधर्मशास्त्रस्यावैदिकाधिकारिकत्वमिति तदीयत्रचनबलाद्विष्णोरादित्यमण्डलान्तर्वर्तित्व गायत्री प्रतिपाद्यत्व योस्सिद्धिरविकलेत्यन्तरादित्य विद्या भगवत्परेति सिद्धम् ।

एवं गायत्रीविद्यापि भगवत्परा । तथाहि गायत्री वा इदं सर्वं भूतं यदिदं किश्चेति वाक्ये कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्र यथा अग्निहोत्रशब्दः प्रयुज्यमानस्तत् सादृश्यविशिष्टानुष्ठानार्थः तथा गायत्रीशब्दो

480

"

ब्रह्मणि प्रयुज्यमानस्तत्सादृश्यानुसन्धानार्थ इति ब्रह्मणो गायत्री सादृश्यानुसन्धानरूपविद्यास विधीयते । न चात्र प्रसिद्ध गायत्र्येव किमिति नोच्यत इति वाच्यम् । तस्याः भूतपृथिवीशरीर हृदयाख्यपादचतुष्टयसंबन्धाभावात् । तस्या हि भूतं यदिदं किचेति मूतपादवत्त्वं, ’ या वै सा गायत्री इयं वात्र सा येयं पृथिवीति’ पृथिवीरूपपादवत्वं, या वै सा पृथिवी इयं वावसा यदिदमस्मिन् पुरुषे शरीरमिति शरीराख्यपादवत्त्वं ’ ’ यद्वै तत् तत् पुरुषे शरीरं ’ ’ इदं वा एतत् यदिदमस्मिन्नन्तः पुरुषे हृदय’ मिति हृदयाख्यपादवत्त्वं च प्रतिपाद्य सैषा चतुष्पदा षड़िधा गायत्रीति भूतादिपादचतुष्टयसंबन्धः प्रतिपादितः । उक्तं च सूत्रकृता - ‘छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदा तथाहि दर्शनं, ’ ’ भूतादिपादव्यपदेशोपपत्तेश्चैत्र’मिति ब्रह्मणो गायत्री सादृश्यं च ब्रह्मण उतपादचतुष्टयवत् गायत्र्याश्च इन्द्रः शचीपतिः । बलेन पीडितः । दुश्चयवनोवृषा । समत्सु सासहिरिति पादचतुष्टयवत्वाच्च । सैषा विद्या भगवद्विषयिणी । उक्तपादचतुष्टयवत्त्व जनित परिच्छिन्नत्वशङ्कानिराकरणाय प्रवृत्ते तदेतदृचाभ्युक्तं ’ तावानस्य महिमा अतो ज्यायांश्च पुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीत्यु’ तर सन्दर्भे पुरुषसूक्तार्यप्रत्यभिज्ञानात् पुरुषसूक्तस्य भगवत्परत्वं प्रथमपरिच्छेदे प्रपचितम् । अत इयं गायत्री विद्या भगवनिष्ठेति दिक् । तथा प्रतर्दन विद्यापि भगवत्प्रवणा । इन्द्रशरीरकपरमात्मोपासनपरत्वेन प्राणस्तथानुगमादित्यधिकरणे निर्णीताया स्वधर्मानुवाके इन्द्रस्यात्मानं बहुधा चरन्तीमितीन्द्रात्मत्वेन प्रतिपन्ने पर्यवसानासम्भावात् । तस्यानुवाकस्य भगवत्परत्वं तु समुद्रे अन्तः कबयो विचक्षत इति समुदशायित्व लिङ्गात् त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितमित्यव लक्ष्मीपतित्वलिङ्गावगत भगवद्विषयता उत्तर नारायणानुवाक प्रत्यभिज्ञानात् । तनत्वष्टाविदधद्रूपमेतीति श्रवणात् । इन्द्रं निचिक्युः परमे व्योम न्नित्यम्मस्यानुवाकार्यस्य सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमेव्योमन्निति वाक्यार्थस्यानन्त शब्दामिधेयस्य प्रत्यभिज्ञानाच्च । विपश्चितमित्यत्र च सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेत्यर्थः प्रत्यभिज्ञाप्यते । न च सत्यं

481

ज्ञानमनन्तमित्यत्र प्रथमान्तत्वेनानन्तशब्दरूढ्यर्थाविवक्षेति शक्यं वक्तुम् । वेदेत्यनेनान्वितत्वेन द्वितीयान्तत्वात् । यथा चैतत्तयोपपादितमथर्व

शिरोविचारे

सञ्च्चासच्चैव गोविन्दस्तस्मात्सत्यः सतां मतः ।

ही नामनिर्वचना व्यायवचनात् सत्यशब्दस्यापि भगवत्परत्वेन ततोऽपि सत्यं ज्ञानमित्यस्य भगवत्परत्वम् । तदेवं स्वर्णधर्मानुत्राकस्य भगवत्परत्वं तवचेन्द्रान्तर्यामित्वस्य भगवति कीर्तनात् प्रतर्दनविद्योपास्यो भगवानिति सिद्धम् । तथा शाण्डिल्यविद्यापि भगवदुपास्यतालङ्कृता । मनोमयत्वादि गुणविशिष्टत्य तत्नोपास्यत्वात् । मनोमयत्वं हि विशुद्ध मनोप्राह्यत्वम् । तच्च हृदामनीषा मनसामिकुप्तो य एनं विदुरमृतास्ते भगवन्तीत्यम्भस्यानुवाके भगवद्धर्मतयात्रगतम् । भारूप इत्येतदादित्यवर्णं तमसः परस्तादित्येतत्प्रत्यभिज्ञापकम् । ‘एष आत्मान्तर्हृदयेऽणीयान् मीहेर्वायवाद्वा सर्वपाद्वाश्यामक तण्डुलाद्वा । एष आत्मान्तर्हृदये ज्यायान् पृथिवी ज्यायानन्तरिक्षाज्ज्यायानेभ्यो लोकेभ्य इति यस्मान्नाणीयो न ज्यायोऽस्तिकश्चिदित्येतत् प्रत्यभिज्ञापकं, सर्वतोज्यायस्त्वश्रवणं च अतो ज्यायांश्च पुरुष इत्येतत् प्रत्यभिज्ञापयति ।

मनु मनोमयत्वादिकं नोपास्यकोव्यन्तर्गतव्युत्पत्तिशिष्ट सर्वात्मकत्वावरोधात् । सर्वं खल्त्रिदं ब्रह्म तज्जलानीति शान्त उपासीतेति ह्युपासनविधायकमितिचेन्न । सर्वात्मकस्योत्पत्ति शिष्टत्वसिद्धेः तज्जत्वतल्लत्वतदत्वैः सर्वमिदं ब्रह्म खल्विति प्रसिद्धवन्निर्देशेन छुपा समविध्येकवाक्यत्वं निधार्यते, सर्व खल्विदं ब्रह्मेत्यस्य न ह्युपासीत खल्विति वचनव्यक्तिर्घटते ।

नन्वेवमुपास्य समर्पकपदाभावात् कथमुपासनाविधिरुपपयेतेति चेन्न । उपासीतेत्यस्योपासनाकाङ्क्षायां पूर्ववाक्योपस्थित ब्रह्मण उपास्यत्वेनान्वयसंभवात् । नचैतावता सर्वात्मकत्वमप्युपास्यतयान्वेति ब्रह्मणः सर्वात्मकत्वेन यत्रकचित् क्रियमाणस्यापि द्वेषादेरात्मद्वेषपर्यवसन्नत्वेनायुक्तत्वात् । शान्तः सन्नुपासीतेति शान्तिहेतुतया प्रतीयमानस्य तस्योपासनान्वयि वे प्रमाणा-

F-61482

भावात् । तस्मान्मनोमयत्वादेरुपास्यकोट्यन्तर्भावात्ततो भगवत उपार सिद्धयत्येव । सर्वात्मकत्वमपि भगवद्धर्म इति प्रथमपरिच्छेदे प्रपश्चितं तस्माच्छाण्डिल्य विद्या भगवत्परेति सिद्धम् ।

एवमुपकोसलविद्यापि भगवत्पर्यवसायिनी ।

’ य एषोऽक्षिणि पुर

दृश्यते एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्मेत्यत्र तद्विद्योपास्ये पुरुषः श्रवणात्तस्य च भगवद साधारण्यं प्रथमपरिच्छेदे प्रतिपादितम् । कं ब्रह ब्रह्म यद्वावकं तदेवखमित्यत्र यदेष आकाश आनन्दो न स्यादिति आनन विषयकवाक्य प्रत्यमिज्ञानाच्च भगवत्परत्वम् । आनन्दमयश्च नारायणः । ज्ञानमनन्तं ब्रह्मेत्युपक्रमात् सयश्चायं पुरुषो यश्चासावादित्ये स एक दिव्यान्तर्वत्यैक्यप्रतीतेश्च । अपि च बृहदारण्यके इन्धो वै नामैष यं दक्षिणेऽक्षिणि पुरुषः तमुवा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परं प्रिया इवहि देवाः प्रत्यक्षद्विषः । अथैतद्वामेऽक्षिणि पुरुषरूपमेषास्य विराट् तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाश इति श्रूयते दक्षिणाक्षिस्थः पुरुषोत्तम एव । ’ य एष एतस्मिन्मण्डले पुरुषः, य. दक्षिणेऽक्षिन्निति दक्षिणाक्षिस्थस्यादित्यान्तरवस्थितत्व श्रवणात् । तस्य पुण्डरीकाक्षत्वात् इन्द्रशब्दवाच्यत्वाच्च नारायण एव । इन्द्रं निचि परमेव्योमन्निति स्वर्णधर्मानुवाक्प्रयोगाद्वामा क्षिस्या तत्पत्नी साक्षाल्लक्ष्मीरेव । शब्द वाच्यपत्नीत्वेन प्रतीतेः । तैत्तिरीयके च राजसिबृहती श्रीरसि इन्द्र धर्मपत्नीतीन्द्र पत्न्याः श्रीशब्दवाच्यत्वावगमात् । अतस्तत्पत्नीको ऽक्ष्यन्तर्व नारायण एव । ’ इन्द्रपत्नी व्यापिनी सुरसिदिहेति ’ । इन्द्रसू के विष्णु महींदेवीं माधवप्रियां विष्णुवल्लभामितिवत् प्रयोगाचेन्द्रशब्दो नारायण संभवति । एवं च बृहदारण्यके अक्ष्यन्तर्वर्तिनो नारायणत्वात् य । ऽन्तरक्षिणि पुरुषोदृश्यत इत्येतदपि तत्परमेव । तदेवमुपको सल

भगवत्परा |

483

तथा वैश्वानर विद्यापि भगवता पुरुषोत्तमेन परिष्कृता तदुपास्यस्यमूर्धत्वाद्यान्नानात् चुमूर्धत्वादीनां ’ चाग्निर्मूर्धा चक्षुषी चन्द्रसूर्योदिशः श्रोत्रे विवृताश्च वेदाः ।

6

वायुः प्राणोहृदयं विश्वमस्य पद्भ्यां पृथिवी सर्वभूतान्तरात्मा ’ इन मुण्डकोपनिषदि भगवद्धर्मतया आन्नानादत्राग्निशब्दोद्युलोकपरः असौ

लोकोऽग्निरिति श्रुतेः ।

यां मूर्धानं यस्य विप्रावदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूत प्रणेता ॥

यस्याग्निरास्यं चौर्मूर्धा खं नामिवरणौ क्षितिः ।

सूर्यचक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥.

इनि महाभारतोपबृंहणदर्शनात् मुण्डकोपनिषद भगवदेकान्तत्वं प्रथमपरिच्छेदे स्फुटमुपपादितम् । वैश्वानर विद्योपास्यस्य घुमूर्धत्वादित्वं तु वैश्वानर जिज्ञासया समागतैः केकयेन पृष्टैरो पमन्यत्र सत्य यज्ञेन्द्रद्युम्न प्रभृतिभिः

मिर्दिवमेव भगवो राजन्नादित्यमेव भगवो राजान्वायुमेव भगवो गजानाकाशमेव भगवो राजन् पृथिवीमेव भगवो राजनिति प्रत्येकं वोपास्य वैश्वानर स्वरूपे वर्णिते मूर्धात्वेष आत्मनश्चक्षुष्येव तदात्मनः प्राणस्त्वेष आत्मनः सन्देहस्त्वेष आत्मनस्तिस्तेष आत्मनः पादौत्वे तावात्मन इति शुलकादित्यावाय्वाकाश पृथिवीन मूर्धत्व चक्षुष्ट प्राणत्व मध्वतायत्व मूर्धस्थानत्व पादत्ववर्णनादवगम्यते । किंच " पुरुषमपि चैनमधीयत " इति सूत्रखण्डोपात्त पुरुषशब्द वाच्यत्व हेतुरपि स एषऽग्निर्वैश्वानरो यत्पुरुष इति बृहदारण्यवाक्यस्थो, नारायणस्य वैश्वानरस्य विद्यावेयत्वमावेदयति । न च पुरुषशब्दवाच्यत्व हेतुश्चेतन त्वमात्रावेदनेनापि चरितार्थ इति वाच्यम् । अत एव न देवता भूतं चेत्युत्तर सूत्रे देवता विशेषस्य तथात्व नित्रारणायातः शब्देन परामर्शानुपपत्तेः । न चासंभवादिति हेतुरेवातः शब्देन परामृश्यत इति युक्तम् । तथा सति देवता विशेषपरत्वस्यापि पूर्वपक्षिणां

484

शङ्कितत्वेन तन्निराकरणासमर्थहेतूपन्यासस्य सूत्रकृतः चातुर्यात्रहत्वेन, पुरुषमपि चैनमधीयत इत्यस्याचेतनमावनिराकरणपरत्वकल्पनायोगात् तथात्रतुः सूत्रकारस्य पुरुषशब्दो न चेतनसामान्यशक्तिकः किन्तु परमात्मासाधारण इत्यमिमतमिति कल्पनाया एव युक्तत्वात् । अतो नारायण एवं वैश्वानरविद्यावेद्यः ।

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||

इति भगवद्गीतावचनमप्यत्र प्रमाणमिति सत्रं सुस्थम् |

भूमविद्यापि भगवत्प्रवणा । ’ श्रुतं ह्येवमेत्र भगवदृशेभ्यस्तरति शोकमात्मवित् सोहं भगवः शोचामि तंमा भगवान् शोकस्य पारं तारयत्विति प्रभे तं होवाचेत्यादिना शोकतरण हेतूपदेशप्रवृत्तस्य नामोपास्त्रेत्यनन्तरमस्ति भगवोनाम्नोभूय इत्यादिना प्राणोपदेशपर्यन्तं प्रश्नप्रतिवचनरूपेण परिदृश्य मानसन्दर्भस्यास्तिभगवः प्राणात् भूय इति प्रश्नादर्शनेऽपि ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भव’तीत्युक्तप्राणातिवाद्यपेक्षया एष तुत्रा अतिवदतीति सत्यातिवादिनोऽतिशय कथनात् । प्राणशब्दानिर्दिष्ट जीत्रापेक्षया सत्यशब्दनिर्दिष्टस्य भूयस्त्वस्य प्रतीत्या सत्यं ज्ञानमनन्तं ब्रह्मेति अनन्त शब्दसामानाधिकरण्यावगतनारायणोपस्थापनशकिमत्सत्य शब्दामिहिते परिसमाप्त्यवगमादुत्तरत्र च ’ यो वै भूमातत्सुखं नाल्पे सुखमस्तीति प्रचुरसुखरूपत्वप्रतिपादनेनानन्दमयत्वप्रतीतेश्च । तत्र च ’ रसो वै सः । रसंयेवायं लब्ध्वानन्दीभवति । को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यादिति विपुलसुखरूपत्वमिति विप्रतीयते ।

स भगवः कस्मिन् प्रतिष्ठितः स्खे महिनीत्युच्यमानं स्वमहिम्न प्रतिष्ठितत्वं च स्वतन्त्रचैतन्यं खमहिम्नितिष्ठमानं पश्यतीति मैत्रायणीय श्रुत्युक्त्या भगवद्धर्मः । अतो भूमविद्या भगवत्परा ।

एवं दहर विद्यापि भगवदेकशीला । छान्दोग्ये ’ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्त-

485

इन्वेष्टव्यमित्यन्वेष्टव्यस्य दहराकाशस्य एष आत्मा अपहृतपाप्मा विजरो मित्युरित्यपहृतपाप्मत्व श्रवणात् अपहृतपाप्मत्वं च भगवद्धर्मः एष सर्वभूतान्तरामापहतपाप्मा दिव्यो देव एको नारायण इत्युक्तेः ।

नन्वपहतपाप्मत्वस्य प्रजापतिवाक्ये मुक्तेऽपि श्रुतत्वेन भगवदसाधारण्यं तुं युक्तमिति चेन्न । परेणापि शिवादित्यमणिदीपिकायां अन्तस्तद्धर्माधिकरणे अपंकुचित सकलपापराहित्यं तु परमेश्वर एव संभवतीति वदता तस्य परमनाचारणत्वाङ्गीकारात् अतिरोहितापहतपाप्मत्वस्य मुक्तसाधारण्या भाषाश्च । प्रजानिवाक्ये पूर्व तिरोहितस्वरूपस्याविर्भूतस्वरूप कथनात् परमात्मनस्तु शरीरान्तम्वस्थितस्यैव गुणाष्टक प्रतिपादनादतिरोहितमेवापहतपाप्मत्वमित्यवगम्यते । मौबालवाक्येऽपि ’ यः पृथिवीमन्तरे सञ्चरनित्यारम्य एष सर्वभूतान्तरात्माम्हतापाप्मा दिव्यो देव एको नारायण’ इत्याश्नानेन सर्वान्तरवस्थितस्यैवनच्छ्रवणादतिरोहितमेव तवित्यवगतमिति बहरविद्यावेबत्य नारायणत्वमपहत गम्मत्वबलात् साधयितुं शक्यमेव ।

"

नन्वपहत पाप्मत्वं न नित्यासंस्पृष्टपाप्मत्वमशाब्दत्वात् । किन्तु प्रध्वस्तपाप्मत्वं तथा च कर्मसंबन्धस्यं प्राग्विद्यमानत्वमेव ततोऽवगम्यत इति परमात्मधर्मत्वस्यैवासिद्धया कथं तद्वलाभाग्रपणात्य परमात्मत्वसाधनमिति चेत् उच्यते - परस्य तावत् पाप्माभावप्रतिपादकानि वाक्यानि विविधानि श्रूयन्ते । सर्वेभ्यः पाप्मभ्य उदित इति पाप्मन्य हृदयः श्रूयते । अपहतपाप्मेति पाप्मनामपहतिः श्रुता '

’ नैतं सेतुमहोरात्रे तरतो । न जरामृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतोनिवर्तन्त इति तरतेः प्राप्तित्वादप्राप्तिर्निवृत्तिश्च श्रूयते । स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानिति कर्मफलास्पर्श उच्यते ।

तत्र प्रथममुदित शब्दस्य मुख्यार्थोऽनुपपन्नः । विभोः परस्य पाप्मान्वितदेशादूर्ध्वगमनायोगात् । तस्मादश्लेष लक्षणायुक्ता । तत्राकृत कर्माश्लेषस्य सर्वसाधारणस्य प्रतिपादनवैयर्थं स्यात् । अतः कृतानामपि कर्मणामश्लेषपरत्वं तस्य वाक्यस्याभ्युपगन्तव्यम् । क्रियायाः कर्तृसमवेतत्वेन

486

स्वरूपाश्लेषस्य व्याघातादेव । फलाश्लेषपरत्वमाश्रयणीयं तत्र हेत्वकथनात्तिरोधानाविर्भावयोर्निष्प्रमाणकत्वाश्च तत्स्वाभाविकत्वं नित्याविर्भूतत्वं च सिद्धम् । अपहतशब्दश्च हिंसारूपधात्वर्थासंभवाद्विनाशंलक्षयन् क्रियास्वरूपस्य नश्वरतया स्वरूपनाशप्रतिपादन वैयर्थ्यात् फलजननशक्तिविशिष्टरूपेण नाशं प्रतिपादयन्ति ।

यथा

’ सर्वमेकपदेनष्टं दानमश्रोत्रिये यथा । इति नाशशब्दो दानस्य फलजननशक्तिहानिं प्रतिपादयति तद्वत्, अत ईश्वरेण वृतानि पुण्यपापजातीयानि कर्माणि न शुभाशुभफलाजननशक्तानिस्युः । ईदृशमपहतपाप्मत्वं च पूर्वोकं न्यायं निरुपाधिकं नित्याविर्भूतं चाभ्युपगन्तव्यम् । नासाधुना कर्मकर्म फलास्पर्शस्तत्प्रायश्चित्तरूप साधुकर्म निबन्धन इति शङ्का च साधुकर्म निषेधेनैव निरस्ता । न च साधुकर्महतिस्तस्यापि निवर्तक विद्याबलादिति शङ्कनीयम् । ध्यानकर्तृत्वानुक्तेः ’ उदेति हवै सर्वेभ्यः पाप्मको य एवं वेदेति ध्येयत्व श्रवणाच्च । साधुकर्म निषेधादेव ध्यानकर्तृत्वमपि निषिद्धम् । यज्ञादिकमुपासनात्मकं च कर्महि साधुकर्म शब्दा मिलापार्हम् | अतः प्रायश्चित्तादिभिर्विनैव कर्मफला श्लेष इति अपहतपाप्मशब्दस्थो हन्ति वातुश्च हानिपरः न प्रध्वंसपरः । नैनं सेतुमित्यत्र कृतानामेव कर्मणां फलशक्तिमत्ववेषेण प्राप्त्यभाव उच्यते । अतो निरुपाधिकमपहतपाप्मत्वं नाम कर्मवश्यतागन्धरहितत्वम् । न च परमात्मनि फलजनना समर्थस्य तत्कृत कर्मणस्तं प्रतिपाप्मत्वमिति श्रुतिवाक्यस्थ पाप्मशब्दस्यामुख्यत्वमिति वाच्यम् ।

अनन्तख्याति निर्धीर्य जरयामास तद्विषम् । जपवित्र धरोहर: इत्यादिषु निगीर्ण जीर्णविषानीश्वरान् प्रति विषशब्दस्यैव मुख्यत्वोपपत्तेः क्षेत्रषु प्रत्यवायकरपाप सजातीयानां कर्मणां खलीलाकृतानामपि फलजननशक्ति प्रतिमटत्वं नाम कश्विदयमीश्वरस्य स्वभावविशेषः । परिशुद्धात्मविषयस्य । पहत पाप्मशब्दस्यायमेवार्थः स तु तस्य तिरोधानर्हः । प्रतिबन्धनिवृत्तावाविर्भूतः । ईश्वरस्यत्वतिरोधानार्हः । नित्याविर्भूत इति विशेषः अतोऽपहतपाप्मत्व-

487

वियश्रुतीनां यथोक्त एवार्थ इति परमात्मत्व साधनसमर्थं नारायणधर्मत्वेन च उमेद्रान्नारायणोच्छेदसाधन समर्थमिति दद्दरविद्याया भगवत्परत्वं ततः सत्येव । किञ्च उत्तरत्र तस्य हवा एतस्य ब्रह्मणो नाम सत्यमिति तानि इॠ एतानि त्रीण्यक्षराणि सत्तीयमिति । अथ यत्सत्तदमृतं अथ यत्तन्मर्त्यमथ च्यन्तेनोभावच्छतीति सत्य शब्द निर्वचनात्तस्य च ।

’ सत्ये प्रतिष्ठितः कृष्णः सत्यमस्मिन् प्रतिष्ठितम् । सत्यासत्येच गोविन्दस्तस्मात्सत्यः सतां मतः ॥ '

इयुद्योगपर्वणि वासुदेवादिनामनिर्वचनमध्ये निर्वचनेन भगवत्परत्वावसायात् । अतः छान्दोग्योक्तदहरविद्यावेद्योनारायण एव । एवं तैत्तिरीयोपनिषत्प्रतिसद्योऽपि दहरविद्यावेषोभगवानेव ।

दहं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् ।

तत्रापि दहं गगनं विशोकस्तस्मिन्यद (न्त) दुपासितव्यम् || '

इत्यत्र दहराकाशे विशोकत्व श्रवणेन अपहतपाप्मा विजरोविमृत्युर्विशोकोऽविजिघत्सः इति वाक्योक्तविशोकत्वविशिष्टः छान्दोग्यदहराकाशैक्य प्रतीतेः । किञ्च दहं विपाप्मं परवेश्मभूतमिति हृदयपुण्डरीकस्य परवेश्मभूतत्य विपाप्मत्वोक्तिरपि तत्स्थस्यापहतपाप्मत्वमवगमयतीति तद्बलादपि नारायणत्वमवसीयते तैत्तिरीयके दहरविद्योपास्यस्य । ननूपक्रमे यो देवानां प्रथमं पुरस्ताद्विश्वाघिको रुद्रो महर्षिः । हिरण्यगर्भ पश्यत जायमानं सनो देवः शुभयास्मृष्या संयुनक्तु इति शिवस्य प्रस्तुतत्वात् कथं भगवत्परत्वाध्यवसाय इति चेन्न । शिवस्य हिरण्यगर्भजन्यत्वेन श्रुत्यन्तर प्रतीतस्य तज्जनकत्वोक्त्ययोगाद्धिरण्यगर्भनारायणजन्यत्व प्रतिपादनेन तद्विरोधात् । यो देवानामित्यनुवादत्व द्योतकयच्छब्दसत्वादनुवादकत्वप्रतीतेश्च । नारायण परत्वावगमेन रुवशब्दस्य रोदयतीति व्युत्पत्या भगवत्परत्वात् ।

488

नन्वेवमपि – यद्वेदादौ खरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।

तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ||

इति महेश्वरपदघटित श्रुतिविरोधः कथं परिहरणीय इति चेन्न । वेदप्र प्रणव प्रकृति मूताकारवाच्योद्देशेन महेश्वरत्व विधायकस्य तस्य अकारे विष्णुरिति श्रुत्यन्तरे नारायणस्याकार वाच्यत्वावगमेन जुहूद्देशेन मानस्य पर्णत्वस्य कपालगामित्वाभाववदेवतान्तरगामित्वाभावात् । भगवत एव ह्यनेन दहर विद्योपास्यत्वं सिद्धयति तदुक्तं वेदार्थ भगवता भाष्यकारेण - अणोरणीयानित्येतस्मिन्ननुवाके वेदाद्यन्तरूपतया भूतप्रणवस्य प्रकृति भूताकार वाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपु मध्यस्थाकाशतयोपात्यत्वमुक्तम् । अयमर्थः सर्वस्य वेदजातस्य प्रकृतिः उक्तः प्रणवस्य च प्रकृतिरकार: प्रणव विकारो वेदः खप्रकृतिभूते लीनः प्रणवोऽप्यकारविकारभूत स्वप्रकृताक्कारे लीनः तस्य प्रणत्र भूतस्याकारस्य यः परोवाच्यः स एव महेश्वर इति सर्ववाचकजा भूताकार वाच्यः सर्ववाच्य जातप्रकृतिभूतनारायणो यः स महेश्वर यथोक्तं भगवता

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।

मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ॥

अक्षराणामकरोऽस्मीति अ इति ब्रह्मेति श्रुतिः । अकारोवै सब च वाचकजातस्याकार प्रकृतित्वम् । वाच्य जातस्य ब्रह्मप्रकृतित्वं च सु अतो ब्रह्मणोऽकारवाच्यतया प्रतिपादनादकार वाच्यो नारायण इति सि

यत्का केनचिदुक्तम् - न तावत् यो देवानामिति मन्त्रो नार अथर्वशिखायां शिवस्य ब्रह्मकारणत्व प्रतिपादनात्तदनुवादसंभवे रुद्र मुख्यार्थत्व कल्पनायोगात्तत्प्रतिपादनं कापि नास्तीत्यमिमानत्रतः यो मित्यादेरनुवादत्य शङ्काया एवोत्थानानर्हत्वादेतस्यैव मन्त्रस्य स

489

·

कारणत्वविधायित्वपर्यवसानात् । न हि प्रतीयमानार्थस्य प्राप्तिमन्तरेण पवच सहस्त्रेणापि शक्यते कल्पयितुमनुवादकत्वं नारायणस्य ब्रह्मकारणत्वं मृत्यन्तरसिद्धमिति चेन्न । शिवस्य ब्रह्मकारणत्वपरवचनस्य पुरोवादापेक्षायां रायणस्य कारणत्वपर श्रुत्युपन्यासस्य व्यधिकरणत्वात् । न हि यदाग्नेय वाक्ये यदुपबन्धेऽपि (जै. सू. 2-2-8) पुरोत्रादाभावाद्विधायकत्वोक्तौ

आधाराद्याग्नेयादीन | मंगांगिभावाधिकरणम्-

इदमाम्नायते – ‘य एवं विद्वान्पौर्णमासीं यजते ’ ’ य एवं विद्वाननावास्यां यजते ’ इति । अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते । आग्नेयादयश्च कालसंयुक्तास्तस्मिन् प्रकरण एवमाम्नायन्ते - ’ यदामेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति '

इति,

तावतामनीषोमावाज्यस्यैव नानुपान पौर्णमास्यां यजन्’ इति

· ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्’ इति, ‘ऐन्द्रं दध्यमावास्यायाम्’ इति, ‘ऐन्द्रं पयोऽमावास्यायाम्’ इति । एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य कर्मणोऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते । न च कर्मान्तरे द्रव्यदेत्रतयोरभाव:, धौवाज्यसद्भावात् । अत एवोक्तम्

,

‘धौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी ।

रूपवन्तौ ततो यागौ विधीयेंते पृथक्तया’ इति ।

सर्वस्मै वा एतबज्ञाय गृह्यते यद्धुत्रायामाज्यम् इति धौवस्य साधारणत्वं श्रुतम् । देवताया मान्त्रवर्णिकत्वमित्यमुन्नेतव्यम्

’ तस्माद्वात्रघ्नी पौर्णमास्यामनुच्येते, वृधन्वती अमावास्यायाम् ’ इति वार्त्रघ्नयो वृधन्वन्त्योचर्चों क्रमेण कालद्वयोपेते कर्मणि विधीयेते । तत्र’अग्निर्वृत्राणि जङ्घनत्’ इत्येको वार्त्रघ्नो मन्त्रः, ’ त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ’ इत्यपरः । तयोरुतावनीषोमौ पौर्णमासदेवते । एवमनन्तर

F-62

490

सौर्यादिवाक्यमस्तीति प्रत्यवस्थानं शोभते । नारायणेरुद्रपदस्य लक्षणाभ्युपगमेन विरोध इति चेन्न । अग्न्यादिशब्दानामपि यत्किञ्चिदर्थे लक्षणायां तत्प्रापकं यत्किञ्चित् प्रमाणं संभवतीति यदाग्नेयादि वाक्यानामप्यविधायकत्व

1

मानातयोर्वृधि धातु युतयोर्मन्त्रयोरुक्तावनीषोमात्रमावास्या देवते । आम्यां द्रव्यदेवताभ्यां रूपवत्वाद्यागान्तरमत्र विधीयते । षड्यागानुवादत्वे तदनुवादेन विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात् । न केवलं तदानर्थक्यम्, किन्तु ‘पौर्णमास्यां पौर्णमास्या यजेत, अमावास्याया ममात्रास्यया यजेत’ इत्येतदपि व्यर्थं स्यात् । न चैत्तकालविधायकम्, ’ यदाग्नेयः ’ इत्यायुत्पत्ति वाक्यैरेव तद्विधानात् । कर्मान्तरत्वे तु कालं विधास्यति । तस्मात्कर्मान्तरविधिः इति पूर्वः पक्षः ।

सिद्धान्तस्तु आस्तां तावद्द्रव्यम् । देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते । वार्त्रघ्नयोर्वृवन्वत्योश्वाऽऽज्यभाग देवता प्रतिपादकत्वात् । हौले मन्त्रकाण्डे शामिधेनीराबाहननिगदंप्रयाजमन्त्रांश्वाम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमेवार्त्रघ्नयौ वृधन्वन्त्यौ चाम्नाते । लिङ्गं चाग्निविषयं सोमविषयं च तनोपलभ्यते । ततो लिङ्गकमाभ्यामाज्यभाग विषयत्वमत्रगम्यते । यत्तु - ’ वात्रघ्नी पौर्णमास्याम्’ इत्यादि वाक्यम्, किमक्तयोराज्यभागानयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे । न तु नूतनकर्माङ्गतामनयोर्विदधाति । अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति किं तर्हि पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु विकरूपौ द्वौ समुदायामनुवदति । न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः, तत्तत्कालविहितयोः यागतिकयो रुपलक्षितत्वात् । न चानुवादोव्यर्थः समुदाय द्वित्वसिद्धेस्तत्प्रयोजनत्वात् । तत्सिद्धौ च ’ दर्शपूर्णमासाभ्यां सर्गकामो यजेत’ इत्यस्मिन्फलवाक्ये षड्याग वित्रक्षया द्विवचननिर्देश उपपद्यते । यदप्युक्तम् - अनुवादपक्षे ‘पौर्णमास्याम्’ इत्यादिवाक्य वैयर्थ्यम् - इति । तदयुक्तम्, काल विधानासंभवेऽप्येकस्य त्रिकस्य सहप्रयोग विधानात् ।

}

491

प्रसङ्गात् अन्योन्याश्रयापाताच्च रुद्रशब्दस्य नारायणे लक्षणांसिद्धौ वैयधिजायत इत्यादेः पुरोवादत्वसिद्धिः तस्य

करण्याभावात् नारायणाहला पुरोवादकत्वसिद्धौ पुरोवादानुसारेण तस्य तत्र लक्षणेति, तस्मात् प्राप्स्यसंभवे बदुपबन्धादीनां नानुवादलिङ्गत्वमिति न तद्बलादनुवादकत्व कल्पनं युक्तम् ।

बायोपांशुयागाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगः पौर्णमास्या’ इत्यनेन तृतीयैकवचनान्तेन विधीयते । एवमितरत्रापि । ननु - विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वम्, तस्य यागविधायकत्वाभ्युपगमात् ।

’ आग्नेयोऽष्टाकपालः ’ इत्यादिवाक्यानि तु विहित यागानुवादेन द्रव्यदेवता लक्षणगुण विधायकानि - इति चेत् । न तथा सत्येकेन वाक्येनानेक गुणविष्यसंभवात् । प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत । आग्नेयादि वाक्यानां विधायकरचें तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः । तस्मादाग्नेयादिवाक्यविहिताना विद्वद्वाक्यमनुवादकम् । किञ्चानुवादत्वमनभ्युपगम्य कर्मान्तरविधिं वदतः प्रयाजादीनामाग्नेयादीनां च गुणप्रधानमात्रो न सिद्धयेत् । तथाहि समिधो यजति’ ’ आधारमा घारयति ’ इत्यादयः कालयोगरहिताः केचिद्विधय आन्नातः । ’ यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां च ’ इत्यादयः काळयुक्ता अपरे । तेषामुभयेषां प्रकृतत्वात् ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति वाक्ये सर्वेषां फलसंबन्धो बोधनीयः । दर्शपूर्णमासाभ्यां इति द्विवचनं बहुवचनत्वेन परिणेतव्यम् । विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादयः आग्नेयादयश्चेति एतेषु द्वित्वासंभवात् । सर्वेषां च फलसंबन्धे राजसूयगतेष्टि पशु सोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात् । तदभावे चानङ्गत्वात् सौर्यादि विकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात् । अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात् समुदायद्वित्वेन द्विवचनात्वाश्चाऽऽग्नेयादीनामेत्र फलसंबन्धेन प्राधान्यम् । प्रयाजादीनां तु गुणभाव इति नकोऽपि दोषः । तस्माद्विद्वद्वाक्यमनुवादकम् । (जै. सू. 2-2-8)492

यदि तु द्वयोर्हिरण्यगर्भकारणत्वं न संभवेत्तदाश्रुतिविशेषश्रुतयोरुद्रनारायणपदयो-

रन्यतरस्य लक्षणाया आवश्यकत्वात् । यदुपचन्धानुग्रहाय नारायणाला जायत

इति श्रुत्यनुरोधात् यो देवानामित्यत्र रुद्रपदस्यैव लक्षणोच्यत इति शङ्कतापि संभवति तु द्वयोरपि कल्पमेदेन कारणत्वम् । किञ्चैकस्मिन्नपि कल्पे तयोस्तत्कारणत्वं मातापितृभावेन संभवति नारायणस्यैव शक्तित्र व्यवस्थापनात् । तस्मात्सर्वत्रायं मन्त्रः शिवपर एव । अस्यायमर्थः

"

महर्षिममाद्रष्टा यः सर्वज्ञः सर्ववित् ।

अशेष विषयामोघशुद्धबुद्धि विजृम्भणे ॥’

इत्यादि श्रुतिस्मृतिप्रतिपन्नाशेषविषयबोधः । विश्वस्माच्चिदचिदात्मक प्रपश्चादधिकः कृत्स्नस्य नियन्तृत्वात् । यो रुद्रः मुक्तानां संसारदुःखस्य द्रावको देव: देवानां मध्ये प्रथमं हिरण्यगर्भ पुरस्तात् कल्पादौ स्वसङ्कल्पेन स्वस्माज्जायमानं करुणा परिपूर्णया सकलभुवन सृष्टिसामर्थ्य वितरणविचक्षणया आज्ञादृष्टषा अपश्यत्सदेवोऽस्मान् शुभया परमानन्द प्राप्तिकारिण्या ‘स्मृतिलम्मे सर्वप्रथीनां विप्रमोक्ष’ इति श्रुतिप्रसिद्धया स्वविषयया संयोजयत्विति ।

यस्त्वन्यथा व्याख्यानं महर्षियोगबलेन कालत्रयवृत्तान्त साक्षात्कार समय रुद्रः स्वाविर्भावात् प्रागेव नारायणाज्जातं हिरण्यगर्भजायामानावस्थाविशिष्टं योगबलात् साक्षादकृतेति । तन्न श्वेताश्वतरे

‘हिरण्यगर्भ जनयामास पूर्व '

इति अस्य मन्त्रस्य पाठदर्शनात् । एवं चैतदनुरोघेन यस्मात्परमित्यनन्तर मन्त्रोपि शिवपर इति स्पष्टमेव ।

यच्च यद्वेदादाविति मन्त्रस्य नारायणपरत्वकथनं तदप्ययुक्तम् । परमते शब्दानां भूतपञ्चकगुणत्वेन तन्मतेऽपि तेषामन्योन्यमुपादानोपादेय भावायोगात् । प्रकृतिवाच्यत्वविवक्षायां तस्य या प्रकृतिः तस्या यः पर इति

493

कव्यत्वेन तस्य प्रकृतिलीनस्य यः पर इति शब्दा योगाच्च कथं चिदुमययोगेम अकारस्य प्रणव प्रकृतित्वे मानाभावाच ।

नत्रकारोवै सर्वावागिति श्रुत्या अकारस्य सर्वत्राष्पयप्रकृतित्वं प्रतिपणामहे, न एत्र तस्य प्रणव प्रकृतित्वमपि सिद्धयति । न चैवमोङ्कारेण सर्वावाक् तृष्णेत्यपि श्रवणाद्वपरीत्यं शङ्कषम् । कारस्य प्रणव इव तस्याकारेऽनुगमादर्शनेन तस्याः स्तुतिपरत्व कल्पनादिति चेन्न । माना मात्रा: प्रतिमात्रा: वृन्वेति श्रुतौ अकारोकारमकारार्थमात्राणामुत्तरोत्तरस्य पूर्वपूर्वलयस्थानत्व विभावनेनार्धमात्राया एव त्रिमात्राप्रकृतित्व स्फुटीकरणादप्रकृतौ लयासंभवाकारोवे सर्वावागिति श्रुतेरभिः सर्वादेवता इतिवत् स्तुतिपरत्वेनाप्युपपत्तेः । मागवते

1

समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः । '

,

इति नादरूपार्धमात्रां प्रस्तुल्य ततोत्र प्रदोङ्कार इति तस्याः प्रणवप्रकृतित्वस्य कण्ठरवेणामिधानाञ्च तस्मादस्य मन्त्रस्य पूर्वोक्तरीत्यार्थकल्पने ऽपि यो ऽर्धमात्रा वाच्यः समहेश्वर इत्यर्थः पर्यवस्यति, अर्धमात्रावाच्यश्च शित्र एवेति स्पष्टीकृतमथर्वशिखाविचारे । यद्यपि प्रणवप्रकृतिरकार:, तथापि - ’ अकारो ब्रह्म विष्ण्वी शकमठेष्वङ्कणे रणे’ । इति कोशकारैरनेकार्यानुशासनादकारवाच्यस्य महेश्वस्वामिधानं विष्णावेकान्तेन न पर्यवस्यति । अपिचास्यमन्त्रस्य विधान्तरेणाऽप्यर्थोत्प्रेक्षणसंभत्रान्म भगवत्परत्वाध्यवसानं खुशकम् । अभिमीळे पुरोहितं योनिस्समुद्रो बन्धुः समानं परमित्येषु श्रुतानामकारोकारमकाराणां वेदादिमध्यान्तवत्व प्रसिद्धेरकारो वेदादौ प्रोक्तः स्वरः स एव तदन्ते प्रतिष्ठितः समानं परमित्यत्रोपान्त्यः ततः परं खराभावेन तस्यैवान्त्यस्वरत्वात्तस्य प्रकृति लीनस्य प्रकृतिः विष्णुर्वासुदेव: पराप्रकृतिरिति श्रुतेः प्रकृतिस्त्वं पुमान् रुद्र इति स्मृतेश्च तस्मिन् लीनस्य वाच्यवाचकभावेनामेदं प्राप्तस्य ।

’ वाच्यत्राचकयोर्भेदो नात्यन्तं विद्यते कचित् '

494

इति वायुक्तेः । तस्य वेदान्त्य पाठगामित्वाभ्यर्हित भात्राकारं वाष्य प्रकृतिरूपस्य विष्णोः यः परः प्रधानभूतः प्रकृतिस्त्वं पुमान् रुद्र इति वचनसिद्धो रुद्रः ततस्तदालोकनतत्पराणामित्यादौ परशब्दस्य प्रधाने प्रयोगात् समहेश्वरः स रुद्रो महानीश्वर इति ।

अथवा अस्य मन्त्रस्य यजुर्वेद पठितत्वाद्वदो यजुर्वेदः तस्यादौ पठितः स्वर इकारः स एवतात्रदन्ते प्रतिष्ठित एव तपतीति प्रकृतिर्लक्ष्मी:,

विश्वे

तस्मात्

’ तत्र श्रीरभवद्देवी कमलायतलोचना’

इत्युपक्रम्य मूलप्रकृतिरव्ययेति कौर्मेप्रयोगात् तस्यां वाच्यवाचकभावेन कमा दीर्घमायं प्राप्तस्येति यावत् ईकारस्य लक्ष्मीत्राचकत्वात् । तस्य यः परः पश्चमी तस्माच उत्तरो वर्णः स महेश्वरः उकारवाच्यो महेश्वर इति । स्वतन्त्रोत्प्रेक्षणेऽर्थव्यवस्थित्यसिद्धेरैदम्पर्यावधारणाय प्रकरणादिकमुखासनीयम् । प्रकरणं च शिवराघवसंवादे त्रिपुण्डुधारणाङ्गभस्मसंपादने शैवे कर्मणि विनियुक्तेन धातुः प्रसादान्महिमानमीशमिति सिमाङ्कितेन अणोरणीयानिति मन्त्रेणोपक्रमान्मध्ये यो देवानामिति मन्त्रानानाच शिवविषयमत्रसीयते । धर्मपरः स महेश्वर इत्यत्र महेश्वर शब्दस्य रूढि भावत्यादनादिवस्य परस्य स्ववाच्य शिवरूपता विधौ तात्पर्य निश्चीयते । अतो निचित विधेयानुरोधेनैवानेकधा योजयितुं शक्यस्यानुवादभागस्य योजनमुक्तितम् । यस्यो भावग्नीदनुगतावमिनिम्रोचेदम्युदीयाद्वा पुनराधेयं तस्य प्रायश्वित्तिमित्यत्र हविरार्त्यधिकरणन्याये (जै. सू. 8-4-8 )

एकविरार्तावपि पंचशराव निर्वापाधिकरणम् -

दर्शपूर्णमास्योदहौ प्रकृत्य श्रूयते – ‘यस्योभयं हविरार्तिमार्छेत् - ऐन्द्रं पश्चशराक्मोदनं निर्वपेत्’ इति । सोऽयं यागो दोहद्वयक्षयं निमित्ती - कृत्यानुष्ठेयः । नत्वेकदोहक्षयम् । कुतः – उभयशब्दस्य श्रुतत्वात् । आर्तिशब्दविशेषणत्वेन श्रूयमाणो हविश्शब्दो यथा विवक्षितार्थः, तथा हविः शब्द

495

द्वित्वस्याविवक्षया एकैकाग्न्यनुगमस्यापि पुनराधेयनिमित्ततयानुवादप्रतीतेच्यवस्थित वेऽप्यग्निद्वयोत्पादकतया वाक्यान्तरावगताधानाभ्यासरूपस्य विधेयस्य राधेयस्य एकाग्निमात्रोत्पादनाक्षमतया विधेयानुरोधेनानुवादभागेऽग्नि द्वित्व विक्क्षायाः ‘पुनराधेयमोदनवदित्ये ‘विकरणे निर्णीतत्वेनाव्यवस्थितानुबचार्थ प्रतीतिस्थले विधेयानुरोधेनानुवाचार्थवर्णनौचित्यस्य कैमुतिकन्याय नेत्यादिति सर्वथा शिववैभवपर एव मन्त्रः । अक्षरार्थोऽप्यस्य – वेदादौ * स्वरः प्रोक्तः प्रणवप्रतिपाद्य प्रतिपादकामेदोपचाराल्लक्षणया तत्प्रतिपाद्यं विशेषं ब्रह्म तदेव वेदान्तभागे च प्रतिष्ठितं वेदान्तभाग प्रतिपाद्यत्वात्तस्य कृतावविद्याख्यायां प्रतिबिम्बभावेन लग्नस्य प्रकृतिसहितस्य पुरुषस्य यः परः नियन्तृत्वेन प्रधानभूतः प्रधानक्षेत्रज्ञ पतिर्गुणेश इत्यादि श्रुतिप्रसिद्धः स महेश्वर शब्दित श्रीसदाशिव एत्र न देवतान्तरमिति स्वीकार्यम् । एवं चोपक्रमोपनंहार परामर्शैः शिवपरत्वेन निर्णीते ब्रेणोरणीयानित्यनुवाके विधीयमाना दहरविद्या शिव देवत्यैवेति नात्रोपास्यतया देवतान्तरान्वयावकाश इति । अपि

कैवल्योपनिषदाख्यात गुणनिकर प्रत्यभिज्ञानादप्यस्यास्तदेकविषयत्वमत्रसीयते, तथाहि स्पष्टं तावदुपासनास्थानसाम्यं तथोपास्यरूपमपि तत्र उमासहायमित्यादिना प्रतिपादितम् । इहापि तथैवोपवर्णितम् । ऋतं सत्यमित्यादिमन्त्रेण विरूपाक्ष कृष्णपिङ्गलपदयो त्रिलोचनोमा सहायपद समानार्थवाद्विरूपाक्ष विश्वरूप श्रुतिभ्यां ’ नमस्कुर्यान्महादेवमृतं सत्यमितीश्वरम् '

विशेषणस्योभय शब्दस्यापि विवक्षितार्थत्वादुभय हविरार्तिरेव निमित्तम् । इति पूर्वपक्ष: ।

सिद्धान्तस्तु – मैवम् । आर्तिमात्रोपन्यासे साकाङ्क्षत्वान्निमित्तं न पर्यवस्यतीति हविः शब्दार्थों विवक्षितव्यः । तावतैव निमित्तस्य पर्यवसितत्वादुभय शब्दार्थो न विवक्षितः । हविरार्तिमात्रस्य निमित्तत्वे सति सायंदोह प्रातर्दोहात्र्त्योरुभयोर्निमित्तत्वं सिद्वमेवात्रो भयशब्देनानूद्यते । तस्मात् – एकनाशे द्वयनाशेऽप्यसावोदनो निर्वपणीयः । (जै. सू. 6-4-8)

496

इति कौमें शिवनमस्कारे विनियोग विधानाद्बोधायन सूत्रे ‘अयातो महादेवस्य पादोदकविधिं व्याख्यास्याम इत्युपक्रम्य ऋतं सत्यमिति मन्त्रेण प्राशयेदिति शिवपादोदक प्राशने विनियोगाच्च शिवपरत्वेन निश्चितेऽस्मिन्मन्त्रेश्रुतस्य तथैवार्थवर्णस्य न्याय्यत्वाश्च, ऊर्ध्वरेता इत्यत्र ऊर्ध्वज्वलनात्मक कृशानुरेतस्त्वोक्तेः । न चास्य मन्त्रस्य शिववैभवपरत्वेऽपि दहरोपासनायामुपास्यरूपमर्पणपरत्वे न मानमिति वाच्यम् । तस्यामपेक्षितोपास्यरूपसमर्पण क्षमस्याकाङ्क्षानुरोधेनान्वयस्यावश्यम्भावात् । अतोऽस्याः दहरविद्यायाः शिवपरत्वमेवोपपन्नम् ।

