TODO: proofread
Source: TW
श्रीमते रंगरामानुजमहादेशिकाय नमः ॥ (श्रीकेताण्डपट्टिस्वामि) श्रीरङ्गरामानुजमहादेशिक संयमि सार्वभौमानुगृहीता शारीरकाधिकरणसंगतिः
श्रीः ओं अथातो ब्रह्मजिज्ञासा - “शारीरकशास्त्रोपोद्घातरूपमिदमधिकरणम् ।’ “अधिकरणं पञ्चाङ्गम् - विषयः संशयश्चैव विचारो निर्णयस्तथा । प्रयोजनं च पञ्चांगं प्राञ्चोऽधिकरणं विदुः इति ॥ दशाङ्गमित्याहुराचार्याः । संगतिर्विषयश्चैव संशयोत्थानकारणम् । संशयस्य प्रकारश्च तदर्था च विचारणा ॥ तस्याः फलफलित्वं च न्यायौ द्वौ पक्षयोर्द्वयोः । निर्णयस्तत्फलञ्चेति बोध्यान्यधिकृतौ दश ॥ इति । ‘श्रीरङ्गलक्ष्मणमुनिः स्वकृतप्रबन्धगूढार्थबोधनकृते समभूत् यदात्मा । वेदान्तलक्ष्मण मुनीन्द्रपदाब्जभृङ्गं श्रीरङ्गलक्ष्मणमुनिं तमहं प्रपद्ये’ इत्यनुसंधीयमानानाम् अद्भुतज्ञानवैराग्यानुष्ठानानामेषां परमाचार्याणां चरणारविन्दसंश्रयणभाग्येन अस्मत्सिद्धान्त जैत्रध्वजा भूत्वा परश्शताः परमैकान्तिनः यतयो गृहस्थाश्च परां प्रसिद्धिमापुरिति विदितं विश्वेषाम् । त इमे संश्रितानां बहूनां संपूर्णग्रहणधारणाक्षमत्वमा लक्ष्य शारीरकाधिकरणसंगति - सारास्वादिनीसंग्रहादीन् आरुरुक्षूपयुक्तान् अनेकान् ग्रन्थान् अनुगृहीतवन्तः सन्ति । तत्र प्रकृतोपयुक्तो ग्रन्थ इह निवेश्यते । असंगतं किमपि न वक्तःयमिति सर्वे स्वीकुर्वन्ति । तत्रैकमेव विषयमधिकृत्य प्रवृत्तानां वाक्यानां सांगत्यं सुग्रहम् । पूर्वोत्तररूपेण विभक्तायाः मीमांसायाः भिन्नभिन्न प्रकरणगत भिन्नभिन्नविषयपरनानावेद वेदान्तवाक्यविचारात्मकवह्रधिकरणरूपत्वात् केन वा संबन्धेन एकानन्तरमन्यदधिकरणमारभ्यत इति संगतिजिज्ञासा स्वरसवाहिनी । तत्र पूर्वदर्शिताः मीमांसकव्यवाहियमाणाः आक्षेपदृष्टान्तापवादादयः यथायथं ग्राह्याः स्युः । तदुपयोगिनमुत्थितिप्रकारं मीमांसकशैल्या संगृह्य वक्तुमेतद्ग्रन्थारम्भः । संगतिविचार एव तु पृथक् क्रियमाणो महान् ग्रन्थो भवेत् । आसीच्च तथा कश्चित् विष्णुचित्तीयो ग्रन्थः । एकप्रकारज्ञानस्यापि पर्याप्ततया संग्रहरुचिभिस्तावत एवापेक्षिततया च नेहाधिके व्याप्रियते । तथा सोमनाथीयादिदृटमीमांसकशैली मेवानुरुध्य प्रत्यधिकरणं प्रथमसूत्रमात्रस्यार्थोऽपि वर्ण्यते । सर्वसूत्रसुवहु विवरणरूपं श्रीभाष्यम्; अधिकरणपूर्वपक्षसिद्धान्तोपन्यास पूर्व सर्वसूत्रसंग्रहव्याख्यारूपो दीपः ; प्रायः सर्वसूत्रार्थमात्रदर्शी वेदान्तसारः । तद्वदयं संगतिं प्रथमसूत्रार्थ च संग्रहीतुं कृतो ग्रन्थ इति विशेषः । 1 चतुस्सूत्री उपोद्घातपेटिका । तत्र द्वयंद्वयमवान्तरपेटिकेति वक्ष्यते । एवमपि प्रथमसूत्रस्योपोद्घातरूपतायां विवादलेशस्याप्यभावादारम्भे एतस्योपोद्घातत्वमुक्तम् । नातोऽम्यव्यवच्छेदः । 2 अधिकरणस्य पञ्चाङ्गत्वकथनप्रभृति सर्वमिदं अधिकरणचिन्तामणिगतमेव । तत्र विस्तरेणोक्ते स्वोपयुक्तमात्रानुवाद हह ।
41 1 विषयोऽपि द्विविधः । अधिकरणप्रतिपाद्यार्थस्तावदेकः प्रधानः । तत्प्रतिपादकश्रुतिरवान्तरविषयः । सर्वाधिकरणसुखग्रहणाय संगत्यादिकमभिधीयते —— शास्त्रकाण्डद्विकाध्यायपादपेटिका धिकरणसूत्रभेदात् अष्टविधा संगतिः । अस्याधिकरणस्य ’ स विष्णुराह हि । तं ब्रह्मेत्याचक्षते तं ब्रहोत्याचक्षते’ इति देवताकाण्डान्तिमाधिकरणेन संगतिः । तत्रापि तं ब्रझेत्युपादानात् सूत्रसंगतिः 1 । अथ - - कर्म विचारानन्तरम् अतः - कर्मविचाराद्धेतोः प्रशविचारः कर्तव्य इति सूत्रार्थः । 2 पूर्वाधिकरणे ब्रह्मविचारस्य कर्तव्यत्वमुक्तम् । तत् ब्रह्म किमिति " शिष्याकांक्षायां जन्माद्यधिकरणमारभ्यते । जन्माद्यस्य यतः । सूत्रार्थः - विविधविचित्र भोक्तृ भोग्य पूर्णव्य जगतः यतो जन्मादि तत् ब्रह्म इति प्रतिपादयितुं शक्नोति यतो वा इमानीति वाक्यमिति । 8 शास्त्र्योनित्वात् । शास्त्रारम्भार्थोपोद्घातपेटिकायां प्रतीतिजननार्था पूर्वपेटिका वृत्ता । तात्पर्यलिंगसमर्थनार्था उत्तरपेटिका आरभ्यते । तत्र अप्राप्तत्वलक्षणं तात्पर्य लिंग तृतीये, सफलत्वलक्षणं चतुर्थे इति । जगत्कारणस्याप्राप्तत्वं नास्ति, अनुमानसिद्धत्वादिति शंकया संगतिः । शास्त्रं यस्य योनिः कारणं प्रमाणं तत् ब्रह्म शास्त्र्योनि । तद्बुद्धिकारणत्वेन शास्त्रस्य योनित्वम् । प्रमाणान्तराविषयत्वेन शास्त्रैकप्रमाणकत्वात् ब्रह्मणः, तस्मिन् यतो वा इत्यादिकं वाक्यं प्रमाणमिति सूत्रार्थः । 1 4 तत्तु समन्वयात् । साफल्यलक्षणं तात्पर्यलिंगं समर्थ्यते । तुशब्दः शंका निवृत्त्यर्थः । पूर्वसूत्रोदितं ब्रह्मणः शास्त्र्योनित्वं समन्वयात् सिद्ध्यति । सम्यगन्वयः समन्वयः । वेदितुर्निरतिशयानन्दस्वरूपत्वेन परमपुरुषार्थरूपे परे ब्रह्मणि वेदकतया शास्त्रस्य अन्वयात् ब्रह्मणः शास्त्रप्रमाणकत्वं सिद्धमिति । एवं वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यरूपपरीक्ष्यतापरिकरस्थापनं कृतम् । अथ परीक्ष्यता इति पेटिकासंगतिः । पुमर्थतया समन्वयोऽनुपपन्नः । अपुमर्थप्रधानादिप्रति पादनपरत्वादित्याक्षेपेणोत्थानात् पूर्वाधिकरण संगतिः । 5 तत्र प्रकृतिविषयं प्रथममधिकरणम् । ईक्षतेर्नाशब्दम् । ईक्षतिः - ईक्षतिधात्वर्थः ईक्षणम् । शब्दः प्रमाणं यस्य न भवति, तत् अशब्दम् – परोक्तमानुमानिकं प्रधानम् । 1 अधिकरणचिन्तामणिस्थमिदं सर्वम् । 2 ब्रह्मणो लक्षणेन दुर्प्रहतया, तस्य विचार्यत्वस्थापनमयुक्तमित्याक्षेपे तत्परिहारायेदमधिकरणम् । किमित्यस्य तावत्पर्यन्ते तात्पर्यम् । एवमुपर्यधिकरणद्वयेऽपि आक्षेपः संगतिः । 3 उपोद्घातोऽवसितः । अथ विचारस्यावसरः । न पुनर्विचार्यत्वाक्षेपः । अत इदमाक्षेपपदं सारावलाविव पूर्वपक्षमात्रपरम् । उ-६
42 शारीरकाधिकरण सेातिः 9 सदेव सोम्येदमिति जगत्कारणतयाऽन्वयिनः ईक्षणव्यापारान्नाचेतनमशब्दम् अपि तु सर्वज्ञे ब्रह्मैव जगत्कारणमिति । 6 आनन्दमयोऽभ्यासात् । यदि सतो मुख्यमीक्षणमिष्टम्, तर्हि चेतनत्वाजीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानात् ‘संगतिः । आनन्दमयशब्दनिर्दिष्टः आकाशादिजगत्कारणभृतः प्रत्यगात्मनोऽर्थान्तरभृतः परमात्मा । कुतः । आनन्दस्य निरतिशयत्वप्रतीतिबलात् । स एको मानुष आनन्दः ; ते ये शतम् इत्यभ्यासात् । तस्य प्रत्यगात्मन्यसंभावितस्य तदतिरिक्ते परमात्मन्येव संभवात् । 7 अन्तस्तद्धर्मोपदेशात् पूर्वं जीवसामान्यस्य निरासः ; इदानीं जीवविशेषस्येति संग्रतिः । आदित्यान्तः श्रयमाणः पुरुषः परं ब्रह्म तदसाधारणापहतपाप्मत्वादि धर्मोपदेशात् ॥ 8 आकाशस्तल्लिंगात् –पूर्वमादित्यान्तर्वर्तिनः पुरुषस्य विशेषलिंगात् वेदान्तवेद्यत्वमुक्तम् । इदानीनाकाशस्य विशेषश्रुत्या तदाशंक्य परिहियते । सूत्रार्थः -आकाशशब्द - निर्दिष्टं परमेव ब्रह्म; प्रसिद्धवनिदिश्यमान जगत्कारणत्वादिलिंगात् । 9 अत एव प्राणः ॥ उक्तन्यायातिदेश इति संगतिः । सर्वाणि ह वा इमानीति प्रसिद्धवनिर्देशादेव हेतोः प्राणशब्दनिर्दिष्टं परमेव ब्रह्म । 10 ज्योतिश्चरणाभिधानात् - अत्राकाशादिषु “आकाशाद्वायुः” इत्याद्युक्तक्रमेणोपस्थिते अग्नौ पूर्वपक्षोत्थानं समा[घा]नश्चेति संगतिः । ज्योतिः परमं ब्रह्म । अस्य ज्योतिषः पूर्ववाक्ये सर्वभूतचरणत्वाभिधानात् । तच्च परस्यैवोपपद्यते । 11 प्राणस्तथाऽनुगमात् । कथं परमपुरुषस्य ज्योतिः शब्दोक्तत्वम् । इन्द्रो हि वेदान्तवेद्यः प्रतीयत इति शंकया संगतिः । उपास्यतयोपदिष्टम् इन्द्र प्राणशब्दाभिधेयं परं ब्रह्म । तथेति प्रकारवचनम् । परब्रह्मप्रकारभूतेष्वानन्दादिष्वस्यानुगमात् ॥ -इति प्रथमः पादः 1-2. द्वौ प्रथमाध्यायविवक्षितौ ; परमपुरुषायोगव्यवच्छेदः प्रथमे पादे, तदन्ययोगव्यवच्छेदत्रिपाद्यामिति पादसंगतिः । प्रथमाध्याये चतुर्षु पादेषु क्रमेण अस्पष्टतरास्पष्टस्पष्टस्वष्टतरजीवलिंगकानि वेदान्तवाक्यानि विचार्यन्ते । पूर्वं परमात्मप्रतिपादकान्महावाक्यात् जीवप्रतिपादनानुकूलमुपक्रमवाक्यं निराकृतम् । तर्हि तेनैव न्यायेन जीवप्रतिपादनानुकूलात् महावाक्यात्, परमात्मप्रतिपादनानुकूलं 1 एतदारभ्य उत्तरोत्तरमाक्षेप एव संगतिः । उत्थानरीतिः परं भिन्ना । 2 सर्वत्राक्षेपस्याविशिष्टत्वेन आकाशादिकमनियामकमन्यदप्याह भनेति ।
