वैखानस-विजयः

Source: TW

श्रीः उभय-वेदान्त-ग्रन्थ-माला

तर्कार्णव-पण्डित-रत्नेत्यादि-बहु-बिरुद-विभूषितैः
अभिनवदेशिक-श्री- उत्तमूर्-ति-वीरराघवार्य-महादेशिकैः
विरचितः वैखानसविजयः

तच्-छिष्यैः भारत-राष्ट्रपति-सम्मानितैः महामहोपाध्यायैः
श्री-उ.वे.-श्रोत्रियम्-पैयम्बाडि-चेट्टलूर् वा.-श्रीवत्साङ्काचार्यैः
विरचित-
वैखानस-विजय-भूमिका-सहितः

अभिनवदेशिकान्तेवासिनां
सत्-संप्रदाय-शेवधि-पैयम्बाडि
श्री-उ.वे.-वेङ्कटवरदार्य-महादेशिकानां
सप्तत्यब्द-पूर्ति-महोत्सवे चित्रभानु-कटक-पुष्ये
८-८-२००२ दिने प्रकाशितः

श्री-उत्तमूर्-वीरराघवाचार्यार्-सेन्टिनेरि-ट्रस्ट, चेन्नै
२००२ [[P1]]


First Edition 1963
Second Edition 2002

विस्तारः (द्रष्टुं नोद्यम्)

CR: Sri. T.Srinivasaraghavan
Sri. T.V.Rajagopal

Copies can be had from:

  1. SRI UTTAMUR VIRARAGHAVACHARIAR CENTENARY TRUST
    Regd. Off. Old.No.7, New No.19, Nathamuni Street
    T.Nagar, Chennai-17
    Phone: 815 60 53 / 815 62 35
  2. SRI UTTAMUR VIRARAGHAVACHARIAR CENTENARY TRUST
    Admn.Off. 11, Hastigiri Street
    West Mambalam, Chennai-33
    Phone: 483 46 66
Typset at Printed at
M/S.KRS GRAPHICS MLM PRINTERS
APT.No.1, B/5, Krishnapuram Road
Choolaimedu
Chennai-94
PH: 2480 1268
36 Arcot Road,
Chennai-24
PH: 2484 8349

[[P2]]


श्रीः
श्री-पद्मावती-समेत-श्री-श्रीनिवास-परब्रह्मणे नमः

श्रीनिवास-राघवः - प्रस्तावना

महद् इदं प्रमोद-स्थानं,
यद् वैखानस-ग्रन्थ-रत्न-मालायां
वैखानस-विजयाभिधानस्य नूतनस्यास्य ग्रन्थ-रत्नस्यापि सङ्ग्रथनम् इति।
एतद्-ग्रन्थ-रत्न-प्रणेतृषु ‘अभिनवदेशिकः’ इत्य्-आद्य्-अन्वर्थ-बहु-बिरुद-विराजमानेषु
विशिष्ट-तन्त्र-विनीतेषु
सर्व-शास्त्रेष्व् अपि विरचित-विविधानेक-प्रबन्धेषु
विश्व-प्रसिद्धेषु विशिष्टाद्वैत-सिद्धान्त-विजय-ध्वजायमानेषु
श्री-उ.वे.-उत्तमूर्-वीरराघवाचार्य-स्वामि-पादेषु,

तथैतत्-प्रबन्ध-प्रणयन-प्ररोचक-महाशयेषु विश्व-विदितेषु
वैखानसागमीय-बहु-ग्रन्थ-परिष्करण-प्रकाशनादि-सद्-व्यापार-निरतेषु
अद्य च तिरुमलै-तिरुपति-देवस्थाने आगमाचार्य-पदे विराजमानेषु
वैयाकरण-पञ्चाननादि-बिरुद-भाक्षु पण्डित-श्रेष्ठेषु श्री-रोपिचर्ल-पार्थसारथि-भट्टाचार्य-वर्येषु,

एवं श्री-वेङ्कटाद्रि-प्रभृतिषु महत्सु दिव्य-देशेषु
नित्यादि-पूजा-विधौ आद्रियमाणे वैखानस-शास्त्रे च
सर्व-विवेकि-जना इव अहम् अपि
चिरात् महतीं गौरव-बुद्धिम् आवहन्न् अस्मि।

तस्माद् एव एते भट्टाचार्य-वर्याः
एतत्-पुस्तक-मुद्रापण-कैङ्कर्ये कृत्वा
सद्य एव कार्यम् इदं भगवतः श्री-वेंकटेश्वरस्य कृपया पर्यपूरयम्। अनेन भगवत्-कर्मणा भगवान् प्रीयतां श्री-वेंकटेशः।

ममैतादृश-सद्-अवकाश-लाभे हेतु-भूतयोः
पूर्व-निर्दिष्टयोर् महतोर् विषये

एतद्-ग्रन्थानुमोदकानां
जगत्-कल्याण-जागरूक- श्री-काञ्ची-कामकोटि-पीठाधिपानां,
पण्डितराज-श्री-उ.वे.- डि.टि.-ताताचार्य-महोदयानां,
पण्डित-श्री-उ.वे. -वेदान्तं-जगन्नाथाचार्याणां

भूमिका-प्रदातॄणां वावदूकाग्रगण्य-श्री-उ.वे.-डि.-रामस्वाम्यय्यंगार्-महाशयानां च विषये
महतीं कृतज्ञतां निवेदयामि।

इति
सुधी-जन-विधेयः
आचार्य-दीप-प्रकाशकः, श्री-कल्याणमय्यङ्गार-पर-नामधेयः- श्रीनिवास-राघवाचार्यः

कर्णालवीथी, तिरुपति
३-७.१९६४

[[P3]]


॥ श्रीः ॥

तिरुमलै-तातार्यः - अनुमोदनम्

तर्कार्णवादि-विविध-विरुद-भूषितैः प्रज्ञा-विशेष-शालिभिः पण्डितोत्तमैः नाना-शास्त्र-सम्बन्धि-प्रौढानेक-ग्रन्थ-कृद्भिः उत्तमूर्-श्री-वीरराघवाचार्यैः निबद्धः

सर्व-जन-कल्याण-करण-प्रावण्यातिशयेनान्वर्थ-भूतया ‘कल्याणमय्यङ्गार’ इत्य्-आख्यया प्रसिद्धैः
श्री-पत्तङ्गि-श्रीनिवास-राघवाचार्यैः प्रकाशितः
‘वैखानस-विजयो’ नाम ग्रन्थः
आ-मूलाग्रम् अक्षरशः व्यलोकि।

वैखानसागमस्य वैभवं यथावत् प्रतिपादयितुं प्रवृत्ता आचार्याः
भगवतो विष्णोः पारम्यं,
जीवानां तच्-छेषतया तत्-कैङ्कर्य-धनित्वं,
ध्यानस्य भक्ति-रूपस्योपायत्वं,
आगम-प्रधान-प्रतिपाद्यस्यार्चनस्य
वर्णाश्रम-धर्म-विलक्षणत्व– भक्त्य्-अन्तर्भावौ,

एतस्य आगमस्य वैदिकार्थैक-परतया वैदिकत्वं,
प्रत्यक्ष-वेद-शाखा-मूलकत्वं,
मनु-प्रभृतिभिर् आदृतत्वं
पाञ्चरात्रागमेन सहास्य +उपजीव्योपजीवक-भावादिकं च
अनितर-साधारण्या रीत्या
प्रसन्न-विशुद्ध-मधुर-गम्भीरया वाक्य-शैल्या च
सोपपत्तिकं निरूपयन्ति।

यया कयापि विधया
यस्याः कस्याश्चिद् अपि न्यूनताया वक्तुम् अशक्यत्वात्
वेदानुसारि-शास्त्रान्तरवद्
अत्यन्तम् आदरणीयत्वाच् च
अयम् आगमो विजयते।

औपनिषद-विद्यान्तरात्मक-भक्ति-निष्ठवत्
एतद्-उपदिष्टार्चनात्मक-भक्ति-निष्ठाश् च विजयन्ते।
एतन्-निरूपणात् ग्रन्थो वैखानस-विजयो भवति।

३-१-१९६४
तिरुपति D. T. TATACHARYA, M.O.L.

[[P4]]


जगन्नाथाचार्यः - अनुमोदनम्

॥ श्रीः ॥

श्रीमद्भिः कल्याण-कृद्भिः कल्याण-गुण-शालिभिः कल्याणमय्यंगार्यैः प्रेषितं
सर्व-तन्त्र-स्वतन्त्रैः श्रीमन्-निगमान्त-महादेशिकैर् इव तत्त्व-विद्भिः बहु-बिरुद-भूषितैः श्रीमद्-अभिनवदेशिकैर् अप्य् अनुगृहीतम्
एतं विजयं सानन्दम् अन्वविन्दम्।

सो ऽयं श्री-विजयः
श्री-पार्थसारथि-बलाद् विजय+++(=अर्जुनय्)+++ इव
विजयं समाकलयति तदीयानाम्
इति महान् विश्वासः।

अत्र सैद्धान्तिक-फल-पर्व-विभेदस् तु
संप्रदाय-विभेद-निबन्धनः।
पर-विभेदः पराधीनः,
स च नान्तरीयकः।+++(=??)+++ आस्ताम्।

तम् एतम् अपि संप्रदायं सम्मानयति
श्रीमन्-निगमान्त-महादेशिक-श्री-सूक्तिर् इव श्रीमद्-अभिनवदेशिक-श्री-सूक्तिर् अपीति
न पुनर्-उक्तिः।
महान् सन्तोषः।

परोक्तिर् हि न परोक्तिर् इति पारिशेषिको वादः।+++(=??)+++
मधुरतरोक्तिर् हि
परान् अप्य् आनन्दयतीति
इयं न वाचो-युक्तिः।
अतो ह्य्
अभूवन्न् अधमर्णास् सर्वधा विजयिन
इति परं तत्त्वम्।

समीकुर्यात् सर्वम् अपीदं
सर्वज्ञः स भगवान् श्रीनिवास
इति निवेदयति।

इति विधेयः पण्डितः वेदान्तं जगन्नाथाचार्यः
तिरुमल तिरुपति देवस्थान आस्थान-विद्वान्, तिरुपति

२०-७-१९६४

[[P5]]


॥ श्रीः ॥

जयेन्द्र-सरस्वती - अनुमोदनम्

श्रीमत्-परमहंस-परिव्राजकाचार्य-वर्य-
श्रीमच्-छंकर-भगवत्-पाद-प्रतिष्ठित-
श्री-काञ्ची-कामकोटि-पीठाधिप -
जगद्गुरु-श्रीमच्-चन्द्रशेखरेन्द्र-सरस्वती-
श्री-पादादेशानुसारेण

श्रीमज्-जयेन्द्र-सरस्वती-श्री-पादैः क्रियते नारायण-स्मृतिः।

‘तर्कार्णवे’त्य्-आद्य्-उपाख्या-विख्यातैः
उत्तमूर्-ग्रामाभिजनैः श्री-वीरराघवाचार्यैः विरचितः,
आचार्य-दीप-प्रकाशक-बिरुदालंकृतैः श्रीनिवास-राघवाचार्यैः प्रकाशितश् च
वैखानस-विजय-नामा लघुर् निबन्धः प्राप्तः।

नैक-कृति-कृता ग्रन्थ-कृता
स्वीय-कुल-दैवतस्य श्री-वेंकटाद्रि-निलयस्य भगवतः श्रीनिवासस्य
स्वीयैः सांप्रदायिकैः मुख्यत्वेन परिगृहीतस्य
अर्चारूप-मूर्ति-विशेषस्य

बहोः कालाद् आचर्यमाणाम्
अन्यत्र च बहुत्र दिव्य-देशेषु
प्रायशः विशिष्टैः शिष्टैः अनुष्ठीयमानां
वैखानस-परिचर्या-पद्धतिं

प्रामाणिकत्वेन परमोत्कृष्टत्वेन च व्यवस्थापयितुम्
एषः प्रबन्धो निरमायि।

स्वयं पाञ्चरात्र-प्रकाशित-पदवीं पारम्पर्येणानुसरन्न् अपि
सो ऽयं ग्रन्थ-कृत्
स-विशेषं वैखानसोक्त-परिचर्या-पद्धतिं
मुक्त-कण्ठं च स्वीय-निबन्धे यत् प्रशंसति,
तद् इदम् एकम् एव पर्याप्तं प्रमाणं
वैखानस-विजये वास्त्विके।+++(4)+++

तदीयानि च वस्तु-तत्त्वावगमकानि इमानि वचांसि -

“भगवतः पुरुषोत्तमस्य नाना-विधासु परिचर्यासु
प्राणिनां भोग-मोक्ष-प्रदासु
वैखानसोक्त-पद्धतिर् अप्य् अन्यतमा
तत्र तत्र विशिष्ट-शिष्टानुष्ठीयमाना
अत्रि-भृगु-मरीचि-काश्यप- विखनो-मुनि-मुखैर् अनेकैर् महर्षिभिः
प्रचारम् आपादिता पुरस्कार्यैव”,

“क्वचिद् अवतरता पुंसा
नान्य-निन्दा गुणाय”,

“वैखानस-भगवद्-अर्चन-पद्धति-गौरवोक्तिर् अपि
स्वस्य विष्णु-समर्चनैव”,

“पाञ्चरात्र-वैखानस-शास्त्रयोः समाराध्यस्य भगवतो मूर्ति-विशेषस्य
नाम-भेदे ऽपि +अर्थैक्यम् अधिगम्य
सामरस्यम् अनुसन्धेयम्”,

“पाञ्चरात्र-वैखानस-शास्त्रयोः [[P6]] परस्परम् अधिकारि-भेदेन
अनुष्ठान-प्रकार-भेद-सत्त्वे ऽपि न दोषः,
यतः अनुष्ठान-वैषम्यं न सामरस्य-विरोधि”,

स्वीयाचार्य-पुरुषाणां श्री-वात्स्य-वरदार्य-गुरूणां वैखानस-पाञ्चरात्रैकरस्यानुभावी

“आमोदे भुवने प्रमोद उत संमोदे ऽपि”

इत्य्-आदि-श्लोको ऽपि +अनुभाव्यः -

“वेदान्त-देशिकैर् अपि वैखानस-प्रामाण्यं सम्यक् स्थापितं
न्याय-परिशुद्ध्यादौ”

इत्य्-आदिना।
वास्तविक-सामरस्य-दृष्टयस् तत्-प्रचारकाश् च विरला एव
एतादृशाः विद्वांसः।
एतादृशो विद्वान् मुक्त-कण्ठं श्लाघाम् अर्हति सहृदयानाम्।

कुमारमङ्गलम्
शोभकृत् फाल्गुन शुद्ध-द्वितीया
नारायण-स्मृतिः

[[P7]]


पार्थसारथिः - कृतज्ञता-निवेदनम्

श्रीः

कदाचिद् अहं विद्वद्-वरेण्यान् श्री-उ.वे.-उत्तमूर्-श्री-वीरराघवाचार्य-स्वामिनः

“तत्र भवद्भिः वैखानस-शास्त्रम् अधिकृत्य कश्चन लेखः लेखितव्यः"

इति +अप्रार्थयम्।
ते तु मत्-प्रार्थनाम् अंगीकृत्य
सत्यपि बहु-कार्य-व्यग्रत्वे
अचिराद् एव ‘वैखानस-विजया’भिधानम् इमं ग्रन्थं विरच्य
मह्यम् अदुः।

एतेषां सर्व-शास्त्र-निष्णाततायां
दुरूहार्थ-विचार-निर्णय-चातुर्यादिषु च
पाठकानां हृदयान् एव प्रमाणी-भवितुम् अर्हन्तीति
नात्र मया किम् अपि वितन्यते।
सर्वथा ऽहम् एभ्यः अधमर्ण इति
मदीयां कृतज्ञतां परं निवेदयामि।

यद् अत्र वैखानस-प्राशस्त्य-प्रबोधन-परे ग्रन्थे
प्रायशः पाञ्चरात्र-प्राशस्त्यस्यापि
न केवलं आगम-प्रामाण्य–आगम-डम्बर– पाञ्चरात्र-रक्षादि– ग्रन्थ-प्रतिपादितया प्रक्रियया,
अपि तु नूतनयापि पद्धत्या निरूपणं,
तद् इदम् अप्रकृत-स्व-परोत्कर्षापकर्ष-प्रतिपादन-विश्रान्तम्
इति च केचिन् मन्येरन्।
नेदं तत्त्वम्।

सावधानं ग्रन्थम् इमं परामृशतां
वस्तु-स्थितिर् भायाद् एव।
पाञ्चरात्रस्य कदाचिद् अप्रामाण्य-शंका काचित् बभूव।
तद्-अपनोदनाय ब्रह्म-सूत्र-कार-प्रभृतयो ऽपि तत्र व्याप्रियन्त,
स्थापयाम् आसुश् च तत्-प्रामाण्यम्।+++(4)+++

ईदृशाप्रामाण्य-शंकावकाश-लेशस्यापि
वैखानस-शास्त्रे असंभावितत्वात्
बहोः कालाद् आरभ्य स्थितं अप्रकम्प्यं प्रामाण्यं
नापोदितुं शक्यत

इति तुल्य-बल-प्रामाण्ययोः
साक्षात् मोक्ष-साधन-प्रतिपादन-परयोः
वैखानस-पाञ्चरात्रयोः
पाञ्चरात्रापेक्षया वैखानसं विशिष्यतेतराम्
इति प्रबोधनाय
तत्र तत्र पाञ्चरात्र-प्रस्तावः कृतो ऽस्तीति तु तत्त्वम्।

तद् इदं ग्रन्थ-कार-हृदयं
वैखानसस्य परम-वैदिकत्वं
तस्याप्रकम्प्यं प्रामाण्यम्
अत एव सर्वातिशायित्वं च
अधो निर्दिष्टैः तद्-वाक्यैर् एवावगन्तुं शक्यम्।
यथा -१७-१८ पुटयोः-

“सात्त्वत-प्रक्रिया कलियुग-प्रक्रमे प्रचारं प्रापीत्य् अवगम्यते।…..
वैखानसं तु….. अनाशंकित-प्रामाण्यं
अप्रामाण्य-शंकन-प्रसञ्जक-वाक्य-लव-लेशेनापि विधुरं
सर्व-विवेकि-समादृत-प्रामाण्यम् एव व्यजयत।
अत एव शङ्कर-भाष्ये ऽपि
पाञ्चरात्रस्येषद्-अंशे ऽप्रामाण्य-मानिनि, [[P8]]

भगवद्-अर्चन-पद्धति-प्रदर्शकस्य पाञ्चरात्रस्य
कथम् अप्रामाण्यम्

इत्य् अप्रामाण्याक्षेप-वचन-मुखेन
वैखानस-प्रामाण्यस्याप्रकम्प्यत्वम् असूचि।+++(5)+++
अतो वैखानसस्य वैदिकोत्तमत्वं सर्व-सम्प्रतिपन्नम्"।

एवं ग्रन्थावसाने ३७ पुटे -

“एवम् अपि वैष्णव-परम्परा-मात्रेण
विखनो-मुनि-प्रभृति-सेव्यमानं
वैष्णव-बलिना गर्भत एव वैष्णव-भूतानां संघ एव संप्राप्त-प्रचारं
चत्वारिंशत्-संस्काराविशेषेण आवश्यकतया विष्ण्व्-अर्चन-विधायकं
अत एव उपादेयानुपादेय-विवेक– श्रम-प्रसक्त्य्-अभावाद् अक्षोभानुष्ठेय-सर्वम्,
उपनयन-प्रभृति-समिदाधानवत् तद्-अनुष्ठान-नैर्भर्य-दर्शकं,
अत्रि-भृगु-मरीचि-कश्यपाख्यानेक-महर्षि-प्रचारितत्वे ऽप्य् अप्राप्त-मिथः-विरोधं,

सर्व-प्रजा-योग-क्षेम-दृष्ट्या सर्व-फल-प्रसावकत्वेन
मोक्ष-मात्र-पराणां तद्-अनुकूलत्वेन च निबद्धं
श्रूयमाण-वेद-शाखानुसारि वैदिक-मन्त्रैक-साध्यतया सर्व-प्रतिपादकं सत् श्रूयमाण-वेद-वैशद्य-वहं,
सर्व-वर्णाश्रम-धर्माणाम् अपि भगवद्-आराधनतां सम्यग् अवगमयत् परमं शास्त्रं वैखानसम्
इति वस्तु-स्थितिर् इयं
तत्त्व-रुचिभिर् अमत्सरम् अधिगम्येति।”

इत्य्-आदयः वैखानसस्येतरापेक्षया विशिष्ट-वैलक्षण्यं प्रतिपादयन्तीति स्पष्टम्।
किम् अत्र विस्तरेण।

तुष्यतु पक्षे ‘प्रायेण सामग्र्य-विधाव्’ इति महा-कवि-सूक्तिः स्मारिता भवतीति सर्वम् अनवद्यम्।

+++(प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥)+++

ग्रन्थम् इमं मुद्रणार्थ-द्रव्य-व्यय-भरं कृत्स्नम् ऊह्य
मुद्राप्य प्रकाशितवतां
सर्वदा लोक-कल्याण-कर्म-करणेन “कल्याणमय्यंगार्" इत्य्-अन्वर्थ-नाम-भाजाम्,
‘आचार्य-दीप-प्रकाशके’ति सार्थक-बिरुद-भूषितानां
श्री-उ.वे.-पि.बि.-श्रीनिवास-राघवाचार्य-महोदयानां विषये
सर्वदा सर्वधा चाहं कृतज्ञताम् आविष्कुर्वन्
दया-देव्या आलिङ्गितः श्री-श्रीनिवासः
तेभ्यो निरन्तरं सर्व-कल्याण-प्रदो भूयाद् इत्य् आशासे।

इति सुधी-जन-विधेयः
आकुलमन्नाड्व्-आर्.-पार्थसारथि-भट्टाचार्यः
तिरुपति १८-७-१९६४

[[P9]]

रामस्वामी - FOREWORD

First Edition
FOREWORD

Srimate Nigamanta Maha Desikaya Namah
Sri Srinivasa Parabrahmane Namah.

My esteemed friend Acharyadeepaprakasaka Sriman U.Ve. P.B. Srinivasaraghavacharya Swamy, alias Sriman Kalyanam Iyengar Swami of Tirupati, the publisher of this fine brochure “Vaikhanasavijaya” from the pen of a very eminent scholar, has laid a command on me to write a Foreword to it. His command issued to me in this sacred month of Margasira has impelled me to disregard my own utter incompetence and unworthiness for the task. That is my only apology for writing this Foreword.

Sage Vikhanas, who was the founder of the system, and promulgator of the Vaikhanasa Sootras on which is based the Vaikhanasa Agama, is regarded as Lord Narayana Himself. Based on those Sootras of Vikhanas, four Samhitas sprung up, Atri, Kasyapa, Mareechi and Bhrigu being the authors of those respective Samhitas.

This Vaikhanasa Agama like the other Agama Pancharatra, is a Vaishnava Agama and extols the efficacy of Archana or worship of the Moorta or Image of Maha Vishnu as the highest form of worship of the Lord. In one sense it may be said that Vaikhanasas lay greater stress and emphasis on the potency of Archa-aradhana than even the votaries of Pancharatra.

As pointed out at page 15 et seq of the book, the term Vaikhanasa finds a place in the Vedas and the Upanishads. The Vaikhanasa system has got its roots more firmly in the Vedas than even Pancharatra. While Acharya Sankara has doubted the authority of Pancharatra in his Sootrabhashya, he has not questioned the authority of the Vaikhanasa system. Thus the Vaidikottamatvam of the Vaikhanasa system is accepted on all hands (p.18). [[P10]]

Notwithstanding the foregoing, the great Vaishnava Acharyas have not noticed in their works this system as much as they have the other system of Pancharatra. I do not know if I am right in stating that there is no reference at all to this system in any of the nine works of Sri Ramanujacharya. That does not of course mean that great Acharya was not aware of it or had not great regard for it, any more than one can say that because there is no reference to the Divya Prabandhas of the Alwars in Ramanuja’s works therefore he was not aware of them or had not much regard for them.+++(4)+++

Vedanta Desika the illustrious successor to Ramanuja in the heirarchy who closely followed Ramanuja has dealt with Vaikhanasa Agama in several of his works such as Nyayaparisuddhi, Sri Pancharatra Raksha, Satcharitra Raksha and so on.

In his beautiful Stotra “Saranagati Deepika” sung by him in praise of Lord Deepaprakasa, the presiding Deity of his birth place in Kanchi, Desika has equated Vaikhanasa with Pancharatra thus:

“Tvaam Paancharaatrika-nayena prithag-vidhena
Vaikhaanasena cha pathA niyataadhikaaraah”

By referring to the one or the other in the alternative he has shown how the two systems are of equal validity.

With all that, there has been a need for a compendious treatise on the Vaikhanasa system and our great and revered Acharya, Srimad Ubhaya Vedanta Vidwan Uttamoor Veeraraghavacharya Swamy has very ably supplied that need by writing out his excellent treatise about this System.

Vedanta Desika had given to us Sri Pancharatra Raksha and our Abhinava Desika has now given to us a Vaikhanasa [[P11]] Raksha, only he has modestly named it as Vaikhanasa vijayah.+++(5)+++

In the 38 pages of this book he has brought out the greatness of the system, its chief tenets, its conception of tattva, hita and purshartha, the peculiar place that the adherents of this system occupy among the vaishnavits, taking care at almost every point to compare and contrast with the better known Pancharatra system.

Only a scholar of his eminence can produce a consise and compact treatise like the present one on such a topic. Any words of praise from me about this great Acharya who is the recipient of the President’s Award will be like holding a candle light to make the sun visible.

The Acharya’s Ishta Devata is Lord Srinivasa of Tiruvengadam. That Lord reveals in the name “Vaikahanasa-muni-sreshta Poojitaya” uttered daily in His Presence during Archana. Vaikhanasa Vijaya is therefore a fitting tribute to the great system employed in His worship paid by one of his great devotees, whom the world today looks up to for light and guidance in matters relating to philosophy and religion.