नन्वेवं कथं मध्ये नारायणकीर्तनपराणां सहस्रशीर्ष देवमित्यादि मन्त्राणां सङ्गतिरिति चेन्न । नारायणान्तरत्वेन शिक्षोपासनार्थत्वेन मध्ये नारायण कीर्तनस्य तत्पराणां मन्त्राणां सुसङ्गतत्वात् । यद्वा स ब्रह्मा स शिव इति कैवल्यश्रुतिप्रत्यभिज्ञानुरोधात् तस्याः शिखायाः मध्ये परमात्मा व्यवस्थित इत्यादि प्रागुपास्यत्वेनोपदिष्टमहेश्वरमेत्र, मध्ये नारायण कीर्तनं तु प्रथमं नारायणात्मना खात्मानमनुसन्धाय खहृदम्बुजे वैश्वानरा ग्निशिखामध्य[वर्तित्वेन ध्यातव्यः परमशिव इति ध्यान प्रकार कल्पनादुपपन्नम् । प्रथमं नारायण गुणकीर्तनमनन्तरं हृदयकमलस्य ततो महाग्नेस्ततस्तच्छिखायास्ततः प्रागुपात्यत्वेनोपदिष्ट परमात्मन इति क्रमदर्शनादेवं ध्यान प्रकार कम्पनस्योचितत्वात् ।

नक्लेव नारायणपरब्रह्मेति कण्ठो तथा परब्रह्मभावेनोपदिष्टस्य नारायणस्य कममन्योपसर्जनभाषः कथ्यते । नैष दोषः नारायणपरमित्यस्य समानपदत्वे तत्त्वं मा नारायणात् परं ज्यायः नारायणस्तु परः तदन्य इतीत्यत्रेव ऋतं सत्यं परं ब्रह्म इत्युपास्यत्वेन निर्दिष्टस्य परब्रह्मणः शिवस्य च नारायणस्य च विवक्षित प्रधानोपसर्जनभावोपपादनपरतयैव तन्मन्त्रव्याख्यानोपपत्तेः ।

ननु महोपनिषदि समान प्रकरणे नारायणः परं ब्रह्मेति पद विच्छेदे - नाध्ययनदर्शनात्तदनुरोधेनापि भिन्नपदस्य नारायणेत्यस्य सुपां सुलुगियादिना

497

मा विभक्तेर्लुगादेशस्य कल्पनीयत्वात् । समस्तपद त्वेऽपि निषादस्थपतिन्यायेन (जै. सू. 6-1-18 ) सामानाधिकरण्य एवोचितत्वात् ।

अहमेव परं ब्रह्म परतत्वं पितामहः । अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ||

लैङ्गे उपबृंहणदर्शनाच्च । नारायणस्यैत्र परब्रह्मभावप्रतिपादनपरोऽयं इति चेन्न । महोपनिषद्येतन्मन्त्रान्नानस्यैव तात्रत्संप्रदायक्रमागतेषु स्टेष्वनुपलम्भात् । तत्र तत्सत्वेऽपि नारायणानुवाकपाठानुरोधेन महोपपाठ एवं सुपां सुलुगित्यादिना पञ्चम्याः स्वादेशकल्पनोपपत्तेः । समर्थअरे भाषानुरोधेन सामानाधिकरण समासस्याप्यसङ्गतत्वात् । लक्षणविरुद्धात् कर्मधारयात्तदनुरोधिनः पञ्चमीतत्पुरुषस्याभ्यर्हितत्वात् । त्वत्पक्षे अस्मिन् मन्त्रे स्वयमपरशब्दयोः पुलिंगयोस्तत्वं ज्योतिर्विशेषणत्वस्याप्यन्याय्यत्वात् । अहमेव यं ब्रह्मेत्यादिश्रुतनारायणवचनस्य महालिङ्गप्रादुर्भावात् पूर्वं ब्रह्म नारायणयोः उपरोत्कर्ष विवादप्रस्तावे पठितस्यानन्तरतद्विवाद प्रशमनार्थोद्भूतमहालिङ्गमध्यसंनिहितस्य शिवस्य ।

निषादस्थपत्यधिकरणम्

"

वास्तुमयं रौद्रं चरुं निर्वपेत्’ इति प्रकृत्य श्रूयते - ’ एतया निषादस्थपतिं याजयेत्’ इति वास्तुशब्दः किश्चित्प्रकृतिद्रव्यविशेषमाह । एतस्यामिष्टावधिकारी स्थपतिशब्दवाच्यत्रैवर्णिकः । कुतः - ’ निषादानामधिपतिः ’ इति षष्ठी समासस्य त्रैवर्णिके संभवात् । तस्यचाधीत वेदत्वेन विद्यासंभवाच्च । इति पूर्वपक्ष: ।

सिद्धान्तस्तु – मैवम् । ’ निषादःश्वासौ स्थपतिश्च’ इति कर्मधारय समासस्य मुख्यत्वात् । षष्ठी समासे तु संकीर्णजाति विशेषवाचिना निषाद शब्देन तत्संबन्ध उपलक्ष्येत । न त्वयं कर्मधारये दोषोऽस्ति । ततस्तात्कालिकाचार्योपदेशादिना विद्यां सम्पाद्य धनिको निषादो रौद्रयागं कुर्यात् । (जै. सू. 6-1-13)

F-63

498

पश्यतं मां महादेवं भयं स विमुच्यताम् । युवां प्रसूतौ गात्राभ्यां मम पूर्व महाबलौ ॥ त्रिधामिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णुभवाख्यया । सर्गरक्षालयगुणैः निष्क (ल) : परमेश्वरः ||

संमोहं त्यज विष्णोत्वं इत्यादिमिर्वचनैस्तत्रैवापोदितस्य तथात्वाव्यत्रस्थापकत्वात् तादृशापवादरहितेन ।

स परः सर्वशक्तीनां ब्रह्मणः समनन्तरः |

इति विष्णुपुराणवचनेन ब्रह्मापरत्वस्यैवोपबृंहितत्वाश्च परोकार्थ ग्रहणेऽपि नारायणं परे अझ, ऋतं सत्यं परं ब्रह्मेति द्वयोः परभावोपदेशासंभवेनावश्यके कस्यचिदन्यथानयने ’ अङ्गगुण विरोधाधिकरण’ (जै. सू. 12-2-9 ) न्यायेन गुणभूतस्य नारायणस्य परभावोपदेशस्य ब्रह्मेत्युच्यते । ’ परमसी परम च तत्वमिति श्लोकेन सुदर्शनाचार्यैरुपदिष्टयोरन्ययानेयत्वेन तद्बलादुपक्रमादि प्रतिष्ठापितार्थ व्याकुलीकरणायोगाच्च ‘अङ्ग गुणविरोधे च तादर्थ्यादि त्यधिकरणे एकाहादिदीक्षापक्षेषु दीक्षणीया सोमयागयोरन्यतरस्यासंभवात् ।

अंगगुणविरोधे प्रधानगुणस्यैव प्राबल्याधिकरणम्

,

‘य इष्टधा पशुना सोमेन वा यजेत, सोऽमात्रास्यायां पौर्णमास्यां वा’ इति श्रूयते । तत्र - अङ्गभूताया दीक्षणीयेष्टेः प्रधानभूतायाः सुत्याया चैकमेव पर्वदिनं वचनाद्भासते । तच्च विरुद्धम्, ‘एका दीक्षातिस्र उपसदः पचमी प्रसुतः’ इत्युप सद्भिस्तयोर्मध्ये व्यवधानावगमात् । तत्र पूर्वोकाना वैष्णवन्यायेनेष्ठेः प्रथमपठितत्वादीक्षणीयेष्टिः पर्वण्यनुष्ठेया । तदनुसारेण दिनान्तरे सुल्याया उत्कर्षः । इति पूर्वपक्ष: ।

सिद्धान्तस्तु – प्रधानत्वात्सुत्यैव दर्शे ऽनुष्ठेया । तदनुसारेण शेषभूता दीक्षा दिनान्तरेऽपकृष्यते । (जै. सू. 12-2-8 )

499

बाद्विष्टा वाक्य प्राप्त पर्वकालत्वस्यात्रश्यत्यागे प्रधानानुग्रहस्योचितत्वाद्दीक्षणीया

त्याग इति निर्णीतं तस्मान्न कश्चिदुपपादितेऽर्थे विरोधगन्ध इति ।

अत्राचक्ष्महे - न तावत् तैत्तिरीयोपनि यदि दहर विद्योपास्यत्वं शिवस्य इति त्वया वक्तुं शक्यम् । सहस्रशीर्ष देवमित्यस्य दहरविद्याप्रकरणाछेदानङ्गीकारेण तत्र च नारायण महिमवर्णनदर्शनेन तस्यैवोपास्यत्वकल्पनाया

मुकत्वात् ।

न च अणोरणीयानित्यनुवाके

धातुः प्रसादान्महिमानमीशं, विको रुद्रो महर्षिः यः परः स महेश्वरः इति शिववाचक शब्दान्नानाइस्योपास्यत्वकल्पनं युक्तम् । उपक्रमस्थत्वेन प्राबल्यादिति वाच्यम् । पुनः कुनरावृत्तनारायणपद हरि पुरुषाच्युतपदानां भूयस्वेन प्राबल्याच्छिवोपस्थिति वात् । तदुक्तं व्यासार्यै: अन्तर उपपतेरित्यधिकरणे उपक्रमस्थमेकं

मुपरितनानेक गुणविरोधे दुर्बलमिति । पूर्वतन्त्रेऽपि ऐन्द्रान एकादश पालः प्राजापत्यं दधिमधुघृतमाप इति पञ्चानां हविषामाद्ययोरैन्द्राग्न सान्नाय्य ऋकारत्वेनामावास्याविध्यन्त प्राप्तावुपांशुयाज विकाराणां मधूदकघृतानां चरमतत्वेऽपि भूयस्तया तदनुग्रहाय पौर्णमासविध्यन्त इति निर्णीतम् । विप्रतिषिद्ध धर्माणां समवाये भूयसां स्यात् सस्वधर्मत्वमिष्यत्र तथा च नारायणस्यो-

स्यत्वं त्वत्पक्षे दुर्निवारम् ।

·

नन्वेवं सहस्रशीर्षमित्यस्य सर्वविद्या वेद्यनिर्धारणपरस्य पक्षे दहरविद्या वेद्यायक वाक्यैकार्थाभावेनोपक्रम श्रुत शिवोपास्यत्व प्रताव्यादिति चेन्न । अणोरणीयानिति मन्त्रस्य कठवल्लीषु पठितत्वेन तत्प्रत्ययापि भगवत त्रोपस्थिते: ईशमित्यस्य कबन्ताजन्तसाधारण्येनाजन्तत्वेऽप्यचन्ति प्रयुक्तथा तन्निबन्धनसाधारण्येन च कांस्यभोजिन्यायेन भगवति मृत्युपपत्या प्रत्यमिज्ञाबाधना समर्थत्वेन शिवोपस्थापकत्वसिद्धेः । रुद्रशब्दस्यापि हिरण्यगर्भजनके प्रत्युक्तत्वेन भगवत्परस्य वक्ष्यमाणत्वात् तेनेदं पूर्ण पुरुषेण सर्वमित्यत्र पुरुषशब्दरूढ्या भगत्रत उपस्थित्या तस्यैवोपास्यत्वस्य कल्पयितुं युक्तत्वेन

500

शित्रस्योपास्यत्व कल्पनायोगात् । महेश्वरशब्दस्तूपक्रम श्रुतपुरुषशब्द विरोधादकार वाच्य नारायणे प्रयुक्तत्वाच्च न देवतान्तरोपस्थापकः । न च दहरविद्या प्रकरणान्वयित्व पक्षेऽपि सहस्रशीर्षमित्यादीनां प्रमाणपाठस्यान्यथासिद्धिवर्णन संभवान्न तद्बलानारायणस्योपास्यत्वकल्पनं युज्यत इति वाच्यम् । तदन्यचासिद्धिवर्णनस्य शिवोपस्थापक प्राबल्य निबन्धनत्वेन तदसिद्धौ खरससिद्धार्थपरित्यागेनान्यथा कल्पनाया अनुन्मेषात् ।

यत्तु शिवस्योत्पत्तिशिष्टतया तदवरुद्धायामुपासनायां नान्यस्य संबन्ध इति तत्तुच्छम् । तत्त्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यपिन्युपासनाविधायक वाक्ये शिवप्रतिपादनादर्शनेन तस्योत्पत्ति शिष्टत्वासिद्धेः । न च यच्छन्दस्य संनिहित परामर्शित्वाच्छिवस्य च पूर्व विश्वाषिको दार्भिरित्युक्तया संनिहितत्वादुत्पत्तिशिष्टत्वमिति वाच्यम् । अस्यच्छान्दोम्बे इरविद्याविधायक वाक्यैकार्थ्यावश्यम्भावेन तस्य च दहर उत्तरेभ्य इत्यधि करने मगवत बादरायणेन दहराकाश ब्रह्मत्वतात्पर्यकत्ववर्णनेनात्रापि तथा

वक्तव्यतयान्तर्वर्ति ब्रह्मत्वतात्पर्यस्य वक्तुमशक्यत्वात् । न च छन्दोवाक्यस्याप्यन्तर्वृत्ति ब्रह्मत्व तात्पर्यकत्वमेवेति वाच्यम् । उत्तर सन्दर्भनिशेषात् । तथा हि तस्मिन्यदन्तरित्यनन्तरं किं तदत्र विद्यते यदन्वेष्टव्यमिति प्रचे याचान्यायमाकाशस्तावानेषोऽन्तर्हृदय आकाश इति दहराकाशस्याति-

निधाय उमे अस्मिन् द्यावापृथिवी अन्तरे समाहिते उभामीति यस्मिनिति तदेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येह लोके बातमस्ति यच्च मनोरथमात्र गोचरमिह नास्ति सर्वमस्मिन् दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्यामिधाय देहावयवभूत हृदयान्तर्वर्तिनोऽपि दहराकाशस्य देहस्य जराप्रध्वंसादौ सत्यपि निर्विकारत्वमुक्त्वा तत एव एतत्सत्यं ब्रह्मपुरमिति तमेत्र दहराकाशं सत्यभूतं ब्रह्माख्यं पुरं निखिल जगदात्रासभूतमित्युपपाद्य अस्मिन् कामाः समाहिता इति दहराकाशमस्मिन्निति निर्दिश्यते । एषां दहराकाशस्यान्तर्वर्तित्वमुक्त्वा तदेव दहराकाशस्य काम्यभूत कल्याणगुणविशिष्टत्वं तस्यात्मकत्वं च एष आत्मापहत-

501

पाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्य कामः सत्यसङ्कल्पः इत्यनेन स्फुटीक्रियते । अत्र दहराकाशान्तर्वृत्तित्वेन प्रतिपाद्यमानस्यापहतपाप्मत्वादिकल्याणगुणजात रूपत्वमवगम्यते किं तदत्र विद्यते यदन्वेष्टव्यमिति प्रश्नस्य अस्मिन् कामाः समाहिता इति ह्युत्तरम् । अस्मिन्नित्यनेन दहराकाश एव परामृश्यते । काम्यमानाश्च अपहतपाप्मत्वादय इति उत्तरवाक्य बलादवगम्यते । न चैतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता इत्युक्त्या ब्रह्मपुरपरामर्शीदं शब्दवाच्यम् । तथापि निषादस्थपत्यधिकरणन्यायेन कर्मधारयस्याभ्यर्हितत्वेन ब्रह्माख्यपुरप्रतिपादकाकाशपरत्वात् । न च कर्मधारयेऽप्याकाशपरत्वं कुत इति वाच्यम् । यावान्वा अयमाकाश इति प्रस्तुतमाकाशमस्मिन्निति परामृश्य सर्वं तदस्मिन् समाहितमिति सकलभोग्याधारत्वोक्त्यनन्तरम् अस्मिवेदिदं ब्रह्मपुरे सर्व समाहितम् । सर्वाणि च भूतानि सर्वे च कामायदैतत् जरामाप्नोति प्रध्वंसते वा किं ततोऽपि शिष्यत इति तस्याधारत्वानु पपत्तौ शङ्कितायां ’ नास्य जरयैतत् जीर्यति न ववेनास्य हन्यते । एतत्सत्यं ब्रह्मपुरमिति तत्समर्थनार्थं प्रवृत्तब्रह्म पुरशब्दस्याकाशपरत्वावश्यम्भावात् । न च ब्रह्मपुरशब्दरयाकाशपरत्वेऽपि षष्ठीतत्पुरुषमाश्रित्य परमाकाशपरत्वोपपत्त्या दहराकाशातिरिक्त ब्रह्मतात्पर्यत्वेऽपि सर्वमुपपद्यत इति वाच्यम् । तदानीमस्मिन् कामाः समाहिताः इत्यत्र कामशब्दः किं परमात्मपरः उत यात्रापृथिव्यादिपरः, नाद्यः, बहुवचनान्तत्वात् आत्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामानिति भेदनिर्देशाच्च ।

न द्वितीयः - परमात्मगुणाधारतया प्रतीयमानस्य परमात्मात्तावापत्तावस्मत्पक्षपरिग्रहप्रसङ्गात्, न हि परमात्मगुणानां धर्मी परमाकाशः । नापि तृतीयः - उपास्य रूपतदन्तर्वृत्ति प्रश्नस्योत्तरत्वायोगात् । अन्तर्वृत्ति प्रश्नस्यो - तरमेव आत्मेति वाक्यमिति चेन्न । एकवचनान्तस्यैतच्छब्दस्य ब्रह्मपुरविषयत्वेन तदन्तर्वृत्तिविषयत्वायोगात् । एतेन शक्तिविशिष्टस्य शिवस्य ब्रह्मत्वादन्तरन्वष्टेव्यस्य ब्रह्मत्वेऽपि दहराकाशरूपचिच्छक्तिगतत्वेनापहतपाप्मत्वादिपरमात्मगुणप्रतिपादनोपपत्तिरिति निरस्तम् । तस्मिन्यदन्तस्तदन्वेष्टव्यमिति प्रश्ने चिच्छक्ति502

गुणकथनस्य व्यधिकरणत्वप्रसङ्गात् । न च भवत्पक्षे तस्मिन् यदन्तस्तदन्वेष्टव्यमिति दहराकाशातिरिक्तस्यैवान्वेष्टव्यत्वं कथमुपपद्येतेति वाच्यम् । उत्तरत्र अथ य इहात्मानमनुविद्यत्रजन्त्येतांश्च सत्यान् कामानिति प्रतिपादनदर्शनेन तदन्वेष्टव्यमित्यस्योभयान्वेष्टव्यतापरत्वात् । अतश्छान्दोग्यवाक्यैकार्थ्याय तस्मिन् यदन्तस्तदुपासितव्यमित्यस्यापि कल्याणगुणपरत्वेन संनिहितशिवोपस्थापकत्वासिदेनी शिवस्योत्पत्तिशिष्टत्वम् । अस्तु वा आकाशान्तर्वर्तिन एव ब्रह्मत्वपक्षः न शिवस्योत्पत्ति शिष्टत्वम् । यो देवानां प्रथममित्यनन्तरं यस्मात् परं नापरमस्ति किश्चिदित्यस्यान्नानेन तत्प्रतिपाद्यस्य पुरुषशब्दार्थस्यैवायमतित्यात् । तेनेदं पूर्ण पुरुषेण सर्वमिति पुरुषस्य सर्वान्तर्वृत्तित्वकथनेन पदन्तरिति यच्छन्दस्य तत्परत्वौचित्याच्च । न चोपक्रमगतेशरुद्र-

पुरुषशब्दो लक्षणया शिवपर इति वाच्यम् । महिमान - “त्यान्यथासिद्धेरुक्तत्वात् । विश्वाविको रुद्रोमहर्षिः हिरण्यगर्भ पश्यत जायमानमिति हिरण्यगर्भजनके प्रयुक्तत्वेन प्रसिद्धरुद्रपरत्वासंभवात् । प्रत्युत भगवदुपस्थापन एव स्वरसत्वाश्च । न च हिरण्यगर्भजनकत्वं शिवस्याप्यस्त्विति वाच्यम् । तस्य विरूपाक्षाय ब्रह्मणः पुत्रायेत्यादिषु हिरण्यगर्भजन्यत्वेनावगमात् ।

ननु हिरण्यगर्भजन्यत्व तज्जनकत्वयोः कल्पभेदमादायोपपत्तिरिति चेन्न । तथा सति शाखद्वयस्य विकल्पप्रसङ्गात् तदपेक्षया रुद्रशब्दस्य नारायणे लक्षणाङ्गीकारस्य युक्तत्वात् । तथैव पर्युदासाधिकरणे महापितृयज्ञानूयाजयोश्योचदक वचनप्राप्तयोरार्षेयवरण येयजामहकरणयोर्नार्षेयं वृणीते नानूयाज ष्विति वचनाभ्यां विधीयमानयोस्तत्प्रतिषेधयोश्च विकल्पः उतनियमेन वर्जनं तथा नार्षेयं वृणीते नानूयाजेष्विति प्रतिषेधः उत पर्युदास इति संशय्य प्रतिषेधे श्रुतिवृत्तत्वं पर्युदासे च नानुयाजेष्वित्यत्र कल्पान्तराणां नार्षेयं वृणीत इत्यत्राङ्गान्तराणां च लक्षणीयतया लक्षणाप्रसङ्गः । न च श्रुतिसंभवे लक्षणा युक्ता । एवं च निषेधकस्य प्राप्तिपूर्वकत्वात् शास्त्रप्राप्तस्य शास्त्रेण बाधायोगाद्विकल्प इत्येवं पूर्वपक्षं प्रापय्य यतः प्रतिषेधे विकल्पः अत एव शास्त्रस्य पाक्षिकत्वप्रसङ्गः तदपेक्षया लक्षणैव ज्यायसी तथा च पर्युदासत्वाश्रयणमेत्र

503

युक्तमिति सिद्धान्तितत्वात् । एतेन परमशिवस्य हिरण्यगर्भजनकत्वं संभवतीति निरस्तम् । हिरण्यगर्भस्य नारायणजन्यत्व प्रतिपादकवचनविरोधात् । कल्पमेदेन तज्जनकत्व कल्पने तु शास्त्रद्वयस्य पाक्षिकत्वप्रसङ्गस्यापरिहारात् । न च हिरण्यगर्भस्य रुद्रजन्यत्व प्रतिपादकश्रुत्यनुसारात् नारायणजन्यत्व प्रतिपादकवाक्य एव लक्षणेति वैपरीत्यमेवास्त्विति वाच्यम् । हिरण्यगर्भस्य नारायणजन्यत्व प्रतिपादक श्रुतीनां भूयस्त्वात्तस्य रुद्रजन्यत्व प्रतिपादकवाक्येऽनुवादत्व द्योतक यच्छन्दसत्वात् । कथं तर्हि भवतां कल्पभेदेन नारायण हिरण्यगर्भयो रुद्रजनकत्वाङ्गीकार उपपद्यत इति चेन्न । उभयत्रानन्यथासिद्धवचनसत्वेनोभयाङ्गीकारात् ।

क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाने संभूतौ तस्मात् केशवनामवान् ॥

इत्यादिभिर्वचनैर्नारायणजन्यत्वम् ।

इत्यारभ्य,

सनत्कुमारो भगवान् ब्रह्मपुत्रो महायशाः । पूर्वजातास्त्रयस्तस्य कभ्यन्ते ब्रह्मवादिनः ॥ सनकः सनन्दनश्चैव तृतीयश्च सनातनः ।

हैरण्यगर्भः स मुनिर्वसिष्ठः पञ्चमः स्मृतः ।

षष्ठः स्थाणुः स भगवानमेयात्मा त्रिशूलधृक् ॥

इति ब्रह्मपुत्रेषु सनत्कुमारनारद संवादे परिगणनदर्शनेन हिरण्यगर्भ जन्यत्वं हि प्रतीयते, एवम् -

प्रजापतिस्तमसृजत्तमसोऽन्ते महातपाः ।

तस्य चैवानुजो रुद्रो ललाटाचः समुत्थितः ॥

इत्यादीनि वचनानि द्रष्टव्यानि ।

504

एवमन्यथासिद्धवचनबलात् कचिद्विकल्पोऽङ्गीकृत इति न सर्वत्र विकल्पाङ्गीकारो युक्तः । तथा सति ‘न तौ पशौ करोति’, अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीत्यादौ (जै. सू. 10-8-8 ) विकल्पोऽङ्गीकृत इति नार्षेयं वृणीते इत्यादावपि तथात्व प्रसङ्ग इति पर्युदासाधिकरणोच्छेद: स्यात् । न चैवमप्यथर्वशिखायां शिवजन्यत्वं हिरण्यगर्भस्य प्रतिपादितमिति तदनुसारेण यो देवानामिति मन्त्रस्य रुद्रपरत्वमस्त्विति वाच्यम् । तस्य कारणानुवादेन ध्येयत्व विधिपरत्वेन तत्परत्वाभावस्याथर्वशिखावाक्य विचारदशायामुपपादितत्वात् ।

अतिरात्रे षोडशिग्रह निषेधस्य विकल्परूपताधिकरणम्

ज्योतिष्टोमस्य संस्थाविशेषे श्रूयते – ‘अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ इति । तत्र यथा - अनुयागेषु ’ ये यजामह इति विधिनिषेधयोः समावेशे पर्युदासः, एत्रमत्रापि इति पूर्वपक्ष: ।

·

सिद्धान्तस्तु - मैत्रम् | एक विषयत्वेन व्याहतिप्रसङ्गात् । ’ अतिरात्रव्यतिरिक्तेऽतिरात्रे इत्युक्ते कथं न व्याहन्येत । दृष्टान्ते - विधिः सर्वविषयः, निषेधो ऽनुयाजमात्र विषयः इत्यनुयागपर्युदासेऽपि न विधेर्निर्विषयत्वम् । तर्हि ‘न पशौ करोति’ इत्यत्र न सोमे’ इतिवदर्थवादोऽस्तु । इति चेत् ।

मैवम् । स्तुत्यस्तावकयोर्विधिनिषेधयोरेकविषयत्वेन व्याहति तादवस्थ्यात् । ’ अपशवोऽन्ये गो अवेभ्यः’ इत्यत्र पश्वन्तरनिषेधेन गो अव विधेः स्तुतिर्दृष्टा । इह तु षोडशि निषेधेन षोडशिन एव स्तुतौ स्पष्टो व्याघातः । तस्मात् - प्रतिषेधः इति तृतीयः पक्षोऽस्तु । न च अत्रापि व्याघातः शङ्क्यः, अनुष्ठान विकल्पाङ्गीकारेण भिन्न प्रयोग विषयत्वात् । सत्स्वप्यष्टषु दोषेषु गत्यन्तराभावादुत्री हियत्रत्र द्विकल्पोऽभ्युपेयः । तस्मात् - प्रतिषेधः । इति राद्धान्तः । (जै. सू. 10-8-8 )

505

यदपि मास्तु कल्पभेदेन तथात्वम् । तथापि नारायणस्य शिवपत्नीमाता पितृभावेनोभयोरपि जनकत्वं संभवतीति । तदपि नारायणस्य शिवस्त्रीत्वं द्वितीयपरिच्छेदे विस्तरेण निराकृतमिति निरस्तं निरसिष्यते चतुर्थ परिच्छेदे ।

भगवतः शिवशक्त्यंशत्वं तस्माद्योदेवनामिति मन्त्रस्थ रुद्रपदस्य रुद्रपरत्वाभावान्नतद्बलात् तेनेदं पूर्ण पुरुषेणेति पुरुषशब्दस्य लक्षणाप्रसङ्गः । अस्तु चा शिवस्य हिरण्यगर्भजनकत्व प्रतिपादकत्वमस्य मन्त्रस्य । तथापि शिवात् स्मृतिनिष्पत्तेः प्रार्थनं प्रतिपादयता तेन न यस्मात्परमित्या दे रे कार्थकत्वनिर्बन्धः । शिवस्य उपायोऽस्मि हरेः स्मृतावित्यादौ भगवज्ज्ञानसाधननत्वावगत्या तावन्मात्रेण प्रकरण निवेशोपपत्तेः । न च हिरण्यगर्भजनकत्वस्य परमकारणत्व त्र्याप्तत्वात्तत्प्रतिपादकस्य परमात्मप्रतिपादकेनैकार्थ्यमवश्यंभावीति वाच्यम् । विकल्पपकथन व्याघातात् । नहि कल्पमेदेनेारमेद संभवः । किञ्च हिरण्यगर्भजनकत्वं परमात्मधर्म इति पक्षेऽपि यो देवानामित्यस्य यस्मात्पर मित्यादिना नैकार्थ्यमवश्यंभावि तस्य हिरण्यगर्भजनन साक्षात्कार प्रतिपादन परत्वेन तज्जनकत्व परत्वाभावात् ।

यत्तु - एवं सति श्वेताश्वतरे अस्य मन्त्रस्य हिरण्यगर्भ जनयामासेति पाठो विरुद्धयेतेति । तन्न, जनयामासेत्यस्य लक्षणाङ्गीकारेण सत्वनिर्वाहसंभवात् । अन्यथा तस्य नारायणजन्यत्व प्रतिपादक बहुश्रुति व्याकोप प्रसङ्गः । तस्माद्योदेवानामिति मन्त्रगत रुद्रशब्दानुसारात् ’ तेनेदं पूर्ण पुरुषेणेति पुरुषशब्दस्य न शिवपरत्वं नापि यद्वेदादाविति मन्त्रगतमहेश्वर शब्दानुसारात् । पुरुषशब्दस्योपक्रमगतत्वेन तदनुसारेण महेश्वर शब्दस्य नयनात् । किं च तदर्थ पर्यालोचनायां न तस्य रुद्रपरत्वं शङ्कितुं शक्यम् । तथाहि

F-64

,

ओंकार प्रथमान् वेदान् विद्धि मां त्वं भृगूद्वह ।

प्रणवाद्या मुने वेदाः प्रणवे पर्यवस्थिताः ||

506

इत्यादि प्रमाणावगतवेद प्रकृतिभाव प्रणव प्रकृतिभूत कारवाच्योद्देशेन विधीयमानं महेश्वरत्वं न देवतान्तरे पर्यवस्यति । ’ अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः ’ । अकारो विष्णुवाचकः, इत्यादि श्रुतिस्मृत्यनुसारेणाकारस्य भगवद्वाचकत्व प्रसिद्धेः । न हि जुहूमुद्दिश्य विधीयमानं पर्णत्वं कपालस्य भवति (जै. सू. 8-8 - 11 ) तथाचैतद्वाक्यार्थ पर्यालोचनायां भगवत एवैतद्वाक्यार्थत्वं सिद्धयति । यदुक्तं शब्दानां भूतपञ्चक गुणत्वेन तेषामन्योन्योपादोनीपादेयभावायोगात् प्रणवस्य वाऽकारस्य वा न प्रकृतित्वं वक्तुं शक्यमिति ।

  • वस्तुत उपादानोपादेय भावाभावेऽप्य’ कारो वै सर्वावा’ गित्यादि वाक्यान्तर प्रतिपत्वमात्रेण तथा व्यपदेशोपपत्तेः ’ त्रयत्रिवृतोऽग्निष्टोमा भवन्ति सुमुखं संपश्यन्तीत्यत्र ‘त्रिवृतमेव वज्रं संभृत्य भ्रातृव्याय प्रहरतीति विवृत्स्तोमस्य वज्रत्व व्यपदेशमात्रेण वज्रशब्दस्य त्रिवृद्रूपस्य ‘भाषवादिमिस्त्रिवृदर्थकत्ववर्णनात् प्रकृतिवाच्यत्व विवक्षायां तस्य या प्रकृतिस्तस्य यः पर इति वक्तव्यत्वेन तस्य प्रकृति लीनस्येत्याद्ययुक्तमित्युक्ति-

स्वादिषु खादिरतादिविधेः प्रकृतिगामिताधिकरणम् -

,

अनारभ्य श्रूयते ’ यस्य पर्णमयी जुहूर्भत्रति न स पापं श्लोकं शृणोति’ इति । तत्र - अव्यमिचरित क्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते ’ या जुहूः सा पर्णमयी’ इति । वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते, उभयत्राऽऽश्रय भूताया जुह्वाः तस्मात् - प्रकृतिविकृत्योरुभयोरप्ययं विधिः इति पूर्वपक्ष: ।

सिद्धान्तस्तु – किमयं विधिर्विकृतौ चोदकात्पूर्वं निविशते,

नाऽऽद्यः, आश्रयभूताया जुद्दाश्वोदकमन्तरेणासंभवात् ।

'

सत्वात् ।

पश्चाद्वा ।

द्वितीये तु

पर्णत्वमपि जुहा सहैव चोदकेनातिदिश्यते । तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः । एवं यस्य खादिरः स्रुवो भवति’ इत्युदाहरणीयम् । (जै. सू. 8-8 -1 )

507

रप्यनुपपन्ना । प्रकृतिलीनस्येत्यनेन सोऽर्थोऽनुगम्यत इत्यभिमतम् । उत तथोक्ति संभव एव मुक्तययोग इति किं वाऽनेन स्वरससिद्धोऽन्योऽयगम्यत इति,

,

नायः – प्रकृतिलीनस्येत्यस्य प्रकृत्यवस्थापनस्येत्यर्यकतया

गत्या अकारवाच्यत्यस्य प्रतीयमानत्वात् ।

पर्यवसान

न द्वितीयः - श्रुतिवाक्यस्यापौरुषेयत्वेनास्माभिः शिक्षणायोगात् । स्थितस्य गतिश्चिन्तनीयेतिन्यायेन यथा श्रुति वाक्यस्यैवार्थवर्णनौचित्यात् ।

न तृतीयः अस्य वाक्यस्यार्थान्तरवर्णनासंभवस्य प्रपञ्चयिष्यमाणत्वात् । ओंकारेण सर्वावाक् सन्तृष्णेत्यस्य सर्वेऽपि प्रणवस्य प्रणवप्रकृतित्वासंभवात् प्रकृतिशब्देनात्राकार एवोच्यते । न च मात्रामात्रा: प्रतिमात्रा: कृत्वेति तापनीये प्रणव प्रकृतित्वेनार्धमानायाः कीर्तनात् । अकारो वै सर्वा वागित्यस्यान्यपरत्वमिति वाच्यम् । अन प्रकृतित्व द्योतकशब्दाभावात् । न चोत्तरोत्तरस्य पूर्वपूर्व लयस्थानत्वोकथा प्रकृतित्वं प्रतीयत इति वाच्यम् । लयस्थानत्वोक्तयसिद्धेः कृत्वेति हि करणमुच्यते । न चोपासकेन तथा करणं संभवति तथा च चिन्तयेदिति प्रकृतित्वेन लक्षणया कृत्वेत्यस्य तथात्वेन विचिन्तनपरत्वान्न ततस्तल्लयस्थानत्वं प्रतीयत इति न तद्बलादर्धमात्रायाः प्रकृति शब्देनात्राभिधानं संभवति ।

ननु संबन्धान्तरेणापि अकारो वै सर्वावागित्यस्योपपत्तेः कथं तेन तत्प्रकृतित्वप्रतिपत्तिरिति चेन्न । समस्त शब्दमूलत्वादकारस्य स्वभावत: । समस्त वाच्यमूलत्वाद्ब्रह्मणोऽपि स्वभावतः ’ ।

'

वाच्यवाचकसंबन्धस्तयोरर्थात् प्रतीयते ’ ।

इति वामन पुराणादिवचनेषु प्रसिद्धत्वात् गुणगुणिभावाद्यभावस्थले सामानाघिकरण्यनिबन्धनत्वेन मृद्घट इत्यादावुपादानोपादेय भावस्य दृष्टत्वात् संबन्धान्तरानुपलब्धेश्च तस्यैव तस्मिन्नर्थवादे प्रतीयमानत्वात् ।

हृदाकाशादभून्नादो ब्रह्मणः परमेष्ठिनः ।

508

ततो हि त्रिवृदोङ्कार, इति भागवतवचनमपि नादोत्पत्यनन्तरं ब्रह्मण एत्र त्रिवृदोङ्कार उत्पन्न इत्यर्थकमिति नादनात्तदुत्पत्तिरपि सिद्धयति । एवं वर्णने सति ‘ओंकारश्वाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठंमित्वाविनिर्यातौ ’ इति वचनान्तरानुगुण्यं भवति । अर्धमात्रायाः प्रकृतित्वाङ्गीकारे वा कस्तेलाभः । न चाथर्वशिखायां अर्धमात्रावाच्यः शिव एवेति प्रतीतेः शित्र एव महेश्वरः सिद्धयतीति वाच्यम् । अथर्व शिखायाः भगवत्परत्वस्य विस्तरेणाऽस्माभिः प्रपचितत्वात् ।

यदपि अकारो ब्रह्मविष्ण्वीशकमटेष्वङ्कणेरणे । इति कोशकारैरनेकार्यानुशासनादकारवाच्यस्य महेश्वरत्वं विष्णात्रैकान्त्येन न पर्यवस्यतीति तदप्यनुपपत्रम् । ’ अकारेणोच्यते विष्णुरिति श्रुत्यन्तरे कण्ठरवेण विष्णुवाचकत्वस्यामिहितत्वेन वैदिकत्वसामान्यात् भगवत एव शीघ्रोपस्थितिकत्वात् । अश्वप्रतिग्रहेष्टिनये यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान निर्वपेदित्यत्रोपक्रमादधिकरणन्यायेने ष्टिनिमित्ततया निर्णीतत्वे दानं किं लौकिकं वैदिकं चेत्युभयम्, उत लौकिकमेव आहोखिद्वैदिकमेवेति संशय्य विशेषादुभयमिति प्रथमपूर्वपक्षं, दोषनिर्घातार्थत्वादिष्टदोषवत एव विधेय सामर्थ्येन निमित्तत्वनिर्णयाद्वैदिकस्य कर्माङ्गदानस्य विशेष विहितत्वेन प्रतिषेधासंभवाद्दोषवत्वाभावालौकिकस्यैव न केसरिणो ददातीति निषेधादोषवत्वाल्लौकिकस्यैवाश्वदानस्य निमित्तत्वमिति द्वितीयपूर्वपक्षं लोकप्रसिद्धमेव निमित्तत्वेनो दिश्यनैमित्तिकस्य कर्मणोविधानात् पूर्वसिद्धावा लोच्यमानायां नैमित्तिकस्य वैदिकत्वाद्वौदकस्यैवाश्वदानस्य शीघ्रोपस्थित्या तस्यैव निमित्तत्वं युक्तम् । न च लौकिकस्य दोषकत्वाद्विहिताया इष्टेर्दोषनिघतार्थत्वस्यैव निमित्तत्वमितिवाच्यम् । इष्टेर्यादृश जलोदररूपदोषशान्तिहेतुत्वं वाक्यशेषेऽवगम्यते तादृशदोषहेतुत्वासिद्धेः । न वदानस्य जलोदर हेतुत्वे किञ्चिन्मानमस्ति वाक्यस्य प्रसिद्धदोषानुवादेन तभिर्मोकार्थप्रायश्चित्तेष्टिविधिपरत्वादनेन तद्दोष हेतुत्वस्य प्रतिपादनासंभवात् । तत्परत्वे वाक्यभेद प्रसङ्गात् ।

509

नच जलोदर शान्तेरिष्टिसाध्यत्वं प्रतिपादयदिदं वाक्यमेव तत्सिध्यर्यमर्यादश्वदानस्य जलोदरहेतुत्वमाक्षिपतीति वाच्यम् । जलोदर शान्तेरपि साध्यत्वस्य कल्प्यत्वेनैतद्वाक्य प्रतिपादितत्वाभावात् ।

न चैत्रमप्यर्थवादस्यानतिपरोक्षत्वार्थ जलोदर शान्तेरेव फलत्व कल्पनावश्यम्भावात्तत्सिध्यर्थमश्वदानस्य जलोदर हेतुत्वमपि कल्प्यतामिति वाच्यम् । वाक्यशेषमनादृट्य वैदिकक्रियात्व सामान्याद्वैदिक श्रदानस्य शीघ्रोपस्थित्यातेन च तत्संबन्धिऋतूपकारस्यैवोपस्थितस्य फलत्वकल्पनानौचित्येन जलोदरशान्तेः फलत्वकल्पनात्रश्यंभावात् । अतो वैदिकमेवाश्वदानं निमित्तमित्येवं राद्धान्तितत्वात् । सप्तमचतुर्थपादे च (जै. सू. 74 - 1 ) सौयं चरुं निर्वपेद्रह्मवर्चसकाम इत्यत्रोपदेशेनेतिकर्तव्यताया असमर्पणाद्भावनाया इति कर्तव्यताकाङ्क्षया अशान्तेरन्यतः सिद्धेतिकर्तव्यताशास्त्रेणाभ्युपगतेत्येवं निश्चिते सति किं लौकिकी इतिकर्तव्यता प्राप्नोति वैदिकीवेति संशय्य वैदिक्याः कचिदर्शपूर्णमासादौ निबद्धत्वेन प्रथमं तत्र धर्मान् विधाय पुनरपि सौर्यादौ विधाने विरम्य व्यापार प्रसङ्गात् प्रकरणबलात् व्यवस्थितत्वेन साधारण्येन विधानासंभवाच्च तस्या अप्राप्ते लौकिक्याश्च पार्वणकादि साधारण्य दर्शनात् कचिदनि बद्धल्वाल्लौकिकीतिकर्तव्यता प्राप्नोतीति पूर्व पक्षं प्रापय्य वैदिकत्व सामान्याद्वैदिक्या एव शीघ्रमुपस्थितेर्लोकिक्या अपूर्वत्वेन शीघ्रमुपस्थित्यभावाद्वैदित्येव प्राप्नोति । न च निबद्धत्वान्नान्यत्र नेतुं शक्येति वाच्यम् । निवद्धत्वस्योपदेश-

सौर्ये चरावितिकर्तव्यता चत्वाधिकरणम्-

’ सौयं चरुं निर्वपेद्रह्मवर्चसकाम:’ इत्यत्रावघातादयो धर्मा न प्राप्यन्ते । कुतः - प्रापकप्रमाणानां श्रुतिलिङ्गादीनामभावात् इति पूर्वपक्ष: ।

सिद्धान्तस्तु – मैवम् । ‘विभतो याग उपकरणापेक्षः, करणत्वात लौकिक वैदिक भोजन दर्शपूर्णमासवत्’ इत्यनुपातेन तत्प्रापणात् । (जै. सू. 7-4-1)

510

मात्र प्रतिबन्धकत्वात् । न हि समानविधानत्वमभ्युपगतं, किन्तु अतिदेशेनेति कर्तव्यता प्राप्नोतीत्यभ्युपगम्यते । अतो वैदिकत्वसामान्यात् वैदिक्येव प्राप्नोतीति राद्धान्तितत्वाच्च । अथर्वशिखादिषु ब्रह्मदेवत्येत्याद्युक्तावपि न वाचकत्वं कण्ठवेणामिहितमिति न चतुर्मुखस्याप्युपस्थितिः प्रसिद्धिप्राचुर्य चाकारस्य विष्णुवाचकत्वेनेति नान्यथासिद्धिसंभवः अतो ’ यद्वेदादाविति मन्त्रस्य ’ न शिवपरत्वं ।

दहं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् । तत्त्रापि दहं गगनं विशोकस्त स्मिन्यदन्तस्तदुपासितव्यम् ॥

इत्यपि भगवत एव हृदयान्तर्वर्तित्वमुपदिशति ।

यद्वेदादौ वरः प्रोको वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ||

इत्युत्तरवाक्यानुसारात् तस्मिन्यदन्तरिति किमुच्यत इत्यकाङ्क्षायां तदुपासनाङ्ग मन्त्रप्रतिपाद्यत्वमुखेन देवतानिर्धारणं क्रियते तत्र च प्रणत्रप्रतिपाद्यत्वमात्नोक्तौ ब्रह्मपदेनेव देवतानिर्धारणासिद्धिरिति भगवति प्रसिद्धेर्नाकार वाच्यत्वेन देवतानिर्धारणं क्रियते । तत्राप्युपासनाङ्गभूत प्रणव प्रतिपाद्यत्वोपदेशाय इत्थं संनिवेशः । अणोरणीयान् महतो महीयान् महादेव इत्यादिना महेश्वरत्वस्य प्राप्तत्वान्महेश्वरः को देव इति देवतानिर्धारणाकाङ्क्षायां महेश्वर इत्यनूद्य यतोवेत्यादिवाक्ये प्रकृतब्रह्मानुवादेन प्रसिद्धकारणाभेद विधानेन जगत्कारणं ब्रह्मेति ब्रह्मनिर्धारणवत् प्रसिद्धाकारवाच्याभेदविधानेन देवतानिर्धारणं क्रियते अकारस्यान्यत्रापि प्रयोगेऽपि रूढियोगस्वारस्यं भवत्येव, रूढिखारस्यं सुप्रसिद्धं, योगस्वारस्यमपि त्रिषु मूर्तिषु रक्षणाधिकारात् । विष्णुर्मन्वादयः काल इति रक्षणमात्रस्य भगक्कार्यत्वस्मरणाच । न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिमिति च वैदिकानां प्रसिद्धमेव । ’ अव रक्षणे ’ इति धातोरुत्पन्न - श्वायमकारः यः पर इत्यन्तेनानूच तस्य प्रसिद्ध महेश्वरा भेदविधानं किं न स्यात् । तदर्थस्याप्रकृतत्वान्नस्यात् । न हि प्रकृतानुवादसंभवे दूरधावनं

511

युक्तम् । प्रसिद्धामेदविधाने यत्पदान्वित पदोपस्थापिताभेद विधायकस्वारस्याश्च, यथा यतोवेत्यादि ।

1

ननूपक्रमे महिमानमीशमिति पदं श्रूयते । किं तेन रुद्रोऽभिधीयते उतान्यः । आधे उपक्रम एव देवतानिर्धारणसिद्धेः न पुनर्निर्धारणापेक्षा । द्वितीये कथमस्वारस्य परिहार इति उच्यते - ईशशब्दस्य सर्वेश्वरे स्वारस्यम् । इहतेन तदाभिधानं चावयोः संप्रतिपन्नम् । अतो नेशशब्दखारस्यवला देवता निर्धारण संभवः ।

नापि यो देवानां प्रथममिति मन्त्रेणास्य प्रणवप्रतिपाद्य परतत्व स्मृत्यभ्यर्थनात्मकस्य प्राकरणिक प्रधानार्थ निर्धारणा सामार्थ्यात् ।

वस्तुतस्तु - ’ रुद्रंतु सारथिं कृत्वा उपायोऽस्मि हरेः स्मृतौ ’ इत्युक्तरीत्या अस्य मन्त्रस्य भगवत्स्मृत्यभ्यर्थनात्मतयानेन मन्त्रेणैव भगवन्निर्धारण सिद्धिः । यद्यपि तेनेदं पूर्णमित्येव देवतानिर्धारिता तथापि पुरुषशब्दस्य साधारण्यप्रसिद्धया मन्दप्रतिभानुजिघृक्षया इदं निर्धारणमिति मन्तव्यम् । प्रणवस्य तावद्वेदाद्यन्तयोरनुसन्धेयत्वं वैदिकानां सुप्रसिद्धम् ।

‘ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।

स्रवत्येनः कृतं पूर्व परस्तात्तु विशीर्यते ॥

इति मनुस्मृत्युक्तेः तदिदमाह - यद्वेदाविति । तस्य प्रकृति लीनस्येति अकारोवै सर्वावागित्याद्यर्थवाद निर्देशममित्यत्र प्रकृति शब्देनाकार उच्यते भृद्घट इति यदकारो वै सर्वावागित्युपादानोपादेय भाव प्रतीतेर्लयोऽपि तत्रैव वक्तुं योग्य इति लयस्थानत्वमुत्प्रेक्ष्य प्रकृतिलीनस्येत्य मेदोपचारेणोच्यते परः प्रधानः अर्थप्रतिपत्त्ययों हि शब्दः ’ गावो वा एतत्सत्र मासते’ त्यर्थवादानुसारात् गवामयनमिति व्यपदेशत्रदिहाप्यर्थवादानुसारेण प्रकृतिव्यपदेशोयुक्त एव ।

यद्यपि भागवते समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः | हृदाकशादभूत् नादः, इति नादरूपार्धमात्रां प्रकृत्य ततो हि त्रिवृदोंकार इति तस्याः प्रकृतित्वं कण्ठरवेणावगतं तत्प्रणवं प्रत्येव न तु स्वरं प्रति प्रणवश्च मकारः न तु स्वरमात्त्रं, अतो व्यञ्जनान्तसमुदायं प्रत्यस्योपादानत्वान्न

“512

'

तस्य स्वरोपादानत्वम् । ‘अकारो वै सर्वावागिति तु सर्व वर्णोपादानत्वावगमात् स्वरं प्रत्युपादानमेवाकार इति श्रुतिमर्यादानुरोधात् । अकार: सखरानन्यान् हलश्वापि ससर्जह’ इति वाराहवचनाच्च इत्थं प्रकृतिपदं व्याख्यातम् । अनुशासनानुरोधात् । प्रकृतिपदं स्थानिपरमित्यपि वदन्ति । अकारोकारयोरोकारादेशे अकारस्थानित्वादवधारणार्थस्योकारस्याकारोपसर्जनत्वेनार्थबलात् स्थानिरूपमापन्नस्येत्युपचर्यते । तत्र प्रकृतिपदेन प्राधान्यादकारस्यैव प्रकृतित्वाविशेषाद कारोकारयोर्वाग्रहणं समुदायस्य सावधारणार्थपरतया भगवानेव समुदायप्रधानः । प्रकरणानुगुणत्वं च भगवत्परत्वम् । ’ अम्भसी’ति पूर्वत्र उत्तरत्र ’ ऋतं सत्य’ मिति नारायणानुवाके च भगवत एव प्रकृतत्वात् । अयं चानुवाको भगवत्परः । अणोरणीयांसमिममात्मानमोङ्कारं नो व्याचक्ष्वेति नृसिंहतापनीय प्रयोगात् । अयं चानुवाकः शङ्खलिखितेन भगवत्परतयोपबृंहितः ।