श्रीकेताण्ड पट्टिवामिकता 43 [यत् तत् ]निराक्रियतामिति शंकया ‘संगतिः । सर्वत्रप्रसिद्धोपदेशात् । सूत्रार्थ ःसर्वत्र - सर्व खल्विदं ब्रह्मेति निर्दिष्टे वस्तुनि सर्वशब्दसामानाधिकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मैव, कुतः । प्रसिद्धोपदेशात् । तज्जलानिति सर्वमिदं न खल्विति प्रसिद्धवत् तस्योपदेशात् । तदेव हि जगज्जनिस्थितिलयहेतुत्वेन वेदान्तेषु प्रसिद्धम् । 2 अत्ता चराचरग्रहणात् । पूर्वं अन्तर्यामिणो भोक्तृत्वं नास्तीत्युक्तम् ; तर्ह्यल भोक्तृत्वेन प्रतिपन्नः, परमपुरुषो न स्यादिति शंकया संगतिः । अत्ता परमात्मा ब्रह्मक्षत्रशब्देन चराचरस्य कृत्स्नस्य जगतो ग्रहणात् । मृत्यूपसेचनो द्योदनः न ब्रह्मक्षत्रमात्रम् ; अपि तु तदुपलक्षित चराचरात्मकं कृत्स्नं जगदेव । 3 अन्तर उपपत्तेः - परस्य तंदुर्दर्शगूढमिति दुर्दर्शत्वोक्तेः, ‘य एप… दृश्यत इत्युक्तो न पर इति संगतिः । अक्ष्यन्तरः परमात्मा संयद्वामत्वादीनामत्रैवोपपत्तेः ।
- स्थानादिव्यपदेशाच्चेति पूर्वं परमात्मनः उक्तं चक्षुपिस्थित्यादिकमत्र समर्थ्यते । अन्तर्या….त् । सूत्रार्थः - अधिदैवाधिलोकादिपद चिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमात्मा, सर्वान्तरत्व सर्वाविदितत्व सर्वशरीरकत्व - सर्वनियमन - सर्वात्मत्वामृतत्वादिपरमात्मधर्माणां व्यपदेशात् । 1 5 अदृश्यत्वादिगुणको धर्मोक्त-पूर्वम् अदृष्टो द्रष्टेत्यादिना जीनो नान्तर्यामीत्युक्तम् । इह तु न तादृशं द्रष्टृत्वादिकमुच्यते । अतोऽक्षरं प्रधानमित्येवं शंकया संगतिः । सूत्रार्थःअदृश्यत्वादिगुणकः परमात्मा, सार्वज्ञ्यादितद्धमोंतेः । 6 वैश्वानरः साधारणशब्दविशेषात् —उपन्यस्तं रूपं परस्मादन्यत्र दृश्यत इति. शंकया संगतिः । सूत्रार्थः वैश्व’ नरशब्द निर्दिष्टः परमात्मा, वैश्वानरशब्दस्य परमात्मासाधारण सर्वात्मत्वादिभिर्विशेष्यमाणत्वात् । विशेष्यत इति विशेषः ॥
1-3. 1 द्युभ्वाद्यायतनं स्वशब्दात् । पादसंगतिः प्रागुक्ता । द्युपृथिव्याधारत्वं परस्मादन्यत्र दृश्यत इति शंकया [अधिकरण] संगतिः । सूत्रार्थ ः - युपृथिव्यादीनामायतनं परमात्मा, स्वशब्दात् - स्वासाधारणात्मशब्दात् । 2 भूमा संप्रसादादध्युपदेशात् । परप्रकरणाविशेषात् तत्परत्वमुक्तम् । तर्हि जीव प्रकरणाविशेषाज्जीवपरत्वं स्यादिति शंकया संगतिः । सूत्रार्थः - भूमा — भूमगुणविशिष्टं परं ब्रह्मैव, संप्रसादात् प्रत्यगात्मनोऽधिकतयोपदेशात् । अतिवादित्वं हि स्वोपास्याधिक्यवादित्वम् ॥ 1 दृष्टान्तसंगतिः । एवमुपरि यथायथं भाग्यम् ।
44 शारीरका धिकरणसंगतिः 3 अक्षरमम्बरान्तधृतेः । स्वे महिम्नि_स्थितिरुक्ता । सा परस्मादन्यत्रापि दृश्यत इति शंकया संगतिः । सूत्रार्थः-अक्षरं परमात्मा, अम्बरान्तधृतेः । अम्बरं वायुमान् आकाशः, अंबरान्तः — अंबरपारभूतः ; अम्बरकारणमिति यावत् । तच्च प्रधानम् । तस्य धृतेः - धारणात् ॥ 4. ईक्षतिकर्म व्यपदेशात् सः - आकाशशब्दवत् नान्तरिक्षत्र लोकशब्दयोरन्यथानिर्वाह इति शंकया संगतिः । सूत्रार्थः - ईक्षतिकर्म सः परमात्मा, व्यपदेशात् । तद्विषयतया, शान्तमजरममृतमभयं परं चेति परमात्मधर्माणामुपदेशात् ॥ 5 दहर उत्तरेम्यः - पूर्व पुरिशयस्य परमात्मत्वमुक्तम् । तस्यापरमात्मत्वमिहोच्यत इति शंकया संगतिः । सूत्रार्थःदहराकाशः परं ब्रह्म ; उत्तरेभ्यो वाक्यगतेभ्योऽपहृतपाप्मत्वादिपरमात्मासाधारणधर्मेभ्यो हेतुभ्यः । 6 शब्दादेव प्रमितः - अल्पश्रुतेरिति परस्याल्पपरिमाणमुक्तम् । तद्विशेपो जीवस्य श्रूयत इति शंकया संगतिः । सूत्रार्थः - अंगुष्ठप्रमितः परमात्मैव, ईशानो भूतभव्यस्येति परमात्मवाचिशब्दात् ॥ 7 तदुपर्यपि वादरायणः संभवात् । मनुष्यशब्दव्यावर्त्य कि तिर्यङ्मात्रमुत देवादयोऽपीति शंकया संगतिः । सूत्रार्थः - तदुपर्यपि - तेभ्यो मनुष्येभ्य उपरि वर्तमानानामपि अधिकारोऽस्ति [तदस्ति ] । तेषामपि ब्रह्मस्वरूप-तदुपासन-प्रकारज्ञानतदर्थित्वतदुपासनसा मयसंभवात् ।
8 मध्वादिष्वसंभवादनधिकारं जैमिनिः । उपासनासामान्ये देवतासामान्यस्याधिकारो निरूपितः । अथ तद्विशेषेषु तद्विशेषाणां स निरूप्यते इति संगतिः । सूत्रार्थःमधुविद्यादिषु वत्वादीनामनधिकारं जैमिनिर्मन्यते ; असंभवात् - वस्वादीनामेवोपास्या नामुपासकत्वासंभवात् । वसुत्वादेः प्राप्तत्वादेव प्राप्यत्वासंभवाच्च । 9 १ शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । अर्थित्वसामर्थ्ययोः प्रयोजकत्वे शूद्रादेरप्यधिकारोऽस्त्विति शंकया संगतिः । सूत्रार्थः त्रमविद्यावैकल्येन हंसोक्तानादरश्रवणात् तदैव आचार्य प्रति आद्रवणाच्च आचार्येण तस्य शुश्रूषोः विद्याऽलाभकता शुक्र सूच्यते । हिर्हेतौ । 10 आकाशोऽर्थान्तरत्वादिव्यपदेशात् । दहरानन्तरमल्पश्रुतिप्रसंगेनांगुष्ठप्रमितस्य परत्वमुक्तम् । तत्रैव च मनुष्याधिकारत्वप्रसंगादविकरणत्रयं मध्ये निवेशितम् । तदनन्तरं पूर्वाधिकरणशेषोऽपि समापितः । अधुना पूर्वप्रकृतदहर विद्योपसंहारस्थस्य, “आकाशो हवा”
उभयवेदान्तमन्थमाला 43 इत्यादेर्जीवपरत्वशंकया संगतिः । सूत्रार्थः – आकाशः परमात्मा, अस्य नामरूपयोनिर्वोदृत्वतदस्पर्शलक्षणार्थान्तरत्वव्यपदेशात् ॥ आदिशब्देन निरुपाधिकझत्वामृतत्वादीनि गृह्यन्ते । ॥ इति प्रथमाध्यायस्य तृतीयः पादः ॥ 1-4. 1 आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेः दर्शयति च ॥ पादसंगतिः प्रागुक्ता । पूर्वमुक्तं जीववैलक्षण्यमयुक्तम् ; ततः परस्य निषेधादिति अवान्तरशंकया संगतिः । सूत्रार्थ ःएकेषां शाखायाम् आनुमानिकं प्रधानं जगत्कारणत्वेनाम्नायत इति चेत् — तन्न ; अव्यक्तशब्देन शरीराख्यरूपकविन्यस्तस्य गृहीतेः । दर्शयति चैनमर्थ वाक्यशेषः, यच्छेद्वाङ्मनसी’ इत्यादिः । 2 चमसवद विशेषात् । पूर्वं पारिशेष्यस्थानप्रमाणाभ्यां कारणशब्दस्य कार्यशरीरपरत्वमुक्तम् । इह तु कार्यवाचिशब्दस्याश्रवणादकार्यं प्रधानमेवोच्यत इति शंकया संगतिः । छत्रार्थः - नायमजाशब्दः तन्त्रसिद्धप्रधानविषयः, चंमसवदविशेषात् । यथा अर्वाग्विलश्चमस इति मन्त्रे भक्षण साधनत्वयोगेन प्रवृत्तस्य चमसशब्दस्य शिरसि वृत्तौ इदं तच्छिरः एषसर्वाग्विलश्चमसः इति वाक्यशेषं विशेषो दृश्यतेतथा अजामेकामित्यजाशब्दस्य तन्त्रसिद्धप्रधाने वृत्तौ विशेषाभावान्न तद्ग्रहणं न्याय्यम् ॥ 3 न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च । प्रकृतेर्ब्रह्मात्मकत्वं साधितम् । तदयुक्तम्, परमात्मपरत्वे तत्त्वसंख्याधिक्यादिति शंकया संगतिः । “पञ्च पञ्चजना!” इत्यत्र पञ्चविंशतिसंख्योपसंग्रहादपि न तान्त्रिकाणि इमानि तत्त्वानि । यस्मिन्निति यच्छब्द निर्दिष्टत्रशाधारतया तान्त्रिकेभ्यो नानाभावादेषां तत्त्वानाम् ; पृथग्भावादित्यर्थः । अतिरेकाच्च -तान्त्रिकेभ्यस्तच्चातिरेकप्रतीतेश्च यस्मिन्निति निर्दिष्टमतिरिक्तम् ; आकाशश्च । 4 कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । एवं त्रिभिरधिकरणैः सांख्योक्तच्छायानुसारिवाक्यानां परमात्मपरत्वं प्रसाध्य तैरनझात्मकतया परिगृहीताव्यक्तादिशब्दसामर्थ्यमपि परमात्मपरत्व एव सुसंगतमाचक्षाणः ईक्षत्याद्यधिकरणोक्तमर्थतत्त्वं सिंहावलोकनेन स्थापयतीति संगतिः । सूत्रार्थःआकाशादिपद चिह्नितेषु, “तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इत्यादिषु सर्वेषु सृष्ट्यादिवाक्येषु यथाव्यपदिष्टस्यैव कारणत्वेनोतेः । यथाव्यपदिष्टः -सार्वश्यादियुक्ततयाऽस्माभिर्व्यपदिष्टः ॥ जगद्वाचित्वात् ॥ पूर्वमव्याकृतशब्दस्य परमात्मपरत्वं निर्णीतम् । अत्र कर्मशब्दस्य जगद्वाचित्वमुच्यते इति संगतिः । सूत्रार्थः -यस्य वैतत् कर्मेति कर्मशब्दस्य क्रियत इति व्युत्पत्या जगाद्वचित्वात्, कृत्स्नं जगत् यस्य कार्यम् स परमपुरुष एव वेदितव्यतयोपदिष्टो भवति ।