D. RAMASWAMY,
MADRAS-7,
Advocate
“TOOMANI”
24.12.63

[[P12]]

श्रीवत्साङ्काचार्यः - भूमिका

(महामहोपाध्यायः श्रोत्रियम् पैयम्बाडि. चेट्टलूर् वासुदेव-श्रीवत्साङ्काचार्यः)

उभयार्हणीयता

अस्मद्-आचार्यैर् जगद्-विख्यातैर् अभिनव-देशिकैः श्री-वात्स्य-वीरराघवार्य-महादेशिकैर् अनुगृहीतेषु ग्रन्थ-रत्नेषु
वैखानस-विजयो ऽप्य् एकः।
श्रीमद्-विशिष्टाद्वैत-सिद्धान्तावलम्बिषु विद्वद्-वरेण्येषु पाञ्चरात्रावलम्बनं
श्रीमन्-नाथमुनि-मिश्र-कालाद् आरभ्य संलक्ष्यते।
एवं वैखानस-ग्रन्थानां प्रमाणत्वेनोदाहरणम् अपि
क्वचित् क्वचिद् दृश्यते।
श्रीमन्-निगमान्त-महा-गुरुभिः श्री-पाञ्चरात्र-विषये इव
श्री-वैखानसागम-विषये ऽपि ग्रन्थेषु विचारः प्रवर्तितः।
श्री-वैष्णवागमाः द्विविधाः - पाञ्चरात्रम् वैखानसम् इति।
नेत्र-द्वयम् इवागम-विभाग-द्वयम् अपि विशिष्टाद्वैतिनाम्।

अत्र

“बहुधा ह्य् आगमैर् भिन्नाः
पन्थानः सिद्धि-हेतवः।
त्वय्य् एव निपतन्त्य् ओघाः
जाह्नवीया इवार्णवे"

इति महा-कवेः कालिदासस्य वचनं
(रघुवंशे दशम-सर्गे देवैः कृतायां भगवत्-स्तुताव् अयं श्लोकः)
नूनं पाञ्चरात्र-वैखानस-रूपागम-विभाग-द्वयम् अभिप्रेत्यैव प्रवृत्तम्
इत्य् अभ्युपगमे
न किञ्चिद् असाङ्गत्यम्।

पुरी-जगन्नाथ-क्षेत्रे, गुरुवायुपुरे श्री-कृष्ण-क्षेत्रे, पण्डरीपुरे पाण्डुरङ्ग-क्षेत्रे
अन्यत्रापि प्रसिद्धेषु श्री-विष्ण्व्-आलयेषु
केनापि +आगम-मार्गेण
(अत्र सर्वत्र न वैखानस-पाञ्चरात्रागमयोः क्रमः आदृतः) भगवत्-पूजा निर्वर्त्यते।
तत्रापि कालिदास-श्लोक-दिशा व्याख्या कार्या।

किं बहुना?
शाक्त-शैवागमादि-रीत्या देवतान्तराराधनम् अपि
तत्-तद्-देवता-कञ्चुकस्य भगवतः समाराधनम् एवेति
कालिदासो ऽभिप्रैति।
आमनन्ति खलु-

“आकाशात् पतितं तोयं
यथा गच्छति सागरम्।
सर्व-देव-नमस्कारः
केशवं प्रति गच्छति”

इति। सरित्-सागर-रूपोपमैव कालिदासेनापि +अत्र श्लोक उपात्तेत्य् अवधेयम्।

प्रामाण्य-शङ्काभावः

तत्र वैखानस-विषये “प्रमाणं वा एतत्” इति चर्चैव नोत्पन्ना;
यतः वैखानस-सूत्रस्य प्रचारे विद्यमानत्वात्,
आपस्तम्बादिभिर् अपि याजुष-कल्प-सूत्र-कारैः
पौण्डरीक-कुण्ड-विधान-विषये वैखानस-सूत्रस्य प्रमाणत्वेनादृतत्वात्।+++(4)+++

पाञ्चरात्र-विषये विचारः
बहोः कालाद् आरभ्य वर्तते एव।
तदा तदा विद्वद्भिः पाञ्चरात्र-प्रामाण्य-विषये ग्रन्था आरचिताः।
आगम-प्रामाण्यस्य +अन्ते विद्यमानेन

[[PI]]

“तत्-तत्-कल्पित-युक्तिभिः शकलशः कृत्वा यदीयं मतं
यच्-छिष्यैर् उदमर्दि सात्त्वत-मत-स्पर्धावताम् उद्धतिः।
यच्-चेतः सततं मुकुन्द-चरण-द्वन्द्वास्पदं वर्तते
जीयान् नाथ-मुनिः स्व-योग-महिम-प्रत्यक्ष–तत्त्व-त्रयः॥"

इति श्लोकेन ज्ञायते
श्रीमन्-नाथ-मुनि-शिष्य-वर्गेषु
बहवः श्री-पाञ्चरात्रागम-प्रामाण्य-संस्थापक-ग्रन्थ-निर्मातार आसन् इति।+++(4)+++
श्रीमन्-नाथ-मुनीनां पौत्राः शिष्य-परम्परागताश् च श्रीमद्-यामुन-मुनयः
श्री-पाञ्चरात्र-प्रामाण्यार्थम्
आगम-प्रामाण्य-नामकं ग्रन्थं निर्ममुः;
न केवलम् एतावत् -
एकायन-शाखाया अपौरुषेयत्व-स्थापकं काश्मीरागम-प्रामाण्याख्यं ग्रन्थम् अपि
स्व-ग्रन्थे प्रास्तौषीद् आचार्यो ऽयम्।
स च ग्रन्थ एतद्-आचार्य-कर्तृक एवेति च कश्चन वादः
त्रिंशत्-संवत्सरेभ्यः प्राक् केनापि +उपक्षिप्तः,
अस्माभिः स-प्रमाणम् अन्य-कर्तृक एवेति संस्थाप्य
वाङ्-मुख-रूपेण प्रत्य् उत्तरितश् च।

आस्ताम् एतत्।
श्रीमन्-निगमान्त-गुरु-चरणानां काले
पुनर् अपि प्रकारान्तरेण पाञ्चरात्रागमानां प्रामाण्यम् अधिकृत्य विवादो
ऽद्वैतिभिर् धूली-प्रक्षेप-न्यायेनोपक्रान्तः,
सम्यग् आचार्यैर् निराकृतश् च
श्री-पाञ्चरात्र-रक्षा-ग्रन्थ-द्वारा।

एवं तत्तत्-कालेषु पाञ्चरात्रागम-विषये एवाक्षेपः कुतः?

इत्य् अत्र
अस्मद्-आचार्या एवम् उल्लेखम् अभ्यधुः-

कस्मिंश्चित् त्रेता-युगे
अयोध्यायाः श्री-विभीषणेन श्री-रङ्गनाथः लङ्कां प्रति निनीषुणा
श्री-राम-भद्रात् स्वीकृतः
कारणान्तर-वशात् भगवत्-संकल्पम् अन्यथा विद्यमानं विज्ञाय
श्री-रङ्ग-क्षेत्रे प्रतिष्ठापित
इति च श्री-पारमेश्वरादिषु संहितासु स्पष्टम्,
श्री-पद्म-पुराणादिषु च।

उत्तर-देशे श्रीमतो रङ्गनाथस्यार्चनादिकं पाञ्चरात्रागम-रीत्या आसीद् इति
अद्यापि तद्-आलये पाञ्चरात्रिक-रीत्या प्रतिष्ठार्चनादीनां दर्शनेन ज्ञायते।

इदं प्रथमं दक्षिण-देशे पाञ्चरात्रागम-प्रस्तावः तत आरभ्याभूत्।
ततः पूर्वतनात् कालात् प्रभृति प्रसिद्धेषु
श्री-वेङ्कटाद्रि–श्री-पार्थसारथि-क्षेत्र (तिरुवल्लिक्केणि) प्रभृतिषु श्री-वैखानसागमानुसारिणा प्रतिष्ठार्चनादिकं प्रचाल्यमानम्,
अद्याप्य् अनुवर्तमानं दृश्यते।
प्रायो जनाः नूतन-विधया परिष्करणे,
नव्यस्य मार्गस्य
(तस्य प्राचीनत्वे ऽपि
+अत्र देशे इदं प्रथमं प्रविष्टस्य मार्गस्य) आश्रयणे च
विमनायमाना भवेयुः।
अतः “नूतनो ऽयं मार्गः प्रमाण-भूतो वा?” इति विपश्चित्सु विचारः स्वयम् एवोदेति।
तद् एव पाञ्चरात्र-प्रामाण्य-स्थापने निदानम्

इति।+++(5)+++

एतादृशी रीतिः श्री-वैखानसागमानां विषये कदापि नोत्पन्ना।
अत एव वैखानस-प्रामाण्य-स्थापनार्थं
ग्रन्था न विद्वद्भिर् निरमायिषत।
वैखानस-सूत्रस्य
परिमितैर् एव [[PII]] द्विजैः परिगृहीतत्वात्,
इतर-सूत्र-निष्ठानां सार्वत्रिकवद् अत्रादर्शनात्,
प्रतिनियताधिकारिकस्यास्य कथं प्रामाण्यम्?
इत्य् आशङ्काम् अपाकर्तुं
श्री-वासुदेव-स्वामिभिः श्री-वैखानस-प्रामाण्य-प्रतिष्ठापको ग्रन्थ आरचित
इति श्री-पाञ्चरात्र-रक्षा-प्रथमाधिकारे आचार्यैर् अभिहितम्।
तत्रत्या आचार्य-सूक्तय एवम्-

“…प्रसिद्ध-प्रामाण्ययोः परिग्रह-प्राचुर्यवतोः
प्रसिद्धतरेषु श्री-रङ्ग–श्रीमद्-वेङ्कटाद्रि–श्री-हस्ति-शैल– वृषभ-गिरि-प्रभृतिषु पारम्पर्येण प्रवृत्तयोः
व्यासादि-निबद्ध– श्री-वैष्णव-धर्म-शास्त्र– कर्म-काण्डादिषु

“कथं त्वम् अर्चनीयो ऽसि?
मूर्तयः कीदृशास् तु ते?।
वैखानसाः कथं ब्रूयुः?
कथं वा पाञ्चरात्रिकाः?॥

श्री-भगवान् उवाच-

शृणु पाण्डव तत् सर्वम्
अर्चनाक्रमम् आत्मनः।
स्थण्डिले पद्मकं कृत्वा
चाष्ट-पत्रं स-कर्णिकम्॥

अष्टाक्षर-विधानेनाप्य्
अथवा द्वादशाक्षरैः।
वैदिकैर् अथवा मन्त्रैर्
मम सूक्तेन वा पुनः॥

स्थापितं मां ततस् तस्मिन्
अर्चयित्वा विचक्षणः।
पुरुषं तु ततः सत्यम्
अच्युतं च युधिष्ठिरः॥

अनिरुद्धं च मां प्राहुः
वैखानस-विदो जनाः।
अन्ये त्व् एवं विजानन्ति
मां राजन्! पाञ्चरात्रिकाः।
वासुदेवं च राजेन्द्र!
सङ्कर्षणम् अथापि वा।
प्रद्युम्नं चानिरुद्धं च
चतुर्-मूर्तिं प्रचक्षते॥

एता अन्याश् च राजेन्द्र!
संज्ञा-भेदेन मूर्तयः।
विद्ध्य् अनर्थान्तरा एव
माम् एवं चार्चयेद् बुधः॥"

इत्य्-आदिभिः
वैष्णव-शास्त्र-भेदत्वेन सम-परिपठितयोः
वेदाविरुद्धयोः
भगवद्-यामुन–वासुदेव-स्वामि-प्रभृतिभिः स्थापित-प्रामाण्ययोः
अविशेष-वैष्णव-समय-परिग्रहयोः
श्रीमत्-पञ्चरात्र-वैखानस-शास्त्रयोः द्वयोः….." [[P III]]

इति।

एतेन कियद् गौरवम् आचार्याणाम् उभयोर् आगमयोर्
इति सावधानैर् विभाव्यम्।

शब्दे प्रशस्ततरता

किञ्चात्र
प्रथमं श्री-वैखानस-शास्त्रस्य भगवता प्रशंसनं,
तत्रत्य-मूर्ति-भेदाः इत्य्-आदीनां प्रपञ्चनम् अपि
विशेषतो ऽवधातव्यम्। +++(5)+++
एतेनैव श्री-वैखानस-शास्त्रस्य +अभ्यर्हितत्वम् अपि सूचितम्।

“विखनसा अर्चितो विश्व-गुप्तये
सख उपेयिवान् सात्त्वतां कुले”

इत्य्-अत्रापि
प्रथमं श्री-विखनसा अर्चितत्वं भगवतः प्रतिपाद्य,
तस्यैव परमात्मनः सात्त्वतां कुले ऽवतारो ऽभिहितः श्री-शुकेन।
सात्त्वताः = वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धाः
इति व्यक्तं पाञ्चरात्रिक-संहितासु।+++(4)+++
इतो ऽपि वैखानसस्य शास्त्रस्य प्राथम्यं सुदृढम्।

नियताधिकारे ऽपि प्रामाण्यम्

तर्हि वैखानस-सूत्रानुसारिणां नियमेन श्री-वैष्णवत्वं,
लोके क्वचिद् एव तद्-अनुसारिणां स्थितिः,
वैष्णवेतरैर् अपरिगृहीतत्वं तत्-सूत्रस्य
इत्य्-अत्र किं निदानम्?

इति न आशङ्कनीयम्।
अस्य +आक्षेपस्य समाधिर्
आचार्यैर् एव न्याय-परिशुद्धौ शब्दाध्याय-द्वितीयाह्निके ऽभिहितः।

तद्-यथा-

“तत्र तावत् कल्प-सूत्रं नाप्रमाणम्,
इतरवद् एव कल्प-सूत्रत्वात्।
तत्-कर्तुश् च कल्प-सूत्र-कारत्व-प्रसिद्धेः वेदाविरुद्धत्वात्,
वैदिक-मन्त्रैर् एव सकल-कर्म-विधानात्,
सूत्रान्तराणाम् अपि कुण्ड-सन्निवेश-लक्षणादिषु क्वचित् क्वचित् तद्-उपजीवनात्,
वर्णाश्रम-धर्माणाम् अनुकूलं नारायण-परत्व-प्रतिपादनादेर् अपि
सत्त्व-मूलत्वेन प्रामाण्यैक-हेतुत्वात्,

“हरिम् एव स्मरेन् नित्यं
कर्म-पूर्वापरेष्व् अपि”,
“ध्यायेन् नारायणं देवं
स्नानादिषु च कर्मसु”

इत्य्-आदिना शौनकादिभिर् अपि तथैव विधानात्,
वंश-परम्परया च वैखानसैः परम् अधीयमानतया
विप्लवस्यानवकाशात्" -

इति।

अत्र ‘सत्त्वं विष्णु-प्रकाशकम्’,

‘जायमानं हि पुरुषं
यं पश्येन् मधुसूदनः।
सात्त्विकः स तु विज्ञेयः
स वै मोक्षार्थ-चिन्तकः’,

‘सत्त्वात् सञ्जायते ज्ञानम्’

इत्य्-आद्य्-अनुसारेण
“सत्त्व-मूलत्वेन” इत्य् आचार्यैर् अभिहितम्॥

मनुर् अपि स्व-स्मृतौ नारायणम् एव प्रास्तौषीत्,
नान्यान् देवान्।
अतः प्राचीनैः परमर्षिभिः परमात्मत्वेन
भगवत एव निर्धारणात्
वैखानस-सूत्रेषु
श्री-विष्णोः परत्वेन ग्रहणं,
तद्-अनुगुणं पूजार्चनादि-निरूपणं च
“हेम्नः परमामोदः” इति न्यायम् एवानुसरति।

सूत्रान्तरोपजीवनम्

तैत्तिरीय-संहितायाः सूत्र-काराः आपस्तम्ब-बोधायन-सत्याषाढ- हिरण्यकेशि-भरद्वाज-प्रभृतयः [[PIV]] अष्टाधिकाः सन्ति।
तेषु विखनस्-सूत्रम् अप्य् एकम्।

सङ्ख्या

आपस्तम्ब-सूत्रस्यैव प्रायेण परिग्रहो दृश्यते।
तदनु बोधायन-सूत्रस्य।
सत्याषाढ-हिरण्यकेशि-भरद्वाज-सूत्राणाम् अनुयायिनो ऽतीव विरलाः।
तत् कुतः?।
तद्वद् एव प्रकृते ऽपि भवितुम् अर्हति।+++(5)+++
न तावता ऽप्रामाण्यम्।

प्राचीनता

प्रत्युत पूर्वोक्त-दिशा पौण्डरीकादिष्व् आपस्तम्ब-प्रभृतिभिर् अस्योपादानात्
आपस्तम्ब-सूत्रापेक्षयापि प्राचीनत्वम् एव हि सिद्ध्यति।
उपजीव्यापेक्षयोपजीवकस्य +आर्वाचीनत्वं हि लोक-वेदोभय-सम्मतम्।

किं बहुना?
शुक्ल-यजुर्वेदीयं याज्ञवल्क्य-ब्राह्मणम् अवर-कालिकम् इति स्पष्टम् अभिहितं कात्यायनेन -

“याज्ञवल्क्यादिभ्यः प्रतिषेधो ऽवर-कालत्वात्”

इति। स्पष्टम् इदं ‘पुराण-प्रोक्तेषु ब्राह्मण-कल्पेषु’ (४-३-१०५) इत्य् अत्र महा-भाष्ये।
तद्वद् अत्र न कुत्राप्य् अर्वाचीनत्वम् अस्य सूत्रस्याभिहितम्।

दीक्षाधिकार-सङ्कोचः

इयान् विशेषः - पाञ्चरात्र-ग्रन्थेषु भगवत्-पूजार्था दीक्षा इतरेषाम् अपि -
कुल-क्रमागत-पाञ्चरात्र-शास्त्रानुसारि-व्यतिरिक्तानाम् अप्य् अभ्युपगता,
वर्तते च आचारे।
अत्र वैखानसागम-विषये एवं नाङ्गीक्रियते,
कुल-क्रमागतैस् तैर् एव आलयादिष्व् अर्चा-विधानम् अनुमतं,
नान्येभ्यो ऽर्चादि-दीक्षोपदिश्यते इति,
अयं च क्रमः शैवागम-दीक्षितैर् अप्य् अनुपाल्यते
इत्य् अतो नायं दोषः। +++(5)+++

प्रतिष्ठा-विधानम्

इदम् अत्रावधेयम् -

प्रत्यक्ष-श्रुतिषु कुत्रापि प्रतिष्ठार्चनादीनाम् अश्रवणात्,
तद् आधारी-कृत्य प्रवृत्तम् इदं शास्त्रं
कथं प्रामाण्यम् अर्हति?

इति प्रश्नः।
तद् इदम् उक्तं पूर्व-पक्ष-सिद्धान्त-रूपेण आचार्यैर् एव पर-मत-भङ्गे-

“कर्षणादि-प्रतिष्ठान्त-क्रिया-कलापानाम् उपरि
प्रतिपादितानां चर्या-विशेषाणाम् अप्य् अद्यात्र उपलभ्यमानेषु वेदेषु
मूलं न दृश्यते चेद् अपि -
प्रतिषेध-वाक्यानाम् अभावात्
कल्प-सूत्रादि-प्रतिपादित-धर्म-विशेषाणाम् इव मूल-कल्पना सुकरा।
अयम् अर्थः

‘श्रुति-मूलम् इदं तन्त्रं
प्रमाणं कल्प-सूत्रवत्’

इत्य् अस्मिन्न् एव शास्त्रे प्रतिपादितम्"

इति।

श्री-पाञ्चरात्रागम-विषये प्रस्तुतो ऽप्य् अयं विचारः तुल्य-न्यायाद् अत्रापि सङ्गच्छते।
अष्टका-श्राद्धादि-विषये मीमांसकैर् एवम् एव निर्धारितम्।
‘यां जनाः प्रतिनन्दन्ति’ इति मन्त्रस्य श्रवणात्,
अस्याष्टका-श्राद्ध-करण-मन्त्रत्वेन ब्राह्मणादिषु स्पष्टं विनियोगाश्रवणे ऽपि
श्रुति-मूलत्वं कुमारिल-प्रभृतिभिर् अभिहितम्।

[[PV]]

तद्वद् अत्रापि।

भक्त-प्रतिष्ठा श्रौतता

किञ्च, “तस्माद् आत्मज्ञम् अर्चयेद् भूति-कामः” इति श्रुतिषु दृश्यते।
आत्मज्ञानां भगवद्-भक्तानां दिव्य-सूरीणाम् आचार्याणाम् अपि
प्रतिष्ठार्चनादिकम् अनेन वाक्येनाभ्यनुज्ञातम् इति वस्तु-स्थितौ स्थित्यां
कथं भगवत्-प्रतिष्ठार्चनादीनाम् अश्रौतत्वं ब्राह्मण-गर्दभो मन्यते?

इति सुधियो विभावयन्तु।
तद् एतत् भक्त-प्रतिष्ठार्चनादिकं न केवलं वैष्णवेषु,
वैष्णवेतरागमानुयायिष्व् अपि दृश्यते।

“आदि-भक्तानाम् अनन्त-गरुडादीनाम् इच्छावतार-भेदा इमे (=भूत-सरो-वेताल– विष्णु-चित्त– शठजित्-प्रभृतयः)

इति पुराण-प्रसिद्धम्;
तेन तेषां प्रतिष्ठार्चनादिकं
राम-कृष्णादि-भगवद्-अवतारादीनाम् इव इति भक्त-प्रतिष्ठा-शास्त्रानुसारेण निर्णेतव्यम्”
(अलेपक-भङ्ग-वादे शत-दूषण्याम् आचार्याः)

इत्य् आचार्य-श्री-सूक्तिर् इहानुसन्धेया।
अतो भगवतस् तद्-भक्तानां च प्रतिष्ठार्चनादिकं श्रुति-स्मृति-सिद्धम् एव।

प्रतिमा

‘न तस्य प्रतिमा अस्ति’
इति श्रौत-वाक्यस्य
भगवन्-मूर्ति-निषेधे न तात्पर्यम्;
अपि तु प्रतिमा = उपमा इत्य् अर्थः। +++(5)+++

“न तत्-समश् चाभ्यधिकश् च दृश्यते”,

“न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽप्य् अप्रतिम-प्रभाव”

इत्य्-आदि-समानार्थकम् इदं वाक्यम्।
अत एव गीतायां “अ-प्रतिम-प्रभाव!”
इति श्रौत-प्रतिमा-शब्द-व्याख्यानम्
इत्य् अप्य् अवगन्तव्यम्।

‘अश्नामि प्रयतात्मनः’ इत्य् उक्तं गीतायाम्।
अशनं नाम गल-बिलाधस्-संयोग-रूपो व्यापारः।
स च मूर्तिं विना न शक्यः।
अतः स-मूर्ताराधनम् एव गीतोपदिष्टम्।

एवं

“श्रवणं कीर्तनं विष्णोः
स्मरणं पाद-सेवनम्”

इत्य् अत्राप्य्
अपरिच्छिन्नस्य सर्व-गतस्य दिव्यात्म-स्वरूपस्य स्मरणासम्भवात्
सहोपात्त-पाद-सेवन-शब्द-साहचर्याच् च स-मूर्तोपासनम् एव धर्म-शास्त्र-कार-सम्मतम्।

“याः क्रियाः संप्रयुक्ताः स्युर्
एकान्ति-गत-बुद्धिभिः।
ताः सर्वाः शिरसा देवः
प्रतिगृह्णाति वै स्वयम्”
(भारतम्),

“मद्-अर्चा-स्थापने श्रद्धा
स्वतः संहृत्य चोद्यमः”
(भागवतम्)

इत्य्-आदिषु
ऋषिभिर् अयम् एव पन्थाः स्पष्टम् अभिहितः।
विशिष्य वैखानस-शास्त्रोक्त-प्रकारेण
भगवद्-अर्चनं मनुना स्पष्टम् उक्तम्-

“काल-पक्वैः स्वयं शीर्णैः
वैखानस-मते स्थितैः”
(मनु. ६.२१)

इति।

वानप्रस्थ-विचारावसरे
बोधायनः स्पष्टम् एवम् आह-

“वानप्रस्थो वैखानस-शास्त्र-समुदाचारः”
(बो.धर्म-सूत्रे)

इति।

वैष्णव-मात्रता

तद् उपरि कश्चन क्षुद्रोपद्रवः -

वैखानसानां विप्राणां विष्णु-भक्तत्वेनैव दर्शनात् [[PVI]]
देवतान्तर-सम्बन्ध-वर्जनात्
कथम् एष्व् आश्वासः?

इति।
तस्य समाधानम् आचार्यैर् एवाभिहितम्

“समान-शीलैः सह वासो न दोषाय”

इति कपिलानुशिष्टस्य कैमुत्येन
गृहस्थादिष्व् अपि मोक्षार्थिषु तुल्य-प्रसरत्त्वात्।

आमनन्ति च बह्व्-ऋचाः-

“नेदं-विद् अनिदं-विदा समुद्दिशेत्,
न सह भुञ्जीत,
न स-धर्मादिः स्यात्”

इति।
“सर्वः स-गन्धेषु स्निह्यति” इति न्यायेन
नायं दोषः।

‘स्थाने ऽन्तरतमः’ (१-१-५०) इति सूत्रे महा-भाष्ये ऽपि स्पष्टम् अभिहितः
स-गन्धयोर् मिथः स्नेहः।
स एव न्यायो ऽत्रापि। +++(4)+++

“आविद्यः प्राकृतः प्रोक्तो
वैद्यो वैष्णव उच्यते।
आविद्येन न केनापि
वैद्यः किञ्चित् समाचरेत्॥”, +++(5)+++

“अद्य प्रभृति हे लोकाः!
यूयं यूयं वयं वयम्।
अर्थ-काम-परा यूयं
नारायण-परा वयम्।
नास्ति संगतिर् अस्माकं
युष्माकं च परस्परम्।
वयं तु किङ्करा विष्णोर्
यूयम् इन्द्रिय-किङ्कराः”

इत्य्-आदि-प्रमाण-प्रदर्शन-पूर्वकम्
आचार्यैर् एवात्र सुबहु-निरूपितम्।

मांस-भोजिभिः साकम् अमांस-भोजिनां सहवासाभावो यथा न दोषाय,
तथा ऽत्रापि
इत्य् अभ्युपगमनीयम्।

उदाहरण-वैरल्यम्

श्री-पाञ्चरात्र-शास्त्रवत्
अस्मात् वैखानस-शास्त्रात्
पूर्वाचार्यैर् असकृद् उदाहरणं कुतो वा न कृतम्?