अशब्दमस्पर्शमरूपं गन्धवर्जितम् ।

निर्दुःखमसुखं शुद्धं तद्विष्णोः परमपदम् ॥

अणोरणीयान्महतो महीयान्

आत्मागुहायां निहितोऽस्य जन्तोः । तमऋतुं पश्यति वीतशोको

धातुः प्रसादान्महिमानमीशम् ॥

एष देवस्तु मर्त्यानां पटैरिव पिधीयते ।

एष वै पुरुषो विष्णुर्व्यक्ताव्यक्तः सनातनः ॥

इति इदं चोपबृंहितम् पाचे

यो वेदादौ खरः प्रोको वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ योऽसावाकारवाच्यो वै विष्णुर्नारायणो हरिः । स एव पुरुषोनित्यः परमात्मा परमेश्वरः ॥

513

तस्यांशु भूतमैश्वर्यं यस्मिन् कस्मिन् हि वर्तते । तस्मिन्नीश्वरशब्दादिः प्रोच्यते मुनिभिस्तथा ॥ निरुपाधीश्वरत्वं तु वासुदेवे प्रतिष्ठितम् । आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनः ॥ तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ।

असौ त्रिपाद्विभूतेस्तु लीलाया अपि चेश्वरः || विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः श्रीभूनिशापतिर्योऽसावीश्वरः समुदाहृतः । तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥

इति । अतो यद्वेदादाविति वाक्यबलादियं दहरविद्या भगवत्परेत्याहुः ।

तदप्य-

यदपि अर्थान्तरोत्प्रेक्षणम् अग्निमीळे पुरोहितम् इत्यादि, सारम् । तथाहि तत्र प्रथमपक्षे प्रकृतेर्यः पर इति उक्तिमात्रेण चारितार्थ्यादितरद्वघर्थं स्यात् । वासुदेवस्याकारत्राच्यत्व प्रतिपादनार्थमितरदिति चेत् । किं वासुदेवस्याकारवाच्यत्व प्रतिपादनं तस्मिंस्तद्विधानार्थमुतानुवादमात्रमिति विवक्षितम्

नाव:

वासुदेवे अकारवाच्यत्वस्यान्यत्र महेश्वरत्वस्य विधाने वाक्यमेद प्रसङ्गात् । न द्वितीयः आनर्थक्यपरिहारात् । न हि वासुदेवाकारवाच्यत्व प्रतिपादनेन कश्चनविशेषः सिद्धयति । तद्वाच्यत्व प्रतिपादनार्थत्वे वा एतावद्वयर्थम् । यद्वेदादावित्यनेन वा वेदान्ते चेत्यनेन वैदिकेन अकारोपस्थित्या इतरस्य प्रयोजनाभावाद्वेदाद्यन्तस्थत्वेनाभ्यर्हितत्व प्रतिपादनार्थमुभयं सार्थकमिति चेन्न । वेदमध्यस्थापेक्षया वेदान्तस्थस्य कुतोऽभ्यर्हितत्वं वेदवर्णेषु प्राथम्येन वेदोपरि निविष्टत्वेन चाभ्यर्हितत्वमस्तीति चेन्न । वेदवर्णमालिकामध्यभागालङ्कारभूतत्वेन मध्यस्थस्याप्यभ्यर्हितत्वस्य वक्तुं शक्यत्वाद्वाक्यान्तर सिद्धार्थमादाय खरससिद्धार्थकथनसंभवे एक्मुत्प्रेक्षणस्यायोगाच्च । किञ्च अग्निमीळे पुरोहितमित्यत्राग्नि पदस्थाकारस्य समानं परमित्यत्र रेफोत्तरस्याकारस्य चाकारस्यार्थान्तर प्रतिपादक पदस्थत्वेन वासुदेववाचकत्वासिद्धेस्तस्येत्यस्य तत्सजातीयपरत्वं वाच्यमिति

F-65

514

देवदत्तस्य श्वशुरस्य श्वशुरः परगृहेषु पुस्तकानि वहतीति दत्तो विपश्चित्तम इति वाक्यतुल्यं स्यात् तस्येत्यस्य लक्षणा च स्यात् ।

ननु किं भवत्पक्षे एतावतो वाक्यस्य प्रयोजनमिति चेन्न, ओंकार प्रभवान्वेदानित्यादिषु प्रणवस्य वेदोत्पत्तिलयस्थानत्वेनात्रगत्या तथा प्रतिपन्न प्रणव प्रकृतिभूताकारवाच्यत्व प्रतिपादनस्य समस्तवेद मूलकारणीभूत शब्दवाच्यस्य महेश्वरत्वं युक्तमिति विधास्यमान महेश्वरत्वोपपत्ति सूचनार्थत्वेन प्रयोजनस्य स्फुटतरत्वात् । द्वितीयपक्षेऽपि अइउण्, इति सूत्रे इकारपरत्वेनोकारस्य दर्शनादिका रपरत्वविवक्षया प्रकृतिलीनस्येत्येतद्वयर्थमसङ्गतं च, न हि तस्मिन् सूत्रे इकारस्य दैर्ध्यात्रस्थाप्राप्तिरस्ति तःप्राप्तिप्रतिपादनपरत्वं हि त्वयाभ्युपगतम् । वेदादिभूतान्तभूतवर्णपरत्वाभावात्तजातीय लक्षणा तस्येत्यस्य स्यात् । आकारपरत्वविवक्षायामीकारेकारयोर्भेदाभ्युपगमे तस्य प्रकृतिली नस्येत्युक्तय सामञ्जस्यं तस्येत्यस्य प्राग्वर्णपरत्वात् । दीर्घस्य लक्ष्मीवाचकत्वात् तयोरभेदाभ्युपगमे प्रकृतिलीनस्येत्युक्ति विनापि तस्येत्यनेनैव, यः परः समहेश्वर इति प्रतिपाद्यमान महेश्वरत्वानुसारेण दैर्ष्यावस्थापन्नस्य ग्रहणसंभवे प्रकृतिली नस्येत्युक्ति वैयर्थ्यानङ्गीकारग्रहणे

ईकारोऽब्जदले लक्ष्म्यां वाण्यां कमलकेसरे ।

ईशनायां शक्रचापे बाणे फणिनि कन्धरे ॥ '

॥’

इत्येतेष्वर्येषु ऐश्वर्य विशिष्टवाचक पुंलिङ्गान्त शब्दार्थस्य प्रतिपादनं संभवति अतः इकारस्य तस्य यः परइत्येतावन्मात्रेणैव ग्रहणं भवेदिति प्रकृतिली नस्येत्येतद्वयर्थमेव । अपि च वेदाद्यन्त प्रोकेकारग्रहणे तस्य व्यक्तिविशेषस्य दैर्ध्यावस्थापन्नत्वाभावात्तस्येत्यस्य जातीयपरत्वावश्यम्भावे ईकारेऽपि साजात्यस्य निरङ्कुशत्वात्तस्य तत्परत्वं वक्तुं शक्यमिति तस्य यः पर इत्यनेनोकारस्यैव ग्रहणं भविष्यतीति प्रकृतिलीनस्येत्येतत्सर्वथानर्थकमेव, तस्मान्नार्थान्तरोत्प्रेक्षा संभवः ।

वेदान्तविजयकृतस्तु

आकारस्य वेदाद्यन्तस्थत्वेनाभ्यर्हितस्य वाच्यो यो विष्णुस्तत्प्रधानभूतो महेश्वर इत्यर्थ कल्पनं तावन्न संभवति स्वरस्यान्त

515

प्रतिष्ठितत्वाभावात् । समानं परमित्यत्र अकार एव ह्यन्तः प्रतिष्ठितः । अक्षरान्तत्वेऽपि वेदाद्यन्तत्वासिद्धेः । न चात्र अचोन्स्यादीत्यादिवत् सजातीय निर्देशः कृतः तस्य प्रकृतिली नस्येस्यत्र प्रकृत्यर्थकस्य यः परः प्रधानमर्थ एवार्थार्थत्वाच्छब्द प्रयोगस्य तस्मादकारार्थस्यैव महेश्वरता सिद्धयतीति किमनिष्टम् । वासुदेव: पराकृतिरिति च वासुदेवस्य प्रकृतिशब्दवाच्यत्वं न विधीयते किन्तु - पादानत्वम् । अन्यथापरशब्दवैयर्थ्यात् उपादानत्वे च परशब्द: प्रकर्षपरः प्रकर्षश्च स्वेच्छाधीन परिणामित्व स्वरूपास्पर्शश्च । नापि दैर्ध्यावस्थेकार भूतोकारवाच्यो महेश्वर इत्येवमर्थकल्पनं संभवति । लक्ष्मीवाचकस्येकारस्य वेदाद्यन्तयोः प्रतिष्ठितत्वासिद्धया तस्य प्रवृतिलीनस्येत्युक्त योगादित्याहुः ॥

यदपि प्रकरणानुसारेणैवार्थवर्णनं कर्तव्यं प्रकरणं चेत्यादि । तदसङ्गतम् । प्रकरणस्य भगवत्परत्व व्यवस्थापनात् । त्रिपुण्डूधारणाङ्ग भस्मसंपादने विनियोगात् अणोरणीयानित्यस्य शिवपरत्वमित्यप्यनुपपन्नम् । भस्मसंपादने विनियोगे भस्मपरत्वं परित्यज्य शिवपरत्वोक्तययोगात् । ऐन्द्रथागाईपत्यमुपतिष्ठत इत्यनेन गाईपत्ये विनियुक्त स्यैन्द्रमन्त्रस्य गाईपत्यपरत्वं हि न्यायविद्भिर्वर्ण्यते । भस्मसंपादनस्य शिवदेवताकत्वात्तत्र विनियुक्तस्य शिवप्रतिपादकत्वमुपपन्नमिति चेन्न । शिवस्य तत् देवतात्वासिद्धेः । त्यज्यमानह विरुद्देश्यत्वेन वा मन्त्रस्तुत्यत्वेन वा देवतात्वं स्यात् । भस्मसंपादनस्यायागरूपत्वाच्च नोभयविधं देवतात्वं तत्र शिवस्य संभवतीति कथं तदुक्तिसंभवः, भस्माधिष्ठानदेवतात्वाच्छिवस्य तत्प्रकाशनमुपपद्यत इति चेन्न । तस्य तदमिमानिदेवतात्वे मानाभावात् । भावे वा तदनुष्ठानदशायां गौण्या लक्षणया विनियोग संबन्ध्यर्थ प्रकाशकत्वसंपादनमात्रेण विनियोगस्य चारितार्थ्यान्न तद्बलात् पूर्वोक्त प्रमाणावगत भगवत्परत्वादिकं प्रकरणविरुद्धार्थवत्वकल्पनं युक्तम् ।

यदपि स्वाभिमतार्थकथनं वेदादौ यः खरः प्रोक्तः प्रणवः प्रतिपाद्य प्रतिपादका मेदोपचारान्तर्विशेषं ब्रह्म तदेव वेदान्ते च प्रतिष्ठितमित्यादि । दतति-

516

स्थवीयः, स्वरशब्दस्य तत्प्रतिपाय ब्रह्मपरत्वे वेदादिप्रोक्तत्वेन स्वरस्य विशेष्टुमशक्यत्वापत्तेः । ब्रह्मणोवेदादिप्रोक्तत्वासिद्धेः खरशब्दस्य परत्वेनाच्परत्वाभावात्तत्प्रतिपाद्यत्वेन वेषेण लक्षकत्वेऽपि ’ पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेने ‘ति स्वरान्वयासंभवात्, यद्वेदादौ वरः प्रोक्त इति वाक्यस्य लक्षकत्वे सर्वेषा पदानां लक्षणास्यात् । लक्षणाङ्गीकारे च न किश्चित् कारणं पश्यामः । वेदान्ते च प्रतिष्ठित इति वेदान्तभागप्रतिपाद्यत्वकथनात्तदनुसारेण लक्षणामङ्गीकुर्म इति चेन्न । प्रणत्रपरत्वेन तस्यार्थवर्णनस्यापि खरसत्वात् स्वरपदसामानाधिकरण्यानुरोधेन पूर्वोक्तरीत्या प्रणवपरत्वेनैवार्थ वर्णनस्य युक्तत्वात् । खरपदमपि ब्रह्मपरमिति चेन्न । तत्कल्पकाभावस्यानुपदमेवोक्तत्वात् । वेदान्ते

प्रतिष्ठित इत्येतदेव कल्पकमिति तु परस्पराश्रयप्रस्तं वेदादौ प्रोक्त इत्यस्य बेदान्ते च प्रतिष्ठित इत्यस्य च वैरूप्यप्रसङ्गश्च । किं च प्रकृतिली नस्य इत्यादिकमेवोक्तार्थप्रतिपादनसमर्थमिति तस्येत्यन्तं व्यर्थम् । प्रकृतिसहित जीवप्रकृतिशब्दवाच्याविद्या संश्लिष्टत्वं

नियन्तृत्वमात्र

प्रतिपादनस्यैवापेक्षितत्वेन

जीवस्यैवेति तेन पदेन तदुपस्थापनात् । न चाविद्याकार्यस्य प्रपञ्चस्याविद्यायां लयसंभवात्तच्छब्देन प्रपञ्चोपस्थितौ तदपेक्षया परो यो जीवः स महेश्वर इति तथा च तत्सिद्ध्यर्थं यद्वेदादावित्यादिकमिति वाच्यम् । यः पर इत्यस्य जीवोपस्थापकत्वं प्रकृतेः यः पर इत्युक्तिमात्रेण प्रकृतिशब्दवाच्याविद्यापेक्षया परोजीव इति प्रतीत्या चरितार्थमिति प्रकृतिलीनस्येत्युक्तिवैयर्थ्यापत्तेः । अतस्तथोक्तिबलात् प्रकृतिलीनस्येत्यनेन विद्यासंबन्धि जीवोपस्थित्यातन्नियन्तुर्महेश्वरत्वविधानं संभवतीति तस्येत्यन्तस्य वैयर्थ्य दुर्निवारम् । प्रणवप्रतिपाद्यस्यैत्र ब्रह्मणो जीवभावमापन्नस्य यः परोनियन्ता स रुद्र इत्यतिशयप्रतिपादनार्थं तदुक्तिरुपपथत इति चेत् । तथासति प्रणववेदान्तप्रतिपाद्य ब्रह्मव्यतिरिक्तत्व प्रसङ्गात् । न हि जीवभावापादनेन निन्द्यमानेन ब्रह्मणास्तूयमान महेश्वरस्यामेदः संभवति । स्तुत्यस्य निन्द्यामेदायोगात् । न चाकारमेदमादाय स्तुतिनिन्दयोरुपपत्तिरिति वाच्यम् । एतादृशपरिहारस्य शिवस्य ब्रह्मत्वसिद्धयनन्तरभावित्वात् । तच्च नेदानीमपि सिद्धम् । तथा चास्य शिवपरत्वं सिसाधयिषतस्तत्र

517

शिवस्य ब्रह्मव्यतिरेक प्रसङ्ग इति प्रसिद्धिमिच्छतो मूलहानिः शेषं ब्रह्मलक्षणया प्रणवप्रतिपाद्यमित्यप्यसङ्गतं ’ ब्रह्मणेत्या महस ओमित्यात्मानं युञ्जीते ‘ति भगवते जीवात्मसमर्पणपरत्वेन श्रुत्यैव व्याख्यानात् । अन्यथा मुख्यार्थभङ्गश्रुतिविरोधयोः प्रसङ्गात् । एतेन प्रणवस्थाकारस्य देवतान्तरपरत्वशङ्कापि गलहस्तिता । अस्य वाक्यस्य भगवत्प्रकरणस्थत्वेन ब्रह्मशब्दरूढ्या च भगवत्परत्वावगतिः तद्रूढिश्च वेदे भूरिप्रयोगाच्च शार्ङ्गिणि । ’ तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तोमहामुने, इत्यादि ।

यस्मिन् प्रयुज्यमाने तु गुणयोगः सुपुष्कलः ।

तत्रैव मुख्यवृत्तोऽयमन्यत्र ग्रुपचारत: ॥ '

इत्यन्तेन गारुडपुराणवचनेन सिद्धा । प्रकरणस्य भगवत्परत्वं च - ‘सवाएष पुरुष: पश्चधा पश्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिश श्रावान्तरदिशश्च सबै सर्वमिदं जगत् स च भूतं सभव्यजिज्ञासा क्लृप्तऋतजारयिष्टा श्रद्धा सत्योमहस्वान् तमसोपरिष्ठात् ज्ञात्वा तमेवं मनसाहृदा च भूयो न मृत्युमुपयाति विद्वानित्युपक्रमे स एष पुरुष इति पुरुषश्रुतिबलात् येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं चेत्यनेन यस्मिन् द्यौरिति मुण्डकश्रुति प्रत्यमिज्ञानात् । सबै सर्वमित्यनेन तमसोपरिष्टात् ज्ञात्वा तमेवमित्यनेन च पुरुषसूक्तार्थप्रत्यभिज्ञानाश्च । अतोऽकारवाच्ये भगवति महेश्वरत्वनिरतिशयैश्वर्यशालित्वं विधीयत इति न देवतान्तरस्य यद्वेदादाविति मन्त्रप्रतिपाद्यत्व शङ्कावकाशः । एतेन महेश्वरशब्दरूढ्यनुसारादनूदितस्य परस्य शिवरूपता - विधौ तात्पयं निश्चीयते । अतो निश्चित विधेयानुरोधेनानेकधा योजयितुं शक्यस्यानुवाद भागस्य योजनमुचितमित्यादि तदपि निरस्तं वेदितव्यम् । योजनान्तरेष्वानर्थक्यासङ्गतत्वादि प्रसङ्गस्योक्तत्वेन तदनुरोधेन महेश्वरशब्दरूढिभङ्गस्यैव युक्तत्वात् आनर्थक्याद्वरं लक्षणेत्यस्य सुप्रसिद्धत्वात् । असङ्गतार्थकथनापेक्षया लक्षणाभ्युपगमो युक्त इत्यस्यार्थस्य ’ अग्नी-

518

दग्नीन्विहरे ‘ति (जै. सू. 2 - 1 - 7 ) प्रैषानन्वयापेक्षया उत्तिष्ठन्तीत्यत्न उत्थानकाल लक्षणाज्यायसीति वदद्भिर्न्यायविद्भिरङ्गीकृतत्वाच्च । अतो यस्योभावानी अनुगतावित्यत्र एतादृश दूषण प्रसङ्गाभावाद्विधेयानुरोधेऽप्यत्र

मन्त्र निर्वचनाधिकरणम् -

आधान इदमाम्नायते - ’ अहे बुनिय मन्त्रं मे गोपाय इति । तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात् । विहितार्थामिधायको मन्त्रः’ इत्युक्ते ‘वसन्ताय कपिञ्जलानालभेत ’ इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः । मनन हेतुर्मन्त्रः’ इत्युक्ते - ब्राह्मणेऽतिव्याप्तिः । एवम् ‘असिपदान्तो मन्त्रः ’ ’ उत्तम पुरुषान्तो मन्त्र:’ इत्यादि लक्षणानां परस्परमव्याप्तिरिति चेत् इति पूर्वपक्ष: ।

सिद्धान्तस्तु – याज्ञिक समाख्यानस्य निर्दोष लक्षणत्वात् । तथ समाख्यानमनुष्ठान स्मारकादीनां मन्त्रत्वं गमयति । ‘उरु प्रथस्व’ इत्यादयोऽनुष्ठानस्मारकाः । ’ अग्निमीळे पुरोहितम्’ इत्यादयः स्तुतिरूपाः । ’ इषेत्वा ’ इत्यादयस्त्वान्ताः । अग्न आयाहि वीतये’ इत्यादय आमन्त्रणोपेताः : । ‘अग्नीदग्नीन्विहर’ – इत्यादयः प्रेषरूपाः । ’ अधः स्विदासीदुपरि स्विदासीत् इत्यादयो विचाररूपाः । ’ अम्बे अम्बिके अम्बालिके न मानयति कश्चन ’ इत्यादयः परिदेवनरूपाः । ’ पृच्छामि त्वां परमन्नं पृथिव्याः इत्यादयः प्रश्नरूपाः । ’ वेदिमाहुः परमन्नं पृथिव्याः ’ इत्यादय उत्तररूपाः । एवमन्यदप्युदाहर्तव्यम् । ईदृशेष्वत्यन्तविजातीयेषु समाख्यान मन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति यस्य लक्षणत्वमुच्येत । लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः

,

‘ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः ।

लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ॥ '

इति । तस्मात् – अमियुक्तानां ’ मन्त्रोऽयम्’ इति समाख्यानं लक्षणम् । (जै. सू. 2-1-7 )

· 519

न तदनुरोधसंभत्रः । तस्माद्यद्वेदादावित्यस्य भगवत्परत्वमेवास्मदाचार्योंक्तं निष्कण्टकमिति न महेश्वरशब्दोऽपि शिवोपस्थापक इति पूर्वोक्त पुरुषश्रुत्यादिभिः भगवत एवोपस्थित्या भगवानेव दहर विद्योपास्य इति अणोरणीयानित्यत्र प्रतिपाद्यत इति दिक् ।

यदपि कैवल्योपनिषत्प्रत्यभिज्ञानादियं दहर विद्या शिववैभवपरेति । तदसङ्गतम् । कैवल्योपनिषदो भगवत्परत्वव्यवस्थापनात् । किंत्र कैवल्योपनिषत्प्रत्यभिज्ञानमुपासनास्थान साम्याद्यदि तदा ’ अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्य य आत्मा हेमपुण्डरीकमध्ये तस्मात् कारणरूपं बोधस्वरूपं विज्ञानघनं तस्मात्तटिदाभमात्रं ’ ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ’ सर्वभूतस्थमेकं नारायणम् इत्यात्म प्रबोधोपनिषदे भगवतो हृदयपुण्डरीकान्तर्वर्तित्वकथनात्तत्प्रत्यभिज्ञानमपि सुवचम् । न च विरूपाक्षकृष्णपिङ्गलपदयोस्त्रिलोचनोमासहाय पदसमानार्थत्वात् प्रत्यमिना । तदे वर्त तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनां इत्यम्भस्यानुवाके ऋतसत्यशब्दयोग पति प्रयोगात् । संनिहिताम्भस्यनुवाक प्रत्यभिज्ञाया उपक्रमस्थायाः प्रबलायाः सत्वेन कैवल्योपनिषत्प्रत्यभिज्ञाया अनुदयात् । विरूपाक्षशब्दश्च भगवल्लोचनयो: सूर्यचन्द्रात्मकत्वेन वैरूप्यादुपपन्नः । कृष्णपिङ्गलत्वं तु भगवति स्वरसमित्युपपादितं विरूपाक्षशब्दश्च भगवति रूढः ’ विष्वक्सेनो विरूपाक्षो मुरारिरिति हलायुध निघण्टुनुसारात् । न च शिवनमस्कारे शिवपादोदक प्राशने च विनियोगाच्छित्र परत्वं तस्य लाक्षणिकार्थमादायाप्युपपत्तेः । ऊर्ध्वरेतमित्येतदपि देवानां रेतोवर्षम् | वर्षस्यरेत ओषधय इत्यादि प्रयोगादेत: शब्दस्य विकार - वाचकत्वेन विकारेभ्य उत्तीर्णत्वमादायोपपद्यते । अतो न कैवल्योपनिषत्प्रत्यभिज्ञया ऋतं सत्यमिति मन्त्रगतया तन्मन्त्रबलाद्वा दहर विद्यायाः शिवपरत्वम् ।

यदपि सहस्रशीर्ष देवमित्यनुवाके नारायण कीर्तनं हृदयादिकीर्तनवन्नारायणान्तरत्वेन शिवोपासनार्थमिति, तदप्यसारम् । तथा कल्पनस्यो - पास्यत्वाभाव निर्णयाचीनत्वेन तत्कल्पकाभावे तस्यायोगात् ।

520

न च शिवावरुद्धायामुपासनायां नारायणस्योपास्यत्वायोगात्तथाकल्पनमिति वाच्यम् । शिवावरुद्धत्वस्यात्रत्येशादिशब्दानां स्वार्थपरत्व सिद्धयवीनत्वेन तदसिद्धौ तदभावात्तेषां च भगवत्परत्वमेत्र ह्युपपादितम् । किञ्च नारायणकीर्तनमेवोपास्य समर्पणार्थं शिवकीर्तनं तु ज्ञानसाधनत्वादिना कयंचिदुपपद्यत इति किमिति नोच्यते । तर्हि यद्वेदादाविति परमात्मधर्म प्रतिपादकं कथमुपपथत इति चेन्न । तस्य प्रकृतिलीनस्य विद्यासंश्लिष्टस्य ब्रह्मणो जीवभावमापन्नस्य यः परः ज्ञानप्रदत्वेन प्रधानभूत इत्यर्थवर्णनसंभवात् । यो देवानामित्यस्य तु न परमात्मधर्मप्रतिपादकत्वं स्फुटतरमुपलभ्यते । किं त्रास्मिन् पक्षेतस्याः शिखायामध्ये इत्यादिकं नारायणपरत्वं नारायणपरत्वेन त्वयाभ्यु-

यत्कथमुपपद्यते । न चान्यस्य तदन्तरत्वेनोपास्यत्वे नोपास्यत्वे तस्य मटते कान्तर्यामीन्द्रतात्मान्तररहितत्वे सत्यात्मत्वं हि परमात्वत्वप् । अपि च पर्ति विश्वस्यात्मेश्वरमित्यनन्येश्वरत्व प्रतिपादनं तव कथमुपपद्यते अतो नास्याः विद्यायाः शिवावरुद्धत्वनिश्चयः ।

न च यच्छन्दस्य संनिहितरुद्रपरामर्शित्वाच्छिवावरुद्ध वनिश्चयः पुरुषशब्दार्थस्य संनिहितत्वकथनात् । एतेन प्राचीन शैत्रपक्षोऽपि निरस्तः । एवं हि तत्पक्षस्थितिः उपासनमुपास्यमुपासकञ्चेत्युपासनविधौ विधेयं त्रिविधं, तत्र नारायणस्योपासनारूपत्वायोगादुत्पत्तिशिष्ट शिवावरोधेनोपास्यत्वायोगाच्च । पारिशेष्यादुपासकत्वेनैवसिद्धि:, किञ्च परमात्मशब्दितस्य परमेश्वरस्य नारायणहृदय वह्निशिखामध्ये त्रस्थानं नारायणस्योपासकत्वमन्तरेणानुपपद्यमानमित्यर्थापत्ति सहकृता तस्याः शिखाया इति श्रुतिः तस्योपासकत्वं कल्पयति । यद्यपि सर्वान्तर्यामिणो हृदयेऽवस्थानमुपासकत्वमन्तरेणापि घटते । तथापि विशिष्य नारायणहृदयावस्थानायोगेन परमात्मशब्दस्य नारायणातिरिक्तपरत्वकल्पनात् ।

I

ननु हृदयं तद्विजानीयादिति कीर्त्यमानं हृदयं नारायण संबन्धि किन्तु वेदान्त विज्ञानेति कीर्त्यमानयति संबन्धीति चेन्न । नारायणप्रकरणे कीर्त्यमानस्य हृदयस्यान्यसंबन्धित्वायोगान्न ‘हृदयस्याग्रेऽवद्यती ‘ति कीर्त्यमानं हृदयं पशुव्यतिरेकेणान्यस्य भवितुमर्हति ।

521

ननु वेदान्तविज्ञानसुनिश्चितार्था इत्यमिहित रुपास कैरुपासनाविधेश्वरिनार्थान्नारायणस्योपासकत्वकथनं व्यर्थमिति चेन्न । नारायणानुष्टितत्वेनोपासना प्राशस्त्यद्योतनार्थत्वात् । न चैवं नारायणपरं ब्रह्मेत्यादि कीर्तनमनुपपन्नं स्यादिति अध्यम् । उपासके नारायणे उपास्यधर्मारोपेण श्रुत्या तथा प्रतिपादनोपपत्तेः । दृष्टश्च गारुडमन्त्रोपासके उपास्यधर्मारोपः अतो नारायणस्योपासकत्वेनान्त्रय उपपन्न इति । तन्निरासस्तु - पारिशेष्यं तावदयुक्तं शिवस्योत्पत्तिशिष्टत्वाभाव प्रपञ्चनात् ।

,

"

यत्तु परमात्मशब्दितस्य परमेश्वरस्येति । तन्न, ‘विश्वात्मानं परायणं — यश्च किश्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । इति सर्वात्मत्वेन प्रतिपन्नस्य भगवत एव परमात्मशब्देन ग्रहणस्य युक्तत्वेनाप्रतिपन्नस्य शिवस्य ग्रहणायोगात् । न च नारायणप्रकरणे कीर्त्यमानस्य हृदयस्य नारायणसंबन्धित्वमवश्यं वाच्यमिति न तस्य परमात्मशब्देन ग्रहणं युज्यत इति वाच्यम् । पतिं विश्वस्यात्मेश्वर मित्यनन्येश्वरत्वेन विश्वात्मानं परायणमित्यत्र यच्च किञ्चिदित्यत्र च सर्वात्मकत्वेन प्रतिपन्नस्य हृदयसंबन्धित्वेनान्वया योगात्। न हि संनिघिमात्त्रमेवान्वयबोधे तन्त्रं किन्तु योग्यताद्युपेतम् । न च सर्वान्तर्यामित्वेन प्रतिपन्नस्य हृदयसंबन्धित्वेनान्वयो योग्यः । अन्यथा यजेतेत्यत्र प्रवर्तनात्मक विध्यविरोधसमधिगत समाहिताकाङ्क्षा शालिन्यपि भावनादूरस्थं समीहितमपि स्वर्गादिकं परित्यज्य क्लेशात्मकं यागमेव भाव्यत्वेन गृह्णीयात् । तथा च षष्ठाद्यविश्वजिदधिकराणधुच्छेदः (जै. सू. B-1-1 ) ।

यागादिकर्मणां स्वर्गादि फलसाधनताऽधिकरणम् :-

6

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ’ इति श्रूयते । तत्र यागक्रिया निष्पादकत्वं कर्तृत्वम् । फलभोक्तृतया स्वामित्वमधिकारः । तादृशोऽधिकारो यागकर्तुर्नास्ति । कुतः - फलभोगाभावात् । तथाहि ’ यजेत’ इत्यत्राऽऽख्यातेन भावनाऽभिधीयते । तस्याश्च धात्वर्थो भाव्यः एकपदोपात्तत्वात् । स्वर्गस्तु पदान्तरोपात्तत्वाद्वाक्येन भाव्यतयाऽन्वेतव्यः । तच वाक्यमेकपदरूपया श्रुत्या

F-66522

किंचैत्रं सति प्रकाराकाङ्क्षाया अपि नक्षेत्रेष्टिभ] वनायाः सन्निहित-वेन कुऌप्तोपकारैरप्युपहोमैः संबन्धः स्यादित्युपहोमानुष्ठानानन्तरभावो नारिष्टानां स्यादिति प्रकृतिः पूर्वोक्तत्वादपूर्वमन्तेस्यादिति पाश्चमिकाधिकरण (जै. सू. 5-2-9 ) सिद्धान्तन्याकोपः स्यात् । अपि च हृदयस्य पूर्व याति

बाध्यते । स्वर्गस्य भाव्यत्वाभावे सति गुणत्वमभ्युपेयम् । स्वर्गशब्दो नात्र सुखवाची, किन्तु सुखसाधनं चन्दनादिद्रव्यं ब्रूते । लोके तथा व्यवहारात् । तच कामयितुं योग्यम् । तेन द्रष्येण विना यागानिष्पत्तेः । तस्मात् - अस्मिन्वाक्ये फलानमिधानेन तद्भोगाभावात्कर्तुर्यागे कर्तृत्वमेत्र, नत्वधिकार इत्यधिकारलक्षणं नाऽऽरब्धव्यम् । इति पूर्वपक्ष: ।

सिद्धान्तस्तु ’ यजेत’ इत्यत्र प्रत्ययस्य केवलमाख्यातरूपत्वमेत्रेति न मन्तव्यम् । किन्तु लिङ्प्रत्ययत्वेन विधिरूपत्वमप्यस्ति । तत्राऽऽख्यातत्वाकारेण भावनामाचष्टे, विधित्वाकारेण पुरुषं प्रवर्तयति । पुरुषश्च स्वाभिमतं फलमन्तरेण न प्रवर्तत इति तदपेक्षितुं स्वर्गमेव भाव्यतया विधिरुपादत्ते । स्वर्गशब्दश्वोत्कृष्टसुखे रूढः द्रव्येतु लाक्षणिकः । तस्मात् सुखस्य भाव्यत्वं विधिश्रुत्या सिद्धम् । धात्वर्थस्य तु भाव्यत्वमेकेन पदेन प्रतीयमानमपि न प्रत्ययेनात्रगम्यते । किं तु प्रकृत्या । तथा सति स्वर्गभाग्यत्वं भावनायां प्रत्यासन्नम्, एकेनैव विधिरूपेणाऽऽख्या तेनावगमात् । कमियोगादपि स्वर्गस्य भान्यत्वम् । तस्मात् — फलभोगसंभवेन कर्तुरधिकारो ऽस्तीत्यधिकारलक्षणमारब्धव्यम् । (जै. सू. 6 - 1 - 1 )

नारिष्टो मस्योपहोमपूर्वताधिकरणम् -

अग्नयादि देवतायुक्तानां कृत्तिकादि नक्षत्राणामिष्टयः काम्या विहिताः ’ अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालम्’ इत्यादयः । तत्र प्रधानहोमाः ‘अग्निर्नः पातु कृत्तिकाः’ इत्यादि याज्यानुवाक्या पुरःसरं हूयन्ते । तत्रोपहोमा एवमानाताः । ’ सोऽल जुहोति – अग्नये स्वाहा, कृत्तिकाभ्यः स्वाहा,

523

नंबन्धित्वेन क्लृप्तत्वादत्र हृदयशब्दश्रवणेन क्लृप्तसंबन्ध्युपस्थित्या नैराकाङ्क्षयान्न नारायणस्य विभक्ति विपरिणामानुषङ्ग कल्पनापूर्वकं हृदय संबन्धित्व कल्पनं युक्तम् । अत एव गृहमेघीये आञ्यभागौ यजतीत्याज्यभागश्रवणोपस्थित प्राकृतोपकार निराकाङ्क्षाया गृहमेघीयभावनाया न चोदकापेक्षास्तीति नाङ्गान्तरसंबन्ध इत्युक्तं गृहमेधीयाधिकरणे ।

केचित्तु ‘विश्वस्यायतनं मह’ दित्यनेन विश्वं नारायणं देवमित्यादि पूर्ववाक्ये विश्वशब्दार्थत्वेनोक्तस्य नारायणस्याघिष्ठानत्वेन हृदयस्य कथनात् पद्मकोश प्रतीकाशमित्यादिकं नारायणस्योपास्यत्व समर्पकं नोपासकत्व समर्पकं तद्विरोधेन नारायणस्यहृदयसंबन्धित्वायोगादित्याहुः । हृदयसंबन्धित्वकीर्तन बलान्नारायणस्योपासकत्वं सिद्धयतीति अनुपपन्नम् । नारायणहृदयस्थत्वेनोपास्यस्तुतिमात्रपर्यवसानेन चारितार्थ्येन तदुपासकत्व कल्पनापर्यन्तं तथावनायोगात् तदुपासकत्वकल्पनेऽपि तदनुष्ठितत्वेनोपासन प्राशस्त्ययोतनं हि प्रयोजनम् ।

अम्बायै स्वाहा, दुलायै स्वाहा’ इति । नारिष्ठहोमाश्च चोदकेन प्राप्ताः । ‘दश ते तनुत्रो यज्ञ यज्ञियाः’ इत्यादिभिर्मन्त्रैराज्याहुतयो नारिष्टहोमाः | एतेभ्यो नारिष्टहोमेभ्यः पूर्वमुपहोमाः कर्तव्याः । कुतः - ’ अष्टाकपालं निर्वपेत् ’ ’ सोऽत्र जुहोति’ इति प्रत्यक्षपाठेन मुख्यसामीप्यमुपहोमानां प्रतीयते । तच्चातिदिष्टैर्नारिष्ठ होमैर्व्यवधाने बाध्येत । तस्मादुपहोमानां पूर्वत्वं इति पूर्वपक्ष: ।

सिद्धान्तस्तु

नक्षत्त्रेष्टिरूपा विकृतिर्विधीयमाना स्वोपकारकमङ्गजातमपेक्षते । तदा चोदकः प्राकृतं नारिष्टहोमादिकमङ्गं बोधयति । प्रत्यक्षवाक्यं तु वैकृतमुपहोमादिकम् । तयोर्मध्ये क्लृप्तोपकारतया नारिष्ठ होमाद्यङ्गत्वं सहसा बुध्यते । उपहोमाद्यङ्गतातुपकारे कल्पिते पश्चादूबुध्यते । ततः प्रधानप्रत्यासत्त्या नारिष्टहोमाः पूर्वमनुष्ठेयाः । उपहोमाः पश्चादनुष्ठेयाः । (जै. सू. 5-2-9)

524

यदपि नारायण उपास्य शिवधर्मारोपेण नारायणपरं ब्रह्मेत्यादिकमुपपयत इति । तदतितुच्छम् । आरोपितार्थपरत्वकल्पनस्य प्रामाण्यविरोधित्वात् । अतो नोपासकत्वेनान्वय इति । एतेन यद्वेत्यपि निरस्तम् । तस्याः शिखायामध्ये परमात्मा व्यवस्थितः इत्यत्र सर्वात्मकत्वेन तदनुवाकप्रतिपन्न नारायणग्रहणसंभत्रे कैवल्योपनिषत्पर्यन्त धावना योगात् । कैवल्योपनिषदो भगवत्परत्व व्यवस्थापनाच्च ।

किञ्च महोपनिषदि ‘सहस्रशीर्थ देवमित्यादीनामनेकेषां वाक्याना - माम्नानेन तत्प्रत्यभिज्ञायाः प्रबलत्वात्तदनुसारेण भगवत्परत्वमेव युक्तम् । न च तदपि केवल्योपनिषत्प्रत्यमिज्ञया शिवपरमिति युक्तं वक्तुम् । तस्याः शिखाया मध्ये पुरुषः परमात्मा व्यवस्थित इति पुरुषशब्दार्थस्य भगवत एव श्रुत्या उपस्थिते: । एको हवै नारायण आसीदित्युपक्रमे सर्वो कर्पेण प्रतिपन्नस्य भगवतोsन्योपसर्जनत्व कल्पनायोगेन तद्विरोधापाताच्च तत्र चार्यान्तरवर्णनं निरस्तमेव ।

यत्तु नारायणानुवाक प्रत्यभिज्ञया महोपनिषच्छित्र परेत्ये कोहवा इत्यादेरर्थान्तरपरत्वमिति । तत्तुच्छम् । चक्रकाश्रय प्रसङ्गात् । नारायणानुवाकस्य शिवपरत्वे सिद्धे तत्प्रत्यभिज्ञया महोपनिषदः शिवपरत्वावश्यम्भावः ततश्च एको हवा इत्यादेरर्थान्तरपरत्वम् । तस्य चार्थान्तरपरले सिद्धे महोपनिषदः शित्रपरत्व संभवः । ततश्च तत्प्रत्यभिज्ञा न बाधिकेति नारायणानुत्राकस्य शिवपरत्वमिति । एवं च महोपनिषत्प्रत्यभिज्ञायाः प्राबल्यात् स ब्रह्मा सशिव इत्यत्र कैवल्योपनिपप्रत्यमिशा सत्वेऽपि ततो न तस्याः शिखायामध्ये इत्यस्य शिवपरत्वम् ।

यदपि नारायण कीर्तनं नारायणात्मना स्वात्मनोऽनुसन्धानार्थमिति । तदपि कल्पकाभावाद्दूरोत्सारितम् । अपि च नारायणपरं ब्रह्मेति उक्तिविरोधश्च |

यतु भ्रान्तकल्पितं नारायणपरं ब्रह्मेत्यस्य समासपदत्वेन तत्त्वं ब्रह्म नारायाणात् परं ज्यायः नारायणस्तु परस्तदन्य इति, तन्मूढगोष्टीनिविष्टेभ्यो रोचते न तु न्यायमर्यादानुवर्तिभ्यः । ’ विश्वतः परमं नित्यं ’ ’ पर्ति विश्वस्यात्मेश्ववरं ’ ‘विश्वात्मानं परायण’ मिति पूर्वसन्दर्भे अन्तर्बहिश्च तत्सचं व्याप्यनारायणः स्थित

525

इत्युत्तरसन्दर्भे च सर्वस्मात्परत्वेनानन्येश्वरत्वेन सर्वान्तर्यामित्वे प्रतिपादितान्नारायणादधिकस्य तन्मध्यस्य वाक्ये प्रतिपादनं तत्र तन्निकर्षप्रतिपादनमित्युक्तेरसम्बद्धप्रलापत्वात् । ब्रह्मणोनारायणादधिकत्वोक्तथैव नारायणस्य तदन्यत्व सिद्धेर्नारायणः पर इत्यपि व्यर्थ । तत्वं ब्रह्मेत्यत्न तत्वमिति पदं च व्यर्थम् ।

यदपि परोनारायणस्तत्वं सर्वतत्त्वात्मकः अत उपादानस्य स्ववतन्त्रकर्तृशिवेच्छाधीन तत्तदाकार परिणामादि व्यापारत्वान्मृदपेक्षया कुलालस्येव नारायणापेक्षया शिवस्य परत्वमुक्तमिति । तदप्यसङ्गतम् । नारायणपरोज्योतिरात्मानारायणः पर इति वाक्यवैरूप्यापातात् आत्मत्वोक्ति विरोधाच्च । आत्मत्वं हि नियन्तृत्वम् । अथ पुरुषो वै नारायणोऽकामयतेति सृष्टिसंकल्पवाक्यबलान्निमित्तत्वप्रतीत्या उपादानत्वमात्रत्वोक्तचसाङ्गत्याश्च । किञ्च महोपनिषदि नारायणः परं ब्रह्मेति विच्छेदेनाध्ययनासद्विरुद्धं च पश्चमी समासकल्पनम् ।

1

यत्तु संप्रदायक्रमागतेषु पाठेषु नैतन्मन्त्रान्नानमिति ।

तन्न किं भवान् सर्ववेदगतसर्वशाखाध्यायी येन यस्यां शाखायां महोपनिषदाम्नायते । तच्छाखायाः कृत्स्नभागाध्यायी वोस्य वाक्यस्यानुपलम्भं ब्रूत्रे पूर्व पूर्व ग्रन्थकर्तृमिरुदाहृतत्वेन प्रामाणिकतामुपलभ्यव्यासाचार्यप्रभृतिभिः प्रामाणिकाप्रणीमिरस्य वाक्यस्योदाहरणान्नानशङ्काशूकावकाशः ।

यदपि सुपां सुलुगिति खादेशकल्पनया तदपि पञ्चमी समासानुगुण्येन नेतुं शक्यमिति । तन्न । एको हवै नारायण आसीदित्युपक्रमविरोधापातात् तैत्तिरीयवाक्ये एकत्रैव खलु गादेशाङ्गीकारेणोपपत्तौ अत्र विभक्तयर्थ लक्षणा

महोपनिषद्वाक्ये व्यत्यय इत्युभयोः कल्पनायाः अयोगाच्च ।

यदपि समर्थपरिभाषानुरोधेन सामानाधिकरणसमासोऽसङ्गत इति । तदप्यसारम् । किं परशब्दस्य ब्रह्मशब्दविशेषणतया परत्वस्य तदन्त्रयित्वेन नारायणपर शब्दयोरन्वयाभावात् पृथगर्थानामेकार्थीभावरूपं सामर्थ्य नास्तीति अभिमतं किं वापरशब्दस्य सामान्यशब्दत्वेन नारायणशब्दस्य विशेषशब्दत्वेन

526

परशब्दस्य विशेष्यसमर्पकत्वं नारायणशब्दस्य विशेषण समर्पकत्वं च न संभवतीत्यभिमतम् । अथवा परशब्दस्य विशेषण समर्पकत्वं च न संभवतीत्यमिमतम् । अथवा परशब्दस्य विशेष्याकाङ्क्षित्वेन सापेक्षम समर्थमित्यसामर्थ्यमस्तीत्यभ्युपगतम् ।

नाचः - सामानाधिकरण समासाभ्युपगमपक्षे परशब्दो ब्रह्मशब्दार्थविशेषणत्वेन परत्वबोधको न नारायणशब्दार्थनिएवेनेत्यनभ्युपगमात् । स्नातानुलिसो देवदत्त इत्यत्र स्नातत्वानुलिप्तत्वयोः परशब्दार्थविशेषणत्वेन परस्परानन्वितयोर्देवदत्तान्वयित्वं । नारायणपरत्वयोः परस्परान्वितयो ब्रह्मशब्दार्यान्वयित्त्रसंभवात् ।

न द्वितीयः - विशेषणविशेष्यभावे कामचारात् । अत एव ’ निषादस्वपतिं याजयेदिति प्रयोग उपपद्यते ।

न तृतीयः विशेष्यसमर्पकपदस्य साकाङ्क्षत्वेऽपि सामर्थ्यसंभवस्य शाब्दिकाभ्युपेतत्वात् । दशरथमहाराजः पाण्डुराजा नलचक्रवर्तीत्यादावित्रविशेषणभूतेन नारायणेनार्थात् परशब्दाकाङ्क्षाशान्तेश्च तर्हिपरशब्दस्य नपुंसकत्वं न घटेतेति चेन्न । ‘संस्कृतं भक्षाः ’ ’ तेन तुल्यं क्रियाचेद्वतिः ’ शक्यं चाश्वमांसेनापि क्षुत् प्रतिहन्तुं ‘, ’ शक्यमञ्जलिमि: पातुं । वाताः केतकि गन्धिनः ’ ’ वेदाः प्रमाणामित्यादिवत् ’ पदसंस्कारपक्षे लिङ्ग सर्वनाम नपुंसका श्रयणेन तदुपपत्तेः ।

यदपि मध्यमपरशब्दयोस्तत्व ज्योतिर्विशेषणत्वायोग इति, तदपि तयोनारायणशब्द विशेषणत्वसंभवात्तत्वभूतः परोर्धोनारायणः ज्योतीरूपः परोऽर्धोनारायण इति च निर्वाह: सुकरः । नारायणपरोज्योतिरित्यत्र अथ यदतः फ्रोदिवोज्योतिर्दीप्यत इति श्रुतिप्रत्यभिज्ञापकत्वेन तथैवामिः स्वरसम् ।

यदपि लैङ्गोपबृंहणापत्रादकत्र चनसत्त्वान्नार्थतथात्वसाधकमिति । तदप्यसारम् ।

527

’ न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ । नारायणपरं ब्रह्म तत्वं नारायणः परः ।

परादपि परश्वासौ नास्ति तस्मात्परात्परः ||

1

इत्यादि प्रबल महाभारत विरुद्धत्वेनापवादकत्वेन त्वदभिमत वचनजातस्य तत्संवादवत्त्वेन, ’ अहमेव परं महो त्यस्य वचनस्यानेनैव तेषां वचनानां बाधात् । ‘ सपरः सर्वशक्तीनामित्यादौ विष्णुपरत्वप्रतिपादकमिति त्रिमूर्त्यत्तीर्ण भङ्गे प्रपश्चितम् । परोक्तार्थग्रहणेऽपीत्यादिकमप्यज्ञानविजृम्भितम् । नारायणस्योपसर्जनत्वासिद्धया अङ्गगुण विरोधाघिकरणन्यायानवतारात् । तस्मानारायणानुवाकान्यथासिद्धेः परोक्ताया असंभवात् परपक्षे तद्विरोधस्य दुर्निवारत्वात शिवोपासनापरत्वं दहर विद्याया वक्तुमशक्यमिति भगवानेवास्मद्वर्णितया रीत्या दहरविद्या वेद्य : वेन तैत्तिरीये प्रतिपाद्यत इति दिक् ।

उपबृंहणं च भारतस्थमस्मदुपवर्णितमुपोद्वलयति । आनुशासनिके -

’ यं विश्वमुपजीवति येन विश्वमिदं ततम् ।

यं प्राप्य न निवर्तन्ते तं भवान्वक्तुमर्हसि ॥ '

इति नारदप्रश्ने सनत्कुमारः

‘यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम् । तं वै श्रृणु महाबुद्धे नारायणमनामयम् ॥ एष नारायणो नाम यं विश्वमुपजीवति ।

एष स्रष्टा विधाता च भर्ता पालयिता प्रभुः । प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्मचिन्तकाः ॥ '

इति । अत्र नारायणानुवाक प्रतिपाद्यविशेषण मुखेन भगवन्तं प्रस्तुत्य तस्य यतिप्राप्यत्ववर्णनाद्वेदान्त विज्ञानसुनिश्चितार्था इति वाक्यमुपबृंहितमिति तदुपास्यत्वेन अणोरणीयानित्यनुवाके सिद्धो दहर विद्यावेयो नारायण एवेति स्फुटीभवति । तत्रैव सनत्कुमाररुद्रसंवादे

528

ततः पश्यति तद्ब्रह्म ज्वलदात्मनि संस्थितम् । विद्युद्यम्बुधरोयद्वत्तद्वदेकमनाश्रयम् ॥ तमस्यगाचे तिष्ठन्तं निस्तमस्कमचेतनम् । चेतयानमचेतं च दीप्यमानं स्वतेजसा ॥

अङ्गुष्ठपर्वमात्रं तनिश्रेयसमनिन्दितम् ।

महद्भूतमनन्तं च खतन्त्रं विगतज्वरम् ॥ ज्योतिषां ज्योतिषं देवं विष्णुमत्यन्तनिर्मलम् । नारायणमणीयांसमीश्वराणामधीश्वरम् ॥

विश्वतः परमनित्यं विश्वं नारायणं प्रभुभू | अविज्ञाय निमज्जन्ति लोकाः संसारसागरे ।

यं दृष्ट्वा यतयस्तात न शोचन्ति गतज्वराः ||

इति । अत्र द्वयोरनुवादकयोरर्थस्य सहोपबृंहणप्रतीत्या उभयोर्भगवत्परत्वं प्रतीयते । तदेवं न्यायोपबृंहणाढ्या दहर विद्या भगवदुपास्यतापरिष्कृतेति सिद्धम् । तदेवं सर्वविद्यावेद्यो भगवानारायण एव परं ब्रह्मेति सर्वमवदातम् ।

इति श्रीशठमर्षणकुलतिलक निखिलवेदान्तविधा निषद्याधीत हृदयकमल श्रीतातयाचार्यनन्दनस्य हयवदनकरुणाकटाक्ष वीझालब्ध पदवाक्य प्रमाणस्य श्रीमन्निगमशिखर गुरुचरणसरसीरुह चञ्चरीकायमाण मानसस्य श्रीवेङ्कटदेशिकपादसेवा समधिगत श्रीमच्छारीरक मीमांसाभाष्य हृदयस्य श्रीवेङ्कटाचार्यस्य कृतिषु सिद्धान्तरत्नावल्यां

तृतीयः परिच्छेदः

529

चतुर्थः परिच्छेदः

श्रीरङ्गिणः पदनखावलिरादधाना

मुक्ताश्रयत्वमदसीयमुदस्य नित्यम् । श्रेयस्तनोतु जगतां प्रणतत्रिनेत्र-

चूडासुधाकिरणपूर्तिधुरीणकान्तिः ॥ सिद्धे हरेर्ब्रह्मविद्यावेद्यत्वे तत एव हि ।

तत्क्रतुन्याय तस्मिद्धा स्यान्मुक्तजन भोग्यता || तथापि साक्षादेवैतत्प्रतिपादनतत्परैः ।

वचनैर्विशदीकृत्य सैवास्मिन्नभिधीयते ॥

तत्र तावत्तैत्तिरीयके ’ ब्रह्मविदामोति परं तदेषाभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमेव्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यत्र नारायणस्य गुरुप्राप्यस्वमभिधीयते । ब्रह्मणा सहेत्यत्र ’ क्षीरेण सहौदनं मुके’ इतिक्ट्रोम्यसाहित्यस्य विवक्षितत्वेन ब्रह्मशब्दार्थस्य सत्यज्ञानादिवाक्योक्तस्यैव प्राप्यत्वादिस्मरणात्तस्य चानन्तशब्दप्रसिद्धि प्राचुर्येण नारायणत्वावगमात् । ननु नात्रानन्तशब्द प्रसिद्धिराश्रयितुं युज्यते । प्रकरणस्यानन्दमयातिरिक्तपर्यवसायि त्वादानन्दमयस्य चिच्छक्तिरूपत्वेन नारायणस्य चिच्छक्तयंशत्वेन प्रमाणान्तरप्रतिपन्नत्वेन नारायणांशिभूतानन्दमयाधिकरणप्रतिपादकप्रकरणस्थानन्तशब्दरूढिविवक्षाया अयोगात् । तथाहि - ’ ब्रह्मविदाप्नोति पर’ मित्यानन्दवल्लयां प्रतिपाचस्य कृत्स्नस्याप्यर्थस्य सङ्ग्राहकं सूत्रम् । तत्र किं ब्रह्म कथं च तद्वेदनं किं च तद्वेदनप्राप्यं परमुत्कृष्टं फलमित्याकाङ्क्षायां तत्र तृतीयं स्पष्टीकर्तुं तदेषाभ्युक्तेति ब्राह्मणोकार्थप्रतिपादकत्वेनावतरण पुरस्सरं तदनुव्याख्यानरूपः ’ सत्यं ज्ञानमित्यादि मन्त्र आन्नातः । तत्रापि कथं ब्रह्मणस्त्रिविधपरिच्छेद राहित्यरूपमानन्त्यं तस्य हि नित्य सत्वेन कालतो देशतश्च परिच्छेदराहित्येऽपि वस्त्त्रन्तरव्यावृत्तत्वाद्वस्तुपरिच्छेदराहित्यं न सम्भवतीत्याशङ्कायां तदुपपादनार्थं ’ तस्माद्वा एतस्मादात्मन’ इत्यादि ‘सोऽकामयत बहुस्यां प्रजायेयेति च कारणवाक्यं तेन द्विविधेनापि

F-67

530

कारणवाक्येन चेतनाचेतनात्मक सकलप्रपञ्चोपादाननिमित्तभूतं स्वापृथक्लिद्ध सकलप्रपञ्च विशिष्टं ब्रह्मेकमेवेति स्वपृथक्सिद्धवस्त्वन्तराभावेन तथा भूतत्रस्तु परिच्छेदराहित्यं लभ्यते । तथा कस्यां गुहायां निहितमित्याकाङ्क्षायामन्नमयादिकोशात्मिका गुहेति तद्विवरणार्थ मन्नमयादिकोशानां निरूपणम् । एवं गुहान्तर्वर्तिप्रसिद्धव्योम विलक्षणं किं तत्परमं व्योमेत्याकाङ्क्षायां तदपि विवरणीयमेवेति । तद्विवराणार्थमानन्दमयवाक्यमिति । परिशेषादानन्दमयः पुराणादिषु परमाकाशशब्देन प्रसिद्धा शैवीचिच्छक्तिरित्यवसीयते । किं च कोयेवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् ’ इत्यानन्दशब्दस्य प्रकृतानन्दमयविषयस्य व्योमशब्दपर्यायाकाशशब्द सामानाधिकरण्यं दृश्यते । तेनाप्यानन्दमयस्य परमाकाशशब्दितचिच्छक्तिरूपतात्रसीयते ।

नम्बानन्दमयशब्दो धर्मिपर इति आनन्द विशिष्टवचनः यदेष आकाश आनन्दो न स्यादित्यादिस्तु धर्मविषय इति विरोध इति चेन्न । तत्प्रकृतत्र वने मयडिति मयडिधायकसूत्रस्य तदिति प्रथमासमर्थात् प्राचुर्येण प्रस्तुतमिदमित्यर्थे वर्तमानात् खार्थे मयट्प्रत्ययो भवतीति प्रथमं वृत्तिकारा दिभिर्व्यख्यातत्वेन धर्मपरत्वे ऽप्युपपन्नत्वेनानन्दमयशब्दस्य विरोधाभावात् । उदाहरणं च ‘अन्नमयं ’ ’ यवागूमयं ’ ’ प्राचुर्येण प्रस्तुतमन्नं प्रकृता यवागूरित्यादिस्तदर्थः । ’ अन्नमयो यह इत्यायुदाहरणं तु प्रकृतं प्रस्तुतमुच्यते । अस्मिन्निति प्रकृतवचनम् । तदिति प्रयमासमर्था प्रकृतवचने मयट्प्रत्ययो भवतीति व्याख्यानानुसारेणनेयम् । अत्र च यदेष आकाश आनन्दो न स्यादिति वाक्यशेषानुसाराद्धर्मपरत्वमेवा श्रीयते । ननु धर्मपरत्वे कस्यानन्द इत्याकाङ्क्षायां कथं पूर्तिरिति चेन्न । ‘स एको क्षण आनन्द’ इत्यादिदर्शनेन ‘ब्रह्म पुच्छं प्रतिष्ठेत्यत्र प्रतिष्ठाशब्देन

.