46 शारीरकांधिकरणसँगतिः 6 वाक्यान्वयात् ॥ कमवश्य वाचिपदेन तद्रहितस्वरूपोक्तिर्लाक्षणिकीति जीवपरत्वं निरस्तम् । अत्र तु बद्धमुक्तसाधारणात्मशब्दश्रवणात् मुक्तिलिंगश्रवणाच्च तत्परत्वं युक्तमिति शंकया संगतिः । सूत्रार्थः - वाक्यस्य परमात्मन्येवान्वयात् निर्दिष्ट आत्मा परमात्मैव । 7 प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । संगतिर्भाष्ये - एवं निरीश्वरसांख्ये निरस्ते सेश्वरसांख्यः प्रत्यवतिष्ठते । यद्यपि ईक्षणादिगुणयोगात् सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ताः प्रतिपादयन्ति तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रतिपाद्यते इति शंकया संगतिः । सूत्रार्थः - प्रतिज्ञादृष्टान्तानुपरोधात् उपादानञ्च ब्रह्मैवेति । 8 एतेन सर्वे व्याख्याताः व्याख्याताः । शास्त्रारम्भे जन्मादिसूत्रोक्तं जगन्निमित्तोपादानत्वं प्रकृत्यधिकरणे निगमितम् । अतः परम् उक्तावशिष्टानां श्रुतिवाक्यानां आनन्त्यात् अशेषेण वक्तुमशक्यत्वेन तेनैव प्रकारेण निर्वाह ऊह्य इति संगतिः ॥ सूत्रार्थः - " यतो वा इमानि भूतानि इत्यादिवाक्येषु “जन्माद्यस्य यतः” इत्यादिनोक्तेन न्यायकलापेन सर्वे वेदान्ताः पराः व्याख्याताः । पदास्यासोऽध्यायसमाप्तिद्योतनार्थः । इति प्रथमोऽध्यायः । द्वितीयाध्याये प्रथमः पादः ॥ 1 स्मृत्यनवकाशदोपप्रसंङ्ग इति चेन्न, अन्यस्मृत्यनवकाशदोपप्रसंगात् ॥ अयोगान्ययोगव्यवच्छेदेन ब्रतकारणत्वं निरूपितम् । द्वितीये तु तद्विरोधः परिहियत इति संगतिः । सूत्रार्थःवेदान्तानां बलकारणत्वपरत्वे आप्तप्रणीतायाः केवलतच्चपरायाः कपिलस्मृतेरनवकाशप्रसंग इति वेदान्तवेद्यं प्रधानमिति चेत् — अन्यस्मृतिभिः मन्वादिस्मृतिभिरुपबृंहणं न्याय्यम् । अन्यथा तेपामनवकाशो महानयं दोषः स्यात् । 2 एतेन योगः प्रत्युक्तः । आतिदेशिकी संगतिः । कपिलस्मृतिवत् वेदविरुद्धत्वाविशेषात् योगोऽप्यनादरणीयः । 3 न विलक्षणत्वादस्य तथात्वं च शब्दात् । मन्वादिस्मृतिभिर्वेदान्तानामुपबृंहणं कार्यमित्युक्तम् । ताः तर्कविरुद्धाः ; तर्कानुगृहीतलांख्यस्मृत्यैव तत् कार्यमिति प्रत्यवस्थानात् संगतिः । सूत्रार्थः - अङ्गत्वेन दुःखित्वेन चोपलब्धस्यास्य चिदचिन्मिश्रस्य जगतः सर्वज्ञान हेयप्रत्यनीकान्निरतिशयानन्दाद्द्ब्रह्मणो विलक्षणत्वेन जगतो ब्रह्मकार्यत्वप्रतिपादन वेदान्तानां न संभवति । तथात्वं च - विलक्षणत्वं च शब्दादवगम्यते । 4 एतेन शिष्टापरिग्रहा अपि व्याख्याताः । सांख्यपक्षं प्रतिक्षिप्य तत्तुल्यन्यायेन कणभक्षादिक्षाणामप्युक्तदोषेण त्याज्यत्वमित्यातिदेशिकी संगतिः । सूत्रार्थ ःन परिगृह्यन्ते वैदिकैरित्यपरिग्रहाः । एतेन तर्काप्रतिष्ठानलक्षणेन कापिलस्मृतिनिरासहेतुना परिशिष्टाः कणभक्षादिस्मृतयोऽपि निरस्ता व्याख्याताः ।
शारीरकाधिकरण संगतिः 47 5 भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् । पूर्वाधिकरणेन ‘न तु दृष्टान्तभावात्’ इति देही (हो) दृष्टान्तीकृतः । ततः तत्प्रयुक्तभोक्तृत्वशंकयोत्थानात् संगतिः । ब्रह्मणः सशरीरत्वात् जीवादविभाग इति चेत् — स्यादेव विभागः, लोकवत् —राज्ञ इव । 6 तदनन्यत्वमारम्भण शब्दादिभ्यः । “असदिति चेन्न प्रतिषेधमात्रत्वात्” इत्यादिषु कारणभूतात् ब्रह्मणः कार्यस्य जगतोऽनन्यत्वमुपपादितम् । इदानीं तदेवाक्षिप्य समाधीयत इति संगतिः । सूत्रार्थः - तस्मात् - ब्रह्मणोऽनन्यत्वं कार्यस्य जगतः, आरम्भणशब्दादिभ्यो वाक्येभ्यस्तदुपपादयद्भय उपपद्यते । 7 इतरव्यपदेशात् हिताकरणादिदोपप्रसक्तिः । असदित्यत्र प्रस्तुतमप्यनन्यत्वं वस्याधिकरणान्तरत्वात् तत्र न साधितम् । आरम्भणाधिकरणस्य तत्प्रयोज्यत्वात् प्रतिपादनभेदाच्च । एवमनन्यत्वे समर्थितेऽनभिमतमापतितमिति शंकया संगतिः’ । मूलार्थः-इतरः जीवः । ब्रह्मणो जीवतयान्यपदेशात्, जीवस्य च दुःखित्वात् हितरूपजगदकरणमहितरूपजगत्कारणमित्यादिदोपप्रसक्तिर्ब्रह्मणः । अतो जगत्कारणत्वं न संभवतीति । 8 उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ सत्यसंकल्पत्वादिधर्मैर्हि प्यावृत्तिरुक्ता । अत्र सत्य संकल्पत्वादेरसंकोचो निरूप्यते इति संगतिः । लोके कार्यजननसमर्थस्यापि वस्तुनस्तत्कार्यजनने अनेककारकोपसंहारदर्शनात् असहायस्य ब्रह्मणो जनयितृत्वं नेति चेन्न; क्षीरस्य दधिभावे अनन्यापेक्षत्वदर्शनात् ब्रह्मणः कारणत्वं संभवत्येव । 9 कृत्स्नप्रसक्तिर्निश्वयवत्वशब्दकोपो वा । प्राक्टष्टान्तितक्षीरवत् सावयवत्वं न वेति शकंवा संगतिः । सूत्रार्थः -ब्रह्मकारणत्वे कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोगप्रसंगः निरवयवत्वशब्दकोपो वा-सावयवत्वे निश्वयत्वशब्दबाधप्रसंग इत्यर्थः । 10 न प्रयोजनवत्त्वात् । यद्यपीश्वरः सर्वशक्तिर्विचित्रं जगत् स्रष्टुं शक्नोति - तथापि ईश्वरकारणत्वं जगतो न संभवति, प्रयोजनाभावादीश्वरस्येति शंकया संगतिः । प्रयोजनवच्चात् सृष्टेरीश्वरस्य स्वतः परिपूर्णस्य प्रयोजनाभावान्न स्रष्टृत्वमिति सूत्रार्थः । इति प्रथमः पादः ॥ 2-2. 1 रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्व ॥ स्वपक्षे कारणविषयपरोक्तदोषः परिहृतः ; परपक्षे कारणविषयदोष उच्यत इति पादसंगतिः । अधिकरणसंगतिस्तु — पूर्वाधिकरणे प्रयोजनाभावादनिमित्तत्वापत्तिः परिहृता ब्रह्मणः ; अधुना परोक्तस्यानुपपत्तिरुच्यते । सूत्रार्थः - अनुमीयत इत्यनुमानम् - प्रधानम् । एवं संगतिर्विष्णुचिन्तायैः ( संगतिमालायाम) उक्तेत्यधिकरणचिन्तामण्युक्तमन्त्राद्यते । 2 क्षीरं यथा कृत्स्नं दधि भवति, तथा स्यादित्यपि विवक्षितम् ।
48 श्रीकेताण्डपट्टिखामिकृता तस्याचेतनस्य प्राज्ञानधिष्ठितस्य विचित्रसंनिवेशजगद्रचनानुपपत्तेः तन्न कारणम् । चकारः सत्त्वादीनां द्रव्यगुणत्वेन शौक्ल्पादेखि उपादानकारणत्वासंभवं समुच्चिनोति । प्राज्ञानधिष्ठितस्याचेतनस्य प्रवृत्त्यनुपपत्तेः प्राज्ञाधिष्ठितत्वे त्वचेतनस्य प्रवृत्तेश्च न प्रधानं कारणम् ॥ 2 महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ प्रकृतिपरमाण्वोरानुमानिकत्वान्निरासौ संगतौ । किं च ईश्वरानधिष्ठितप्रधान कारणवादी पूर्वं निरस्तः । अधुना निर्मित्तमात्रेश्वराधिष्ठितपरमाणू पादानवादी निरस्यत इति संगतिः । सूत्रार्थः - असमञ्जसमिति वर्तते । वाशब्दः चार्थे । हस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां व्यणुकद्व्यणुकोत्पत्तिवत् अन्यच्च तदभ्युपगतं सर्वमसमञ्जसम् ।
3 समुदाय उभयहेतुकेऽपि तदप्राप्तिः । परमाणुषु चातुर्विध्यएकान्तत्वसाम्याभ्युपगमात् संगतिः । सूत्रार्थः – उभयहेतुकेऽपि समुदाये समुदायाप्राप्तिः । परमाणुहेतुकः पृथिव्यादिसमुदायः, पृथिव्यादिहेतुकः शरीरेन्द्रियादिसमुदाय इत्युभयहेतुक समुदायः क्षणिकत्वाभ्युपगमादुकेन न्यायेन न सिद्ध्यतीत्यर्थः ॥ 4 नाभाव उपलब्धेः । पूर्वं वाह्यार्थास्तित्ववादिनो वैभाषिकाः सौत्रान्तिकैः सह निरस्ताः । अधुना बाह्यार्थ नास्तित्ववादिनः योगाचारा निरस्यन्ते इति संगतिः । सूत्रार्थःज्ञानव्यतिरिक्ताभावो न शक्यते वक्तुम् । घटमहं जानामीति जानातेः कर्मतया कर्तृतया चोपलब्धेः ॥ 5 सर्वथाऽनुपपत्तेश्च । माध्यमिकपक्ष एव सुगतमतकाष्ठा । पक्षान्तराणि तु शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना पूर्वमुपन्यस्तानि । अधुना प्रधान एव पक्ष उपन्यस्य निरस्यत इति संगतिः । सर्वशून्यवादिनः सर्वथा प सर्वशून्यत्वानुपपत्ते स्वाभिमतासिद्धिः, सद्भाव सद्भावयोर्विद्यमानवस्तुधर्मत्वोपपादनात् ॥ 6 नैकस्मिन् असंभवात् ॥ एकान्तत्व - अणुचातुर्विध्योपगमसाम्यात् कणादसौगतनिरासयोस्संगतत्वात् सौगतानन्तरमाहित निराससंगतिः - जैनमतं न युक्तम् । एकस्मिन् युगपद्विरुद्धधर्मसमावेशासंभवात् । 7 पत्युरसामञ्जस्यात् ॥ वेदविरोधित्वसाम्यात् धीस्थतया संगतिः । सूत्रार्थः - न पशुपतेर्मतमादरणीयम् । कुतः । वेदविरुद्धतत्त्वाचारबोधित्वेनासामञ्जस्यात् । 8 उत्पत्यसंभवात् । कपिलादितन्त्रसामान्यात् भगवदभिहिते परमनि श्रेयससाधनाववोधिनि पाञ्चरात्त्रतन्त्रेऽपि अप्रामाण्यमाशंक्य निराक्रियत इते संगतिः । “न जायते म्रियते” इत्यादिश्रुतेः जीवस्य उत्पत्यसंभवात् जीवोत्पत्तिवचनाच्च न प्रमाणं पाश्चरात्नम् ॥ [इदं पूर्वपक्षसूत्रम् ] । इति द्वितीयाध्याये द्वितीयः पादः ।
शारीरकाधिकरणसंगतिः 2.3- 4.9 1 न वियदश्रुतेः । कारणविषये परोक्तदोषपरिहारपरपक्षप्रतिक्षेपौ पादद्वयेन कृती ः अथ कार्यविषये परोक्तदोषाः परिहियन्त इति ’ पादसंगतिः । आत्मन उत्पत्यसंभवः प्रस्तुतः । तद्वत् निरवयवद्रव्यस्य वियतोऽनुत्पत्तिरित्यधिकरण संगतिः ॥ सूत्रार्थः - वियन्नोत्पद्यते । कुतः । अश्रुतेः । श्रुतिः -श्रवणम् । असंभावनीयस्य श्रवणासंभवात् । [ पूर्वपक्षसूत्रम् ] 2 तेजोऽतस्तथा ह्याह ॥ ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य त्रककार्यत्वमुक्तम् ; इदानीं व्यवहितकार्याणां किं केवलात् तदनन्तरभृताद्वस्तुन उत्पत्तिः आहोस्वित् तद्रूपाद्वृह्मण इति चिन्त्यत इति संगतिः । सूत्रार्थः - अतः वायोरेव केवलादुत्पद्यते तेजः, तथा ह्याद्द, “वायोरग्निः” इति । [ पूर्वपक्षसूत्रम् ]
