सिद्धान्तमुक्तासरः

TODO: proofread

Source: TW

श्रीः श्रीलक्ष्मीहयवदन परब्रह्मणे नमः सिद्धान्तमुक्तासरः श्रीशारम्भां यतीशश्रुतिशिखरगुरुप्रख्यमध्यां गुरूणां पंक्ति श्रीरङ्गरामानुजमुनिचरमां भक्तिभूम्ना प्रणम्य । श्रीमद्व्यासोक्तशारीरकनय यतिरादृष्ट सिद्धान्तविस्यै वात्स्यः सिद्धान्तमुक्तासरमिह कुरुते वीररध्वीशसूरिः ॥ सिद्धे व्युत्पत्तिभावादथ निखिलेजगद्धेतुतालक्ष्मभावात् अप्राप्तत्वाच्च, शास्त्रैरतिशयितपुमर्थत्वरूपेण चोक्तेः । स्यादेव ब्रह्मचिन्ता प्रमितमिह तु सद्विद्यया नानुमानम् ब्रह्मण्यानन्दमय्यं कनकवपुरिदं त्वन्तरादित्य उक्तम् ॥ आकाशः प्राण एवं परमपि च दिवो ज्योतिरेतत् तथेन्द्रप्राणोऽप्याकाशनोज्जीवन रुचिरवपुष्टवान्तरात्मत्वायोगात् । मानोमय्याद्युपेतं जनिलंय मुखकृद् ब्रह्म संहारकोऽत्ता सोक्ष्यन्तश्चान्तरात्माऽप्यदृशिमुखपदञ्चापि वैश्वानरात्मा ॥ शुभ्वाद्याधारभूमाक्षरपदगमितश्चेक्षतेः कर्म दहो ब्रह्माङगुष्ठप्रमाणो भवति दिविषदामप्युपासाधिकारः । वस्वादित्याद्युपास्यं मधु मिहिरमयं ब्रह्म शूद्रस्त्वनर्हः क्षत्रं जानश्रुतिर्यत्, निरघचिदभिसंभाव्य आकाश एषः ॥ 5 अव्यक्ताख्याच्छरीरात् स पर हृदमधीनाऽस्त्वजा ब्रह्मनिघ्ने प्राणादौ पाञ्चजन्यं भवति सदसव्याकृतात्मा परः सः । कर्तुः कर्मेति कार्य जगदुदितमथात्मैष मैत्रेय्यधीतः अनाधिकरणानि (7) (10) (10) स्याच्चोपादानमीशः सकलमपि जगद्धेतुवाक्यं यथोक्तम् ॥ (8) 6 वर्ज्या सांख्यस्मृतिः स्यात् स्मृतिरपिच विधेर्योगः ईशाज्जगत् स्यात् बैलक्षण्येऽपि, शिष्टाः स्मृतय इह तथा तर्कमूला उपेक्ष्याः । (8) 7 भोक्तृत्वं नान्तरात्मन्यखिलमपि जगत् स्यादनन्यत् परस्मात् अन्यत्वात् स्वाहिताकृत् तदिदमनुपसंहारि हेतुः पयोवत् ॥ कृत्स्नापत्तिर्निरंशश्रुतिहतिरपि नो वेदशब्दकमूले स्वार्थाभावेऽपि लीला शुभतदितरकृज्जीवसृष्ट्यादिरीशे । नाव्यक्तं कर्तृहीनं रचयति निखिलं नानुवादः सुतर्कः नो बौद्धोक्तोऽपि सर्वः क्षणिकसमुदयो नापि विज्ञानमात्रम् ॥

