TODO: proofread
Source: TW
प्रत्यक्षेण यथा तथा प्रबलया युक्त्या प्रकृष्टागमैः दृष्टस्य स्फुटदर्शकं भवति यत् तत् दर्शनं विश्रुतम् । पाराशर्य महर्व्युपशमनघं शारीरकं तत् पुनः श्रीमल्लक्ष्मण योगिदर्शितयथाभृतार्थमालक्ष्यते ॥
वेदान्तोपनिषत्पदार्थः
; वेदे कर्मकाण्ड - ज्ञानकाण्डात्मना द्वेधा विभक्ते द्वितीया विधा वेदान्तः, उपनिषत् । वेदस्यान्ते वर्तमानत्वाद्वेदान्तः । तथा वेदार्थनिर्णयोपयोगित्वादपि अन्तोऽवसानं संशयापगमों निर्णय इति । वेदान्तव्युत्पत्तिमलब्धवता च पूर्वकाण्डार्थोऽपि दुर्ग्रहः । किन्देवतोद्देशेन कर्मणि प्रवृतानि किञ्च कर्मणां मुख्यं लक्ष्यमिति वेदान्तत एव विज्ञेयम् । सुसूक्ष्मं तत्त्वं सुबहु परिश्रम्य गृहीतमेव स्थेग्ने कल्पत इति धर्मादनन्तरं वेदे तत्त्वोपदेशः । अत एव खल्वारुणिर्गौतमः खात्मजं श्वेतकेतुं स्वयमनध्याप्य अन्यत्र प्रेष्य सर्वज्ञे तस्मिन् प्रतिनिवृत्ते तस्याप्यज्ञानमुद्घाट्य तस्मिन ज्ञातुं त्वरमाणे उपदिदेश, यस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवति, यद्विद्या सर्वविद्या प्रतिष्ठा, तत् तत्त्वं परमं रहस्यम् । अतो यदुपरि वेदनीयं किमपि नावशिष्यते, तत् वेदान्तेन वेद्यत इति ॥ अथ कस्मादुपनिषत् । उप = समीपे, निषद्य = उपविश्य, शिष्येणाचार्यात् गृह्यमाणत्वादुपनिषदिति केचित् । सर्वस्यापि वेदस्य विद्यास्थानस्य चेदमविशिष्टम् । अथापि परमरहस्यत्वाद्वेदान्त एवात्यन्तसमीपे उपविश्य अन्तेवासिना गृह्यत इत्याशयो वाच्यः । शांकरोपनिषद्भाष्ये च बद्ल विशरणगत्यवसादनेष्विति विशरणार्थकोऽयं धातुः उपनिपूर्वः निश्शेषतापत्रयविशरणं ज्ञानं तत्संपादकतया वेदभागञ्च वक्तीत्यभाषि । अत्र प्राचीनः सांप्रदायिकोऽर्थः श्रुतप्रकाशिकायामेवं दर्शितः " ब्रह्मण्युपनिषण्णेत्युपनिषत् । ’ उपनिषण्णत्वाद्वा उपनिषत्’ इति हि वाक्यम् । ‘गहने हीयं विद्या सन्निविष्टा ’ इति तद्विषयं द्रमिडभाष्यम् । ‘गहने ब्रह्मण्युपनिषण्णेति भाष्यविषया वामनटीका । अद्वारकभगवत्प्रतिपादकत्वमुपनिषण्णत्वम्" इति । वाक्यं नाम च्छान्दोग्यव्याख्यानरूपो ब्रह्मनन्दिकृतो ग्रन्थः । “यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । गृणन्ति सत्यकर्माणम् " इति च महाभारतवचनम् । मंत्र ‘वाकेषु = मन्त्रेषु, अनुवाकेषु = तदर्थदर्शिषु ब्राह्मणेषु, निषत्सु = देवताप्रतिपादकभागेषु, तथोपनिषत्सु य इत्यर्थः ’ इत्याहुः । स हि सत्यकर्मा सर्वकर्मसमाराध्यः सृष्टिस्थितिसंहार नित्यविभूतिविहारावतारादिसत्यक्रियः परमपुरुषः । निषत्पदाभिधेयो देवतान्तरप्रतिपादकभागोऽपि तद्विषये निषत् ; उ-१
वेदान्तस्तूपनिषदिति इतोऽवगमात् उपेत्येतत् अद्वारकभगवत् प्रतिपादकत्वाभिप्रायेण प्रयुक्तमिति ज्ञायते । (अनेन सत्यकर्मपदेन उपनिषदां सगुणब्रह्मपरत्वं प्रपञ्चसत्यत्वच्च स्पष्टम् ।) निषीदत्यस्यां देवतेति निषदिति केचिद्यत्पादयन्ति । द्रमिडभाण्याद्यानुसारे तु निषीदतीयं देवतायामिति व्युत्पत्तिर्युक्ता । अर्थे शब्दस्य वृत्तिश्व प्रसिद्धा । अत्र सत्यकर्माणमित्यस्य स्थाने ’ सत्यधर्माणः’ इत्येव पाठ इति पाञ्चरात्राधिकरणश्रुतप्रकाशिकातो ज्ञातव्यम् । तथा तत्र ग्रन्थे न्यायपरिशुद्धौ चैकायनश्रुतिविषयमिदं वचनं निरदेशि । अस्तु निषत्पदं यत्किञ्चिदर्थकम् । सर्वथा उपनिषत्पदमन्ततः श्रुतप्रकाशिकादर्शितेऽर्थे वर्तते । प्रयुज्यते चोपनिषत्पदं रहस्यार्थे, ‘एषा वेदोपनिषत्’, ‘तस्योपनिषदहरिति’ इत्यादौ । तत्र भगवान् बादरायणः पाराशर्यः कृष्णद्वैपायनो व्यासः शारीरकं नाम ब्रह्मसूत्रापरनामधेयमध्यास्मज्ञानसंपिपादयिषया वेदान्तवाक्यार्थविचारात्मकं प्रणीय ततः परतत्त्वहितपुरुषार्थप्रतिबोधः प्रतिष्ठास्यतीति विस्रब्ध आसीत् । दैवासुरसर्गयोरनादितया पुरुषबुद्धिवैचित्येण परश्शतेषु मतेषु प्रादुर्भवत्खपि प्रजासु प्रतायमानानि मतानि परिमितान्येव भवन्ति । तानि वेदबाह्यानि आभ्यन्तराणि चेति द्विविधानि विशिष्य गृहीत्वा अवश्यस्वीकार्यात् सर्वप्रमाणसामरस्यभूमेरेकस्मादन्यत्र मतेषु प्रतिष्ठितान् दोषानप्युद्घाट्य वेदान्तार्थनिर्णये विधीयमाने कथं बहुमतप्रचारावकाश इत्यभिसंदधे । अत एव सांख्ययोगतर्क मतानि शिष्टजनगोष्ठीनिविष्टानि, बौद्धजैनपाशुपतानि च बाह्यानि प्रयत्नेन प्रदूष्य तद्वैलक्षण्यं वेदान्तसिद्धान्तस्य व्युदपीपदत् । परं परिगृहीतवेदान्ता एव ये केचित् तर्कप्राधन्यमवधूय वाक्यार्थसामञ्जस्योपयोगितर्कमात्रमाहत्य, ‘आषं धर्मोपदेशश्च वेदशास्त्राविरोधिना । यस्तर्केणानुसंघते स धर्मं वेद नेतरः’ इत्युक्तरीत्या वाक्यार्थमीमांसार्थन्यायवलावलदत्तदृष्टय एव सन्तोऽपि परस्परं बुद्धिस्फुरणवैचित्र्येण विवदन्ते तेषां परमास्तिकमीमांसकानामपि परस्परविरोधिनो व्याहाराः न कात्स्म्र्त्स्न्येन प्रामाणिका भवितुमर्हन्ति । अतो निष्कृष्टमेकं विना सर्वमन्यत् परमास्तिकविकल्पितमपि, “या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः” इत्युक्त