3 नाऽऽत्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ पूर्वमचिदुत्पत्तिप्रकारश्चिन्तितः ; अधुना जीवोत्पत्तिवादानां प्रकरणान्तरप्रदर्शनादन्यथासिद्धिः क्रियत इति संगतिः । सूत्रार्थःनाऽऽत्मोत्पद्यते, “न जायते” इति अनुत्पत्तिश्रुतेः । “अजो नित्यः”, “नित्यो नित्यानाम्” इत्यादिश्रुतिभ्यो नित्यत्वावगमाच्च ॥ 4 ज्ञोऽत एव ॥ वियदादिवत् जीवो नोत्पद्यत इत्युक्तम् ; तत्प्रसंगात् जीवस्वरूपं निरूप्यत इति संगतिः । सूत्रार्थः -अतः - श्रुतेः ज्ञातैव ॥ 5 कर्ता शास्त्रार्थवत्वात् ॥ ज्ञातृत्वसापेक्षत्वात् कर्तृत्वस्य तदनन्तरं तच्चिन्तेति संगतिः ॥ सूत्रार्थः - स्वर्गापवर्गसाधनानुष्ठान विधानशास्त्राणामर्थवत्त्वाय कर्तेवात्मा ॥ । 6 परात्तु तच्छ्रुतेः । जीवस्योक्तं कर्तृत्वं स्वातन्त्र्येण उत परमात्मायत्तमिति चिन्त्यत इति संगतिः ॥ सूत्रार्थः – “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा", “य आत्मानमन्तरो यमयति” इति श्रुतेः परमात्मायत्तमेव कर्तृत्वम् । 7 अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । जीवोऽनुमतिदानात् प्रवर्त्यश्चेत्, राजभृत्यादिवत् स्वनिष्ठः स्यादिति शंकया संगतिः । सूत्रार्थः-अंशःपरमात्मांशो जीवः ; नानाव्यपदेशात्; अन्यथा च - अभेदव्यपदेशाच्च । उक्तरीत्या उभयमुख्यत्वादेवेत्यभिप्रायः । ‘म दाशाः’ इत्यादिना दाशकितवादित्वमप्यधीयत एके शाखिनः । इति द्वितीयाध्याये तृतीयः पादः ॥ 1 पूर्वपादद्वयवत् उत्तरपादद्वयमपि पृथक्पेटिकेति भावः । 2 एवं तेजसस्तैत्तिरीयकोक्तषायुद्वारकत्वोक्तौ साक्षात् ब्रह्मजत्वबोधि छान्दोग्यमुपेक्ष्यमिति साक्षात्कारणत्वाभावरांकनमेवेति भावः । 3 अचिद्वत् चिदुत्पत्तिशंकया दृष्टान्तसंगतिः । उ-७
शारीरकाषिकरण संगतिः 2.4 1 तथा प्राणाः । ब्रह्मव्यतिरिक्तकृत्स्नस्य उत्पत्तावुक्तायां जीवस्य स्वरूपान्यथाभावरूपोत्पत्तिरपोदिता; तत्प्रसंगेन जीवस्वरूपं निरूपितम्। संप्रति जीवोपकरणानामुत्पत्तिप्रकारो विशोध्यत इति पादसंगतिः । यथा जीवः श्रुतेर्वोत्पद्यते, तथेन्द्रियाण्यपि नोत्पद्यन्ते इति शंकया संगतिः 1 (पू) 1 2 सप्त गतेर्विशेषितत्वाच्च ॥ एवमिन्द्रियाणां कार्यत्वमुक्तम् ; तेषां संख्या विचिन्त्यत इति संगतिः ॥ सूत्रार्थः -सप्तानामेव गतिश्रवणात्, ज्ञानानि पञ्च मनो बुद्धिश्च इति विशेषितत्वाच्च तानि सप्तैव ॥ 3 अणवश्च ॥ इन्द्रियाणां संख्या उक्ता ; तत्स्वरूपपरिमाणं चिन्त्यत इति संगतिः । सूत्रार्थः -प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति प्राणानामुत्क्रान्तिश्रवणात् परिमितत्वे सिद्धे सति अप्रत्यक्षत्वादणवः । 4 न वायुक्रिये पृथगुपदेशात् ॥ पूर्वेणैव तुल्यन्यायता सिद्धं श्रेष्ठस्यापि प्राणस्योत्पाद्य स्वमुपजीव्य तत्स्वरूपविशेषचिन्ता । वायुमात्रं क्रिया वा न प्राणः ; पृथगुपदेशात् । “जायते प्राणः ….खं वायुः” इति हि पृथगुत्पत्तिरुपदिश्यते । 5 अणुश्च । स्वरूपं विशोध्य अणुत्वं वर्ण्यते इति संगतिः । उत्क्रान्तिवचनात इन्द्रियवत् प्राणचाणुः । 6 ज्योतिराद्यधिष्ठानं तु तदामननात् प्राणवता शब्दात् ॥ सश्रेष्ठानां प्राणानामुत्पत्यादिकमुक्तम् ; अत्र जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं चिन्त्यत इति संगतिः । सूत्रार्थः – प्राणवता - जीवेन सह ज्योतिरादेः - अग्न्यादेर्वागाद्यधिष्ठानम् सदामननात् — परमात्मामननात् भवति । आसननम् - आभिमुख्येन मननम् । तत्संकल्पादेव भवतीत्यर्थः । 7 त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात् ॥ पूर्वं सर्वेषामुत्क्रान्त्रिरुक्ता । अत्र तु इन्द्रियशब्दवाच्यत्वनियमार्थं पुनरारभ्यते इति संगतिः । श्रेष्ठादन्यत्र ये प्राणास्ते इन्द्रियाणि । तेष्वेव तद्वयपदेशात् — इन्द्रियव्यपदेशात् । 8 संज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । पूर्वपादोक्तसमष्टिसृष्टिचिन्तया व्यष्टिसृष्टिचिन्तेति ‘संगतिः । सूत्रार्थःतुशब्दः पक्षव्यावृत्त्यर्थः । संज्ञामूर्तिक्लप्तिः 1 ज्ञाधिकरणादीनामात्माधिकरणप्रंसगप्राप्तत्वात् आत्माधिकरणेन साकमस्य संगतिः ; यत्प्रसंगेन यत् आगतम्, तत्समाप्तौ तद्बुद्धिस्थं जायत इति न्यायादिति भावः । आत्मवदनुत्पत्तिशंकनात् दृष्टान्तसंगतिः । 2 पूर्वपादादि एतावत्पर्यन्तमेका पेटिका ; इदमधिकरणं व्यष्टिविषयं पृथगिति भावः । उपकारकेऽपि मुख्यप्राणे यथेन्द्रियत्वं नास्ति, तथा व्यष्टिषु परमात्मकर्तृकत्वं ‘नास्तीति तद्द्दष्टान्तेन शंकेत्यधिकरणसंगतिः ।
शारीरका विकरण संगतिः 51 नामरूपक्लप्तिः परमात्मन एव । कुतः । त्रिवृत्कुर्वत उपदेशात् । त्रिवृत्करणं तु परमात्मन एवेत्युक्तम् ॥ इति द्वितीयाध्यायः ॥ अथ तृतीयाध्याये प्रथमः पादः ॥ 3-1- 1 तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ पूर्वं मूर्तिः प्रसक्ता ; अत्र देशान्तरे मूर्त्यन्तरप्राप्तौ किं पूर्वमूर्तिसंगतभृतसूक्ष्मैः परिष्वक्तो याति, नेति विचार्यते इति संगतिः । सूत्रार्थः - तदन्तरप्रतिपत्तौ – देहान्तरगमने भूतसूक्ष्मैः संपरिष्वक्तः जीवः संहति - गच्छति । कुतः । प्रश्ननिरूपणाभ्याम् – प्रश्नप्रतिवचनाभ्याम् । 2 कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ यावत्संसारं प्रकृत्यसंबन्धो निषिद्धः । अथ तद्धेतुभूतकर्म संबन्ध उच्यते इति संगतिः । कृतात्यये - कृतस्य पुण्यकर्मणः अत्यये, अनुशयवान्–भुक्तशिष्टकर्मवान् निवर्तते । कुतः। दृष्टस्मृतिभ्याम् - श्रुतिस्मृतिभ्याम् । 8 अनिष्टादिकारिणामपि (च) श्रुतम् । कर्मसंबन्ध उक्तः ; तत्रापि साधुकर्म [ गति ?]संबन्धनियमो नेत्युच्यते इति संगतिः । सूत्रार्थ ः - (पू० ) अनिष्टादिकारिणाम् - इष्टापूर्तादि अकुर्वतामपि चन्द्रगमनमस्ति । ये वै केचेति अविशेषेण श्रुतमिति । 4 तत्स्वाभाव्यापत्तिरुपपत्तेः । इष्टादिकारिणञ्चन्द्रमसोऽवरोहन्तीत्युक्तम् । अवाकाशादिप्रतिपत्तौ देवादिभाववत् आकाशादिभावः उत तचत्सादृश्यादिमात्रमिति संशये देवादिभावदृष्टान्तेन शंकया संगतिः । सूत्रार्थः - तत्वाभाव्यापत्तिःआकाशादिसादृश्यापत्तिः । उपपत्तेःसुखदुःखानुभवरूपोपपत्तेः । 5 नातिचिरेण विशेषात् । आकाशादिप्रापिप्रभृति यावद्द्रीयादिप्राप्ति किं तत्र तत्र नातिचिरं तिष्ठति उतानियम इति विशये, देवादिभावदृष्टान्तेन चिरमिति संभवशंकया संगतिः । सूत्रार्थः – आकाशादिप्राप्तौ नातिचिरं तिष्ठति ; उत्तरत्र व्रीह्मादिसावे ततोवैदुर्निष्प्र . पतरमिति विशिष्य चिरेण गमनवचनात् । 6 अन्याधिष्ठिते पूर्ववदभिलापात् । अवरोहन्तो जीवाः व्रीह्यादिभावे जायन्त इति श्रयते । किं अन्याधिष्ठितत्रीह्मादीन् आश्लिष्यन्ति उत भोक्तारो बीद्यादिशरीराः जायन्त इति चिन्त्यते । संश्लेपमात्रम् । कृतः । पूर्ववदभिलापात् । आकाशादिभाववत् केवलबीयादिभावाभिलापात् । जन्महेतुकर्मानभिधानादित्यर्थः । इति प्रथमः पादः । 3-2- 1 सन्ध्ये सृष्टिराह हि । एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम् ; इदानीमस्य स्वप्नावस्था परीक्ष्यते इति संगतिः । सूत्रार्थः (पू०) - स्वमे श्रूयमाणा रथादिसृष्टिः स्वमदृशा जीवेन कृता । कुतः । आह हि स हि कर्तेति तस्यैव परामर्शादित्यर्थः । (पू०)
52 श्रीकेताण्डपट्टि स्वामिकृती 2 तदभावो नाडीषु तच्छ्रुतेरात्मनि च । तदभावः – स्वनाभावः सुपुतिः नाडीष्वत्मनि च । चकारात् पुरीतति च । तच्छ्रुतेः । त्रयाणां सुषुप्तिस्थानत्वेन श्रुतेः । 3 स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ’ कि सुप्त एव प्रबोधसमये उत्तिष्ठति उतान्य इति विशये, सुषुप्तेः प्रागारब्धकर्मासमापनात् सोऽहमिति प्रत्यभिज्ञानात्, इहव्याघ्रोवेत्यारभ्य यद्यत् भवन्तीति शब्दात्, - मोक्षसाधनविध्यानर्थक्याच्च स एवोत्तिष्ठति । 4. जाग्रत्स्वप्र सुषुप्तिरूपावस्थाविशेषान् परिशोध्य अनन्तरं मूर्छारूपा सुषुप्तितुल्यावस्था विचार्यते—मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ जाग्रत्स्वप्न सुषुप्तिमतो या मूर्छावस्था सा मरणायार्धसंपत्तिः । कुतः । परिशेषात् प्राणादिसर्वव्यापारोपरतेर्न जागरावस्था । न च गतप्राणा ; तदाकारचैलक्षण्येन सूक्ष्मप्राणास्तित्वावगतेः । मूर्च्छितस्यैव कस्यचित् पुनर्जीवनाच्च न मरणमिति परिशेषान्मरणायार्धसंपत्तिरित्यवगम्यते । 5 न स्थानतोऽपि परस्योभयलिंगं सर्वत्र हि । दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषा निरूपिताः । इदानीं ब्रह्मप्राप्तितृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वप्रतिपादनायारभते । पृथिव्यादिष्वन्तर्यामितयाऽवस्थितस्यापि ब्रह्मणः, जीवस्य तत्र तत्रावस्थितस्य ये दोषा उक्ताः ते परस्य न संभवन्ति । उभयलिंगं सर्वत्र हि । हितौ । यतः सर्वत्र श्रुतिस्मृतिषु निरस्तनिखिलदो पता समस्त कल्याणगुणात्मकतारूपोभयलक्षणं ब्रह्मैवावगतम् ॥ 6 उभयव्यपदेशात्वहिकुण्डलवत् । अचित्प्रसंगात् संगतिः । सूत्रार्थःतुशब्दोऽवधारणे । (पू०) अहे ः कुंडलभावादिवत् ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानम् । कुतः । नानात्वएकत्वरूपो भयव्यपदेशात् ॥ 7 परमतः सेतून्मानसंबन्ध भेदव्यपदेशेभ्यः । पूर्वत्र निर्दोषत्वं स्थापितम् ; इह तु कल्याणगुणात्मकत्वमिति संगतिः । (पू०) ‘जन्माद्यस्य यतः’ इत्यारभ्य, ‘अतोऽनन्तेन तथा हि लिंगम्’ इत्यन्तेन प्रतिपादितात् परस्मात् ब्रह्मणः परमपि किंचिदस्तीति कश्चिन्मन्यते । कुतः । सेतून्मानसंबन्धभेदव्यपदेशेभ्यः - अथ य आत्मा स सेतुरिति सेतुत्वव्यपदेशात्, एतं सेतुं तीर्त्वाति अस्य तरितव्यतोपदेशात्, चतुष्पात् ब्रह्म पोडशकलमिति परिमितत्वव्यपदेशात्, अमृतस्यैष सेतुरिति प्रापकत्वभुतेश्चेति सूत्रार्थः ।