प्रियमेव शिर’ इत्यतोऽनुषक्तस्येति पदस्यान्वयेन ब्रह्मसम्बन्धित्वावगमादाकाङ्क्षापूर्तिसम्भवात् । एवं सत्येत्र ’ तस्यैष एव शारीर आत्मा यः पूर्वस्येत्यानन्दमयपर्यायेऽपि प्राणमयादिपर्यायवदात्मान्तरोपदेशो घटते । तस्यानन्दमयस्येव आत्मा यः पूर्वस्य विज्ञानमयस्येति हि तदर्थः । नत्वानन्दमयस्य ब्रह्मत्वे । आनन्दमयस्यानन्यात्मकत्व प्रतिपादकमिदमिति पक्षे च प्राणमयादि-

531

पर्यायेषु तस्यात्मान्तरप्रतिपादकत्वं, आमन्दमयपर्यायत्वेऽनन्यात्मत्व प्रतिपादकमिति वैरूप्यप्रसङ्गः । न च पूर्वपर्यायश्लोकानां पुच्छवद्विषयत्वादयं श्लोकः पुच्छवदानन्दमयविषयो न तु पुच्छब्रह्मविषय इति शङ्कनीयम् । श्लोकगत ब्रह्मश्रुतिभ्यां प्रायपाठबाधात् । ’ अन्नाद्वै प्रजाः प्रजायन्ते’ ‘यतो वाचो निवर्तन्ते’ इति श्लोकयोरन्नमय, मनोमयविषयत्वाभावेन प्रायपाठासिद्धेश्च | एवं च पुच्छत्रदानन्दमयोऽपि चेद्रल तस्यैव तत्पुच्छभावनिवेशो न समञ्जसः

स्यात् ।

(

न चान्नमयपर्याये ’ तस्येदमेव शिर’ इत्यादिना स्वस्मादनतिरिक्तैः स्वावयवैः शिरः पक्षपुच्छादिमत्स्वकल्पना दृष्टेति वाच्यम् । तत्रावयत्रावयविभावौपयिकसंस्थानविशेषकृतसद्भावादानन्दमयस्य ब्रह्मत्वे तन्मात्ररूपस्यापि षष्ठ्यालम्बनस्य भेदस्याभावात् । तस्मादानन्दमयश्चिच्छक्तिरित्येव युक्तं नत्वानन्दमयादिपर्यायपश्ञ्चकात् प्राकू तस्माद्वा एतस्मादात्मन इत्यादिनोपक्रान्तं जगत्कारणत्वं यथान्नमयादिकमतिक्रामति तथानन्दमयमतिक्रामति । नापि तत्प्रतिष्ठारूपे ब्रह्मण्यन्वेति । किन्त्वानन्दमय एवान्वेति । कुतः ? तदनन्तरं सोऽकामयतेत्यादिना पृथगुपक्षिप्तजगत्कारणत्वप्रपश्चे ’ स इति पुंलिङ्गेनानन्दमय परामर्शात् । न च ब्रह्मण्यपि ’ तस्यैष एत्र शारीर आत्मेति वाक्ये पुंलिङ्गस्यात्मशब्दस्य श्रवणात्तदपेक्षया पुंलिङ्ग उपपद्यत इति वाच्यम् । तस्यैष इति वाक्यस्य सर्वपर्यायसाधारणत्वात् प्रकृतपरामर्शिनि सर्वनाम्न्यसाधारण्येन प्रकृतिसमर्पकं यत्प्रधानपदं तदीयलिङ्गापेक्षणस्यैवोचितत्वात् । अपि च उत्तरानुत्राके भृगुवल्लयां ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिनोपक्षिप्तस्य जगत्कारणत्वस्यान्नप्राणादिपर्याय चतुष्टयातिलंघनेन पञ्चमपर्यायान्ना ते आनन्द एव ’ आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते ’ इत्यादिना श्रुत्यैवान्वय प्रतिपादनात् स्थानप्रमाणादानन्दमय एष जगत्कारणत्वान्वयो ऽन्ववसीयते । तस्मादेवस्थानप्रमाणात् भृगुवल्लयुक्तानन्द वल्लयुक्तानन्दमय एवेत्यवसीयते । अतः कारणत्त्रान्त्रयादानन्दमयो ब्रह्मेति युक्तम् । सद्विद्यादिषु ब्रह्मणः कारणत्वप्रसिद्धेः । जन्मादिसूत्रे तन्मूलश्रुतौ च कारणत्वस्य ब्रह्मलक्षणत्वेनोक्तत्वात् । तस्माद्वल्ली-532

द्वयस्यैकार्थ्यादानन्दवल्लयुक्तानन्दमयो भृगुवल्लयुतानन्दश्च ब्रह्मेत्येवाङ्गीकर्तुं युक्तम् । अत एव खलु भृगुवल्ल्यामानन्दमयवृत्तेरानन्दशब्दस्य ’ आनन्दो ब्रह्मेति व्यजाना’ दिति ब्रह्मशब्द सामानाधिकरण्यं दृश्यते । अत आनन्दमयश्चिच्छक्तिरिति पक्षे कारणत्वानुपपत्तिः तथा आत्मन आकाशस्सम्भूतः इति श्रुतात्मशब्दान्वयानुपपत्तिश्च । आत्मशब्दोऽपि ज्ञातृवाची । न धर्मज्ञानरूपायाशिछकेर्ज्ञातृत्वं सम्भवति । अतो नानन्दमयश्चिच्छक्तिरिति ।

उच्यते - छान्दोग्ये ’ सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पचन्त इत्याकाशसंज्ञितायाश्विच्छक्तस्सर्व भूतकारणत्वं श्रुतं किं चात्र आकाशशब्दो भूताकाशपरः तद्देवतापरो वा तयोः सर्वभूतकारणत्वाभावात् । नपि मापरः वेदप्रयुक्तस्य कस्यचिच्छब्दस्य लोकप्रसिद्धार्थग्रहणासम्भवे हि वेदतदुपबृंहनयोरन्यत्र यस्मिन् प्रयोगो दृष्टस्तस्य ग्रहणं युक्तम् । वेदे चान्यत्र

• आकाशशरीरं ब्रह्म ’ ’ यदेष आकाश आनन्दो न स्यादित्यादौ ब्रह्मणः शरीरानन्दादिरूपायां शक्तौ प्रयोगो दृष्टः । वेदोपबृंहणे च कूर्मपुराणे

"

यस्य सा परमा देवी शक्तिराकाशसंज्ञिता ।

आनन्दैश्वर्यसंयोगान्महेशो दृश्यते किल ॥ '

इति तस्याकाशशब्दवाच्यत्वमुक्तम् । अतः छान्दोग्ये तस्यामाकाशकारणत्वं अतमिति युक्तमेव । तथा बृहदारण्यके – ’ यदिदं सर्वमप्खोतं च प्रोतं च कल्मिषु खल्वापः ओताश्च प्रोताश्चेति वा या गार्गीत्यादि गार्गीयाज्ञवल्क्य प्रश्नोतरपरम्परया पृथिवीस लिलवाय्वन्तरिक्ष लोकगन्धर्वलोकादिपरब्रह्मलोकान्तानां छोकानां पूर्वस्योत्तरोत्तरस्मिन्नोतत्वप्रोतत्ववर्णनानन्तरं कस्मिन्नु खलु ब्रह्मलोका छोताच प्रोताश्वेति पृष्टेन याज्ञवल्क्येन परब्रह्मलोकस्यैतत्प्रोतत्वं परब्रह्मश को वर्णनीयं सा परतत्वभूता गुरूपसदनादिशिष्यकृत्यमर्यादामतिक्रम्य पृच्छसीति तत्प्रश्ननिवारणार्थ प्रवृत्ते ‘गार्गिमातिप्राक्षीर्माते मूर्धा व्यपतत् ’ ’ अनतिप्रश्नां देवतामिति प्राक्षीरिति वाक्ये तस्यामात्मत्वावान्तरविशेषधर्मरूपं देवतात्वं श्रुतम् ।

न चैतदेवतात्वश्रवणं परमेश्वर विषयमिति शङ्कनीयम् । तदानीं

533

निवारितस्य परब्रह्मलोकान्तसकलजगदाधारप्रश्नस्य ’ यदूर्ध्व याज्ञवल्क्यदिक्यदर्वाङ्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भत्रच्च भविष्यचेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति, पुनरवतारणे ‘सत्याकाश एव तदोतं च प्रोतं चेति तदुत्तरवाक्ये चिदम्बरशक्तिविषयकाकाशशब्द श्रवणात्तदनन्तरं ’ कस्मिन्नु खल्वाकाश ओत प्रोत ‘ति प्रश्नान्तरस्योत्तरेण एतद्वै तदक्षरं गार्गि ब्राह्मणा अमिवदन्तीत्यादिना ’ एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्वेत्यन्तेन सन्दर्भेण तस्याक्षरशब्दोदितपरब्रह्म श्रुतत्व प्रतिपादनाच्च । तस्माच्चिदम्बरशक्तौ कारणत्वस्य चात्मत्वस्य चान्वये न काचिदनुपपत्तिः । किं च तस्मिन्नेष बृहदारण्यके अन्तर्यामिब्राह्मणे पृथिव्यादिक्रमेण ब्रह्मणः सर्वप्रपञ्चान्तर्यामित्वनिरूपणप्रस्तावे ‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरोयमयत्येष त आत्मान्तर्याम्यमृत’ इति । तेनान्तर्यामिणो नियाम्यं विज्ञानं किञ्चित्काः पठन्ति । तद्विज्ञानं कस्येत्यकाङ्क्षायां सन्निधानाद्यस्यैवान्तर्यामिणः परब्रह्मण इति युक्तम् । तस्य हि सर्वावभासकतया नित्यं सर्वव्यापकं च विज्ञानं

नित्यं सर्वव्यापकं च विज्ञानं ’ तस्य भासा सर्वमिदं विभाती ‘ति श्रुत्यन्तरप्रसिद्धं तथाभूतब्रह्म विज्ञानं च ब्रह्मसाधारणधर्मत्वेनानेक श्रुतिप्रसिद्धः प्रसिद्धाकाश विलक्षणः परमाकाश इत्येत्राङ्गीकर्तुमुचितम् । आकाशो विज्ञानं चेति ब्रह्मणि पृथग्धर्मद्वयाङ्गीकारे गौरवात् तदीयविज्ञाने नित्यविभुत्वेन प्रसिद्धाकाश सादृश्येन ’ आसमन्तात्कारात’ इति योगेन चाकाशशब्दस्य वृत्त्युपपत्तेश्च । तस्मिन् बृहदारण्यके तस्मिन्नेव विज्ञानपर्याये ’ य आत्मनि तिष्ठन्नात्मनोऽन्तर’ इत्यादि माध्यन्दिनाः पठन्ति । अत्र पर्यायैक्यात्स्थानप्रमाणेन विज्ञानात्मशब्दयोरेकार्थ्य वाच्यमिति ब्रह्मचिच्छ केरात्मत्वसिद्धिः ।

ननु शिवस्य धर्मज्ञानरूपाचिच्छक्तिः चैतन्यरूपैव न चेतनरूपा । चेतनत्वे तदीयज्ञानेच्छाव्यवहारार्थं तत्रापि जीवेष्वित्र चिच्छतयंतरस्याङ्गीकरणत्वापत्तेः तत्परिणामरूपाणां ज्ञानेच्छादिवृत्तीनां धर्मिभूत शिवज्ञानेच्छादिरूपत्वात् तदीयज्ञानेच्छादिरूपत्वस्याप्यङ्गीकारे जीवचिच्छक्तीनामपि तस्यैव रीय ज्ञातृत्वापत्तेः । अतश्शिवमहिषीत्वेन प्रसिद्धा गौरी शिवा सर्वमङ्गळेत्यादि-

534

नामवती शक्ति: शिवधर्मरूपायाश्चिच्छक्तेरन्या न तु तद्धर्मरूपा । पुराणादिषु तस्याः शिवधर्मत्व प्रसिद्धिस्त्वयुतसिद्धधर्मवन्नित्य मंत्र न्धित्वेनानपायत्वसाम्यात् । अतः चिच्छक्तौनात्मत्वमन्वेतीति, मैवम् । यजुर्वेदे हि ‘तांसवितुर्वरेण्यस्य चित्रामाह वृणे सुमतिं विश्वजन्यां यामस्य कण्वो अदुहत् प्रपीना सहस्रधारां पयसा महीं गाम्’ इत्यान्नायते मन्त्रः । अत्र सवितुर्वरेण्यः शिवयोदातमो मन्त्रे ’ तदक्षरं तत्सवितुर्वरेण्य’ मिति श्रवणात्तस्य सुमतिस्तदीया चिच्छक्ति: सोत्तरार्धे ’ या प्रथमाव्यौच्छत् सा धेनुरभवद्या मे सानः पयस्वती चक्ष्योत्तरामुत्तरां समा ‘मितिष्युष्टीष्टको पाधानमन्त्रार्थप्रत्यभिज्ञानात्

गौरीत्यवसीयते । न्युष्टीष्टकोपाधानमन्त्राश्च ’ इयमेव सा या प्रथमान्यौच्छदित्यारभ्य प्रवृत्ताः पञ्चदशापि ’ वधूर्जजान नवगजनित्री’ सूर्यपत्ती विचरतः प्रजानती त्यादिमलिन देवीसूक्तत्व प्रसिद्धया च गौरीविषया इति स्पष्टमेव । अतरिशवस्य विच्छक्तिरेव गौरीति प्रमाणप्रतिपन्नोऽर्थः कुयुक्तिमिर्नबाधमर्हति । ब्रह्मधर्मत्वेनावतिष्ठमानाया एव चिच्छक्तेः स्वयमपि चेतनान्तत्वेनाव्यवस्थाने च काऽनुपपत्तिः । तदीयाः केचन ज्ञानेच्छादिपरिणामाः शिवस्य ज्ञानेच्छादयो भवन्ति । केचन शिवसङ्कल्पानुसारेणैव शक्तेर्ज्ञानेच्छादयो भवन्ति । यथा राज्ञा अमात्यवशे स्थापितेष्वेव स्वाभरणादिषु केचन राज्ञः केचन राजसङ्कल्पानुसारेणामात्यस्य च भोग्या भवन्तीति हि समर्थयितुं शक्यम् । सैषा चिच्छक्तिरेव शिवस्य ज्ञानेच्छाकृतिबलतेजः प्रभृतिगुणरूपेण शरीरेन्द्रियमनः प्राणरूपेण विविधभोग्यभोगस्थान भोगोपकरणरूपेण सह भोक्तृदिव्यमहिषीरूपेण च तमासेवते । स्वयमपि ज्ञानेच्छादिभिरुक्तैः सर्वैरप्युपेता पुरुषरूपेण दिव्यमहिषी युक्ता च भवति ।

आहुश्वाभियुक्ताः

’ शक्तिश्शरीरमधिदैवतमन्तरात्मा

ज्ञानं क्रियाकरणमासनजालमिच्छा । ऐश्वर्यमायतनमावरणानि च त्वं

किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥

535

योऽयं चकास्ति गगनार्णवरत्नमिन्दुः

योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वा ममार्थमिदमन्तकसूदनस्य

देवि त्वमेव तदिति प्रतिपादयन्ति ॥ '

इत्यादि । ’ परास्य शक्तिर्विविधैव श्रूयते '

'

इति मन्त्रोऽप्यमुमर्थं क्रोडीकरोति । ’ आकाश शरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दं शान्तिसमृद्धममृत’ मिति श्रुतिरप्युक्तार्थमाविष्करोति । यदेष आकाश इति श्रुत्युक्ता चिच्छक्तिरेव ब्रह्मणः शरीरं तथैव सूक्तया तत्सत्यात्मको त्रान्यादिति श्रुतेः प्रपञ्चस्य स्वस्यापि प्राणभूतायां तस्यामेवारामः क्रीडाऽस्य तयैव मनसानन्दानुभवः तयैव शान्त्या तदानन्दानुभव प्रयुक्त विषयवैराग्यरूपया समुद्धं प्रति मुवेस्तात्पर्यम् । एवं सर्वाश्वर्यनिदानभूतायां तस्यां न किचिदनुपपन्नमिति ज्ञानत्वेऽपि ज्ञातृत्वमुपपद्यते ।

नन्वेवमात्मत्वोपपत्त्या चिच्छ केरानन्दमय वाक्य प्रतिपर्यायत्वेन ब्रह्म पुच्छं प्रतिष्ठेत्यस्य तदधिक ब्रह्मप्रतिपादकत्वेऽपि सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्रानन्त शब्दरूढ्यार्थविवक्षायां किं बाधकं तस्यैवानन्तशब्दार्थस्य नारायणस्य चिच्छक्तयाधारभूत ब्रह्मत्वसंभवादिति चेत् उच्यते । न नारायणस्य चिच्छक्त्याधारभूत ब्रह्मरूपता संभवति । नारायणस्य चिच्छक्तयंशत्वेन श्रुत्यन्तरे प्रतीयमानत्वात् । तथा हि श्वेताश्वतरोपनिषदि -

छन्दांसि यज्ञाः क्रतवो व्रतानि

भूतं भव्यं यच्च वेदा वदन्ति । अस्मान्मायी सृजते विश्वमेतत्

तस्मिंश्चान्यो मायया संनिरुद्धः ॥

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयव भूतेन व्याप्तमेतच्चराचरम् ॥

536

इत्याम्नायते, अत्राद्यमन्त्रे परमे व्योमशब्दितां शैवीं चिच्छक्ति परामृश्य पञ्चम्या तस्या समस्तजगदुपादानत्व प्रतिपादनात्तस्या मृद इव विकारित्वं ’ सृजत’ इति पदेन शिवस्य निमित्तत्वं प्रतिपादयता तस्य कुलालवदविकारित्वं च प्रतिपाद्यते । द्वितीयमन्त्रे मार्या तु प्रकृतिं विद्यादित्यनेन पूर्वमन्त्रोपवर्णितोऽयमेवार्थः स्थिरीक्रियते, तत्र मायाशब्दः शिवशक्तिपरः तस्याः मायावयुनं ज्ञानमिति वैदिकनिघण्टौ ज्ञानपर्यायत्वेव परिगणनात् ।

चोऽक्षरे परमे व्योयन्निति तत्पूर्वमन्त्रे प्रकृतां

कूर्मपुराणे – कैाभगवती देवी शङ्करार्धशरीरिणी ।

इति गोवरे ।

’ तस्य सर्वं जगत्सूति: शक्तिर्मायेति विश्रुता ।

तथेदं भ्रामयेदीशो मायात्री पुरुषोत्तमः ॥

इति मायाशब्दस्य शैत्रचिच्छक्तिप्रसिद्धत्व प्रतिपादनात् । तथा च मायां शैवीं चिच्छक्तिमेत्र तत्र तत्र प्रपञ्चप्रकृतित्वेन प्रतिपाद्यमानां विद्यादित्यर्थः । अनेन कचित्परमव्योमशब्देन जगत्प्रकृतिः प्रतिपाद्यते । ‘यतः प्रसूता जगतः प्रसूति:’ इत्यत्र जगतः प्रसूतिशब्देन ‘अजामेकां लोहित शुक्लकृष्णाम्’ इत्यत्राजा शब्देन तेषां मिश्रार्थत्वे विरोधः स्यादित्यतिशङ्का सर्वेषामपि तेषां मायैकविषयत्वता निरस्ताभवति । नन्वेवमपि न विरोधशङ्काया निरासः तदेक्षत बहुस्यां प्रजायेयेत्यादि श्रुतिषु हि शिवस्य जगत्प्रकृतित्वं प्रतिपाद्यते । नारायणानुवाकादिषु नारायणस्य । न च शिववाचिनो नारायणवाचिनो वा शब्दस्य शैवी चिच्छक्तिरयों भवितुमर्हतीति शङ्का अवशिष्टपदत्रयेण निरस्ता, तत्र मायिनमिति नित्ययोगेमत्वर्थीय प्रत्ययः ततश्च महेश्वरं मायिनमेव विद्यादित्यनेन शिवस्यापृथक्सिद्धकार्यावस्थाक्षयरूपमेव प्रकृतित्वं तेन तेन श्रुत्यन्तरेण प्रतिपाद्यते न तु परिणामित्वरूपमिति विभावितम् । उत्तरार्धेन सकलजगदुपमानतया

बाह्याभ्यन्तर सकलजगद्वयापकत्वेन ।

537

’ यच्च किश्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ '

इत्यादि श्रुतिषु प्रसिद्धं नारायणमनूच तस्य चिच्छक्तयंशत्वमन्यतोऽप्राप्तं विदधानेन चिच्छक्तर्जगदुपादानत्वं च स्यात् । नारायणावस्थाप्राप्तिद्वारकमिति नदेव नारायणस्य जगदुपादानत्वं प्रतिपादयद्भिः श्रुत्यन्तरैः प्रतिपाद्यत इति विभावितम् ।

प्रकृतमहेश्वरपराप्रतीयते । तदपि

ननु तस्यावयवभूतेनेत्यक्ष सर्वनाम्नः पूर्वार्धे मर्शित्वौचित्यात्तदवचित्वमेत्र कस्यचित् प्रतिपाद्यत इति नारायणस्य प्रतिपाद्यत इति न स्पष्टं प्रतीयत इति चेन्न । श्रुत्यन्तरानुसारेण नारायणस्य शिवशकथंशत्वमत्र प्रतिपाथमिति कल्पनोपपत्तेः तथा हि ’ तद्विष्णोः परमं पदं सदा पश्यन्ति सुरयः दिवीवचक्षुरातत मिति वेदत्रयेऽप्याम्नायते मन्त्रः । श्रयं मन्त्रः शिवशक्तिं विष्णोः परमं पदं प्राप्य इति प्रतिपादयतीति मन्त्रब्राह्मणरूपश्रुत्यन्तरार्थ प्रत्यमिज्ञानेनोपबृंहणस्मृतिवचनानुसारेण चात्रसीयते । कथं ! उपबृंहणं तावत् कूर्मपुराणे दृश्यते, तत्र हि -

‘कैषा भगवती देवी शङ्करार्धशरीरिणी ।

शिवासती हैमवती यथावद्ब्रूहि पृच्छताम् ॥’

इति ऋषीणां प्रश्नानन्तरं वचनम् ।

’ तेषां तद्वचनं श्रुत्वा ऋषीणां पुरुषोत्तमः ।

प्रत्युवाच महायोगी ध्यात्वा खं परमं पदम् || '

इति । अत्र कूर्मरूपिणा विष्णुनोपदेष्टव्यत्वेनौचित्यात् ध्यानविषयतया प्राप्तायां शिवशक्तौ खं परमं पदमिति विशेषणेन विष्णुं प्रति तस्याः परमपदत्वमुक्तं, तत्रैव तपश्चर्यया शिवमाराध्य प्रत्यक्षीभूतेन शिवेनसह कैलासे शिवभवनं गत्वा शिवासन एवोमयासह निविष्टं कृष्णं दृष्टा विस्मिता देवकन्याः प्रति शिववचनम् -

F-68

538

एष धाता विधाता च कारणं कार्यमेव च । कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः ॥ भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् । स्रष्टा पाता वासुदेव: विश्वात्मा विश्वतोमुखः ॥ कूटस्थो ह्यक्षरोव्यापी योगी नारायणाह्वयः । तारकः पुरुषो ह्यात्मा कैवल्यं परमं पदम् || सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना ।

शान्ता सत्या सदानन्दा परं पदमिति श्रुतिः || '

इति । अन केवलं परमं पदमित्यन्तेन कृष्णमहिमवर्णनानन्तरं कथमयं परमं पदं शक्तिर्हि तथा श्रुतिप्रसिद्धेति शङ्कायां सैषामाहेश्वरीति श्लोकः । स पूर्वीकः कृष्णः एषा परिदृश्यमाना माहेश्वरी गौरी मम शक्तिः अस्यां परमं पदमिति श्रुतिरस्तीत्येतदभेदात् । कृष्णेऽपि परमपदमित्युक्तमुभयमुपपद्यत इति भावः । न च विष्णुं प्रति परमपदत्वं श्रुत्योच्यते ततु भेदे सत्येव विष्णी व्यपदेष्टुं शक्यमिति वाच्यम् । तद्विष्णोः परमं पदमिति श्रुतौ सकल जीवांशिभूत विष्णुं प्रति परमपदत्वोक्त्या तदंशान् जीवान् प्रत्यपि परमपदत्वमर्थसिद्धमस्तीत्यर्थसिद्धस्य तस्य विष्णावपि व्यपदेष्टुं शक्यत्वात् । तत्रैत्र कृष्णतपश्चर्यानन्तरं शिवेन सह प्रत्यक्षीभूतायाः शक्तेः कृष्णं प्रति प्रतित्रचनम्

'

क्त्सजाने तथानन्तां निश्चलां सर्वदाच्युत ।

अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ त्वं हि नारायणः साक्षात्सर्वात्मा पुरुषोत्तमः । प्रार्थितोदैवतैः पूर्व संजातो देवकीसुतः || पश्यत्वमात्मनात्मान ममलं परमं पदम् ।

नावयोर्विद्यते भेद ऐक्यं पश्यन्ति सूरयः ॥ '

इति । अत्रापि त्वं खलु परमं पदमिति श्रुतिः प्रसिद्वा कथमहं परमं पदमिति

श्रुति प्रसिद्धायां कृष्णस्याकाङ्क्षायां नावयोर्विद्यते भेद

इत्याद्युक्तम् ।

,

539

एवमादिमि: स्मृतिवचनैरस्मिन्मन्त्रे प्रथमपादस्य शिवशक्तिविषयत्वं स्पष्टमवसीयते उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तमम् । देवं देवत्रासूर्यमगन्मज्योतिरुत्तममिति नत्रार्थ प्रत्यभिज्ञया पादान्तरयोस्तद्विषयत्वमक्सीयते दित्र उपरिस्थितमादित्यादिज्योतिरपेक्षयोत्कृष्टं परमानन्दात्मक परमाकाशरूपज्योति रुत्पश्यन्तोवयं सर्वोत्कृष्टं परमव्योमसूर्यरूपं परमशिवाख्यं ज्योतिः प्राप्ता इति तस्यार्थः । प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरं परो यद्दीप्यते दिवीति मन्त्रार्थप्रत्यभिज्ञया च तयोस्त द्विषयत्वं प्रत्नस्य रेतसः प्राचीनस्य कारणस्य ज्योतिर्दीप्तिरूपा शक्तिः तद्वासरं त्रासरवन्मरीचिनिचयव्याप्तं पश्यन्ति तदर्शनयोग्यामुक्ताः । दिवः परं सबद्दीप्यत इति तदर्थः । तथा मनसैतान् क्रमात् पश्यन्रमते य एते ब्रह्मलोक इति छान्दोग्योपनिषद्वाक्यार्थो द्वितीयपादे प्रत्यभिज्ञायते । तत् खलु वाक्यं युगपान्मिलित सर्ववैषयिक सुखात्मक ब्रह्मानन्दानुभवं मुक्तानां प्रतिपादयन्ति इह द्वितीयपादोक्तमेवार्थ प्रतिपादयति यतस्तत्र सूरिशब्दो मुक्तपरमपि श्लोका यन्ति पथ्येव सूरेरिति श्वेताश्वतरमन्त्रे मुक्ते सूरिशन्द प्रयोगदर्शनात् । सदा पश्यन्तीति निष्यानुभाव्यत्वोक्तया मुक्तानुभाव्य स्थिर पुरुषार्थ ब्रह्मानन्दरूपत्वं परमपदस्याविष्कृतम् । तस्य वैष्णवस्थानविशेषरूपत्वे ब्रह्मानन्दवन्नित्यानुभाव्यत्वायोगात् । तथा ’ अथ यदतः परोदिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेष्विति श्रुतिः ज्योतिः शब्दोक्तपरब्रह्म दीप्तिरूपायाः शक्तेर्दिव उपरिभागस्थितेष्वप्राकृतलोकेषु व्यतिं प्रतिपादयति । तदर्थोऽत्र तृतीयपादे प्रत्यभिज्ञायते, एवं श्रुत्यन्तर प्रत्यभिज्ञोपबृंहण बलात्तद्विष्णोरिति मन्त्रः शिवशक्तेर्विष्णुं प्रति परमपदत्वं प्रतिपादयतीति निर्णये सति तदनुरोधेन तस्यावयवभूतेनेत्यत्र षष्ठयन्तं पदं पूर्वमन्त्रप्रकृत परमव्योमपरामर्शीति समर्थनीयम् । तदत्रयवत्वं च नारायणस्य प्रतिपादयतीत्युपपादनीयम् । न्यायं चैतत् । उत्तरार्धेन हि सर्वचराचरव्याप्तिस्तदत्रयत्रत्वं चेत्युभयं नाभिधीयते एकवाक्यप्रतीतेः अतः संभवत्प्राप्तिकानुवादेनाप्राप्तांशविधिरेष्टव्यः । अन्यतः प्राप्तित्वव्याप्तं सर्व चराचरमित्यस्यास्ति ’ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति हि श्रूयते । तदवयवत्वस्य कुतश्चित्प्राप्तिः संभवतीति

1

540

तस्मात्तस्यावयवभूतेनेति श्वेताश्वतरवाक्यबलान्नारायणस्य चिच्छक्तषंशत्व प्रतीते नारायणस्य मुक्तप्राप्यत्वं तदंशिभूतानन्दमयशब्दवाच्य चिच्छक्तथर्थकतत्व प्रति पादक प्रकरणस्थानन्तशब्दबलात् सिद्धयतीति ।

अत्रामिदध्महे

प्यानन्दवल्ली आनन्दमयाधिकत्वप्रतिपादन प्रवणा तथापि नारायणस्य तत्प्रतिपाद्यतायां न किञ्चिद्बाधकमिति नान्तशब्दरूढित्यागे प्रमाणं पश्यामः ।

। न च नारायणस्य चिच्छक्तयंशत्व प्रतिपादक प्रमाणानुसारादनन्तशब्दरूढित्याग आश्रीयत इति वाच्यम् । तदसिद्धेः, न च तस्यावयवभूतेन व्याप्तं सर्वमिदं जगदित्यनेन सकलजगदुपादानतथा बाड्ह्याम्यन्तरसकलजगद्व्यापकत्वेन ।

’ यश्च किश्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।

अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः ॥’

इत्यादि श्रुतिषु प्रसिद्धं नारायणमनुय तस्य चिच्छत्तयंशत्वमन्यतोऽप्राप्तं विदानेन नारायणस्य चिच्छक्तयंशत्वं विभावितमिति वाच्यम् । तस्यावयव मूतैस्तु व्याप्तं सर्वमिदं जगत्’ इत्येव तन्मन्त्रपाठात् तृतीयैकवचनान्ततया फटासिद्धमा बहुवचनविरोधेन नारायणपरत्वासंभवात् उपनिषद्वयाख्यानेषु बहुवचनान्ततया पाठमाश्रित्यैव हि व्याख्यातम् । परमात्मांशभूतैर्जीवर चेतनं व्याप्तमिति परमात्मांशत्वं च जीवानां ‘अंशो नानाव्यपदेशा’ दित्यधिकरणे प्रकाशादित्यधिकरणे ’ प्रकाशादिवत्त नैवं परः’ इति सूक्तोक्तन्यायेन परमात्मापृथक सिद्धविशेषणतया विशिष्टैकदेशत्वमादाय निर्वाह्यम् । एकवचनान्ततया त्वत्कल्पितपाठाश्रयणेऽपि नारायणस्य विवक्षितत्वेन किंचित्प्रमाणं पश्यामः । न च व्याप्तं सर्वमिदं जगदित्यनेन श्रुत्यन्तरसिद्धो नारायणोऽनूद्यत इति प्रत्यमिज्ञा बलासिद्धमिति वाच्यम् । तर्हि व्याप्तमेतच्चराचरमित्यस्य अन्तर्बहिश्चेति वाक्यप्राप्तानुवादकत्वे पुरोवादपर्यालोचनायां सहस्रशीर्षमित्यनुवाके नारायणस्यानन्येश्वरत्व सर्वोतीर्णत्व परब्रह्मत्वादीनामावेदनेन तद्विरोधेन चिच्छक्तयशत्व विधानासंभवात् । सप्तदश सामिधेनीरन्वाह इत्य-

541

नारम्याधीतवाक्ये सामिधेनीप्राप्त्यपेक्षायां पाश्चदश्यावरुद्धत्वेनैव प्राप्तया न सर्वासु विकृतिषु तद्विधानं संभवतीति हि न्यायविदः । उक्तं च तंत्रवार्तिककृता

’ नानारम्यविधिप्राप्त्या सर्वाखेव भविष्यति ।

पश्चादि व्यतिरिक्तस्य पाश्चदश्येन बाधनात् ॥

स्वाङ्गेन पाश्चदश्येन व्याप्तास्तातिदेशतः ।

विहितं सामिधेन्यङ्गं साप्तदश्यं न गृह्यते ॥ '

इति । तथा च तत्पक्षेऽपि जात्यैक्यावलम्बनेन जीवपरत्वमेवाश्रयणीयमिति श्वेताश्वतरवाक्यं न विष्णोः शिवशक्तयंशत्व साधकत्वेनोपन्यासार्हम् ।

यदपि ’ तद्विष्णोः परमं पदं सवा पश्यन्ति सूरयः’ इत्यादिश्रुतिर्विष्णोः परमप्राप्यमूलरूपत्वेन शिवशकिं प्रतिपादयतीति ।

तदपि तुच्छम् । पदशब्दस्य स्थानपरत्वे प्रसिद्धयतिशयेन तस्यैव पदशब्दोपस्थितत्वेन तदन्यपरत्वस्य वक्तुमयुक्तत्वात् । न च कूर्मपुराणोपबृंहणबलादस्य मन्त्रस्य चिच्छक्तिपरत्वमिति वाच्यम् । परमशब्द कीर्तनमात्रेणैतच्छ्रुत्युपबृंहणत्वस्य निश्चेतुमशक्यत्वात् । न ह्येतत् श्रुतिस्थपदान्तरार्थकथनं तत्र कृतं दृश्यते येनैतदुपबृंहणस्य श्रुतितात्पर्य निर्णयैक प्रयोजनकतयोपबृंहण प्रयोगानुसारेण पदशब्दार्थनिर्णयोऽवश्यंभावीति वाच्यम् । तथाप्येतच्छ्रुत्युपबृंहणं विनापि श्रुत्यन्तरस्यपदवाच्य निर्धारणपरत्वेनाप्युपबृंहणत्वोपपत्त्या एतदुप - बृंहणत्वानिर्णयात् ।

ननु विनिगमनाभावात् श्रुत्यन्तरवदेषापि श्रुतिस्तेनोपबृंहितेति वाच्यमिति चेन्न। पदशब्दरूढित्यागावश्यम्भावतदभावयोर्विनिगमकत्वादेतच्छ्रुतेः प्राप्यखरूपपरत्वे प्रमाणमन्तरेण पदशब्दरूढिर्भञ्जनीया | अन्यत्र तु ’ सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्’ इति वाक्ये पूर्व

M542

’ सर्वे देवा यत्पदमामनन्ति

तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति

तत्ते पदं संग्रहेण ब्रवीम्योम् ॥’

इत्युपक्रम्य, ‘अणोरणीयान्महतो महीयान् ’ ’ नायमात्मा प्रत्रत्रनेन लभ्यः

यस्य ब्रह्म च क्षत्रं च उमे भवत ओदन’ इत्यादिभिस्तत्पदखरूपविवरणदर्शनेन रूढित्यागोऽत्रश्यग्भावी । तथा च तच्छ्रुतिस्यपदशब्दार्थनिर्णयपरत्त्रमेत्र युक्तम् । ननु तर्हि कठवल्लीनां भगवत्परत्वं न स्यादिति चेन्न ।

चतुर्विंशतिरेतानि तत्वानि कथितानि तु ।

ज्ञात्वा ज्ञानं तद्विहीनं पुरुषं पञ्चविंशकम् || यज्ज्ञात्वा तु विमुच्यन्ते यतयः शान्तबुद्धयः । यदेतत्परमं गुह्यमेतदक्षरमुत्तमम् । अशब्दमस्पर्शरसमरूपं गन्धवर्जितम् ॥

निर्दुः खमसुखं शुद्धं तद्विष्णोः परमं पदम् ।

अजं निरञ्जनं शान्तमव्यक्तं ध्रुत्रमक्षरम् । अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् ॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ इन्द्रियेभ्यः परार्था अर्थेभ्यश्च परं मनः । मनसस्तु पराबुद्धिः बुद्धेरात्मा महान् परः ||

महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषानपरं किञ्चित्साकाष्ठा सा परागतिः ॥ स्वं देहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्यान निर्मथनाभ्यासाद्विष्णुं पश्येद्रविस्थितम् ||

543

रविमध्ये स्थितः सोमस्तस्य मध्ये हुताशनः । तेजोमध्येस्थितं सत्वं सत्त्रमध्येस्थितोऽच्युतः ॥ अणोरणीयान्महतो महीयान्

आत्मा गुहायां निहितोऽस्य जन्तोः ।

तमऋतुं पश्यति वीतशोको

धातुः प्रसादान्महिमानमीशम् ॥

एक देवस्तु मर्त्यानां पटैरिव विधीयते ।

अज्ञानपटसंवीतैरिन्द्रियैर्विषयेषुभिः ।

I

एष वै पुरुषो विष्णुः व्यक्ताव्यक्तः सनातनः ॥ '

I

इत्यादि शङ्खस्मृत्याद्युपबृंहणानुसारेण भगवत्परत्वावसायात् । कूर्मपुराणवचनजातस्य तदनुसारेण नेयत्वात् । तत्रापि हि ध्यात्वा स्वं परमं पदमिति

। परमशब्दार्थं स्वं ध्यात्वेत्यर्थवर्णनात् भगवत्स्वरूपस्य तथात्वमवगम्यते । न च गौरीखरूपस्य प्रश्नविषयत्वेनौचित्यात् ध्यानविषयत्वं गौर्या एव वाच्यमिति । परमपद शब्दस्तत्पर इति वाच्यम् । उत्तरत्र प्रतिपाद्यमानगौरीपारम्यस्य भगवत्कला योगनिबन्धनत्वव्यक्तयै खखरूपं स्मृतवानिति प्रतिपादनसंभवात् । अत एव देवकन्यां प्रति शिववचनेऽपि नारायणस्य सृष्टिस्थितिलयकारणत्वसर्वान्तर्यामित्वादि कीर्तयित्वाऽनन्तरं केवलं परमं पदमिति प्राप्यत्वं संकीत्य सैषा माहेश्वरीति श्लोके खीलिङ्गपदनिर्दिष्टगौरीमनूष परमं पदमिति तत्र विष्ण्यभेदः प्रतिपाद्यते । कृष्णं प्रति गौरीवचनेऽपि वत्स जाने तथानन्ता’ मित्या दिना कृष्णस्यावतारमर्यादामनुसृत्योक्त्वा अनन्तरं ’ त्वं हि नारायणः साक्षा’ दित्यादिना सर्वोत्तमत्ववर्णनपूर्वकं भगवत एव परमपदत्वमा विष्कृतम् । अनन्तरं तदीयकलावेशनिबन्धनममिन्नत्वमुपपादितम् । तथा च कूर्मपुराणवचनेष्वपि परमपदशब्दार्थत्वं भगवतः कथ्यत इति न तद्बलात् कठवल्लीनां भगवदतिरिक्तपरत्वम् । इदं तु वस्तुगतिमनुरुध्योक्तम् । कूर्मपुराणवचनानि तद्विष्णोरित्येतन्नोपबृंहयन्तीति |

544

परमार्थस्तु - तदुपबृंहणत्वेऽप्युक्तरीत्या भगवत्परत्वात्तेषां न तद्बलात् तद्विष्णोः परमं पदमित्यस्य शक्तिपरत्वोत्प्रेक्षासंभवः ।

यदपि

उद्वयंतमसस्परि पश्यन्तो ज्योतिरुत्तरमिति ’ मन्त्रार्थ

प्रत्यमिज्ञया तद्विष्णोरिति मन्त्रस्य चिच्छक्तिपरत्वमिति ।

तदप्यसारम् । स्थानपरत्वपर उद्वयमिति मन्त्रस्थ ज्योतिश्शब्दस्य तत्परत्वोपपत्त्या प्रत्यभिज्ञया चिच्छक्तिपरत्वनिर्णयायोगात् । स्थानस्यापि स्व प्रकाशत्वमादाय ज्योतिश्शब्दविषयत्वं संभवति । उद्वयमित्यस्य शिवतच्छ कि परत्वकथनं चानुपपन्नम् । प्रमाणाभावात् तमसस्परीत्यत्र च आदित्यवर्णं तमसः परस्तादिति मन्त्रार्थप्रत्यमिज्ञया भगवत्परत्वाक्सायाञ्च ।

’ तन्मण्डलस्यं मां ध्यायेत्तेजोमूर्ति चतुर्भुजम् । उदुत्यं तु जपेन्मन्त्रं चित्रं तचक्षुरित्यपि ॥ '

इति वैष्णवधर्मशास्त्रवचनबलात्तदुत्तरमन्त्राणां भगऋपरत्वावगत्या अस्यापि मन्त्रस्व भगवत्परत्वावसायात् ।

वस्तुतस्तु उद्वयमित्यस्य दीप्तिपरत्वेऽपि प्रत्यभिज्ञायाः स्थलद्वयपरामर्शसापेक्षत्वेन विशेषित प्रवृत्तिकत्वात् श्रुतेर्बलतया फलशब्दश्रुत्युपस्थापितस्थानपरत्वमेव तद्विष्णोरित्यस्य युक्तम् । स्थानदीप्योरुभयोः सूरिदृश्यत्वसंभवात् । न च स्थानविशेषस्य नित्यानुभाव्यत्वायोगादस्य न तत्परत्वमिति वष्यम् । सविभूतिकस्य ब्रह्मणः प्राप्यत्वेन, सार्वश्येन च नित्यानुभाव्यत्वस्य स्थानविशेषेऽपि संभवात् । एतेन मन्त्रान्तरप्रत्यमिज्ञापि निरस्ता । तथा च न तद्विष्णोः परमं पदमित्यस्य विष्णवंशीभूत चिच्छक्ति प्रतिपादकत्वमित्यानन्दमयातिरिकपरत्वेऽप्यानन्द त्रल्लयानानन्तशब्दरूढिखीकारे किञ्चिद्वाधकमिति सत्यं ज्ञानमनन्तमित्यस्य नारायणपरत्वं निर्बाधमेव ।

वस्तुतस्तु

नानन्दमयातिरिक्ते पर्यवसानं युज्यते । ब्रह्मविदाप्नोतिपरमिति प्रक्रान्तस्य सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षितस्य ब्रह्मणः