कुदृष्टिपक्ष निक्षेपमेवार्हती त्याकलय्य तत्परिहारेऽपि प्रयत्नं यथाहं चकारेत्येव शारीरकदर्शने वक्तव्यं भवति । स हि महात्मा स्वयमुपनिषदर्थनिर्धारणे निष्ठां गरिष्ठां वहन् बहून् महर्षीन् परमास्तिकान् संमेल्य परिषदं विधाय निष्क्रष्टव्यमित्यप्यध्यवस्यति स्मेति साम्प्रतं तर्कितुम्, यतः शारीरके तत्र तत्र बादरिजैमिनि औडुलोमिकार्ष्णाजिनिकाशकृत्स्नआश्मरथ्यादीनामाशयमन्योन्यविरुद्धमाविष्कृत्य अन्ते एक तमं पक्षमाद्रियत । परिषन्निविष्टेषु परे महर्षयो नाम्ना न निरदिश्यन्त, यतस्तैर्न कश्चिदशो विवादपदमानीयत । ततस्तैस्तत्त्वमभ्युपगतवद्भिर्भाव्यम् । एवमुपनिषदर्थविचारमुपक्रममाणो विचारस्यास्य विशेषतः फलं नेति मन्वाना अपि किं सन्ति नेति निरीक्ष्य नूनं जैमिनिमेव कर्मकाण्ड निष्णातं तत्र प्रत्यवतिष्ठमानं प्रैक्षत । तस्य तावद् वादः तादात्विको व्यासेन शारीरक तृतीयतुरीये प्राप्ते कर्मावसरे प्रादर्शि । स एवम् –
महता प्रयत्नेन वेदैर्विस्तरेण विहितानि दृष्टिपशुसोमात्मकानि कर्माणि यस्मिन् आश्रमे स्थित्वा सम्यगनुष्ठेयानि, स गार्हस्थ्याश्रम एव श्लाघ्यतरः । ब्रह्मचर्यमेतस्यैव पूर्वरङ्गम् । वानप्रस्थाश्रमो न वनस्थतामात्रेण भवति । वनवासिनां विशिष्टानामृषीणां प्राचुर्येण ‘गाईस्थ्यस्यैव प्रत्यक्षमुपलम्भात् । अनुष्ठानाशक्ति-पुत्रादिसहावस्थानासौकर्यादिहेतोः तपोव्यग्राणां केषां चित् कामं स आश्रमः स्यात् । संन्यासस्तु सर्वथोपेक्ष्यः । सर्वथैवाशक्ताः दारप्रसक्तिदूराः सञ्चारक्षमा मौनिनः केचिदनाश्रमित्वदोषात् कथञ्चित् संन्यासाश्रमस्वीकारेण वार्येरन् न वा । एवं गार्हस्थ्ये कर्मानुष्ठाननैर्भर्ये वेदाभिमते विमृश्यमाने तदर्थमपेक्षितं वैदुष्यं कियद्दूरमवर्जनीयमिति चिन्तायाम् - न ह्यविद्वानधिकृतोऽस्तीति न्यायेनानुष्ठेयार्थवैशद्यं श्रेयसे भूयसे कल्पते इति संप्रतिपन्नमेतत् । तत्त्राराध्यानां देवतानां ज्ञाने किञ्चिद्वक्तव्यमस्ति - तत्तद्देवताया विग्रहायुधपरिजन परिच्छदादिकं विशेषत इतिहासपुराणादिकं साकल्येन परिशीलितवतोऽपि दुरवधरम् । तज्ज्ञानावश्यकत्वे च तत्तद्विधिसमीप एव तद्ध्यानविधिप्रकारोऽपि व्युत्पादितः स्यात् । अनुष्ठेयार्थवैशद्यमात्र मनुष्ठातुरपेक्षितमिति मन्वानो वेदो वात्सल्यातिशयेन अज्ञानभिज्ञसाधारण्येनानुग्रहमिच्छन् तद्विवेचने उदास्ते । यथा खलु देहातिरिक्तमात्मानमनवबुध्य राजादिशरीरे सादरमुपचर्यमाणे तदन्तरो जीवात्मा तुष्यति, यथा च कञ्चुकोपरि माल्यनिक्षेपेऽपि स्वशरीरं स्वमेव वा तेन बहुमतं सत्कार्यो मन्यते, तथा देवताऽपि यथाविधि स्वरवर्णभ्रेषमन्तरेण स्वनाम समुच्चार्य कर्मणि क्रियमाणे स्वयं तुष्यति । भगवद्गीतासु च, ‘यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति’ इति सर्वसमाराध्यपरतत्त्वज्ञान विकलानामपि परतत्त्वमवरतत्त्व मुखेनानुग्रहमाद्धातीति गदितमिहानुसंधानमर्हति । यथा स परः, तथैवावरदेवा अप्यात्मविषयज्ञानविरहिणमप्यनुष्ठातारमनुगृह्णन्तीति तत्त्वस्थितिः । अन्यथा असंपूर्णज्ञाना अलब्धफला एवेति पक्षे परिगृह्यमत्णे प्रजाः सर्वाः, अप्यास्तिकप्रजाः प्रयासमात्रफलाः परितप्येरन् । अत एव विधिवाक्ये प्रयुक्तो देवताशब्दश्चतुर्थ्यन्तो निर्देष्टव्यः; तदर्थो यादृशस्तादृशो भवत्विति वादेऽपि न कापि हानिरिति नात्र तत्त्वशोधने प्रयासः कार्यः । यथैवम्; तथा कर्तारः स्वात्मस्वरूपमप्यजानाना एवानुष्ठाय फलं लभेरन्निति प्रतिपत्तव्यम् । अत एव श्रूयते, ‘योऽहमस्मि स सन् यजे’ इति । यथा खलु देहातिरिक्त एव सन् लौकिकानां सुखानां भाजनं भवन्नपि स्वयं स्वं तथाभूतमनवबुध्य देहमेवात्मानं मत्वैव सर्वं कुर्वन्नपि न मात्रयापि सुखेन हीयते, तथैवामुष्मिकं फलमधिकृत्य प्रयस्यन्नपि स्वात्मस्वरूपं यथावदविज्ञायानुतिष्ठन् अवश्यं फलं लभेतैव । यदिपरं सः, देहातिरिक्त एवायमात्मेति ज्ञानवान् भवितुमर्हति । अपरधा देह एवात्मा कर्ता भोक्ता चेत् मन्येत, तस्यावसाने भस्मसाद्भावात् आत्मानमा मुष्मिकफले भोक्तृत्वेन नाध्यवस्येदिति न तत्र प्रवर्तेत । एतायच्च देहात्मविवेकरूपं ज्ञानं लौकिकसुखदुःखव्यवस्थादिवैचित्र्यदिहेतु विवेक व्यासक्तानां लौकिकानां तथा सांख्यतर्कादिशास्त्रान्तरपरिचयशालिनाम्, एवं ‘यजेत स्वर्गकाम’ इत्यादिकर्मकाण्ड तात्पर्यपरिशीलिनामपि सुलभम् । अ ः स्वात्मतत्त्व - देवतातत्त्व - परमात्मयाथात्म्यज्ञानवैधुर्येऽपि सर्वकर्मानुष्ठान संभवात् कर्मप्रभावत एव सर्वस्मिन्नपि पुरुषार्थे संपत्स्यमाने उपनिषदर्थपरिज्ञानप्रयासः किमर्थः । बदा तु विधिवाक्यसंनिकृष्टानां तदेकवाक्यता.पन्नत्वेन सर्वस्वीकृतानामर्थवादानामपि प्रतिपद