8 फलमत उपपत्तेः । अतः – परस्मात् ब्रह्मण एव कर्मभिरुपासनेन च आराधितात् भोगापवर्गरूपफलम् । कुतः । उपपत्तेः । कर्म हि क्षणविध्वंसि न कालान्तरभाविफलायालम् । स हि सर्वज्ञः सर्वशक्तिः परमकारुणिको महोदारोऽनादिरनन्तश्च सर्वेश्वरः फ्लद इत्युपपद्यते । इति तृतीयाध्याये द्वितीयपादः ॥ 1 एकैकजीवेऽपि उक्तदेयावस्थासमभिहारज्ञापनाभिप्रायेण भेदाभेदविचारः क्रियते ।
उभयवेदान्तग्रन्थमाला 3.3- 53 1 सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । उक्तं ब्रह्मोपासिसिपोपजननाय ब्रह्मणः फलदायित्वपर्यन्तम् ; इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्प निर्णयाय विद्याभेदामेदचिन्ता प्रस्तूयत इति पादसंगतिः । पूर्वाधिकरणे उपास्यस्य फलदत्वेन प्राधान्यमुक्तम् ; अधुना फलसाधनत्वेन कर्मापेक्षया प्राधान्यात् विद्या विचार्यत इति संगतिः । तत्र विश्वप्रपञ्चविग्रहोपासन रूपाया वैश्वानरविद्यायाः परविद्यान्तरात् प्राधान्यात् सैव प्रथमं निर्दिश्यते । सूत्रार्थः – सर्ववेदान्तप्रत्ययमेकं दहराद्युपासनम् ; चोदनाद्यविशेषात् । । 2 अन्यथात्वं शब्दादिति चेन्नाविशेषात् । सामान्येन विद्यासु सर्वशाखाप्रत्ययनयावतार उक्तः ; तद्विशेषेषु मेदा मेदहेतुभावाभावौ निरूप्येते इति पेटिकासंगतिः । पूर्वोक्त मैक्यं क्वचिदपोद्यत इति अधिकरणसंगतिः । सूत्रार्थः - अन्यथात्वं शब्दादिति राद्धान्तच्छायया परिचोद्य नाविशेषादिति पूर्वपक्षी परिहरति । ‘अथ ह य एवायं मुख्यः प्राणः तमुद्गीथमुपासाञ्चक्रिरे", “अथ हेममासन्यं प्राणमूचुस्त्वं न उगायेति । तथेति तेभ्य एप प्राण उद्गायत्” इति एकल उद्गीथे प्राणदृष्टिशब्दात् इतरत्र उद्गातरि प्राणदृष्टिशब्दाच्च रूपान्यथात्वमिति चेत् - तन्न ; अविशेपात् । उपक्रमे द्यविशेषेण ‘उद्गीथेनात्ययाम’, उद्गीथमाजहर ने नैनानभिहनिष्यामः’ इत्युद्गीथस्यैवोपास्यत्वप्रतीतेः, ‘त्वं न उगायेति, तथेति तेभ्य एष प्राण उद्गायत् इति कर्मण्येवोद्गीथे कर्तृत्वमुपचर्यत इति युक्तम् ; अन्यथोपक्रमविरोधात् (पू०) । 3 सर्वामेदारन्यलेमे । एवं दृष्टिविशेषणतया प्राणः प्रस्तुतः । स्वतन्त्रतद्विपयग्रुपासनं निरूप्यत इति संगतिः । सूत्रार्थः - अन्यत्र कौपीत किप्राण विद्यायामिमे वसिष्ठत्वादयः सन्त्येव । कुतः १ सर्वाभेदात् । प्राणज्यैष्ठयष्ठथोपपादन प्रकारस्य सर्वस्य तत्राप्यभेदात् । 4 आनन्दादयः प्रधानस्य । पूर्वं ज्यैष्ठ्यादिगुणान्तर्भावेन वसिष्ठत्वादीनामपि अनुसन्धेयत्वमुक्तम् । तत्प्रसंगात् ब्रह्मणः सर्वविद्यावेद्यत्वात् तत्स्वरूपनिरूपकधर्माणामानन्दादीनां तत्स्वरूपगुणान्तर्भावेनानुसन्धेयत्वमुच्यते इति संगतिः । सूत्रार्थःआनन्दादयो गुणाः सर्वासूपसंहर्तव्याः ; प्रधानस्य गुणिनो ब्रह्मणः सर्वासु विद्यास्व भेदात् । सर्वासु परविद्यासु ब्रह्मैकमनुसन्धेयं चेत्, यैर्गुणैर्विना ब्रह्मस्वरूपानुसन्धानमशक्यम्, ते च ज्ञानानन्दादयोऽनुसन्धेया इत्यर्थः । 5 कार्याख्यानादपूर्वम् ॥ पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानीं चिन्त्यते इति संगतिः । सूत्रार्थः – अपूर्वम् अप्राप्तम् अपां प्राणवासस्त्वानुसंधानं विधेयम् ; न पुनः प्राप्तमाचमनम् । कुतः – कार्याख्यानात् अप्राप्ताख्यानस्वभावत्वात् शास्त्रस्येत्यर्थः ।
54 शारीरकाधिकरणसँगतिः 6 समान एवं चाभेदात् । पूर्वाधिकरणं प्राणविद्याप्रसंगात् कृतम् ; तत्पूर्वेणास्य संगतिः । सूत्रार्थः - मनोमयत्वादिके समाने सति विद्यैक्यम् । एकं चाभेदात्वंशित्वादिगुणेनाप्यभेदात् । वशित्वादिर्हि सत्यसंकल्पत्वविततिः । 7 संबन्धादेवमन्यत्रापि । पूर्वं शाण्डिल्यविद्याया रूपभेदाभावात् विधैक्यमुक्तम् । तर्हि वृहदारण्यकोक्तादित्यविद्यायामपि रूपभेदाभावात् विधैक्यमिति शंकया संगतिः । सूत्रार्थः - यथा मनोमयत्वादिगुणविशिष्टस्यैकस्यैवोपास्यत्वेनोभयत्र विद्यैक्यम्, एवमन्यत्रापि ; अक्ष्यादित्याधारस्याप्येकस्यैव सत्यस्य ब्रह्मणः स्थानद्वयसंबन्धान्न रूपभेद इति विद्यैक्यात्, द्वे नामनी अनियते । (पू.) 8 संमृतिद्युव्याप्त्यपि चातः । नाम्नोखि संभृत्यादेरपि व्यवस्थेति संगतिः । संमृतिद्युव्याप्तीति समाहारद्वन्द्वेनैकवद्भावः । संभृतिप्रभृतिगुणजातमपि अत एवस्थानविशेषसंबन्धनियतत्वात् नियतम् । न सर्वत्रोपसंहार्यम् । व्याप्तिर्हि स्वसामर्थ्यादल्पस्थानानर्हतया तदितरस्थाननियता । संभृत्याद्यपि तत्साहचर्यात् तथैव ॥ 9 पुरुषविद्यायामपि चेतरेषामनाम्नानात् । द्युव्याप्तिसंनिध्युक्तसंभृत्यादेखि ब्रह्मविद्यासन्निधिस्थपुरुषविद्यायास्तत्संवन्धित्वमिति संगतिः । पुरुषविद्यायामप्यन उभयत्र रूपभेदाद्विद्याभेदः । इतरेषां तैत्तिरीयकानातानां छान्दोग्ये अनाम्नानात् । 10 वेधाद्यर्थभेदात् । संनिधिस्थपुरुषविद्याया इव तादृशां “शंनोमित्रः” इत्यादिमन्त्राणां ब्रह्मविद्यांगत्वमिति शंकया संगतिः । सूत्रार्थ ः - शुक्रं प्रविध्येति मन्त्रसामर्थ्यात् वेधाद्यर्थभेदवत् " सत्यं वदिष्यामि" इति मन्त्रस्य, अध्ययन संबन्धरूपार्थभेदसत्त्वात् न . विद्यांगत्वम् । शं नो मित्रः इत्यादिमन्त्र’ एव विपयः ।
11 हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत् तदुक्तम् । ब्रह्मविद्यासंनिधिसमाम्नातानां तदनंगत्वमुक्तम् ; तथा संनिधिसमाम्नातहानादिचिन्ता प्राप्तेति संगतिः । सूत्रार्थः - तुशब्दः पक्षव्यावृत्यर्थः । हानाविति प्रदर्शनार्थम् । विमोचनोपायनयोरितरेतरसमुच्चयोऽवश्यम्भावी । कुतः ? उपायनशब्दस्य हानिवाक्यशेषत्वात् । प्रदेशान्तरस्थस्य प्रदेशान्तराम्नावशेषत्वे दृष्टान्तानाह कुशाच्छन्दस्तुत्युपगानवदिति । यथावानस्पत्याः कुशा इति वाक्यस्य औदुम्बर्यः कुशा इति तद्विशेषवाचि प्रदेशान्तरस्थम्, यथा देवासुराणां छन्दोभिरिति प्रदेशान्तरस्थस्य तत्क्रमविशेषवाचि देवच्छन्दांसि पूर्वमिति प्रदेशान्तरस्थम्, यथा हिरण्येन पोडशिनः स्तोत्रमुपाकरोतीति प्रदेशान्तरस्थस्य तत्कालविशेषवाचि ‘समयाविषिते सूर्ये पोडशिनः स्तोत्रमुपाकरोतीति प्रदेशान्तरस्थम्, यथा ऋत्विज उपगायन्तीत्यस्य नाध्वर्युरुपगायेदिति तत्पर्युदासरूपं प्रदेशान्तरस्थम् । एवं 1 शुकंप्रविध्येत्यादिर्दृष्टान्तत्वाय निर्दिष्टः । न तु विचार्यः ; असंदेहादिति भाषः ।