’ तस्माद्वा

545

एतस्मादात्मन आकाशः संभूत’ इत्यात्मशब्देन निर्देशे कृते स आत्मा कः इने आकाङ्क्षायां क्रियमाणस्यात्मनिरूपणस्य स्थूलारुन्धतीन्यायेन प्राणमये प्रथममात्मत्व बुद्धिमषतार्य तदनन्तरं मनोमयाथवतरणक्रमेण तस्माद्वा एतस्माविज्ञानमयादन्योऽन्तर आत्मानन्दमय इत्यानन्दमये समापितत्वात् । न चोपक्रमे सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णे स्वप्रधानतया प्रकृतं ब्रह्मैव ब्रह्मपुच्छं प्रतिष्ठेति ब्रह्मपदेन गीयत इति तत्रैव स्वप्राधान्यं युक्तम् । स्वप्रधानमन्त्रवर्णिक ब्रह्मोपस्थापक ब्रह्मवशानुसारादिति वाच्यम् । तस्मादाकाशः संभूत इत्येतावतैव चारितार्थ्ये आत्मन इति निर्देशस्य प्रयोजनं किमिति विमर्शे आत्मत्वेन ब्रह्मनिरूपणमित्यवगत्या आत्मनिरूपणसीम्न एत्र ब्रह्मनिरूपण विश्रान्तिस्थानत्वावसायात् । अन्यथा आत्मन इत्यस्य वैयर्थ्यापातात् ।

न च ब्रह्मपदेन सत्यं ज्ञानमनन्तं ब्रह्मेति निर्देशाद्ब्रह्मत्वेन निरूपणं चिकीर्षितमिति वाच्यम् । तस्य ब्रह्मोपस्थापनरूपप्रयोजनवत्वात् आत्मन इत्यस्य तु न प्रयोजनान्तरं पश्यामः । न चात्मत्वेन निरूपणस्य क्रियमाणत्वेऽपि नानन्दमये पर्यवसानम् । तस्यैष एव शारीर आत्मा यः पूर्वस्येष्यानन्दमयविज्ञानमययोरेकात्मत्वोपदेशेनानन्दमयातिरिक्ता त्मप्रतीतिरिति वाच्यम् । पर्यायान्तर इत्र

एतस्मादानन्दमया दित्याद्युपदेशाभावेन तस्यानन्यात्मत्वप्रतिपादनपरत्वावगत्याऽऽनन्दमयातिरिक्ता त्मतात्पर्यासिद्धेः । न च ब्रह्मपुष्ठं प्रतिष्ठेत्येवात्मान्तर उपदेश इति वाच्यम् । ’ तस्यैष एव शारीर आत्मा यः पूर्वस्येत्येतदनन्तरभावित्वाभावेनात्मान्तरोपदेशपरत्वायोगात् । तस्यात्मान्तरोपदेशपरत्वाप्रतीतेश्च । इदं पुच्छं प्रतिष्ठेत्यादि पदप्रधानावयवनिरूपणपरत्वेन प्रतीयमानस्य प्रधानभूतात्मनिरूपणपरत्वायोगाच्च ।

तस्माद्वा

ननु सत्यं ज्ञानमनन्तं ब्रह्मेति प्रधानतया प्रकृतस्य ब्रह्मपदेनोपस्थित्या तत्प्राधान्यस्यावश्यवाच्यत्वेन पुच्छपदस्याधारलक्षणां परिकल्प्य प्रधानभूतात्मान्तरोपदेशपरत्वं कल्प्यत इति चेदुष्यते - किमस्मिन् पक्षे ’ असन्नेव स भवतीत्यादिकं पुच्छब्रह्मविषयकमानन्दविषयकं वा नाद्यः, तत्तत्पर्यायशेषभूतश्लोकस्य तत्तदवयविपरत्वदर्शनेनास्य पुच्छपरत्वे वैरूप्याभावात् ।

F-69

"

546

न द्वितीयः असन्नेव स भवति । असद्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः । ’ इति ब्रह्मशब्दस्यानन्दमयातिरिक्त ब्रह्म प्रतीतिप्रतिबन्धकत्व प्रसङ्गेन घट्टकुटी प्रभातन्यायापातात् । किञ्च ब्रह्म पुच्छं प्रतिष्ठेत्यत्र यदि ब्रह्मनिरूपणपर्यवसानं तदात्मन आकाश इत्यात्मग्रहणं व्यर्थमैत्रापद्येत । तदन्तरेणापि ब्रह्म पुच्छं प्रतिष्ठेति प्रधानप्रतिपादक ब्रह्मशब्दोपस्थित एव तस्यैष एव शारीर आत्मेत्येकात्मत्वोपदेशोपक्षिप्त आनन्दमयस्यात्मेति निर्धारणसंभवात् । न हि ब्रह्मात्मशब्दयोरेकार्था पर्यवसायित्व शङ्कासंभवः, येन तच्छब्दोपस्थित ब्रह्मण आत्मन इति निर्देशस्यार्थवत्त्वं स्यात् । न च ब्रह्मपदनिर्दिष्ट पुच्छब्रह्मण एव तस्यैष एव शारीर आत्मेत्यात्मशब्दार्थत्वसिद्धिः । तस्मादा एतस्मादात्मन इति निर्देशस्य प्रयोजनमिति शङ्कयम् । तमन्तरेणापि तत्सिद्धेः न च तदभावेऽनन्यात्मत्व प्रतिपादनमुखेनानन्दमये पर्यवसानं स्वादिति तद्वारणं प्रयोजनमिति वाच्यम् । वैरूप्यप्रसङ्गेन तस्यैष एवेत्यस्य प्रमाणमन्तरेण नान्यात्मत्वप्रतिपादनपरत्वासंभवेन तत्पर्यवसानायोगात् । न च पुच्छपदनिर्देशात् पुच्छब्रह्मण्यपर्यवसान शङ्कायां तद्वारकतया सार्थक्यमिति ऋभ्यम् । स्व प्रधानमान्त्रवर्णिक ब्रह्मोपस्थापकब्रह्मपदानुसारात्तस्यैष एवेत्यनन्तरात्मान्तरानिर्देशाच्च, पुच्छब्रह्मण्येव पर्यवसानादिति त्वयैवोक्तत्वात् । किञ्च कथमनेन पुच्छब्रह्मणिपर्यवसानवारणाय तस्मादात्मन इति सामानाधिकरण्यात्रगते काध्ययोरात्म ब्रह्मशब्दयोरेकार्थपर्यवसानं न्याय्यमिति बुध्द्युत्पादनद्वारेणेति चेत्, बन्योऽन्तर भात्मानन्दमय इत्यात्मशब्दस्यैकार्थपर्यत्र सायि त्वमित्यानन्दमयामित्रस्यैव ब्रह्मणः पुच्छत्वव्यपदेश इति बुध्युत्पादन द्वाराऽऽनन्दमयपर्यत्र सायित्व ज्ञापकत्वस्यापि संभव इति वक्तुं शक्यत्वात् । एवं हि पुच्छशब्दस्वारस्य मपरित्यकं, अर्थवत्त्वं च पुच्छशब्दस्य भवति । अन्यथा तस्याधारत्वलञ्जकत्वे प्रतिछापदेनैव तल मेन तद्वैयर्थ्यापातात् । न च कान्तिमान्मुखचन्द्र इत्यत्र चन्द्रतुल्य कान्तिमत्प्रतिपत्यर्थेत्वेन चन्द्रशब्दस्यैव पुच्छतुल्याधारत्व प्रतिपत्त्यर्थ वेन पुच्छशन्दस्य सार्थक्यमिति वाच्यम् । चन्द्रतुल्य कान्तिमत्त्वप्रतिपत्तेरुत्कर्ष हेतुत्वेन ब्रह्मणः पुच्छतुल्याधारत्वस्य निकर्षावहत्वेन वैषम्यात् ।

547

नन्वाधारत्वसामान्यमेव पुष्छत्रद्भावविशेषिततया तेन लक्षणीयं ब्रह्मणि श्रोतबुद्धयवतारणाय श्रुत्या अन्नमयादिक्रमेण तन्निरूपयिषितमिति पक्षितया निरूपितस्यानन्दमयस्य ब्रह्मपुच्छपदाधार इत्युक्ते दृष्टान्तमुखेन संप्रतिपत्ति संभवात् । तदर्थं पुच्छशब्द एकार्थक इति चेन्न । तथा सति पुच्छशब्दस्य पुच्छ्वद्भावपरत्वे पक्षिनिरूपणस्यापरिपूर्ति प्रसङ्गात् । तथासति तस्य पुरुष विधतां अन्वयं पुरुषविध’ इति वाक्यविरोधाभावात् विज्ञानमयस्य पक्षिविधत्व नुकृत्यायं पुरुषविध इति हि तस्यार्थः तस्मादयमात्मेति विशिष्य निर्दिष्टे कृत ब्रह्मनिरूपण पर्यवसानज्ञापनैः स प्रयोजनकः ’ तस्माद्वा एतस्मादात्मन’ इत्यात्मशब्देन निर्देश इत्युन्नीयते । एवं तत्पर्यायशेषभूतस्य श्लोकस्य तत्तदवयविपरत्वदर्शनेन तदभाववैरूप्यापातात् । आनन्द’ इति निर्देशबलात्पुच्छशब्दानुसारात् तस्यैष एवेति वाक्यस्थस्य तस्येत्यस्य लोकप्रतिपाद्यातिरिक्तपरत्वे वैरूप्यापातात् । नत्वपूर्वपर्यायेष्ववयविप्राधान्यस्य दृष्टसूत्रत्यागप्रसङ्गात् । तस्यैष एवेत्यस्यानन्यात्मत्वपरत्वं कथंचिद्भेदकल्पनया ब्रह्मणः पुच्छत्वं च परिकल्प्यानन्दमये पर्यवसानस्य वक्तुं शक्यत्वाच्च नानन्दमयातिरिक्तपर्यत्रसानमानन्दवल्लयोपपादितम् ।

यत्तु कस्यां गुहायां निहितमित्याकाङ्क्षायामन्नमयादिकोशानां निरूपणं प्रवृत्तमिति । तदयुक्तम्, तस्यैष एष शारीर आत्मा यः पूर्वस्येत्यस्य प्रतिपर्यायमचीयमानस्यानर्थक्यापत्तेः अस्य हि प्राणमयादिषु अवतीर्णया अन्नमयात्मत्वबुद्धेरेकात्मत्वोपदेशेन निवर्तनं हि प्रयोजनमध्यवसीयते । गुहाशब्दार्थ विवरणपरत्वे अन्नमयादीनां निरूपणमात्रेणैव तत्सिद्धेस्तस्यैष एव शारीर आत्मेत्यस्य न प्रयोजनं पश्यामः ।

यदपि किं तद्वयोमेत्याकाङ्क्षायामानन्दमयनिरूपणं प्रवृत्तमिति । तदप्यसारम् । ’ तस्माद्वा एतस्मादन्नरसमयादन्योन्तर आत्मा प्राणमय:’ इति प्राणमये प्रथममात्मत्व बुद्धिमवतार्य तत्रावतीर्णामात्मत्व बुद्धिं तस्यैष एव शारीर आत्मा यः पूर्वस्येत्यन्नमयप्राणमययोरेकात्मत्वोपदेशेन विनिवर्त्य स आत्मा क

548

इत्याकाङ्क्षायां तस्माद्वा एतस्मात्प्राणमयादन्योऽन्तर आत्मा मनोमय इति मनोमये तामवतार्य पुनरपि तन्निवर्तनविज्ञानमयावतरण तन्निवर्तन पूर्वकमानन्दमयेऽसौ बुद्धिरवतार्यते इति तत्नत्य वाक्यशैल्यनुरोधादात्मरूपैकार्थनिरूपणतात्पर्यावगमेन तद्विरोधात् । कस्यचिदर्थस्य अन आनन्दमयनिरूपणात् पूर्ण निरूपणे समाप्ते अनन्तरमानन्दमयनिरूपणमिति कल्पनाया अनुदयात् । अन्यथा वाक्यमेदप्रसङ्गात् ।

न च परिशेषाद्वयोमशब्दार्थनिरूपणपरत्वमानन्दमयपर्यायस्यावसीयत इति वाच्यम् । कोऽयं परिशेषः किं सत्यज्ञानादिवाक्योपात्तानां पदार्थानां निरूपणादस्य तत्परत्वासंभवाद्वयोमशब्दार्थनिरूपणपरत्वं परिशिष्यत इति । किं वान्यत्र व्योमशब्दार्थनिरूपणपरत्वासंभवादस्यैव तत्परत्वं परिशिष्यत इति ।

न तापदायः ब्रह्मणः निरूपणपरत्वसंभवात् । न च ’ तस्माद्वा स्तस्मादात्मन आकाशः संभूत इत्यत्र तन्निरूपितमिति वाच्यम् । तर्हि असमेव स भवतीत्यत्र तदभाषापत्तेः ।

न द्वितीयः

त्वद्रीत्या स एको ब्रह्मण आनन्द इत्यत्र तन्निरूपण संभवात् । न च सैघानन्दस्य मीमांसा भवतीत्यादिना ब्रह्मानन्दस्यैव सकलकैपिकसुखात्मना विद्यमानतोक्तया सर्वान् कामानित्यनेन सर्वकामात्मना विद्यमानः स एवोच्यत इति विवरणेन सर्वकामशब्दार्थनिरूपणपरत्वमवसीयत इति वाच्यम् । सर्वकामात्मत्व प्रतिपादनासिद्धेः । न च ’ ते येशतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द’ इति सामानाधिकरण्यात्तथात्वमवसीयत इति वाच्यम् । ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्द’ इत्यत्र शतगुणितमानुषानन्दतुल्यानन्दत्रत्त्व परत्व प्रतीत्यात्नापि तकत्वावसायात् । सर्वकामात्मत्वपरत्वेऽपि व्योमशब्दार्थनिरूपणपरत्वमप्यस्तु '

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति तत्स्वरूपस्य ते येश - मित्यादिना सर्वकामात्मत्वस्य च निरूपणदर्शनात् । न च सत्यादिवाक्य प्रतिपन्नप्रकारेण निरूपणमेवं नस्यादिति वाच्यम् । त्वत्पक्षेऽपि गुहायां

549

परमेव्योमन्निहितमित्यन्त्रयाङ्गीकारेण तद्वाक्ये ब्रह्मणो व्योमाधिकरणत्वं प्रतीयते । आनन्दमयत्राक्ये तु आनन्दमयस्य ब्रह्मणोध्येयत्वं इति वैषम्या सद्भावाद्गुहानिहितत्वांशे सारूप्यमस्तीति चेन्न । अन्नमयादिनिरूपणस्य गुहानिरूपणपरत्वासंभवस्य वर्णितत्वात् । तस्मान्न परिशेषाद्वयोमशब्दार्थनिरूपणपरत्वमानन्दमय निरूपणस्य युक्तम् । किश्चेत्यप्यनुपपन्नम् । आकाशचिच्छक्तिपरत्वे प्रमाणाभावात् । यथा चैतत्तथा ऽनुपदमेव वक्ष्यामः ।

यदप्येवं सत्येव तस्यैष एव शारीर आत्मा यः पूर्वस्येत्यानन्दमयपर्यायेऽपि प्राणमयपर्यायवदात्मान्तरो घटते । नत्वानन्दमयस्य ब्रह्मत्वं इति । तदप्यमञ्जुलम् । तदनन्तरं तस्माद्वा एतस्मादानन्दमयादित्याद्युपदेशाभावेनात्मान्तरोपदेशपरत्वासंभवात् । तर्हि किं तेन प्रतिपाद्यत इति चेत् अमन्यात्मत्वमिति गृहाण | न चैवं वैरूप्यमिति वाच्यम् । त्वन्मतेऽपि पूर्व पर्यायेषु इदं पुच्छं प्रतिष्ठेत्यादीनामप्रधानावयवपरत्वमत्र ब्रह्मपुच्छं प्रतिष्ठा इत्यानन्दमयप्रधानब्रह्मनिरूपणपरत्वमिति वैरूप्यस्यानिवारणात् । असन्नेवेति श्लोकस्यावयविपरत्वाभाववृतं वैरूप्यमप्युक्तमेव । न चेदं मिन्नार्थत्वकृतं वैरूप्यमिति वाच्यम् । पुच्छशब्दस्य कचिन्मुख्यत्वं कचिद्रौणत्वमिति वैरूप्यसत्त्वात् । ब्रह्मपुच्छं प्रतिष्ठेत्येतत् नात्मान्तरोपदेशपरमित्युक्तम् । न चानन्दमयस्य ब्रह्मत्वे ब्रह्मणः पुच्छत्वा संभव इति वाच्यम् । स्वत्पक्षे प्रचुरानन्दस्यैवानन्दमय शब्दार्थत्वेनानन्द आत्मेत्यानन्दस्य मध्यकायत्वनिरूपणासंभवप्रसङ्गात् । आनन्दमयो जीव इति पक्षेऽप्यानन्दशब्दस्य जीवपरत्वे आनन्दमया भिन्नत्वेन ब्रह्मपरत्वे उपसर्जनत्वायोगेन च मध्यकायत्वेन निरूपणं न संभवत्येव । तथा च कथं चिद्भेदकल्पनामाश्रित्य पुच्छत्व पुच्छवत्वयोरुपपत्तिर्वर्णनीया । अन्यथा पुरुषविषयत्वनिरूपणे अवयववैकल्यप्रसङ्गः ।

यत्तु ब्रह्मश्रुतिभ्यां प्रायपाठान्नानन्दमय विषय श्लोकः इति तन्न । आनन्दम्यस्यापि ब्रह्मशब्दामिवेयत्वेन तत्परत्वेऽप्युपपत्तेः प्रायपाठबाधायोगात् ।

550

यत्तु

’ अन्नाद्वै प्रजाः प्रजायन्ते’ ‘यतो वाचो निवर्तन्ते इति श्लोकयोरन्नमयमनोमय विषयत्वाभावेन प्रायपाठा सिद्धिरिति । तन्न

’ तदप्येष स्लोको भवतीत्यनेन तत्परत्वस्य श्रुत्यैव प्रतिपादनेन तद्विषयत्वस्यात्रश्यत्राच्यत्वात् कथं तत्परत्वमिति चेन्न । अन्नस्तुतेरन्नरसमय शरीरे पर्यवसानसंभवात् । यतो वाचो निवर्तन्त इति मनोमय श्लोकोऽपि मनोमयविषय एव । आनन्दं ब्रह्मणो विद्वानिति विशुद्ध मनोप्राह्यत्व प्रतिपादनात् । ’ न बिभेति कदाचनेति मनसि भयनिवृत्तेः प्रतिपादनाश्च । यत्त्वानन्दमयस्य ब्रह्मत्वे भेदाभावाद्ब्रह्मणः पुच्छत्वं न संभवतीति । तन्न । प्रचुरानन्दविशिष्टत्वेन ब्रह्मत्वविशिष्टत्वेन च कथंचिद्भेदकल्पनासंभवात् । अन्यथा आत्मेति मध्यकायत्वनिरूपणस्याप्यसंभवप्रसङ्गात् पूर्वपययिष्यनिरूपितस्यात्र ब्रह्मावयक्त्वस्य निरूपणस्य प्रयोजनं तु ब्रह्मविदाप्नोति परमित्युपक्रान्तस्य ब्रह्मोपदेशस्यानन्दमयपर्याये समापनमिति ज्ञापनमेत्र । तस्मादानन्दमयः परं ब्रह्मैव न चिच्छक्तिरिति ।

’ यदपि सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्त इति विच्छतिजगत्कारणत्वं श्रुतमिति, तदसत् । परमात्मनो वाक्यान्तर श्रुतजगत्कारणत्वमेत्रात्रानूद्यत इति वै शब्दबलात् नास्य परमात्मव्यतिरिक्तकारणत्वाप्रतिपादकत्वात् । न चाप्राप्तार्थकत्वाच्चिच्छक्तिकारणत्व विधायकमिति शक्यं वक्तुम् । तद्वाचकपदाभावात् । न च आकाशशब्दस्तत्परः, तथात्वे-

मान्ममावात् ।

यदपि वेदप्रयुक्तस्य कस्यचिच्छब्दस्य लोकप्रसिद्धार्थसंभवे वेदतदुप - बृंहणयोर्यस्मिन् प्रयोगो दृष्टस्तत्परत्वमेव युक्तम् । न च चिच्छक्तावाकाशशब्दस्येति तत्र वेदे प्रयोगस्तावदसिद्धः । न चाकाशशरीरं ब्रह्मेति गुहानिहि ताय चिच्छकौ प्रयोगो दृष्ट इति वाच्यम् । प्रसिद्धाकाशपरत्वेऽपि तत्तुल्यशरीरकत्वेन तच्छरीरकत्वेन वा परमात्मप्रतिपादकत्वोपपत्तौ तस्य प्रयोगस्य चिच्छक्तिपर वे प्रमाणत्वासंभवात् ।

551

वस्तुतस्तु तस्मिन्नयं पुरुषः मनोमयः अमृतो हिरण्मय इत्युपास्यस्योज्ज्वल शरीरत्वस्य वर्णितत्वेन तस्यैव प्राप्यत्वकीर्तनाय समन्तात्प्रकाशमानदिव्यविग्रहयुक्तत्वं वर्ण्यत इति न चिच्छक्तिपरत्वं युज्यते । ’ यदेष आकाश आनन्दो न स्यादिति प्रयोगोऽपि न चिच्छक्तेराकाशशब्दवाच्यत्वसाधकं विज्ञानमानन्दं ब्रह्मेति श्रुत्या ब्रह्मणोप्यानन्दशब्दाभिधेयत्वेन तत्परत्वोपपत्तेः । त्वयापि सत्यं ज्ञानमनन्तं ब्रह्मेत्युक्तानन्त्योपपादनार्थं तस्माद्वा एतस्मादित्यादिकं प्रवृत्तमित्युक्तत्वेन परमात्मन्येव कारणत्वं प्रथममुपपादितमिति । असद्वा इदमप्र आसीदित्यस्यापि तत्परत्वेन तद्गतस्य ’ यदेष आकाश’ इत्यस्यापि तत्परत्वमेव वर्णयितुमुचितम् । तस्माद्वा एतस्मादित्यस्य परमात्मान्यपरत्वे च तस्माद्वा एतस्मादित्युक्तयसङ्गतिः । तस्माद्ब्रह्मविदामोतीति ब्राह्मणोक्तात् एतस्मात् सत्यं ज्ञानमनन्तमिति अव्यवहितमन्त्रोक्तादिति हि तदर्थः । उपक्रमे ब्रह्मविदाप्नोति परमिति यो वेद निहितं गुहायामिति च मोक्षहेतुज्ञानकर्मत्वस्य परमात्मन उपपादितत्वेन ’ यदाह्येवैष एतस्मिन्नदृश्ये ऽनात्म्य’ इत्यस्यापि तत्परत्वमेवेति तत्रैतस्मिन्निति परामर्शविषयस्य यदेष आकाश इत्यस्यापि परमात्मपरत्वावश्यं भावाश्च । न चाकाशवत् सर्वगतश्च नित्य इति सर्वगतत्वनिष्यत्वयोराकाशस्य दृष्टान्तीकृतत्वेन प्रसिद्धाकाशस्य कार्यस्य नित्यत्वात् प्रयोगचिच्छतेराकाशशब्दवाच्यत्वसाधकः । आकाशवत्सर्वगत इत्यत्न सर्वगतत्वमात्रे दृष्टान्तीकृतत्वेन नित्यत्वेऽपि तस्य चिच्छक्तित्वेन ’ यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाश इत्यत्न चिच्छक्तेर्दृष्टान्तीकरणस्य संभवेन परिच्छिन्नस्य भूताकाशस्य कथं दृष्टान्तीकरणमित्यनुयोगस्य तुल्यत्वात् ।

न चेषुवत् सविता गच्छतीत्यत्र सवितुरिष्वधिक वेगवत्वेऽपि गतिमान्धनिवृत्तितात्पर्येण सवितृतुल्यगतिमत्त्ववर्णनं तथा यात्रान्वा अयमाकाश इत्यपि परिच्छिन्नत्व निवृत्तितात्पर्यमात्रेणोपपन्नमिति वाच्यम् । आकाशवत्सर्वगत इत्यत्रापि तथैववर्णनसंभवे आकाशशब्दस्य शक्त्यन्तरकल्पने मानाभावात् । अतो न वेदप्रयोगः चिच्छक्तेराकाशशब्दवाच्यत्वसाधकः नाप्युपबृंहण प्रयोगः ।552

यस्य सा परमादेवी शक्तिराकाशसंज्ञिता’ । इत्याकाशरूपेण परिणामप्रतिपादनमुखेन भूतकारणत्व तात्पर्येणोपपन्नत्वेन गौरवप्रस्त शक्त्यन्तरकल्पकत्वासंभवात् । न चाकाशरूपेण परिणाममात्रोक्त्या कथं मूतकारणत्वसिद्धिरिति वाच्यम् । आकाशाद्वायुरित्याद्युक्तया तस्यैव वाय्वादिरूपेण परिणामेन ततो भूतकारणत्व तात्पर्यसिद्धेः । एवं चाकाशशब्दस्य चिच्छक्तिशक्तीमानाभावान्न छान्दोग्यस्थस्य ’ सर्वाणि हवा इमानि भूतानी’ त्यस्य तत्कारणत्वप्रतिपादकत्वं युक्तम् । अतो न सोऽकामयतेत्यस्य तत्कारणत्वप्रतिपादनं न साधयितुं शक्यम् ।

यदपि बृहदारण्यके यदूधं याज्ञवल्क्येत्यादिना समस्तवस्त्वाधारे पृष्टे बकाश एव तदोतं च प्रोतं चेत्युत्तरं चिच्छक्ति विषयमिति । तदप्यमञ्जुलम् | नयवृत्तिसकलपदार्थाधार भूताकाशाधारः क इति प्रश्न ‘सहोवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्यहस्वमित्यादिना तथा भूताकाशाधारमुपवर्ण्यात्याक्षरस्य कालत्रयवर्तिप्रदार्याधाराकाशाधारत्वमेव जगदाचरम् । ततश्चाकाशापेक्षया किश्चिदाधिक्यमिति बुद्धिं नित्रर्तयितुं पुनश्चैतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत’ इत्यादिना सर्वस्य प्रश्नस्य तदाज्ञावशवर्तित्वप्रतिपादनमुखेनोत्कर्षः प्रतिपादित इति वाक्शैल्यनुरोवादवगम्यमानत्वेन चिच्छक्ति प्रतिपादकत्वस्य वक्तुमशक्यत्वात् । न ह्याकाशशब्दस्य चिच्छक्तिपरत्वपक्षे उत्तरसन्दर्भस्यैवमुत्कर्षान्तर व्यक्तयर्थत्वं संभवति । तन्मते चिच्छक्तिरपि पञ्चकृत्याधिकारित्वेन प्रपञ्चस्य तदाज्ञावशवर्तित्व सत्रात् । तदुक्तं शिवानन्दलहरी व्याख्यायाम् - - न च निमित्तत्वविशेषणेन निरासः शक्तेरपि पञ्चकृत्यकारित्वाभ्युपगमादिति । अतः कालत्रयबर्विपदार्थाधारत्वेन निर्दिश्यमान आकाशोऽव्याकृत इत्यवगम्यते ।

ननु प्राथमिकगार्गी प्रश्ने ‘सदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खत्वापः ओताश्च प्रोताश्चेति वायौ गार्गी इत्यादिकेन गार्गीप्रश्न याज्ञवल्क्य प्रतिवचनरूपेण सन्दर्भेण पृथिवी सलिलवाय्वन्तरिक्षलोक गन्धर्वलोकादित्य

553

लोकचन्द्रलोकदेवलोक प्रजापति लोक ब्रह्मलोकानां मध्ये उत्तरोत्तरं पूर्वाधारत्वेन प्रतिपादितम् । ततः कस्मिन्नुखलु ब्रह्मलोका ओताश्च प्रोताश्चेति गार्ग्या पृष्टे ’ माति प्राक्षीर्माते मूर्धान्यपप्तत्’ अनतिप्रश्नां वै देवतामतिपृच्छसीति गुरूपसदनादि नियमेन प्रष्टव्यं तं प्रश्नमन्यथा प्रष्टुमनहं नियममतिक्रम्य मा प्राक्षीरिति निवारित प्रश्न एत्र पुनः समयान्तरे गार्ग्य याज्ञवल्क्यानुज्ञापूर्वकं वृतः । ’ यद् ऊर्ध्वं याज्ञवल्क्यदिव’ इत्यादिना तस्योत्तरमाकाश एव तदोतं च प्रोतं चेति । एवं चाकाशस्यानतिप्रश्नस्य देवतारूपत्वादचेतनस्य देवतात्वा संभवान्नात्रास्याकृतमाकाश इति चेत् । अत्र वेदान्तविजयकृतः

"

अत्र शब्दस्य नियमातिक्रमपरत्वं तावदनुपपन्नं प्रकरण विरोधात् । तथाहि जनको हवै वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्रह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुरित्यादिना जनकयज्ञदर्शनार्थं समागतान् कुरुपाञ्चालदेशेभ्यः समागतान् दृष्टा क एतेषां ब्रह्मिष्ठ इति जिज्ञासुना परिचिक्षिपया गवां सहस्रभवरुभ्य एकैकस्याः शृङ्गयोः पलपरिमितं सुवर्णमाबध्य ’ ब्राह्मणा भगवन्तः यो वै ब्रह्मिष्ठः स एता गा उदजता मित्युक्ते सर्वेष्टेषु तूष्णीं स्थितेषु धाष्टर्याद्याज्ञमल्क्यानुशिष्टेन तस्य शिष्येण सामश्रवसा उद्वीश्रमाना गा उपलभ्य कुद्धेषु तस्य जनकस्य होताश्वलस्तदमृष्यमाणो धाष्टर्षायाज्ञवल्क्यं जेतुकामः साघिक्षेपं अपूर्वान् कश्विदर्थान् पप्रच्छ । तस्मिन् सदुत्तरेण याज्ञवल्क्येन जिते तथैवार्तभाग भुज्योषस्ति कहोल, गार्ग्यद्दालक, विग्धशाकल्यानां विजिगीषया यथायथं प्रश्नाः सर्वेषां च तेषां पराजयः शाकल्यमूर्द्धविपातान्तः संवृत्त इत्यस्मिन् प्रपाठके श्रूयते, अत्र जल्पकथारूपे प्रश्ने कुतो गुरूपसदनादिनियमापेक्षा किञ्च यदि नियमापेक्षां ब्रूयात्तदा याज्ञवल्क्य यथाकाश्योवा वैदेहो वोग्र पुत्र उज्यं धनुरधिज्यं कृत्वा द्वौ बाणत्रन्तौ सपत्नाति व्याघिनौ हस्ते कृत्वोपतिष्ठे देवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूही’ति स्वकीयप्रश्नानां याज्ञवल्क्यस्य पराजयावश्यम्भावं दृष्टान्तोपन्यासेनाभिव्यज्य धाष्टर्थेन याज्ञवल्क्यस्य ज्ञानप्रकटीकरणेन जयार्थं तं गार्गी प्रत्यवतिष्ठते कथं च याज्ञवल्क्यः प्रश्नयोरुत्तरं ब्रूयात् । किं च तत्वौपनिषदा पृच्छामि तं च मे न वक्ष्यसि

F-70

554

मूर्धा ते विपतिष्यतीति तं ह नमेने शाकल्यस्तस्य मूर्धा विपपातेति एतत्प्रपाठ कान्तरवाक्ये साकल्य याज्ञवल्क्य संवादरूपेत्वाखिदिमे ब्राह्मणा अङ्गारात्रक्षयणं अक्रता इति वाक्येन त्वांनूनमङ्गारग्रहण साधनकाठ संदंशादिरूपं कृतवन्तः ब्राह्मणैः प्रेरितस्त्वं भाव्यनर्थमपश्यन् कलहायसे इत्येवमर्थकेन ब्राह्मणानुज्ञया प्रवृत्तत्वेन दर्शितस्यापि याज्ञवल्क्यस्य मूर्धनिपातवचनेन सत्यवादितया दर्शितो याज्ञवल्क्यो यदि नियममतिक्रम्य पृच्छन्त्या गार्ग्या मूत्रविपातं ब्रूयात् तदा साहङ्कारा मिलापं विजिगीषया पृच्छन्त्या गार्ग्य मूर्धा कथं न विपतेत् । पृच्छगार्गी’ति याज्ञवल्क्येनानुमतेः करणान मूर्धविपातप्रसङ्ग इति चेन्न, पूर्वमेत्र ब्रह्मप्रश्नस्य निषिद्धतया ततो निवृत्ता प्रश्नान्तरमेत्र करिष्यतीति बुद्धमाऽनुमति दानात्तदर्थमेत्र च द्वाभ्यामुपोदस्थामिति द्वित्व कीर्तनम् । ननु द्वित्वकीर्तनस्य कथं तादर्थ्यमिति चेन्न । द्वित्वकीर्तने नानिवारित प्रश्न साहचर्येण प्रश्नान्तरत्वबुद्धेरेव दृढीकरणात् ।

1

ननु ब्रह्मलोकाद्याधारे उक्ते तस्याप्याधारभूतं ब्रह्म प्रक्ष्यतीति बुध्याखल्लु तन्मूलभूत प्रश्नोनिषिद्धः अतः प्रश्नद्वित्व कीर्तनमस्य प्रश्नद्वयस्य पूर्वनिषिद्धत्व बुद्धिन्यावर्तन समर्थमिति चेन्न । पूर्वनिषेधस्य प्रश्नद्वयगोचरत्वे मानाभावात् । एक प्रश्नानन्तरं प्रवृत्ततया ’ अति पृश्न्या देवता’ मित्येकवचनेन न चैक प्रश्नविषयत्वस्यैव प्रतीतेः । तस्मात् प्रश्नान्तरत्व बुद्धयैवानुमतिदानं प्रक्ष्यामीत्यादि वचनस्य निच्चरित प्रश्नानुज्ञानार्थः वे द्वयोर निवारणेन द्वित्व कीर्तनानुपपत्तेः । प्रक्ष्यामीत्यादिवचनं तु, सानुज्ञानार्थम् । किन्तु द्वाभ्यामेव प्रश्नाभ्यां याज्ञवल्क्यस्य पराजयो भविता । न चेन्न केनापीति प्रश्नस्य दुर्यचत्वख्यापनेन स्वप्रागल्भ्य द्योतनार्थम् । एवं च द्वित्वकीर्तनेन तस्य पूर्वप्रश्नत्व बुद्धि प्रतिवद्धय प्रश्नानुमतिः कारिता । तस्या प्रागल्भ्यत्र वनं निशम्येदानीमप्युत्तरानुक्तौ स्वस्य पराजयो भविष्यतीति आशयषता अनति प्रश्नस्याप्युत्तरमुक्तमित्येतावदेव न तु निवारित प्रश्नस्यानुमतिः कृतेति कथं गार्ग्य मूर्धा न विपतेत् । कयं च धर्म विना विजिगीषयोझलकेन कृतस्यान्तर्यामिप्रश्नस्योत्तरं ब्रूयात् । अपि च देवतामतिपृच्छसीति कर्मप्रवचनीय योगे द्वितीयातिक्रमणार्थं द्योतयन्ती प्रकृत्यर्य एव तद्द्योतयेत् ।

"

555

तत्र हि

यथा काठके ’ अत्यं६ लक्ष क्तश्च देवताया एवातिक्रमकर्मत्वं युक्तम् | संवादाख्यायिकायां स कस्मिन् ( सत्य इति) प्रतिष्ठित ’ इति किं सत्यमिति तप इति कस्मिन्नु तप इति बल इति किं तद्बलमिति प्राण इति अक्ये प्रश्नपूर्वकं प्राणे कथितेऽपि ‘मास्म प्राणमतिपृच्छ’ यद्वै ब्रह्मचारिन् प्राणमत्यप्रक्ष्यः मूर्धाते व्यपतिष्यदिति प्राणः कर्मतयावगम्यते । प्रश्नोत्तरपरम्परया प्राणपर्यन्तमागते प्राणादप्यूर्ध्व किश्चिदय प्रक्ष्यतीति मत्वा नन्प्रश्ननिवारणमेव कृतमिति स्वीकार्यम् । अतोऽतिक्रमकर्म प्राण एव । तथा यो वै स्वां देवतामतियजते’ इति खां देवतामतिक्रम्य यजत इत्यर्थः । त्रातिक्रम कर्म स्वादेवतैव । न च तत्रापि नियममतिक्रम्य यजत इत्यर्थः । ‘नागत श्रीमहेन्द्रं यजेत त्रयो वैगतश्रियः शुश्रुवान् ग्रामणीराजन्यस्तेषां महेन्द्रो देवता यो वै स्वां देवतामतियजते प्रस्वायै देवतायैच्यवते न परां प्राप्नोति पापीयान् भवतीति सन्दर्भविरोधात् । अबहुश्रुतादिभिः, स्वा देवतेन्द्र एव यष्टव्यो न महेन्द्र इत्येवं परोधयं सन्दर्भः । राजसूये वासुदेवाहणकुपितस्य चैद्यस्य वचने च ’ अति पश्यसि वा सर्वान् न वा पश्यसि पाण्डव’ इत्यतिक्रमणकर्मता राज्ञामेव नियतमित्यध्याहृत पदे द्वितीयां कर्मप्रवचीनय योगनिमित्तामङ्गीकृत्य द्वितीयया तत्संबन्ध्यतिक्रम द्योतनाङ्गीकारेण प्रश्नकर्मणि देवता शब्दात् कारक द्वितीयाङ्गीकारो जघन्यः श्रूयमाणद्वितीयाया एव खरसतः कर्मप्रवचनीय योगनिमित्तत्वप्रतीतेः ।

नन्वतेः कर्म प्रवचनीयत्वं न विवक्षित किन्त्वतिरेव पृच्छिं विशिधन्नतिक्रमपूर्वकत्वं पृच्छेः सूचयति । ततश्च पृच्छिकर्मण्येव द्वितीया । अतिक्रम-

1 कर्मत्वं तु नियमस्यार्थादिति चेन्न । कर्मप्रवचनीयविवक्षायां तद्योगघोष्यातिक्रमणरूपार्थ बलादेवान्यस्य प्रश्नकर्मत्वपृष्टत्वादेव तद्विशेषश्च झटिति प्रतीयत इति तत्स्वीकारस्यैव युक्तत्वात् ।

नन्वनतिप्रश्नामित्यत्रातेः समस्ततयोपसर्गत्वमेव उत्तरत्रातेरुपसर्गत्वमेव युक्तमिति चेन्न । तत्र तथात्वेप्यतिपृच्छसीत्यत्रोक्तयुक्तथा कर्मप्रवचनीयत्वस्य युक्तत्वात् ।

556

वस्तुतस्तु अनतिप्रश्नमिष्यत्र कर्मप्रवचनीयत्वेऽपि न समासानुपपत्तिः । प्राति प्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः प्रत्यादिविषय एव अतेस्तु भवत्येवेति पदमञ्जर्यामभिधानात् । कारकविभक्तयंङ्गीकारे तु अतिकमकर्म विशेषः कुतो लभ्येत । किञ्च कारकविभक्तयङ्गीकारेऽप्यतिक्रम्य प्रश्नरूपविशिष्टधात्वर्थस्य विशेषणकर्मण एककर्मत्व विवक्षया तत्र द्वितीयायां शुद्धविशेष्यकर्मविशेषोतिक्रम सामर्थ्यात् पृष्टत्वाच्च सुगमविशेष्यकर्मणो विशिष्टकर्मत्वं विवक्षित्वा तत्र द्वितीयाङ्गीकारे विशेषणकर्म न सुगममिति विशेषणकर्मण एव विशिष्टत्वाङ्गीकारो युक्तः । तद्देवतामतिक्रम्य पृच्छसीत्येवार्थः ब्रह्मलोकमतिक्रम्य तत्वाप्याधारभूतं किञ्चित् गार्गी पप्रच्छेति ब्रह्मलोक एवात्र देवता तस्माद्ब्रह्मलोक शब्देन ममैव विवक्षितं लोकपद प्रयोगादिन्द्रलोकादिवच्चतुर्मुखलोक एवोक्क झरी मानला गाय तदाधारप्रश्ने कृते तस्य ब्रह्मरूपस्य लोकस्य नाभारान्तरमस्ति अतस्त्वया तत्प्रश्नो न कर्तव्य इति याज्ञवल्क्येन खामिप्रायो विवृतः । न च बालोका इति बहुवचनानुपपत्तिः अक्यवमेदविवक्षया बहुवचन संभवात् । संपत्ति चौपाधिक प्रदेशमेदो ब्रह्मणि सकलभोग्याधारत्वेन हि ब्रह्मलोकशब्दः प्रबुद्धः । पूर्वशैल्यनुरोधाय च लोकशब्दः । अथवा ब्रह्मलोकशब्दश्चतुर्मुखठोकपरः अनति पृश्न्यपदेन ब्रह्मलोकाधारतया यद्वस्तु पृष्टं तदेवोच्यते तदेव

तत्य निर्धारत्वे नाति प्रश्नानर्हत्वात् अति प्रश्न एव निषिध्यते तत्र पर्यन्तं बहूनामति प्रश्नानां करणाद्रह्मलोकाधारेऽप्यति प्रश्नं करिष्यतीत्युन्नीय मानसामीप्य बुद्धया अति पृच्छसीति वर्तमान व्यपदेशः अति पृच्छसि माति प्राशीदिति क्वोभङ्गीशे षणवि ब्रह्मलोकाधोनिराधारा सर्वाधार भूतापरदेवते सुत्तस्मुकं भवति । एवं वर्तमानसामीप्याद्वर्तमानव्यपदेशे मातिप्राक्षीदिति निषेधः खरसो भवति । ब्रह्मलोकपदस्य ब्रह्मपरत्वे तु सकृत्पृष्टवत्यां प्रश्ननिषोधो ब्रह्मलोकस्य निराधारत्वादुत्तरं न मया वाच्यमुत्तरानुक्तं न पुनरतिप्रक्ष्यतीति मत्वा पुनर्मातिप्राक्षीरित्येवं पुनः प्रश्न विषयो वाच्यः पूर्वपक्षिणापि कृतप्रश्नविषयो निषेधः पुनः करणविषय एव वाष्यः । तस्मात् पूर्व गार्गी प्रश्न परम्परायास्तदुत्तरस्य च मातिप्राक्षीरित्यन्तेन पूर्णत्वात् । पूर्वनिषिद्ध प्रश्नस्यैव

|

557

पुनरुज्जीवनमिदं प्रश्नद्वयमित्यत्रोत्प्रेक्षातिरिक्त प्रमाणादर्शनादुक्तबाधक बलाचा । देवतामति पृच्छसीत्यत्र देवता शब्दविवक्षितब्रह्मणो मिन्नार्थः स्यादाकाशस्याव्यक्त परत्वमविरुद्धं निषिद्धोज्जीवनरूपत्वाभावादेव । पुनः प्रश्नस्य कस्मिन्नु खलु

लोका ओताश्च प्रोता चेत्येवमाकारत्वाभावः समखसो भवति ।

अस्तु वा पूर्वनिषिद्ध प्रश्नस्यैव पुनरुज्जीवनं अतिप्रश्नस्य चोक्त एवार्थः । अथापि न देवताकाशपरयोः समानार्थानां पूर्वोक्तन्यायेन वर्तमानसामीप्ये वर्तमान व्यपदेशेन ब्रह्मगोचर प्रश्नस्यैव देवतामतिपृच्छसीत्युक्ततया मातिप्राक्षीरिति तत्पूर्वप्रश्नस्यानिषेधात् ।

अस्तुषा अत्र देक्ताकाशपदयोः समानार्थता, अचाप्याकाशपदस्याव्यक्तपरत्वमविरुद्धम् । परदेवताशरीरतया तत्र देवता पद प्रयोगसंभवात् । अत एव हि हन्ताहमिमास्ति खोदेवता इत्युच्यते । तस्मादन्याकृतपर एवाकाश शब्द इत्याहुः । तस्मान्न चिच्छकेरात्मत्वमिदं वाक्यं साधयितुं प्रभवतीति दिक् ।

यदपि योविज्ञाने तिष्ठन्निति पर्याये य आत्मनि तिष्ठन्नात्मनोऽन्तर इत्यादि माध्यन्दिन पाठात्स्थान प्रमाणेन विज्ञानात्मशब्द योरैकार्थ्यमवगम्यत इति चिच्छक्तेरात्मत्व सिद्धिरिति ।

तदप्यासारम् । विज्ञानशब्दस्य नन्यादिल्युट् प्रत्ययान्तत्वं कृत्यल्युटो बहुलमिति कर्त्रर्थल्युडन्तत्वं वा समाश्रित्यात्मपरत्वोपपत्तावात्मशब्दस्य धर्मभूत ज्ञानपरत्व कल्पनाया अनुन्मेषात् । न चैवं विषयावच्छिन्न धर्मभूत ज्ञानातिरिक्तपरत्वे ज्ञानशब्दस्यामुख्यत्वप्रसङ्ग इति वाच्यम् । धर्मभूतज्ञानपरत्वे आत्मशब्दस्यामुख्यत्व प्रसङ्ग इति तुल्यत्वात् । इयांस्तु विशेषः । विज्ञानं यज्ञं तनुते ’ ’ सत्यं ज्ञानमनन्तं ब्रह्मे त्यादौ ज्ञानाश्रयेऽपि ज्ञानशब्दः क्लृप्त प्रयोगः । धर्मभूतज्ञानत्वात्मशब्दः कल्प्यप्रयोग इति । ननु शब्दद्वयमुख्यत्वाय धर्मभूतस्यैव चेतनत्वं कल्प्यमिति चेत्तर्हि आकाशपद मुख्यत्वाय जडाकाशभिन्नत्वस्यापि प्रसङ्गात् । न चाकाशशब्दे विच्छित्तिविषयक शक्त्यन्तरकल्पनेनाप्याकाशपदप्रयोग विषयत्वमुपपद्यत इति वाच्यम् । तर्हि

558

विज्ञानशब्दस्य जीवेशक्त्यन्तरकल्पनोपपत्तिरिति समंश्रमः । न च कार्यभूताकाशामिन्नत्वं सृष्टिप्राक्कालिक चिच्छक्तेः कथमुपपद्यत इति त्राष्यम् । नानाविध प्रसरणाद्यवस्थारूप विकारभाजो निर्विकारात्मखरूपत्वं कथमुपपद्यत इति तुल्यत्वात् । नित्योनित्यानां चेतनश्चेतनानां क्षरं प्रधानममृताक्षरं हरः । आत्माशुद्धोऽक्षरः शान्तोनिर्लेपः प्रकृतेः परः ’ ’ तदक्षरं तत्सवितुर्वरेण्य’मित्यादिभिर्जीवात्मत्वरूपस्य परमात्मखरूपस्य च स्वरूपान्ययाभाव शून्यत्वावगमात् । न च तदुभयविलक्षण चेतनान्तरमस्ति । ’ भोक्ता भोग्यं प्रेरितारं च मत्वा सत्र प्रोक्तं त्रिविधं ब्रह्ममेतदिति विभागविरोधात् । किञ्चात्मशब्द पाठाद्विषयावच्छिन्नज्ञप्तिरूपत्वमात्मनः किमिति नासुखं गम्यते । न च विषयाभावात्तथात्वं न संभवतीति वाच्यम् । विषयान्तरासंभवेऽपि स्वरूपस्यैव विषयत्वसंभवात् । न च धर्मभूतज्ञानेनैव स्वरूपस्यापि भानोपपत्तिः । तस्य सुषुप्तिदशायाः प्रकाशकत्वात् । तदानीमपि स्वस्वरूपस्य भानात् । न च स्वस्य स्वविषयकत्वं कथमुपपद्यत इति वाच्यम् । ज्ञानशब्दस्य विषयावच्छिन्न इक्तिपरत्वेन तत्प्रयोग बलादभेदेऽपि विषयविषयिभावोऽस्तीति कल्पनासंभवात् । न च तथैवास्त्विति वाच्यम् । तर्हि चिच्छक्तेरात्मत्वासिद्धिप्रसङ्गात् । अत एव वेदवाक्येषु जीवे दृष्टस्य ज्ञानशब्दस्य नन्द्यादिल्युट्प्रत्ययान्ततया ज्ञातृपरत्वेन वा स्वप्रकाशतयाज्ञप्तिरूपतापि जीवस्यास्तीति तदर्थकत्वेन वा निर्वाहसंभवेऽपि ‘तद्गुणमारत्वात्तु तद्वयपदेशः प्राज्ञवत्’ इति ब्रह्मसूत्रे ज्ञानमिच्छादिसकलव्यवहारहेतुतया प्राचुर्येण सदानुवर्तमानं जीवस्य सारभूतो गुण इति तद्वाचिनो ज्ञानशब्देनास्योपचारिको व्यपदेशः । यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिषु ब्रह्मणस्तेन व्यपदेशेन निर्वाहः कृत इतित्वदुक्तिविरोधापाताच्च । न च पूर्ववर्णितरीत्या स्वच्यवहारे संविदन्तरानपेक्षखरूप स्वप्रकाशत्वाङ्गीकारेण च ज्ञानत्व खप्रकाशत्वव्यवहारोपपत्तौ किमिति अभेदे विषय विषयिभावकल्पनमिति वाच्यम् । तर्हि धर्मभूतज्ञानस्य चेतनत्वं न दृष्टमिति ज्ञानपर्याये आत्मशब्दपाठोऽपि कयंचिन्निर्वाय इति तुल्यम् । एतेन ’ तां सवितुर्वरेण्यस्य चित्राममावृणे सुमतिं विश्वजन्या’ मिति प्रतीयमानासुमतिर्यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां

559

न्यसा महीं गामित्युत्तरार्धे सानः पयखती धुत्रेति देवी सूक्तस्थ मन्त्रार्थ प्रत्यभिज्ञानाद्गौरीत्वमवसीयत इति निरस्तम् । सुमती गौयोर्भिन्नत्वे ऽप्युभयत्र प्रतीयमान पयोदोग्धृत्वोपलक्षित परमपुरुषार्थप्रदत्वस्य संभवेनोभयोरैक्यावश्यं मात्रासिद्धेः । न हि गौर्या भेदाभावेऽपि ईश्वरज्ञानस्य पुरुषार्थप्रदत्वं नेति वक्तुं युकं गौर्याः पुरुषार्थ प्रदत्वस्य सङ्कल्पद्वारकत्वेन तत्सङ्कल्पवदीश्वर सङ्कल्पस्यापि +प्रदत्वोपपत्तेः । न च सुमत्यमेदाभावे गौर्यास्तनेति वक्तुं युक्तम् । ईश्वरवदुपपत्तेः ईश्वरद्वित्वप्रसङ्गस्तु