व्युत्पतिविरहेऽपि सामान्यतः प्राशस्त्य समर्पणप्रवृत्ता एते इत्येतन्निष्कर्षमात्र कर्मानुष्ठानायालम्, तदा का कथा दूरस्थौपनिषदवाक्यप्रत्येकार्थवैशद्यलाभापेक्षणस्य । योऽपि कश्चित् आत्मतत्त्वमुपनिषत्तो यथावदधिगच्छेत्-सोऽपि तमधिगममनुष्ठेयकर्माङ्गमेव मन्तुमर्हति । अतोऽङ्गिभूतकर्मानुष्ठानमेवात्मनः सर्वस्मै श्रेयसे कल्पत इति किमुपनिषद्विशेषविचारेणेति । - प्रत्यवस्थानमिदं प्रतिविहितवतो बादरायणस्याशयस्तावत् - सत्यं संपूर्णज्ञाने सत्येव फलिप्यति कर्मेति न नियमः । ज्ञानतारतम्यमनुविधत्ते फलतारतम्यम् । देवतातत्त्वविचारे क्रियमाणमौदासीन्यं क्रमेण तथा विपरीतबुद्धि वर्धयति, यथा-कथं क्षणभन्निकर्मजातं कालान्तरे फलं जनयितुं पारयतीत्येवं प्रश्न समापतिते, साक्षादपारयदपि कर्म अपूर्वमुत्पाद्य तद्द्वारा पारयिष्यतीति अश्रुतापूर्वपरिकरूपने प्रयस्येत् ; प्रत्यक्षश्रुतिभिरर्थवादादिरूपाभिरभिहितमपि देवताप्रीतिरूपं द्वारं न गृह्णीयात् । राजसेवकन्यायेन देवसेवकैर्वि नैवापूर्व सेव्यदेवताप्रसादादेव फले सुलमे किमित्यदृष्टस्यादृष्टस्य कल्पनेन । अपि च यद्युपनिषदः इष्टिकर्तृणामात्मस्वरूपमेव विशदयितुं प्रवृत्ता इति स्यात् स्यादपि न तासामवश्यविचार्यतेति । ततोऽधिकं सर्वजगत्सृष्टिस्थितिलयनिर्वाहकं सर्वफलप्रदं मुमुक्षूयास्यं मुक्तभोग्यं सर्वदेवातिशायिनं पुरुषोत्तमं प्रतिपादयन्त्यस्तु कर्मणामप्यत एव फलम् कर्माङ्गकोपासनविशेषाख्यमानसकर्मण एव मोक्षञ्च वदन्त्यः तत्र प्रवर्तमानस्य मोक्ष्यमाणस्य स्वात्मनः स्वरूपमपि तत्र मोक्षे प्रवृत्त्युत्तम्भनायानुसंधेयमुपदिशन्तीति कथं न विचारणीयाः । एवमिमाः अधिकमुपदिशन्ति न वेति विज्ञानाय वाऽन्ततो विचार्या एव भवन्ति । अत एव कर्मकाण्डावसितादतिशयितस्योपायस्य फलस्य च सद्भावात् तदर्थे प्रयतमानानां मध्ये ये तावदेतदुपायफलप्राप्तिविरोधमेव स्वस्य गार्हस्थ्ये पश्यन्ति, विचित्रबुद्धिकत्वात् प्रजानां कुटुम्बे सर्वत्र सर्वेषामानुकूल्यमेवेत्यस्याशत्रयावधारणत्वात् — ते ‘कुटुम्बे शुचौ स्वाध्यायमधीयानः’ इत्युक्तशुचित्वाध्ययनाद्यर्हत्वादिवैकल्यदर्शिनः, किं प्रजया करिष्याम इति विरज्य सर्वप्रकारैषणातो व्युत्थाय भिक्षाचर्यं चरन्तः परमपुरुषार्थं प्रतिपत्तुमीहन्त इति, न युक्तं कर्मैप्राधान्यं वा संन्यासस्याप्रामाणिकत्वं वाऽभ्यूहितुमिति । इममंशं यथावदुजैमिनि ग्राहयित्वा सम्यगुपसन्नाय तस्मै स्वाभिमतवेदवेदान्तार्थमुपदिश्य तन्मुखेनैव कर्मकाण्डमीमांसामारचय्य स्वयं शारीरकमात्रमररचत् । प्रारम्भ एवौत्पत्तिकसूते गौरवेण बादरायणं निर्दिशन् जैमिनिन तद्विरुद्धमर्थं स्वग्रन्थे दर्शितवान् स्यात् । अत एव जैमिनेर्वेदान्तविज्ञानं पदे पदे गौरवेण शारीरके दर्शयन् बादरायणः महामीमांसकेन जैमिनिनाऽपि विचारप्राकालिकोऽन्यादृशाभिमानोऽत्यन्तं परित्यक्त इति नाल्पज्ञैरल विशयानैर्भाव्यमिति ज्ञापयितुमेव शारीरके तत्त्रतत्र जैमिनीयं पूर्वदशा स्थितमाशयं परिहार्यत्वेन प्रास्तौषीत् । अथोपनिषदां विचारे वर्तनीये निश्चिते यदत्र मुख्यप्रतिपाद्यं तज्जिज्ञासैव प्रतिज्ञातव्येत्यवधार्य ब्रह्मोपासनमपि प्रधानमनाकलस्य ब्रह्मैव प्राधान्येन निरदिक्षत् । तेनोपासनस्य व्याजमात्रत्वं ब्रह्मण एव प्रधानोपायत्वञ्च ज्ञापयति । ब्रह्मज्ञानेन जीवानां यथावस्थितस्वरूपप्राप्तिरूपो मोक्ष इत्येतावत् सर्वमहर्षिसंप्रतिपन्नम् । कीदृशं ब्रह्म, किं वा जीवयाथात्म्यम्, किं तत् ब्रह्मखरूपादनन्यत् अन्यद्वेति तु विचार्यमासीत् । तत्र — ब्रह्मणः सत्यं ज्ञानमनन्तं ब्रह्मेति निर्देशदर्शनेन सत्यत्वादेरेव ब्रह्मलक्षणत्वाभ्युपगमे जीवब्रह्मभेदो नावधारितः स्वात् । अत एव श्रुतिरपि यतोवाइमानि भूतानीति सर्वजीवकारणत्वमेव लक्षणत्वेन
निर्दिशति ; कारणं तु ध्येय इति कारणवस्तुज्ञानादेवांमृतत्वमुपदिशतीत्यादि मनसिकृत्य जन्माद्यस्य यतः इति जगत्कारणत्वमेव ब्रह्मलक्षणमसूत्रयत् । कारणत्वं यैर्गुणैर्विना न शक्यमुपपादयितुम्, ते सर्वज्ञत्वसर्वशक्तिस्वादयोऽपि तल्लक्षणकथनेनैवोक्ता भवन्तीति तदाशयः । अत एव ‘ब्राह्मण जैमिनिरुपन्यासादिभ्यः इति सूत्रे ब्राह्मपदेन अपहतपाप्मत्वादि सत्यसंकल्पत्वान्तमिव सर्वज्ञत्वं सर्वेश्वरत्वञ्च शांकरभाष्यं प्राहयति । ब्राह्मापेक्षया चिन्मात्रताया अन्यत्वेनोपरि सूत्रणात् ज्ञानस्वरूपत्वमात्रं ब्राह्मपदमुख्यार्थो न भवतीति सुस्पष्टम् । अत एव सत्यकामत्व सत्यसंकल्पत्वादेः सत्यत्वात् मुक्तिकालिकत्वात् जगन्मिथ्यात्वमप्यनार्षम् । एवं सत्यपि ईदृशब्रह्मैक्यं जीवस्य भवति न वेति विवादो महर्षीणामेवासीत् । अत एव वावयान्वयादित्यधिकरणे मैत्रेयीब्राह्मणं जीवात्मपरं परमात्मपरं वेति विचारयन् बादरायणः, यदि जीवो नात्र विवक्षितः, कथं तर्हि जीवस्यादिमध्यावसानेषु प्रस्तावः जीवब्रह्मैक्यनिर्देशधेति शंकां परिह महर्षिमतत्त्रयमुपन्यस्यति, ‘प्रतिज्ञा सिद्धेर्लिङ्गमाश्मरथ्यः’, ‘उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः’, ‘अवस्थितेरिति काशकृत्स्नः’ इति । तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानिर्वाहाय प्राकूपरमात्मभूतस्य