इत्य् अन्यः प्रश्नः।
अत्रेदम् अवधेयम् -

विशिष्टाद्वैतिभिः अनुष्ठान-विषये बहवों ऽशाः
अनादि-कालाद् आरभ्यादृताः।
तेषां मूलं श्री-पाञ्चरात्र-संहितासु स्पष्टम् उपलभ्यते
इत्य् अतस्
तत्र भूयान् आदरः।

यथा- तप्त-चक्र-शङ्ख-धारणम्, शरणागतिः, प्रपन्न-पूर्वोत्तर–तत्-काल-कृत्यानां विवेचनम्, भगवद्-आराधन-वैशद्यम्।

श्रौतत्वे ऽपि द्वयादि-मन्त्र-स्वरूपार्थादि-विवेचनम्
(यथा-श्री-प्रश्न-संहितायां द्वय-मन्त्राद्य्-अक्षरोद्धार-क्रमेण विशदीकरणम्),
पूजा-काले घण्टायाः आघोषणम्
(न हि घण्टा-नादन-विषये
उपलभ्यमानेषु व्यास-दक्षादि-निर्मितेषु धर्म-शास्त्रेषु कल्प-सूत्रेषु वा प्रस्तावो वर्तते),
अभिगमनोपादानेज्या-स्वाध्याय-योग-रूपेण काल-विभागः
तत्-तत्-कालेषु कर्तव्यानां कर्मणां स्वरूप-निरूपणम् इत्य्-आदिकं,

श्री-विशिष्टाद्वैति-समादृतानाम् अंशानाम्,
विशिष्य “पञ्चधा पञ्चात्मा” इत्य् उपनिषत्सु निर्दिष्टस्य परमात्म-स्वरूप-पञ्चकस्य
निरूपणं

पाञ्चरात्रादि-संहितास्व् एव सुविशदम्। अतो ऽत्र भूयान् आदरः।

प्राधान्येन भगवत्-पारम्यं, श्रियः परत्वं, श्री-वैकुण्ठादि-लोक-निरूपणम् इत्य्-आदिकम्
अत्रैव सुभिक्षम्।

गीतोपदिष्टस्य

“अनन्याश् चिन्तयन्तो मां
ये जनाः पर्युपासते”

इत्य् उक्तस्य विवरणं
श्री-पाञ्चरात्र-ग्रन्थेष्व् एव विशदम् अभिहितम्।

[[PVII]]
मुमुक्षोर् देवतान्तर-परित्यागः,
भगवद्-एक-समाश्रयणं, तद्-अर्थं तत्-प्राप्त्यर्थं सर्व-जनीनोपायानुष्ठानम् इत्य्-आदिकं तु श्री-पाञ्चरात्र-शास्त्रेष्व् इतर-ग्रन्थापेक्षया अधिकम्। एषु बहवो विषयाः श्री-वैखानस-शास्त्रेष्व् अपि समाना इत्य् अपि स्थिते होतृ-शाखोक्त-हौत्र-परिग्रह-न्यायेन तत्-पर-शास्त्रे ऽस्मिन् अभ्यधिका इति तत्रादरः।

मुद्राङ्कनम्

तप्त-चक्राङ्कनस्य
श्री-वैखानस-ग्रन्थेषु स्पष्टम् अनुमत्य्-अभावे ऽपि
वैखानसीये मरीचि-ग्रन्थे मुद्रा-धारणम् अनुशिष्टम् एव।
यथा -

“सुदर्शनम् इति दक्षिणे हस्ते सुदर्शन-मुद्रां धारयेत्,
रविर् इति वामे शङ्ख-मुद्रां धारयेत्”

इति।
एतेन यथा वा ऽऽनन्द-तीर्थीयैश् चन्दनाद्य्-उपलिप्त-शङ्ख-चक्रादि-धारणम् अनुष्ठीयते-
तद्वत् वैखानसैर् अप्य् आचारः सम्मत एव।

अद्यापि क्वचित् आलयेषु कैङ्कर्य-परैः मुद्रा-धारणम् अनुष्ठीयमानं पश्याम
इति वृद्धा विदाम् आसुः।

गया-क्षेत्रे विद्यमानैर् ब्राह्मणैः
तप्त-शङ्ख-चक्र-मुद्राया धारणं क्रियमाणं प्रत्यक्षम् अद्याप्य् अनुभूयते।

अतः पुरातन-काले ब्राह्मण-सामान्यैर् ध्रियमाणस्यास्य आचारस्य
क्रमेण निदानान्तरैर् ह्रासः समजनि
इत्य् आश्रयणे न को ऽपि विमन्येत।

शाखा-विशेषः

एकायनशाखा

श्री-पाञ्चरात्रागमानां मूल-भूता एकायन-शाखैव,
अस्यापि शास्त्रस्य उपलभ्यमान-वेदेष्व् एव मूलम् उपलभ्यते।

“यं वाकेष्व् अनुवाकेषु
निषत्सूपनिषत्सु च।
गृणन्ति सत्य-कर्माणं
सत्यं सत्येषु सामसु”

(वचनम् इदं भगवद्-गुण-दर्पणे भट्ट-पराशर-पादैः
‘सत्य-धर्म-पराक्रमः’ इत्यत्रोपात्तम्)
इति वचनेन
वेद-व्यासेन वेद-विभजनात् पूर्वं
मूल-भूतायाः संहितायाः
वाक-निषत्-संज्ञया व्यवहार इति,
तद्-अनुसारिणीनां शाखानाम्
अनुवाकोपनिषत्-संज्ञकत्वं च स्पष्टम्।
एतद् एव मूलम् इति व्यपदिश्यते।
भगवद्-गुण-दर्पणे ‘मौलाः’ इत्य् असकृत् बहुत्र उपात्तो ग्रन्थः
एष एवेति वृद्धाः। +++(5)+++

वैखानसी शाखा

कृत-युगे धर्मो ऽविकलः पूर्णश् चतुष्-पाद् आसीत्।
क्रमेण युग-परिवृत्तिष्व् एकैक-पाद-हासः - इतिवत्
कृत-युगे श्री-विष्णुर् एक एव देवता।
तदानीं देवतान्तर-गन्ध एव नासीत्।
विद्यमानत्वे ऽप्य् अद्यत्वे इव
तासां देवतानां पारम्य-प्रतिपादकाः ग्रन्थाः नासन्।
यथा वा प्रकृति-मण्डल एव श्वेत-द्वीपे देवतान्तर-गन्धो ऽपि न, तद्वत्।
अत एवाचार्य-पादैः
“पक्षे कार्त-युगे निवेशित-पदाः” इत्य् अभिहितं श्री-पाञ्चरात्र-रक्षायाम्।

“वेदानां व्यसनाद् अर्वाक्
प्राग्-रूपं मिलितं तु यत्।
तां तु वैखानसीं शाखाम्”
(वैखानस-विजये पु. २३)

इति वचनम् अप्य् अत्रार्थय् आचार्यैर् इहोपात्तम् अवधेयम्।
[[PVIII]]

शरणागतिः

नवीनैर् अपि
श्री-लक्ष्मी-विशिष्टाद्वैत-शारीरक-भाष्य-कारैः श्रीमद्-भगवद्-रामानुज-मुनि-प्रभृतिभिः प्रवर्तितस्य शरणागति-सिद्धान्तस्याभ्युपगमः
स्व-ग्रन्थे ऽभीष्टः समर्थितश् च।
अतो ऽप्य् अस्माकं वैखानसीयो ऽध्वा सुतराम् उपादेयः।
अत एव श्रीमन्-निगमान्त-गुरुभिः शरणागति-दीपिकायाम् -

“त्वां पाञ्चरात्रिक-नयेन पृथग्-विधेन
वैखानसेन च पथा नियताधिकाराः”

इति श्लोके
श्री-पाञ्चरात्रिक-वैखानसाध्व-निष्ठानां परमैकान्तित्वात्
व्यामिश्र-देवतान्तर-संकीर्ण-मिश्र-याजिभ्यो ऽमीषां शुद्ध-याजिनां वैलक्षण्य-द्योतनार्थं
पृथग्-विधेनेति पदम् उभयान्वयि
मध्यमणि-न्यायेन प्रायोजि।

एते लोक-विलक्षणाः इति प्रदर्शने नैर्भर्यम्।

अस्माभिर् अयं विषयो विशदं व्याख्यातः शरणागति-दीपिका-द्राविड-विवरणे।+++(4)+++

भगवद्-एक-निष्ठता

“विष्णु-देवार्चा सर्व-देवार्चा भवति"

इति वैखानस-सूत्रम्।
अभ्युदय-निःश्रेयसार्थिनां श्री-वैखानसानां

“शरीरारोग्यम् अर्थांश् च
भोगांश् चैवानुषङ्गिकान्।
ददाति ध्यायिनां नित्यम्
अपवर्ग-प्रदो हरिः॥”

इति प्रमाणानुसारं भगवद्-एक-निष्ठत्वं गुणायैव भवति।

“तेनैव तद्-धेतृत्वे, मध्ये किं तेन +++(देवतान्तरेण)+++”

इति न्यायेन
साक्षान् मिश्र-याजनं कृत्वा तस्यान्तर्यामि-पर्यन्त-भावनापेक्षया
साक्षात् भगवद्-याजनेनैवाभीष्ट-सिद्धिर् एतैर् आहता
इत्य् अत्र न वैमत्यम्।

वैखानसोदाहरणम्

अथास्मत्-सिद्धान्त-निष्ठः
श्री-पाञ्चरात्रवत् श्रीमद्-वैखानस-शास्त्रम् अपि बहुत्र प्रमाणत्वेनोपात्तम्
इति स-प्रमाणं निरूपयामः।

श्री-पाञ्चरात्र-रक्षायां तृतीयाधिकारे - “श्री-वैखानस-शास्त्रे पठितम्” इत्य् उक्त्वोपात्ताः श्लोकाः-

१) “स मस्तिष्क-प्रणामः स्याद्
अञ्जलिं मस्तके न्यसेत्।
प्रणामः सम्पुटः स स्यात्
हृदये ऽञ्जलिम् अर्पयेत्॥

प्रह्वाङ्गः सम्पुटं कुर्यात्
सा प्रह्वाङ्ग-नमस्-क्रिया।
पादाङ्गुलिभ्यां जानुभ्यां
शिरसा चावनिं स्पृशन्॥

बद्धाञ्जलिर् नमस्कुर्यात्
स पञ्चाङ्ग उदाहृतः।
पादौ हस्तौ प्रसार्यैव
शेते भूमौ च दण्डवत्॥ [[PIX]]
स दण्डाङ्ग-प्रणामः स्यात्
प्रणामान् एवम् आचरेत्"

इति।

२. “स्थूलम् अष्ट-भुजं प्रोक्तं
तस्माद् एतत् त्रयं यजेत्”

इति श्री-वैकुण्ठे परमात्मनो ऽष्ट-भुजत्वम् अपि क्वचिद् दृश्यते
इत्य् अत्र वैखानसीयानन्दाख्य-संहिता-वचनम् उपात्तं स्तोत्र-भाष्ये।

३. आनन्द-संहितायां वैखानसीयायां

“परमात्मनः सकाशात् हिरण्मयम् अण्डम् अभवद्"

इत्य् आरभ्य
सर्वेषाम् अण्डानाम् उपरि सनातनं वैष्णवाण्डं प्रस्तुत्य,
तत्र आमोद-प्रमोद-संमोद-वैकुण्ठ-रूप-लोक-विशेषान् अभिधाय

“आमोदे विष्णुः,
प्रमोदे महा-विष्णुः,
संमोदे सदा-विष्णुः,
वैकुण्ठे सर्व-व्यापी नारायणश् चासीनः"

इत्य् अभिहितम्।
एतद् आधारी-कृत्यैव श्रीमद्भिः “नडादूर्-अम्माल्” इति विख्यातैः श्री-वात्स्य-वरद-गुरुभिः
प्रातर् अनुसन्धेय-पञ्च-त्वादि-पञ्चक-स्तुतौ

“आमोदे भुवने प्रमोद उत संमोदे च संकर्षणं
प्रद्युम्नं च तथा ऽनिरुद्धम् अपि तान् संहार-सृष्टि-स्थितीः”

इत्य् अभिहितम् इति स्पष्टम्।
इयान् विशेषः-
श्री-वात्स्य-वरद-गुरुभिः श्री-वैखानस-पाञ्चरात्र-प्रतिपाद्यैक्य-विवक्षया
वासुदेवादि-व्यूह-पञ्चकानाम् अप्य् अत्रैवान्तर्भावः कृत इति।

४. आचार्यैः परिपूर्ण-ब्रह्मानुभवाधिकरणे
सायुज्य-शब्दार्थ-निष्कर्षः कृतः।
एवं सार्ष्टिता-शब्दार्थश् च।
तत्र सालोक्य-सामीप्य-सारूप्य-सायुज्य-रूपेण
मोक्षे प्रभेदो ऽभ्यधायि-

“लोकेषु विष्णोर् निवसन्ति केचित्
समीपम् ऋच्छन्ति च केचिद् अन्ये।
अन्ये तु रूपं सदृशं भजन्ते,
सायुज्यम् अन्ये, स तु मोक्ष उक्तः॥”

इति श्लोकम् उपादाय।
नूनम् अयं श्लोकः कुत्रापि वैखानसागमे स्याद् इति तर्कयामः।
यतः-

“समाराधन-विशेषात् चतुर्-विध-पदावाप्तिः -
सालोक्यं सामीप्यं सारूप्यं सायुज्यम् इति।
आमोद-प्राप्तिः सालोक्यम्।
प्रमोद-प्राप्तिः - सामीप्यम्।
संमोद-प्राप्तिः सारूप्यम्।
वैकुण्ठ-प्राप्तिः सायुज्यम्;
तच् च नित्यानन्दं ….. पर-ज्योतिः प्रवेशनम्”

इत्य् आनन्द-संहितायाम् अभिहितम्।
एतेन सायुज्यस्यैव मुख्य-मोक्षत्वम् इति न मन्तव्यम्,
अन्येषाम् अपि परम-पदत्वाविशेषात्।
विवक्षा-भेदेन चातुर्विध्यम्।
मोक्ष-लोके एवावान्तर-प्रघट्टका एते। [[PX]]

नैतावता आनन्द-तारतम्यम् आनन्द-तीर्थीयाभिमतम् अत्र विवक्षितम् इति भ्रमितव्यम्,
सर्वत्रानन्दस्य तुल्यत्वात्।
आनन्दमय-विद्याया प्रिय-शिरस्त्वादि-रूपितानां प्रिय-मोद-प्रमोदानन्दानाम्, अत्रत्य-लोकानां च
न को ऽपि सम्बन्ध
इत्य् अपि विभाव्यम्।
स्पष्टम् इदम् अत्रैव वैखानस-विजये आचार्यैर् अभिहितं
सावधानैर् अवगन्तव्यम्।

५. श्री-वैष्णवानां ‘यज्ञो वै विष्णुः’ इति श्रुति-प्रतिपादितो विष्णुः परा देवता।
वैखानस-शास्त्रेष्व् इतर-भगवन्-नामापेक्षया
विष्णु-नाम्नि भूयान् आदरः।
मरीचि-विमानार्चना-कल्पे

“पञ्चानां मूर्तीनाम् आदि-मूर्तिर् विष्णुः
तद्-भेदाः चतस्रो मूर्तयः-
पुरुष-सत्याच्युतानिरुद्धाः।
ताः धर्म-ज्ञानैश्वर्य-वैराग्यैः
पादाद् अर्ध-पादाद् त्रि-पादाद् केवलाद् भिद्यन्ते प्रातिलोम्येन”

इत्य् अभिहितम्।
अत एव एते वैखानसाः श्री-वैष्णवेष्व् एव
आदि-वैष्णवाः इति प्रशस्यन्ते।+++(4)+++
तद्-अनु ये विष्णु-पारम्य-वादिनः
ते सर्वे ऽपि वैष्णवत्वेन मानिताः।

“यज्वभिर् यज्ञ-पुरुषो
वासुदेवश् च सात्त्वतैः।
वेदान्त-वादिभिर् विष्णुः
प्रोच्यते, तं नतो ऽस्म्य् अहम्’
(विष्णु-पुराणे ५-१७)

इति पराशर-सूक्तिर् इहानुसन्धेया।

एवं

“चतुर्भिश् च चतुर्भिश् च
द्वाभ्यां पञ्चभिर् एव च।
हूयते च पुनर् द्वाभ्यां
स नो विष्णुः प्रसीदतु”

इति कपर्दि-कारिकापि।

६. श्रियो विभुत्वं,
भगवत इव हृदयायतने तस्या अप्य् अन्तर्यामिनीत्वेनावस्थानं च
ज्योतिर्-अधिकरण-श्रुत-प्रकाशिकायां स्पष्टम् अभिहितम्।
तत्रत्यानि वाक्यान्य् एवम्-

“… “इन्द्रं निचिक्युः परमे व्योमन्”,
“इन्द्रो मायाभिः” इत्य्-आदिषु
परम-पुरुषस्येन्द्र-शब्द-वाच्यत्वं च सिद्धम्।
वामाक्षिस्था तत्-पत्नी साक्षाल्-लक्ष्मीर् एव,
इन्द्र-शब्द-वाच्यस्य पत्नीत्वेन प्रतीतेः।
तैत्तिरीयके च
“राड् असि, बृहती श्रीर् असीन्द्र-पत्नी धर्म-पत्नी”
इति इन्द्र-पत्न्याः श्री-शब्द-वाच्यत्वावगमात्।
किञ्च हृदय-गुहायाम् अवस्थानम् अनयोर् इह श्रूयते -
“तयोर् एष संस्तावो
य एषो ऽन्तर्-हृदय आकाशः”
इति।”

इति।

अनेन श्रुत-प्रकाशिका-वाक्य-समुदायेन
भगवत इव श्रियो ऽपि हृदय-गुहावस्थान-निरूपणात्,
‘य आत्मानम् अन्तरो यमयति’
इत्य्-उक्तात्म-नियमनम् अपि
श्रिय इत्य् अभ्युपेतम् इति ज्ञायते।
अन्तः-स्थितिश् च नियमनार्थम् एव।
व्यापन-भरण-नियमनादीनि [[PXI]] विभुत्वावेदकानि। +++(4)+++
स्पष्टम् इदं भाष्यादिषु।
अतः श्रीर् अपि विभुः = विभ्वी इति सिद्धान्तः।

अयं विषयो वैखानस-शास्त्रे
आनन्द-संहितायां ज्ञान-काण्डे च स्पष्टम् अभिहितम् -

“सा देवी श्रीर् इति प्रोक्ता।
तम् अनयैव सह देवेशम् अर्चयन्ति परमर्षयः।
सा प्रकृतिः।
तद्-अभिन्नाः सर्वाः स्त्रियः।
पुरुषास् तद्-अभिन्नाः।
ताभ्यां स्थितिः।
तस्मात् सहैवार्चयेत्।
विष्णोर् विभूतिः श्रीर् नित्या”

इत्य्-आदि।
एवं-रीत्यापि विशिष्टाद्वैतिनां परमोपादेया वैखानस-ग्रन्थाः।

माधवः (७३) इति नाम्नो व्याख्यानावसरे
अत्रोपात्तानि वैखानस-ग्रन्थ-स्थानि वाक्यानि
पुराण-वाक्य-प्रदर्शन-पुरस्सरं
भट्ट-पराशर-पादैः विवृतानि -

“तच्-छक्ति-दुर्-जया-ऽभीमा
विष्णु-शक्तिर् इति स्मृता।
सर्व-भूत-हृद्-अब्जस्था
नाना-रूप-धरा परा।…
ज्ञानादि-षाड्-गुण्य-मयी
या प्रोक्ता प्रकृतिः परा।…
जगच्-चराचरम् इदं
सर्वं व्याप्य व्यवस्थिता….
सर्व-शक्त्यात्मिका चैव
विश्वं व्याप्य व्यवस्थिता”

इति।

“तद्-अभिन्नाः सर्वाः स्त्रियः।
पुरुषास् तद्-अभिन्नाः”

इत्य् अत्र

“देव-तिर्यङ्-मनुष्येषु
पुं-नामा भगवान् हरिः।
स्त्री-नाम्नी लक्ष्मीः मैत्रेय!
नानयोर् विद्यते परम्”

इति श्री-पराशरोक्तिर् अनुसन्धेया।

“ताभ्यां स्थितिः” इत्य् एतत् सृष्ट्यादेर् अप्य् उपलक्षणम्।
यद् वा सर्वत्रानयोः स्थितिर् अनेनोच्यते।
एतत् सर्वम् अभिप्रेत्यैवाचार्यैः
“मानातीत-प्रथित-विभवाम्”
इति श्रियो विभुत्वम् अभिहितम्।+++(4)+++

७. विशिष्टाद्वैतिभिः
जीव-परमात्मनोर् जगतः परमात्मनश् च शरीर-शरीरि-भावः विशदं प्रतिपादितः।
प्रधान-प्रतितन्त्र-भूतश् चायं विषयः।
अत्रापि वैखानस-शास्त्रम् अनुकूलम् इति
तद्-ग्रन्थानुसन्धायिनां स्पष्टम्।

एवं सुबहु वर्तते।

निगमनम्

अत्र वैखानस-विजये
ऽस्मद्-आचार्यैः ईदृशा बहवो विषयाः स-प्रमाणं निरूपिता विदुषां मोदावहाः।
क्वचित् तस्य विवरणम् आवश्यकम् इति विचिन्त्य
आचार्योक्ति-व्याख्या-व्याजेन
एतावद् अस्माभिर् विस्तृतम्।
प्रीयतां श्री-विष्णुः, प्रीयन्तां श्री-वैष्णवाः॥

चेन्नै
१.८.२००२

***** [[PXII]]

मङ्गलादि

श्रीः
श्रीनिवास-परब्रह्मणे नमः।

महा-विद्वद्भिः श्री-उत्तमूर्-वीरराघवाचार्यैः
विरचितः॥

स्मित-फुल्ल-गण्ड-ललितोर्ध्व-पुण्ड्र-धृन्-
मकुटोपशोभि-मुख-चन्द्रम् अद्भुतम्।
विखनोऽर्चनोल्बण-समृद्धि धाम तद्
वृष-शैल-धाम कुल-दैवतं श्रये॥१॥

स्वोपदिष्ट-निखिल-श्रुति-सार-
व्याकृतौ भगवतैव नियुक्तः।
कल्प-सूत्र-कृतये विखनस्त्वं
प्राप यो विधिर् असौ हि गुरुर् नः॥२॥

मोक्षः

पुरुषार्थेषु मोक्षः परम्
इति तावद् आस्तिकाः सर्वे संप्रतिपद्यन्ते।
को ऽसौ मोक्ष इत्य् अत्र
सर्वानिष्ट-निवृत्ति-मात्रेण तार्किकादयः संतृप्ताः।
अतिशयितम् आनन्दानुभवम् अप्य्
आगमान्त-निष्णाताः अभ्युपयन्ति।

हरि-पारम्यम्

सो ऽयं मोक्षः
तत्त्व-याथात्म्य-निर्णयानुरूपं निरूपयितव्यो भवतीति
तत्-परिशीलने क्रियमाणे,
इदम् अनुसन्धेयं भवति -
निखिल-निगम-व्यसन– पुराणेतिहास-प्रणयन– ब्रह्म-सूत्र-निर्माण– निरूढ-वैभवेन भगवता कृष्ण-द्वैपायनेन,
वसिष्ठ-पुलस्त्य-वर-प्रदान-लब्ध– देवता-पारमार्थ्यस्य श्री-विष्णु-पुराणं प्रणीतवतः पराशरस्य परमर्षेः पुत्रेण,

“तत्त्वं जिज्ञासमानानां
हेतुभिः सर्वतो-मुखैः।
तत्त्वम् एको महा-योगी
हरिर् नारायणः परः॥”

इति श्रीमन्-नारायण-पारम्यं निरणायि।

एवम् अपि केचिन् मोमुह्येयुर् इति
भुजम् उद्धृत्य च तेन समघोषि

“सत्यं सत्यं पुनः सत्यम्
उद्धृत्य भुजम् उच्यते।
वेदात् शास्त्रं परं नास्ति
न दैवं केशवात् परम्॥”

इति।

आराधनादि-प्रशंसा

जीव-कृत्यं दर्शयता च तेन- [[P1]]

“आलोड्य सर्व-शास्त्राणि
विचार्य च पुनः पुनः।
इदम् एकं सुनिष्पन्नं
ध्येयो नारायणः सदा॥”

इति सदा तद्-ध्यानं कर्तव्यं
भारत एव प्रत्यबोधि।

तथा आह्निकं शिक्षयता तेन
धर्म-काण्डे देवार्चनं विवक्षता,

“न विष्ण्व्-आराधनात् पुण्यं
विद्यते कर्म वैदिकम्॥”

इति भगवद्-आराधनम् एव वैदिकत्वेन व्युदपादि।
मोक्षे च-

“बद्धाञ्जलि-पुटा हृष्टा
नम इत्य् एव वादिनः।
मुक्तानां लक्षणं ह्य् एतत्
यत् श्वेत-द्वीप-वासिनाम्॥”

इति श्वेत-द्वीपे भक्त-परिस्थिति-प्रदर्शनापदेशेन
भगवन्तं प्रति बद्धाञ्जलि-पुटतया अवस्थानम् एव कृत्यम्
इत्य् अदर्शि।

निगमनम्

तद् एवं ध्यान-सेवनयोर् उक्तयोर् बलेनैव
भगवतो जीवा नित्य-शेषा दासाः कैङ्कर्य-धनिन इति सिद्धे,
निरस्त-निखिलानिष्टः सर्व-देश– सर्व-काल– सर्वावस्थोचित– सर्व-विध-कैङ्कर्य-रूपेण परिचरन्
परिपूर्ण-भगवद्-अनुभव एव मोक्ष
इति प्रतिपत्तव्यम्।

स हि शेषो नाम,
यः शेषि-प्रयोजन-निर्वर्तनेनैव स्वात्मानं लभते।
इदम् अभिप्रेत्याभिहितं श्री-भगवद्-यामुन-मुनिभिः-

“कदा ऽहम् ऐकान्तिक-नित्य-किङ्करः
प्रहर्षयिष्यामि स-नाथ-जीवितः”

इति।

नित्य-शेषत्वाध्यवसाय-विरोधेन
क्षणम् एकम् अपि स्वार्थत्व-बुद्धिः
क्वचिद् अपि न साम्प्रतम्
इति च तैर् एव निरटङ्कि।

“न देहं, न प्राणान्, न च सुखम् अशेषाभिलषितं,
न चात्मानं, नान्यत् किम् अपि तव शेषत्व-विभवात्।
बहिर्-भूतं नाथ क्षणम् अपि सहे, यातु शतधा
विनाशं तत्, सत्यं मधु-मथन विज्ञापनम् इदम्॥”

इति। [[P2]]

इदम् एवाभिसन्धाय श्रुतिः

‘य आत्मनि तिष्ठन्….. यस्यात्मा शरीरम्’

इति जीवात्मनां परमात्म-शरीरत्वं श्रावयति।
न हि शरीरं जातु स्वार्थं भवितुम् अर्हति;
किं नाम; आत्मार्थम्।

यस्यैष विवेकः “स्वात्मा तस्य शरीरम्” इति,
स नूनं स्वात्म-भूत-भगवन्-मुखोल्लास-हेतोर् अन्यत्र
न व्याप्रियेत।

शेषत्व-भङ्गः, मुमुक्षा

स्वार्थं फलान्तर-कामनायां हि शेषत्वाध्यवसायो ऽयं भज्येत।
सर्वम् इदम् अभिप्रेत्य जैमिनिः,
“शेषः परार्थत्वात्” इति सूत्रं प्राणैषीत्।

पारार्थ्यम् एव शेषत्वम्।
“फलवत्-सन्निधाव् अफलं तद्-अङ्गम्” इति वदद्भिश् च मीमांसकैः
अङ्गस्याङ्गि-फलाद् अन्यत् फलं प्रत्यषेधि।+++(5)+++

“स्वार्थम् इति प्रवृत्तौ शेषत्व-भङ्ग” इत्य् एव
श्री-भगवता सात्त्विक-त्याग-पुरस्सरं कर्माण्य् अनुष्ठापयता,
“तत् कुरुष्व मद्-अर्पणम्" इत्य् अगायि।

यद्य् अपि क्षुत्-पिपासा-शमनम् अपि किञ्चिद्
विवेकिभिर् अपि क्रियते,
अथापि

तद् अपि शमनं तद्-अर्थम्

इत्य् अध्यवस्यतां
न स्वार्थत्व-बुद्धेर् अवसर इति विवेक्तव्यम्।

लोक-सिद्ध-कार्य-कारण-भावानां पदार्थानाम् उपादानं हि
लौकिकं फलं जनयितुम् एव,
अथापि तत् फलम् अपि परमात्मार्थम्
स्इत्य् एव भाव्यम्।

अवर्जनीय-फल-विषयय् एवम् अध्यवसाये ऽपि
अन्यत्र संकल्प-सम्पाद्य-फल-विषये सर्वथैवोदासितव्यम्।+++(4)+++
मुमुक्षा ऽपि जीवस्य ईदृश-शेषत्वाध्यवसाय-भङ्ग-प्रसङ्गं प्रकृति-मण्डले ऽभिलक्ष्य
तत्-परिहारायैव इति विभाव्यम्।+++(5)+++