’ ब्रह्मैक्यं वा विशिष्टं प्रकटयति

ऋतं सत्यमित्यादि मन्त्रः । शम्भुं तस्मिन्विशेष्यं प्रथयति च

युजे वामिति ह्येष मन्त्रः ॥ '

इति त्वयैव परिहृतम् । तथाचोद्गीयविद्याप्रत्यभिज्ञावद्भेदेऽपि इयं प्रत्यमिशोपपद्यते । एकार्थपरत्वावश्यंभावेऽपि तां सवितुर्वरेण्यस्य चित्रामिति मन्त्रस्य सुमतिशब्दो बहुधीहिमाश्रित्य गौरीप्रतिपादकत्वमेत्र वक्तुं शक्यं वरेण्यस्येति षष्ठ्याः संबन्धमात्र प्रतिपादन परत्वेनात्रापि सङ्गतत्वात् ।

यदपि शिवस्य चिच्छक्तिरेव गौरीति प्रमाणप्रतिपन्नोऽर्थः सयुक्तिमिर्न - बाधमईतीति । तन्न । ’ सर्व खल्विदं ब्रह्म’ इदं सत्र यदयमात्मेत्यादि प्रमाणप्रतिपन्नत्वेन जडप्रपञ्चामेदस्याप्यभ्युपगमप्रसङ्गात् । न च सत्यज्ञानादिवाक्य प्रतिपन्नज्ञानस्वरूपत्व विरोधात् तत्त्यज्यत इति वाच्यम् । आत्मस्वरूपस्याक्षरत्व प्रतिपादकश्रुतिविरोधेन प्रज्ञाच तस्मात्प्रसृतापुराणीति प्रसरणावस्थाशालि प्रज्ञारूपत्वायोग इति तुल्यत्वात् ।

यदपि तदीयाः केचन ज्ञानेच्छादिपरिणामाः शिवस्य ज्ञानेच्छादयो भवन्ति । केचन शिवसंकल्पानुसारेणैव शक्तेर्ज्ञानेच्छादयो भवन्तीति । तदप्यबोध विलसितम् । प्रज्ञा च तस्मात्प्रसृता पुराणी ’ तस्मात् क्षरति प्रज्ञाहते:

560

पादादिवोदकम् ’ । इत्यादि प्रयोगानुसारेणावस्थावन एवं ज्ञानशब्दवाच्यत्वेन चिच्छक्तेर्ज्ञातृत्वस्य समर्थयितुमशक्यत्वात् । न हि परम्परासंबन्धेन प्रसरणावस्थाश्रयत्वेनात्मनो ज्ञातृत्वं येन साक्षात्तदाश्रयत्वमादाय चिच्छ केरपि ज्ञातृत्वं समर्थयितुं शक्येत, किन्तु तदवस्थावत एव ज्ञानशब्दवाच्यत्वमिति तदाश्रयत्वमेव ज्ञातृत्वप्रयोजकमिति न चिच्छक्तेर्ज्ञातृत्वसिद्धिः ।

यदपि चिच्छक्तेः शरीरादिरूपत्वे आकाशशरीरं ब्रह्मेत्याद्युपन्यसनम् | तदतिस्थवीयः, आकाशशब्दस्य चिच्छक्तिपरत्वस्य दूषितत्वात् । ’ अमृतो हिरण्मय’ इति पूर्वमुक्तया आसमन्तात् प्रकाशमान दिव्यविग्रह युक्तत्वस्यैव तदर्थत्वात् । सत्येत्यादेश्च सत्यात्मनां नित्यमुक्तानामात्मनां प्राणत्रत्परमप्रेमास्पदभूतो यः परमात्मा स एवारामः सर्वविधभोग्यभूत इति मुक्तपरत्वेनार्थवर्णनात् । ’ व्यपोह्य शीर्षकपाले भूरित्यनौ प्रतितिष्ठतीति मोक्षस्य प्रस्तुतत्वेन ’ एतत्ततोमवती ‘त्यत्र तदीयरूपाविर्भावस्य वक्तव्यत्वात् । तर्हि आकाशशरीरं ब्रह्मेति कथं सङ्गतमिति चेन्न । ब्रह्मणो हि प्रतिष्ठाहमिति प्रयोगानुसारेण ब्रह्मशब्दस्याविर्भूतब्रह्मरूपमुक्तपरत्वात् । हिरण्मय इत्युपास्यस्य रूपकथने नाकाश शरीरमित्येतत्प्रकाशयुक्त दिव्यविग्रह युक्तत्वेनाविर्भात्रपरम् । सत्यात्मेत्यादेब्रह्मपरत्वेऽपि सत्यात्मनां परप्रेमास्पदं भोग्यभूतमित्यर्थो वर्णयितुं युज्यते । आनन्दं ’ संकल्पमात्र सिद्वानन्द मिति, ’ यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठती’ त्याच नुसारादुच्यते । तथा च चिच्छक्तेर्नशरीरादिरूपत्व साधिकेयं श्रुतिः परास्य शक्तिर्विविधैत्र श्रूयते इत्यादिकमपि भगवज्ञान शक्तयादीनां स्वाभाविकत्वादिकथनपरमिति नत्वदुत्प्रेक्षाया अत्रावकाश इति । अतो न चिच्छ केरात्मत्वस्य प्रामाणिक मार्गानुसार इति नानन्दमय वाक्य प्रतिपाद्यत्वमिति नेदं प्रकरणं आनन्दमयाधिकरणतत्प्रतिपादनपरमिति दिक् ।

,

" मन

वस्तुतत्वमिदम् – परतत्वपर्यवसायिन्यायपर्यालोचनायां तु तदधिक तत्परत्वेऽपि नानन्दशब्द प्रसिद्धार्थत्यागे किंचित्प्रमाणमिति वर्णितमधस्तात् । तथा च मुक्तप्राप्यत्वं भगवतः सत्यादि वाक्यबलान्निष्कण्टकं सिध्यतीति सर्वमनवधम् ।

तथा छान्दा ग्याप भगवता मुक्तप्राप्यत्वमवगम्यत । भूमावधायस्य नारायणस्य तत्र यो वै भूमा तत्सुखमिति सुखखरूपत्वप्रतिपादनात् सुखरूपस्य मुक्तप्राप्यत्वं ‘रसो वै सः, रसं ह्येवायं लब्ध्वानन्दीभवति ’ इत्यनेनावगम्यते । भूमविद्यावेद्यस्य नारायणत्वं च ’ स भगवः कस्मिन् प्रतिष्ठितः खे महिम्नी’ त्यत्र खतन्त्रचैतन्यं स्खे महिम्नि तिष्ठमानं पश्यतीति मैत्रायणीय श्रुतिप्रत्यमिज्ञानादवगम्यते । तस्याश्च भगवत्परत्त्रं विष्णुसंज्ञ सर्वाधारं चामेत्यादिबलादसकृदावेदितं तथा च प्रजापतिवाक्येऽपि एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्य खेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येतीति’ प्राप्यस्य ज्योतिषः पुरुषोत्तमत्वाविष्करणात् भगवतो मुक्तप्राप्यत्वं सिध्यति। न च उत्तमः पुरुष इत्येव श्रूयते न तु पुरुषोत्तमशब्द इति वाच्यम् । योगार्थकथने पुरुषोत्तमशब्दे तत्प्रत्यासत्तिमतोरूढ्याऽर्थस्य भगवत उपस्थितेः ।

ननु पुरुषोत्तम शब्दरूढ्यर्थस्य न योगार्थेन साकं प्रत्यासत्तिः तनावयवार्थनिरूढ्यसंबन्धेन योगरूढत्वासिद्धेः । तथा हि पुरुषोत्तमशब्देन कर्मधारयः सन्महत्परमोत्तमोत्कृष्टाः पूज्यमोनेः इत्यस्य पूर्वनियमार्थत्वेन उत्तम - शब्दस्य पूर्वनिपातप्रसङ्गात् ।

न च षष्ठीसमासः, ‘न निर्धारणे, ’ इति निषेधात् । नापि सप्तमी समासः न निर्धारणे इति निषेधादेव । न च वाच्यं षष्टया एवायं समासनिषेधो न सप्तम्या इति निषेधाभावेन सप्तम्या अपि निषेधात् । अन्यथा षष्ठी सप्तमी समासयोरूपतोऽर्थतश्च मेदाभावेन निषेधानर्थक्यात् । अतः केवलरूढ एवायमश्वकर्णादिषदिति । तन्न, पुरुषोत्तमशब्दे उक्तसमासत्रयनिर्वाहसंभवात् । न तावत् कर्मधारयपक्षे उत्तमशब्दस्य पूर्वनिपातप्रसङ्गः पूजाया अविवक्षितत्वात् ।

उत्तमशब्दे हि ‘लीबे प्रधानं प्रमुख-

तथा हि

प्रवेकानुत्तमोत्तमाः, ’ इति

श्रेष्ठवासिवत् त्रिप्रभृतीनामन्त्यमुत्तममित्यन्तिम-

वाचकोऽप्यस्तीति तेन समासस्य वर्णनसंभवात् । न च तथापि विशेषण

F-71562

शब्दत्वेन पूर्वनिपातत्वप्रसङ्गः पुरुसनोतीति पूरुष इति भूरिदत्व वा चितया पुरुषशब्दस्य विशेषणशब्दत्वसंभवात् । अन्तिमत्वं च भगवतोऽश्वमेधो वै यज्ञानामन्त इत्यत्रेव श्रेष्ठपरिगणनपर्यवसान भूमित्वं, तया च न कर्मधारयानुपपत्तिः । नापि षष्ठीसमासानुपपत्तिः, यस्मान्निर्धार्यते यश्चैको निर्धारणहेतुरेतत्त्रयसंनिधाने निर्धारणं भवतीति तत्त्रैव षष्ठीसमासप्रतिषेधः । ’ इह तु नागानामुत्तम इति त्रयसंनिधानाभावात्संबन्धसामान्ये षष्ठीसमासो भवत्ये ‘वेति फोक्कथा संबन्ध सामान्यविहितषष्ठीमादाय समाससंभवात् । तदुक्त’शैषिक षष्ठी वा नीचोत्तमभाव संबन्धावलम्बीनि । दर्शितार्था समस्येत नगोत्तमादिशब्दाश्च शब्दविद्भिरेवमनिरूढा अथ च षष्ठीसमासेऽप्यनुपपत्तिः । नापि सप्तमी समासानुपपत्तिः निर्धारणे इत्यस्य षष्ठीसमास्तविषयत्वात् । न च निषेधानर्थक्यम् । सप्तमी तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्या इति पूर्वपद प्रकृतिपंक्तिव्यम् । षष्ठीसमासे तु अन्तोदात्तेनेति विशेषसद्भावेन तत्सामर्थ्यात्

योगविभागबलात्सप्तमीसमास उपपद्यत इति न कोऽपि दोषः । तानुसारे तु पञ्चमीसमासः स्पष्ठः ।

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । '

इति वचनात् । न च पञ्चमीसमास विधायकाभावात् पञ्चमीभयेनेत्यत्र पञ्चमीति योगविभागादुपपत्तेः योगविभागे च तादपि परस्तत्पर इति भाष्यमेव प्रमाणम् । न च ’ स उत्तमः पुरुष इत्यस्य कर्मधारयपक्षे प्रत्यासत्त्या रूढ्यर्थस्मारकत्वेऽपि समासान्तरपक्षे कथं रूढ्यर्थस्मारकत्वमिति वाच्यम् । उत्तमत्वस्य संबन्ध्याकाङ्क्षायां पुरुषशब्दस्यैव तत्समर्पकत्वेनोपस्थित्या समासान्तरं विग्रहार्योपस्थितेः तद्वारारूढ्यर्थोपस्थितिसंभवात् । पुरुषशब्दस्य भगवद साधारण्याच उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति स्मृत्यर्थस्य झटिति प्रत्यभिज्ञानाच्च तदुपस्थिति संभवात् ।

563

ईचित स एतं वरुणं चतुष्कपालम१श्य’ दित्यत्र तच्छन्दस्य प्रजापति मर्शल्य दर्शनात् । अन्यथा उपक्रमानुसाराद्धातुरि ष्टिरित्यस्यानुपपन्नत्व

वादिति चेन्न । उत्तमः पुरुषस्त्वन्यः इति भगवत एवोत्तमपुरुषत्वेनोप यत्तिकर्तर्युत्तमपुरुषस्त्वन्यबाधितत्वेन विधानासंभवात् यत्किश्चिदपेक्षयोत्तमस्य ब्रात्मकत्वस्य प्राप्तत्वेन विध्ययोगात् । न च स उत्तमः पुरुष इत्यनुवाद

क्यानर्थक्यात् । अस्मत्पक्षे तु देवतानिर्धारणं प्रयोजनम् ।

न च स उत्तमः पुरुष इति मुक्तस्य ब्रह्मात्मकत्व विधिपरमस्त्विति वाच्यम् । स तत्र पर्येतीति मेदनिर्देशासाङ्गत्यप्रसङ्गात् । अतः प्राप्यस्य पुरुषोत्तमत्वमेवं श्रुतिः प्रतिपादयति । ममर्थ भगवानापस्तम्बोऽपि स्पष्टीचकार ।

· द्विजातीनामपवर्गोऽर्थत’ इति प्रझमेघस्यापवर्गफलकत्वमुपक्षिप्य वेष्टितुं पुरुषोत्तममिति प्राप्ये पुरुषोत्तमशब्द प्रयोगात् । यत्तु -

अधिगत्य जगत्यवीश्वरादधमुक्तिं पुरुषोत्तमात्ततः ।

इत्यन्यत्रापि प्रयोगाद्योगेन साधारणोऽयं शब्द इति । तन्न । हरिययैकः पुरुषोत्तमः स्मृतः, श्रीपतिः पुरुषोत्तमः, ‘अलोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः’ इत्यादि

इत्यादि लौकिकवैदिक प्रयोगानुसारेण न साधारणत्वाक्सायात् । ’ अथ मुक्ति पुरुषोत्तमासतः’ इत्यत्रापि प्रकृतनलपरामर्शतच्छब्द सममिव्याहाराद्योगाश्रयणेऽपि भगवदूपार्थान्तरप्रतीतिं विना श्लेष निर्वाहेण रूढिं विना तदनुपस्थित्या च भगवद्भूढत्वमेतस्य शब्दस्य सिद्धयति । न च पुरुषोत्तमशब्दस्य भगवति रूढत्वे कथमन्यत्र प्रयोग इति वाच्यम् । अर्थान्तरे रूढानामपि शब्दानां गङ्गायां घोष इतिवत् पङ्कजं कुमुदमितिक्चान्यत्र प्रयोगेऽपि रूढ्यभावात् । तुल्यवत्प्रयोग एव हि रूढिबाधक : ’ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ इति योगार्थः शिवे प्रयुक्त इति तु प्रथमपरिच्छेदे निराकृतम् ।

,

564

यदप्यपवर्गप्राप्य स्वस्वरूपे उत्तमः पुरुष इति यौगिकार्थपरशब्दस्य प्रयोगेन सूत्रस्थ पुरुषोत्तमपदयोगस्यापि कल्पना लाघवेन तन्मूलकतया यौगिकत्वमिति, तदपि छान्दोग्य प्रयोगस्यापि भगवत्परत्वोपपादनान्निरस्तम् । वेष्टितुमित्येतच्चासंगतं स्यात् । न हि स्वस्वरूपं वेष्टयत इत्युक्ति संभवः । अतः परंज्योतिरुपसंपद्यस्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति वाक्यबलात् मुक्तोपसृप्यो नारायण इति सिध्यतीति दिक् ।

एवं प्रश्नोपनिषदपि भगवतो मुक्तप्राप्यत्वमाविष्करोति, ’ स यः पुनरेतं सिमात्रेणोमित्येतेनैवाक्षरेण परमपुरुषमभिध्यायेत स तेजसि सूर्ये संपन्नो यथा पादोदरस्वचा विनिर्मुच्यते एवं हवै स पाप्मना विनिर्मुक्तः स साममिकनीयते ब्रह्मलोकं स एतस्माज्जीवधनात् परात् परं पुरिशयं पुरुषमीक्षते ’ इति पुरुषशब्दवाच्यस्य नारायणस्य मुक्तदृश्यत्व प्रतिपादनात् सर्वपापविनिर्मुक्तः प्राप्यं ब्रह्मलोकमधिकृत्य ’ यत्तत्कवयोवेदयन्त’ इति सूरिदृश्यत्वोक्तथा ‘सदा पश्यन्ति सूरयः’ इति प्रत्यभिज्ञानाद्वैष्णवपद त्वप्रतीत्या च तत्रत्यो मुक्तप्राप्यो भगवानित्यवसीयते । तथा कौषीतकीनामोपनिषदपि भगवतो मुक्तप्राप्यत्वं स्फुटयति । ’ स आगच्छत्यमितौजसः पर्यङ्कम् । स प्राणः । तस्य मूतं च भविष्यञ्च पूर्वीपादौ श्रीवेराचापरौ बृहद्रयन्तरे अनूच्ये । भद्रयज्ञायज्ञीये शीर्षण्यम् । ऋचश्च सामानि च प्राचीनातानम् । यजूंषितिरश्चीनानि । सोमांशत उपस्तरणम् । उद्गीथ उपश्रीः । श्रीरुपबर्हणम् । तस्मिन् ब्रह्मास्ते । तमित्थं वित्पादेनैवारोहतेत्यत्र ब्रह्मास्तरणस्य सोमांशु रूपत्ववर्णनानन्तरमुद्गीथ उपश्रीरिति लक्ष्मीसमीपे विद्यमानस्यास्तरणस्योद्गीयरूपत्ववर्णनया मुक्तप्राप्यस्य

लक्ष्मीपतित्यामिव्यक्तेः । तदेवमेतादृशप्रमाणबलान्नारायण एक मुक्तप्राप्य इति सिद्धम् । अत एव हि तदीयं पदं प्रकृत्युत्तीर्णमित्युच्यते, ’ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीवचक्षुराततं तद्विप्रासो विपन्यवोजागृवांसस्समिन्धते विष्णोर्यत्परमं पदं ’ ’ क्षयन्तमस्यरजसः पराके’ ’ यदेकमव्यक्तमनन्तरूपं,

1

विश्वं पुराणं तमसः परस्तात् । '

’ आदित्यवर्णं तमसः परस्तात् ’ ’ यो वेद निहितं गुहायां परमेव्योमन् '

• तदेव भूतं तदुभव्यमा इदं तदक्षरे परमे व्योम’ नित्यादिषु, अत्र ’ सदा पश्यन्ति सूरय’ इति श्रुतिर्नमुक्तविषया । तेषां सदा दर्शनानुपपत्तेः । नापि मुक्तप्रवाह विषया, सदा पश्यन्तीत्येकेकतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् । किन्तु नित्यविषयेति तैः सदा दृश्यत्वप्रकृतिमण्डलान्तर्गतस्य पदस्येति तदुत्तीर्णत्व सिद्धिः । रजसः पराक इति त्रिगुणात्मिका प्रकृतिरुच्यते केवलस्य रजसोऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिमतिक्रम्य स्थिते स्थाने ’ क्षयन्तं ’ वसन्तमित्यर्थः । अनेन त्रिगुणात्मकात् क्षेत्रज्ञस्य भोग्यभूताद्वस्तुनः परस्ताद्विष्णोर्वासस्थानमिति गम्यते । अस्य च भगवद्विषयकत्वं, ’ वषट् ते विष्णवास आकृणोमीत्युपक्रमात् आदित्यवर्णं तमसः परस्तादित्यन्नापि तमः शब्देन प्रकृतिरेवोच्यते केवळं तमसो ऽनवसानादेव परस्ताविति प्रकृत्युत्तीर्ण स्थानमुच्यते । ’ दिक्छन्ब्देभ्यः सप्तमी प्रथमादिभ्यो दिग्देशकालेयस्तातिरि’ ति विहितस्यास्ताति प्रत्ययस्य प्रकृते देशवाचित्वात् । योवेद निहितं गुहायां परमे व्योमन् तदक्षरे परमे व्योमन्निति तत्स्थानमविकाररूपं परमव्योम शब्दाभिधेयमिति गम्यते । तदक्षरे परमे व्योमनिति तत्स्थानस्याक्षरत्य श्रवणात् । न च व्योमशब्दस्य चिच्छक्तिपरत्वं वक्तुं युक्तं प्रमाणाभावात् ।

’ यस्य सा परमादेवी शक्तिराकाशसंज्ञिता । '

इत्यादेराकाशशब्दवाच्यत्वमात्र परत्व संभावनायामपि तद्वाचक शब्दान्तर वाच्यत्वे प्रमाणत्वस्यासंभवतितत्वात् । एवं स्मृतिरपि तदीयस्थानस्या प्राकृतत्वं प्रकटयति ।

एकान्तिनः सदा ब्रह्म ध्यायिनो हिये ।

तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः ॥

कला मुहूर्तादिमयश्च कालः न यद्विभूतेः परिणामहेतुः ।

566

इत्यादिका । अत्र यद्वै पश्यन्ति सूरयः इत्यत्र श्रुतिप्रत्यभिज्ञानात् भगवत्स्थानपरत्वं कलामुहूर्तादिमयश्च काल इत्यपि रैवतकं प्रति ब्रह्मणो वचनमिति भगवत्स्थानपरम् | महाभारते च

सर्वात्मना गुणैर्मुक्तः क्षेत्रज्ञः स युधिष्ठिर । प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् । परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम् ॥

इति । अत्र प्रकृतिमतिक्रम्य गच्छतीत्युक्तया प्रकृतिमण्डलोत्तीर्णदेशगमनं प्रतीयत इति स्थानविशेषसिद्धिः ।

यदपि रत्नत्रय परीक्षायामुक्तं गोलोकान्तर्गतं वैष्णवं पदमिति प्रतिवदयतीति न तस्य प्रकृत्युत्तीर्णत्वं सा च तेते धामान्युश्मासीगमध्यैगावोयत्र भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य विष्णोः परमं पदमवभाति भूरेरिति । अस्याश्चायमर्थः - हे विष्णो ते तानि तानि तच्छब्दाद्बहुवचनस्य ‘सुपां सुलुगि’ त्यादि सूत्रेण शे इत्ययमादेशः ते तव धामानि स्थानानि गमध्यै गन्तुं उश्मसि इच्छामः । गमध्यै इति गमिधातोस्तुमर्थे से सनित्यादि सूत्रेण तुमुन् प्रत्ययार्थे अध्य इति प्रत्ययम् । उश्मसीति बशकान्ताविति धातोरुत्तम पुरुषबहुवचने इदं तोमसिरिति सूत्रेणान्तिम इकारः संहितोदीर्घः । तान्येव धामानि विशेष्यन्ते । यत्र येषु स्थानेषु अयासः अनपायिन्यः धातोरसुन् प्रत्यये नञ् समासः । भूरिशृङ्गा दीर्घशृङ्गा, गात्रः नन्दादयो गोमातरः सन्ति । अत्राह’ एम्बेव स्थानेषु । अहेति निपात एक्कारार्थः । तत्प्रसिद्धः उरुगायस्य उरुद्भिर्महद्भिर्गीयमानस्य । भूरेर्महतो विष्णोस्तव परममधस्तन विष्णुलोकापेक्षयोत्कृष्टं पदमवभाति । परमशिवलोकस्याधस्ताद्भातीति । अतः प्रकृत्यन्तर्गतत्वमनया श्रुत्या वेष्णवपदस्य प्रतीयत इति, तन्न प्रकृत्युत्तीर्णत्व प्रतिपादकप्रमाणाविरोधेनार्थवर्णने संभवत्यन्यथा तदयोगात् । तच्च ’ हे विष्णो ते तानि धामानि प्राप्तुमिच्छामः येषु भूरिशृङ्गा गावः सन्ति, गाव इति सर्व पुरुषार्थोपलक्षणम् । एवं प्रकृत्यन्तर्गतलोकानुक्त्वाह - अत्राहेति तेष्वपि

"

567

स्थानेषु मध्ये परमं पदमुत्कृष्टं स्थानं प्रकृत्युत्तीर्णमिति यावत् । श्रुत्यन्तरप्रत्यमिज्ञानुसाराच्छन्दस्वारस्याच्चायमर्थोऽवगम्यते तदवभाति अवभासत इत्यर्थः । अन्नत्येत्येतदवभासत इतिवदनतिरिक्तार्थकं नत्वधस्ताद्भा तीति तदर्थः । अत्रध्युपस्थापकपद।ध्याहारापत्तेः उपक्रमगतपरमशब्दस्वारस्याश्च । तस्माद्विष्णुलोकस्य प्रवृत्युत्तीर्णतायां न बाधकं किंचित् । एतेन ।

’ ज्ञेयं विष्णुपदादूर्ध्वं दिव्यं शिवपदं महत् ।

भोगस्थानमतुलं कर्मयोगरतात्मनाम् ॥ अप्रमेयगुणैः सर्वैर्विमानैः सार्वकामिकैः । असंख्यैस्तत्परं प्राप्तं सर्वप्राण्युपकारकैः ॥

सहस्र भूमिविस्तीर्णै: सूर्यकोटिसमप्रभैः ।

रुद्रलोकमिति प्रोक्तमशेषगुणसंयुतम् ॥ '

इति वचनाद्विष्णुलोकापेक्षयोपरितनः शिवलोक इति निरस्तम् । अस्य वचनस्य ब्रह्माण्डान्तर्गत विष्णुलोकादधिकस्तत्र शिवलोकोऽस्तीति प्रतिपादनेन चरितार्थस्य सर्वोत्तीर्णतया तत्साधनासामर्थ्यात् । न च

इत्युपक्रमः ।

"

‘ऊर्ध्व शिवपुराज्ञेयं स्थानत्रयमनुत्तमम् ।

नित्यं परमशुद्धं च स्कन्दोमात्वकरात्मकम् ॥’

शुद्धस्फटिकसङ्काशं जटामकुटभूषितम् । त्र्यक्षं चतुर्भुजं शान्तमक्षमालाधरं हरम् ॥ वरदाभयहस्तं च त्रिशूलासक्तपाणिकम् । ध्यायमानः शिवं नित्यं शिवसायुज्यमामुयात् ॥ ये संप्राप्तपदं स्थानं ध्यानयोगरता नराः । न तेषां पुनरावृत्तिधरि संसारसागरे ॥ सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा महेश्वराः । शिवतुल्य बलोपेताः पुरं शिवपुरं गताः ॥

568

इति प्रतिपादनात् सर्वोत्तणत्वमवगम्यत इति वाच्यम् । अस्यापि वचनजातस्य ब्रह्माण्डान्तर्गत शिवलोकोत्तीर्णप्रकृत्यन्तर्गत शिव शिवलोकान्तरप्रतिपादकत्वेनोपपत्त्या प्रकृत्युत्तीर्णत्वप्रतिपादनासमर्थत्वात् । अस्ति च ब्रह्मलोको ब्रह्माण्डोत्तीर्ण प्रकृत्यन्तर्गत:त्वयैव रत्नत्रय परीक्षायाम् -

’ शिवलोकाद्बहिर्ज्ञेय मण्डस्यावरणाष्टकम् ।

अण्डादूर्ध्वं पुनर्ज्ञेयं प्रकृतेर्मध्यतः स्थितः ॥

ब्रह्मणः परमं स्थानं पद्मरागसमप्रभम् । ब्रह्मलोकात्परंज्ञेयं विष्णोः स्थानं सनातनम् ॥ इन्द्रनीलप्रतीकाशं महाभागैरलङ्कृतम् । विष्णुलोकात्परं स्थानं कुमारस्य महात्मनः ॥ स्वच्छमौक्तिकसङ्काशं वरभोग समन्वितम् । स्कन्दस्थानात्परं स्थानमुमादेव्याः प्रकीर्तितम् ॥

तप्तचामीकरप्रख्यं विशेषगुणसंयुतम् । उमास्थानात् परतः स्थानमाद्यमुमापतेः । दिनकृत्कोटिसङ्काशं सर्वकालसमन्वितम् ॥ '

इति । तत्र प्रमाणभूतानां वचनानामुपन्यासाच्च नित्यत्वादिप्रतिपादनात् प्रकृत्युत्तीर्णत्वसिद्धिरिति वाच्यम् । पूर्वोदाहृतश्रुत्यादिनला द्विष्णुलोकस्य सर्वोत्तीर्णत्वावगमादस्य वचनस्य चातुर्मास्य फलाक्षयत्व प्रतिपादकवचनवन्नेयत्वात् । तथा च श्रीमन्नारायण एव मुक्तप्राप्यः, तदेवमुत्तरमीमांसाविचारितवेद प्रतिपाद्य जगत्कारणत्व मुमुक्षूपास्यत्वमुक्तप्राप्यत्व धर्मपरिष्कृतो नारायण इति सिद्धम् ।

एवं पूर्वमीमांसाविचारित वेदप्रतिपाद्य सर्वधर्माराध्यत्वरूपधर्मालंकृतोऽपि स एव । अम्भस्यानुवाके इष्टापूर्त बहुधाजातं जायमानं विश्वं बिभर्ति भुवनस्य नामिरिति तथात्वावेदनात् । अस्याः श्रुतेरयमर्थः । इष्टं यागादिश्रीतं पूर्त

569

स्वातादिस्मात भूतभविष्यद्रूपमग्नीन्द्रादिदेवतान्तरसंबन्धि सर्वमपि बिभर्ति - स्वीकरोति तदाराध्य इति यावत् । भुवनस्य नाभिः कर्मफलप्रदतया आधारभूत इति अम्भस्यनुवाकस्य च भगवत्परत्वं प्रथमपरिच्छेदे व्यक्तम् ।

नन्वग्न्यादीनामेव यदाग्नेयोऽष्टाकपाळ इत्यादि वाक्यैस्तत्तत्कर्मसंबन्धि देवतात्वावगमेनोत्पत्तिशिष्ट गुणावरोघे गुणान्तरनिवेशायोगस्य गुणाधिकरणे संप्रतिपन्नत्वेन भगवतो देवतात्वकल्पनोन्मेषमर्हतीति चेन्न । अस्य चोद्यस्य, नदेवाग्भिस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमाः इत्येतन्मन्त्रोत्तरार्धेनैव परिहृतत्वात् । अनेन हे भगवत एवाग्न्यादिकृत्स्नदेवता शरीरकत्व प्रतिपादनमुखेन कर्मविधायक वाक्यगताग्न्यादि शब्दानां भगवत्पर्यन्ततात्पर्यकत्वेन तैर्भगवानेवाभिधीयत इत्याविष्क्रियते । एतेनाग्न्यादेरितर सापेक्षदेवतात्वे आग्नेय इत्यादि तद्धितानुपपत्तिरिति निरस्तम् । अनेन बिभर्तीत्यस्याराध्यत्व तात्पर्यमित्यपि सिद्धयतीति नान्यार्थकल्पनोन्मेषसंभवः । नन्वस्य वाक्यस्योपनिषतत्वेन यदाग्नेय इत्यादि कर्मकाण्डस्थ वाक्यार्थावधारण दशायामनुपस्थितत्वेन तदशायामग्न्यादिशब्दानां भगवत्पर्यन्ततावगमेन देवतात्व प्रतीतेः शरीरभूताग्न्यादिमात्रपर्यवसितत्वेन विधेस्तन्मात्रपर्यत्र सायित्वान्नोत्पत्तिवाक्यात्रसेयं भगवतो देवतात्वमिति चेन्न । न्यायानुसन्धानवाक्यान्तर विमर्श वैधुर्यदशायां वाक्यानुसन्धानमात्रात्सहसा परिनिष्पन्नस्य वाक्यतात्पर्यविषयत्वाभावात् । न्यायनिपुणाहि वाक्यान्तरन्याय विमर्शान्तरभाविज्ञानविषय एव शास्त्रतात्पर्यविषयोर्य इति वर्णयांचक्रुः । अत एव हि दर्शपूर्णमासाभ्यां स्वर्गकामोयजेतेत्यत्र न झटिति शास्त्रतात्पर्य विषयीभूतार्थबोधनिष्पत्तिः । किन्तु बहुन्यायानुसन्धान विलम्वितैव । तथा हि प्रथमं तावद्दर्शपूर्णमा सशब्दार्थः एतद्वाक्यार्थानुप्रविष्ट इति ज्ञायते । अनन्तरं विमर्शो भवति किं कालवचनः शक्तया किं वा वृत्यन्तरेण कर्मवचन इति कालवाचित्वे अन्यत्र सर्वत्रेवात्रापि सप्तमीप्रसङ्गादत्यन्तसंयोग विवक्षायां च द्वितीयाप्रसङ्गात् कर्मववनत्वे सिद्धे कर्मान्तरपरं वा, कर्मपरं वेति विषये, कर्मान्तरत्वे अरूपत्वाद्विशिष्टविधि गौरवात् । प्रकृत प्रत्यभिज्ञानादपेक्षित फलपरत्वावश्यंभावाच्च । प्रकृत कर्मपरत्वे निर्णीते, प्रकृतेषु च किं सर्वपरत्वं,

F-72

570

किं वाग्नेयादिमात्रपरत्वमिति विचार्य प्रयाजादीनां कालसंबन्धाभावादाग्नेयादीनां काल संबन्धस्योत्पत्तौ विद्यमानत्वादाग्नेयादीनां परत्वं विनिश्चित्य, तत्नापि विमृशति किमामेयादिषट्परत्वं किं वा यागद्वय परत्वमिति द्वयपरत्वे विनिगमनाविरहात्, अपेक्षा संनिधि योग्यत्वानामविशेषात् षट्सूत्पत्तिषु कालवाचिपद वैयर्थ्यप्रसङ्गाश्च षट्परत्वं निश्चिनोति, ततश्च विमर्शान्तरं दर्शपूर्णमासाभ्यामिति पदस्य षट्परत्वे बहुवचनान्तता स्यात् एकेतरपदांशवैयर्थ्यं च, समुदायपरत्वे एकवचनान्तत्वापत्तिरिति दोषमनुसन्धाय विद्वद्वाक्ययुगल परामर्शे प्रवर्तते । तत्र विशिष्टविधिः कर्मान्तरविधिपरत्वे पौर्णमासीनयेन निरस्ते तद्वाक्ययुगलस्य प्रयोजनाकाङ्क्षायां समुदायद्वयापत्त्या, नामधेयपरत्वं निश्चित्य, निर्धारितसमुदायद्वयपरत्वं दर्शपूर्णमास शब्दयोरवगच्छति, दर्शपूर्ण मासपद माग्नेयादिषु दर्शपूर्णमासपदमाग्नेयादिष्षु कर्य वति अमावास्याशब्दो हि विद्वद्वाक्ये व्युत्पाद्यत इति विचार्य, दर्शो वा एतयोः पूर्वः पूर्णमासः उत्तर इति वाक्यशेषानुसारेण दर्शामावास्या शब्दौ पर्यायाविति निश्चिनोति, पुनरपि विमृशति कथमुपांशुयाजस्य पौर्णमासी शब्दाभिधेयत्वमुत्पत्तौ कालाभावादिति तत एव तन्निश्चिनोति उत्पत्तौ तदभावेऽपि पौर्णमासीं यजन्निति कालविधेः श्रवणादुपांशुयागस्यापि कालसंबन्धो भक्तीति तत एवं वाक्यार्थत्रोधो भवति दर्शपूर्णमासाभ्यां यागैः समीहितं कुर्यादिति ।

1

नन्वेवमप्यसंनिहितवाक्यान्तरपर्यालोचनापर्यन्तं विलम्बः कथमिति चेन्न । उक्थ्यानिगृह्णातीत्यत्र तं पराञ्चमुक्थ्या त्षोडशिनं गृह्णातीति शाखान्तरवाक्यानुसारेण पुरोडाशं चतुर्धा कृत्वेति वाक्ये आग्नेयं चतुर्धा करोतीति शाखान्तरवाक्यत्व निर्णयस्य न्यायविद्भिरभ्युपगमात् ।

ननु तथाप्यप्राकरणिक वाक्यपर्यालोचना नास्तीति चेन्न । यस्य पर्णमयी जुहूर्भवति यस्य खादिरस्स्रुवो भवतीत्याद्यनारम्याघीतवाक्यविधीयमान पर्णतादि प्राप्त्यपेक्षत्वेन दर्शपूर्णमासकृत प्रयोग विधेः प्राकरणिकत्वात् । स्वमात्रपर्यालोचनापेक्षित्वस्यासिद्धेः । किञ्च न प्राकरणिक-

571

वाक्यमात्रपर्यालोचनापेक्षा शङ्कितुमपि शक्या । ’ चतुर्गृहीतान्याज्यानि मवन्ति ’ ’ न ह्यत्रानुयाजा इज्यन्ते ’ इत्यादि ध्यानप्रकरणस्थं वाक्यं पर्यायोध्याष्टावुपभृती: गृह्णातीति वाक्यप्रतिपाद्य चतुर्गृहीतद्वये एकं केवलप्रया जार्थ परं केवलान्यान्य प्रयाजार्थमिति निर्णयात् ततश्चा’ तिहायो बर्हिः प्रतिसमानीयते ’ जुहामौपभृतमित्युच्यमानं समानयनं प्रयाचार्थस्यार्द्धस्येत्यस्य सिद्धेः अन्यथा समस्यादश्रुतत्वादिति न्यायेन यदुपमृति प्रयाजानुप्रयाजेभ्यस्तदित्युभयार्थत्वेनायगतस्यार्थाधिकमनूयाजत्रयार्थं विशेषणीयं प्रयाजद्वयार्थमुद्धन्यूनं च समानेतव्यं स्यात् । ननूपभृत्यष्टगृहीतमेकं हविर्नभवति । किन्तु चतुर्गृहीतं हविर्द्वयं यच्चतुर्गृहीतं जुहोतीति विधिना चतुर्ग्रहण संस्कृतस्याङ्गत्वावगमात् । तथा च ’ ’ यदुपभृतीति’ प्रयाजार्थमेकं चतुर्गृहीतमनुयाजार्थमपरमित्यस्मिन् अर्थे पर्यवस्येत् । अतः समानयनविधीनामेव समानेतव्यं प्राप्नुयादिति चेत् नैवं, तथा व्यवस्थापक विध्यन्तराभावेऽपि यदुपभूतीत्यविशेषविधानेन चतुर्गृहीतद्वयस्यापि प्रयाजानुयाजार्थत्वप्राप्ते रनिवार्यत्वात् । न चैकस्मिन् यागे हषिर्द्वयं न प्राप्नोतीति शक्यं वक्तुं वचनबलादेकस्य चतुर्गृहीतस्य हविषोऽनेकप्रयाजार्थत्ववदनेकानुयाजार्थवच्च चतुर्गृहीतद्वयरूपस्य हविर्द्वयस्यैकैकयागार्थत्वस्या प्युपपत्तेः । पशुयाग एकस्मिन् हृदयजिह्नाघेका धेकादशहविरन्वयदर्शनाच्च चतुर्गृहीतान्याज्यानि भवन्तीति अनुयाजरहितायामतिभ्यायां चतुर्गृहीतान्यज्यानि भवन्ति, नह्यत्रानूयाजान् यक्ष्यन्भवति विधेः सत्वेन चतुर्गृहीतान्तरपरिसंख्याबलादुपभृति प्रयाजार्थमेकं चतुर्गृहीतमनुयाजार्थमपरमिति व्यवस्थावगम्यार्धमेव समानेतव्यमिति सिद्धयति ।

ननु चतुर्गृहीतवचनमातिथ्यायां प्रयाजार्थमेव चोदकाञ्चतुर्गृहीतद्वयप्राप्तौ तत्रैक्रमेत्र चतुर्गृहीतं हविरिति प्रयाजार्थे हविधिवैकृतविशेषवचनतयाप्युत्पन्नेनोक्तव्यवस्थां गमयेदिति चेत् । सत्यम् । उभयथाप्युपपन्नस्य तस्य ‘नपत्रानुयाजा इज्यन्त इति वाक्यशेषवशाद्वयवस्थापकता भविष्यति । अनेन हि वाक्यशेषेणोपभृति द्वितीय चतुर्गृहीतभावेऽनूयाजानामभावो हेतुकृतः । ततश्च तत्र हेतौ साध्यभूतायामादिध्यायामुपभृति द्वितीयचतुर्गृहीतस्य केवलप्रयाजार्थत्वं च572

व्यवस्थापयति । तस्मान्न प्राकरणिक वाक्यमात्रपर्यालोचनापेक्षेोवैदिक वाक्यार्थनिर्णयः । अपि च ज्योतिष्टोम प्रकरणगतदक्षिणादानशास्त्रस्य ऋत्विक् परिक्रयार्थत्वेन, आत्मीयं द्रव्यमृत्विजामुपयोगीकुर्यादित्यर्थे पर्यवसितस्य विभागपर्यन्तत्वात् कथं विभागा इत्याकाङ्क्षायां द्वादशाहदीक्षा क्रमवाक्य गतार्थादि समाख्यानुसारेण निर्णयोऽवश्यम्भावीति न प्राकरणिकेतरानपेक्षा, किं बहुना प्रकृतिं क्रतुशास्त्रस्य कृत्स्नस्य प्रकृतिकतु विधायक शास्त्राचीननिर्णय स्वार्थत्वान्नैतदपूर्वमस्माभिरुच्यते । किञ्च सौर्य चरुं निर्वपेदिति चरुशब्दार्थनिर्णय आदिभ्यः प्रायणीय इत्येतद्वाक्यविशेषभूतः स्यादिति मोदनेत्यस्य प्रवृत्तिमपेक्षते । एवं त्रिवृदग्निष्टोम इत्यत्र वृच्छन्दार्थनिर्णयोऽपि तादृशवाक्यान्तरमपेक्षत इति तद्वदत्र सादेवाग्निरित्यादिवाक्यार्थनिर्णयाचीन निर्णय एव ’ यदाग्नेयोऽष्टाकपालो ’ ’ वायव्यं श्वेतमालमेत’ इत्यादि विध्युद्देश इति नोत्पत्तिशिष्टन्यायेन भगवतो देवतात्वबाधः । किञ्च ‘यो वै सप्तदशं प्रजापतिं यज्ञमन्वायज्ञं वेदप्रतिमज्ञेन तिष्ठति, नयज्ञाअंशत, आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्वयक्षरं, ये यजामहे इति पञ्चाक्षरं, द्वयक्षरोवषट्कार, एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तो, य एवं बेद प्रतियज्ञेन तिष्ठति, न यज्ञाद्भ्रंशत, इति तावच्छ्रते । अत्न प्रजापतिशब्दो भगवत्परः सप्तदशप्राजापत्यान् पशूनालभते सप्तदशः प्रजापतिः प्रजापतेराप्त्यै श्यामा एकरूपा भवन्ति एत्रमित्रहि प्रजापतिः समृध्यै इति श्रुतौ प्राजापत्यपशुषु श्यामत्वगुणविधायिन्या एकरूपा भवन्तीत्युक्त्या भगवत्पर सप्तदशपद समभिव्याहृतस्य प्रजापतिशब्दस्यानापि तत्परत्वौचित्यात् -

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।

हूयते च पुनर्द्वाभ्यां समेविष्णुः प्रसीदतु ॥

इत्यनुस्मृतावुपबृंहणाश्च । एवं चात्र भगवत एव सर्वयज्ञाराध्यत्वं प्रतीयते । अन्यावत्तमित्याराध्यत्वेन संबन्धित्व प्रतिपादनात् ।

373

यद्यप्ययमर्थवादो दर्शपूर्णमास प्रकरणस्थ इति दर्शपूर्णमासाराध्यत्वमात्र प्रतिपादनेन चरितार्थः । तथापि प्रजापतेः सप्तदशत्वमिह सप्तदशाक्षरइयमानत्वमिति भारतवचनादवगम्यमानत्वेन तत्राग्नीन्द्रादिसर्वसाधारणस्य सप्तदशाक्षरहूयमानत्वरूपसप्तदशत्वस्य भगवद्धर्मत्व व्यपदेशो ऽमयादि शब्दानामपि प्रत्पर्यमन्तरेण न सिद्ध्यतीति द्विपशु सोमात्मक सर्वयज्ञाराध्यत्वं भगवतो निष्प्रत्यूहमनया श्रुत्या सिध्यत्येव । अपि च ’ य इमा विश्वा भुवनानि जुह्वषितेत्यादि * विश्वकर्मसूक्तं भगवत्परम् । ‘अजस्य नाभावध्येकमर्पितं यस्मिन्निदं विश्वं भुवनमधिश्रितं ’ ‘विश्वकर्मास्यजनिष्ट देव आदिर्गन्धर्वोऽभवद्वितीय’ इति तत्रत्यस्य मन्त्रस्य । ’ अजस्यनाभात्रध्येकं अर्पितं यस्मिन् इदं विश्वं भुवनमधिश्रितम् ।’

‘विश्वकर्मसूक्तम्

य इमा विश्वा भुवनानि जुहहृषिहोता न्यसीदत् पिता नः । स आशिष द्रविणमिच्छमान: प्रथमच्छदघराँ आविवेश || किं स्विदासीदघिष्ठानमारम्भणं कथमत् स्वित् कथमासीत् । यतो भूमिं जनयन् विश्वकर्मा विद्यामोणोन्महिना विश्ववक्षाः ॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । संत्राहुभ्यां धमति संपतत्रैर्यावाभूमी जनयन् देव एकः ॥ किं विद्वनं क उ स वृक्ष आस यतोद्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन् ॥ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजख तन्वं वृधानः || विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवी मुतद्याम् । मुान्त्वन्ये अमितो ज॑नास इहास्माकं मघवा सूरिरस्तु ॥ वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अया हुवेम । सनो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ||

574

‘पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः । '

इति स्तवराजाध्याये भगवता बादरायणेन भगवत्परतयोपबृंहणात् । तत्र ‘यो देवानां नामधा’ इत्ययं मन्त्र आम्नायते । तत्र नामधा इत्यनेनामीन्द्रादि सर्वशब्दवाच्यत्वं स्फुटतरमवगम्यते । न च नामधा इत्येतन्नामकरणपरम् । डुधाञ् धारणपोषणयोरिति धातुपाठे धारणस्योपात्तत्वेन तत्रैत्र प्रसिद्धि प्राचुर्येण तदर्थस्यैव शीघ्रोपस्थितिकत्वात् । तत्र नामनामिनोर्वाच्य वाचक्रभावस्य स्फुटप्रतिपस्या तद्वाच्यत्वोपस्थिते: देवानां नामधा इति विशिष्योक्तेः प्रयोजनाभावाच्च | सर्वनामकर्तापि स एव । एतेन नामरूपशब्दाश्रयत्व मित्यपि निरस्तम् । आकाशादि साधारण तदुक्तेर्निष्फलत्वात् । देवानां वाच्यत्व प्रतिपादनं तु सर्वकर्मसमाराध्यत्व सर्वफलप्रदत्यप्रतिपादनार्थमिष्यर्थवत् । अस्तु वा नामकरणमर्थः

अथापि नामरूपव्याकरणश्रुतौ रूपसृष्टयैव तद्विशेषनामसृष्टेः सिद्धत्वात् सृष्टिप्रतिपादनं सर्वशब्दवाच्यत्व

1

}

I

परमिति श्रुतप्रकाशिकायां क्षुण्णम् । एवं च तदनुसारेणात्र नामधा इति तद्वाच्यत्वं परमवसीयते । किञ्च ‘चतुर्होतारो यत्र संपदं गच्छन्ति देवैरिति ’ सर्वयज्ञाराध्यत्वं भगवतः प्रतीयते । चतुर्होतृशब्दस्य यज्ञपरत्वात् । एवमेत्र हि भगवता भाष्यकृता व्याख्यातं वेदार्थसंग्रहे । याज्ञिकैरपि तथा

व्याख्यातम् ।

नन्वस्य विष्णुपरत्वे किं प्रमाणमिति चेन्न । सुवर्ण घर्मानुत्राकस्य भगवत्परत्वस्यासकृदावेदितत्वेन तद्गतस्यास्य भगवतस्तद्गतत्वे

तात्पर्यात् । ’ एवमग्निहोत्रायावह ’ ’ स्वं महिमानमावह’ इति दर्शपूर्णमास प्रकरण समाम्नातो हौत्रमन्त्रोऽपि इष्टि पशुरूपकर्माराध्यत्वे प्रमाणम् । अनेन मन्त्रेण दर्शपूर्णमास प्रकरण गृहीतेन महिम शब्दाभिधेयस्य भगवतस्तत्र देवतात्वसिद्धेः । अतिदेशतः प्राप्तस्य तेनैव मन्त्रेण तद्विकृति भूतेष्टि पश्वात्मक कृत्स्नयाग देवतात्व सिद्धेश्च । महिम शब्दस्य विष्णुपरत्वं तु एष वै देवानां महिमा यो विष्णुः परमेष्ठीति याज्ञिकोदाहृत श्रुतिबलात् सिद्धयति ।