शारीरकाधिकरण संगतिः 55 संभवन्त्यां गतौ न विकल्पो युक्तः । तदुक्तं पूर्वस्मिन् काण्डे, अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्येत्यादिना । 12 सांपराये तर्तव्याभावात् तथा ह्यन्ये । सुकृतादिहानमुपायनं च सर्वत्र चिन्त्यमुक्तम् ; तद्धानं किं देहवियोगकाले दौहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति चिन्त्यते । सूत्रार्थःसांपराये देहवियोगकाल एवेति चिन्तनीयम् । कुतः । मर्तव्याभावात् देहवियोगादूर्ध्वं प्रतिव्यतिरेकेण तरितव्याभावात् । तथा ह्यन्येऽधीयते, " तस्य तावदेव विरं यावन्न विमोक्ष्ये, अथ संपत्स्ये" इति । “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति च । 13 अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् । पूर्वमर्चिरादिमार्गः प्रस्तुतः । स किं यत्र श्रुतः, तद्विद्यानिष्ठस्यैव उद सर्वविद्यानिष्ठस्येति चिन्त्यते । अनियमः - सर्वेषामविशेषेण तयैव प्राप्तिः । कुतः । अविरोधः शब्दानुमानाभ्याम् । तथा सत्येव श्रुतिस्मृतिभ्यामविरोधः । श्रुतिः पञ्चाग्निविद्यायां निदर्शिता । स्मृतिः, अग्निज्योति हः शुक्ल इत्यादिका । 14 अक्षरधियां त्ववरोधः सामान्यवद्भावाभ्यां औपसदवत् तदुक्तम् । पूर्व अर्चिरादिगतेः सर्वसाधारण्यमुक्तम् । अधुना अक्षरधियां सर्वसाधारण्यं न वेति विचिन्त्यते । अक्षरधियाम् —– अक्षरसंबन्धिनीनामस्थूलत्वादिधियां सर्वविद्यास्ववरोधः - संग्रहणम् । कुतः । सामान्यतद्भावाभ्याम् । ब्रह्मणः सर्वत्र समानत्वात् ब्रह्मानुसन्धानान्तर्भावाच्च तासाम् । गुणानां हि प्रधानानुवर्तित्वं स्वभावः । औपसदवत् । यथा जामदग्न्यचतूरात्रपुरोडाश्युपसद्गुणभूतः अग्रे वेर्होत्रं वेरिति मन्त्रः सामवेदपठितत्वेन सामवेदस्वरनियतोऽपि प्रधानभूतोपसदनुवर्तित्वात् याजुर्वेदिकत्वाच्चोपसदः यानुर्वेदिकोपांशुसंबन्धी, तद्वत् अक्षरविद्यासंवन्धितया अधीतत्वेन तद्विद्यानियता अपि प्रधानानुवर्तित्व स्वाभाव्यात् सर्वविद्यासंबन्धिन्यः । तदुक्तम्, गुणमुख्यव्यतिक्रमे तदर्थत्वादित्यादिना । 15 अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेनोपदेशवत् । हेयप्रत्यनीकत्वं परस्यासाधारणं चेत् — अशनायाद्यतीतं ब्रह्म स्यात्, प्राणितृत्वाद्युपेतो जीवः स्यादिति शंकया संगतिः । सूत्रार्थः - अन्तरा य आत्मा सर्वा न्तर इति उषस्तप्रश्नो भूतग्रामवत्स्वात्मनः - प्रत्यगात्मन इत्युपगन्तव्यः ; अन्यथा प्रतिवचन मेदानुपपत्तिरिति चेत् — नात्र प्रत्यगात्मविषयमस्ति प्रश्नद्वयम् । प्रतिवचनद्वयश्च परमात्मन्येवोपास्ये संभवतीत्यर्थः । उपदेशवत् - सद्विद्यायां प्रश्नप्रतिवचनभेदवत् । 16 कामादीतरत्र तत्र चायतनादिभ्यः ॥ प्राणयितृत्वादि - अशनायाद्यतीतत्वयोर्धर्मिभेदाभावात् विधैक्यमुक्तम् । अत्र गुणाष्टकस्य वशित्वादेश्व धर्मिभेद इति शंकया
56 श्रीकेताण्डपट्टिवामिकृता संगतिः । सूत्रार्थःइतरत्र तत्र च - वाजसनेयके छान्दोग्ये च सत्यकामत्वाद्येव रूपम् । कुतः । आयतनादिभ्यः - हृदयायतनत्व - सत्यसंकल्प त्वविततिरूपवशित्वादिभ्यः । 17 तन्निर्धारणानियमः तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥ सत्यकामत्वादीनामुपसंहार्यत्वमुक्तम् ; एवमुद्गीथादिधियां नियमेनोपसंहार इति शंकया संगतिः । तन्निरिधणानियमः - निर्द्धारणं निश्चयेन चेतसोऽवधारणम्, उपासनमित्यर्थः, तस्योद्गीथोपासनस्यानियमः । कुतः । तद्दृष्टे – तेनोभौ कुरुत इत्यनियमदृष्टेः पृथग्भूतमुपासनस्य फलम् ; तच्च अप्रतिबन्धरूपम् । वीर्यवत्तरत्वं नाम प्रवलकर्मान्तरवलेन एतस्य कर्मणः फलस्याप्रतिबन्धः । अविलम्वितत्वमित्यर्थः ।
। 18 प्रदानवदेव तदुक्तम् ॥ पूर्वं प्रासंगिकम् । अतः तत्पूर्वचिन्तितदहर विषय - चिन्तान्तरमिति संगतिः । सूत्रार्थः प्रदानवदावृत्तिनियम एव । यथा -इन्द्राय राज्ञे पुरोडाशमेकादशकपालम्, इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे इतीन्द्रस्यैकत्वेऽपि राजत्वादिविशिष्टाकारभेदात् देवताभेद इति प्रदानावृत्तिः, तद्वद्वेव । तदुक्तं संकर्षे, नाना वा देवता पृथकत्वादिति । 19 लिंगभूयस्त्वात् तद्धि बलीयः तदपि ॥ पूर्वप्रकृतविद्ययैक विद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियत इति शंकया संगतिः । सूत्रार्थः – सर्वविद्योपास्यनिर्धारणे लिंगभूयस्त्वात् तदेव न्याय्यम् ; लिंगभूयस्त्वात् — तस्य चिह्नभूतवाक्यभूयस्त्वादित्यर्थः । तद्धि वाक्यं प्रकरणात् बलीयः । तदपि श्रुतिलिंगवाक्यप्रकरणस्थान समाख्यानां समवाये पारदौर्वल्यमर्थविप्रकर्षादित्यादिनोक्तम् । 20 पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् ॥ नारायणानुवाक इव प्रकरणवाक्यादिवाधाभावात् मनश्चिदादयः क्रियामयत्रत्वनुप्रवेशिन इति शंकया संगतिः । सूत्रार्थ - मनःश्चिदादिः क्रिया स्यात् - मनश्चिदादयो विद्यारूपाः क्रियामयत्रत्वंगभूता इत्यर्थः । कुतः । प्रकरणात् । पूर्वप्रकृतेनेष्टकचितेनाव्यभिचरितक्रतुसंबन्धिनोपस्थितऋतुगृहीतत्वेन तदंगभूताः । एषां चाग्नित्वात् तेनेष्टकचितेन विकल्पः । विद्यारूपाणामप्येषां क्रियामयकत्वंगभावो न विरुद्धः । द्वादशाहांगभूतमानसग्रहवत् । (पू० ) 21 एक आत्मनः शरीरे भावात् ॥ पूर्वं प्रासंगिकम् । तत्पूर्वस्मिन् भगवत एव सर्व विद्योपास्यत्वमुक्तम् । तथा प्रत्यगात्मनश्वेति संगतिः । कर्तृत्वादिविशिष्टमेवात्मरूपमनुसंधेयमित्येके मन्यन्ते । कुतः । शरीरे वर्तमानस्योपासितुरात्मनः तथाभावात् । (पू.) 22 अंगावबद्धास्तु न शाखासु हि प्रतिवेदम् । यत्र यत्र ब्रशोपास्यम्, तत्र तत्र शुद्धात्मन उपास्यत्वमुक्तम् । एवं यत्रयत्रोद्गीथानुप्रवेशः, तत्र तत्र तदुपास्तिः न वेति
शारीरकाधिकरणसंगतिः 57 शंकया संगतिः । सूत्रार्थः - न त्वंगावबद्धा उपासनाः तासु शाखासु व्यवस्थिताः ; अपि तु प्रतिवेदम् - सर्वशाखामु संबध्यन्त इत्यर्थः । हि तौ । यस्मादुद्गीथजातीयत्वाविशेषेण सर्वसंबन्धः, तस्मादित्यर्थः । 23 भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ; पूर्वप्रकृत सामावयवभूतोद्गीथस्य समस्तस्य व्यस्तस्य चोपास्यत्वं श्रुतम् ; एवं किं वैश्वानरविद्यायां समस्तस्य व्यस्तस्य चोभयस्योपास्यत्वमिति शंकया संगतिः - सूत्रार्थः - भूम्नः ज्यायस्त्वं समस्तोपासनस्य ज्यैष्ठयम् - प्रामाणिकत्वमित्यर्थः । एकवाक्यत्वावगतेः । व्यस्तवादः ऋतुवत् द्रष्टव्यः । वैश्वानरं द्वादशकपालं निर्वपेत्यदष्टाकपालो भवतीत्यादिक्रताविवेत्यर्थः । तथा हि दर्शयतिसमस्तोपासकस्य ज्यायस्त्वमेव दर्शयति श्रुतिः मूर्धातेव्यपतिष्यत् यन्मां नागमिष्य इत्यादिना व्यस्तोपासनेऽनर्थं ब्रुवती ॥ 24 नाना शब्दादिभेदात् ॥ पूर्वं विद्याविशेषचिन्ता वृत्ता, अथ सर्वविद्याविषयचिन्तेति संगतिः । सूत्रार्थः - सद्विद्यादहरविद्यादिका नानाभूता ब्रह्मण एकत्वेऽपि सद्भूमापहतपाप्मेत्यादिशब्दभेदात् । आदिशब्दात् अभ्यास संख्यागुण प्रक्रियानामधेयानि गृह्यन्ते । 25 विकल्पोऽविशिष्टफलत्वात् ॥ भेदे सिद्धे हि विकल्पसमुच्चयचिन्तेति संगतिः । सूत्रार्थः - देशतः कालतः स्वरूपतश्चानवच्छिन्नानन्दस्वरूप ब्रह्मानुभवः सर्वासां परविद्यानां फलम् । तच्च एकया विद्यया प्राप्तमिति सर्वासां विकल्पः ।
26 अंगेषु यथाश्रयभावः ॥ यथाकामं काम्यानां विकल्पसमुच्चयावुक्तौ । एवमुद्गीथविद्याश्च यथाकाममुपादेया न वेति संगतिः । सूत्रार्थः -अंगेषु – उद्गीथादिषु आश्रितानामुपासनानां यथाश्रयभावः । उद्गीथादिवदंगभावः । गोदोहनादिवत् तस्मिन् वाक्ये फलसंबन्धाश्रवणादंगभावो न विरुद्धयत इति । इति तृतीयः पादः । 3-4. 1 पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ अंगिचिन्तानन्तरं अंगचिन्तेति पादसंगतिः । विद्याया अंगित्वे सति हि तदंगचिन्त्यता । अतः तस्या अंगित्वं प्रथमं निरूप्यते । पूर्वमुद्गीथ विद्यायाः पुरुषार्थसाधकत्वमुक्तम् । अत्र ब्रह्मविद्यायास्तत्साधकत्वं साध्यत इत्यधिकरणसंगतिः । मूलार्थः पुरुषार्थः अतः – विद्यातः ; ब्रह्मविदाप्नोति परमिति शब्दात् ॥
2 स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ब्रह्मसंस्थस्तुतिप्रसंगात् रसतमत्क वाक्यानि स्तुत्यर्थानि, नेति शंका जातेति संगतिः । सूत्रार्थः – कर्मांगभूतोद्गीथादिसंबन्धितयोपादानात् रसतमत्वादेः स्तुतिमात्रमेव, न रसतमत्वादिदृष्टिविधिरिति चेत्-न; रसतमत्वादेरप्राप्तत्वात् । उपासीतेति विधिप्रत्ययेन दृष्टिविधिरेव न स्तुतिमालम् ॥ उ-८ १