तद् एवं

भगवत्-प्रीणनं कर्मैव
जीवस्य स्वरूप-प्राप्तम्

इत्य् उक्तं भवति।

देवतान्तर-भजनम्

एवं च विवेकिभिः
स्वार्थं किञ्चित् कर्माचरणम् इव
देवतान्तरार्थं किञ्चिद् आचरणम् अपि
भगवच्-छेषत्व-भङ्ग-भियैव त्याज्यं भवति। +++(4)+++

अत एव महा-भारते श्री-नारायणीये यज्ञाग्रहराध्याये
देवतान्तर-यजनं परमैकान्तिनां पर्युदस्तम्।

एतावद् अविवेचयन्तस् तु,

वैष्णवानां देवतान्तर-सेवन-विद्वेषो न साम्प्रतम्

इति मुधा दोषम् आरोपयन्ति।

एवं हि संमन्यमाने लौकिक-प्रभु-सेवादिकम् अपि श्लाघनीयं स्यात्। +++(4)+++

‘सेवा श्व-वृत्तिर् आख्याता’
इति तन्-निषेधो ऽपि
दुर्लभ-राज-सेवा-भाग्यैः कल्पित इति कल्प्येत।

आत्म-स्वरूप-विरोधाविरोध-पर्यालोचने
पुनः देवतान्तर-यजनम् अप्य् अनुचितम् इति
स-प्रमाणं स्थास्यति।

अपवादः, निगमनम्

यदा तु भगवतैव
विशिष्य क्वचित् कश्चित् प्रेर्येत,
स कामं [[P3]] तच्-छेषत्व-संरक्षणायैव
तत् कर्तुम् अर्हति।

अन्यत्र तु स्वरूप-विरुद्धे प्रवृत्तिर् असाम्प्रतम्।
अत एव नित्य-नैमित्तिकेष्व् अवर्जनीयं देवतान्तरानुसन्धानम् इति महान्तो मन्वते।

तत् सिद्धं भगवद्-ऐकान्त्यम् अधिगम्य
तच्-छेषत्वानुरूप-वृत्ति-परेणैव
सर्वेण मोक्ष इव
बन्धे ऽपि विवेकिना भाव्यम् इति। +++(5)+++

सो ऽयं सर्व-वैष्णव-समादरणीयः सिद्धान्तः।

भगवत्-प्रीणनम्

भगवत्-प्रीणनं च कर्म किम्

इति भगवतः शास्त्रैक-समधिगम्यतया तत्-प्रीत्य्-अप्रीति-विज्ञानम् अपि तद्-एक-मूलम्
इति तत्रापि शास्त्रम् एव नश् चक्षुः।

मोक्षे साक्षाद् अधिगतम्

परमे तु पदे परं ज्योतिर् उपसम्पद्य
स्वेन रूपेणाभिनिष्पन्नतया
तस्य सर्वम् आशयं साक्षात्-कुर्वन्तः,
‘स तत्र पर्येति’,
‘कामान्नी काम-रूप्य् अनुसञ्चरन्’,
‘स एकधा भवति, त्रिधा भवति, पञ्चधा’
इत्य्-आद्य्-उपनिषद्-उद्घोषित-रीत्या
सत्य-कामाः सत्य-संकल्पाः
तत्-संकल्पानुकूलम् एव सर्वं कैङ्कर्य-रूपेण चरितुं पारयन्ति।

बन्धे शास्त्राधिगतम्

इह त्व् इह!
अतः शास्त्रम् आदर्तव्यम्।
अन्यथा हि स्वाराज्य-क्षुब्ध-हृदया इव
स्व-च्छन्दानुरोधेन उच्चावचं प्रवर्तमानाः
वासना-वशाद् ईश्वर-प्रद्वेष-मात्रं जहतो ऽपि
परमम् अभ्युपयन्तो ऽपि
ब्रह्म-हत्या-सुरापानाद्य् अपि तत्-संप्रीणनं मन्वीरन्।+++(4)+++

ननु सत्यं शास्त्रम् एव चक्षुः।
तत एव ‘ध्येयो नारायणः सदा’
इति प्राग् उक्तं ध्यानम् एव तत् स्याद्

इति चेत्-स्यान् नाम -
यदि तद् एव क्षणम् एकम् अप्य् अविहायानुवर्तयितुं पार्यते।

ध्यानायापि

क्षुत्-पिपासाकुलितस्य हि
न तच्-छमनम् अन्तरेण ध्याने प्रवृत्तिः।

ध्यानम् इति किम्?

“बुभुक्षितं न प्रति भाति किञ्चित्”।

तच्-छामकं च भोजनं
शुद्धेनान्नेन निर्वर्तनीयम्।

‘आहार-शुद्धौ सत्त्व-शुद्धिः
सत्त्व-शुद्धौ ध्रुवा स्मृतिः’

इति हि स्मृतिः।

अपरथा

‘यद्-अर्थम् अयम् आरम्भस्
तत्-कार्यम् अवसादितम्’

स्यात्।
ध्यानम् एव न निष्पद्येत।

“यज्ञ-शिष्टाशिनस् सन्तो
मुच्यन्ते सर्व-किल्बिषैः।
ते त्व् अघं भुञ्जते पापा
ये पचन्त्य् आत्म-कारणात्॥”

इति च गीतम्।

पञ्च-महा-यज्ञ-निर्वर्तनं च
न्यायार्जितैर् एव द्रव्यैः।
तथा

‘सन्ध्या-हीनो ऽशुचिर् नित्यम्
अनर्हः सर्व-कर्मसु’

इति वचनात् तत्
उपासित-सन्ध्यस्यैव।

तद्-उपासनं च

‘स्नान-मूलाः क्रियाः सर्वाः’

इति स्नाने शास्त्र-प्रकारेणानुष्ठिते आयतते।

स्नानं [[P4]] शौचाद्य्-अनन्तरम्।

तद् एतावत्-सापेक्षम् एवं ध्यानम्।

ध्यान-सम्पन्नस्यापि तद्-अनुवर्तनम्
एवं सत्य् एव भवतीत्य् उक्तम्।

तद्-उपक्रमश् च
यम-नियमासन-प्राणायाम-प्रत्याहार-सापेक्षो
न प्रथमत एव संपद्यते।

अन्यथा खल्व् अद्यत्वे सर्वे ऽपि हेलया भक्ति-योगम् अनुतिष्ठेयुर् आस्तिकाः।
एको ऽपि हि सुदुर्लभः सांप्रतम्।

तस्मात्
वैदिक-लौकिक-कर्मणां बहूनाम् अवर्जनीयतया, अपेक्षिततया च
तद्-अर्थं कालं विहाय,
अन्यदा सर्वदा ध्येयो नारायण इत्य् एव निगमनीयं भवति। +++(5)+++

कर्मसु ब्रह्मभावः

अथवा “सदा ध्येय” इति वाक्यम्
एवम् अर्थं भवितुम् अर्हति -

सर्वम् अपि कर्म क्रियमाणं

‘ब्रह्मार्पणं ब्रह्म हविर्
ब्रह्माग्नौ ब्रह्मणा हुतम्।
ब्रह्मैव तेन गन्तव्यं
ब्रह्म-कर्म-समाधिना॥’

इति गीतानुसारेण
ब्रह्म-ज्ञान-गर्भम् एव क्रियत इति।

सर्व-कालानुस्यूत-तच्-चिन्तनमयत्वात् कर्मणां
ध्यानम् एव सर्वदा क्रियमाणं भवति। +++(5)+++

वर्णितं चैवम् एव
श्रीमति रहस्य-त्रय-सारे नित्य-कर्मानुष्ठानावश्यकत्वं निरूपयद्भिः श्रीमद्भिर् देशिक-चरणैः।

वैखानस-ज्ञान-काण्डः

एवं कर्मणां ज्ञान-मयत्वं मनसि कृत्वैव
भगवत्-प्रतिष्ठार्चनादि-मात्र-प्रतिपादकस्य स्व-ग्रन्थस्य
‘ज्ञान-काण्डः’ इति नाम विखनो-मुनि-शिष्यः काश्यपः कल्पयामास।
‘कश्यपः पश्यको भवति’ इति श्रुत्य्-उक्त-रीत्या
सर्व-दर्शी हि महर्षिः काश्यपः।
कश्यप-काश्यपयोर् नात्यन्तं भेदः।
स ज्ञान-प्राधान्यं कथं त्यजेत्।

ध्यानम् इदं सर्वदा कर्तुम् अशक्यम् इत्य् आनन्द-संहितायां मरीचिर् अप्य् आह,

“सदा ध्यातुम् अशक्यत्वात्"

इति।

कर्म-त्याग-मात्रा

तद् एवं ध्यानं विधीयमानं
तद्-अपेक्षित-कर्म-साहचर्येणैव विधीयत इति
तद्-बाह्य-कर्म-त्याग-मात्रं ततः सिद्ध्येत्। +++(5)+++

तेन देवतान्तराराधन-कर्माणि,
अनुपयुक्तानि च लौकिकानि सर्वाणि त्याज्यानि भवन्ति;
न तु नित्य-नैमित्तिकानि।+++(4)+++

यो हि युक्तो बहु-तिथं कालं ध्यानेनैवातिवाहयितुम् अलम्-भविष्णुः,
तस्य बाह्य-कर्म-स्फूर्त्य्-अप्रसक्तेर् +++(→ततः शक्त्यभावत्, यथाशक्त्य्-अनुष्ठेयानाम्)+++ अननुष्ठानं प्राप्तम्
इष्यत एव।
योगात् व्युत्थितास् तु न त्यक्तुम् अर्हन्ति।+++(5)+++

लोकसङ्ग्रहः

‘लोक-संग्रहम् एवापि
संपश्यन् कर्तुम् अर्हसि’

इति चावर्जनीयं कर्मानुष्ठानम्।

इयान् विशेषः - कर्म-योग-न्यायेनाविद्वान्
कस्याराधनम् इत्य् अजानानः
कथम् अप्य् आचरेत्।
विद्वांस् त्व् अविद्वद्-आचरण-समान-बाह्याचरणो ऽपि
ब्रह्माराधनत्व-बुद्ध्यैव समाचरतीति।
[[P5]]

वर्णाश्रम-धर्म-पुरस्-क्रिया

अर्थ-ज्ञान-विधुर-विहितं वेदाध्ययनम् इव
अन्तरात्माराधन-रूपताम् अजानतो ऽनुष्ठानम् अपि
श्रेयस्करतां न सर्वात्मना जहाति।+++(4)+++
पर्व-क्रमेण परमं फलं प्रसुवीत।

एवम् अभिज्ञानभिज्ञ-सर्व-पुरुषापेक्षितत्वात्
सर्वे ऽपि महर्षयो वर्णाश्रम-धर्म-निरूपणैदम्पर्यम् अबिभरुः।

अभिसन्धिस् तु सर्वेषाम्,

“वर्णाश्रमाचारवता
पुरुषेण परः पुमान्।
विष्णुर् आराध्यते, पन्थाः
नान्यस् तत्-तोष-कारकः”

इति विष्णु-पुराणे,

“स्वे स्वे कर्मण्य् अभिरतः
संसिद्धिं लभते नरः”

इति गीतायां च दर्शिते भगवत्-प्रीणन एव।

अत एव,

‘मन्व्-अर्थ-विपरीता तु
या स्मृतिः सा न शस्यते’

इति स्मर्तृषु ज्येष्ठतयैव श्रेष्ठतयापि परिगणितो मनुः
स्वोपदेक्ष्यमाणानां वर्णाश्रम-धर्माणां
भगवद्-आराधनताम् आदौ शिक्षयितुम्,

‘आसीद् इदं तमो-भूतम्’,
“ततः स्वयम्भूर् भगवान्’

इति तस्य स्रष्टृत्वादिकं वर्णयन्न् एव
शास्त्रम् उपाक्रंस्त।

काम्य-कर्म-पात्रम्

काम्य-कर्मणाम् अपि वस्तुतो न फलार्थम् एवोपदेशः,
किन्तु भगवद्-विषय-वेदन-संवर्धनार्थम्।
यतः श्रूयते

‘तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसा ऽनाशकेन’

इति, प्रजानां प्रारम्भतो भगवत्-परत्वस्य विरहात्
फलान्तर-वैयग्र्याच् च

तैर् एव कर्मभिस् तद्-अपेक्षितानि फलानि निष्पाद्य
तेषु कर्मसु श्रद्धाम् आधाय
तत एव स्व-वेदनम् अपि पश्चात् साधयितु-मनसा भगवता
तान्य् उपदिश्यन्त

इति तत्त्वम्।
तथा च स्मर्यते,

‘प्रत्ययार्थं च मोक्षस्य
सिद्धयः संप्रकीर्तिताः

इति।

काम्य-कर्मणाम् अप्य् ऐदम्-अर्थ्य एवम् अवगम्यमाने,
अकरणे ऽपूर्व-प्रत्यवायं,
करणे पाप-क्षयं च प्रसुवतां नित्य-कर्मणां
परम-पुरुष-वेदनार्थम् उपदेश
इत्य् अत्र न विशयावकाश-लेशो ऽपि।

करण-त्रय-पात्रम्

मनो-वाक्-कायाख्यानि मुख्यानि त्रीणि करणानि कल्पयतो भगवतश् च
मनो-मात्रे स्वार्थ-तृप्तिर् न भवितुम् अर्हतीति हेतोर् अपि
सर्वस्य तादर्थ्य-सिद्धिः।+++(4)+++

अनुज्ञा-कैङ्कर्यम्

तद् एवं ध्यानं, कर्मेति द्विविधे भगवत्-प्रीणने,
कर्म किं स्नान-सन्ध्योपासनाग्नि-होत्रादि-रूपम् एव -
आहो अन्यादृशम् अपीति विचारे,
अन्यादृशम् अप्य् अस्तीति
गीतयापि ज्ञायत इति विद्मः।

भगवत्-कर्म

तत्र हि द्वादशे-

“अथ चित्तं समाधातुं
न शक्नोषि मयि स्थिरम्।
अभ्यास-योगेन ततो माम्
इच्छाप्तुं धनञ्जय॥”
[[P6]]

इति ध्याने शक्ति-विकलस्य
सार्वकालिकम् आलम्बन-संशीलनम् आवश्यकम्
इत्य् अभिधाय
तत्राप्य् असामर्थ्ये
ततो ऽन्यद् अनुष्ठेयम् अदर्शि-

“अभ्यासे ऽप्य् असमर्थो ऽसि
मत्-कर्म-परमो भव।
मद्-अर्थम् अपि कर्माणि
कुर्वन् सिद्धिम् अवाप्स्यसि॥”

इति।

कर्मयोगाद् भेदः

अत्रोक्तं कर्माचरणं तावत्
न नित्य-नैमित्तिकानुष्ठान-मात्रम्;
तस्य पूर्वोक्ताभ्यास-काले ध्यान-काले ऽपि स्थितत्वाद् अविशेषात्।
नापि कर्म-योगाचरणम्;
एतत्-कर्माचरणस्याप्य् आशक्यत्वे कर्म-योगश् चरणीयः इति,

“अथैतद् अप्य् अशक्तो ऽसि
कर्तुं मद्-योगम् आश्रितः।
सर्व-कर्म-फल-त्यागं
ततः कुरु यतात्मवान्॥”

इत्य् अनेन समनन्तरम् एव ज्ञाप्यमानत्वात्।

अत्र ‘मद्-योगम्’ इति पद-बलात्
पूर्वोक्तं कर्म तद्-योगोपयोगि कर्म,
सर्व-कर्म-फल-त्याग-रूप– कर्म-योगस् तु
जीवात्म-योगोपयोगि कर्मेति वैलक्षण्यम्
इति वेदितं भवति।

तद् अत्र मद्-योग-पदवत्
मत्-कर्मेति पदम् अपि स्वरसतः साक्षाद् भगवद्-अर्थं कर्म-विशेषं विलक्षणम् आहेत्य् अवसीयते।

एतद्-अनुसारेण ‘सर्व-कर्म’ इति पदम् अपि देवतान्तर-द्वारकस्यापि कर्मणः यज्ञादेः
सात्त्विक-त्याग-विषयतां दर्शयति।

विश्वास-टिप्पनी

अनेनोत्तमूरु-वीरराघवार्यो ऽमन्यत -

“कर्मयोगः प्रगतः
न केवलं निश्चितकाले नियमेनानुज्ञात-कर्माचरणं फलसङ्गादि विना,
प्रत्युत सर्व-कर्म-फल-त्याग एव।

इति।

सन्ध्योपासनाग्नि-होत्र– दर्श-पूर्ण-मासादीनि हि कर्माणि
नाना-देवानुसन्धान-कर्बुराणि,
अथापि भगवद्-अर्पण-धियैवानुष्ठीयन्ते।

एवं च

मत्-कर्मेति पदं
साक्षाद् भगवद्-गोचरं किम् अप्य् अन्तरङ्गं कर्म-विशेषम् आह

इत्य् आर्जवेन प्रतिपत्तव्यम्।

[[P7]]

क्रिया-योगः

एतद्-गीता-श्लोकार्थानुवादकं वचनम्
अत्र तात्पर्य-चन्द्रिकायाम् उपात्तम् अप्य् अवधानम् अर्हति-

“तत्र चित्तं समावेष्टुं
न शक्नोति भवान् यदि।
तद्-अभ्यास-परस् तस्मिन्
कुरु योगं दिवानिशम्॥

तत्राप्य् असामर्थ्यवतः
क्रिया-योगो महात्मनः।
ब्रह्मणा यः समाख्यातः
तत्-परः सततं भव

करोषि यानि कर्माणि
देव-देवे जगत्-पतौ।
समर्पयस्व भद्रं ते
ततः कर्म प्रहास्यसि॥

प्रधानं कारणं +++(भक्ति-)+++योगो
विमुक्तेर् दितिजेश्वर।
क्रिया-योगश् च +++(भक्ति-)+++योगस्य
परमं तस्य साधनम्॥”

इति।

अत्र ‘ब्रह्मणा’ इति पदेन
विखनसो विवक्षा युज्यते,
‘क्रिया-योग’-शब्दश् च समूर्तार्चने सुप्रसिद्धः। +++(4)+++

श्री-भागवते च (११)
सप्तदशाद्य्-अध्यायतो वर्णाश्रम-धर्माणाम् उपदेशं लब्धवतैवोद्धवेन पुनः,

“क्रिया-योगं समाचक्ष्व
भवद्-आराधनं प्रभो”

इति (२७ अध्याये) प्रश्नः कृतः।

भगवांश् च विस्तरेण
वैदिक-तान्त्रिक-मिश्रात्मना त्रिविधं समर्चनम् उपादिशन् निगमयति-

प्रतिष्ठया सार्वभौमं
सद्मना भुवन-त्रयम्।
पूजादिना ब्रह्म-लोकं
त्रिभिर् मत्-साम्यताम् इयात्

माम् एव नैरपेक्ष्येण
भक्ति-योगेन विन्दति।
भक्ति-योगं स लभते
एवं यः पूजयेत माम्॥’

इति।

भक्ति-योगस्य साक्षान्-मोक्ष-साधनत्वं, आलय-प्रतिष्ठा-पूजादि-विधानात् भक्ति-योग-सिद्धिश् चात्र स्पष्टम् उच्यते।

अतो गीतायां
भक्ति-योग-कामं प्रत्य् उपदिश्यमानं
मत्-कर्मेति-पद-निर्दिष्टं
निरुक्त-क्रिया-योगात्मकम् एव भवितुम् अर्हति।

सर्वम् इदम् अभिप्रेत्य च
तत्र श्री-भगवद्-रामानुज-मुनिभिर् अभाषि,

“मदीयानि कर्माण्य् आलय-निर्माणोद्यान-करण– प्रदीपारोपण- मार्जनाभ्युक्षणोपलेपन- पुष्पाहरण– पूजा-प्रवर्तन– नाम-संकीर्तन– प्रदक्षिण-स्तुति-नमस्कारादीनि”

इति।

श्री-भागवते च (११)- [[P8]]

“मल्-लिङ्ग–मद्-भक्त-जन-
दर्शन-स्पर्शनार्चनम्।
परिचर्या स्तुतिः प्रह्व-
गुण-कर्मानुकीर्तनम्॥
गीत-ताण्डव-वादित्र-
गोष्ठीभिर् मद्-गृहोत्सवः।
वैदिकी तान्त्रिकी दीक्षा
मदीय-व्रत-धारणम्॥
मद्-अर्चा-स्थापने श्रद्धा
स्वतः संहृत्य चोद्यमः।
उद्यानोपवनाक्रीड-
पुर-मन्दिर-कर्मणि॥
संमार्जनोपलेपाभ्यां
सेक-मण्डल-वर्तनैः।
गृह-शुश्रूषणं मह्यं
दास-वद् यद् अमायया॥”

इत्य्-आदिना स्पष्टम् उपदिष्टम् इदं सर्वम्।

भक्ति-योगाङ्गम् अर्चनम्

पूर्वाङ्गम्

‘स्नेह-पूर्वम् अनुध्यानं
भक्तिर् इत्य् अभिधीयते’

इति ज्ञानांशस्य मुख्यत्वात्

तद्-घटनया निरुच्यमाना भक्तिर् अप्य्
अर्चन-स्तवन-नमनादि-रूपेण परिचरन्त्य् एव मोक्ष-साधनम्

इति दर्शयितुम् एव
भक्ति-स्वरूप-निष्कर्षके नवमे ऽध्याये,

‘मन्-मना भव मद्-भक्तो
मद्-याजी मां नमस्कुरु’

इत्य्-अत्र ‘मद्-याजी’ति पदस्यार्चा-शास्त्र-प्रपञ्चित– +औपचारिक-सांस्पर्शिकाभ्यवहारिक- सांदृष्टिक– सकल-भोग-प्रदान-रूप– याग-परत्वम् एवाभाषि।

औपचारिकः = नीराजनादिः;
सांस्पर्शिकः = स्रक्-चन्दनादिः;
आभ्यवहारिकः = नैवेद्य-रूपः;
सांदृष्टिकः = दीपादिः।

वेदार्थ-संग्रहे ऽपि

“जीव-परमात्म– याथात्म्य-ज्ञान-पूर्वक– वर्णाश्रम-धर्मेतिकर्तव्यताक– परम-पुरुष-चरण-युगल– ध्यानार्चन-प्रणामादिः
अत्यर्थ-प्रियस् तत्-प्राप्ति-फलः”

इति वर्णाश्रम-धर्माणाम् इतिकर्तव्यतात्वं
अर्चनादेर् उपाय-कोटि-प्रवेशश् चादर्शि।

“श्रवणं कीर्तनं विष्णोः
स्मरणं पाद-सेवनम्।
अर्चनं वन्दनं दास्यं
सख्यम् आत्म-निवेदनम्।
इति पुंसार्पिता विष्णौ
भक्तिश् चेन् नव-लक्षणा॥”

इति सर्वस्य भक्तित्वं स्मर्यते
स्नेह-पूर्वक-व्यापार-सामान्यं भक्तिर् इत्य् आशयेन।

‘भज [[P9]]सेवायाम्’

इति च धातुः।

एवं चार्चनं साक्षान्-मोक्ष-साधनम्
इत्य् एतद् उपपन्नतमम्।

अर्चनादि-परिवाह-विशिष्टं ध्यानं मुक्त्य्-उपाय इति तु निष्कर्षः।
अर्चनादिकं पूर्वं क्रियमाणं
ध्यानान्तरङ्ग-साधनम्।

उत्तराङ्गता

ध्यानानन्तरम् अवशाद् भवत्
तद् एव परिवाह-भूतम् इति च भाव्यम्।
तथा-

“पत्रं पुष्पं फलं तोयं
यो मे भक्त्या प्रयच्छति।
तद् अहं भक्त्य्-उपहृतं
अश्नामि प्रयतात्मनः॥”

इति गीता-श्लोको ऽपि
मूर्त्य्-अर्चनम् एव मनसि-कृत्य प्रवृत्तः।

न हि विभवावतारे कादाचित्-कर-प्रदानस्यैतद्-अर्थत्वं प्रकरणे स्वरसम्।
न च निष्कले पत्र-पुष्पादेर् दीयमानस्य धारणादि-रूपः समुचितः सम्बन्धः सम्भाव्यते।

‘अश्नामि’ इति पदम् अपि गलादि-व्यापार-वाचि मूर्तिं भावयति,
न शुद्ध-परमात्म-स्वरूपम्।

“याः क्रियाः सम्प्रयुक्ताः स्युर् एकान्त-गत-बुद्धिभिः।
ताः सर्वाः शिरसा देवः
प्रतिगृह्णाति वै स्वयम्॥”

इति भारत-वचनम् अपि
मूर्त्या सहितस्याराध्यत्वं दर्शयति।

वैदिकता

व्यास एव स्वकीये धर्म-काण्डे
आह्निकम् उपदिशन्
मध्ये देवार्चन-प्रस्तावे,

“न विष्ण्व्-आराधनात् पुण्यं
विद्यते कर्म वैदिकम्”

इत्य् अर्चाराधनस्य प्राधान्यम् आवश्यकत्वं च प्रतिबोधयति।

संस्काराणां संस्कारत्वम्

किञ्च,
गृह्य-श्रौत-धर्म-ग्रन्थेषु
चत्वारिंशता संस्कारैः संस्कृतत्वं
पुंसाम् आवश्यकम् इत्य् उच्यते।
ते च संस्काराः निषेकादयः, पाक-यज्ञाः, हविर्-यज्ञाश् च सर्वे स्मार्ताः श्रौताश् च।

एषां संस्कार-शब्देन व्याहारः कस्मात्?
संस्कारो हि नाम कार्यान्तर-योग्यता-करणम्।
संस्कृतस्य चोत्तरत्र विनियोगो ऽपेक्ष्यते;
यथा ‘व्रीहीन् प्रोक्षति’ इत्य्-आद्य्-उक्त-प्रोक्षणादि-संस्कार-भाजां व्रीह्यादीनां
पुरोडाशादि-द्वारा यागे विनियोगः।

प्रतिपत्ति-कर्म-परं विनियुक्त-संस्कारः स्वीक्रियते;
न तत्रोपर्य् उपयोग-प्रसक्तिः।

न चेमे चत्वारिंशद् अपि संस्काराः
पूर्वम् अन्यत्र यत्र क्वापि विनियुक्तस्य पुरुषस्य संस्कारा भवन्ति;
न चैषां प्रतिपत्तित्व-प्रसक्ति-लेशो ऽपि।
तद् अत्रैवं संस्कृतस्योत्तरत्र विनियोगापेक्षा ध्रुवा।

तत् कुत्रेति चिन्तायां

‘मन्-मना भव मद्-भक्तो
मद्-याजी मां नमस्कुरु’

[[P10]]

इत्य् उक्तेषु
भगवत्-प्राप्त्य्-अर्थेषु करण-त्रय-कार्येष्व् अविशेषात् विनियोग
इति निश्चीयते।

अविद्यान्तरे परिभ्रमणम् एव परम्-भोग्यं मन्वानाः
कामम् अन्धेनैव नीयमाना अन्धा इव
क्षुद्र-स्वर्गादि-पतनापादकेषु कर्म-जालेष्व् आत्मानं विनियोजयन्तु;
किं तेन?