575

अत्राग्निमात्र हेत्यावाहन मात्त्रादेवाग्नयादिशरीरक भगवदाद्दानं सिद्धयति । तथापि वेदान्तव्युत्पत्ति विधुराणामग्न्यादिशब्दानां भगवदतिरिक्त देवतामात्रपर्यवसान भ्रमः स्यादिति । तद्वयावृत्त्यर्थं सकलदेवतान्तरात्मभूतस्य भगवत आवाहन - मुपपद्यते । सोमात्मक कर्माराध्यत्वं तु ’ विष्णवुरुक्रमे पते सोमस्तं रक्षस्वे ‘ति मन्त्रवर्णात् सिद्धयति । ते इत्यस्य षष्टयन्तत्वे संबन्ध विशेषनिर्धारणासंभवेन निर्धारितविशेषपरत्वे संभवति । अनिर्धारितविशेषार्थपरत्वासंभवाच्चतुर्थ्यन्तत्वमङ्गीक्रियते । तथा च चतुर्थीतादर्थ्याचन्यथानुपपत्याविष्णोः सोमद्रव्योद्देश्य देवतात्वं सिद्धयतीति पूर्वोक्तन्यायेन सर्वकर्माराध्यत्वं भगवतः सिद्धयति । तथा तव देवा हवमायन्ति सर्वे त्वमेकोऽसि बहूननुप्रविष्ट:’ इत्यपि तत्र मानम् । तब हमाद्दानं सर्वेदेवा आयन्ति प्राप्नुवन्ति त्वय्याहूते सर्वेदेवा आहूता भवन्तीति यावत् । कुत इत्यत आह, त्वमेकोऽसि बहूननुप्रविष्ट इति भगवत: सर्वात्मभूततया सर्वप्रधानंत्वेन भगवदाहाने तमागच्छन्त मन्वागच्छन्ति ब्रह्मादयस्तत्किङ्करत्वादिति श्रुत्यर्थः । अस्य भगवत्परत्वं तु भर्ता संभ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्ट, इत्यनुवाकोपक्रमे । एकः सन् बहुधा विचार इति सुवर्णधर्मानुवाक प्रत्यभिज्ञानादुत्तरनारायणानुवाकादनन्तरभावित्वाच्च । तथा भगवान्नारायण एवं सर्वकर्माराध्यः ।

कश्चिच्चाह

शिवस्य केषुचिद्वाक्येषु सर्वकर्माराध्यत्वं प्रतीयत इति । न विष्णोस्तथात्व निर्णयः सुशकः । तथाहि गाधपतिं मेधपतिं रुद्रं जलाषभेषजमिति मन्त्रस्तावत्तत्र प्रमाणम् । तस्य चायमर्थः गाधास्तोत्राणि तत्पतिं मेधा यज्ञास्तत्पतिजाः प्राणिनस्तैर्लष्यत इति व्युत्पत्त्या जलाष शब्दः सुखपरः तदर्य मेषजमिति । ’ अधो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्यो:’ इति श्रुतिरपि तत्र प्रमाणम् । अध्वरस्य राजानमिति अध्यराध्यक्षत्व प्रतीतेः । एवं छन्दोगानां सर्वकर्मारम्भजप्ये प्रपदानामके मन्त्रे विरूपाक्षोऽसिदत्ताञ्जलिः इति शिवं प्रस्तुत्य ! यत्ते द्वादश पुत्रास्तेत्वासंवत्सरे संवत्सरे कामपरेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्तीत्यपि ’ शिवस्य सर्वकर्माराध्यत्वे प्रमाणम् । किञ्च ’ अयं सोमः कपर्दिन’ इति श्रुतिः

576

सोमस्य शिवसंबन्धित्वमावेदयन्ती सोम द्रव्योद्देश्य देवतात्वं शिवस्य प्रतिपादयतीति सोम यागाराध्यत्वं तस्य सिद्धयति । कि सोमस्य हूयमानावस्थस्यापि रुद्रसंबन्धित्वमवगम्यते ‘रुद्र आहूतो वायुरावृत्त’ इति । तथा च सोम यागाराध्यत्वमप्रतिहतं तथा ‘इमं पशुं पशुपते ते अब बन्नाम्यने सुकृतस्य मध्ये ’ ’ अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यमिति ’ पशोः शिवसंबन्धित्वं प्रतीयत इति इति पशुयागाराध्यत्वमपि सिद्धम् ||

अपि च चमकेषु वाजश्च मे प्रसवश्च मे इत्यादिषु धाताच मे विष्णुश्च मे इत्यादिषु च वाजादीनां वस्तूनां विष्ण्वादि देवतानां च देयत्व प्रतीतेः परिशेषाच्छित्रस्यैव सर्वफलप्रदातृत्व सिद्धिः । विष्ण्वादीनां देयत्वं च खावीनकरणं उपबृंहणमपि कूर्मपुराणस्थं शिवस्य सर्वयज्ञाराध्यः वे प्रमाणम् ।

‘अहं वै सर्वहविषां भोक्ता चैव फलप्रदः ।

तथा सोमेनाराधयेद्देवं सोमं सोमविभूषणम् ॥

इति च । अतः शिव एव सर्वयज्ञाराध्य इति ।

अत्राचक्ष्महे

न तावत् गाधपतिं मेधपतिं रुद्रं जलाषभेषज मिति वाक्यं शिवस्य सर्वकर्माराध्यत्व प्रतिपादन समर्थम् । ’ आशासाना मेघपतिभ्यां मेवमित्यत्र मेधशब्दस्य पशुपरत्वाम्युपगमेन पशुपतित्व प्रतिपादनमात्रेण चरितार्थत्वेन यज्ञाराध्यत्वपरत्वस्य नियन्तुमशक्यत्वात् । न च तत्रापि मेवशब्दो यज्ञपर एवास्त्विति वाच्यम् । तथा सति नवमेऽध्याये ‘आशासाना मेघपतिम्यां मेघम्’ आशासाना मेधपतये मेघ’ मिति शाखा मेदेन समाम्नातयोर्मन्त्रयोर्मेधशब्दस्य देवतापरत्वे सति अग्नीषोमयोर्द्वित्वादेकवचनानुपपत्तिः । यजमानपरत्वे द्विवचनं पत्न्यमिप्रायेणोपपद्यते । तस्मात् स्वामि संख्यात्रशादनयोर्मन्त्रयोरूह इति पूर्वपक्षे प्राप्ते यजमानपरत्वे मेधपतये यो

तमाशासाना इति वचनव्यक्तिः देवतापरत्वे मेवमाशासाना मेघपतये इति वचनव्यक्तिः स्यात् । तत्र च देवतापरत्व पक्षे मेवमाशासाना इत्युक्ते किमर्थमाशासाना इत्यपेक्षायां मेधपतये इति संबन्धादपेक्षितार्थ पूरणम् । न च

377

यजमानायासावाशास्यते तस्माद्देवतावचनः । एकवचनं चाग्नीषोमयोर्व्यासक्तं देवता त्वमिति तदाश्रययोरुपपद्यते । द्विवचनं चाघिष्ठानद्वित्वमादायेति देवतासंख्यावशाद्दयोर्यथोचितमूह इति राद्धान्तितमिति तद्विरोधः स्यात् । न हि पशुपरत्वाभावे मेघपति शब्दस्य यजमानपरत्व संभावना, येन तत्परत्व निराकरणायाधिकरणमिदमर्थवत्स्यात् । किं चैवं मेधपति शब्दस्याग्निष्टोमयोरपि प्रयोगात् तयोरपि सर्वकर्मा राध्यत्वप्रसङ्गः । न च पशुपतित्वमपि सर्वोत्कर्ष - साधकमेवेति वाच्यम् । वरं वृणा अहमेव पशूनामधिपतिरसानीति । तस्माद्रुद्रः पशूनामधिपतिरिति वरदानलब्धत्वावगमेन स्वाभाविकत्वानवगमेन सर्वोत्कर्ष साधकत्वाभावात् । न चैवमपि गाधपतिमिति स्तोत्रपतित्व प्रतिपादनबलात् सर्वदेवान्तरात्मकत्वं सिद्धयतीति वाच्यम् । स्तोत्रविशेषस्तूयमानत्वमादायापि तदुपपत्तेः, अन्यथा अस्य देवस्यमीदुषोषयाविष्णोरेषस्य प्रभृयैर्हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वमिति भगवदाराधनलब्धमन्यपूज्यत्वमिति प्रतिपादयन्ती श्रुतिर्विरुध्येत । अस्याः श्रुतेरयमर्थः अस्यविष्णोर्देवस्य दीप्तस्य एषस्य एषणीयस्य सर्वस्वामिस्वेनापेक्षणीयस्य मीदुषः सेतुः वया शाखाविष्णोस्तरुस्थानीयस्य शाखास्थानीयोरुद्रः प्रभृध्ये यज्ञे रुद्रकर्तृके हविर्भिः रुद्रयं महित्वं विदे लब्धवान् इति । महित्वमिति मह पूजायामित्यस्मादौणादिके इन् प्रत्यये पूज्यत्रचनम् । महत्वार्थकत्वेऽपि कर्माराध्यत्वस्य तदन्तर्गतत्वेन विवक्षितार्थसिद्धिः। उपबृंहिताचेयं श्रुतिर्महाभारते

महामेधः सर्वमेधे महात्मा

हुस्वात्मानं देवदेवो बभूव । इति । आत्मा च भगवान् पुरुषोत्तम एव ।

विष्णुरात्मा भगवतो भवस्यामिततेजसः ॥ '

इति तत्त्रैव भारते प्रतिपादनात् । आपो राजानमध्वरस्य रुद्रं होतारमित्येतदपि

न सर्वयज्ञाराध्यत्वसाधनसमर्थम् । ’ त्वामने वसुपतिं

वसूनाममिप्रमन्दे

ऽध्वरेषु राजन्’ इत्यमौ ’ प्रसम्राजं प्रथममच्चराणामितीन्द्रेऽप्यध्वरराजत्व

F-73

578

श्रवणेनातिप्रसञ्जकत्वात् । यत्ते द्वादशपुत्रास्ते त्वा संवत्सरे कामप्रेणेति ’ श्रुतिरपि न तत्र प्रमाणं ’ कामप्रेण यज्ञेनेति । फलविशेषोद्देश्यक कर्माराध्यत्वमात्रप्रतिपादनात् । यचायं ’ सोमः कपर्दिन’ इति श्रुतिः सोमस्य कपर्दि - . शेषत्वं प्रतिपादयन्ती सोमद्रव्यकयागाराध्यत्वे प्रमाणमिति । तदप्यनुपपन्नम् । ’ मनुः पुत्रेभ्यो दायं व्यभजत्सनाभानेदिष्टं ब्रह्मचर्यं वसन्तं ’ ’ ततो वै तस्य रुद्रः पशून्नाभ्यमन्यते ‘ति मन्थिसंस्रावाहुतिव्यतिरिक्तानन्वय प्रतिपादनविरोधेन सोमयागाराध्यत्व साधनासमर्थत्वात् । अत एव ’ यज्ञस्य शिरोच्छिवत ते देवा अश्विनावनुवन् मिषजो वैस्थ इति । यज्ञस्य शिरः प्रतिधत्तमिति तावतां वरं वृणावह ग्रह एव नावत्रापि गृह्यतामिति ताभ्यामेतमाश्विन मग चित्यादि बलादश्विनोरन्यत्रानन्वयः सिद्ध्यति । ‘किञ्चोच्छेषण भागो

। द’ इति प्रसिद्धवद्वयपदेशश्चान्यत्रानन्वयं प्रतिपादयति । एवं च सोमः कपर्दिन इति संबन्धमात्रप्रतिपादकं यथाकथंचिदुपपन्नं न सोमाराध्यत्व साधनसमर्थम् । एतेन रुद्र आहूत इति श्रुतिः प्रमाणमित्यपि परास्तम् । सामानाधिकरण्यस्य संबन्धमात्रे चोपपन्नत्वात् । ’ प्रजापतिर्मन सान्ध’ इत्यादि कृत्तवाक्यपर्यालोचनयापीदं स्पष्टम् । ’ इमं पशुं पशुपते तेऽद्य बनाम्यमे ’ इति श्रुतिर्न पशुयागोद्देश्यत्वं शिवस्य प्रतिपादयितुं शक्नोति । देवोद्देश्यक त्याग विनय पशुसंवन्धित्वमात्रप्रतीतेः । प्रत्युत देवोद्देशेन त्यागार्थं क्रियमाणाया अनुमति प्रार्थनाया एवात्र प्रतिपादनेन त्यागानुद्देश्यत्वस्यैव प्रतीयमानत्वात् ।

’ यदप्यग्निश्वम इन्द्रश्वम ’ इत्यत्राग्नीन्द्रादीनां प्रदेयत्व प्रतिपादनसिद्धेः । न हि वाजश्चम इत्यादौ देयत्व प्रतिपादकपदमस्ति न च तद्वाचकपदाध्याहारेण देयत्वं प्रतिपादयितुं शक्यमिति वाच्यम् । अध्याहारादनुषङ्गस्य ’ ज्यायस्त्वेनायुर्यज्ञेन कल्पतां ’ ’ बृहद्रथन्तरे च मे यज्ञेन कल्पेतां ’ ’ दिशश्चमे यज्ञेन कल्पन्तामिति, वाक्यस्थ कॢप्तिवाचकपदानुषङ्गेण वाक्यपूरणसंभवे दीयतामिति पदाध्याहारायोगात् । कॢप्तिश्चात्रानुकूल्याचरणं, तथा चाग्नीन्द्रादीनां प्रदेयत्वेन परिशेषाच्छिवस्य प्रदातृत्वसिद्धिरिति तस्याराध्यत्वं सिध्यतीत्येतन्मूलच्छेदाच्छिन्नम् । बस्तुवाग्न्यादीनां प्रदेयत्वम् । तथापि प्रदात्रा ततोऽन्येन भाव्यमिति न

579

निर्बन्धः । य आत्मदा बलदा इति प्रमाणदर्शनेन प्रदेयस्य प्रदातुश्वामेद-

संभवात् । उक्तं च

1

सस्वेनैवफलप्रदः फलमपि खेनैव नारायणः । '

इति । दीयतामित्यध्याहृतस्य कर्मकर्तृनिष्पत्यभ्युपगमेन प्रदातृ प्रदेययोरमेदाभ्युपगमेऽपि तदुपपद्यते । ननु प्रदातुरन्यत्वाभ्युपगमः स्वरस इति चेन्न । उपक्रमे अग्नाविष्णु सजोषसे मावर्धन्तु वां गिरः इत्यग्नाविष्ण्वोः श्रवणेन अग्निश्चमे इन्द्रश्वमे विष्णुश्वमे इत्यनयोः प्रदेयत्वेन श्रुतयोरेव प्रदातृत्वस्याङ्गीकरणीयत्वात् ।

ननु अग्नाविष्णू सजोषसेति मन्त्रे अम्मा विष्ण्वोः प्रतिपादनेऽपि वाजश्चमे इत्यादीनां तद्विषयत्वं कुत इति चेन्न । वाजश्चमे इत्यादिषु प्रतिपाद्यमान प्रार्थनाया उद्देश्यान्ययावश्यम्भावेन तत्र देवतान्तस्वाचकपदाभावेनोपक्रम श्रुतानाविष्णुपदानुषङ्गेन तद्वाक्य पूरणावश्यम्भावेन तद्गामित्वात् । किञ्च प्रदातृप्रदेयमेदाङ्गीकारेऽपि धाता च मे इन्द्रश्च मे इत्यनन्तरं विष्णुश्च मे इन्द्रश्च मे इत्युक्तया धातृशब्दस्यादित्यगणान्तर्गत प्रथमादित्यपरत्वेन विष्णुशब्दस्यापि तदन्तर्गत भगवत्परत्वात् । आदित्यगणान्तर्गतस्य भगवतो मूलभूतेन वास्तविक्रमेदाभावेऽप्यवतारमेदमादाय तदुपपद्यते । हव्यवाहनः तेधाविभज्यते ’ त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितॄणां सह रक्षा असुराणामिति’ । तथा अग्निरपि तेधा विभज्यते ’ अग्नि तृतीयं रुद्रं तृतीयं वरुणं तृतीयमिति एवं च प्रदातृप्रदेय मेदाङ्गीकारेऽपि नाग्नाविष्ण्वोर्वाजश्वम इत्यादि प्रार्थनोद्देश्यत्वानुपपत्तिः । तस्माच्छिवस्य कर्माराध्यत्वपराणामन्यथासिद्ध्यर्ह त्वाद्भगवानेव सर्वकर्माराध्यः । गीतं च भगवता

येऽप्यन्य देवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेत्र कौन्तेय यजन्त्यविधि पूर्वकम् ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तखेनातश्च्यवन्ति ते ॥

इति । तथास्मृत्यन्तरम् -

580

’ ये यजन्ति पितॄन्देवान्ब्राह्मणान् सहुताशनान् ।

सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ ’ इति ।

आनुशासनिके

“यूपं विष्णुं वासुदेवं विजानन्

सर्वान् विप्रान् बोधते तत्त्वदर्शी । विष्णुकान्तं वासुदेवं विजानन्

विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः

कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च । कृत्स्नो वेदानं वेद वेदाश्च कृष्णः

एवं जानन ब्राह्मणो ब्रह्म एति ॥

स्थानं सर्व वैष्णवं यज्ञमार्गे

चातुर्होत्रं वैष्णवं तत्र कृष्णः । सर्वैर्भावैरिज्यते सर्वकामैः

पुण्यान् लोकान् ब्राह्मणाः प्राप्नुवन्ति ॥ सोमं सद्भावाद्ये च जातं पिबन्ति

दीप्तं कर्म ये विदानाश्चरन्ति । एकान्तमिष्टौ चिन्तयन्तो दिविस्था

स्तेवैस्थानं प्राप्नुवन्ति प्रयज्ञाः ॥ तथा आज्यं यशसुक्तुवो यज्ञदाता इच्छापत्नी पत्रशाला हवींषि । इमा पुरोडाशं सर्वदा होतृकर्ता कृत्स्नं विष्णुं संविजानमेति ॥

योगे योगे कर्मणां चाभिहारे

आश्वमेधिके

581

युक्ते कृष्णो वाक्ष्यैरिज्यते संमृशानैः । कृष्णोमुक्कै रिज्यते वीतमोहैः

देवानामपि देवस्त्वं सर्वविद्यापरायणः ॥

वेदाः साङ्गोपनिषदः सरहस्यार्थसंग्रहाः ।

सोङ्काराः सवषट्काराः प्राहुस्त्वां यज्ञमुत्तमम् ॥ तमध्वरेशं शंसितारः स्तुवन्ति

रथन्तरे सामगाश्च स्तुवन्ति । तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति

――

तस्मै हविरध्वर्यवः कल्पयन्ते ॥

’ होतारमपि हव्यं च विद्धिम भृगुनन्दन । अध्वर्युः कल्पकश्वापि हरिः परमसत्कृतः । उद्गाताचापि मां स्तौति गीतघोषैर्महाध्वरे ॥ '

इत्येवमादीनि पारे परार्धं वचांसि सन्ति तानि विस्तरभयान्नलिख्यन्ते । तस्मात् सोपबृंहणा मिरुदाहृत श्रुतिमिर्नारायण एवं सर्वकर्माराध्य इति सिद्धयतीति स एक सर्वोत्कृष्ट इति युक्तम् ।

ननु रुद्रोपनिषदथर्वशिरः प्रभृतिषु शिवस्य नमस्कारघटितमन्त्र भूयस्त्वदर्शनाद्देवतान्तराणां कचिन्नमस्कार घटिततद्योगेऽपि तद्वाहुल्यानुपलम्भात्स्वविषयोत्कर्षलिङ्गं नमस्कार भूयस्त्वेनानितरदेवता साधारणेनानन्य सामान्यमहिमाख्याप्यत इति स एव सर्वोत्कृष्टः । न च नमस्कारो न स्वविषयो त्कर्षलिङ्गं कुतश्वित्स्वहिंसाशंकायाः भयादपि नमस्कारस्य लोके दर्शनात् वेदेऽपि ‘नमस्ते अस्तु मामाहिंसीरिति’ भय प्रयुक्त नमस्कारोपलम्भाश्च इह तु तद्भूयस्त्वं भयभूयस्त्वादुपपन्नमिति वाच्यम् । तथापि ‘महद्भयं वज्रमुद्यतं ’ इति कठवल्लीषु तस्य ब्रह्मधर्मत्वदर्शनात् । ’ कम्पनादिति ’ सूत्रे च तथात्वोक्तेश्च सर्वोत्कर्षसिद्धेरपि कक्ष्यात् न हि नमस्ते अस्तु मामा

“582

हिंसीरिति नमस्कारस्य भयप्रयुक्तत्वेऽपि ततस्तद्विषयस्योत्कर्षसिद्धिः ‘नमस्ते हरसेशोचिष’ इति मन्त्रश्रुतनमस्कारस्य तत्तुल्यरूपस्यैव ‘नमस्ते हरसेशोचिष इत्याह नमस्कृत्य हि वसीयांसमुपचरन्ती’ति तन्मन्त्र ब्राह्मणेनौत्सर्गिकख - विषयोत्कर्ष प्रयुक्तथात्यागोतेः । किञ्च ‘सर्वो वै रुद्र’ इत्यादिमन्त्रेषु भयलिङ्ग रहितेषु केवळं शिवस्य सार्वात्म्यप्रतिपादनायैव प्रवृत्तेषु बुध्यमानाः नमस्कारविषयगौरव प्रयुक्ता इति न तत्र काचिदन्यथासिद्धिर्वक्तुं शक्यते । उक्तं च लेने

"

सर्व रुद्रेति वै प्राहुर्मुनयस्तत्वदर्शिनः ।

नमस्कारेण सहितं गौरवात्परमेष्ठिनः ॥ '

इति । अतो नमस्कारबला च्छिवस्योत्कर्षसिद्धिरनिवार्या । अपि च ’ यस्मै नमस्तस्मैत्वा जुष्टं नियुनज्मी’ति मन्त्रे शिवस्य सर्व नमस्कार विषयत्वमत्रगमयति । खखोद्देश्यनमस्कारविषयत्वस्य सर्वसाधारणत्वेन तेना साधारण शिवस्यरूपसमर्पणायोगेन तस्य सर्वनमस्कार विषयस्य परत्वावश्यम्भावात् । न च नमस्कार - भूमविषयत्वे तस्य तात्पर्यमस्तु तस्य रुद्राध्यायादिमन्त्राणां नमस्कारभूम्ना शिवसाधारणत्वे स्वरूपसमर्पकत्वात् सर्वनमस्कारविषयत्वस्य प्रमाणान्तराऩवगमेन तेनरूपेण तदनुवादायोगाश्चेति वाच्यम् । देवतान्तरनमस्कारेभ्यो बाहुल्यरूपस्य शिवनमस्काराणां भूम्नात्र प्रतिपादकस्य शब्दस्याभावात् नमश्शब्दस्यैव तत्तात्पर्य कल्पने लक्षणापतेः । सर्वनमस्कारविषयत्वस्य नमः शब्दे जात्याश्रयण बलाद्यस्मा एव नम इति सर्वं वाक्यं सावधारणमिति सामान्यव्युत्पत्तिसिद्धोचितस्थलान्वयावधारणबलाद्वा सिद्धयुपपत्तेस्तस्य स्मृत्यन्तरानचगमेऽपि यो ब्रह्माणमिति मन्त्रे परमेश्वरस्याध्यापयितृत्ववदनुवाद सामर्थ्यादेव सिद्धिसंभवात् । दहरविद्यान्वयि परमेश्वरगुणप्रतिपादनपरे ऋतं सत्यमिति मन्त्रे’ विश्वरूपायवै नमः इति भागस्यापि सर्वनमस्कारशेषित्वलक्षण तदन्वयि तद्गुणविशेषपरत्वौचिन्येन पुरोवादत्वस्यापि संभवाञ्च । अतः सर्वनमस्कारविषयत्वपरमेवेदम् । एवं यस्मै नमस्तच्छिर इत्यादिकमप्यत्रोदाहार्यमिति ।

583

अत्र वदामः किं नमस्कारभूयस्त्वं सर्वोत्कर्षख्यापकं किं वा तत्प्रकाशक मन्त्रभूयस्त्वम् । नाद्यः तस्य नमस्कार्यं प्रीत्यतिशयादिमात्रद्योतकत्वेनोपपन्नस्य सर्वोत्कर्षन्याप्यतानाम्नानात् । न च प्रीत्यतिशयादिकमेवोत्कर्षनिबन्धनमिति वाच्यम् । तस्येष्टप्रदानादिसामर्थ्यातिशय निश्चयाधीनत्वात् । अन्यथा सकृते अम्ने नमः द्विस्ते नमः त्रिस्ते नमः चतुस्ते नमः पञ्चकृत्वस्ते नमः शतकृस्त्वते नमः सहस्रकृत्वस्ते नमः अपरिमितकृत्वस्ते नमः इत्यत्र तदर्शनादग्नेरपि-

सर्वोत्कर्षप्रसङ्गः ।

न द्वितीय:विकल्पासहत्वात् । किं तत्सर्वनन्तव्यत्वोन्नायकत्वेन तत्ख्यापकं स्वत एव वा । नाद्यः, एकपुरुषानुष्ठीयमाना नेकनमस्कार प्रतिपादकत्वेनाप्युपपन्नस्य नमस्कारमन्त्र भूयस्त्वस्य सर्वनन्तव्यत्वं विनानुपपत्त्यभावेन तत्साधकत्वाभावात् । न चान्यत्र नमस्कार भूयस्त्व सर्वनन्तव्यत्वयोर्व्याप्तिर्दृष्टेति तत्सिद्धिरिति शक्यं वक्तुम् । ईश्वरत्वेनाभिमतव्यक्तयतिरिक्तनिष्ठत्व प्रसङ्गेनेश्वरत्वासाधकत्वात् । अन्यथा ईश्वरानेकत्वदोषात् । न चरमः तस्य सर्वोत्कर्ष विनानुपपत्त्यभावेनाप्रयोजकत्वात् । किञ्चोत्कर्षासाधकत्वे नमस्कारतद्भूयस्त्वयोः स्थिते तादृशार्थप्रतिपादकशब्द भूयस्त्वं तत्साधकमित्याशा मात्र विजृम्भितम् । अन्यथा ग्निप्रतिपादकमन्त्राणामितरमन्त्रापेक्षयाधिक्यात् । तस्य सर्वोत्कर्षसिद्धेः, अपि च नमस्कारस्योत्सर्गत उत्कर्षप्रयुक्तत्वेऽपि ’ यच्छत रुद्री जुहोति यैवास्य घोरातनूस्तां तेन शमयति’ ‘नमो रुद्राय मखमे’ इत्यादिमिर्यहेतुत्वावगतेर्नोत्कर्षाविनाभावः । न च भयप्रयुक्तत्वेऽप्युत्कर्षप्रयुक्तिर्नत्याज्येति वाच्यम् । तत्प्रयुक्तत्वेनावधृते प्रयोजकान्तरकल्पनाया अनुदयात् । न च ’ नमस्कृत्य हि वसीयां समुपचरन्ती’ त्युत्कर्ष प्रयुक्तकथनात्तथात्वमवसीयत इति वाच्यम् । तत्र कृत्स्ननमस्कारस्य श्रेष्ठत्वप्रयुक्तत्वाकथनात् । श्रेष्ठनमस्कारपूर्वकं बहुमन्तव्य इति श्रेष्ठनमस्कारप्रयोजकमित्येतावन् मात्रमुक्तं न तु कृत्स्ननमस्कार श्रेष्ठप्रयुक्त इति । न च नमस्कारस्योत्कर्षपूर्वकत्वनियमदर्शनादुत्कर्षसिद्धिरिति वक्तुं शक्यम् । असिद्धेः । लोके बाधादिनिवृत्यर्थमतद्विषयेऽपि तदर्शनात् ।

584

नमस्कृत्य हि इत्यादिमात्र विषयमिति न

न च वैदिकनमस्कारस्य स्वविषयोत्कर्ष प्रयुक्तत्व नियमः कल्पयितुं शक्यः, हेत्वन्तरप्रयुक्तत्व प्रमाणबलात् श्रुति तत्कल्पनानुदयात् । क्सीयांसमुपचरन्तीत्येतत् ‘नमस्ते हरसेशोचिष’ शतरुद्रीयादिवाक्यमप्यवगाहते । न चैवं शूद्रवन्दनवद्वयतिक्रमप्रयुक्तत्वकल्पनाप्रसङ्गः इति वाच्यम् । अनिषिद्धत्वेन तथात्वकल्पनाया अनुदयात् । न चैवं शिवस्यास्मदाद्यपेक्षयाप्युत्कर्षो न सिध्येदिति वाच्यम् । नमस्कारबलादसिद्धावपि संहारकर्तृत्व सार्वज्ञ्यादिना चतुर्मुखादेरिव तत्सिद्धिसंभवात् । न च स एव नमस्कार प्रयोजकोऽस्त्विति शक्यं वक्तुम् । हेत्वन्तरश्रवणे जाग्रति कैमर्थ्याकाङ्क्षाया अनुदयेन तस्य प्रयोजनाकल्पनात् । न च भयप्रयुक्तत्वेऽपि नोत्कर्षसिद्धिः । तस्य परमार्थधर्मत्वस्य श्रुतिसूत्र सिद्धत्वादिति वाच्यम् । बीन्द्रादिमयहेतुत्वस्य तत्र तद्धर्मत्वा वेदनेन भयहेतुत्वमात्रस्य तथात्वाभावात् अन्यथातिप्रसङ्गात् ।

यदपि ’ सर्वो वै रुद्र’ इत्यादिषु भयलिङ्गरहितेषु सार्वात्म्यप्रतिपादनायैव प्रवृत्व विषयगौरवप्रयुक्तत्वं तस्यावगम्यत इति । तदपि न, सर्वो वै रुद्र इतीत्यस्य पुरुषो वै रुद्र इत्यादिवाक्यानुसारेण भगवत्परत्वस्यासकृदावेदितत्वाद्भगवच्छरीरत्वनिबन्धनस्तत्रापि नमस्कारयोग्य इत्यवसायेन निरुपाधिकनमस्यत्वामान सर्वत्रापि तस्य तद्योगस्य तथात्वावसायात् ।

यदपि - ‘यस्मै नमस्तस्मैत्वा जुष्टं नियुनज्मीति मन्त्रचलत् सर्वनन्तव्यत्व सिद्धिरिति तदप्यसारम् । यस्मै नम इति यच्छन्दबलादनुवादप्रतीत्या सर्वानन्तव्यत्वस्य च प्रमाणान्तरानवगतत्वेन तदयोगान्नमस्कारभूमविषयत्वस्य च

प्रश्नाचवगतत्वेन तत्परत्वकल्पनात् । न च तत्पारम्य साधकमित्युक्तम् । बच लक्षणाप्रसङ्गः, अनुवादे लक्षणाया अदोषत्वात् । न चास्यैत्र सर्वनमस्कार विषयत्वसाधकत्वमस्त्विति वाच्यम् । गौरवप्रसङ्गात् । अग्नीन्द्रादिचन्दघटित मन्त्रप्रतिपाद्य नमस्कारविषयत्वाय तदन्तर्यामित्वमपि हि कल्प्यम् । लक्षणा च नातीत्रदुष्यति । शूलगवाख्यकर्मण ईशानायत्वा जुष्टमुपाकरोमीति

585

मन्त्रवर्णत्रलादुद्रदेवत्यत्वस्य प्रमाणसिद्धत्वेन रुद्रस्य च नमस्कार भूयस्त्वसंबन्धस्याप्यन्यतः सिद्धत्वेन तस्मिन् कर्मणि विनियुक्त मन्त्रे श्रुतेन नमः शब्देन तद्भूयस्त्वस्य झटित्युपस्थितेः । अपि च ऋग्वेदे ‘त्वमन इन्द्रस्त्वं ब्रह्म इत्यादिना अग्नेर्देवतान्तरतादात्म्य प्रशंसायां त्वं विष्णुरुरुगायो नमस्य’ इत्यान्नायते । अत्र नमस्य इति नमस्कार विषयत्वमात्रपरं चेत् साधारण्येन नास्त्युपयोगः नमस्कारभूम विषयत्वपरं चेन्नम इस्यस्य लाक्षणिकत्वप्रसङ्गः । अतोऽसङ्कोचेन सर्वनन्तव्यत्व साधकमिति द्वयो: सर्वेश्वरत्वायोगात्तद्विरोधात् । यस्मै नम इति तद्भूमविषयत्वपरमेत्र । न चैतद्विरोधात्तस्य तत्परत्वमिति शक्यं वक्तुम् । प्रमाणान्तराप्रतिपन्नत्वेन विष्णोस्तद्भूमविषयत्वस्य लाक्षणिकत्व गौरवरूपदोषद्वयपरिहाराय सर्वनन्तव्यत्व मात्त्रपरत्वात् । ’ विश्वरूपाय नम इत्येतद्भगवत्परमिति प्रतिपादितमधस्तात् । अतः सर्वनमस्कारविषयत्वं ’ यस्मै नमस्तस्मैत्वाजुष्टं नियुनज्मीत्यनेम शिवस्य सिद्धयति ।

यत्तु

’ यस्मै नमस्तच्छिर’ इत्यादिकं मन्त्रोदाहार्यमिति । तत्र । तस्य शिवपरत्वासिद्धेः प्रत्युत भगक्त एव नमस्कारविषयत्वं तेनावगम्यते ।

तथा हि - एवं हि तच्छ्रूयते

’ यस्मै नमस्तच्छिरोधर्मोमूर्धानं ब्रह्मोत्तरा-

,

’ सर्व ते नमः’ इतीदमपि भगवत्परं

हनुर्यज्ञोधरा विष्णुर्हृदयं संवत्सरः ’ शिंशुमारप्रतिपादकत्वात् तस्य च भगवद्रूपत्वम् ।

‘तारामयं भगवतः शिंशुमाराकृतिः प्रभोः ।

दिव्यरूपं हरेरस्तु तस्य पुच्छे धुवः स्थितः ॥ '

इति वैष्णवपुराणवचनात् । आश्वमेधिके च पर्वणि

नमस्ते …. वस्तु भूत्वमत्रावगम्यते ।

इति । न शिवस्यानेन तत्साधनानवकाशः । उपबृंहणमपि भागवतस्थमिममर्थ दृढयति -

F-74

इति च ।

586

‘आकाशात्पतितंतोयं यथागच्छति सागरम् ।

सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥’ इति ।

'

अनुग्रहार्थं लोकानां विष्णुर्लोक नमस्कृतः । '

’ सर्वे देवा वासुदेवं यजन्ते

सर्वे देवा वासुदेवं नमन्ते । '

’ तमिमं सत्वसंपन्नमाचार्य पितरं गुरुम् ।

अर्च्यमर्चितुमिच्छामः सर्वेसंमन्तुमर्हथ || '

इत्यादिकमत्रोदाहार्यम् । शौनकचेममर्थ प्रतिपादयति .

’ यज्वानो यन्नमस्यन्ति यं नमस्यन्ति देवताः ।

योगिनो यं नमस्यन्ति तं नमस्यं नमाम्यहम् ॥’

,

इति । तस्मात्सर्वनन्तव्योऽपि भगवानेव तदेवं सर्वधर्माराध्यत्व, प्राप्यत्व सर्वविद्या वेद्यत्वादि, जगत्कारणत्व

,

मुक्त

व्याप्यधर्मप्रतिपादकैः साक्षात्तत्प्रतिपादकैश्च वेदान्तैः परमकारुणिकत्वं भगवदसाधारणत्वेनावगम्यत इति ‘जन्माद्यस्य यतः ’ इति सूत्रोदितं, जगज्जन्मादिकारणं परं ब्रह्मं भगवानारायण इति सिद्धम् ।

इति श्रीशठमर्षण कुलतिलक निखिलवेदान्त विद्या निषद्यायित हृदयकमल श्रीताताचार्यनन्दनस्य हयवदनकरुणाकटाक्षवीक्षालब्धपदवाक्यप्रमाण सारस्य श्रीमनिगमशिखर गुरुचरण सरसीरुह चचरीका यमाणमानसस्य श्रीवेङ्कटदेशिकपादसेवा समधिगत श्रीमच्छारीरकमीमांसाभाष्यहृदयस्य बेङ्कटाचार्ययज्वनः कृतिषु सिद्धान्तरत्नावल्लयां

तुरीयः परिच्छेदः ॥

587

’ ताताययस्य तातः क्षितिपति-

मकुटीराजिनीराजिताङ्घ्रिः । माता श्रीवेंकटाम्बानिखिल

जगती गण्य पुण्य प्रभाषा ’ ॥

तेनानेक प्रबन्ध प्रकटित

यशसा वेङ्कटार्येण क्लृप्ता । शुद्धा सिद्धान्तरत्नावलिरिह

• विदुषां श्रेयसे भूयसेऽस्तु ॥ गुणसान्द्रं गुरुचन्द्रं यति-

राजमुनिं नमामि यद्वीक्षा । रक्षाजगतां साक्षात्सवमा-

वलिमिमामादितः ॥

जयति यति सार्वभौम:-

जयति स निगमान्तदेशिकोधन्यः । स जयति च गुरुवरेण्यस्तनयो-

यस्याहि शैलमौलिमणिः ॥

इति सिद्धान्तरत्नावली समाप्ता ॥

588

पञ्चरुद्रेष्वथर्वशिर उपनिषत् पृष्ठम् - ९३

भद्रं कर्णेमिरिति शान्तिः

ओं ।

देवा ह वै स्वर्ग लोक मगमंस्ते देवा रुद्रमपृच्छन् को भवानिति सोऽब्रवीदहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोन्तरादन्तरं प्राविशदिशश्चान्तरं प्राविशत्सोऽहं नित्यानित्योऽहं ब्रह्माहं प्राश्चः प्रत्यश्वोऽहं दक्षिणां चोदं चोह मवश्वोर्ध्वं च दिशश्च विदिशश्चाहं पुमानपुमस्त्रियश्चाहं गायत्र्यहं सावित्र्यहं सरस्वत्यहं त्रिष्टुब्ज -

चाहं छन्दोऽहं गाईपत्योऽहं दक्षिणाग्नि राहवनीयोऽहं सत्योऽहं गौरहं

ठोऽई श्रेष्ठोऽहं वरिष्ठोऽहमापोहं तेजोऽहमृग्यजुस्सामाथर्वाङ्गिरसोह मक्षरमहं क्षरमहं गोप्योऽहं गुह्योऽह मरण्योऽहं पुष्करमहं पवित्रमह मग्रं च मध्यं च बहिश्च पुरस्तादशसु दिवत्रस्थित मनवस्थितं च ज्योतिरित्यहमेकस्सर्वे च मामेव मां यो वेद सर्वान् देवान्वेद गां गोभिर्ब्राह्मणान् ब्राह्मणेन हवीषि हविषायुरायुषा सत्य सत्येन धर्म धर्मेण तर्पयामि । खेन तेजसा ततो देवा रुद्रं नापश्यंस्ते देवा रुद्रं ध्यायन्ति ततो देवा ऊर्ध्ववाहवस्स्तुवन्ति । ओं ।

योह वै रुदस्स भगवान् यक्ष ब्रह्म भूर्भुवस्तस्मै वै नमो नमः शीर्षञ्जनपदों विश्वरूपोऽसि ॥ १ ॥ ( यथा प्रथम मन्त्रोक्ता वाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यौ ) यश्च विष्णुः ॥ २ ॥ यश्च महेश्वरः || ३ || या चोमा ॥ ४ ॥ यश्च विनायकः ॥ ५ ॥ यश्च स्कन्दः ॥ ६ ॥

यश्चाग्मिः ॥ ८ ॥ या च भूः ॥ ९॥

यश्चेन्द्रः ॥ ७ ॥

यश्च भुवः ॥ १० ॥

यश्च सुत्रः

॥ ११ ॥ यश्च महः ॥ १२ ॥ यश्च जनः ॥ १३ ॥ यच्च तपः ॥

१४ ॥

यच्च सत्यं ॥ १५ ॥ या च पृथिवी ॥ १६ ॥ तेजः ॥ १८ ॥ यश्च वायुः ॥ १९ ॥ ॥ २१ ॥ यश्च सोमः ॥ २२ ॥ यानि च नक्षत्राणि ॥ २३ ॥

याश्चापः ॥

१७ ॥

यच्च

यच्चाकाशम् ॥ २० ॥

यश्च सूर्य:

ये चाष्टौ

ग्रहाः ॥ २४ ॥ यश्च प्राणः ॥ २५ ॥ यश्च कालः ॥ २६ ॥

यश्च यमः

589

यच्चामृतम् ॥ २९ ॥

यच्च भूतं भव्यं

यक्ष

॥ २७ ॥ यच मृत्युः ॥ २८ ॥ भविष्यत् ॥ ३० ॥ यश्च विश्वम् ॥ ३१ ॥ यच्च कृत्स्नम् ॥ ३२ ॥ सर्वम् ॥ ३३ ॥ यच्च सत्यम् ॥ ३४ ॥ ओमादौ मध्ये भूर्भुवस्सुवरन्ते शीर्ष जनपदों विश्वरूपोऽसि । ब्रह्मैकत्वं द्वित्रिविधोर्ध्वमधश्वत्वं शान्तिश्वत्वं पुष्टिश्चत्वं तुष्टिधत्वं हुतमहुतं विश्वमविश्च दत्तमदत्तं कृतमकृतं परम्परं परायणं चेति । अपाम सोमममृता अभूमागन्मज्योति रविदाम देवान् किं नून मस्मान् कृणवदरातिः किमु धूर्ति रमृतं मर्त्यस्य । सर्वञ्जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषमग्राह्य मप्रायेण वायुं वायव्येन सोमं सौम्येम प्रसति । खेन तेजसा तस्मादुपसंहर्त्रे महाप्रासाय वै नमो नमः । हृदिस्था देवतास्सर्वा हृदिप्राणाः प्रतिष्ठिताः । हृदित्वमसि यो नित्यं तिस्रो मात्रा: परस्तु सः । तस्योत्तरतः शिरोदक्षिणतः । पादोय उत्तरतः । स ओङ्कारो य ओङ्कारस्स प्रणवो यः प्रणवस्स सर्वव्यापी यस्सर्वव्यापी सोऽनन्तो योऽनन्तस्ततारं यत्सारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्कं तद्वैद्युतं परैबुतं तत्परं ब्रह्मेति । स एकस्स एको रुद्रस्स ईशानस्स भगवान् स महेश्वरः स महादेवः । अथ कस्मादुष्यत ओंकारो यस्मादुच्चार्यमाण एव सर्व शरीरमूर्ध्वमुन्नामयति तस्मादुच्यत ओङ्कारः । अथ कस्मादुष्यते प्रणवो यस्मादुच्चार्यमाण एवं ऋवो यजू ५षि सानून्यथर्वाङ्गिरसश्च यज्ञे ब्रह्म च ब्राह्मणेभ्यः प्रणामयति तस्मादुध्यते प्रणवः । अथ कस्मादुष्यते सर्वव्यापी तस्मादुश्चार्यमाण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पकल पिण्डं शान्तमूलमोतं प्रोतमनुप्राप्य सर्व व्यतिशिष्टस्तस्यैवानुविद्धं व्यतिशिष्टस्तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एवाचन्तं नोपलभ्यतेतिर्यगूर्ध्वमधस्तात्तस्मादुष्यते ऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एवं गर्भजन्म जरामरण संसारमहद्भयात्संतारयति तस्मादुष्यते तारम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चायमाण एव सूक्ष्मो भूत्वा परशरीराण्येवाधितिष्ठति तस्मादुष्यते सूक्ष्मम् । अथ कस्मादुष्यते शुक्लं यस्मादुच्चार्यमाण एव लन्दते क्लामयते तस्मादुच्यते शुक्लम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव महति

590

तमसि सर्वं शरीरं विद्योतयति तस्मादुष्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म यस्मादुच्चार्यमाण एव बृहति बृह्मय तस्मादुच्यते परं ब्रह्म । अथ कस्मादुष्यत एको यस्सर्वान् लोकान् उद्गृहास्यजस्रं सृजति विसृजयति वासयति तस्मादुच्यत एकः । अथ कस्मादुच्यत एको रुद्र एक एव रुद्रो न द्वितीयाय तस्थुर्य इमान लोकान ईशत ईशनीयुर्जननियुः । प्रत्यञ्जनास्तिष्ठन्ति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता तस्मादुच्यत एको रुद्रः । अथ कस्मादुच्यत ईशानो यः सर्वाल्लोकानीशत ईशनीमिर्जननीमिः परमशक्तिमिः । अमित्वा शूरननुमो दुग्धा इव धेनवः । ईशानमस्य जगतसुत्रर्दशमीशानमिन्द्रतस्थुषः तस्मादुच्यत ईशानः । अथ कस्मादुच्यते भगवान् यः सम्भाणानीक्षत्यात्मज्ञानं निरीक्षयति योगं गमयति स एव तस्मादुच्यते

कमादुच्यते महेश्वरो यः सर्वान् लोकान् संभक्षस्सं भक्षयत्यजस्त्रं सुबति विसृजति बासयति तस्मादुच्यते महेश्वरः । अय कस्मादुष्यते महादेवो यस्सर्वान्भावान्परित्यज्यात्मज्ञान योगैश्वर्ये महति महीयते तस्मादुच्यते महादेवः । तदेतद्वचरितम् । एषो हि देवः प्रदिशोनु सर्वाः पूर्वो हि जातस्स उगर्भे भन्तः । स एव जातस्सजनिष्यमाणः प्रत्यञ्जनास्तिष्ठति विश्वतोमुखः । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् | संत्राहुभ्यान्धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः । तदेतदुपासितव्यम् । वाग्वदन्ति तदन्तर्ग्रहणम् । अयं पन्या वितत उत्तरेण येन देवा येन ऋषयो येन पितरः प्रामुवन्ति परमपदं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातवेदं वरेण्यम् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिश्शाश्वतीनेतरेषाम् । यो योनिं योनिमधितिष्ठत्येको येनेदं पूर्ण पचविधं च सर्वम् । तमीशानं पुरुषं देवमीड्यं निदिध्यायाचारं शान्तिमत्यन्तमेति । प्राणेष्वन्तर्मनसो लिङ्गमाहुर्यस्मिन् क्रोधो या च तृष्णाक्षमा च । तृष्णां छित्वा हेतुजालस्य मूलं बुद्धषा संचित्य स्थापयित्वा तु रुद्रे । रुद्र एकत्वमादुः । रुद्रं शाश्वतं वै पुराणमिष मूर्जन्त मसा नियच्छतु । व्रतमेतत्पाशुपतम् । अग्निरिति भस्म । वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्व ५

591

वाह इदं भस्म । मन इत्येतानि चक्षूंषि भस्मानि । अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् । तस्मादूब्रतमेतत्पाशुपतम् । पशुपाश विमोक्षाय योऽथर्वशिरसं ब्राह्मणो नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति । स सर्वभूतो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वेषु वेदेष्वघीतो भवति । स सर्ववेद चर्यासु चरितो भवति । सर्वदेवैर्ज्ञातो भवति । स सर्वक्रतुभिरिष्टवान्भवति । तेनेतिहास पुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । गायत्र्याश्शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति । रूपे रूपे दश पूर्वान्पुनाति । दशोत्तरानाचक्षुषः पङ्क्तिं पुनाति । इत्याह भगवानधर्वशिरोथर्वशिरः । सकृज्जप्त्वाशुचिः पूतः कर्मण्यो भवति । द्वितीयं जवा गाणापत्यमवाप्नोति । तृतीयं जप्त्वा देवमेवानुप्रविशतीत्यो सत्यम् । यो रुद्रो अग्नौ यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा विश्वा भुवनानि चक्लिपेतस्मै रुद्राय नमो अस्तु । अस्य मूर्धानमस्य स शीर्योऽथर्वा हृदयश्च मस्तिष्किादूर्ध्व प्रेरयन्पवमानोथर्वशीर्ष्णस्तद्वाथर्व शिरोदेवकोशस्समुज्झितस्तत्प्राणो अमिरक्षतु । श्रियमन्नमथो मनः श्रियमन्नमथो मनः । विद्यामन्नमथोमनो विद्यामन्नमथोमनः । मोक्षमन्नमयो मनो मोक्षमन्नमयो मनः इत्यो सत्यमित्युपनिषत् । भद्रङ्कर्णेभिरिति शान्तिः ।

1

इत्यथर्वशिरोपनिषत्समाप्ता ॥592

श्रीगुरुभ्यो नमः

पञ्चरुद्रेष्यथर्वशिखोपनिषत् - पृष्ठम् - ४९-५३

भद्रं कर्णेमिरिति शान्तिः

ओम् । अथ हैनं पैप्पलाद गिरास्सनत्कुमारश्चाथर्वण मुत्राच

भगवन्किमादौ प्रयुक्तं ध्यानं घ्यायितव्यं किं तत् ष्यानं को वा ध्याता कश्च ध्येयः स एभ्योप प्रत्युवाच । ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितथ्य मित्येतदक्षरं परं ब्रह्मास्य पादाश्चत्वारो वेदाश्चतुष्पादिदमक्षरं परं ब्रह्म पूर्वास्य म्यता पुथिव्यकारस्स ऋग्भिर्ऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः । द्वितीयान्तरिक्षस उकारस्स यजुर्भिर्यजुर्वेदो विष्णू रुद्रास्त्रिष्टुब्दक्षिणाग्निः । तृतीयाचौरसमकारस्तसामभिस्सामवेदो रुद्रा आदित्या जगत्याहवनीयः । यात्रसानेस्य चतुर्थ्यर्धमात्रा स सोमलोक ओंकारस्साथर्वणमंत्रैरथर्ववेदस्संवर्तकोऽग्निर्मरुतो विराडेकर्षिर्भास्वतीः स्मृताः । प्रथमा रक्तपीता महद्ब्रह्मदैवत्या । द्वितीया विधुमती कृष्णा विष्णु देवत्या । तृतीयाशुभाशुभा शुक्ला रुद्रदैवत्या । यावसानेस्य चतुर्थ्यर्थमात्रा विद्युमती सर्ववर्णा पुरुषदैवत्या । स एष योङ्कारः । चतुरक्षरश्चतुष्पादश्चतुश्शिरश्वतुरर्धमात्रस्थूलमेतदूधखदीर्घप्लुत इति । ओं १ ओं २ ओं ३ इति त्रिरुक्त्वा चतुर्थश्शान्त आत्मा प्लुतप्रणव प्रयोगेन समस्तमोमिति प्रयुक्त आत्मज्योतिस्सकृदावर्तते सकृदुच्चारितमात्र ऊर्ध्वमुन्नामयतीत्योङ्कारः । प्राणांत्सर्वान् प्रलीयत इति प्रलयः प्राणात्सर्वान् परमात्मनि प्रणामयतीत्येतस्मात् प्रणवः । चतुर्घावस्थित इति सर्वदेव वेदयोनिस्सर्ववाच्यवस्तु प्रणवात्मकम् ॥ १ ॥ देवाश्चेति सन्धत्तां सर्वेभ्यो दुःखभयेभ्यः सन्तारयतीति तारणात्तारः । सर्वदेवा: संविशन्तीति विष्णुः । सर्वाणि बृह्मयतीति ब्रह्म । सर्वस्यान्तः स्थानेभ्यो ध्येयेभ्यो प्रदीपवत् प्रकाशयतीति प्रकाशः । प्रकाशेभ्यः सदोमित्यन्तः शरीरे विद्युद्वत् योतयति मुहुर्मुहुरिति विद्युद्वत्प्रतीयादिशं दिशंमित्वा सर्वान् लोकान व्यामोति व्यापयतीति व्यापनाद्वयापी महादेवः ॥ २ ॥ पूर्वास्य मात्रा जागर्ति