58 शारीरकाधिकरण संगतिः 3 पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ इदं च प्रासंगिकम् । रसतमत्वादेः तुत्यर्थत्वं पूर्वपक्षीकृतम् । एवं प्रतर्दनाद्याख्यानानि किं स्तुत्यर्थानि न वेति संगतिः । सूत्रार्थ ःप्रतर्दनाद्याख्यानानि पारिप्लवे विनियुक्तानि इति चेन्न ; मनुर्वैवस्वत इति तत्र विशेषितत्वात् विद्याविध्यर्थान्येव । 4 अत एव चाग्नीन्धनाद्यनपेक्षा । पूर्वयोः प्रासंगिकत्वात् प्रथमाधिकरणेन संगतिः । सूत्रार्थः-अत एव विद्यावच्चश्रुतेरेव आधानाद्यनपेक्षा । अग्नीन्धनं ह्याधानम् । 5 सर्वापेक्षा च यज्ञादिश्रुतेरववत् ॥ पूर्वमूर्ध्वरेतस्सु अग्नीन्धनाद्यनपेक्षोक्ता । अत्र गृहस्थेषु यज्ञाद्यपेक्षोच्यत इति संगतिः । सूत्रार्थः -कर्मवत्सु गृहस्थेषु यज्ञादि -सर्वकर्मापेक्षा विद्या, [यथा गमनसाधन भूतोऽश्वः स्वपरिकरापेक्षः ] ; तमेतं वेदानुवचनेनेति यज्ञादिश्रुतेः । 6 शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदंगतया तेपामप्यवश्यानुष्ठेयत्वात् ॥ गृहस्थस्य शमादीन्यन्नश्यानुष्ठेयानि नेति चिन्त्यते । यद्यपि गृहस्थो यज्ञादिकर्मयुक्तः, तथापि तु शमदमाद्युपेतः स्यात् । कुतः । शान्तोदान्त इत्यादिना तद्विधेः । तदंगतया विद्यानिष्पत्तये तेषामवश्यानुष्ठेयत्वात् । 7 सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ शमदमाद्यनुष्ठानमुक्तम् । शमविशेषरूपभोजननियतिश्चिन्त्यत इति संगतिः । सूत्रार्थः - चशब्दोऽवधारणे । प्राणविदः सर्वान्नानुमतिः प्राणात्ययापत्तावेव ; कुतः । तद्दर्शनात् । अतिशयितशक्तेत्रभविदः प्राणात्यय एव सर्वान्नानुमतिदर्शनात् । 8 विहितत्वाच्चाश्रमकर्मापि ॥ यज्ञादिकर्मागिका विद्येत्युक्तम् । तानि च यज्ञादीनि अमुमुक्षुणा केवलाश्रमिणाऽप्यनुष्ठेयानि उत नेति चिन्त्यते । यावज्जीवमग्निहोत्रं जुहुयात् इत्यादिना केवलगृहस्थाश्रमिणः जीवननिमित्ततया विहितत्वादेव यज्ञादिकेवलाश्रमकर्म । 9 अन्तरा चापि तु तद्द्दष्टेः ॥ पूर्वं चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारो ऽस्तीत्युक्तम् । अत्र विधुरादीनां सोऽस्ति, नेति चिन्त्यते । तुशब्दात् पक्षो व्यावृत्तः । चशब्दोऽवधारणे । अन्तराऽपि - आश्रमान् अन्तरा वर्तमानानामपि अधिकारोऽस्त्येव । कुतः । तद्दृष्टेः । रैक्वादिषु विद्यानिष्ठत्वदृष्टेः । 10 तद्भूतस्य तु नातद्वात्रो जैमिनेरपि नियमात् तद्रूपाभावेभ्यः ॥ विधुरादेरिवानाश्रमित्वसाम्यादाश्रमभ्रष्टानामपि विद्याधिकारोऽस्ति, नेति चिन्तया संगतिः । नैष्ठिकभूतस्य अतथाभावो न संभवति । कुतः । तद्रूपाभावेभ्यः शास्त्रैर्नियमात् । तद्रूपाभावाः-नैष्ठिकधर्माभावाः ; तेभ्यः नियच्छन्ति हि शास्त्राणि ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्त- 1 षारिप्लेवशंसनविध्यर्थानि न भवन्ति ; किंतु स्तुत्यर्थतया प्रकृतविद्याविध्यर्थान्येवेति ।
be मात्मानमाचार्यकुलेऽवसादयन्" इति नैष्ठिकस्य तत्रैव नियमः । अरण्यमियात् ततो न पुनरेयादिति वैखानसस्य, संन्यस्यानीन पुनरावर्तयेदिति परिव्राजकस्य । अत एव तेषामनाश्रमित्वेनावस्थानासंभवात् विद्याधिकारो न संभवति । जैमिनेरप्यवगीतोऽयम् । 11 स्वामिनः फलश्रुतेरित्यात्रेयः ॥ उपासनानुष्ठातृ विभागचिन्तानन्तरं उद्गीथाधुपासनस्यापि तच्चिन्तनं क्रियत इति प्रसंगात् संगतिः । सूत्रार्थः - स्वामिनः यजमानस्य उद्गीथाद्युपासने कर्तृत्वम् । कुतः । तस्यैव फलश्रुतेरित्यात्रेयो मन्यते । 12 सहकार्यान्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ यज्ञादिः शमादिश्व सहकारी निरूपितः । तद्वत् सहकार्यन्तरं निरूप्यते । तद्वतः - विद्यावतः । विधीयत इति विधिः मौनम्, सहकार्यन्तरम् । विध्यादिवत् । अत्रापि विधीयत इति विधिः यज्ञदानप्रभृत्याश्रमधर्मः । आदिशब्दात् श्रवणमनने गृह्येते । आश्रमधर्मवत् श्रवणमननवच्च पाण्डित्य वाल्ययोस्तूतीय मिदं सहकार्यन्तरं मौनमपूर्वं विधीयते । कुत इत्यत्राह पक्षेणेति । मुनिशब्दस्य प्रकृष्टमननयुक्ते पक्षेण प्रसिद्धेः । 18 अनाविष्कुर्वन्नन्वयात् ॥ मौनाख्यं विद्यांगं चिन्तितम् । तथा बाल्यमपि विद्यांगं चिन्त्यते । पाण्डित्यप्रयुक्तस्वमाहात्म्यमनाविष्कुर्वन्नेव वर्तेत विद्वान् । नाविरत इत्यादिशास्त्रैः तस्यैव विद्यान्वययोग्यत्वात् । 14 ऐहिकमप्रस्तुत प्रतिबन्धे तद्दर्शनात् ॥ इत्थमंगचिन्ता कृता । इदानीमंगिनिष्पत्तिसमयचिन्ता क्रियते । ऐहिकमभ्युदयफलम्, अप्रस्तुते प्रबलकर्मान्तरप्रतिबन्धे सत्यनन्तरम्, प्रस्तुते तदुत्तरकालमुत्पद्यते । कुतः । यदेव विद्यया करोति, तदेव वीर्यवत्तरमिति उद्गीथोपासनस्य [बलेन ?] क्रतोः कर्मान्तरेण फलाप्रतिबन्धदर्शनात् । 15 एवं मुक्तिफलानि यमस्तदवस्थावधृते स्तदवस्थावधृतेः ॥ पूर्वमैहिकफलानां विद्यानां निष्पत्तिकाल उक्तः । एवं ब्रह्मप्राप्तिहेतूनामपि विद्यानामनियम एवातिदिश्यत इति संगतिः । सूत्रार्थः - मुक्तिफलानामप्येवमनियमः । कुतः । तदवस्थावधृतेः - प्रतिबन्धाभावे सति फलकालावधृतेः । द्विरुक्तिरध्यायपरिसमाप्ति द्योतयति । इति तृतीयाध्याये चतुर्थः पादः ॥ अथ चतुर्थाध्याये प्रथमः पादः ॥ 1 आवृत्तिरसकृदुपदेशात् ॥ तृतीये खोपयोग्यर्थैः सह विद्या चिन्तिता, अथ फलचिन्तेति संगतिः [आदौ स्वरूपचिन्ता ।] सूत्रार्थः-वेदनस्यासकृदावृत्तिः शास्त्रार्थः । असकृदावृत्तं वेदनं ध्यानशब्दवाच्यमित्यर्थः । कुतः । उपदेशात् । वेदनविधायिसमानशास्त्रैः," ध्यातव्यः, उपासीत इत्युपदेशात् ।
60 शारीरकाधिकरणसंगतिः 2 आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ उक्तोपासनकर्मीभूतं ब्रह्म किमयुतसिद्धिरूपसंबन्धविरहेणोपास्यम् उत उपासितृशरीरत्वेनेति शंकया संगतिः । सूत्रार्थः - त्वं वा· अहमस्मि भगवो देवते अहं वै त्वमसीति पूर्वे उपासितारः उपास्यमात्मत्वेनोपगच्छन्ति । अत आत्मेत्येव उपास्यम् । तान् उपासितत् प्रति, अर्थान्तरभूतस्यापि ब्रह्मण उपासितुरात्मत्वं ग्राहयन्ति शास्त्राणि, य आत्मनि तिष्ठचित्यादीनि । . 3 न प्रतीके न हि सः । उक्तमात्मतयोपासनं प्रतीकेष्वपि तथा कार्य न वेति शंकया संगतिः । सूत्रार्थः -न प्रतीके आत्मत्वानुसन्धानं कार्यम् । कुतः । न हि मनआदिरुपासितुरात्मा । 4 आदित्यादिमतयश्चांग उपपत्तेः ॥ इहापि दृष्टिविशेषणचिन्तेति संगतिः । सूत्रार्थः-कर्मणोऽपि फलसाधनत्वमादित्यादिदेवताराधनद्वारेणेति आदित्यादेरेव उत्कर्षोपपत्तेरादित्यादिमतय एव कर्मागोद्गीथादौ कार्याः 5 आसीनः संभवात् ॥ अनन्तरयोः प्रासंगिकत्वात् तत्पूर्वेण संगतिः । सूत्रार्थःआसीनस्यैव एकाग्रतासंभवादेकाग्रतामूलत्वादुपासनस्य आसीनः कुर्यात् । 6 आप्रयाणात् तत्त्रापि हि दृष्टम् ॥ विहितमुपासनमेकाह एवं संपाद्यम्, उत आप्रयाणात् प्रत्यहमनुवर्तनीयमिति चिन्तया संगतिः । सूत्रार्थः – आप्रयाणादनुवर्तनीयम् । कुतः । तत्रापि हि दृष्टम् स खल्वेवं वर्तयन् यावदायुपं ब्रह्मलोकमभिसंपद्यते’ इति ।
7 तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्वयपदेशात् ॥ एवं विद्यास्वरूपं विशोध्य विद्याफलं चिन्तयितुमारभते । उपासने प्रारब्धे तत्सामर्थ्यादेव पूर्वकृताघनाशः उत्तरकृताघाश्लेगच भवति । ‘एवं हास्य सर्वे पाप्मानः प्रदूयन्ते, एवमेवंविदि पापं कर्म न श्लिष्यते’ इति श्रुतेः । ; 8 इतरस्याप्येवमसंश्लेषः पाते तु ॥ पापस्य अश्लेपविनाशावुक्तौ पुण्यस्यापि अश्लेषविनाशावुच्येते । इतरस्यापि - पुण्यस्यापि अनिष्टफलत्वसाम्यात् एवम् अश्लेषविनाशौ विद्यानुगुणस्य तु पुष्टयन्नारोग्यादिफलस्य शरीरपातादूर्ध्वमनिष्टत्वादश्लेषः । 9 अनारन्धकार्ये एव तु पूर्वे तदवधेः ॥ विद्योत्पत्तेः पूर्वोत्तरभाविनोः सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ ; ततः पूर्वभाविनोस्तयोः किमश्लेषविनाशौ, उतारब्धयोरेवेति संशय इति संगतिः । सूत्रार्थः - विद्याधिगतेः पूर्वकृते पुण्यपापे फलदानायाप्रवृत्ते एव विनश्यतः । तस्य तावदेव चिरमिति शरीरपातावधिश्रुतेः ॥ 10 अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ सुकृतस्याप्यसंश्लेष उक्तः ; तर्ह्यग्निहोत्रादीनामननुष्ठानमिति शंकया संगतिः । सूत्रार्थः – अग्निहोत्राद्याश्रमधर्मस्तु
शारीरकाधिकरणसंगतिः 61 विद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयः, तमेतं वेदानुवचनेनेत्यादिना विद्योत्पत्तिकार्यकत्वं ह्याश्रमधर्मस्य दृष्टम् । 11 भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ॥ पुण्यपापे किं विद्यायोनिशरीरावसाने उत तदवसाने शरीरान्तरावसाने वेत्यनियम इति चिन्तनात् संगतिः । सूत्रार्थः - प्रारब्धफले पुण्यपापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अनन्तरं ब्रह्म प्राप्नोति । इति चतुर्थाध्याये प्रथमः पादः ।
4-2. वाङ्मनसि दर्शनाच्छन्दाच्च ॥ स्थूलशरीरस्थितिसमये यत् विद्याफलम्, तदुक्तम् । तद्विनश्यदवस्थायां गत्युपक्रमे यत् फलम् तच्चिन्त्यत इति संगतिः । उत्क्रान्त्युपक्रम कथनात् प्रथमाधिकरणसंगतिश्च । सूत्रार्थःवाक्स्वरूपमेव मनसि संपद्यते । दर्शनात् अकारणे संपश्यभावस्य वाग्वृत्तावपि तुल्यत्वदर्शनात् । शब्दाच्च । वाङ्मनसि संपद्यते इति वाक्स्वरूप संपत्तावेव हि शब्दः । संपत्तिशब्दः संयोगाभिप्रायः । 2 तन्मनः प्राण उत्तरात् ॥ वाङ्मनसि संपद्यते मनः प्राण इत्यनुक्रमेण चिन्तनात् संगतिः । सूत्रार्थ ः - तत् सर्वेन्द्रियसंयुक्तं मनः प्राणे संयुज्यते ; उत्तरात्, मनः प्राण इति शब्दात् । 3 सोऽध्यक्षे तदुपगमादिभ्यः ॥ मनः प्राणे, प्राणस्तेजसि इत्यनुक्रमवचनात् श्रुतिक्रमानुसारेण संगतिः । सूत्रार्थः – सः प्राणः करणाध्यक्षे जीवे संयुज्यते । उत्क्रान्तौ प्राणस्य जीवोपगमादिश्रुतेः । 4 भूतेषु तच्छ्रुतेः ॥ प्राणस्तेजसीति प्राणस्य तेजसि संपत्तिरुक्ता । सा कि तेजोमात्रे उत सर्वेष्वपि भूतेष्विति चिन्त्यत इति संगतिः । सूत्रार्थः - प्राणः भूतान्तरसंसृष्टे तेजसि संयुज्यते । कुतः । पृथिवीमय इत्यादिना सञ्चरतो जीवस्य सर्वभूतमयत्वश्रुतेः । 5 समाना चामृत्युपक्रमादमृतत्वं चानुषोष्य ॥ इयमुत्क्रान्तिः विद्वदविदुषोः समाना, उताविदुष एवेति चिन्त्यत इति संगतिः । सूत्रार्थः - सृतिः - गतिः । आगत्युपक्रमादुत्क्रान्तिर्विदुषोऽपि समाना । विदुषोऽर्चिरादिगतिश्रुतेः, ‘अथ मर्त्योऽमृतो भवति’ इत्युच्यमानममृतत्वमनुपोष्यैव – अदग्ध्यैव शरीरेन्द्रियादिसंबन्धम् उपासनारम्भपरिकररूपमित्यर्थः ।