अर्चनोपायता

‘भक्त्या भगवन्तं नारायणम् अर्चयेत्;
तद् विष्णोः परमं पदं गच्छति’

इति भक्तेर् अङ्गत्वम्
अर्चनस्य प्राधान्यं चोच्यत

इत्य् अप्य् आहुः,

कर्म-योगस्येव ज्ञानमयत्वात्
“ज्ञानान् मोक्ष” इति वादो ऽपि संगच्छत

इति।

निक्षेप-रक्षायां कृतः ‘नान्यः पन्था’ इत्य् एतद्-विचारो ऽत्रोपयुज्यते।

अतो भगवद्-उपासनवत्
अर्चनस्यापि वर्णाश्रम-धर्मापेक्षया
प्राधान्यम्, उपासन-तौल्यं च सिद्धम्।

अर्चनोपेयता

पूर्वोक्त-विधया
परम-पदे साक्षाद्-दृष्ट– परम-पुरुष-दिव्य-मङ्गल-विग्रह-विषय– विविध-कैङ्कर्य-साधर्म्य-समीक्षायां तु
तत्र नित्य-मुक्तानाम् इव
अत्र बद्धानां परमोत्साहेन प्रवर्तमानानां भगवद्-अर्चनादिकं
तथैव प्राधान्यं फल-कोटि-निवेशाद् अश्नुत
इति निश्चेतव्यम्।+++(4)+++

कर्मयोगे प्राधान्यम्

एवं प्रधान-भूतत्वाद् एवास्य
भक्ति-सह-भूतस्य भक्ति-रूपस्य च
प्राग्-दशायाम् अप्य् अनुष्ठेयत्वात्,

कर्म-योगानुष्ठान-परैर् आदरणीयासु कर्म-योग-विधासु
यथायथं गृह्यमाणास्व् अन्य-सर्वापेक्षया
भगवद्-अर्चनस्यैव प्रथम-निर्देशं रोचयाम् आस भगवान्,

“दैवम् एवापरे यज्ञं
योगिनः पर्युपासते”

इति।

धर्मशास्त्रेऽर्चनम्

धर्मशास्त्रेषूपेक्षा

कथं तर्हि धर्म-ग्रन्थ-प्रणेतारो
यथावद् इदं श्रीमन्-नारायणार्चनं
न न्यरूपयन्न्

इति चेत्-

चरित-क्रिया-ज्ञान-योग-रूपेषु चतुर्षु
चरित-निरूपणैदंपर्याद्

इति गृह्यताम्।

ऐहिकामुष्मिक-नाना-फल-व्यापृत– लोक-साधारण्येन
कर्म-काण्डार्थ-निरूपण-निष्णाता हि ते
निगम-शिखर-कुहर-निगूढ– निष्कृष्ट-तत्त्वानुष्ठानांश-वैशद्यं
न स्व-कर्तव्यं मेनिरे।

धर्मशास्त्रेषु निरूपणम्

अथापि
निरीश्वर-मीमांसकादि-कोटि-निवेशाद् बिभ्यतः

स्व-प्रतिपाद्यो धर्मः सर्वः सर्वेश्वराराधन-रूप

इति परं व्युत्पादयितुं
तस्य जगत्-कारणत्वादि स्वयम् अदीदृशन्।

अत एव मनुः
प्रथमतो भगवत्-प्रस्ताव-मात्रेणानुपरम्य
शास्त्रान्ते प्राधान्येन योगं निर्दिशति।

याज्ञवल्क्यश् चादाव् एव,

‘अयं तु परमो धर्मो
यद् योगेनात्म-दर्शनम्’

इति स्पष्टम् आह।
मध्ये च,

‘स्नात्वा देवान् पितॄंश् चैव
तर्पयेद् अर्चयेत् तथा’

इत्य् अर्चनं सामान्येनाह।

तथा प्रायश्चित्ताध्याये शुद्धि-हेतु-परिगणनावसरे,

‘क्षेत्रज्ञस्येश्वर-ज्ञानात्
विशुद्धिः परमा मता’

इति स्वस्य शास्त्र-दर्शितम् ईश्वरं यो जानाति, [[P11]]
तस्य तद्-अनुग्रहेण सर्व-कर्म-निर्मोक-रूपा महा-शुद्धिर् भवतीति दर्शयति।

एवम् अन्यत्र।

विखनो-भिन्नोपेक्षा-हेतवः

एवं श्रौत-स्मार्त-गृह्य-धर्म-प्रयोग-शिक्षकाः कल्प-सूत्र-काराः
स्वयं सम्यग्-अभिमत-देवार्चनाधिकं
कर्म-काण्डार्थ-मात्र-कथन-वैयग्र्यात्
तत्-प्रपञ्चनं नादद्रिरे।

वैदिकं देवतार्चनम् अधिकं यथावद् अवश्यम् उपदेष्टव्यम् इति श्रद्दधानो भगवान् विखना एव
यथावत् सर्वं स्व-सूत्रे निरूपयाम् आसेति,
औपनिषदार्थ-रहित– केवल-कर्म-काण्डायमान-संहितान्तरतो विलक्षणा
ईशोपनिषद्-घटिता शुक्ल-यजुः-संहितेव,
सूत्रेषु वैखानसम् एव विजयते।+++(4)+++

अन्यथा हि ग्रन्थ-कारोपरि बहु-विधानाम् उत्प्रेक्षाणाम् अवसर आपद्यते,

सौर-शैव-वैष्णवादि-मत-भेदात्
देवतार्चन-प्रणाली भिद्यत

इति “तत्-प्रपञ्चने ते उदासते"ति वा,
“तेषां मत-निष्कर्षो नास्ती"ति दूषणं परिहर्तुं
“अवश्यं तैर् अभिमतं प्रदर्शयितव्यम् आसीत्-
अथापि त्यक्तं बते"ति वा,

“तत्-तद्-देवता-भक्त– सर्व-लोक-संमान्यत्वाय
सर्व-संग्राह्यत्वं स्व-ग्रन्थस्य भज्येते"ति भियैव ते त्यक्तवन्त

इति वा,

देवार्चनायाः देश-काल-दशानुरोधेन संक्षेप-विस्तरार्हतया
तत्र प्रयोगेयत्ता-शिक्षणं न साम्प्रतम्
इति तद्-उपेक्षां चक्रिरे

इति वा,

सर्व-सूत्र-कारैकरस्याय
पृथक् तत्-प्रणयनं युक्तम्

इति प्रतीक्षां चक्रिर

इति वा,

पाञ्चरात्र-गतस्य तान्त्रिकस्याप्य् आदरणीयत्वात्
तस्य वैदिकैक-पर-सूत्र-मध्ये निबन्धनस्यानुचितत्वात्
वैदिकस्य वैखानसस्य परं निरूपणे पक्षपातः कृतः स्याद्
इत्य् अमंसत

इति वा
विविधा भवन्त्य् उल्लेखाः।

किं स्यात् तैर् आलोचितम्

इति हि विचार-सागरे संप्लवन्ते सर्वे ऽप्य् आस्तिकाः।

विखनो-वैशिष्ट्यम्

विलक्षणस् तु विखनाः

वैदिकम् एव सर्व-समादरणीयम्

इति दृढाभिसन्धिः

देवार्चनानुक्तौ
मुख्यांशात् च्याविता भवेयुः प्रजा

इति भीतः,

“अस्मत्-सूत्रानुरोधिनो ऽनिष्कृष्ट-पर-देवताः
अव्यवस्थित-मतयो मा भूवन्,
विष्णु-पारम्यम् अवधार्य
परम-निःश्रेयस-प्राप्त्यर्थ-समाचार-पराः प्रथन्ताम्”

इति परम-कारुणिको भवन्
विष्णु-प्रतिष्ठार्चनादिकम् अपि चत्वारिंशत्-संस्कार-निरूपणार्थ-निर्मिते गृह्य-स्मार्त-श्रौत-सूत्रात्मनि स्व-प्रबन्धे निबबन्ध।
अत एव वैखानसाः सर्वे ऽपि वैष्णवा एव विलसन्ति। +++(5)+++

‘अग्निर् वै देवानाम् अवमः, विष्णुः परमः’

इत्य्-आदि-श्रुत्य्-उपन्यास-पूर्वं
नारायण-परायणत्वं यथा-योगं सर्वतो ऽयं समादिशति। नूनम् अन्य-निरपेक्षं सर्वं
स्व-सूत्राद् एवाध्येतृभिर् अवगन्तव्यम्
इति मनीषा ऽस्येति ज्ञायते;
यद् अयं गृह्य-धर्मान् स-प्रपञ्चं निरूपयामास;
उपरि ब्रह्मचारि-गृहस्थ-वानप्रस्थ-संन्यासि-रूपाश्रमेष्व् अवान्तर-भेदान् बहून् दर्शयामास,
संकर-जाति-वृत्त-वैविध्यं वितेने;
वानप्रस्थानां श्रमणकाग्निं स्वयम् उपदिदेश।

[[P12]]

श्रौते सर्वत्र पौण्डरीक-कुण्ड-विधानम् अप्य् एतद्-उपज्ञं लक्ष्यते।

नित्य-होमान्ते
नित्यं विष्णोर् अर्चनं कर्तव्यम्

इति,

‘विष्णोर् अर्चना सर्व-देवार्चना भवतीति
ततो यज्ञेषु यद् विहीनं
तत् सम्पूर्णं भवतीति विज्ञायते’

इति;

‘द्विजातिर् अतन्द्रितो नित्यं गृहे देवायतने वा
भक्त्या भगवन्तं नारायणम् अर्चयेत्’

इति च
प्रतिष्ठा-विधि-पुरस्सरं परमम् उपदेशं प्रतन्वन्
सर्व-प्रकार-प्रशंसनीय एवैष भ्राजते॥

वैखानस-शाखाङ्गीकाराः

नन्व् अत्रि-प्रोक्ते समूर्तार्चन-कल्पे,

‘यश् च वैखानसीं शाखाम्
आदौ अध्यापयन् मुनीन्।
नाम्ना विखनसं प्राहुर्
यं च वैखानसं तथा।
ऋषिणा तेन संप्रोक्तं
सूत्रे वैखानसे मतम्’

इत्य् उक्तम् अस्ति।
न खलु वैखानस-शाखेति काञ्चन शाखां अन्यत्र शृणुमः।
कश् चासौ विखनाः,
कथं च वैखानस

इति चेत् -

किम् अयं जिज्ञासया प्रश्नः,
आहो तद्-अप्रामाण्य-कल्पन-हृदयेन?।

बोधायनादि-गृहीता

अप्रामाण्य-शङ्किनस् तावत् प्राच्यैर् एव परास्ताः-
यतो बोधायन-धर्म-द्वितीय-खण्डे,
‘वानप्रस्थो वैखानस-शास्त्र-समुदाचारः’ इति,
श्रामणकाख्य– वैखानस-सूत्र-दर्शिताग्नि-विधानं वानप्रस्थस्याभ्यधायि।

आपस्तम्बादयो ऽपि
वानप्रस्थाग्नाव् इव
पौण्डरीक-कुण्डादाव् अपि
विखनस्-सूत्रम् एव प्रमाणत्वेन परिजगृहुः।

सर्व-प्रमाण-भूतः सर्वतो ज्येष्ठः श्रेष्ठश् च
तत्र भवान् मनुर् अपि
वानप्रस्थ-धर्म-निरूपणावसरे

‘काल-पक्वैः स्वयं शीर्णैः
वैखानस-मते स्थितः’
(६-२१)

इति वैखानस-पदं प्रायुंक्त।

व्यास-कृत-धर्म-काण्डे च

‘कथं त्वम् अर्चनीयो ऽसि
मूर्तयः कीदृशास् तु ते।
वैखानसाः कथं ब्रूयुः
कथं वा पाञ्चरात्रिकाः’,

इत्य्-आदि-स्थितम् उदाहरन्ति।

भागवतता

भागवत-पदं वैखानस-पाञ्चरात्रोभय-विषयम् आशेरते।
भगवन्-मुखोद्गत-पाञ्चरात्र– ग्रन्थ-मूलकस्य मतस्येव
भगवद्-उपदेश-मूलक– विखनो-ग्रन्थ-मतस्यापि भागवतत्वं,
भगवद्-एकान्त-महा-जन-मतत्त्वाद् वोभयत्र भागवतत्वम्।

वेङ्कटनाथः

श्रीमन्-निगमान्त-महा-देशिकैश् च न्याय-परिशुद्धौ
प्रमाणाप्रमाण-पौरुषेय-ग्रन्थ-विभजनावसरे
विस्तरेण वैखानस-प्रामाण्यं प्रत्यपादि।

सच्चरित्र-रक्षायां च ऊर्ध्व-पुण्ड्र-धारण-विधौ भस्म-प्रस्तावे,

‘एतेन विखनः-सूत्राद्य्-उक्तम् अपि
तत्-कर्म-मात्राङ्गत्वेन निर्यूढम्’

इति प्रमाणार्थो वर्णितः।
तत्र सूत्रे प्रथम-प्रश्नान्ते होमानन्तरं,

[[P13]]

‘भस्म गृहीत्वा ललाट-हृद्-बाहु-कण्ठादीन् ऊर्ध्वाग्रम् आलिप्य’

इत्य् उक्तम्
इहाभिप्रेतम्।

प्राग् एव धृतोर्ध्व-पुण्ड्राणां
होमानन्तर-भस्म-धारणं मृण्-मयोर्ध्व-पुण्ड्र-निवारकं न भवति।

ऊर्ध्वाग्रतयैवैतद्-धारणम् अप्य् उच्यत

इति न तिर्यक्-पुण्ड्र-प्रसक्तिः।

तत्रैव भगवन्-निवेदितोपयोगाधिकारे,

“श्री-वैखानसे ऽप्य् अत्रि-संहितायां (४३)

‘मन्त्रेण पादे यद् दत्तम्
आधावं पाद्यम् उच्यते।
तत् पाद्यात् तीर्थम् आदाय
भक्त्या देवम् अनुस्मरन्।
आत्मानं प्रोक्षयेत् यस् तु
सर्व-पापैः प्रमुच्यते॥’

इति वचनं स्थितं प्रमाणतयोपन्यासि।
अत्र आधावम् इत्य् एतत्-स्थाने
माधवे इति सच्चरित्र-रक्षायां लेखक-प्रमादः।
तद्-अनुसारि-व्याख्यानम् अपि
तत एव त्याज्यम्।
आधाव-शब्द एव मूले स्थितः।
धावनं हि क्षालनम्।+++(4)+++

“न कांस्ये धावयेत् पादौ” इति मनुः। प्रसिद्धश् च आधाव-शब्दो जलार्थकः बहुत्र वैखानस-ग्रन्थेषु।

अतो वैखानसस्य सर्वाचार्य-संमतत्वात्
पाञ्चरात्रम् आदृत्य
वैखानसे अनादरो ऽपि न युज्यते।

उक्तं चैभिः शरणागति-दीपिकायाम्,

“त्वां पाञ्चरात्रिक-नयेन पृथग्-विधेन
वैखानसेन च पथा नियताधिकाराः”

इति।

पाञ्चरात्र-विभागाः

पाञ्चरात्रं चतुर्धा भिद्यते, आगम-मन्त्र-तन्त्र-तन्त्रान्तराख्य– सिद्धान्त-भेदात्।

एतन्-नाम-पर्यायतयापि
स्वयं-व्यक्त– दिव्य-सैद्धार्ष-नामानि पठितानि कालोत्तरे
इति श्री-पाञ्चरात्र-रक्षातो ऽवगम्यते।

तथा,

‘वैदिकं तान्त्रिकं श्रौतं
मिश्रं चेति चतुर्-विधम्’

इत्य् अपि वचनान्तरम्।

‘दिव्यं सात्त्विकं राजसं तामसम्’

इति चतुर्धा पाञ्चरात्र-ग्रन्थान् विभज्य

साक्षाद्-भगवन्-मुखोद्गतं यद् रत्न-त्रयं
सात्त्वतं पौष्करं जयाख्यम् इति च
तादृशानां दिव्यत्वम्

इत्य्-आदि-वर्णनात्
प्रकारान्तरेणापि विभागो लक्ष्यते।

सर्वम् इदं परस्परासंकीर्णम् एव संरक्ष्यम्;
अर्चन-संकरो न युक्त

इति च निरधारि।

वैखानस-विभागाः

एवं पाञ्चरात्रिक-प्रक्रियाणां पृथग्-भूतत्वे ऽपि
वैखानसे पार्थक्यं न भवति।

[[P14]]

तद् इदम् अत्रिणा वैखानस-पाञ्चरात्र-रूप–वैष्णव-विधि-द्वैविध्यं,
तत्-संकरस्यायुक्तत्वं च वर्णयता (८०)

“वैखानस-विधिश् चैव
चतुर्धा भवति द्विजाः।
आत्रेयः काश्यपीयश् च
मारीचो भार्गवस् तथा॥

एतैर् वैखानसं प्रोक्तं
सूत्रं वैखानसं स्मृतम्।
एषां चतुर्-विधानां तु
मूलं तत् सूत्रम् एव यत्॥

आत्रेयाद्यास् त्व् इमे सर्वे
तस्माद् वैखानसाः स्मृताः।
अन्योन्य-संकरे तस्माद्
दोषो नास्त्य् एक एव सः॥”

इति,
अर्चना-पद्धतौ वैलक्षण्योपलम्भे ऽपि
सांकर्यस्यादोषताम् अभिदधानेन स्पष्टम् अदर्शि,
“वैखानस-विधिश् च” इति चकारः
पाञ्चरात्र-तौल्यं विभाग-मात्रे स्थितं दर्शयति।

अत्रायं संग्रहः-

तन्त्रान्त-नाम-विख्यातम् अत्रि-ग्रन्थ-चतुष्टयम्।
अधिकारान्त-नामानः
त्रयोदश भृगोर् अपि॥३॥

त्रयः काण्डान्त-नामानो
ग्रन्थाः काश्यप-निर्मिताः।
मरीचिना संहितान्त-
नामानो ऽष्टाव् इति स्थितिः॥४॥

सर्वेषाम् अपि मूलं स्याद्
विखनस्-सूत्रम् आदिमम्।
अनृषि-ग्रथिताः ग्रन्थाः
अन्ये सर्वानुयायिनः॥५॥

एकायन-शाखि-सादृश्यम्

पाञ्चरात्र-सिद्धान्त-निष्ठाश् च
त्रयी-धर्म-त्यागेन
एकायन-श्रुति-विहितान् एव चत्वारिंशतं संस्कारान् अनुतिष्ठन्तः
वंश-पारम्पर्येण स्व-धर्म-निष्ठाः पृथक्-स्थिताः
सर्वतः प्रसृत-वैखानस– तद्-इतर-संप्रतितन-श्री-वैष्णव-विलक्षणा
इति च
श्री-भगवद्-यामुन-मुनिभिर् आगम-प्रामाण्ये समवर्णि।

तद्वत् आपस्तम्बादि-सूत्रान्तर-निष्ठवच् च
वैखानसाः स्व-सूत्रोक्त-विधया निषेकादि-संस्कारान् सर्वान् अनुतिष्ठन्तो वैदिकाः, वसिष्ठ-स्मृत्यादि-समादृत– विष्णु-समर्चन-परतया वैदिकतराः,
वैदिक-मन्त्रैर् एव तद्-आचरणाद् वैदिकतमाश् च भवन्ति। [[P15]]

विखनाः

विखनाश् चायं प्रमाण-भूतः।

वेदोल्लेखः

वैखानस-शब्दस् तावत् वेदेष्व् अपि दृश्यते।
“वैखानसं पूर्वे ऽहन् साम भवति”
इति साम-विशेषस्य
तद्-ऋषि-दृष्टत्वं श्रूयते।

ऋचश् चानेकाः तद्-दृष्टाः सन्तीत्य् ऋग्वेदे सायण-भाष्ये।
स्अस्ति वानप्रस्थेष्व् अपि वैखानस-पद-प्रयोगः।
नूनं स विखनस्-सूत्रोक्त-रीति-संपादित– श्रामणकाग्निमत्त्व-निबन्धन
इति विदितम्।

अतो वैखानस-र्षि-संबन्धात्
ते प्रयोगा इति सिद्धः
एक एवम् ऋषिः।

ब्रह्मा

विखनश्-शब्दश् च
श्री-भागवते गोपिका-गीते

‘विखनसार्थितो विश्व-गुप्तये
सख उदेयिवान् सात्त्वतां कुले’

इति ब्रह्मणि प्रयुज्यते।

खनने

स एव व्यास-कर्म-काण्ड-स्थितं,

‘खनित्वा चात्मना ऽऽत्मानं
धर्मादि-गुण-संयुतम्।
ध्यानम् आविश्य योगेन
ह्य् आसीद् विखनसो विभुः’

इति वचनम् अनुरुद्ध्य-
विशेषेण खननात् = गभीरार्थोद्धरणात्
विशिष्ट-वैष्णव-धर्मावधारणौपयिक-मीमांसन-विशेषात्
“विखनाः” इति, “विखनसः” इति चोच्यते इति ज्ञायते। +++(4)+++

अत एवोच्यते-

‘ततः परं चतुर्-वक्त्रो
जटा-काषाय-दण्ड-भृत्।
नैमिषारण्यम् आस्थाय
मुनि-वृन्द-निषेवितम्॥
धाता विखनसो नाम्ना
मरीच्यादि-सुतान् मुनीन्॥’

इत्य्-आदि।

विखनस एव वैखानसः।
ब्रह्मणा तपोपयोगि-रूपान्तर-परिग्रहात् मूर्ति-भेदेन पिता-पुत्र-भावम् अपि केचिद् इच्छन्ति।

आदरम्

एवं सर्व-सूत्र-कार-समादृतत्वात्,
मनु-मरीच्यादि-पुरस्कृतत्वात्,
सर्व-प्रवर्तक-चतुर्-मुखत्वात् विष्णूपदिष्ट-वैष्णवार्थ-स्थापनार्थ– विशेष-तपश्-चर्या-शालित्वाच् च
विखनाः प्रमाण-भूतः।

तत्-सूत्रस्य च कात्स्न्येन वेद-मन्त्रमयत्वात्,

‘यत्-सूत्राद्यन्त-मध्येषु
भगवान् विष्णुर् अव्ययः।
यष्टव्यो गीयते तस्मात्
सर्व-सूत्रोत्तमं तु तत्’

इत्य् उक्तातिशय-शालित्वात्
सूत्रान्तर-निरपेक्ष-सर्वांश-निरूपकत्वात्
उपलभ्यमान-शाखा-मूलकत्वस्य प्रायः-स्थितत्वाच् च
स्थितम् अतिशयितं प्रामाण्यम्।

शाखोपलब्धिः

वैखानस-शाखा नोपलभ्यत
इति चेत्-
उपलभ्यत एव।
तैत्तिरीय-शाखैव -
एवम् एव वा, ईषद् अन्यथा वा स्थिता
तथा व्यपदिश्यते।

[[P16]]
अत एवोच्यते-

‘आदि-काले तु भगवान्
ब्रह्मा तु विखना मुनिः।
यजुश्-शाखानुसारेण
चक्रे सूत्रं महत्तरम्॥’

इति।

तैत्तिरीयेष्व् अवान्तर-भेदः औखेया इति।
तद्-अधीतत्त्वाद् औखेय-शाखेति व्यवहारः प्राग् आसीत्।
पश्चात् विखनसि गौरवात्
वैखानस-शाखेति सैव व्यवहार-पदम् आसीत्।
सम्पूर्ण-तैत्तिरीयानुसारश् च
स्पष्ट एव तदीये श्रौते ऽपि।

यथा च काठकं कालापकम् इत्य्-आदीनि शाखा-नामानि
तत्-तन्-महर्षेर् एव व्यासानुमतस्य
तत्र प्रधान-प्रवर्तकत्वात्
तथा विखनो-मुनि-कल्प-सूत्र-प्रधान– मूल-भूतत्वात्
तद्-आदृतत्वात्
तन्-महर्षि-गौरवेण
तन्-नाम शाखा-विशेषस्येति।

याज्ञवल्क्येन शुक्ल-यजुः-शाखेव
विखनसा काचित् प्रवर्तितेत्य् एतद् अपि,
तस्मिन् स्थितं भगवद्-अनुग्रह-विशेषं विदुषां नासंमन्तव्यम्।

अनुसर्तारः

एतत्-सूत्र-दर्शने च
क्षत्रिय-वैश्यादयो ऽप्य् एतद्-अनुसारिणो बहव
इत्य् अवगम्यते।
एतद्-उक्त-विधानेन
विष्ण्व्-अर्चनम् अपि
क्षत्रिय-वैश्यैर् अप्य् अनुष्ठेयम्
इत्य् अत्रोक्तम्।

सत्स्व् एव कतिपयेष्व् आलयाराधकेषु
एतत्-सूत्रानुरोधि-चत्वारिंशत्-संस्कार-भाजो गृहार्चाराधन-तत्पराः
प्राज्ञतमाः युक्ताश् च
वर्ण-त्रये ऽप्य् आसन्न्
इति व्यक्तम्।

अन्यैर् अननुसरणम्?

वैखानस-दौर्लभ्यम्

यद्य् एवम् इदं प्रमाणम्,
कथं तर्हि सूत्रान्तर-निष्ठैः सर्वैः विष्ण्व्-अर्चन-पद्धति-जिज्ञासा-प्रेरितैर् इदम् एव नाद्रियते?
सन्तु शाखान्तर-निष्ठाः कथम् अपि;
तैत्तिरीयम् अधीयानाः
विष्ण्व्-अर्चनाय कथं वैखानसेन पथा न सञ्चरन्ते?
आपस्तम्बीयादि-सूत्र-निष्ठैर् वैष्णवैर्
एतद् वैदिकं वैखानसं पवित्रम् अनादृत्य
किम् इति पाञ्चरात्रिकेण पथा भगवद्-अर्चनम् आचर्यते

इति चेत्-

तावता वैखानसानां का हानिः?