पश्चाज्जीवरूपेण भाव इति पूर्वमेव जीवब्रह्मैक्यमाश्मरथ्यमतम् । अनादितया पार्थकयेनैव स्थितस्य नीवस्य ब्रह्मणैक्यं मुक्तौ भविष्यतीति तदाशयेनैक्यव्यपदेश इति औडुलोमिमतम् । एवदुभयविलक्षणं काशकृत्स्नमतम् । तत् किमित्यत्राद्वैतिविशिष्टाद्वैतिनोरस्ति निर्वाहभेदः । तत्र कालभेदं विना सार्वकालिकमैक्यमिति शांकरम्, जीवे ब्रह्मणोऽवस्थितिमात्रेणैक्यवादात् सार्वकालिको भेद इति विशिष्टाद्वैतिपक्षः । अत्राश्मरथ्यपक्ष उपेक्ष्यते, अचेतनप्रपञ्चस्येव जीवस्य पृथगुत्पत्त्यभावात् । जीवानादित्वानंगीकारे अकृताभ्यागमकृतविप्रणाशादिदोषप्रसंगाच पूर्वमभिन्नस्य पश्चात् कार्यात्मना जनिरिति न युक्तमिति । औडुलोमिसंमतं पश्चात्तनमैक्यमपि कीदृशमिति विचारे-चतुर्थाध्याये स्थितम् चितितन्मात्रेण तदात्मकत्वादि त्यौडुलो मिरिति सूत्रमुपतिष्ठते । तत्र चिन्मात्रतया सर्वभेदप्रहाणेनैक्यमिति व्याख्यातम् । तत्र मोक्षे जैमिन्युक्तत्राह्मसर्वाकारसद्भावेऽपि श्रौतं चिन्मात्रत्वमविरुद्धमिति बादरायणाशयः । तमाशयमाविष्कुर्वदिव शांकरं शोधने क्रियमाणे औडुलोमिपक्ष एवात्मानं निक्षिपति । परं तु तदैक्यमिदानीमप्यस्त्येवेति शांकराशयः । एवं तर्हि मुक्तौ विशेषप्रतिपादकतत्रत्यसूत्रविरोध इति तावदास्ताम् ; प्रकृतवाक्यान्वयाधिकरणविचार एव कथमिति च विचार्यम् । उभयोः सर्वदैवैक्ये जीवो वा परो वाऽत्र प्रतिपाद्यत इति किमर्थ विचारः । सूत्रकारेण प्रथमाध्याये प्रायेण जीव परत्वपूर्वपक्षः परमात्मपरत्व सिद्धान्तश्चं क्रियते । वस्तुत उभयैवये एवं विकल्प एव कथमिति शंका भवति । एषा कदाचिदेवं परिहियेत — एकस्यैवावस्थाद्वयम् ; तत्र कीदृशावस्थापन्नः प्रकृतवाक्यार्थ इति विचार्यते । तत्फलञ्च परमात्माबस्थाया उच्यमानत्वे तथाभूतोपासनात् फलप्राप्तौ वाक्यस्य तात्पर्यमिति ॥ सत्यम् । उपासनपरतया निर्वाहो यत्र तत्र स विचारः स्यात् समञ्जसः । या तु न सगुणविद्या, किंतु निर्गुणविद्या । तत्र परमात्मपरत्वस्थापनं किमर्थम् । प्रत्युत
6 परमात्मा वेति कारणत्वतदौपयिकगुणगणविशिष्टनिरूपणं निर्विशेषत्व निरोधि स्यात् । जीवपरत्वे वा परमात्मपरत्वे वा विशेषणानां त्यागेन शुद्धात्मनि पर्यवसानस्यैवामृतत्व हेतुत्वाय विवक्षणीत्यतया जीवपरमात्मविकल्प इहानावश्यक एव । सांख्यसंमतजीवपरत्वं नेष्टमिति चेत् — को दोषः । सोऽपि प्रकृतिवियुक्त जीवज्ञानं मोक्षायेत्येव वाक्यार्थमाह । तदुभयत्राविशिष्टम् ! किञ्च तथा सति अनेकात्मवादिसंमततत्तदात्मखरूपनिरूपणम् उत सर्वव्याप्येकात्मपक्षावलम्बन मिति विचार्यताम् । किं जीवो वा विचारेण । तत्रैव तात्पर्यमिति चेत् तर्हि सर्वात्मैक्यपक्षेण विचारे जीरपरैक्यवर्णनं कथमिति शंका कथमवतरति । आनन्दमयाधिकरणमारभ्य प्रायेण जीवो वा परो वेति विचारमेवोपक्षिप्य जीवपर भेदस्यैव नैर्मर्येण स्थापनात् अत्राप्येवं भेदे वर्ण्यमाने हि जीवेन सहैकीकृत्य व्यवहारः कथं निरुह्यत इति इति शंका समञ्जसा स्यात् । तदा च सुस्पष्टस्थापितजीवपरभेदाविरोधेन तन्निर्वाहस्यैव कार्यतया कथञ्चिदैक्यवादिमहर्षिपक्षमप्यतिक्रम्य शाश्वतभेदसंमत्यैवैवयव्यवहारं सूत्रकृत् निर्वहतीति ज्ञायत इति अवस्थितेरिति पदं जीवे ब्रह्मणोऽवस्थितेरित्यर्थकमेव युक्तम् । स्वरसञ्च ; यथा, अनवस्थितेरसंभवाच्चेति सूत्रे । एवमेव निर्गुणविद्यावाक्यमादाय जीवो वा परो वेति विचारोऽनेकत्र कृतोऽनावश्यक एव भवति । अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ईशानो भूतभव्यस्येत्यत्र निर्गुणपरत्वं यदीष्टम्, तर्हि अंगुष्ठमात्र पदेन जीव ईशान इति तद्गतगुणञ्चोक्त्वा वा निर्गुणलक्षणा स्वीक्रियताम्, परमेवो भयत्र गृहीत्वा वा ; कोऽत विशेषः । दहराधिकरणे जीवः परो वेति विचारितम् । तत् युक्तम् अपहतपाप्मत्वविशिष्टदहरोपासनेन सर्वलोककामचारस्य प्राप्यतया उपासनकाले तद्गुणविशिष्टः पर एवेति तदुपासनस्य निरूप्यत्वात् । तत्रापि त्विदं वक्तव्यम् - कामादीति सूत्रे वाजिच्छान्दोग्यदहर विद्यावाक्यद्वयं गृहीत्वा परस्परगुणोपसंहार उक्तः । तत्र छान्दोग्यविद्या सगुण विद्या, वाजिविद्या निर्गुणविद्येति शांकरे उक्तम् । तथासति गुणोपसंहारवर्णनं कथम् ; विद्ययोर्भिन्नत्वात् । निर्गुणविद्यायां गुणोपसंहारायोगाच्च । स्तुत्यर्थे गुणोपसंहार इति यदुक्तम्-तन्न घटते ; प्रशस्ते निर्गुणे अप्रशस्तसगुणधर्मकथनं निन्दैवेति अन्यत्र भामत्युक्तेः । सर्वसगुणविद्यागुणानामपि तदर्थमुपसंहारापत्तिश्च । विद्ययोर्भेदे वाजिविद्योक्तगुणइछान्दोग्ये नैवोपसंहियेत । वशित्वादीनां सत्यसंकल्पत्वस्य चैकत्वादुपसंहार इति चेत् — एकत्वे प्रागेव सिद्धत्वादुपसंहारकथनं वृथा । अतो यदेवम्-अग्राह्यो न हि गृह्यते, नेह नानास्ति, नेति नेति इत्येवमधिगमनीयांशसद्भावेऽपि छान्दोग्यगुणानां वाजिविद्यायामुपसंहारं सूत्रकृन्मन्यते, अत एव निर्गुणतया प्रतीयमानानां सगुणत्वाविरोधेनार्थवर्णनमेव स स्वीकरोतीत्यास्थेयम् । अत