(6) 94 8 9 10 सिद्धान्तमुक्तासरः शून्योक्तिर्नोपपन्ना, जिनकथितमनेकान्तवाक्यं च भग्नम् नो सामञ्जस्यलेशः पशुपतिसमये, पाञ्चरात्रं तु मानम् । कार्यत्वं स्याद्वियत्यप्यखिलमिदमभिध्यायिविष्टं तु हेतुः नात्मा जायेत, स ज्ञः, कृतिकृदपि परायत्त एवांपिचांशः ॥ अक्षाण्युत्पत्तिमन्ति प्रलेयसमयगः प्राण आत्मा परो यत् नो सप्तैकादशैतान्यविभुपरिमितीन्यस्तु वायोर्विशेषः । प्राणः सर्वोप्यणुश्चाप्यविभुपरिमिते ज्योंतिराद्यैरमीषां जीवेऽधिष्ठानमीशात् तनुकृदपि चितामेष योऽयं त्रिवृत्कृत् ॥ रहन् मूत्येंन्तरार्थं भवति मरणभाक भूतसूक्ष्मैः समेतः स्वर्गादौ स्वोपभुक्तादितर विविधक मैंष आवर्ततेऽत्र । नैवानिष्टादिकारी विधुपदमभियात्यागते व्योमभावाचैतत्संश्लेषमानं त्वनतिचिरगतिर्जन्म न व्रीहिताऽपि ॥ 11 संध्ये नो जीवसृष्टं भगवदुपगतिः स्यात् सुषुप्तौ, प्रबुद्धो न स्यादन्यः सुषुप्तात् स्वपनमरणयोर्मध्यभावस्तु मुग्धिः । ईदृक्षावस्थजीवस्थितिरपि परमो दोषदूरो गुणाढ्यः चिद्वत्त्वंशोऽचिदस्य स्वयमखिलपरः स्यात् फलञ्चात एव ॥ (11) (7) (6) (8) 12 आख्यैक्ये ब्रह्मविद्या न भवति भिदुरोद्गीथविद्या तु भिन्ना नैवं स्यात् प्राणविद्या निखिलपरमितिव्यापि चानन्दतादि । अब्घासस्त्वं विधेयं स्थलंयुगपठितैकैव शाण्डिल्यविद्या नामाहश्चाप्यहञ्च प्रतिनियतम् अपि श्वाप्तिमुख्यं तथा स्यात् ॥ (8) 13 पुंविद्या तैत्तिरीये भवति तु परविद्याङ्गभूता, न मन्त्राः प्रारम्भोक्तास्तथा स्युः निखिलविदुषि सोपायना हानिचिन्ता । हानञ्चोत्क्रान्तिकाले गतिरमृतविदामर्चिरादिः समाना हास्थूलत्वादिचिन्ताऽप्युभयमनधिकं यद्धयुषस्ते कहोले ॥ (7) 14 वाज्युक्ता दहविद्याऽनधिकनिजवपुः स्यात् किलोद्वीथविद्या क्वाचित्की, धर्मिवृत्तिर्द हरगुणमतौ, श्रीपतिः सर्ववैद्यः । विद्यांगं स्यान्मनश्चित्प्रभृति मतिपदं शुद्धरूपं चितः स्यात् सर्वत्रास्त्वंगविद्या सकलमननमेवास्ति वैश्वानरीये ॥ (8) 15 वेद्याद्यैक्येऽपि विद्या भवति बहुविधा स्यात् फलैक्यात् विकल्पः प्रागुक्तोङ्गीथविद्यास्वनियतिरविकम्प्याऽस्ति यस्मात्फलार्थाः । विद्या कर्माङ्गिकेष्टा चिदधिकपरमात्मोक्तितो दृष्टघुपासावाक्यं नैषार्थवादः विधिरपि तु कथाः सन्तु विद्यार्थवादाः ॥ (6)