नूनं वैदिकोत्तमस्य वैखानसस्य
तद्-अंशे ग्रहणम् आदृतवद्भिर् एव
उपदेशक-दौर्लभ्याद् वा कारणान्तराद् वा
तान्त्रिकं प्रथमत आदृतम्।
ततः तत्-संप्रदाय-पारम्परी प्रवहन्ती
न वैखानसस्यावकाशम् अर्पयतीति मन्तव्यम्।

वस्तुतो मरीचि-प्रभृतिभिः

‘वैखानस-सूत्रेण निषेकादि-संस्कार-क्रिया-युक्तान् विप्रान् वेद-विदः’

इति तत्-सूत्र-रीत्या
निषेकादि-संस्कृतानाम् एव तद्-उक्तार्चा-प्रतिष्ठाद्य्-अधिकार-प्रदर्शनात्
सूत्रान्तर-निष्ठास् तत्र स्वानधिकारम् आलोच्यापसस्रुः। [[P17]]

पाञ्चरात्रे ऽवकाशः

यद्य् अपि पाञ्चरात्रे ऽपि
चत्वारः सिद्धान्ताः प्रतिनियताः प्रसिद्धाः।
ते च -
एकायन-श्रुति-विहित– गर्भाधानादि-दाहान्त-संस्कारान्तर-सेविभिर् आहृता इति
कथं तद्-अन्येषां एषां
ऋग्-यजुस्-सामादि– शाखान्तर-सूत्रान्तर-निष्ठानां
तद्-उक्तार्चन-प्रक्रियादरण-प्रसक्तिर्

इति शंक्येत।

अथापि, ‘वैदिकस् तान्त्रिको मिश्रः’
इति केवल-तान्त्रिक-व्यतिरिक्तानाम् अपि
पाञ्चरात्र-प्रक्रिया-सद्-भावो गम्यते
इति तद्-आदर

इति मन्तव्यम्।

तथा हि,

‘ब्राह्मणैः क्षत्रियैर् वैश्यैः
शूद्रैश् च कृत-लक्षणैः।
अर्चनीयश् च सेव्यश् च
नित्य-युक्तैः स्व-कर्मसु॥
सात्त्वतं विधिम् आस्थाय
गीतः संकर्षनेन यः।
द्वापरस्य युगस्यान्ते
आदौ कलियुगस्य च॥’

इत्य्-अतः
शाखान्तर-सूत्रान्तर-निष्ठ– ब्राह्मणादि-सर्व-साधारण्याय
सात्त्वत-प्रक्रिया कलियुग-प्रक्रमे प्रचारं प्रापीत्य् अवगम्यते।

बादरायणावधानम्

अत एव प्रचारोपदेश-काले
पाञ्चरात्राप्रामाण्यम् आशंकमानैर् आरोपितानां दोषाणां परिहाराय
भगवता बादरायणेन तत्-समय-सामयिकेन
पाञ्चरात्र-प्रामाण्यं शारीरके प्रतिष्ठाप्यम् आसीत्। +++(4)+++

वैखानसं तु तत्-सूत्र-मात्र-निष्ठैर् आदृतं
सूत्रान्तराणाम् इव तत्-सूत्रस्यापि वैदिकस्य प्रामाण्याक्षेप-प्रसक्त्य्-अभावात्
सूत्रान्तर-निष्ठेषु तत्-प्रचारस्याकृतत्वाच् च अनाशंकित-प्रामाण्यम्
अप्रामाण्य-शङ्कन-प्रसञ्जक– वाक्य-लव-लेशेनापि विधुरं
सर्व-विवेकि-समादृत-प्रामाण्यम् एव व्यजयत।

अत एव शङ्कर-भाष्ये ऽपि
पाञ्चरात्रस्येषद्-अंशे ऽप्रामाण्य-मानिनि,

भगवद्-अर्चन-पद्धति-प्रदर्शकस्य पाञ्चरात्रस्य
कथम् अप्रामाण्यम्

इत्य् अप्रामाण्याक्षेप-वचन-मुखेन
वैखानस-प्रामाण्यस्याप्रकम्प्यत्वम् असूचि।+++(5)+++
अतो वैखानसस्य वैदिकोत्तमत्वं सर्व-सम्प्रतिपन्नम्।

असूया

न खलु स्वानुपयुक्तत्व-मात्रेण
वस्तु-श्रैष्ठ्यं विवेकी निह्नुवीत।+++(4)+++
न्याय-परिशुद्धौ च वैखानसाप्रामाण्य-वादी ब्राह्मण-गर्दभत्वेन परिहसितः।
भार-मात्र-वाही हि गर्दभः।

‘वेद-भार-भराक्रान्तः
स वै ब्राह्मण-गर्दभः’

इति च स्मर्यते।

‘सर्वे वेदा यत्-पदम् आमनन्ति’,

‘विष्णु-नामा स वेदेषु
वेदान्तेषु च गीयते’

इत्य् उक्तं विष्णु-पारम्यं प्रतिपाद्य
तद्-आराधन-रूपं परमार्थं वदते भागवत-वरिष्ठाय वैखानसाय
यो ऽभ्यसूयति,
स खल्व् अधीत-वेदो ऽपि
परमार्थ-ज्ञान-विकलो
भार-फलम् अलभमानो
गर्दभ एवेति तद्-आशयः।

किम् इत्य् एतावान् प्रयासः
प्रगुणैः श्री-देशिकैर् इह विषये ऊढ

इति चेत्-

किम् इति वा वैखानसेष्व् अप्रत्ययः केषाञ्चिद् अन्येषाम्?
निष्कारणः कथम् अप्रत्यय

इति चेत्-

देवानां तपस्विषु च किम् इत्य् आक्रोशः?
नूनं वैखानसैर् विशिष्ट-ब्रह्म-वित्तमैः,

“नेदं-विद् अनिदं-विदा संविशेत्।
न सह भुञ्जीत”,

“अद्य-प्रभृति हे लोकाः [[P18]]
यूयं यूयं वयं वयम् …….
वयं तु किङ्करा विष्णोर्
यूयम् इन्द्रिय-किङ्कराः”

इत्य्-आद्य्-अनुरोधेन
श्री-वैष्णव-व्यतिरिक्ताः सर्वथा जातु वर्जिताः
श्री-वैष्णवाश् च स्वालयार्चनादौ
इति तन्-मूलो ऽयं असूया-पारवश्य-कृतो दूषण-संरम्भ इति।

न देवालकता

न च वैखानसानां देवलकत्वाद् उपेक्षा।
‘अच्युतः प्रीयताम्’ इत्य् अनुतिष्ठतां ग्राम-नगरादि–योग-क्षेम– प्राधान्य-बुद्ध्य्या प्रवर्तमानानां च
यद्-ऋच्छा-लाभ-तुष्टानां वृत्तिः
न पर-सेवादि-रूप– श्व-वृत्त्य्-आदितो निकृष्यते।

‘त्वयोपभुक्त-स्रग्-गन्ध-
वासो-ऽलङ्कार-चर्चिताः।
उच्छिष्ट-भोजिनो दासाः
तव मायां जयेमहि’,

इत्य् उद्धवाशसनादि पश्यद्भिर्
न भगवद्-उपयुक्तेषु निर्माल्यत्वं शङ्कितुं शक्यम्।

प्रत्युत तद्-उपभुक्ताद् अन्यस्यैवाघ-हेतुत्वं
तद्-उपयुक्तानाम् अघौघ-विध्वंसकत्वं च
विस्पष्ट-परश्-शत-वचन-सिद्धम्।

अतो निर्माल्यत्व-दोषः
जीवनार्थ-शास्त्रा+++(त्स्र)+++-संमत– संकर-कारि-पूजक-विषये सर्व-देवतान्तर-पूजक-विषये च विश्रान्त
इति युक्ति-वचनोभय-सिद्धम् एतद् अपि।
देवतान्तर-पूजक-गतं निकर्षं
पूजकत्व-मात्रेणात्राप्य् आरोपयन्तस् त्व् अशास्त्र-विदः,
अत्र किं चित्रम्?

भागवतता

यद् विद्वांसो ऽपि

‘व्याहर्तुम् आरभत भागवत-प्रधानः’

इति शुक-ब्रह्मादिषु बहु-मानाय प्रयुक्तं भागवत-पदम् अपि
छान्दस-रामायणादि-पदान्य् अविवेकिनेव हेलन-बुद्ध्यैव प्रयुञ्जते।
नूनम् इयं नास्तिक्य-काष्ठा।

तस्मात् वैखानसस्य वैदिक-वैष्णवोत्तमत्वम् एवापराध्यति।
तत्-प्रयुक्तयैव ह्य् अभ्यसूयया
किम् अप्य् अभिमन्यते।

कश्यपादयः देवतान्तर-त्यागेन विष्णु-मात्र-यजनोपदेशिनः।

एवम् अन्–अन्य-जन-निबन्धनं पारमैकान्त्यं यदा भवति,
तद् एव +++(वैराग्यं)+++ ब्राह्मण्यस्य पूर्तिर् इत्य् आशयेनैव,

“बाल्यं पाण्डित्यं च निर्विद्याथ मुनिः।
मौनम् अमौनं च निर्विद्याथ ब्राह्मणः’

इति मुनित्व-समनन्तरम् एव पुष्कल-ब्राह्मण्यम् आह बृहद्-आरण्यकम्।

वैखानस-सूत्रे च
प्रक्रमे नारायण-परायणस्यैव मुनित्वम् अमानि।

ब्राह्मणैः सर्वैर् अपि वैष्णवैर् एव भाव्यम्
इत्य् अद्वैतिनो ऽपि केचिद् आस्थिषत।

पाञ्चरात्र-प्रशस्तिः

एवं स्पष्ट-वादी मुनिर् वैखानस एव
परमार्थ-वादी भवत्य् आप्ततमः।
एवं प्रशस्ततमस्यापि वैखानसस्यान्यैर् अननुष्ठानं
प्राग्-उक्त-युक्त्यैव।

शारीरक इव
महाभारते ऽपि
पाञ्चरात्रस्य तद्-अनुयायिनां च
सर्वातिशायी प्रकर्षः प्रपञ्चितः।

[[P19]] सर्वम् इदं पाञ्चरात्रैक-नियत-व्यतिरिक्तैर् अपि
पाञ्चरात्र-प्रक्रियया भगवद्-अर्चनं
परमाय श्रेयस
इत्य् आशयेनैव।

‘अस्मात् प्रवक्ष्यते धर्मान्
मनुः स्वायम्भुवः स्वयम्’

इति मनु-स्मृतेर् अपि
पाञ्चरात्रं मूलम् इति तत्रावाचि।

अत एव मन्व्-अनुरोधि–सर्व-स्मृति-कार-संमतं पाञ्चरात्रम्
इति स्मृति-अनुवर्तिनां वैदिकानां
पाञ्चरात्र-परिग्रहः प्रामाणिक एव।
अतः परैः पाञ्चरात्रं परिजगृहे॥

वैखानस-ग्रहण-चोदनोपेक्षा?

ननु सूत्रान्तर-दर्शित-रीत्या निषेकादि-संस्कार-संस्कृतैः
विष्ण्व्-अर्चनस्य तत्र विशदतया पाञ्चरात्र-ग्रहणवत्
वैखानस-ग्रहणम् अपि युज्यते?
अन्यथा कथम् उद्धवः श्री-कृष्णं क्रिया-योगं सात्त्वत-संमतम् इव

“यथाह भगवान् अजः।
पुत्रेभ्यो भृगु-मुख्येभ्यः”

इति भृग्व्-आदिभ्यो विखनो-रूप-चतुर्मुखोपदिष्टम् अपि पृष्टवान् स्यात्?
श्री-कृष्णो वा स्वाभिमततया पाञ्चरात्र-प्रक्रिया-मात्रम् अनुपदिश्य
किम् इति,

“वैदिकस् तान्त्रिको मिश्र
इति मे त्रिविधो मखः।
त्रयाणाम् ईप्सितेनैव
विधिना मां समर्चयेत्”

इत्य् उपदिष्टवान् स्यात्?
स्यान् नाम शाखान्तर-निष्ठानां पाञ्चरात्रे स्वरस-प्रवृत्तिः।
तैत्तिरीयाणां तु सर्वेषां
तत्रत्य-मन्त्र-भूयिष्ठे वैखानसाराधने संभाव्यते ऽधिकारः

इति चेत्- संभाव्यते।
अथाप्य् उक्तम् एवोत्तरम् -
आलयेषु वैखानस-सूत्रोपदिष्ट-संस्कार-रहितानाम् अनधिकारस्य तद्-ग्रन्थारूढतया।

तत्रैषां प्रवेश-भिया च
वैखानसैः स्व-मार्गः परेभ्यो ऽनुपदिष्ट आसीत्।+++(5)+++
अतस् तान् परमैकान्तिन उपदेशाधिकृतान् न लेभिरे।

पाञ्चरात्र-रीत्य्-अनुसारिणश् च परमैकान्ति-सार्वभौमाः
श्री-वैष्णव-सिद्धान्त-धुरन्धराः
प्रपत्ति-मार्गोपदेश-परमां सिद्धिं प्रापयितुं प्रभविष्णवः
सदाचार्याः सुलभा आसन्न् इति।

वैखानसार्थवादाः

पाञ्चरात्र-तान्त्रिकता?

इदम् अप्य् अत्र वक्तव्यम् - श्री-पाञ्चरात्र-रक्षायां पाञ्चरात्र-रीत्या चतुर्-विध–पूजन-प्रस्ताव-मध्य एव,

“वैदिकं तान्त्रिकं श्रौतं
मिश्रं चेति चतुर्-विधम्”

इति चातुर्विध्यम् उक्तम् अस्ति।
अतो वैखानसं वैदिकम्,
पाञ्चरात्रं तु तान्त्रिकम्
इत्य् अर्चन-वैषम्यं वैखानस-ग्रन्थ-प्रदर्श्यमानं
स्व-मत-प्रशंसा-मात्रम्।

वैखानस-सर्वार्थता

“आग्नेयं पाञ्चरात्रम्,
सौम्यं वैखानसम्”

इति तत्र वर्ण्यते।
“कथं तद् आग्नेयम्” इत्य् अत्र
कारण-दर्शिभिस् तैः,

‘आग्नेयम् इत्य् एव स वासुदेवः प्रोवाच
तत् केवल-मोक्ष-दत्वात्’ (अत्रिः ७८)

इत्य् एवं मोक्ष-मात्र-प्रदं तत्,
वैखानसं त्व्
ऐहिकामुष्मिकार्थत्वात्
सर्व-सेव्यम् इत्य् एवोच्यते।

तावता पाञ्चरात्रस्य प्राशस्त्यम् एव।
वस्तुतः आगम-सिद्धान्तस्यैकस्य मोक्षैक-फल-प्रदत्वम्,
अन्येषां मन्त्र-तन्त्र-तन्त्रान्तराणां सिद्धि-मोक्षोभय-प्रदत्वं च पाञ्चरात्रोक्तम्
इति नायं वैखानसस्य विशेषः।

आगम-सिद्धान्तानुसारिणा प्रतिष्ठिते स्थले ऽपि
पश्चाद् अन्य-प्रवेशनम् अयुक्तम् इत्य् अपि
तत्र न्यरूपि।

ताप-संस्कार-दीक्षितैर् अनुष्ठेयत्वात्
पाञ्चरात्रम् आग्नेयम् आहुर् इति न।
निन्दार्थम् एव तथा प्रयोगात्।

[[P20]]

सङ्कर-विवारयिषा

पाञ्चरात्रिकैश् च संकर-परिहारकैः

“आग्नेयं वैखानसं,
पाञ्चरात्रं सौम्यम्”

इति विपरिवर्त्यते।

यथा तन्त्र-सार-समुच्चये

‘अश्रीकरम् असौम्यं च
वैखानसम् असात्त्विकम्’

इति।

तस्मात् सौम्यम् अपि +++(पाञ्चरात्रम्)+++
वैखानसाराधित-स्थले पाञ्चरात्रे प्रवेश्यमानं
विनाशकत्वाद् आग्नेयं भवति,
तथा सौम्यम् एव वैखानसम् अपि
पाञ्चरात्र-देशे आग्नेयं भवतीति
परस्-परासङ्करावश्यकत्वाभिप्रायम् एतत्।

अतः वैदिकावैदिक-विभागो ऽपि क्वचित्
तांत्रिक–सद्-भाव-मात्रेण
सर्वत्र तद्-आरोपात्।

पाञ्चरात्रस्य मिश्रता, सर्वग्राह्यता

अत्रि-ग्रन्थ एव वैखानसे,

‘एकायन-गतैर्-मन्त्रैः
संमिश्रं तान्त्रिकं स्मृतम्’ (१८)

इति वैदिक-मन्त्र-सद्-भावः पाञ्चरात्रे इष्यत एव। एतत्-पूर्वार्धे,

‘आपत्-काले च संप्राप्तं
याज्ञवल्क्यादिभिः क्रमात्’

इत्य् उक्तेः शुक्ल-यजुश्-शाखा-प्रवर्तक– याज्ञवल्क्यादिभिर् अर्चन-प्रकार-जिज्ञासुभिर् एष परिगृहीत-मार्गः इत्य् अतो ऽपि
सर्व-साधारण्यं पाञ्चरात्रस्य सिद्ध्यति।

अतः पाञ्चरात्रं वैदिकम् अप्य् अस्ति।
अस्त्व् एतत्।

वैदिकता, वेद-वृक्ष-शिफाः

पूर्वोक्त-वाक्ये
वैदिकं श्रौतम् इति द्वैविध्यं कथम्

इति चेत्-उच्यते
पाञ्चरात्रम् एकायन-श्रुति-मूलम् इति सम्प्रतिपन्नम्।

एकायनं च वेद-मूल-भागः।

‘महतो वेद-वृक्षस्य
मूल-भूतो महान् अयम्”

इत्य् उक्तेः।
एको हि महान् वेद-वृक्षः
बहुधा विभज्यते।
तत्र प्रणवः परम-मूल-भूतः।
तद्-उपरितनः शाखा-विभाग-भागतः प्राक्
मूल-सन्निहितः स्कन्ध-भागः
भगवत्-पारम्य– तद्-अर्चनोपासनादि-मात्र–पर एकायनम् उच्यते। +++(5)+++

ततो भगवत्-सृष्ट-विधिर् देवादि-पूजनादिष्व् अपि व्यापृतः
ऋग्-यजुस्-सामाथर्वाख्य– शाखा-चतुष्क-भाग-शाली भागः।

तत्र +एकैक-शाखायाम् उपशाखा यथायथं स्थिताः,
या वेद-व्यासेन पृथक् पृथग् अध्यापिताः
सम्प्रति जगति जाग्रति।

इमाश् च शाखाः
नाना-विधार्चन-याग-यजनादि-पराः
परमर्षि-व्यतिरिक्तानां तत्त्व-हित-पारम्य-प्रतिपादनाक्षमा
इत्य् एव वदन्ति।

उपक्रमोपसंहारैक्य-सम्पत्तये
परं मात्रया तत्-तच्-छाखान्ते उपनिषदि
स्कन्ध-गतार्थो दर्श्यते।

ताश् चोपनिषदः
न्यग्रोधस्यास्य शिफायमानाः+++(=न्यग्रोधमूलायमानाः)+++
वेद-वृक्षम् इमं पुष्णन्ति।
तद्-भागम् एकायनम् अनुसरति पाञ्चरात्रम्।

मूल-वेद-मूलकता

न केवलम् एतत्
वैखानसे ऽपि किञ्चिद् वक्तव्यम् अस्ति।
तत्रापि

‘वेदानां व्यसनाद् अर्वाक्
प्राग्-रूपं मिलितं तु यत्।
तां तु वैखानसीं शाखाम्’

इति वचनं पठन्ति। [[P21]]

अर्वाग् इत्य् अत्र “पूर्वम्” इत्य् अपि पाठान्तरम्।
सर्वथा व्यस्त-वेद-भाग-व्यतिरिक्त– समस्तांश-मूलकं वैखानसे ऽप्य् अवगम्यते। स च अंशो भगवद्-आराधन-विषयक एव। स तत्र प्रपञ्चितो ऽस्तीति विखनसा तत् स्व-सूत्रे समयोजि।

तद्वत् पाञ्चरात्रम् अपि
मूल-वेद-मूलकत्वाद् वैदिकम्।

श्रौत-वैदिक-विभागः

तत्र चतुर्षु सिद्धान्तेषु द्वयोः श्रौत-वैदिक-विभागस् तु -

‘तन्-निष्ठैः
परम्परयाधीत-वेद-मूलक एकः,
उपदेश-काले भगवद्-आदि– मुख-श्रुत– वेद-मूलकः खिल-श्रुति-मूलको ऽन्यः’

इत्याशयेन।

तान्त्रिकं मिश्रं च वेद-मूलक–??श्रुति-वाक्य-प्रदर्शन-विनाभूतोपदेश-विषय इति विशेषः।

सर्वस्य श्रौतत्वे ऽपि
प्रणव-योगि-मन्त्र-मात्र-सत्त्वे वैदिकत्वं,
तद्-अयोगि-मन्त्र-मात्र-सत्त्वे तान्त्रिकत्वम्
इत्य्-आद्य् अपि भाव्यम्। +++(4)+++

साक्षाद् भगवद्-भाषितं, ब्रह्मादि-मुनि-भाषितम्, अयोगि-भाषितम्
इति भेदो ऽप्य् अस्ति।
एवं च उद्धव-वाक्यं
वैदिक-पाञ्चरात्राभिप्रायकम् अपि स्यात्।

अत एव

‘वैदिकी तान्त्रिकी दीक्षा
मदीय-व्रत-धारणम्’
(भागवतम्-११)

इति दीक्षाया वैदिकत्वम् अप्य् उक्तं घटते।
अन्यथा हि वैखानसैर् अपि
दीक्षा न स्वीकार्या स्यात्।

एवम् अपि
भृग्व्-आदिभ्यो ब्रह्म-कृतस्य उपदेशस्यात्र भागवते वचनात्, वैदिकत्वाविशेषात्, +++(पाञ्चरात्रे)+++ व्यामिश्र-याग-कारित्व-कृत-मिश्रत्वाद् वा
वैखानसम् अपि ग्राह्यम् एव।

एकायन-सर्वमूलता

अपि च पाद्मे,

“आद्यम् एकायनं वेदं
सद्-ब्रह्म-प्रतिपादकम्।
तेनैव संस्कृता विप्रा
मुख्य-कल्पाधिकारिणः।
अन्येषां ब्राह्मणादीनां
वर्णानां दीक्षया क्रमात्।”

इति सर्वेषां पाञ्चरात्र-संबन्धः प्रत्यपादि।

अस्यायम् अर्थः-

एकायनाख्य-मूल– वेद-मूलक-पाञ्चरात्र-सिद्धान्तेषु चतुर्षु स्थिताः
तद्-रीत्यैव निषेकादि-संस्कार-भाजः
आलयेषु भगवन्तम् अर्चितुम् अर्हन्ति।

ये त्व् अन्य-वेद-वृक्षोपरितन-भागस्यानुश्रवाख्यस्य,
पूर्व-श्रवानुश्रव-भेद-भिन्नत्वेन
भोज-राजादि-प्रदर्शित– वेद-विभागान्तर्गत– पूर्व-श्रवात्मकैकायन-व्यतिरिक्तस्य
अवान्तर-शाखा-विभागेन व्यासाध्यापितस्याध्येतारः,

तद्-अवलम्ब्यानेक-सूत्रारूढ– निषेकादि-संस्कार-भाजः भुवि सर्वत्र प्रसृताः,
ते ऽपि पाञ्चरात्रोक्तां दीक्षां प्राप्य
तद्-अर्चने अधिक्रियन्त

इति।

एवं सर्व-साधारण्यं पाञ्चरात्रस्य।

[[P22]]

पाञ्चरात्रोपजीव्यता

अपि च वैखानसानाम् अपि
पाञ्चरात्रम् उपजीव्यम्

इत्य् अपि
तत्रान्येषाम् आदरः।

उपजीव्यांश-शोधने त्व् अभिप्राय-भेदो लक्ष्यते।

“ब्राह्मणैः क्षत्रियैर् वैश्यैः
शूद्रैश् च कृत-लक्षणैः”।

इति सर्वेषां कृत-लक्षणत्वं चक्राद्य्-अंकितत्वम् उच्यते

इति वैखानसानाम् अपि तद् इति केचित्। पक्षान्तरे-सूत्रान्तरानुपदिष्टस्य विष्णु-बल्याख्यस्य संस्कारस्य पुंसवनानन्तरं वा द्वादश-नामादि-वैष्णव-मन्त्रक-होम-शिष्टम् आदाय पत्नी-प्राशन-विधान-रूपस्य वैखानस-सूत्रे पठितत्वात्, ‘मा जनिष्ट स नो वंशे -’ इति रीत्या स्व-वंशे अवैष्णवोत्पत्तेर् अपि संमतत्वावधारणात् गर्भ एव वैष्णवत्वं प्राप्तम् इति किम् अनया दीक्षया। न च सूत्र-कारः सुविशदम् इतरानपेक्षम् उपदिशन् तप्ताङ्कनं दिशापि प्रदर्शितवान् अस्ति। प्रत्युत तद्-अर्चन-प्रकरणे अत्रिणा गुरु-समीप-नयन-रूपोपनयनतो ऽन्ततः उपाकर्मानन्तराध्ययनाधिकारिणा सर्व-मन्त्र-ग्रहण-संभवात्, ‘यथोपनयनाद् अग्नौ समिदाधानम् अर्हति। तथोपनयनाद् ऊर्ध्वं विष्णोर् अर्चनम् अर्हति’ इत्य् उपनयन-प्रभृत्य् एव यजने ऽधिकारः प्रादर्शीति किम् अर्था दीक्षा। पुण्ड्र-संस्कारश् च स्पष्टम् उपदिष्ट एव मरीच्यादि-ग्रन्थेषु। अष्टाक्षरादि-मन्त्राश् च अन्या-विशेषम् अध्ययनेन आचार्य-मुखाच् च सुग्रहा इति न पृथक् दीक्षया साध्यं किञ्चिद् अस्ति। अतो नेष्टं तप्ताङ्कनम् इति परे। वैखानस-विषये तप्ताङ्कनाभावे विष्ण्व्-अर्चन-वैगुण्यं भवतीत्यस्याभावे ऽपि तत् विष्णु-चिह्नं विष्णु-भक्तैर् उपेक्षितुं न युज्यते। अत एव, ‘चक्राङ्किताः प्रवेष्टव्याः यावद् आगमनं मम’, इति श्री-कृष्णस्यादेशः। न चेदम् अश्रौतम्, येनोपेक्षा स्यात्। ऋग्वेदादि-मन्त्राणाम् एवात्र प्रमाणतयोपन्यासात् पाञ्चरात्रिक-मात्रे विश्रान्ति-कल्पनायोगात्। पुराणेष्व् अपि बहुषु तद्-आवश्यकत्वस्योक्तेः। “यागोपकरणान्य् एवम् अर्घ्य-पाद्यादिकान्य् अपि। अङ्ग-लाञ्छ्यानि यथायोगं शङ्ख-चक्रादि-लक्षणैः। स्वात्मोपकरणं सर्वम् आसनादि-विवर्जितम्। अङ्गुलीयक-पर्यन्तं सर्वम् उष्णीष-पूर्वकम्। चक्रादि-लाञ्छितं कुर्यात्।" इत्य् एवं तप्तेनातप्तेन वा चक्रादिना यथायोगम् अङ्कनस्यावश्यकत्वे सर्वत्र विदिते, पूजक-शरीरस्यानङ्कनं हि न युज्यते। अतः “कृत-लक्षणै"रिति वाक्यं पुण्ड्रादिकम् इव चक्राङ्कनम् अपि गृह्णातीति भगवद्-आराधनाङ्गत्वम् अपि तस्य युज्यते। पाञ्चरात्रिकस्य परं दीक्षितत्व-व्यवहारः आलयार्थ-विशिष्ट-दीक्षाभिप्रायेण। ‘वैखानस-कुले जातः पाञ्चरात्रेण दीक्षितः। न दीक्षितो न जातो वै स वै देवलकः स्मृतः’ इति वचनम् अपि देवलक-पद-समभिव्याहारात् देवालयार्थ-दीक्षा-विशेषे [[P23]]

वैखानसस्यानधिकार-परम्। सूत्रान्तराद्य्-अनुक्तत्वे ऽपि विष्ण्व्-अर्चनस्यावश्यकत्वावधारणतश् च वैखानसानुक्तस्याप्य् अन्यतो ग्रहणं नानुपपन्नम् इत्य् अपरे। प्रातिस्विकाराधने स्वोपनयनानन्तरत्वे ऽपि सामुदायिकाराधने चक्रादि-धारणम् उचितम् इत्य् उक्ताव् अपि तापं विना चक्राद्य्-अङ्कनस्यापि बहु-वैष्णव-सम्प्रदाय-सिद्धत्वात् पूजकस्य मरीचि-ग्रन्थे, ‘सुदर्शन’म् इति दक्षिणे हस्ते सुदर्शन-मुद्रां धारयेत्, ‘रवी’ति वामे शङ्ख-मुद्रां धारयेत्’ इति मुद्रा-धारणस्यानुशिष्टत्वात् तद्वत्, यादृश-तादृश-सर्व-जन-प्रत्यक्ष-तार्ह-शङ्ख-चक्र-चिह्न-धारणं पर्याप्तम् इत्य् अन्ये। किम् अत्र विस्तरेण। कुत्रापि वैखानस-प्राच्य-ग्रन्थे तप्त-प्रस्तावस्याभावात् अन्यत्रावश्यकत्व-कथनाच् च तप्तातप्त-द्व्यायुध-पञ्चायुधाद्य्-अनेक-प्रकारोपलम्भात् “सतां हि सन्देह-पदेषु वस्तुषु प्रमाणम् अन्तः-करण-प्रवृत्तयः” इत्य् अलम्।