एव कामाद्यधिकरणे भास्करभाष्ये सर्वापि सगुणविषयिण्येवेत्युक्तत्वा द्रमिडभाष्यमपि स्मारितम् -फलं त्वविशिष्टम् अन्तर्गुणदेवतोपासनादिति । तदुत्तरत्र विशदयिष्यते । एवञ्च औइलोभिमतमनभ्युपगम्य, ‘एवमप्युपन्यासात् पूर्वभावादविरोधं वादरायणः’ इति चिन्मात्रातिरेकि जैमिनिमतं ब्राह्मरूपं मुक्ते साधयन् मुक्तस्य ब्रह्मणश्च सगुणत्वमेवाशेते इति स्थिते ओडुलोम्यविशेषेण शांकरवर्णित निर्विशेषचिन्मात्रात्मवाद कथं सूत्रकारोक्ततयां स्वीकुर्वीमहि । इयान विशेषः–औडलोमिः संसारे भेदं मुक्तावप्रदञ्चाह । शांकरास्तु संसारेऽप्यभेदम् । एवञ्च संसारे संमतो भेद औपाधिकः पारमार्थिक इति भास्करीये, अपारमार्थिक इति शांकरे । अतो जगत्सत्यत्वासत्यत्वविषये ऽन्यतरावधारणमेतावत्मात्रेणौडुलोमिमते कीदृशमिति दुर्वचम् । भास्करे तु जीवेश्वरभेदस्योपाधिकत्वेऽपि मुक्तौ जैमिनिवद्गुणा इष्टा इति नौइलोमिसाम्यम् ।
. 7 किञ्च जीवस्यावस्थाविशेषान् जागरस्वप्नादीन् उपवर्ण्य परस्वरूपशोधनार्थ नस्थानतोऽपीत्यादिकमारेमे सुत्त्रकारः । तेनैव जीवपरभेदः स्पष्टः । तत्र सूत्रे परस्य पृथिव्यादिस्थितितोपि नोभयलिङ्गम् इत्यन्वयवर्णनमयुक्तम् । परस्येति षष्ठीनिर्देशात् । परमुभयलिङ्गम् । उभयं च लिंगं साकारत्वं निराकारत्वञ्च भवदिष्टम् । न हि तदुभयं पृथिव्यादिस्थानप्रयुक्तम् । अतः साकारत्वं सदोषत्वमित्येव वक्तव्यं स्यात् पूर्वान्वयविवक्षायाम् । उत्तरत्र साध्यानिर्देशात् निराकारत्वानिर्धारणञ्च । अत उभयलिङ्गं सर्वनेत्युपरिष्टादन्वयात् ब्रह्मणः सविशेषत्वमेव स्वरसम् । यदि चेदं निर्विशेषम्, तर्हि फलंमत उपपत्तेरिति तस्य फलंप्रदायित्वं कथमुच्येत । अथ सर्ववेदान्तप्रत्ययमिति गुणोपसंहारः कथं वर्ण्यत । " न हि मुक्तिसाधनभूतायां विद्यायां कर्मणामिव मेदोऽस्ति । सगुणासु तु विद्यासु मनोमयः प्राणशीर इत्यादिषु गुणावापोद्वापवशात् मेदोपपत्तौ सत्यां युज्यते फलभेदः” इति निर्गुणविद्याभेदाभावकथनात् । इदं मुक्तिफलानियमाधिकरणभाष्यं मनोमयाद्यपासनानामविशिष्टफलत्व प्रदर्शिविकल्पाधिकरणभाष्य विप्रतिषिद्धमित्यन्यदेतत् । एवं कान्स्स्र्त्स्न्येन गुणोपसंहारपादस्य सगुणविद्याविषयत्वे स्थिते, समनन्तरपादारम्भे पुरुषार्थोऽत इत्यत्न अतश्शब्देन निर्गुणविद्याग्रहणं न युज्यते । ‘शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात्’ इति सूत्रे शमादीनामङ्गतयाऽनुष्ठेयत्वकथनात् शमादीनामन्तरङ्गतया विद्यासाधनत्वस्य च तदिष्टत्वात् अङ्गतयाऽनुष्ठानस्य च वैधविद्याविषय एव संभवात् अविधेयवाक् पार्थज्ञानस्याहेतुत्वं सिद्धम् । तन्मते आत्मेति तु इति सूत्रमपि व्यर्थम् । तत्त्वज्ञानस्यैव मोक्षसाधनतया मदन्य इति ज्ञानस्य मोक्षहेतुत्वप्रसक्तयभावेन पूर्वपक्षानुदयात् । आश्रमधर्माणां सर्वेषामविशेषेण विद्याङ्गत्वे वाचनिके विविदिषार्थत्वकथनञ्चानपेक्षितम् । सगुणविद्याविषये स्वरसावगत लाघनत्वस्यैव संभवात् । निष्प्रमाणनिर्गुणविद्यायां कर्मानुपयोगं स्वयमुत्प्रेक्ष्य संभवस्थलेऽपि तत्त्यागायोगात् । आदित आन्तं शारीरकं सगुणपरमेवेति श्रुतप्रकाशिका - शतदूषणी - परमार्थभूषणादिषु प्रपञ्चितमेवेति किमत्र बहुना । ; शांकरोक्तं निर्गुणत्वं जगन्मिथ्यात्वञ्चासहमानैर्भास्कराचार्यैः अद्वैतवाक्यप्राधान्यमातिष्ठमानैः ब्रह्मपरिणामवाद एवोपपादितः । एवञ्च मृदुद्घटयोरिव कार्यकारणक्यात् अचेतनप्रपञ्चैक्यं ब्रह्मणि भेदश्वास्ति दशाभेदात् । भोक्त्रापत्तेरविभाग इत्यत्र परिणामवादमाश्रित्याक्षेपपरिहारौ कृताविति शांकरेऽपि स्वीकारात् तदनन्तरे तदनन्यत्वमित्यधिकरणे तदनभ्युपगमेन विवर्तवादः सूत्रकृदिष्ट इति न युक्तं वक्तुम् ; असंमतत्वे तत्रैवाधिकरणे तस्याविष्करणीयत्वात् । अनभ्युपगमे परिणामादिति सूत्रविरोधाच्च । सूत्रार्थासामञ्जस्याच्च । न च परिणामस्वीकारे क्षीरस्य कात्स्न्र्त्स्न्येन दधिरूपेणेव ब्रह्मणो निरवशेषं परिणामः स्यादिति शंवयम् - कृत्स्नप्रसक्तघधिकरणोक्तरीत्या शब्दप्रमाणाधीनशक्तिवैचित्र्येण सर्वोपपत्तेरित्युक्त्वा मायावादः महता प्रपञ्चेन खण्डितः । जीवस्तु नोत्पद्यते । अतो घटाकाशस्य महाकाशेनेव प्रतिनियतकर्मशरीराद्युपाध्यवच्छिन्न प्रदेशरूपस्य तचज्जीवस्य मिथो मेदः ब्रह्मणा चामेदः इति औपाधिक एव भेदः । भेदाभेदयोरविरोधश्चैतदिष्टः । कर्मविशिष्टाद्वैतोपासनेन ब्रह्मप्रसादवशात् सर्वेश्वरतदैक्यप्राप्तिरेव मोक्षः । स च सदेहत्वविदेहत्वरूपयथेच्छाकारः अर्चिरादिना परं ज्योतिरूपसंपन्नस्य । कार्यभूत हिरणगर्भलोकप्राप्तावपि अन्ते ब्रह्मणासह मुक्तिर्भवतीति न पुनरावृत्तिप्रसक्तिः । ईश्वरैक्यं प्राप्तस्य निरवधिकमेवैश्वयं बादरापणेष्टम् । कार्यब्रह्मलोकगतानामिव पृथगवस्थानमिच्छतां तु मते जगद्व्यापारवर्जमैश्वयं स्यात् । तन्नेष्टं सिद्धान्त इति तत्पक्षस्थितिः । ।