16 उभयवेदान्तग्रन्थमा छा अङ्गं सैन्यासिधर्मोऽप्यलमिति भवतात् तेषु विद्या, गृहस्थे यज्ञादेरस्त्यपेक्षा शमदममुखमप्यं गमनाविरोधात् । नो सर्वानाभ्यनुज्ञा त्वविपदि परविद्यप्युपाख्यानदृष्टेः भक्तयङ्गत्वेऽपि धर्मा अविदुषि नियमादाश्रमार्था भवेयुः ॥ 17 भक्तौ तेऽधिक्रियन्ते विपदि परविदो ह्याश्रमान् अन्तरा ये भ्रष्टा नाधिक्रियेरन् क्रतुगुणवदुपास्तिष्वथार्त्विज्यता स्यात् । बाल्यात् पाण्डित्यतश्च श्रवणमननतो मौनमन्यद्विधेयम् सर्वेषाम्, बाल्यमेतद् भवति तु महिमाविष्क्रियाभावमात्रम् ॥ 18 19 20 21 22 भुक्म्यर्थोपासनाख्यं फलंमिह जनने कर्मजं विघ्नहानौ मुक्तषर्था चाप्युपासा महदपचरणात् जातु जन्मान्तराप्या । आवृत्तिः स्यादुपास्तावसकृद्ध परः स्वान्तरात्मेत्युपास्यः नैवं दृष्टौ प्रतीकः क्रतुगुणविषये देवतादृष्टिरिष्टा ॥ ध्यायेदासीन एव प्रतिदिवसमिदञ्श्चाप्रयाणात् परश्चेत् दृष्टोऽघाश्लेषनाशौ सुकुतमपि गलेत् भोज्यमारब्धकार्यम् । ज्ञानार्थे त्वग्निहोत्रादिकमत उदितोऽश्लेष इष्टोऽन्यपुण्ये भोज्ये प्रारब्धकार्ये सति विदुषि मतं भूरि भूयोऽपि जन्म ॥ वागाद्यं स्यान्मनःस्थं समुपरतमिदं प्राण एवं स जीवे सप्राणः सोऽपि भूतेष्वविदि विदि तथोत्कान्तिरेषा समाना । जीवः संपद्यतेऽस्मिन् पर इयमिह संपत्तिरस्याविभागो न त्वज्ञस्येव, सोऽग्रज्वलनगतपथो याति मूर्धन्यनाड्या । रश्मिग्राही स रानावपि निशि मरणान्नाशुभं दक्षिणे वा स्यात् पन्था अर्चिरादिर्नियत इह मतो देवलोकस्तु वायुः । नो वायोर्विद्युतः स्याद्वरुण उपरि ते स्युस्तु देवा नियुक्ताः स्यादान्तं वैद्युतस्तैर्नयनमपि परे त्वप्रतीकेक्षिणां स्यात् ॥ आविर्भूतस्वभावो भवति न च पृथग्भाव एतस्य रूपं ब्राह्मं संकल्पशक्तयाद्यपरिकरतयैवास्य पित्त्रादिसृष्टिः । निर्देहो वा सदेहः सममनुभवति श्रीशसृष्टैः स्वसृष्टैः लोक स्रष्टृत्वमुख्ये त्वसति स परमं भोगसाम्यं सदैति ॥ 95 (5) (5) (6) (7) (8) (9)* (6) 7-10-10-8 8 6-11 7.6-8 8-7-86 5-5-6-7-8-9-6-156 अधिकरणानि । 23 हेतुत्वं वा प्रपञ्चं प्रति तु तदविनाभूतधर्मोऽथवोक्तः स्यादीहग्वाक्यजातं न चिदचिदभिधानैकविश्रान्तियोग्यम् । व्याकुर्बन् व्यास इत्थं श्रुतिनिकरमथो वारयन् सांख्यमुख्य - स्मृत्या युक्तथा च बाधं परमतसरणौ दोषमुद्भावयंश्च ॥

24 25 26 सिद्धान्तमुक्तासरः पश्चात्कार्थशवोधिश्रुतिवचनमिथोव्याहतिक्षेपदृष्ट्घा भूतान्यात्मानमक्षाद्यपि निखिलंदशास्त्रेतदायत्तमुक्त्वा । तेनान्यैर्व्योमजीवादिषु परिकलिताः प्रक्रिया अप्यपास्यन् व्यष्टावप्यस्य कृत्यं स्पुटमभिदधदास्थापयत् कारणत्वम् ॥ स्वर्गादेः पातभीतिं बहुविधदुरवस्थाश्च जीवेष्वथास्मिन् नैर्दोष्यं प्राप्यभावं फलंकले नमथोपास्यताराध्यतादि । प्रख्याप्य, प्रायणान्तस्थिरमतिमनघं सोऽयमुत्क्रान्तिकाले नीत्वा नित्यं स्वधाम प्रदिशति परमं साम्यमित्यप्यभाणीत् ॥ अव्यक्ताद्यं त्वचित् स्यात् मतिमुखसुगुणाश्चेतनाः बद्धमुक्ताः सर्वात्मा ब्रह्म दिव्याद्भुतकनकवपुः पुण्डरीकाक्ष एव । कार्या भक्तिर्विमुक्तिः फलमिति निखिलं प्राह शारीरके यो ब्यासात्मा श्रीहयास्यः सकलंगुरुमयः प्रीमतां सेवयैवम् ॥

इति प्रत्यधिकरण शारीरक प्रमेयदर्शी
सिद्धान्तमुक्तासरः