- तानि परे तथा ह्याह ॥ प्रत्यगात्मा भूतसूक्ष्मेषु संपद्यत इत्युक्तम् । जीवपरिष्वत्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्यं च स्वकार्याय गच्छन्ति उत परमात्मनि
68 शारीरकाधिकरण संगतिः- संपद्यन्त इति चिन्त्यत इति संगतिः । सूत्रार्थःतानि भूतानि परे परस्मिन् ब्रह्मणि संपद्यन्ते । परस्यां देवतायामिति ह्याह श्रुतिः । 7 अविभागो वचनात् ॥ सेयं परमात्मसंपत्तिः किं प्राकृतलयवत् कारणापत्तिरूपा उत वाङ्मनसीत्यादिवत् अविभागरूपेति चिन्त्यत इति संगतिः । सूत्रार्थःअत्राप्यविभागोऽविश्लेष एव ; संपद्यते इति वचनात् । 8 तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ उत्क्रान्तिरुक्ता । विदुषो विशेष उच्यत इति संगतिः ।…. परमपुरुषाराधनरूपया विद्यया तदंगभूतगतिचिन्तनेन च प्रीतेन परमपुरुषेणानुगृहीतो जीवः तत्प्रसादप्रकाशितद्वारः तयैव मूर्द्धन्यनाड्या गच्छति । 9 रम्यनुसारी ॥ मूर्धन्यनाच्या निर्गतस्य विदुषः रश्मीन् अनुसृत्य गमनं चिन्त्यत इति संगतिः । सूत्रार्थः – आदित्य रश्म्यनुसार्येव गच्छति । 10 निशि नेति चेन्न संबन्धस्य यावद्देह भावित्वात् दर्शयति च ॥ निशि सूर्यकिरणसद्भावोऽस्तु, तथापि आत्मविदां निशि मरणस्य निषिद्धत्वात् तेषां निशि मरणमेव न संभवतीति शंकया संगतिः । सूत्रार्थः-निशि मरणस्य गर्हितत्वेन, अधोगतिहेतुत्वात्, निशि मृतस्य न ब्रह्मप्राप्तिरिति चेन्न ; संबन्धस्य यावद्देहभावित्वात् । अनारन्धकार्यस्य कर्मसंबन्धस्य विद्यया विनष्टत्वात् आरब्धकार्यकर्मसंबन्धस्यापि यावच्चरमदेह भावित्वात् । बन्धहेत्वभावेन ब्रह्मप्राप्तिरस्त्येवेत्यर्थः । तदेतत् श्रुतिश्च दर्शयति, ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संपत्स्ये’ इति । 11 अतश्चायनेऽपि दक्षिणे ॥ विदुषः मरणे दिवारजनीभिदा नास्तीत्युक्तं येन, तेनैव हेतुना दक्षिणोत्तरायणविभागोऽपि नास्तीत्युच्यत इति संगतिः । सूत्रार्थः - यतो हेतोः निशामृतस्य ब्रह्मप्राप्तिः, तत एव बन्धहेत्वभावात् दक्षिणायने मृतस्यापि ब्रह्मप्राप्तिरस्त्येव । इति चतुर्थाध्यायस्य द्वितीयः पादः । 4-3. 1 अर्चिरादिना तत्प्रथितेः ॥ विदुषः उत्क्रान्तस्य नाडीविशेषण हार्दानुग्रहात् गत्युपक्रम उक्तः । तस्य गच्छतो मार्ग इदानीं निर्णीयत इति पादसंगतिः । अर्चिरादिनैकेन गच्छति विद्वान् । कुतः । तत्प्रथितेः । प्रथितिः - प्रसिद्धिः । सर्वत्र तत्प्रत्यभिज्ञानादिति । 2 वायुमन्दादविशेषविशेषाभ्याम् ॥ संवत्सरादित्ययोर्मध्ये प्राप्तयोः वायुदेवलोकयो गेंद मंगीकृत्या नियमेन क्रमोऽङ्गीकर्तव्यः, उत प्रमाणवलादेकत्वमंगीकृत्यैकस्था
केताण्डपट्टिवामिकृता 68 नापन्नत्वमेवेति चिन्त्यत इति संगतिः । अन्दात् - संवत्सरादूर्ध्वं आदित्यात् पूर्वं वायुमेकमेव निवेशयेत् देवलोकवायुशब्दाभ्यामविशेषविशेषाभ्यां वायोरेकस्यैव निर्दिष्टत्वात् । देवानां वासस्थान मित्यविशेषेण हि देवलोकशब्दो वायुं देवानां वासस्थानभूतमभिदधाति, वायुशब्दस्तमेव विशेषेणेति द्वयोः प्रकरणद्वयविहितयोरेकत्वादित्यर्थः । 3 तटितोऽधि वरुणः संबन्धात् ॥ अत्रापि क्रमविशेषचिन्तैव क्रियते । विद्युत उपरि वरुणो निवेश्यः ; विद्युतो मेघोदरवर्तित्वेन विद्युद्वरुणयोर्लोके वेदे च संबन्धावगमात् । इन्द्रादेरपि वरुणोपरि निवेशः । 4. आतिवाहिकास्त लिंगात् ॥ किमर्चिरादयो मार्गचिह्नभृताः, उत भोगभूमयः, अथवा विदुषां ब्रह्मप्रेप्सूनामतिवोढार इति चिन्त्यत इति संगतिः । सूत्रार्थः - अतिवाहिकाः विदुषामतिवाहे परमपुरुषेण नियुक्ता अचिराद्यभिमानिदेवताविशेषाः गमयितार इत्यर्थः । एनान् ब्रह्म गमयतीति लिंगात् । 5 कार्य वादरिरख गत्युपपत्तेः ॥ अर्चिरादिनैव गच्छति विद्वान्, अर्चिरादिः अमानवान्तश्च गणः आतिवाहिकः विद्वांसं ब्रह्म गमयतीत्युक्तम् । इदमिदानीं चिन्त्यते - किमर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान् नयति, उत परब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्चेति । एवं परोपासकस्य नेयत्वासंभवाशंकया नेयविषयचिन्तया संगतिः । कार्यं हिरण्यगर्भमुपासीनान् आतिवाहिको गणो नयतीति बादरिराचार्यो मन्यते ; अस्यैव गत्युपपत्तेः । परमुपासीनस्य हि न तत्प्राप्तयेगतिरुपपद्यते । सर्वगतत्वात् परस्य ब्रह्मणः । (पू०) इति चतुर्थाध्यायस्य तृतीयः पादः । 4-4 1 संपद्याविर्भावः स्वेनशब्दात् ॥ परं त्रह्मोपासीनानामर्चिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ता ; इदानीं मुक्तानामैश्वर्यप्रकारश्चिन्तयितुमारभ्यते इति पादसंगतिः । किं उक्तरीत्या परं ज्योतिरुपसंपन्नस्य देवादिरूपवत् साध्येन संबन्धः, उस स्वाभाविकस्वरूपाविर्भाव इत्यधिकरण संगतिः । सूत्रार्थः परं ज्योति रुपसंपद्य स्वरूपेणाविर्भावः प्रतिपाद्यते । कुतः । स्वेनशब्दात् । साध्यस्यापि रूपस्यासाधारणत्वेन स्वेनेति विशेषणं ह्यनर्थकम् ।
2 अविभागेन दृष्टत्वात् ॥ किं मुक्तः स्वात्मानं परमात्मनः पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तमिति शंकया संगतिः । सूत्रार्थः - अहं ब्रह्मास्मीत्यविभागेन ब्रह्मानुभवति मुक्तः । स्वात्मनोऽप्यात्मतयोपासनेन यथावस्थितपरमात्मात्मकस्वरूपस्य दृष्टत्वात् । 3 ब्राझेण जैमिनिरुपन्यासादिभ्यः । मुक्तस्य स्वरूपाविर्भाव एवेत्युक्तम् । प्रथमाधिकरणे आविर्भूतं स्वरूपं श्रुतिवैविध्यात् विचार्यते । सूत्रार्थः - ब्राह्मणापहत- ।
64 शारीरकाधिकरणसंगतिः पाप्मत्वादिना स्वरूपाविर्भावः । अपहतपाप्मत्वादयो दहरवाक्ये ब्रह्मगुणाः श्रुताः । उपन्यासादिभ्यः । तेषां ब्रह्मगुणादीनां प्रत्यगात्मन्यपि य आत्मा अपहतपाप्मेत्यादिनोपन्यासात् । आदिशब्दात् जक्षत् क्रीडन् रममाण इत्यादिभ्योऽपि सत्यसंकल्पादयोऽवगम्यन्त इति जैमिनिराचार्यो मन्यते । 4 संकल्पादेव तच्छ्रुतेः ॥ मुक्तस्य सत्यसंकल्पात्वादिकं श्रूयते, तत् किं स्वायत्तम्, उत परायत्तमिति विचार्यते । सूत्रार्थःसंकल्पादेवास्य पितरः समुत्तष्ठन्तीत्यवधारणान्नान्यापेक्षत्वम् । 5 अभावं बादरिराह ह्येवम् ॥ किं मुक्तस्य देहेन्द्रियाणि सन्ति, उत न सन्ति, अथवा यथासंकल्पं सन्ति न सन्तीति चिन्त्यत इति संगतिः । सूत्रार्थः - शरीराभाव यादरिमेंने, एवमाह हि श्रुतिः, अशरीरं वाव सन्तमिति । ( पू० ) 6 जगद्व्यापारवर्ज प्रकरणादसंनिहितत्वाच्च ॥ किं सत्यसंकल्पस्य मुक्तस्यैश्वर्यं जगत्सृष्ट्यादिपरमपुरुषानुभावविषयमिति चिन्त्यत इति संगतिः । सूत्रार्थः - यतो वा इमानि भूतानि जायन्ते, सदेव सोम्येदमग्र आसीत्, आत्मावा इदमेक एवाग्र आसीत्, एकोहवै नारायण आसीदित्यादिषु परं ब्रह्म प्रकृत्यैव जगद्व्यापारः श्रयते । तत्र तत्र प्रकरणे न मुक्तस्य सन्निधिरस्ति । अतो जगन्नियमनधुरावर्जम् ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’, ‘स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकामहतस्य’ इति अनवधिकातिशयानन्दब्रह्मानुभवे मुक्तस्य साम्यम् । ब्रह्म हि स्वस्य परस्य चानुभूयमानमविशेषेणानवाधिकातिशयानन्दं भवति । आनन्दस्वरूपत्वाविशेषात् । इति चतुर्थाध्यायस्य चतुर्थः पादः ॥ इति श्रीमदाण्डिकाटिस्वामिवेदान्त रामानुजयतीन्द्रमहादे शिक लब्धसार्वश्यश्रीमद्वंगरामानुजसंयमि सार्वभौममहादेशिकानुगृहीता शारीरकाधिकरणसंगतिः । श्रीमते रंगरामानुजमहादेशिकाय नमः । श्रीरंगलक्ष्मणाभिख्य महादेशिकनिर्मिताम् । शारीरकाधिकरण संगतिं 1 लक्ष्मणोऽलिखत् ॥ विषु सिंहश्रावण दर्शे ॥ 1 अयं लेखकश्लोकः । इमे लेखकमहाशयाः ईहैस्वामिन इति प्रसिद्धाः ज्ञानशीलेशेवधयः । एतत्तनयविद्वद्वरश्रीवेदान्तदेशिकाचार्यसकाशादेवेयं मातृका मुद्रणार्थे गृहीतेति कृतज्ञाः स्मः । शुभमस्तु
11 eftः 11