00 यादवप्रकाशीये तु प्रपञ्चस्येव जीवानामपि अग्नेर्विस्फुलिङ्गानामिव ब्रह्मणः प्रादुर्भावात् कार्यकारणभावोऽप्यस्तीति जीवब्रह्मणोरपि अभेद इव भेदोऽपि स्वाभाविक एवेष्टः । कर्मज्ञानयोः समप्राधान्यम्, परमे पदे मुक्तिः, भगवदधीनतया पृथकूस्थितिः, सत्यामिच्छायां स्वात्मन एव अनेकषा विभागस्यापि संभवः, जगद्व्यापारबर्जमेव साम्यमिति मुक्तावपि द्वैतमेव । तथापि सन्मात्रमेकमेव ब्रह्मद्रव्यं समुद्र इव फेनबुदबुदतरङ्गरूपेण जडजीवेश्वरभेदेन विभक्तमिति अद्वैतमिति । एवं भास्कर यादवप्रकाशीययोर्भेदाभेदः सर्वलेष्टः । मीमांसकैरपि लोके भेदाभेद इष्टः । तमिमं भास्कर पक्षादरणेन पार्थसारथिमिश्रः शास्त्रदीपिकायां सुदूरमुपन्यास्थत् । तमिमं भेदाभेदं विशिष्टाद्वैतिन इवा द्वैतिनोऽपि नेच्छन्ति । अत एव श्रीभाष्ये समन्वयाधिकरणे भास्करप्रपञ्चितो भेदाभेदपक्षस्तत्रैवाधिकरणे अद्वैतिमुखेनैव निरासि । एवमुभयसंमतं ब्रह्मणो वास्तवप्रपञ्चाद्वैतं निर्विकारत्वनिखिलहेयप्रत्यनीकत्वादिकं ब्रह्मणः प्रतिपादयतां प्रमाणानामन्यथाकरणं विना न संपद्यंत इति ब्रह्मणि दोषास्पदत्वमसहमानाः दोषाणां कल्पितत्वस्य मृषात्वस्य स्थापनाय ‘जगन्मिथ्यात्वमेवान्वमन्यन्तानन्तरा अप्यद्वैतिन इति शांकरमतस्यैवानुच्छिन्नः प्रचार आसीत् । प्रत्यक्षादिसर्वप्रमाणविरुद्धस्य जगन्मिथ्यात्वस्य कल्पनया अद्वैतसंरक्षणमपेक्ष्य सर्वप्रमाणाविरोधायाद्वैतत्याग एव समुचितः । आहुश्च मीमांसकाः, “असंनिकृष्टवाचा च द्वयमन जिहासितम् । ताद्रूप्येण परिच्छित्तिः तद्विपर्ययतोऽपि वा " इति । अत एव लोके निमित्तोपादानयोर्भेदस्यैव दर्शनात् परमात्मनो नोपादानत्वम् ; किंतु निमित्तत्वमानम् । एकविज्ञानेन सर्वविज्ञानकथनञ्च सर्वस्य तदधीनत्वात् प्रधानपुरुषदर्शनेऽन्येषां ज्ञातप्रायत्ववचनवदुपपद्यते । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति वाक्यञ्च न कार्यमिध्यात्वपरम् । मृत्तिकादिसंस्कृतशब्दानां साधुत्वम् अपभ्रंशानां शब्दानामसाधुत्वादिकञ्च तत्त्रोच्यते । अतो भेदाभेदपक्षे अद्वैतपक्षे च जीवादिदोषाणां ब्रह्मण्यापत्त्या तस्य निर्दोषत्वादिस्थापनाय जडस्येव जीवस्यापि ब्रह्मणो भेद एव प्रतिपत्तव्य इति द्वैतिनः । एवं द्वैतवादिमिरेभिः कचिदद्वैतं कचित् द्वेताद्वैतञ्च स्वीचक्रे - विष्णुलक्ष्मीजीवाः जडपदार्थाश्च मिथो भिन्ना एवेति यथा द्वैतम्, तथा विष्णुना सह तद्गुणतदवयवतद्गुणक्रियादीनामद्वैत(अभेद) मेव । एवं लक्ष्म्याः मुक्तानां च तत्तद्गुणदेहक्रियादिभिरभेद एव । ‘द्वैताद्वैतं (भेदाभेदः) तु वद्धानां गुणैः स्वैः कर्मभिस्तथा-अंशांशिनोः गुणस्यापि गुणिनः कर्मतद्वतोः । कार्योपादानयोश्चैव व्यक्तिसामान्ययोरपि’ इति । एवमभेदे सत्येव भेदव्यवहारः तत्रतत्र विशेषाख्यधर्मस्वीकारात् तन्मूल इति च । एवंतर्हि ब्रह्मजीवयोरप्यभेद एव कस्मान्नेष्यते भेदव्यवहारस्यान्यथानिर्वाहादिति न शंक्यम्-तदा हि जीवगतसर्वदोषास्पदमेव परं ब्रह्म भवेत् । एभिर्जीवानां विष्णुप्रतिविम्बत्वं स्वीकृतमिति अभेदोऽप्यापतेदिति चेत् कथमेषां प्रतिबिम्बतेत्येतत्, “अतएवचोपमा सूर्यकादिवत् " इति सूत्रे जीवानामुपमाप्रतिबिम्बता विष्ण्वपेक्षया भिन्नत्वाधीनत्वसादृश्यैरेव भवति, नोपाध्यघीनत्वादिनेति समाहितम् । अतशत्वात् विष्ण्वभेदोऽपि स्यादिति न मन्तव्यम् ; अभेदे हि सति भक्तिर्न स्यात् स्वस्मिन् स्वस्य भक्तययोगात् साघनोपदेशादिव्याकोप इति । अस्मिन् सूत्रे अत एव चोपमेति पूर्वपक्षः, इति चेन्नेति पूरणेन सूर्यकादिवदिति समाधानमिति, पूर्ण सूत्रं समाधानरूपमेवेति च द्वेधा निर्वाहोऽस्ति ।
द्वैतिनां प्रमेयनिष्कर्षे स्थितं वैलक्षण्यं तस्य सर्वमतसाधारण्यात् न विस्मयाय । तैः क्रियमाणं सूत्रव्याख्यानं तु तत्पूर्ववहुव्याख्यातृ विद्वजनसरणिसुदूरविप्रकृटम् । सर्वैस्तान्त्रिकैः जगतः सत्यत्वे स्वीकृते शांकरैर्हन्त वौद्धपथप्रवेशः कृत इति वैदिकाः व्याहरन्तः शांकरभाष्यं सुनिरीक्ष्य एवं वदन्ति-आनन्दमयाधिकरणे सूत्राणि स्वरसप्रतीतार्थपराण्येव व्याख्याय स्वारायं परमन्यमन्ते आविश्वकार । सूत्रेषु पूर्वमा पूर्वपक्षसूत्रता उत्तरस्य सिद्धान्तसूत्रतेति गमनिकायाः सुप्रसिद्धत्वेऽपि कार्याधिकरणे पूर्वसूत्राणां सिद्धान्तपरत्वमुत्तरेषां पूर्वपक्षपरत्वञ्चाभाषिष्ट । एवं सर्वशिष्टपरिग्रहसंपादनार्थ ब्रह्मसूत्रव्याख्यानमाहत्य स्वाशयमन्यमेवात्र प्रतिष्ठापयामास । अत एवोपक्रमेऽपि, ‘यथा चायमर्थः सर्वेषां वेदान्तानाम्, तथा वयमस्यां शारीरकमीमांसायां प्रदर्शविष्याम’ इत्यभाषिष्ट । एतेन बादरायणपरास्तः पक्ष एव शांकरस्वपक्ष आसीदिति विमर्शे प्राप्तेऽपि एकमिदं संतोषस्थानम्, यत् प्रायः पूर्वपुरुषोदाहृतविषयवाक्यान्येव तत्र तत्र निर्दिश्य स्वाभिमतं तत्त्र घटयति । प्राच्येष्वनेकेषु व्याख्यानेषु मिथो भेदं निरीक्ष्य युक्तं परिगृह्ण परमुपेक्षते । एवं प्रवर्तमानस्य संभाव्यत एव यत्नक्वापि स्वातन्त्र्येणार्थवर्णनम् । आनन्दतीर्थीये तु शांकराद्वैतदर्शनजनितातिमात्र हृदयक्षोभवशात् तदुदाहृतवाक्यग्रहण – तदनुगुणसूत्रार्थवर्णनादि सर्वथैवोपेक्ष्य स्वसूक्ष्मबुद्धिप्रतिभातया कयाचिदपूर्वयैव सृत्या परवुद्धिप्रतिभानदूरा एवार्थाः प्रादर्शिषत । किमित्येवं प्रायः प्राच्यव्याख्यासरणिरुपेक्ष्यते । स्वाभिमतानामर्थानां तदनुसरणेनैव वर्णनं हि नैवाशक्यमिति । एषां मतसंग्रहो भाष्यार्थदर्पण भूमिकायामेव कृतो द्रष्टव्यः । तत्र तैरादृतानि प्रमाण वाक्यानि प्रायः सांप्रतमनुपलभ्यमानानीत्येव न ; पूर्वैर्नाम्नाऽप्यनिर्दिष्टानि माध्यमतैकप्रतिपादकव्यासकृतत्वाभिमतब्रह्म तर्क ग्रन्थादीनि । 