593

जागरितं द्वितीया स्वमं तृतीया सुषुप्तिश्वतुर्थी तुरीयं मात्रा मात्रा: प्रतिमाश्रागतास्सम्यक्समस्तानपि पादपाञ्जयतीति स्वयंप्रकाशस्वयं ब्रह्मभवतीत्येष सिद्धिकर एतस्माद्ध्यानादौ प्रयुज्यते । सर्वकरणोपसंहारत्वाद्धार्यधारणाद्ब्रह्म तुरीयम् । सर्वकरणानि मनसि संप्रतिष्ठाप्य ध्यानं विष्णुः । प्राणं मनसि सहकरणैस्संप्रतिष्ठाप्य ध्यानाद्भुद्रः । प्राणं मनसि सहकरणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानं प्रध्यायितव्य ५ सर्वमिदं ब्रह्मविष्णुरुदेन्द्रास्ते संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सहभूतैर्नकारणं कारणानां ध्याता कारणं तु ध्येयस्सर्वैश्वर्यसंपन्नस्सर्वेश्वरश्शम्भुराकाशमध्ये ध्रुवंस्तब्ध्वाधिकं क्षणमेकं ऋतुशतस्यापि चतुस्सप्तत्या यत्फलं तदवाप्नोति कृत्स्नमोङ्कारगतिश्च स्वरध्यानयोग ज्ञानानां यत्फलमोङ्कारो वेदपर ईशो वा शित्र एको ध्येयश्शिवङ्करस्सर्वमन्यत् परित्यज्य समस्ताथर्वशिखैतामचीत्य द्विज्जो गर्भवासा द्विर्मुक्तो विमुच्यत एतामधीत्य द्विजो गर्भवासा द्विमुक्तो विमुच्यत इत्यो सत्यमुपनिषत् । भद्रं कर्णेमिरिति शान्तिः ।

इत्यमर्षशिसोपनिषत् ॥

P-76

594

कैवल्योपनिषत् - पृष्टम् - २८२

अत्याश्रमस्थ-

हरिः ओम् । सहनाववत्विति शान्तिः । अथाश्वलायनो भगवन्तं परमेष्ठिनं परिसमेत्योवाच । अवीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिस्सेव्यमानां निगूढाम् । यया चिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान । तस्मै सहोवाच पितामहश्च श्रद्धाभक्ति ध्यानयोगादवेहि । न कर्मणा न प्रजयाघनेनत्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विधानदेतयतयो विशन्ति । वेदान्तविज्ञान सुनिश्चितार्थास्सन्यासयोगापत्तयशुद्धसत्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे । निमिकदेशे च सुखासनस्थश्शुचिस्समग्रीत्र शिरश्शरीरः । स्सकलेन्द्रियाणि निरुद्धय भक्त्या स्वगुरुं प्रणम्य । हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् । अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्त-

1 ममृतं ब्रह्मयोनिम् । तदादिमध्यान्तविहीनमेकं विभुं चिदानन्दरूपमद्भुतम् | उम्यसहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति मूतयोनिं समस्तसाक्षिन्तमसः परस्तात् । स ब्रह्म स शिवस्सेन्द्रः सोऽक्षरः परमस्वराट् । स एव विष्णुस्सप्राणस्सकालोनिल्सचन्द्रमाः । स एव सर्व वद्भूतं यच्चभव्यं सनातनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्या विमुक्तये । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । संपश्यन् ब्रह्मपरमं याति नान्येन हेतुना । आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः । स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । रूयन्नपानादिविचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति । स्वप्ने तु जीवस्सुख दुःखभोक्ता स्वमायया कल्पित विश्वलोके । सुषुप्तिकाले सकले विलीने तमोमिमूतस्सुखरूपमेति । पुनश्च जन्मान्तर कर्मयोगात्स एव जीवः खपिति प्रबुद्धः । पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् | आधार - मानन्द मखण्डबोधं यस्मिन् लयं याति पुरत्रयश्च । एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी । यत्परं

595

ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेवत्वमेव तत् । जाग्रत्स्वम सुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते । त्रिषु धामसु यभोज्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिवः । मय्येव सकलं जातं मयि सबै प्रतिष्ठितम् । मयि सबै लयं याति तद्ब्रह्माऽद्वयमस्म्यहम् । अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि । अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्स शृणोम्यकर्ण: । अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् । वेदैरनेकैरहमेव वेद्यो वेदान्तवृद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति । न भूमिरापो मम वह्निरस्ति न चानिलोमेऽस्ति न चाम्बरश्च । एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् । समस्तसाक्षि सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् । यश्शतरुद्रीयमधीते सोऽग्निपूतो भवति । स्वर्णस्तेयात्पूतो भवति । सुराप नात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । कृत्याकृत्यात्पूतो भवति । तस्माद्विमुक्तमाश्रितो भवति । अत्याश्रमी सर्वदा सकृद्वा जपेत् । अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवं विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुते इति । सहनाववत्विति शान्तिः ||

कैवल्योपनिषत्समाप्ता ॥

596

अन्तरादित्यविद्यापृष्टम् - ४२०

य एषोऽन्तरावित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेव मक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । तस्य च साम च गेष्णै तस्मादुद्गीथस्तस्मात्त्वेवोद्गातेतस्य हि गाता स एष ये चामुष्मात्पराचो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥

अथाप्यानं जागेवर्क प्राणः साम तदेतदेतस्यामृष्यभ्यूढ ५ साम तस्मा-

साम गीयते । वागेव सा प्राणोमस्तत्साम ॥ १ ॥ चक्षुरेवर्गात्मा साम तदेतदेतस्यामृष्यष्यूढ ५ साम तस्मादृच्यन्यूढ ५ साम गीयते । चक्षुरेत्र साऽऽत्माऽमस्तत्साम ॥ २ ॥ श्रोत्रमेव नः साम तदेतदेतस्यामृच्यध्यूढ ५ साम तस्मादृष्यन्यूढ ५ साम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम ॥ ३ ॥ पत्तदक्षणः शुक्लं भाः सैवर्गथ यनीलं परः कृष्णं तत्साम तदेतदेतस्यामृष्यघ्यूढ साम तस्मादृष्यध्यूढ साम गीयते । अथ यदेवैतदणः शुक्लं भाः सैव साऽय यन्नीलं परः कृष्णं तदमस्तत्साम || ४ || अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैर्कतत्साम तदुक्थं तयजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्यरूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥ स एष ये चैतस्मादर्वाचो लोकास्तेषां चेष्टे मनुष्य कामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥ भय य एतदेवं विद्वान साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराश्वो लोकास्ता श्चाप्नोति देवकामाश्च ॥ ७ ॥ अथानेनैव ये चैतस्मादर्वाचो लोकास्ताश्वाप्नोति मनुष्यकामा५श्च तस्मादुहैवं विदुद्गाता मागायानीत्येष क्षेव कामागानस्येष्टे य एवं गायति ॥ ९ ॥

ब्रूयात् ॥ ८ ॥ कं ते काम विद्वान्साम गायति साम

597

मधुविद्या - पृष्टम् - ४७५

ब असौ वा आदित्यो देवमधु तस्य बौरेब तिरश्चीन वशोऽन्तरिक्षमधूपो मरीचयः पुत्राः ॥ १ ॥ तस्य ये प्राचो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एत्र मधुकृत ऋग्वेद एवं पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥ एवमृग्वेद मभ्यतप ५ स्तस्यामितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य ५ रसोऽजायत ॥ ३ ॥ तचक्षरत्तदादित्यममितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहित रूपम् ॥ ४ ॥

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥ तानि वा एतानि यजूंष्येतं यजुर्वेद मभ्यतपरस्तस्यामितप्तस्य यशस्तेज इन्द्रियं वीर्यमनाद्यरसोऽजायत ॥ २ ॥ तम्बक्षरसदाविष्यममितोऽश्रमत्तद्वा एतबदेतदादित्यस्य शुक्ल

रूपम् ॥ ३ ॥

अथ येऽस्य प्रत्मश्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ तानि वा एतानि सामान्येत ५ सामवेदमभ्यतपरस्तस्यामितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य ५ रसोऽजायत ॥ २ ॥ तयक्षरत्तदादित्यममितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं

कृष्ण रूपम् ॥ ३ ॥

अथ येऽस्योदनो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥

॥ ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपरस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाधरसोऽजायत ॥ २ ॥ तबक्षर तदावित्यमभितोऽश्रयत्वा एतद्यदेतदादित्यस्य परं

कृष्णरूपम् ॥ ३ ॥

598

अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ष्या मधुनाड्योगुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥ ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥ तम्येक्षरत्तदादित्यममितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इत्र ॥ ३ ॥ ते वा एते रसानारसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा अमृतास्तेषामेतान्यमृतानि ॥ ४ ॥

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै वेदा अश्नन्ति न पित्रन्त्येतदेवामृतं दृष्ट्टा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्ये तस्माद्रूपादुचन्ति ॥ २ ॥ स य एतदेवममृतं वेदत्रसूनामेवैको भूत्वाऽग्निनैव मुनदेवतंय्य तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेत्र तावदाधिपत्य ५ खाराज्यं पर्येता ॥ ४ ॥

अथ यद्दितीयममृतं तद्बुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येत देवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुस्तेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाविपत्यखाराज्यं पर्येता ॥ ४ ॥

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्ा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेदादित्यानामेवको मूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्मादुपादुदेति ॥ ३ ॥ स याबदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेताऽऽदित्यानामेव तावदाधिपत्यस्वाराज्यं पता ॥ ४ ॥

599

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पित्रन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपममिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेव ममृतं वेद मरुता मेत्रको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्मादुपादुदेति ॥ ३ ॥ स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोस्त मेता मरुतामेव तावदाधिपत्यस्वाराज्यं पर्येता ॥ ४ ॥

अथ यत्पश्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्ये तदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपममि - संविशन्त्येतस्माद्रूपादुच्चन्ति ॥ २ ॥ स य एतदेक्ममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैत देवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रपादुदेति ॥ ३ ॥ स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्व उदेताऽर्वास्तमेता साध्यानामेव तावदाधिपत्यखाराज्यं पर्येता ||४||

अथ तत ऊर्ध्वं उदेत्यने नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेव श्लोकः ॥ १ ॥ न वै तल न निम्लोचनोक्यिाम कदाचन । देवास्तेनाह सत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥ न ह वा अस्मा उदेति न निम्लोयति सकृदिवा हैवास्मै भवति स एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥ तद्वैतद्वसा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्वैतदुद्दालकायारुणये ज्येष्टाय पुत्राय पिता ब्रह्म होवाच ॥ ४ ॥ इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाध्याय वाऽन्तेवासिने ॥ ५ ॥ नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥६॥

600

गायत्रीविद्यापृष्टम् -४७९

ओं गायत्री वा इद सर्व भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इद सर्व भूतं गायति च त्रायते च ॥ १ ॥ या वै सा गायत्रीयं वाघ सा येयं पृथिव्यस्था ही सर्व भूतं प्रतिष्ठितमेतामेत्र नातिशीयते ॥ २ ॥ या वै सा पृथिवीयं वाव सा यदिद मस्मिन् पुरुषे शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥ यदैतत्पुरुषे शरीरमिदं वात्र तद्यदिद मस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥ सैघा

षड् विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ५ ॥ तावानस्य महिमा पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥ वाव तयोऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥ अयं वाव स योऽयमन्तः पुरुष आकाशो यो वे सोऽन्तः पुरुष आकाशः ॥ ८ ॥ अयं वा स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णमप्रवर्तिमीत्रियं लभते य एवं वेद ॥ ९ ॥

शाण्डिल्यविद्या - पृष्टम् - ४८१

ओं सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाऋतु रस्मिल्ँलोके पुरुषो भवति तथेतः प्रेत्य भवति स ऋतुं कुर्वीत ॥ १ ॥ मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यातोऽवाक्यनादरः ॥ २ ॥ एत्र म आत्माऽन्तर्हृदयेऽणीयान्त्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक तण्डुलाद्वा एष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्याया - नेम्यो लोकेभ्यः ॥ ३ ॥ सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोSवाक्यनादर एष म आत्माऽन्तर्हृदय एतद्रद्वैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति हस्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥

601

उपकोसल विद्या

उपकोसलो इ वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन्परिचचार स ह स्माऽन्यानन्तेवासिनः समावर्तयस्त हस्मैव न समावर्तयति ॥ १ ॥ तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मात्वाऽमयः परिप्रवोचन्प्रब्रह्मस्मा इति तस्मै हाम्रोच्यैव प्रवासांचक्रे ॥२॥ सह व्याविनाऽनशितुं दघे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिमिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥ अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥ प्राणो ब्रह्मकं ब्रह्मखं ब्रह्मेति सहोवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एत मेवं विद्वानुपास्तेऽपहते पापकृत्यां छोकीभवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुङ्खामोऽस्मिश्च लोकेऽमुष्मिश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥

अथ हैन मन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भत्रति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥

अथ हैन माहवनीयोऽनुशशास प्राण बाकाशो बौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाह मस्मीति ॥ १ ॥ स य एतमेवं

F-76602

विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग् जीवति नास्यावर - पुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिच य एतमेवं विद्वानुपास्ते ॥ २ ॥

ते होचु रुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्याचाचार्यस्तु ते गतिं क्केत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल ३ इति ॥ १ ॥ भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वाऽनुशशासेति को नु माऽनुशिष्याद्भो इतीहापेव निहुत इमे नून मीदृशा अन्यादृशा इतीहानी - नभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥ इदमिति ह प्रतिजज्ञे लोकान् वाम किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवं विदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥

सनत्कुमारविद्या

ओं। अधीहि भगव इति होपससाद सनत्कुमारं नारदस्त होवाच यद्वस्थ तेन मोपसीद ततस्त ऊर्ध्व वक्ष्यामीति स होवाच ॥ १ ॥ वेदं भगवोऽध्येमि यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य राशि देवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्या सर्पदेव जनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥ सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छुतंश्येव मे भगवद्दृशेम्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति त होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥ नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणचतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्योराशि देवो निधिर्वाकोवाक्य मेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्वदेव-

603

जनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥ स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नोगतं तत्त्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेद सामवेद मथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य राशि दैवं निर्धि वाकोवाक्यमेकायनं देववियां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्या सर्वदेव जनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाश्च मनुष्याश्च पशूश्च वयासि च तृणवनस्पती ञ्छ्वापदान्या कीटपतङ्गपिपीलकं धर्मं चाधर्म च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चा हृदयज्ञं च यद्वै षाड्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्व विज्ञापयति वाचमुपास्रवेति ॥ १ ॥ स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचोगतं तत्रास्य यथा कामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाघ भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

इति सप्तमाध्याये द्वितीयः खण्डः ॥

मनो बाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाऽक्षी मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानवीयीयेत्ययाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राश्च पशूरक्षेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनोह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥ स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथा कामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥

इति सप्तमाध्याये तृतीयः खण्डः ॥

संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ मनस्यन्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥ तानि ह

604

वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि समक्ऌपतां यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषां संक्लृप्त्यै वर्ष संकल्पते वर्षस्य संक्लृप्त्या अन्न ५ संकल्पतेऽनस्य संक्लृप्त्यै प्राणाः संकल्पन्ते प्राणाना संक्लृप्त्यै मन्त्राः संकल्पन्ते मन्त्राणा संक्लृप्त्यै कर्माणि संकल्पन्ते कर्मणा संक्लृप्त्यै लोकः संकल्पते लोकस्य संक्लृप्त्यै सर्व५ संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ २ ॥ स यः संकल्पं ब्रह्मेत्युपास्ते क्लृप्तान्वै लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽमिसिध्यति यावत्संकल्पस्य गतं तन्नास्य यथा कामचारो भवति यः संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पानूय इति संकल्पाद्वात्र भूयोऽस्तीति तन्मे भगवान्नावीत्विति ॥ ३ ॥

इति सप्तमाध्याये चतुर्थः खण्डः ||

चित्तं वाव संकल्पाद्भूयो यदा वै चेतयतेऽय संकल्पयतेऽथ मनस्यत्यय वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥ तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाडुर्यदयं वेद यद्वा अयं विद्वान्नेत्थ चित्तः स्यादित्यथ यद्यल्पविश्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्तह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥ स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकात् धुत्रान् धुत्रः प्रतिष्टितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽमिसिद्धयति यावच्चित्तस्य गतं तत्रास्य यथा कामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वात्र भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥

इति सप्तमाध्याये पञ्चमः खण्डः ॥

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव बौ र्ध्यायन्तीत्रापो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादा शाश्वैव ते भवन्त्यथ येऽल्पाः कलहिनः

605

पिशुना उपवादिनस्तेऽय ये प्रभवो ध्यानापादाश्शाचैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥ स यो ध्यानं ब्रह्मेत्युपास्ते यावद्धयानस्य गतं तत्रास्य यथा कामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

इति सप्तमाध्याये षष्ठः खण्डः ||

विज्ञानं वाव घ्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद ५ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य राशि दैवं निधि वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्या सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाश्च मनुष्याश्च पशू५श्च वयाऽसि च तृण वनस्पतीच्चापदान्या कीटपतङ्गपिपीलकं धर्मं चाधर्म च सत्यं चानुतं च साधु चासाधु च हृदयचं चा हृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥ स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानक्तो वै स लोकाञ्ज्ञानवतोऽमिसिध्यति याषद्विज्ञानस्य गतं तत्रास्य यथा कामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वात्र भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २॥

इति सप्तमाध्याये सप्तमः खण्डः ॥

बलं वाय विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्ययोत्याता भवत्युतिष्ठन्परिचरिता भवति परिचरनुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयासि च तृणवनस्पतयः श्वापदान्याकीट पतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥ स यो बलं ब्रह्मेत्युपास्ते याबद्बलस्य गतं तत्रास्य यथा कामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

! इति सप्तमाध्याये अष्टमः खण्डः ॥

606

अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दशरात्रीर्ना श्रीयाद्यद्युह जीवेदथवाद्रष्टाऽश्रोता ऽमन्ताऽबोद्धा ऽकर्ताऽविज्ञाता भवत्ययान्नस्याऽऽयै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥ स योऽन्नं ब्रह्मेत्युपास्तेऽन्नक्तो वै सलोकान्पानवतोऽमिसिध्यति यावदन्नस्य गतं तत्रास्य यथा कामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाष भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

इति सप्तमाध्याये नवमः खण्डः ॥

आपो वावान्नाद्भूयस्यस्तस्माद्यद्वा सुवृष्टिर्नभवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च क्यासि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥ स यो पो ब्रह्मेत्युपास्त आप्नोति सर्वान् कामा स्तुप्तिमान्भवति यावदपांगतं तत्रास्य यथा कामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ इति सप्तमाध्याये दशमः खण्डः ॥

तेजो वावाद्द्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशममितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्व दर्शयित्वाथापः सृजते तदेतदूर्ध्वामिश्च तिरश्चीमिश्च विद्युद्भिराह्लादाश्वरन्ति तस्मादाहुर्विद्योततेस्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्व दर्शयित्वाऽथापः सृजते तेज उपास्स्वेति ॥ १ ॥ स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजखतो लोकान्भाखतोऽपहत तमस्कानमिसिद्धयति यावत्तेजसो गतं तत्रास्य यथा कामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥

इति सप्तमाध्याय एकादशः खण्डः ॥

607

आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विधुनक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत श्राकाशममिजायत आकाशमुपास्स्वेति ॥ १ ॥ स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोसंबाधानुरुगायवतोऽमिसिध्यति यावदाकाशस्य गतं तत्रास्य यथा कामचारोभवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वात्र भूयोस्तीति तन्मे भगवान्वत्विति ॥ २ ॥

इति सप्तमाध्याये द्वादशः खण्डः ॥

स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन् यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्त्रीरनथ विजानीरन स्मरेण वै पुत्रान्विजानाति स्मरेण पशून् स्मरमुपास्स्वेति ॥ १ ॥ स यः स्मरं मझेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यया कामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मरादूभूय इति स्मराद्वाव भूयोस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

इति सप्तमाध्याये त्रयोदशः खण्डः ॥

आशावान स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राश्च पशूचेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥ स य आशां ब्रह्मेत्युपास्त आशयाऽस्य सर्वे कामा: समृद्धयन्त्यमोघाः हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यया कामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशायाभूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

इति सप्तमाध्याये चतुर्दशः खण्डः ॥

प्राणो वा आशामा भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन प्राणे सर्व ५ समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति

608

प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः खसा प्राण आचार्यः प्राणो

ह ब्राह्मणः ॥ १ ॥ स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्य वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याहविक्त्या ऽस्त्वित्येवैनमाडुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि खसहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥ अथ यद्यप्येनानुत्कान्तप्राणान् शूलेन समासं व्यतिषंदहेन्नैवं ब्रूयुः पितृहाऽसीति मातृहाऽसीति न भ्रातृहाऽसीति न स्वसृहाऽसीति नाचार्यहाऽसीति न ब्राह्मणाऽसीति ॥ ३ ॥ प्राणो होत्रैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाच्चसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ४ ॥

इति सप्तमाध्याये पञ्चदशः खण्डः ॥

एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥

इति सप्तमाध्याये षोडशः खण्डः ॥

यदा वै विजानास्यथ सत्यं वदति नाविजानन् सत्यं वदति विजानन्नेत्र सत्यं वदति विज्ञानंत्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥

इति सप्तमाध्याये सप्तदशः खण्डः ॥

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मर्ति भगवो विजिज्ञास इति ॥ १ ॥

इति सप्तमाध्याये अष्टादशः खण्डः ॥

यदा वै श्रदधात्यथ मनुते नाश्रद्दधन्मनुते श्रदधदेव मनुते श्रद्धात्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥

इति सप्तमाध्याय एकोनविंशः खण्डः ||

609

यदा वै निस्तिष्ठत्यथ श्रदधाति नानिस्तिष्ठश्रदधाति निस्तिष्ठनेत्र श्रद्दधाति निष्ठात्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥

इति सप्तमाध्याये त्रिंशः खण्डः ॥

यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति वृतिस्त्वेत्र विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ १ ॥

इति सप्तमाध्याय एकविंशः खण्डः ॥

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्नान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमय यदपं तन्मर्त्य स भगवः कस्मिन्प्रतिष्टित इति स्वे महिनि यदि वा न महिम्नीति ॥ १ ॥ गो अमिह महिमेत्याचक्षते इस्ति हिरण्यं दासभार्य क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्यो अन्यस्मिन्प्रतिष्ठित इति ॥ २ ॥ इति सप्तमाध्याये चतुर्विंशः खण्डः ॥

स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वमित्ययातोऽहङ्कारादेश एवाइमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेद सर्वमिति ॥ १ ॥ अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्वादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेद सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मकीड आत्ममिथुन आत्मानन्दः स खराट् भवति तस्य सर्वेषु लोकेषु कामचारो भवति । अथ येऽन्यथा तो विदुरन्यराजानस्ते क्षश्यलोका भवन्ति तेषा सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥

इति सप्तमाध्याये पश्चविंशः खण्डः ॥

तस्य ह वा एतस्यैव पश्यत एवं मन्वानस्येवं विजानत आत्मतः प्राण आत्मतः भाशाऽऽत्मतः स्मर भात्मत नाकाश आत्मतस्तेज आत्मत आप

F-77

610

आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामाऽऽत्मतो मन्त्रा

आत्मतः कर्माण्यात्मत एवेद सर्वमिति ॥ १ ॥ तदेव श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखता ५ सर्व ५ ह पश्यः पश्यति सर्वमामोति सर्वश इति स एकधा भवति विधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च वि शति राहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ धुत्रास्मृतिः स्मृतिलम्मे सर्वप्रथीनां विप्रमोक्षस्तस्मै मृदित कषायाय तमसस्पारं दर्शयति भगवान्सनत्कुमारस्तस्कन्द इत्याचक्षते त ५ स्कन्द इत्याचक्षते ॥ २ ॥

इति सप्तमाध्याये षडिशः खण्डः ॥

दहरविद्या

अष्टमोऽध्यायः ॥

ओं अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥ तं चेदूब्रूयुर्यदिदमस्मिन्त्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदन ं विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥ यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उमे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सबै तदस्मिन्समाहितमिति ॥ ३ ॥ तं चेदूंद्रूयुर स्मि चेदिदं ब्रह्मपुरे सर्व ५ समाहित ५ सर्वाणि च भूतानि सर्वे च कामा यदेतज्जरा मानोति प्रध्वसते वा किं ततोऽति शिष्यत इति ॥ ४ ॥ स ब्रूयान्नास्य जरयैतज्जीर्यति न वघेनास्य इन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्क मा : समाहिता एष

611

आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सस्यसंकल्पो यथाह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तममिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेत्रोपजीवन्ति ॥ ५ ॥ तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येताश्श्च सत्यान् कामा “स्तेषा सर्वेषु लोकेष्वकामचारो भवत्यय य इहात्मानमनुविद्य व्रजन्त्येताश्श्च सत्यान् कामास्तेषा सर्वेषु लोकेषु कामचारो भवति ॥ ६॥

इत्यष्टमाध्याये प्रथमः खण्डः ॥

स यदि पितृलोक कामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते ॥ १ ॥ अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महीयते ॥ २ ॥ अथ यदि भ्रातृलोक कामो भवति संकल्पाचेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन संपन्नो महीयते ॥ ३ ॥ अय यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयते ॥ ४ ॥ अथ यदि सखिलोक कामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन संपन्नो महीयते ॥ ५ ॥ अथ यदि गन्धमाल्य लोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्य लोकेन संपन्नो महीयते ॥ ६ ॥ अथ यद्यन्नपान लोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपान लोकेन संपन्नो महीयते ॥ ७ ॥ अथ यदि गीतवादित्र लोककामो भवति संकल्पादेवास्य गीतवादिले समुत्तिष्ठतस्तेन गीतवादित्र लोकेन संपन्नो महीयते ॥ ८ ॥ अथ यदि स्त्रीलोक कामो भवति संकल्पा देवास्य स्त्रियः समुत्तिष्टन्ति तेन स्त्रीलोकेन संपन्नो महीयते ॥ ९ ॥ यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते ॥ १० ॥

इत्यष्टमाध्याये द्वितीयः खण्डः ॥612

त इमे सत्याः कामा अनृतापिधानास्तेवार सत्याना सता मनृतमपिधानं यो यो ह्यस्येतः प्रति न तमिह दर्शनाय लभते ॥ १ ॥ अथ ये चास्येद जीवा ये च प्रेता यथान्यदिच्छन्न लभते सर्व तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनुतापिधानास्तथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सारन्तो न विदेयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दनमनृतेन हि प्रत्यूढाः ॥ २ ॥ स वा एष आत्मा हृदि तस्यैतदेव निरुक्तहृच्चयमिति तस्माद्धृदय महरहर्वा एवं बित्स्वर्ग लोकमेति ॥ ३ ॥ अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्याय परंज्योतिरुपसंपद्य स्वेन रूपेणामिनिव्पयत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥ तानि ह वा एतानि त्रीण्यक्षराणि सत्तीयमिति तत्सत्तदसुतंमय यन्ति तन्मार्यमय यथं तेनोमेयच्छति यदनेनोमे यच्छति तस्माद्यमहरहर्षा एवं वित्स्वर्गलोकमेति ॥ ५ ॥

इत्यष्टमाध्याये तृतीयः खण्डः ॥

सुवर्णधर्मानुवाकः

सुवर्ण धर्म परिवेद वेनम् । इन्द्रस्यात्मानं दशधा चरन्तम् । अन्तः समुद्रे मनसा चरन्तम् । ब्रह्माऽन्वविन्दद्दशहोतारमर्णे । अन्तः प्रविष्टः शास्ता जनानाम् । एकः सन् बहुधा विचारः । शत शुक्राणि यत्तैकं भवन्ति । सर्वे वेदा यत्रैकं भवन्ति । सर्वे होतारो यत्रकं भवन्ति । स मानसीन

आत्मा जनानाम् ॥

अन्तः प्रविष्टः शास्ता जनाना सर्वात्मा । सर्वाः प्रजा यत्रैकं भवन्ति । चतुर्होतारो यत्र सम्पदं गच्छन्ति देवैः । स मानसीन आत्मा जनानाम् । ब्रह्मेन्द्रममं जगतः प्रतिष्ठाम् । दिव आत्मान र सवितारं बृहस्पति । चतुहोतारं प्रदिशोनुक्ऌप्तम् । वाचो वीर्यं तपसाऽन्वविन्दत् । अन्तः प्रविष्टं कर्त्तारमेतम् । त्वष्टाररूपाणि विकुर्वन्तं विपश्चिम् ॥

613

अमृतस्य प्राणं यज्ञमेतम् । चतुर्होतॄणामात्मानं कक्यो निखिक्युः । अन्तः प्रविष्टं कर्तारमेतम् । देवानां बन्धुनिहितं गुहासु । अमृतेन क्लृप्तं यज्ञमेतम् । चतुर्होतॄणामात्मानं कत्रयो निचिक्युः । शतं नियुतः परिवेद

विश्वा विश्ववारः । विश्वमिदं वृणाति । इन्द्रस्यात्मा निहितः पञ्चहोता । अमृतं

देवानामायुः प्रजानाम्, ॥

इन्द्र राजान सवितारमेतम् । वायोरात्मानं कवयो निचिक्युः । रश्मि रश्मीनां मध्ये तपन्तम् । ऋतस्य पदे कवयो निपान्ति । य आण्डकोशे भुवनं बिभर्ति । अनिर्भिणः सन्नथ लोकान् विचष्टे । यस्याण्डकोश ५ शुष्ममाहुः प्राणमुल्बम् । तेन क्लृप्तोऽमृतेनाहमस्मि । सुत्रर्ण कोश ५ रजंसा परीवृतम् । देवान वसुधानी विराजम् ॥

अमृतस्य पूर्णां तामु कलां विचक्षते । पाद षड्ढोतुर्न किलाविवित्से । येनर्त्तवः पश्चधोत क्ऌताः । उतवा षड्ढा मनसोत क्लृप्ताः । तमड्ढोतारमृतुमिः कल्पमानम् । ऋतस्य पदे कवयो निपान्ति । अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । स हैव सन्तं न विजानन्ति

देवाः । इन्द्रस्यात्मान शतधा चरन्तम् ||

इन्द्रो राजा जमतो य ईसे। सतहोता सप्तधा विक्लृप्तः । परेण तन्तुं परिषिच्यमानम् । अन्तरादित्ये मनसा चरन्तम् । देवाना ५ हृदयं ब्रह्मान्वविन्दत् । ब्रह्मेतद्ब्रह्मण उज्जभार । अर्क श्वोतन्तर सरिरस्य मध्ये | आ यस्मिन् सप्त पैरवः । मेहन्ति बहुला ५ श्रियम् । बहश्वामिन्द्र गोमतीम् ||

अच्युतां बहुला ५ श्रियम् । स हरिर्वसुवित्तमः । पेरुरिन्द्राय पिन्वते । बह्रस्वामिन्द्र गोमतीम् । अच्युतां बहुला श्रियम् । महामिन्द्रो नियच्छतु । शत शता अस्य युक्ता हरीणाम् । अर्वाडयातु वसुमीरश्मिरिन्द्रः । प्रमहमाणो बहुला श्रियम् । रश्मिरिन्द्रः सविता मे नियच्छतु ॥

घृतन्तेजो मधुमदिन्द्रियम् । मव्ययमग्निर्दधातु । हरिः पतङ्गः पटरी सुपर्णः । दिविक्षयो नभसा य एति । स न इन्द्रः कामवरं ददातु । पश्चारं

614

चक्रं परिवर्तते पृथु । हिरण्यज्योतिः सरिरस्य मध्ये | अजस्रं ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु । सप्त युञ्जन्ति रथमेकचक्रम् ॥

एको अश्वो वहति सप्तनामा । त्रिनामि चक्रमजर मनर्वम् । येनेमा विश्वा भुवनानि तस्थुः । भद्रं पश्यन्त उपसेदुरप्रे । तपो दीक्षामृषयः सुबर्विदः । ततः क्षत्रं बलमोजश्च जातम् । तस्मै देवा श्वेत रश्मि बोभुज्यमानम् । अपान्नेतारं भुवनस्य गोपाम् । परमे व्योमन् ॥

अमिसनम्तु |

इन्द्रं निचिक्युः

रोहिणी : पिङ्गला एकरूपाः । क्षरतीः पिङ्गला एकरूपाः । शत‍ सहस्राणि प्रयुतानि नाव्यानाम् । अयं यः श्वेतो रश्मिः । परि सर्वमिदं जगत् । प्रजां पशून् धनानि । अस्माकं ददातु । श्वेतो रश्मिः परि सर्व बभूव । सुवन मह्यं पशून् विश्वरूपान् । पतङ्गमक्तमसुरस्य मायया ॥

हृदा पश्यन्ति मनसा मनीषिणः । समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधसः । पतङ्गो वाचं मनसा विभर्त्ति । तां गन्धर्वोवदर्भे अन्तः । तां द्योतमानास्वर्य मनीषाम् । ऋतस्य पदे कवयो निपान्ति । ये प्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । अग्निस्ता अग्रे प्रमुमोक्तु देवः ||

प्रजापतिः प्रजया संविदानः । वीतश्स्तुकेस्तुके ।

युत्रमस्मासु नियच्छतम् । प्र प्र यज्ञपतिन्तिर । ये प्राम्याः पशवो विश्वरूपाः । विरूपाः

सन्तो बहुधैकरूपाः । तेषा सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय

1

सुवीर्याय । य आरण्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । वायुस्ता अम्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः । इडायै सृप्तं घृतच्चराचरम् । देवा अन्वविन्दन् गुहाहितम् । य आरण्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । तेषा सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥

615

पुरुषसूक्तम्

सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो बृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । पुरुष एवेद सर्वम् । यद्भूतं यच भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति । एतावानस्य महिमा । अतोज्याया५श्च पूरुषः ||

पादोस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैत् पुरुषः । पादोस्येहाऽऽभवात् पुनः । ततो विश्वङ्यक्रामत् । साशनानशने अमि । तस्माद्विराडजायत । विराजो अघि पूरुषः । स जातो अत्यरिच्यत ।

1 पश्चाद्भूमिमयो पुरः ॥

यत् पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मः शरद्धविः । सप्तास्यासन् परिधयः । त्रिः सप्त समिधः कृताः । देवा यचज्ञं तन्वानाः । अबध्नन् पुरुषं पशुम् । तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः ॥

तेन देवा अयजन्त । साध्या ऋषयश्च ये । तस्माबज्ञात् सर्वहुतः । सम्भृतं पृषदाज्यं । पशु स्तावके वायव्यान । आरण्यान् ग्राम्याश्च ये । तस्माद्यज्ञात् सर्वहुत: । ऋचः सामानि जज्ञिरे । छन्दा ४ सि जज्ञिरे तस्मात् । यजुस्तस्मादजायत |

तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजाक्यः । यत् पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते । ब्राह्मणोस्य मुखमासीत् ।

बाहू राजन्यः कृतः ॥

ऊरू तदस्य यद्वैश्यः । पद्भया शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च ।

प्राणाद्वायुरजायत ।

616

नाभ्या आसीदन्तरिक्षम् । शीष्ण बौः समवर्तत । पद्भयां भूमिर्दिशः श्रोत्रात् । तथा लोका५ प्रकल्पयन् ॥

वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचिन्त्य धीरः । नामानि कृत्वामिवदन् यदास्ते । धाता पुरस्तायमुदाजहार । शक्रः प्रविद्वान् प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन । ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः ||

I.

उत्तर नारायणानुवाकः

अद्भयः संभूतः पृथिव्यै रसाञ्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत् पुरुषस्य विश्वमाजानमग्रे । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय । प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते ॥

तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः । यो देवेभ्य आतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये । रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् । यस्त्वैवं

। ब्राह्मणो विद्यात् । तस्य देवा असन् वशे । ह्रीश्च ते लक्ष्मीश्च पत्लयौ । अहोरात्रे पावे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् । इष्टं मनिषाण । अमुं मनिषाण । सर्व मनिषाण ॥

शुद्धाशुद्ध पत्रिका

पृष्टं पक्तिः अशुद्धम्

शुद्धम्

2

24 एकैकवाक्ये

8

16 शाखायाम्

एकैकवाक्य

शाखायाम्

6

3

प्राप्ताविधि

प्राप्त विधि

11

10

प्रकरणाः

प्रकरण

18 2

रात्रि

रात्री

17 17

बर्हिः

बर्हिः

20 9

अनुदानादिति

अनुशासनदर्शनादिति

81 8

निर्धार्य

निर्धार्यम्

82 7

सतं

ऽस्तं

88 14 भूप्रामत्य

भूतग्रामस्य

48 8 चतुरवर्ती

चतुरक्त्ती

3

पंचावर्तेव

पंचावत्त्यैव

44

4

सत्र

अत्र

18

विषयः

विषया

"

46 17 नासीदति

न सीदति

47 6

नार्मेषा

नामैषा

11

धृतं

ध्रुवं

19

प्रात्य

प्राप्यत्व

:=

48

حر

4

दृष्टय

विष्णव

49 1

मनाय

मैत्राय

51 18

ऊर्ध्व

ऊर्ध्व

19

व्यवेहिते

व्यवहिते

53 13

मनुर्वचन

मनुवचन

F-78

पृष्टं पङ्क्ति अशुद्धम्

2

शुद्धम्

55 2

धातु प्रसादा

धातुः प्रसादा

60 5

मदुप्र

मुदप्र

61

6

कल्पनया

कल्पनायाः

63 1

पृष्टैरूप

पृष्टैरुप

64 10

वासुदेवो

वासुदेवे

66

21

त्याधिकरणे

त्यधिकरणे

228

68

21

तदि

यदि

70

2

सहस्रीर्ष

सहस्र शीर्ष

71

8

ब्राह्मणं

ब्रह्माणं

11

अथ संभव:

अब्जर्सभवः

72 18

रूपायमपर

रूपायामपर

73 10

कात्स्ने

का

76 5

वायव्यासीत्यत्र

वायव्याखित्यत्र

79 1

दिष्नुसंधेय

विषसंचेय

88 12

वेस्यस्य

वेत्यस्य

85

5

परमात्मद्याम्ना

परममात्मताद्याम्ना

89 1

स्योदयसम

स्योयोद्देश्यसम

95 24

विधि

विद्धि

104 2

भगवत्प्रणव

भगवप्रवणत्व

106 4

तस्यायमात्मा

यस्यायमात्मा

109 9

प्रदर्शन

प्रतर्दन

110 8

एवं

एतं

111 9

तद्वारा

तद्वारा

118 22

सौ भ वध

सौभद्रवध

119 4

वेद वेद्या

वेद विद्या

पृष्टं पङ्क्तिः अशुद्धम्

120 2 म्यगाचार

3

शुद्धम्

म्यगाचर

122 1

तदाशाया मिज्ञान

तदाशयाभिज्ञान

128 15

माश्रिय

माश्रय

125 12 समवन्तर:

समनन्तरः

126 8

उद्भूतासि

129 1

श्रियैर्मरुतो

उद्धृतासि श्रियैमरुतो

180 15 वरां

वरं

137 3

उपस्थिता

उपस्थिति:

140 11

पर्य वेदितव्यं

परिवेदितव्यं

141 20

मनान्मुनि

मननान्मुनि

24

महत्वी

महत्व

143 8

वव्यवत्व

वस्यत्व

150

1

गतनिनिवतैति

गताः न निवर्तन्ति

151 6 सुदर्शनमिदं

सुदुर्दर्शमिदं

152 15

सवयं

स्वयं

155

co

वकल्प

बैकल्प

180

4

प्रतितेः

प्रतीतेः

165

8

हवयमहिष्णु

हैश्वर्य सहिष्णु

188

4 मुखमाश्रय

मुख्यमाश्रय

173 13

नारायणात्मा

नारायण: आत्मा

186 20

वाक्यस्यर्थः

वाक्यस्यार्थः

189 7

सहितस्सोम

सहित सोम

190 9

र्गानिकतृत्व

र्गानिकर्तृत्व

192 8

शिव

शिव:

194 15

पृदिव्याङ्गेषु

पृथिव्यङ्गेषु

पृष्टं पङ्किः अशुद्धम्

4

शुद्धम्

197 13

त्म्यभिप्राये

त्म्यामिप्राये

199 21

तया

तथा

201 11

सहस्रस्य

सहस्रास्यः

21

प्रभः

प्रभुः

207 14

णातेरूप

णातेरुप

210 5

शति

इति

211 16

मस्या

मस्याः

214 21

पासितव्यम्

पासितव्यम्

214 24

पुनरूप

पुरुरूप

219 9

दर्शना रूप

दर्शन रूप

228 7

परमपत

परमत

280 11

धम्यन्तरं

धर्म्यन्तरं

282 11

दू

वा

288 3

प्रार्थक

सार्थक

248 17

वीशनीशौ

वीशानीशौ

252 14 दुर्मति

दुर्मतिः

284 18

रहितावतर

रहितावांतर

285 5

व्यत्यनेन

व्यत्ययेन

289 5

हरति

हरतीति

14

प्रायेश्र

प्रायेश्रू

99

291 19 पृष्टा

29814, 15 पृष्ट

पृष्ठा

पृष्ठ

294 28

वस्तुम्

वक्तुं

295

15

वति

यन्ति

18

दाविक

दावेव

"

पृष्टं पङ्किः अशुद्धम्

शुद्भम्

298 17

सौबां

सोबा

निर्धारि

निर्धारि

19

नां

नाम्

"

297

5

सद्वैरूप्यं

वद्वैरूप्यं

299 7

ले अ

लअ

22 सस्या

सस्था

"

802

4

प्रतिक्ष

प्रतिपक्ष

12

नात्म

नामात्म

308

4

नय

नय

16

नःभूतः

नभूः

804

8

समोभ्याधिक

समोऽस्त्यभ्यधिकः

17

चतुर्घाय

चतुर्षाभ

"

805

8

गुणागुण

सगुणानुगः

9

सर्वोत

सर्गकरेन्त

807 11 केति

का इति

24

परी

परि

25

रत्य

करणस्य

19

808 14

मूर्तिमेव

809 8

णानन्तर

मूर्तमेव णोनन्तर

5

मान्याधिकरण

मानाधिकरण्य

"”

21

भाग

भग

810 18

धारिणाम्

धारिणम्

811 1

क्षरो

रंश्च

312

  1. सूक्ष्लार्थे

सूक्ष्मार्थं

19

नेन नैव

नेनै

“पृष्टं पङ्क्तिः अशुद्धम्

6

शुद्धम्

314 4 परमस्त

परस्त

16

कश्चि

कचि

815 11

कृत

कृत:

12

णेषु भूतेषु

णभूतेषु

817 17

भवता

भगवता

318

320

2 5

कल्वृत्त

आभूतस्सं

15

ऽनदत

99

822 8

शायित्वं

शयितत्त्वं

824 6

मिविष्ट

भिनिविष्ट

825 28

रकस

326 24

शांस्तु

शस्तु

381 6

वृतुर्लि

वृतुलि

393

12 कश्नो

15 धन्तन्तं

यन्तं

334 16

काभावी

कभावो

336 8

पद्मट

प्रचलद्वेषेण

12

प्रयां

प्रया

937 21

व्याद्दतमप्रसंचात्

व्याहतं

338 13

ऽनिर्यार्थ

ऽनिवार्यः

339 11

साङ्कीर्णा

संकीर्णाः

13

स्येत्यच

स्पेत्याच

“.

22

प्रवृद्ध

प्रवृत्त

19

340 10

लाषित

लषित

13

सत्य

सत्त्रं

"”

पृष्टं पति: अशुद्धम्

7

शुद्धम्

841 17 नात्ववत्

नवत्

343 19 लक्षण

लक्ष

845 19

पवत्रस्तु

नवस्तु

848 17

कारणा

करणा

848 22

दिष्ट

दिष्ट

849 7

मार्थ्यव

माय

8

ज्ञानत्वत्व

ज्ञानवत्व

850 16

काद्यतु

351 6

सुर

सुरः

352 21

माध्यस्थ

माध्यस्थ्य

355 8

ख्याना

ख्यान

5

ष्वेव

ष्वेवं

"

356 4

पतति

पततीति

357 10

गम्यतेति

गम्यत इति

876

न्यूदेशेन

न्यूदेशेन

389 12

जेतजस:.

जेतसः

395 11

न्येन

न्येचन

397 16

हरश्चैव

हरव

400 18

प्रयत

प्राहयत

426 7

वष्ठि

वष्टि

428 17

वद्वि

वद्धि

21

दितं

कृतं

487 13

सम

साम

449 6

घञवन्त

घञन्त

11

अतमा

अततमा

पृष्टं पङ्क्तिः अशुद्धम्

452 28 शब्दो

शुद्धम्

शब्द

457 20

भूयिष्ट

भूयिष्ठ

466 1

पृष्ठ

पृष्ट

468 11

स्मिन्ना

स्मिना

470 4

कौम

कौर्म

488 10

श्रोत्रं

श्रोत्तं

14

राजान्या

राजन्वा

99

20

एष ऽ

एषोऽ

484 15

शब्दा

शब्द

21

मितिविप्र

मितिप्र

"

485 12

अपहृत

अपहृत

486 24

धानर्हः

धनाई:

487 12

यदन्तदु

यदन्तस्तदु

488

8

मह

महे

497

9

सामाना

समाना

498

10

तथात्वाव्य

तयात्वव्य

8

ब्रह्मापर

ब्रह्मपर

502 19

याजवि

याजेत्रि

504 22

ष्टषु

ष्टसु

505

10

5

देवना

देवाना

9 ननत्वा

नत्वा

12

विकल्पप

विकल्प

509

6

हश्य

हत्य

11

क्षया

क्षाया

"”

510

7

गगनं

गहनं

पृष्टं पङ्किः अशुद्धम्

शुद्धम्

517 12

दिशश्च

दिशाश्च

भव्य जिज्ञासा

भव्यं जिज्ञास

13

"

ष्ठात्

ष्टात्

528 11

तभाव

धाव

525 5

स्ववत

स्वत

21

सामा

समा

19

528 9 परमा

परमं

533 12

कस्येत्य

कस्येत्या

536 12

हत्व

हृत्व

539 11

युगपान्मि

युगपन्मि

540 18

दिवत्त

दिवत्तु

22

बलासि

बलास्ति

"

546 20

बुध्धु

बुद्धयु

24

र्थन्वेन

र्थत्वेन

"

547 7

कृत

कृते

556 22

निषोधो

निषेधो

561 15

मोने:

मानै:

18

षष्टचा

षष्टया

563 17

सारेपान

सारेणसा

565 17

भवतितत्वात्

भावितत्वात्

571 18

न्यज्यानि

न्याज्या नि

572 8

प्रकृतिं

प्रकृत

4

विभागा

विभाग

7

आदिभ्यः

आदित्यः

6

निर्णयस्वार्थ

निर्णयार्थ

"”

पृष्टं पङ्किः अशुद्धम्

10

शुद्धम्

572 12

मनं

मत्तं

14

द्रयक्ष

द्वयक्ष

"

18

मृध्धै

मृद्धयै

"”

578 8

आदिर्ग

आदिन

8

ऽभवद्विती

अभवद्वितीय

"

12

दहषि

**

जुहषि:

576

6

इतिइति

इति

583

2

प्रीन्यति

प्रत्यति

5

कृस्त्वते

कृत्वस्ते

"

18

मिर्यहे

भिर्ययहे

"

584 15

इतीत्यस्य

इत्यस्य

20

सर्वान

सर्वन

99

578

अजस्य "

इत्यारभ्य श्रितं

142 18

अस्यां पं क्तौ "

इत्यंतं वाक्यं निष्कासनीयम् ।

भगवन् इत्यारभ्य ’ त्वान्’ इति पर्यंतं निष्कासि

तव्यम् ॥

पृष्टं पङ्किः अशुद्धम्

10

शुद्धम्

572 12 महं

मत्तं

14

द्वयक्ष

द्वयक्ष

D

18

मृधै

मृद्धयै

39

573

8

आदिर्ग

आदिन

9

ऽभवद्विती

अभवद्वितीय

12

हहृषि

शुद्धहषि:

576

6

इति - इति

इति

588

25

प्रीन्यति

प्रत्यति

कृस्त्वते

वृत्वस्ते

18

मिर्यहे

मिर्ययहे

584 15

इतीत्यस्य

इत्यस्य

20

सर्वान

सर्वन

573

अस्यां पं क्तौ " अजस्य

इत्यारभ्य श्रितं

142 18

इत्यंतं वाक्यं निष्कासनीयम् ।

भगवन् इत्यारभ्य ’ त्वान्’ इति पर्यंतं निष्कासि

तव्यम् ॥