एवं बहूनां मन्त्र-कल्पानां वैखानसादरणीयानां पाञ्चरात्रत एव परिज्ञानम् इति पाञ्चरात्रं सर्वोपजीव्यम् इति प्राहुः। तथा प्रपत्तिर् अपि पाञ्चरात्रतो ऽवगन्तव्या भवति। न च सा नेष्यते वैखानसैर् इति सुवचम्-तद्-आदृत-तैत्तिरीय-शाखायाम् एवान्ते, ‘तस्मात् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः’ इत्य् एवं प्रपत्तेः प्रपञ्चनात्; वैखानस-विरचिते लक्ष्मी-विशिष्टाद्वैत-शारीरक-भाष्ये ऽपि तद्-इष्टेश् च। तर्हि श्रुति-पुराणादि-सुप्रसिद्धा शरणागतिः किम् इति पाञ्चरात्रतो ग्राह्या भविष्यतीति चेत्-यथावत् प्रपत्ति-स्वरूपावधारणं तत इति भाव्यम्।

किं बहुना। आर्य-व्यवहार-विज्ञेयार्थानां वैदिकानाम् एव पिक-नेमादि-शब्दानां कथम् अर्थावगमः कार्यः, किं व्युत्पत्ति-कल्पनेन को ऽप्य् अर्थः यथारुचि स्वीकार्यः, उत यत्र क्वापि व्यवहार-विषय इति विचार्य, तेषां शब्दानां म्लेच्छैर् व्यवह्रियमाणतया तद्-व्यवहारं प्रमाणी-कृत्यार्थास तद्-इष्टा एवादर्तव्या इति पूर्व-मीमांसायाम् आर्य-म्लेच्छाधिकरणे निरणायि। एवं सत्य् आर्याणां मध्ये परस्परोपजीवनं कथंकारं नेष्यते? अतो यथावत् प्रपत्ति-स्वरूपम् आनुकूल्य-संकल्पाद्य्-अङ्ग-कलाप-स्वरूपम्, अनुष्ठान-क्रम इत्य्-आदि वैखानसैः पाञ्चरात्रतो विशदम् अवगन्तुं सांप्रतम्।

एवं सत्य् अर्चन-मोक्ष इति वैखानस-पक्षः परित्यक्तः स्याद् इति चेत्-अप्रपन्नाः वैखानसाः ध्यान-साहचर्येण मोक्षोपायता-बुद्ध्य्या विष्ण्व्-अर्चने भक्ति-निष्ठा अवैखानसा [[P24]]

इवाधिक्रियन्ते। प्रपन्नास् तु वैखानसाः तादृशा अवैखानसा इवैव परम-पदे स्वयम्-प्रयोजने कैङ्कर्य इवात्रापि घटमानाः तेन श्रियः-पत्युः प्रीत्य्-अतिशयम् उत्पादयन्तः षोडश-वर्ण-सुवर्णवत् परमम् उत्कर्षं वहन्तः परमैकान्ति-सार्वभौमा भूत्वा विखनो-मनो-ऽनुकूलतमा भवन्ति। एवं परमोत्साहेन भगवद्-आराधने व्याप्रियन्ते लोकम् अप्य् अनुगृह्णन्तीति महिष्ठ एषां प्रभाव इति परिशीलनीयम्।

तस्मात् वैखानस-संमतार्चन-पद्धतेः प्रामाणिकत्वस्याविशेषे ऽपि सर्वोपजीव्यत्वात् सर्व-समादृतत्वेन पुराणादि-प्रसिद्धत्वाच् च वैखानसेतरे पाञ्चरात्र-पद्धतिम् एव परिजगृहुर् इति तावता न वैखानसस्य, न वैतेषां न्यूनता। केवल-श्रीमद्-अष्टाक्षर-मयम् इदं यजनम् इति चैषां पाञ्चरात्रे आदरातिशयः। ‘अनुक्तम् अन्यतो ग्राह्यम्’ इति सिद्धे चतुर्-मुख-रूप-विखनो-वचनात् साक्षाद्-भगवन्-मुखोद्गतं पाञ्चरात्रं श्रेयः, ‘वक्ता नारायणः स्वयम्’ इति प्रशंसनाद् इति च भाव एषाम्। एवम् अपि वैखानसस्य वरिष्ठत्वं प्रतिष्ठितम्।

न केवलं वेद-व्याख्यान-भूत-कल्प-सूत्र-प्रणेतृ-विखनो-मुनि-विहित-तयैव विष्ण्व्-अर्चनं वैदिकम् इत्य् उच्यते; किन्तु तथैव श्रूयमाण-ऋग्वेद-विहितत्वाद् अपि वैदिकम् एतत्। यथा वेदतः सुखम् अग्राह्यः कर्म-योगादिर् गीतातो विशदम् अवगम्यते, यथा सर्व-प्रमाणारूढ एव प्रपत्ति-रूपोपायः पाञ्चरात्रत एव विशदम् अधिगम्यते, तथा श्रूयमाण-वेद-विहितम् एव विष्ण्व्-अर्चनम् इत्थम्-भूतम् इति विशदं ज्ञाप्यते वैखानसेषु पाञ्चरात्रेषु च विप्रकीर्णानेक-श्रुत्यादि-संशीलनेन। तत्र काञ्चिद् ऋचं मरीच्यादयः प्रदर्शयन्ति। या ‘प्र वः पान्तम्’ इत्यादिः। न परं वैखानसा एव। शौनको ऽपि,

“शौनको ऽहं प्रवक्ष्यामि नित्यं विष्ण्व्-अर्चनं परम्। प्र वः पान्तम्-अन्धसो धीत्य्-अर्धर्चेन विधानतः॥” इत्याह।

शौनको हि बह्वृचत्वेन श्री-भागवते श्लाघितः। ‘शौनको ह वै महा-शालो ऽङ्गिरसं विधि-वद् उपसन्नः पप्रच्छ’ इत्य् अथर्व-शिखोपनिषदि श्रवणात् अथर्व-वेद-संबन्धो ज्ञायते। शान्तिक-कर्मणां शौनकोक्त-विधानं प्रसिद्धम्। तानि च प्रायो ऽधर्व-वेदीयानि। एवं सर्व-वेद-विदा शौनकेन वैखानसैश् चोपन्यस्ता ऋग् इयम् - [[P25]]

‘प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे प्र अर्चत।
या सानुनि पर्वतानाम् अदाभ्या महत् तस्थतुर् अर्वतेव साधुना॥’
(ऋ. मं. १-१५५.१.)

अत्र सच्चरित्र-रक्षायां शौनक-ग्रन्थ-ग्रहणे अन्धस इत्य् अत्र अन्धतमस इति लेखक-प्रमादः। ततस् तद्-अनुसारि व्याख्यानम् अप्य् अन्यथा। अस्याः ऋचः इन्द्र-विष्णु-उभय-परत्वम् उत्तर-मन्त्रतो विस्पष्टम्। अथाप्य् अर्थ-वर्णनं भाष्यम् उपेक्ष्य महर्षि-मरीचि-शौनकाद्य्-आनुगुण्यायान्यथा कार्यम्। स्वरसम् अप्य् एतद् एव।

अत्र प्र अर्चत इत्यस्य प्रकर्षेण अर्चनम् = आराधनं कुरुतेत्य् अर्थः। कर्माकांक्षायां पान्तम् इति संबध्यते। वः = युष्मान् पान्तं = परिपालयन्तं प्र अर्चतेति। को ऽसौ पालक इत्य् एतत् प्रकरणतो निर्णेयम्। इतः प्राक्तन्यः ऋचः, “विष्णोर् नुकं वीर्याणि” इत्य्-आद्याः। तत्र, “विष्णोर् नुकं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि” इत्यस्यार्धस्य वेद-भाष्ये, “यः पृथिवी-विकारान् रजो-मयान् लोकान् माति स्म, तस्य विष्णोर् वीर्याणि शीघ्रं प्र ब्रवीमि” (नु-क्रमिति शीघ्रार्थकम्) इत्य् अर्थ उक्तः। अत्र श्री-भागवत-दशम-स्कन्ध-गतम् (१०-५१), “क्वचिद् रजांसि विममे पार्थिवान्य् उरु-जन्मभिः। गुण-कर्माभिधानानि न मे जन्मानि कर्हिचित्” इति श्लोकम्, एकादश-स्कन्ध-गतं च, (११-४) “यो वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् स तु मन्द-बुद्धिः। रजांसि भूमेर् गणयेत् कथञ्चित् कालेन नैवाखिल-शक्ति-धाम्नः" इति श्लोकम् अनुसृत्यार्थो भाव्यः। स तावद् ऋचः- यो ऽहं भूम्यां स्थितानि सर्वाणि रजांसि विशिष्य परिगणितवान् अस्मि, सो ऽहं शीघ्रम् अवोचम् एव तस्य विष्णोर् वीर्याणि, य उरु-गायः त्रेधा विक्रान्तवान् इत्य् एवं-रीत्या स्यात्। यस्मात् पार्थिव-रेणु-गणनम् एव कर्तुम् अशक्तो ऽस्मि, अत एव विष्णु-वीर्य-गणने ऽप्य् अशक्तः इत्य् अत्र तात्पर्यम्। आस्ताम् एतत्। एताश् च ऋचः त्रिविक्रम-वैभव-वर्णन-पूर्वं विष्णु-परम-पद-लाभाशंसनं कृतवत्यः। तेन तस्य सर्व-परिपालकत्वं बोधितम् आसीत्। अतः पान्तम् इति तम् एव गृहीत्वा अपेक्षित-फलार्थ उपायः तद्-अर्चन-रूपो विधीयते। अन्धसः = अन्नात्, अन्नस्य समर्थस्य सद्-भावाद् इत्य् अर्थः। ल्यब्-लोपे पञ्चमी वा; अन्नं प्राप्येत्य् अर्थः। अन्नं संभृत्य आराधनं कार्यम् इत्य् उच्यते। यागादिष्व् अल्पस्यैव अग्नौ होमात् [[P26]] तेना राधनम् अल्पम् एव भवति। अर्चायाः पूजने तु यावद् इष्टं दातुं शक्यत इत्य् अभिमत-नाना-नैवेद्य-समर्पणार्हम् अर्चनम् एव युक्तम् इत्य् उक्तं भवति। कस्मै फलायेत्य् अत्र त्रि-वर्गापवर्गात्मक-फल-द्वयायेति वक्तुम्, शूराय विष्णवे चेति। शूर इहेन्द्रः; उत्तरत्रेन्द्र-प्रस्तावात्। अत्रोत्तरार्धे द्विवचन-श्रवणेन द्वित्व-प्रतीतेश् च। श्रीमद्-अष्टाक्षर-द्वय-मन्त्राद् आविव चतुर्थी तत्-प्राप्ति-रूपं फलं ज्ञापयति। धियायते = स्तुति-प्रियाय, महे = महते; शूराय-शूर-संबन्धि-ऐहिकामुष्मिकं सर्वं लब्धुम् इति यावत्। तथा विष्णवे = परम-प्राप्यं विष्णुम् एव प्राप्तुम् इत्य् अर्थः।

तयोर् महिमोच्यते उत्तरार्धे। अदाभ्या = अदम्भनीयौ - अनभिभाव्यौ यौ इन्द्रा-विष्णू अर्वतेव = अश्ववत् स्थितेन साधुना वाहनेन पर्वतानां सानुनि स्थिरं स्तः इति। इन्द्रो मेघ-वाहनत्वात् पर्वत-सानुषु लोक-क्षेमाय वर्षणोद्युक्ते वारि-वाहे विराजमाने समागतत्वेन भाव्यते। विष्णुश् च साम्प्रतम् अर्च्यत्वेन वर्ण्यमानत्वात् अर्चारूपीह भाव्यते। अर्चासु च श्री-वेङ्कटाद्रि-निलयः श्रीनिवासः मुख्यतया सांप्रदायिकैर् गृह्यते। श्री-रङ्गनाथो भवितुं, परम-पदाद् अवतरन् भगवान् तुङ्गे श्री-वेङ्कटाद्रि-शृङ्गे पदं न्यस्य तत एव श्री-रङ्गं ययाव् इति हि वर्णयन्त्य् अभियुक्ताः। सा विष्ण्व्-अर्चा प्राधान्याद् इह वर्ण्यते। भगवान् आदौ अश्वात्मनावतीर्णं गरुत्मन्तम् आरुह्य पर्वतम् इमम् आजगाम् इति वेङ्कटाचल-माहात्म्ये स्थितम् अत्रानुसंधेयम्। अस्य चाद्रेः सप्त-शैलात्मना प्रसिद्धत्वात् पर्वतानाम् इति बहु-वचनम्। अर्चा-स्थैर्यं मनसि-कृत्य तस्थतुर् इति स्थिरा स्थितिर् उच्यते। अन्यासाम् अर्चा-मूर्तीनाम् इदम् उपलक्षणम्।

यो ऽश्व-रूपं साधु छन्दो-मयं गरुत्मन्तम् आरुह्य सप्त-शैलात्मक-वेंकटाद्रि-सानुन्य् अनभिभाव्यो महान् स्थितः - तिष्ठन्न् अस्ति, तस्य प्राप्तये तम् एव पान्तं प्रार्चत। लोक-क्षेमाय मेघ-वाहनी-भूय चरति पर्वतेषु सर्वदा अनुपेक्षया य इन्द्रः, तद्-अर्थम् अपि - तं वशयितुम् अपि - तन्-मूलैश्वर्य-रूप-फल-प्राप्तये ऽपि विष्णुम् एव पान्तम् अर्चत। अर्जुन-कृत-कृष्णार्चन-संतृप्त-शंकर-नयेन द्रौपद्य्-अन्न-शकल-कृत-कृष्ण-तृप्ति-संतृप्त-दुर्वासो-न्यायेन सेवा-संप्राप्त-राज-संतोषाधीन-संतोष-राज्याधिकृत-वर्ग-न्यायेन च विष्णु-मात्रार्चनम् इन्द्रायापि भवति। अत एव, ‘विष्णु-देवार्चा [[P27]] सर्व-देवार्चा भवती’ति वैखानस-सूत्रम्। यथोक्तं श्रीमद्-भागवते- “यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः। प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या” इति (११)। तस्मिन् प्रसन्ने च, ‘अस्मै देवा बलिम् आवहन्ति’ इति न्यायेन तन्-नियमित इन्द्रः स्वयम् एव पर्वतम् आसाद्यास्माकं क्षेमम् अवश्यं विधास्यतीति भावः।

एवं सुस्पष्टार्चा-परत्व-चिन्तनाद् एव इयम् ऋक् उभयैर् अप्य् उदाहृतेति ध्येयम्। एवम्-भूतस्यार्चनस्याग्नि-होत्रादि-होम-गत-न्यूनता-परिहारकत्वाद् अप्य् आवश्यकत्वम् अभ्यधित सूत्र-कारः। कथम् अस्य न्यूनता-परिहार-प्रावीण्यम् इति चेत्- किम् अत्र संदिह्यते? यत्, ‘प्रायश्चित्तान्य् अशेषाणि तपः-कर्मात्मकानि वै। यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम्’। कर्म-वैगुण्य-परिहाराय वा निषिद्ध-करण-निमित्त-दोष-परिहरणाय वा कृत्य-परित्याग-प्रयुक्त-प्रत्यवाय-परिहृतये वा विहितेषु प्रायश्चित्तेषु कृष्णानुस्मरण-समानं किम् अपि नास्तीति निश्चप्रचे, तद्-अर्चस्योत्कर्षः खलु कैमुत्य-सिद्धः। न केवलम् इदम्; अर्चनस्याग्नि-होत्र-साम्यम् अप्य् अनेक-प्रकारम् अभिमतम् अत्र।

अग्नि-मन्थनार्थ्यां अरणाव् अपि पुरुषाकृति-भावना-बोधनात् उत्पन्नस्याग्नेर् अपि मूर्तिता-भावनम् अर्थ-सिद्धम् इत्य् अग्नौ होमो मूर्तौ होम एवेति तद् अपि मूर्त्य्-आराधनम् इव। अग्नि-मूर्तिर् अपि स्थिति-शयनोपवेश-रूपेण त्रेधा वर्णितापि। एवम् अप्य् अग्नि-होत्रार्चनम् अमूर्तार्चनम्; इदं तु स-मूर्तार्चनम् इति विभज्यते। स-मूर्तार्चने ऽपि-

‘स-मूर्ता त्रिविधा ज्ञेया बिम्ब-कूर्च-जलेष्व् अथ।
उत्तमा बेर-पूजा स्यात् मध्यमं कूर्च-पूजनम्।
अधमा जल-पूजा इति प्राह पूर्वं पितामहः।’

इति विशेषो ऽस्ति। परम-पदे भगवतो बिम्बवत् स्थितत्वात् उपास्याकार-साम्याच् च बिम्बार्चनम् एव वरम्। अर्चा-पूजनैकाभिरुचि-भाजां, छान्दोग्ये, ‘य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्य-श्मश्रुर् हिरण्य-केश आ प्रणखात् सर्व एव सुवर्णः’ इत्य्-आदौ केश-श्मश्रु-प्रभृतेर् अपि हिरण्मयत्व-वचनात् आदित्य-मण्डले ऽप्य् अचैव विराजत इति भायात्। [[P28]]

मरीचि-संहितायाम्, ‘ब्रह्मा अग्निं पञ्चधा सृष्ट्या पञ्च-लोकेषु व्यभजत्’ इत्य् अग्नि-कुण्ड-लक्षणं प्रक्रम्य, स्वर्ग-लोकस्य चतुरश्रत्वात् आहवनीय-कुण्डं चतुरश्रम्, अन्तरिक्ष-लोकस्यार्ध-चन्द्राकृतित्वात् अन्वाहार्य-कुण्डम्, अर्ध-चन्द्राकृति, तथा भूमेर् मण्डलाकारत्वात् गार्हपत्य-कुण्डं मण्डलम्, त्र्यश्रत्वात् महर्-लोकस्य तद्वद् आवसथ्यम्, जनो-लोकश् चतुरश्र इति तादृशं सभ्यम्’ इति प्रत्यबोधि। सर्व-श्रेयस्कर-सर्व-दोष-परिहारकाहुति-स्थान-भूतासाधारण-पौण्डरीकाग्नि-कुण्ड-विषये ऽपि, तपो-लोकस्य पुण्डरीकाकारत्वात् पुण्डरीकतेत्य् अभ्यधायि। नाम-सहस्र-भाष्ये पुण्डरीकाक्ष-पद-निर्वचने पुण्डरीक-पदं परम-पद-वाचीत्य् उक्तम् अप्य् अनुसन्धेयम्। एवं च ईदृश-कुण्ड-स्थापिताग्न्य्-अधिकरणकाः होमाः सर्व-लोक-तृप्ति-हेतव इति ज्ञापितं भवति। ईदृशाग्नि-होत्र-साम्यं विष्ण्व्-अर्चनस्य वर्ण्यमानं तस्यापि सर्व-लोक-संप्रीणनत्वं सत्यम् अवगमयेत्।

अत्रि-प्रोक्ते समूर्तार्चनाधिकरणे पौण्डरीकस्याधिदेवो नारायण इत्य् उक्त्वा तत्र,

‘सर्व-निष्कृति-होमार्थं क्रतूनाम् उत्तरः क्रतुः।
तद्-अग्नौ सार्व-काम्यं च यजेद् इत्य् आह पूर्वजः॥’ (१९.६४)

इत्य् उक्त्वा, प्राण-वायोः पञ्चधा भेद इव विष्णु-मूर्तेः पञ्चधा भेदो भवति सर्व-प्राणि-हिताय नाम-रूप-भेदेनेति, ‘पञ्चधा पञ्चात्मा’ इति श्रुति-प्रमाणेनोपन्यस्य, तद्-अर्थम् अग्नेर् अपि हरि-प्रतिष्ठायां पाञ्च-विध्यम् इच्छन्तीत्य् अभिधाय, भगवन्-मूर्तीनां तत्तद्-अग्न्य्-अधिदेवतात्वम् अप्य् अबोधि-विष्णु-मूर्तिः सभ्याग्नेः, आहवनीयाग्नेः पुरुषः, सत्यो ऽन्वाहार्यस्य, गार्हपत्यस्याच्युतः, अनिरुद्धश् चावसथ्यस्येति। तेनाग्नौ पूजनं मूर्ति-पूजनाविशिष्टम् इति ज्ञायते। ‘पञ्चधा पञ्चात्मा’ इति वाक्यं ऋग्वेदीयत्वेन उद्धृतं तैत्तिरीयोपनिषद्-अन्ते ऽपि श्रूयते। अन्न-मय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मय-रूपेण पञ्चात्मा, पर-व्यूह-विभव-हार्दार्चा-रूपेण पञ्चात्मा, वैखानसालयेषु प्रतिष्ठानुसारे पूर्वोक्त-विष्णु-पुरुष-सत्याच्युतानिरुद्ध-रूपेण पञ्चात्मा, पाञ्चरात्रिकादि-दर्शित-रीत्या पर-वासुदेव-व्यूह-वासुदेव-संकर्षण-प्रद्युम्नानिरुद्ध-रूपेण पश्चात्मा, परमात्म-स्वरूप-दिव्य-मङ्गल-विग्रह-विशिष्ट-वेष-सात्त्विकाराध्य-देव-वेष-राजसाराध्य-यक्षादि-वेष-तामसाराध्य-भूतादि-रूपैः पञ्चात्मेत्य् एवं पञ्चधा पञ्चात्मा नारायण इत्य् अपि भाव्यते। [[P29]]

अग्न्यायतनेषु यथा हिरण्य-शकल-निधानम् आवश्यकम्; तथा ऽत्रापि, ‘रत्न-न्यासं न कुर्याच् चेत् सांनिध्यं न भवेद् धरेः,’ ‘नव रत्नानि विन्यस्य’ इति तद्-आवश्यकत्वम् अवगम्यते। अग्नेर् अभिमन्त्रणं भवति, भूर्-भुवः-सुवर् इति। बिम्बे च, सुवर्-भुवर्-भूर् इति मूर्ध-नाभि-पादेषु व्याहृति-न्यास इष्यते (वि.मा. ३३)। अग्न्य्-अधिदेवानाम् आलय-मूर्तीनां पञ्चानां चैक्यवत्, एवम् अर्चकस्य क्रमेण भगवद्-विषय-योग-प्रवृत्तस्य धारणोपन्यासावसरे (मरीचि ९८) ‘पादादि-जानु-पर्यन्तं पृथिवी-स्थानं लकार-संयुक्तं अनिरुद्ध-मूर्ति-धारणम्, ततः पायु-पर्यन्तम् अपां स्थानं वकार-संयुक्तं अच्युत-मूर्ति-धारणम्, ततो हृदयान्तम् अग्नि-स्थानं रेफ-युतं सत्य-मूर्ति-धारणम्, ततो भ्रू-मध्यान्तं वायु-स्थानं यकार-युक्तं पुरुष-मूर्ति-धारणम्, मूर्धान्तं व्योम-स्थानं ह-(ष?)कार-युक्तं विष्णु-मूर्ति-धारणम्’ इत्य् अर्चा-मूर्तीनां धार्य-मूर्तीनां चैक्यम् उपवर्णितम् अप्य् अनुसंधेयम्। प्रतिमा अर्चनं हि क्रमेण हृदये ध्यानस्य शेषतयाप्य् उपयुज्यते। अत्र पञ्च-मूर्ति-न्यास-विषये पाञ्चरात्रिक-संमत-पञ्चोपनिषन्-मन्त्र-न्यासैकरस्यं स्थितम् अपि यथार्हम् अनुसन्धेयम्।

एवं “गार्हपत्यात् स्थिरात् आहवनीयं यावत् संततम् अपां धारां स्रावयती”ति संबन्ध-कल्पनं यथा ऽग्नौ, तथा ध्रुव-कौतुक-बेरयोः सांतत्याय संबन्ध-कूर्च-निक्षेपो ऽपि क्रियमाणः साम्यं पोषयति। सभ्यावसथ्यौ विहाय गार्हपत्याहवनीयान्वाहार्य-त्रय-प्राधान्यवच् च अत्रापि कौतुक-स्नापन-बेरयोर् उपेक्षया ध्रुव-बलि-उत्सव-बेराणां प्राधान्यम् इत्यादि द्रष्टव्यम्।

एवम्-भूतालयार्चनं नगर-वास्तव्य-सर्व-जन-स-श्रद्ध-विहिताग्नि-होत्र-समं भवतीति, अग्नि-होत्राकरण-जनित-प्रत्यवाय-परिहारो ऽपि प्रजानाम् इत उन्नेयो भवतीति महान् एष धर्मः। नन्व् आधानाग्नि-होत्रादेः पत्नी-यजमानोभय-कर्तृकत्वम् इष्यते; ‘पाणि-ग्रहणात् तु सहत्वं कर्मसु तथा पुण्य-फलेषु’ इत्य् अनुशिष्टेः। अत एव आदधीत, जुहुयात्, यजेतेत्य्-आदौ कर्तृ-एकत्व-वचनं कथम् इत्य् आशङ्क्य दम्पत्योर् व्यासज्य-वृत्ति-कर्तृत्वम् एकम् इत्य् एक-वचनम् उपपद्यत इति मीमांसकाः। नैवं भगवद्-आराधने पत्न्याः कर्तृत्वम् अस्ति। सर्वथा च आलयेषु स्त्रियः पचन-पात्र-शोधनादिष्व् अपि नानुमन्यन्त इति वैषम्यम् इति चेत् - दृष्टान्त-दार्ष्टान्तिकयोर् वैषम्यं बहु-प्रकारं सर्वत्र संभावितम् एव। वस्तुत आलयेष्व् आराधकाः अध्वर्वादि-स्थानीयाः। ग्राम-नगराद्य्-अन्तर्गत-सर्व-दम्पत्य्-अनुष्ठेयाग्नि-होत्र-कार्य-करत्वाद् आराधनस्य ते सर्वे दम्पतयः [[P30]]

तद्-अन्तर्गताराधक-दम्पतिभ्यां सह कर्तृ-पदे स्थास्यन्तीति तौल्यम् अपि सुवचम् इति किम् अनेन।

