संगतिसंग्रहः

TODO: proofread

Source: TW

श्रीः संगतिसंग्रहः प्रसङ्गावसराक्षेषाः दृष्टान्तः प्रत्युदाहृतिः । अपवादो ऽतिदेशश्चोपोद्घातादिश्च संगतिः ॥ निर्वाहकैक्यं कार्यैक्यं हेतुत्वाद्यपि तत्र तु । उपस्थितस्योपेक्षाया अनर्हत्वं प्रसङ्गिता ॥ स्थानप्राप्तिस्त्ववसरः आक्षेपस्तु भवेदिह । यत्र पूर्वस्थापितस्यासंभवः शंक्यते पुनः ॥ पूर्वाधिकरणन्यायमुपजीव्य तथाविधे । स्थलान्तरे पूर्वपक्षे दृष्टान्तः संगतिर्भवेत् ॥ पूर्वाधिकरणोद्दिष्टयुक्त यप्रसरयुक्तितः । विधान्तराविष्करणे प्रत्युदाहरणं भवेत् ॥ पूर्वाधिकरणोपात्तविषयान्तर्गते क्वचित् । सिद्धान्तस्यान्यथोक्तौ स्यात् अपवादाख्यसंगतिः ॥ यत्र पूर्वोत्तरौ पक्षावधिकाशंकया पुनः । आनीयेते प्राङ्नयस्थौ अतिदेशोऽत्र संगतिः ॥ चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः । एवमन्याश्च भाव्याः स्युरानन्तर्यप्रयोजिकाः ॥