एवम् अग्नि-होत्र-साम्यात् उभयोः प्रकृति-विकृति-भावो ज्ञायत इति च वदन्ति। अत्र अग्नि-होत्रं प्रकृतिः, अर्चनं विकृतिर् इति वदद्भिः को ऽयं प्रकृति-विकृति-भाव इष्ट इति विमर्शनीयम्, ‘अग्नि-होत्र-होम एव अनादेः कालाद् अनुवृत्त आसीत्। काल-क्रमेण मूर्ति-पूजा-पद्धतौ परिकल्पितायां तत्र जनानां रुचि-उत्पादनाय तत्-साम्य-प्रतीत्य्-उपपत्त्य्-अनुगुणं सर्वं परिकल्पितम्’ इति हठ-वादस् त्व् आस्तिकेभ्यो न रोचते। मीमांसक-संमतस् तु यः प्रकृति-विकृति-भावः, स नात्रास्पदं लभते। यत्र समग्राङ्गोपदेशः सा प्रकृतिः; या क्रिया ततो ऽतिदेशाद् अङ्गानि लभते, सा विकृतिर् इति तैर् उच्यते। होमार्चनयोः स प्रकृति-विकृति-भावो हि नैव संभाव्यते। वस्तु-स्थितिस् तावद् अत्रेयम् एव सर्व-प्रमाण-समालोचने दर्शयितव्या भवति - “वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्-पतिः। आस्ते विष्णुर् अचिन्त्यात्मा भक्तैर् भागवतैः सह” इत्य्-आदि-प्रमाणतः अनित्य-लोकेषु मूर्ति-मन्तो देवा इवाकृत-ब्रह्म-लोके स पर-वासुदेवो मूर्तिमान् विराजते इति निष्प्रकम्पः सिद्धान्तः। भक्ताः उपनिषद्-उक्त-भक्ति-योग-निष्ठया मुच्यन्ते; भागवताः मूल-श्रुति-मूलक-वैखानस-पाञ्चरात्रार्चनान्त-निष्ठया मुच्यन्ते। अत एव, ‘आ-ब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनो ऽर्जुन। माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते’ इति गीतयापि, ‘स्थानं प्राप्स्यसि शाश्वतम्’ इति गीते स्थान-विशेषे मूर्ति-स्थितिर् व्यज्यते।

ननु-वैखानस-ग्रन्थे वैकुण्ठस्य वैष्णवाण्डस्य हिरण्मयाण्डान्तर्गतत्वम् अवगम्यते इति चेत्-नैतत्-आनन्द-संहितायाम् (८७) ‘परमात्मनः सकाशात् हिरण्मयम् अण्डम् अभवत्’ इत्य् उक्त्वा, तद्-अन्तर्गतानां सर्वेषाम् अण्डानाम् उपरि सनातनं वैष्णवाण्डम्, तत्र आमोद-प्रमोद-संमोद-वैकुण्ठ-नामानः चत्वारो विष्णु-लोका उपर्य्-उपरि स्थिताः। ‘तत्र आमोदे विष्णुः, प्रमोदे महा-विष्णुः, संमोदे सदा-विष्णुः, वैकुण्ठे सर्व-व्यापी नारायणश् चासीनः’ इति - तत्र (९४) “समाराधन-विशेषात् चतुर्-विध-पदावाप्तिः- सालोक्यं सामीप्यं सारूप्यं सायुज्यम् इति - आमोद-प्राप्तिः सालोक्यम्, प्रमोद-प्राप्तिः सामीप्यम्, संमोद-प्राप्तिः सारूप्यम्, वैकुण्ठ-प्राप्तिः सायुज्यम् इति-तच् च नित्यानन्दं…..पर-ज्योतिः प्रवेशनम् ‘तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः’ इति च" इति ह्य् उक्तम्। अत्र हिरण्मयाण्डोत्पत्ति-कथनं तद्-अन्तर्गत-[[P31]]सर्वाण्ड-साम्यं वैष्णवाण्डे न मन्तव्यम् इति ज्ञापनाय। अत एव तद्-अन्तर्गत-सर्वाण्डोपरितनत्वम् उच्यते। तेन हिरण्मयाण्डोपरितनत्वम् एवोक्तं भवति। अत एव तस्य तत्रैव सनातनत्वं सदा-पश्यत्-सूरिकत्व-नित्यानन्दत्व-नित्य-निषेव्यत्वाद्-आदिकं चोक्तं संगच्छते। “आमोद-प्राप्तिः सालोक्यम्” इत्यस्य - चतुर्णाम् अपि लोकानां नित्य-लोकत्वम् अविशिष्टम्; आमोद-प्राप्तौ वैकुण्ठ-पुरुष-सालोक्यम् एव, तद्-उपरि-गतौ वैकुण्ठ-पुरुष-सामीप्यम्; तद्-उपरि सारूप्यम् इति तात्पर्यम्। आलयेष्व् आराध्य-मूर्तयो याः प्रसिद्धाः विष्णु-पुरुष-सत्याच्युतानिरुद्ध-नाम्न्यः, तत्र विष्णुस् तावद् अत्रोक्त एव। अन्ये ऽप्य् एवं दर्शिताः (८८)-‘विष्णोर् अंशः पुरुषः, महा-विष्णोर् अंशः सत्यः, सदा-विष्णोर् अंशः अच्युतः, व्यापिनो नारायणस्यांशो ऽनिरुद्धः’ इति। क्रमेण धर्म-ज्ञानैश्वर्य-वैराग्य-मयत्वम् एषाम् उक्तम्। समूर्तार्चनाधिकरणानुबन्धे च हिरण्मयाण्डम्, अण्डावरणानि, परा प्रकृतिः तमो-नाम्नीति सर्वम् अभिधाय, तद्-उपर्य् अनिरुद्धस्य, अच्युतस्य, सत्यस्य, पुरुषस्य चोपर्युपरि स्थानानि निर्दिश्य तावता विष्णोर् आवासः कथित इत्य् अभिप्रायेण तद्-उपरि महा-विष्णुः, तद्-उपरि च सदा-विष्णुर् इति न्यरूपि लोक-स्थितिः। तस्मात् भगवल्-लोकानां प्रकृति-बहिर्-भूतत्वं शुद्ध-सत्त्व-मयत्वं च निर्विवादम्। इमे एव लोकाः, ‘पुरुषो ऽमानव एत्य ब्रह्म-लोकान् गमयति’ इति बहुत्वेन निर्दिष्टाः। अत एव श्री-भाष्ये ऽपि कार्याधिकरणे, “परस्य ब्रह्मणः परिपूर्णस्य स्वासाधारणा अप्राकृताश् च लोकाः नात्यन्ताय न सन्ति, श्रुति-स्मृति-इतिहास-पुराण-प्रामाण्यात्” इत्य् अभाषि। अत्रोक्तानां विष्णु-महा-विष्णु-सदा-विष्णु-नारायण-मूर्तीनां पाञ्चरात्रोक्तानाम् अनिरुद्ध-प्रद्युम्न-संकर्षण-वासुदेव-मूर्तीनां चैक्यम् अपि संभाव्यते। अत एव श्री-वात्स्य-वरदार्य-गुरुभिर् अनुगृहीततया प्रथमानः श्लोकः वैखानस-पाञ्चरात्रैकरस्यानुभावी -

“आमोदे भुवने प्रमोद उत संमोदे ऽपि संकर्षणं
प्रद्युम्नं च तथा ऽनिरुद्धम् अपि तान् संहार-सृष्टि-स्थितीः।
कुर्वाणान् मति-मुख्य-षड्-गुण-भिदायुक्तान् त्रि-युग्मात्मकान्
व्यूहाधिष्ठित-वासुदेवम् अपि तं वैकुण्ठ-नाथं भजे॥” इत्य् एवम्। [[P32]]

श्री-पाञ्चरात्र-रक्षायां व्यासादि-निबद्ध-श्री-वैष्णव-धर्म-शास्त्र-काण्ड-श्लोका अप्य् अत्रानुसंधेयाः। महर्षयो वैखानस-पाञ्चरात्रोभयोपजीविन इति च ज्ञायते। तत्र हि -

‘कथं त्वम् अर्चनीयो ऽसि मूर्तयः कीदृशास् तु ते।
वैखानसाः कथं ब्रूयुः? कथं वा पाञ्चरात्रिकाः॥’

इति पृच्छन्तं पाण्डवं प्रति भगवान् आह

“अष्टाक्षर-विधानेनाप्य् अथवा द्वादशाक्षरैः।
वैदिकैर् अथवा मन्त्रैर् मम सूक्तेन वा पुनः।
पुरुषं तु ततः सत्यम् अच्युतं च युधिष्ठिर।
अनिरुद्धं च मां प्राहुर् वैखानस-विदो जनाः।
अन्ये त्व् एवं विजानन्ति मां राजन् पाञ्चरात्रिकाः।
वासुदेवं च राजेन्द्र संकर्षणम् अथापि वा।
प्रद्युम्नं च अनिरुद्धं च चतुर्-मूर्तिं प्रचक्षते।
एता अन्याश् च राजेन्द्र संज्ञा-भेदेन मूर्तयः।
विद्ध्य् अनर्थान्तरा एव माम् एवं चार्चयेद् बुधः॥” इति।

अतो नाम-भेदे ऽप्य्
अर्थैक्यम् अधिगम्य
सामरस्यम् अनुसन्धेयम् इति सिद्धम्।

अनुष्ठान-वैषम्यं हि न सामरस्य-विरोधि।
तत्त्वांशे वैषम्ये सत्य् एव विरोधः।
तत् तु न।

तथा ज्ञेयस्य परमात्मनः
नेष्कल-सकलात्मना विभागः,
सकलस्य निर्गुण-सगुणात्मना विभागश् च वैखानस-कृतो
न प्रमेय-विरोधी।
तिले तैलम् इव सर्व-व्यापि परमात्म-स्वरूपं तावत् निष्कलम् - निरवयवम्।
निष्कलम् एव परमानन्द-विग्रहतया ध्यान-गोचरी-क्रियमाणं हृदयादि-परिच्छिन्नं सकलम्।
तन्-मात्र-ग्रहणे निर्गुण-ध्यानम्, देवी-भूषणायुध-परिषद्-गण-सहित-ध्याने च सगुण-ध्यानम् इति विविच्यते।
अद्वैताभिमतं तु नैर्गुण्यं सर्वथा न संमतम्।+++(5)+++
गुण-शब्द इह परिकरस्योपसर्जनस्य वा वाचकः।
उपनिषदादिषु
सत्त्व-रजस्-तमो-गुण-पारवश्याभावात्
निर्गुणम् इत्य् उक्तिर्
इति विशेषः।

तथा,

‘मायां तु प्रकृतिं विद्यात्
मायिनं तु महेश्वरम्’

इति श्रुतिम् उपादाय, [[P33]]

‘सा देवी श्रीर् इति प्रोक्ता।
तम् अनयैव सह देवेशम्
अर्चयन्ति परमर्षयः।
सा प्रकृतिः। तद्-अभिन्नाः सर्वाः स्त्रियः।
पुरुषास् तद्-अभिन्नाः।
ताभ्यां स्थितिः।
तस्मात् सहैवार्चयेत्।
विष्णोर् विभूतिः श्रीर् नित्या’

इत्य् एवं ज्ञान-काण्डे, आनन्द-संहितायां चोक्तम्। तदीय-ब्रह्म-सूत्र-भाष्ये च
श्रियो विभुत्वादिकं विस्तरेण व्युदपादि।
अतः श्रुति-निगूढ-श्री-तत्त्व-वैशद्यं पाञ्चरात्रत इव वैखानसतो ऽपि विज्ञायते।

एवं तत्त्व-विषय इवोपाय-विषये ऽप्य् ऐकरस्यम् एव। “भगवन्-मायया मोहितत्वात् भगवन्तं समाश्रित्य भक्त्या नारायणम् उपासीत। तद्-उपासनात् सो ऽपि भक्त-वत्सलत्वात् मोचयति। तत आत्मा सम्यग्-ज्ञानं प्रविशति। पश्चाद् आश्रम-धर्म-युक्तो भगवद्-आराधनं करोति। तद्-आराधनेन जीवात्मा परमात्मानं पश्यति। सो ऽप्य् अपुनरावृत्तिकं प्रसादयति” इति ह्य् उक्तम् आनन्द-संहितायाम्। अत्रोक्तं भक्त्या नारायणोपासनम्, ‘भक्त्या शास्त्राद् वेद्मि जनार्दनम्,’ ‘मनन-व्यपदेश-भाक् उपासनैव क्रियते’ इत्य् उक्त-श्रवण-मनन-कर्म-योगादि-रूपम्। ततो ज्ञान-प्रतिबन्धक-निवर्तन-रूपं मोचनम्। ततः जीवात्म-दर्शनं नारायण-पारम्य-भक्त्य्-अनुष्ठानौपयिकाकारावधारणादि। अयं सम्यग्-ज्ञान-प्रवेशः। ततः, ‘मत्-कर्म-परमो भव’ इति गीत-भगवद्-आराधनादि-कम् अन्तरङ्ग-भूतं कर्म। ततो भवत्-दर्शन-समानाकार-ध्यानम् एव पश्यतीति पदेनोक्तम्। ततो भगवत्-प्रसाद-द्वारा मोक्ष इति सर्वं संप्रतिपन्नम् एव खलु। आदित आरभ्य आध्यान-समाप्ति सर्वं भगवत्-समाश्रयण-पदेनापि सामान्यतो व्यपदिश्यते। तद् इदं दर्शयितुम् उपरि तत् चतुर्धा विभजति-जप-हुतार्चन-ध्यान-रूपेण। अत्र च सावित्री-पूर्वक-विविध-भगवन्-मन्त्र-जपस्य, अग्नि-होत्रादि-होमस्य, गृहे देवायतने वा प्रतिष्ठित-प्रतिमार्चनस्य च पूर्वं निर्देशः ध्यानस्य चरमोपायत्वं दर्शयति। निष्पन्न-ध्यानैर् अपि प्रारब्ध-कर्म-वैचित्र्य-काल-दैर्घ्यादेर् अनवधारणात्, क्षण-मात्र-ध्यान-वैकल्यस्य च महा-हानि-रूपतां मन्यमानैः प्रतिबन्धक-विलोपनाय प्रत्यवाय-परिहाराय लोक-संग्रहाय च यावद् आयुर् अनुवृत्ति-अर्चनान्तं सर्वं कृत्यं कर्तव्यम् एव भवति। तत्रोपायता-बुद्ध्या अनुष्ठानम् अपि जातु भवेत्। उपायतां विस्मृत्य भक्ति-परीवाह-रूपेण अकरणे आत्म-धारणम् अलभमानैः प्रिय-सुहृत्-प्रीणनाय उच्चावचम् उद्युञ्जान-लौकिक-न्यायेन परमोत्साहेन कदाचिद् अनुष्ठीयेत। तदा तावद्-अर्चनादेर् भक्ति-रूपोपायान्तर्-गतिर् एव। सर्वथा स्वामि-संप्रीतिर् एव साक्षात् फलम्। [[P34]]

तद् अत्र हुतार्चनयोः प्रकृति-विकृति-भाव-चिन्तायां वक्तव्यं तावत् - पूर्वोक्त-रीत्या परम-पदे वैकुण्ठे सप्त-प्राकार-परिवृतायां पुर्याम् अयोध्येत्य् अपराजितेति च प्रसिद्धायां सुवर्ण-पुर-तोरण-सहस्र-भासुरे सहस्रादित्य-संकाशे सर्व-दिव्य-रत्न-मये दिव्य-विमाने सहस्र-स्थूण-महा-मण्टप-निविष्ट-निःसंख्य-नित्य-सूरि-निरन्तर-तन्यमान-स्तवनार्चनादि-सहस्र-विधोपचार-संप्रीतस्य निर्मुक्त-संसार-जीव-जात-नीरन्ध्र-निषेव्यमाण-चरणारविन्दस्य, सहस्र-फण-समुल्लसन्-मणि-निकर-मयूख-मण्डल-बहु-गुणित-प्रकाश-दिव्य-धामोदरे प्रकृष्ट-विज्ञान-बल-धाम्नि शेष इति स्वाख्या-विख्यापित-स्व-कैङ्कर्य-साम्राज्ये स्व-गुणान्त-दर्शनं परेषां नास्तीति स्वयम् अनन्त-नाम्नैव प्रथिते फणि-राजे अपेक्षितवति शैत्य-सैत्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-समाहारायमाणे तदीय-दिव्य-भोगे देदीप्यमानस्य, दिव्योदर-बन्धक-प्रकाश-पुञ्जायमान-दिव्य-पीताम्बरस्य श्री-श्रीवत्स-कौस्तुभ-निखिल-विध-रत्न-हार-व्रात-निरुपम-वन-मालादि-नित्यालंकृत-भुजान्तरस्य उदार-पीवर-चतुर्-भुजस्य मकर-कुण्डल-स्फुरण-भासुर-गण्ड-प्रसारिमन्द-स्मित-मयूख-पूर्व-प्रसृत्वर-गम्भीराम्भः-संभूत-सुविमृष्ट-नाल-रवि-कर-विकसित-पुण्डरीक-दलामल-विलोचन-भव्य-दृष्टि-प्लाव्यमान-पारिषद-बृन्दस्य परस्-सहस्र-सूर्य-प्रभा-समुदाय-गोष्पदी-करणाविचक्षण-विश्व-प्रसारि-विद्योत-प्रवाह-दिव्य-किरीट-दर्शितोभय-विभूति-नायक-भावस्य निखिल-देवी-बृन्द-दिव्यायुध-गणादि-निषेवितस्य भगवतो नारायणस्य तत्र क्रियमाणं यादृशं सेवनम्, तादृशम् अत्रापि सर्वेषाम् अभ्यास-पथम् आनेयम् इति तावत् प्रथमः श्रीमतः संकल्पः। तच् च बिम्ब-ध्यान-विधानम् अन्तरा न जाघटीतीति तदादौ प्रचारितम् आसीत्। अतो मोक्ष-कैङ्कर्य-बिम्बार्चनयोः साक्षात् प्रकृति-विकृति-भावः संस्कृत-भाषा-प्राकृत-भाषयोर् इव। क्रमेण सृष्टौ सन्तन्यमानायाम्, प्रजासु च, ‘कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः’ इति देवतान्तर-सेवन-श्रद्धायाम् अभिवृद्धायाम्, देवतान्तर-तत्तन्-मूर्ति-गोपनाय सर्व-जनैकरस्याय आपाततो देवतान्तर-वाचकैः, अन्ततः परिशीलने स्वाभिधान-समर्थैः अग्नीन्द्रादि-नामभिः परश्-शताः याग-होमादयः प्रचारिता बभूवुः। ध्यानान्तरङ्ग-तया आवश्यक-कर्तव्यस्यार्चनस्य सर्व-लोक-योग-क्षेम-संपत्त्य्-अर्थत्वस्यापि सिद्धये तत्तल्-लोक-विराजमान-स्व-तत्तन्-मूर्ति-प्रतिष्ठा-पद्धतिः यादृशी वस्तुतो ऽस्ति, तत्-सारूप्यस्य आधानाग्नि-[[P35]]होत्रादौ यथायथं परिकल्पने विवेकिनां प्रतिमार्चन-स्फूर्त्या मुख्ये तत्र मनः क्रमेण पदं दध्याद् इति विभाव्य वैदिक-कर्माचरणे तत्-सारूप्यं पर्यकल्पि।

अत एव तद्-अमुख्यत्व-ज्ञापनाय, ‘प्लवा ह्य् एते अदृढा यज्ञ-रूपाः अष्टादशोक्तम् अवरं येषु कर्म। एतच्-छ्रेयो ये ऽभिनन्दति मूढाः जरा-मृत्यृ ते पुनर् एवापियन्ति’ इति यज्ञ-निन्दाप्यकारि। नन्व् एवं कर्मत्वाविशेषात् अर्चनम् अपि निन्द्यम् एव। नैवम्। तत्र हि त्रेताग्नि-साध्यान् याग-होमान् प्रस्तुत्य, ‘एष वः पुण्यः सुकृतो ब्रह्म-लोकः’ इत्य् अनित्य-लोक-प्रापकत्वं प्रदर्श्य तन्-निन्दनम् अकारि। पुण्य इत्य् अनेनैव पुण्य-साध्यत्वे ज्ञायमाने सुकृत इति पदम्, सम्यक् कृतः = निष्पादितः सृष्टः अत एव अनित्य इत्य् अर्थं ध्वनयितुम् एव प्रयुक्तम्। पूर्वोक्त-मन्त्रे ऽप्य् अवर-कर्म यत्रास्ति, स एव यज्ञो निन्दितः। त एव तु यज्ञाः फलाभिसंधिं विना क्रियमाणाः न निन्द्या भवन्ति। अत एव, ‘यज्ञो दानं तपः कर्म न त्याज्यं कार्यम् एव तत्’ इति निश्चय आविर्भावितः श्री-कृष्णेन। अनिच्छायाम् अप्य् उप्तानां पतितानां च बीजानाम् अङ्कुरोत्पादकत्वम् इव कर्मणां बन्धकत्वम् अवर्जनीयम् इत्य् आशङ्क्य बीज-वैषम्यं धर्मि-ग्राहक-मान-सिद्धम् इत्य् आशयेन गीतम्, “अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम्। भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्" इति। बहिर्-अङ्गाणाम् ईदृश-कर्मणाम् एवानिन्द्यत्वे, कैमुत्य-सिद्धं भगवद्-अनाराधनत्वाकार-रूप-दोष-प्रसक्ति-विधुराणां भोग-समर्पण-रूपाणां भगवद्-अर्चन-पद्धतीनां प्राशस्त्यम्।

अत एव श्री-भागवते (११-४),

‘वेदोक्तम् एव कुर्वाणो निःसङ्गो ऽर्पितम् ईश्वरे।
नैष्कर्म्यात् लभते सिद्धिं रोचनार्था फल-श्रुतिः॥
य आशु हृदय-ग्रन्थिं निर्जिहीर्षुः परात्मनः।
विधिना उपचरेत् देवं तन्त्रोक्तेन च केशवम्॥’

इति, ‘बालोपच्छन्दनार्थ-मधु-मिश्रौषध-न्यायेन रोचनार्थतां फल-वचनस्य विज्ञाय फलाशां परित्यज्य तान्य् एव वैदिकानि कर्माणि कृतानि सर्व-पाप-क्षयाय भवन्ति। अञ्जसा राग-द्वेषाद्य्-अशेष-हृदय-ग्रन्थि-भेदनं तु परमात्माराधन-रूपेण वैदिकेन तन्त्रोक्तेन च अर्चनेनैव’, इति कर्म-तत्त्वम् उपदिष्टम् अस्ति। [[P36]]

न चेदम् अर्चनं पृथग् भूय मोक्षं ददाति, किन्तु ध्यानान्तर्-भावं प्राप्यैव, अन्तर्गत-ध्यानं च, ध्यान-परीवाह-तया चेति न कश्चिद् दोषः। तथा च प्राकृत-क्षुद्र-पर्यवसायि कृत्रिमं कर्म सर्वं त्याज्यम्; स्वरूपानुरूपतया स्वाभाविकम् अकृत्रिमं प्राकृताप्राकृत-देह-साध्यं सर्वं ग्राह्यम् इति विवेकः।

तत् सिद्धं परम-पदे श्रीमतो नारायणस्य निरन्तर-कैङ्कर्यं परमः पुरुषार्थः। तद्-अर्थ-विहितानां वैदिक-कर्मणां तथात्वम् अबुद्ध्वा नाना-काम-हृत-ज्ञानैर् अन्य-देवताद्य्-अर्थतया तद्-आचरणम् अधमम्। तद्-अर्थ-प्रवृत्तानि सूत्रादि-शास्त्राणि च तथा। तान्य् एव सात्त्विक-त्याग-पुरस्सरं मुमुक्षुभिर् अनुष्ठीयन्ते चेत्-प्रशस्यन्ते। तत्रापि कर्म-योग-प्रभेदेषु प्रथम-निविष्टं ‘दैवम् एवापरे यज्ञम्’ इति गीतं देव-देवार्चनम्। कर्म-योग-ज्ञान-योग-संस्कृत-मनो-दृष्ट-जीवात्म-स्वरूपस्य भक्तौ अवतीर्णस्यातिविततम् अर्चा-समाराधनं ध्यानान्तरङ्गोपायः। तद् अपि भक्ति-परीवाह-रूपेण प्रतन्यमानं मुख्योपाय-कोटिम् एव आटीकते। तद् एवोपायत्व-बुद्धिं सर्वथैव परित्यज्य प्रपत्ति-सिद्ध-मोक्षैः परम-पदे नित्य-सूरिभिर् इव प्रवर्त्यते चेत्-भौमो ऽयम् अपवर्गः। एतद्-अर्थम् एव तु सर्वम् अध्ययनं प्रवचनं देह-धारणं तद्-अर्थ-नित्य-कर्मानुष्ठानम् इत्य्-आदीति।

इत्थम्-भूतम् अर्चाराधनं व्युदपादि विस्तरेण वैखानसैः पाञ्चरात्रैश् च। तत्र नाना-सूत्र-बहु-महा-जन-परिगृहीततया, कलेर् आदौ प्रापिताधिक-प्रचारतया च पाञ्चरात्र-ग्रन्था ऽसंख्याकाः। तत्र नाना-विधाः परस्परासंकरेण रक्षणीया अर्चना-पद्धतयः सात्त्विक-राजस-तामस-भेदेन भोग-मोक्ष-भेदेन च निरूपिताः सन्त्य् एव। एवम् अपि वैष्णव-परम्परा-मात्रेण विखनो-मुनि-प्रभृति-सेव्यमानं वैष्णव-बलिना गर्भत एव वैष्णव-भूतानां संघ एव संप्राप्त-प्रचारं चत्वारिंशत्-संस्काराविशेषेण आवश्यकतया विष्ण्व्-अर्चन-विधायकम् अत एव उपादेयानुपादेय-विवेक-श्रम-प्रसक्त्य्-अभावाद् अक्षोभानुष्ठेय-सर्वम् उपनयन-प्रभृति-समिदाधानवत् तद्-अनुष्ठान-नैर्भर्य-दर्शकम्, अत्रि-भृगु-मरीचि-कश्यपाख्यानानेक-महर्षि-प्रचारितत्वे ऽप्य् अप्राप्त-मिथः-विरोधम् सर्व-प्रजा-योग-क्षेम-दृष्ट्या सर्व-फल-प्रसावकत्वेन मोक्ष-मात्र-पराणां तद्-अनुकूलत्वेन च निबद्धम्, श्रूयमाण-वेद-शाखानुसारि, वैदिक-मन्त्रैक-साध्यतया सर्व-प्रतिपादकं सत् श्रूयमाण-वेद-वैशद्यावहम्, सर्व-वर्णाश्रम-धर्माणाम् अपि भगवद्-आराधनतां सम्यग् अवगमयत् परमं शास्त्रं वैखानसम् इति वस्तु-स्थितिर् इयं तत्त्व-रुचिभिर् अमत्सरम् अधिगम्येति। [[P37]]

उपनिषद्-उपदिष्टाः सन्ति विद्याः विचित्राः
क्वचिद्-अव-नरता न ह्य् अन्य-निन्दा गुणाय।
अनुपधि-भगवद्-भक्त्याद्य्-अवेधो-मुखोत्थं
विलसति सकलेड्यं वर्त्म वैखानसाख्यम्॥६॥

वैखानसाध्व-चरणानधिकार्य् अपीत्थं
तद्-गौरवोक्तिर् अपि विष्णु-समर्चनेति।
सच्-चक्रवर्ति-कुलजः कृतिभिश् च वित्तः
श्री-वीरराघव इमं विजयं व्यतानीत्॥७॥

तर्कार्णवादि-बिरुदः कृत-नैक-तन्त्र-
ग्रन्थ-व्रजो ऽभिनवदेशिक इत्य् उपाख्यः।
श्री-वीरराघव इमं विजयं समर्प्य
श्री-वेङ्कटेश-पद-पद्म-युगे ऽस्मि धन्यः॥८॥

इत्य् उत्तमूर्-श्री-वात्स्य-सच्चक्रवर्ति-वीरराघवाचार्य-कृतिषु वैखानस-विजयः संपूर्णः॥

शुभम् अस्तु [[P38]]