1 बादरायणप्रतिष्ठापितः श्रुत्यन्तमार्गः परमर्षिणा बोधायनेन, अथ गते गणरात्रे संख्यातीते वाक्यकारेण ब्रह्मनन्दिना, तद्व्याख्यानप्रवृत्त द्रमिडाचार्याद्यैश्वानेकैः प्रबन्धैः परिष्कृत एव, ये लेखनरक्षण परिश्रमात् प्रत्युत्पन्नग्रन्थपयाप्तताबुद्धया चार्वाचीनैरभावमेवार्थात् गमिताः । क्रि. प. 1238 वत्सरोत्पन्नश्रीमदानन्दतीर्थपादशिष्यस्य अक्षोभ्यतीर्थस्य विद्यारण्यमुनेश्च वादं पत्रमुखादुपकर्ण्य (1288-1369) श्रीदेशिकचरणप्रहितः असिनातत्त्वमसिनेति श्लोक इति सुप्रसिद्धम् । तादृश्या सरण्या माध्यमतं तज्ज्ञातमासीत् । अक्षोभ्यतीर्थ शिष्यः श्रीमध्वाचार्यमतस्थापक मूर्धन्यः जयतीर्थाचार्यः विद्यारण्यमुनिमाननभाजनमियादि वदन्ति । विद्यारण्यकृते सर्वदर्शनसंग्रहे श्रीदेशिकचरणश्लोकः स्वोक्तार्थप्रामाणिकत्वप्रदर्शनायोदाहृत इति नूनं श्रीदेशिक चरणास्तदा तदधिकवयस्काः स्युः । जयतीर्थकाल एव विशिष्टाद्वैतग्रन्थपरिज्ञानस्य तेष्ववसरः । जयतीर्थकृतव्याख्यानवलादेव माध्वमतपरिज्ञानमन्येषां सुकरमासीत् । (1280) श्रुतप्रकाशिकायामद्वैतिपक्षत्रयवत् माध्वमतस्या खण्डनं न केवलं श्रीभाष्यकारसमये ( 1017-1137) (1017-1187 ) तदभावमात्रात् ; टीकाकारकाले तद्गन्थावेक्षणा घटनादपि । तथा तद्व्याख्यानभंग्याः सर्वथा विलक्षणतया विचार्यत्वादपीत्यपि केचित् । अद्यत्वे तेषामनुपलम्भेऽपि तत्र तत्र पूर्वैरुदाहृतानि कानिचित् वचनानि यत्र येषामर्थस्वारस्यदर्शनेऽपि कथञ्चिन्मतनिष्कर्षः प्राचां मनसि स्थितो मात्रया न्यूनत्वेऽपि ज्ञातकल्प एव लक्ष्येत — तादृशप्राच्यग्रन्थगतानि वाक्यान्युपादाय यदि माध्वमतमार्गः प्रस्थितः स्यात्, तत्र विस्रम्भस्य विशेषतोऽवसरः स्यात् । शांकरमन्यतव्याख्यानयोरुपात्तानि कानिचित् वाक्यानि पूर्वापर सन्दर्भपुरस्सरं परिशील्य, तदनुदाहृतान्यपि बहूनि वाक्यान्युदाहृत्य, स्वमतं स्थापयामासुः श्रीमाष्यकाराः । तथा वृत्तिग्रन्थस्य तैर्दूषितत्वेऽपि तदादर्तव्यताश्च । नूनमेतदुपलम्भे संपन्ने श्रीमन्मध्व. चार्याणां शांकर- उ-२ . पृथगेव
10 दर्शनजनितापार्थमयत्वाध्यवसायनिबन्धनान्यादृशव्याख्याविरचनपूर्वकवैष्णवमतस्थापनार्थप्रत्यय प्रयासभूमा हसितः स्यात् । यत इमे श्रीभाष्यकाराः द्वैतिवत् प्रत्यक्षानुमानशब्दरूप प्रमाणत्रयवादिनः प्रत्यक्षाविरोध अनुमेयविषये लाघवानुसारं, शास्त्रस्य सामस्त्येन प्रामाण्यञ्च वर्णयन्ति । परं भेदाभेदं कुत्राप्यनंगीकृत्य गुणक्रियादिविषयेऽपि यथानुभवं भेदमेव प्रापञ्चयन् । श्रीभाष्यकार तदनुयायिदर्शितानि प्राचां वचांसि तावत् उपरि प्रकाश्यन्ते । प्रकृते मुख्यविषयविवेकसंपादनाय द्वित्राण्युदाह्रियन्ते । औपनिषदं पुरुषं परं ब्रह्म प्रतिपद्यमानाः तस्य जगत्सर्गसंकल्पाश्रयत्वेन निमित्तकारणत्वं निर्विवादमभ्युपयन्त्येव । उपादानत्वं माध्वास्तार्किका इव नेच्छन्ति । अन्ये वेदान्तव्याख्यातारः सर्वे तदप्यातिष्ठन्ते । तत्र सद्विद्यादौ कार्यकारणाभेदनिर्देशः, तत्पुरस्सर मेकविज्ञानेन सर्वविज्ञानवचनं मृल्लोह तद्विकार निदर्शनमित्यादि प्रमाणम् । ब्रह्मणि सर्वं रज्जौ सर्पादिवत् कल्पितमित्यद्वैतिमते सृष्टेरेवाभावात् ब्रह्मण उपादानत्वस्थापनं कथम् निमित्तत्वमपि हि निरस्तं भवतीति शंका जायते । एतद्विरोधशमनायाद्वैतिभिः लोके रज्जुसर्पस्थलेऽपि विलक्षणस्य सर्पस्योत्पतिरस्तीति वाद उपक्रान्तः । जातश्चेत् सर्पः, कथं न सर्वैर्लक्ष्यते, कथञ्च न दशति, कथञ्च दण्डघातादि विना म्रियत इत्याक्षेपः परिह्नियते विलक्षणोऽयं सर्प इति वादेन । यदि सर्पो न जायेत कथं स चक्षुषा दृश्येतेत्युक्त्वा तद्रीत्या ब्रह्मणोऽपि जगदुत्पत्ति श्रोतीं निर्वहन्ति । एवञ्च रज्जुः सर्पस्येव ब्रह्म जगत उपादानमिति तदाशयः । अत्रेहेममेकं विमर्शमुपस्थापयामः - येयं रज्जौ सर्पस्योत्पत्तिः, सा किं परमार्थभूता, उत कल्पिता । नाद्यः, अपरमार्थसंबन्ध्युत्पत्तेः परमार्थत्वायोगात् । आद्यक्षण संबन्धरूपोत्पत्तेः परमार्थत्वे उत्तरोत्तरक्षण संबन्धरूपस्थितेरपि तथात्वमिति पश्चात् सर्पो नाश्य एव स्यात् ; न बाध्यः । कल्पितेति पक्षे च यः पुरुषो भ्राम्यति अयं सर्प इति, तस्येय कल्पना, उत परीक्षकस्याद्वैतिनः । नाद्यः ; अद्य सर्प उत्पन्न इति तेनाग्रहणात् ; प्रत्युत प्रागेवस्थितत्वस्यैव ग्रहणात् तदैवोत्पत्तेरयोगात् । अन्त्ये च रज्जावनिर्वचनीयसर्पाभावेऽप्यद्वैतिनः स्वयं कल्पयन्तीति अप्रामाणिकत्वमेव मुखान्तरेणोक्तं स्यात् । अनिर्वचनीयवादनिरासश्चास्माभिरपि परमार्थप्रकाशिकायां परमार्थभूषणे चोपबृंहितः । यावद् यावद् विचार्येत तावत् तावदियं पुनः । अनिर्वाच्यपदार्थोक्तिर्वालुकावद् विशीर्यते ॥ अयमेव विवर्तवाद इत्युच्यते शांकरैः । रज्जुसर्पाद्युत्पत्तिकथाया एवाभावात् अन्येनायं विवर्तः, यत्र विषमपरिणामो भवति तत्र विवर्तशब्दव्यवहारः । सजातीयपरिणामस्तु परिणामत्वेनैव प्रसिद्ध्यतीति प्राहुः । मृषावादिन एव यदा स्वगूढाशयाविष्करणे धैर्यमवलम्बन्ते, तदालोके कार्यकारणभाव एव दुर्निरूपः । ब्रह्मणो जगदुत्पत्तिरूपसृष्ट्यादिवादो वेदे परिदृश्यमानः सर्वोऽपि, ब्रह्म सत्यं जगन्मिथ्येत्येतत तत्त्वं कयाचित् प्रणाल्या बुद्धौ स्थापनीयमिति हेतोः रज्जुसर्पादिनिदर्शनाशयेन मृद्घटादिदृष्टान्तघटनेन वेदेनादृतः कश्चित् पन्था इति लिखन्ति । कबन्धमीमांसकैरुपनिषदामूषरप्रायत्वं कथितममृष्यमाणैरेभिः पूर्णवेदप्रतिष्ठापनप्रवृत्तैः उपनिषद्वाक्यव्याख्यानकुतूहलिभिः सर्वमिदम सत्य वर्त्म प्रदर्शन मिति प्रचारयद्भिः कर्मकाण्डेन सह ज्ञानकाण्डः श्वासमात्रावशेष आपादितः ।
J। सोयं ब्रह्मश्वासः शुण्ठिकाचूर्णनिक्षेपपूर्वकेण फूत्कारेण प्रयस्य प्रणिहितमतिभिः प्रगुणितो वेदवैदिक सर्वप्राणनाय पर्याप्तः संप्रति लक्ष्यते । अनिर्वचनीयोत्पत्त्यसंभवे च सति बौद्धजैनतार्किकादिकृतपदार्थपरिकल्पनायाः वेदकृतकल्पनायाश्च न कश्चिद्विशेष इति सर्वहानिरेव शांकरे । 66 परिणामादिति सूत्रे भास्करीये विवर्तवादखण्डने प्राचीनसंप्रदायग्रन्थमपि संवादं प्रदश्यैवमुक्तम्, सूत्रकारः श्रुत्यनुकारी परिणामपक्ष सूत्रयाम्बभूव । अयमेव छान्दोग्ये वाक्यकार - वृत्तिकाराभ्यां संप्रदायमतः समाश्रितः । तथा च वाक्यम्, ‘परिणामस्तु स्यात् दध्यादिवत् " इति । भोक्त्वापत्त्यधिकरणम् उपसंहारदर्शनाधिकरणे क्षीरखद्धीति निदर्शनञ्चानुरुन्धानो वाक्यकारः तदनन्यत्वाधिकरणस्यापि जगन्मिथ्यात्वपरत्वं नानुमन्यत इत्युक्तं भवति । अत्र भास्करीये वृत्तिकारस्यापि निर्देशात् शांकर पक्षस्यासांप्रदायिकत्वस्य माहायानिक बौद्ध प्रथितमायावादवर्णनरूपत्वस्य चोपपादनात् छान्दोग्यवृत्तेरपि ततो ज्ञायमानत्वात् तद्वत् विशिष्टाद्वैतिभिरद्वैतखण्डनाय वृत्तिप्रदर्शनं स्थाने इति सुग्रहम् । शांकरे तदनन्यत्वाधिकरणेऽभाष्यत, व्यवहाराभिप्रायेण तु ’ स्याल्लोकवत्’ इति महासमुद्रस्थानीयतां ब्रह्मणः कथयति । अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियाञ्चाश्रयति, सगुणेषूपासनेषूपयोक्ष्यत इति " इति । भोक्त्रापत्तिसूत्रं विवर्तवादाश्रयणेन न व्याचिख्यासतीति संतोष्टव्यम् । शक्यते किल तदपि— भोक्तुर्भोग्यस्य चैकब्रह्मविवर्तत्वं कथम्, सर्वं भोक्तृ वा प्रतीयेत, भोग्यमेव वेति शंकायाम्, एकस्मिन्नेव स्थाणौ पुरुषत्वशिलास्तम्भत्वादिविचित्रकल्पनस्य लोके दर्शनाल दोष इति व्याख्यातुम् । एवञ्च प्रकृत्यधिकरणे परिणामादिति सूत्रणं परिणाम्युपादानत्वं कृत्वोपासनार्थमिति शांकरानुसारिभिर्युक्तं वक्तुम् । तद् विहाय परिणामादित्यस्य विवर्तादिति व्याख्यानं तु सूत्रेषु स्वमतदुर्भिक्षदर्शनजनितात् भयादेव । भामतीकारः पदेपदे भास्करीयं खण्डयति परुषमप्रयुज्य । कल्पतरुकारस्तु भास्करकृतेनामर्यादेन दूषणेन क्षुभितहृदयः, ‘भास्करो बभ्राम ’ इति भृशं गर्हयति । तेनापि वाक्यकारवचनं तदुदाहृतं नापलप्यते । वाक्यस्थं वचनान्तरं प्रदश्य जगदनिर्वचनीयत्वस्थापनेन तस्यान्यथानिर्वाहमभिप्रेति । यदाह - “छान्दोग्यवाक्यकारेण ब्रह्मनन्दिना हि, नासतोऽनिष्पाद्यत्वात् प्रवृत्त्यानर्थक्यं तु सत्त्वाविशेषात् न संव्यवहारमात्रत्वात्” इति । एतदर्थश्च - जगन्न शशविषणवदसत् निष्पत्त्ययोगात्, न च सत्. सतः सर्वदासत्त्वात् निष्पत्त्यर्थप्रवृत्त्ययोगादिति शंका । तत्त्रोच्यते नैवम् । व्यावहारिकमालं किलेदं सदसनिर्वचनीयमिति अप्पय्यदीक्षितेष्टः । अत्रेदं वक्तव्यम्-इदं वाक्यं भास्करानुदाहृतमित्येतावता उपेक्ष्यमिति हठवादं नेच्छामः । न कल्पतरुकारस्य, अन्यस्य वा प्राचीनस्य विपश्चितः असद्वाक्यपरिकल्पनेन जयप्रवृत्ति आधुनिकवत् सहसा कल्पयितुं प्रवर्तेमहि । परं पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम् इति न्यायादर्थविषये विवादस्यावसरोऽस्ति, मा भूत् तत्संदर्भविज्ञानम् । भास्करोदाहृतदधिवाक्याविरोधेन स्ववाक्यगत पदस्वारस्याविरोधेन चार्थो वर्णनीयः । दधिनिदर्शनेन परिणामपक्षस्य सिद्धत्वात् तत्स्थापनमेवानेन वाक्येन क्रियत इति वक्तुमवसरो लक्ष्यते । नासदनिष्याद्यत्वादित्यनेन, प्रपञ्चस्य निष्पाद्यत्वं लोकप्रसिद्धं स्वाभिमतमिति ज्ञापितम् । रज्जुसर्परीत्या विवर्तपक्षे च
12 निष्पत्तिरेव नास्तीति प्रागेव प्रत्यबोधि । अतो न तत्र सदसदनिर्वचनीयसिद्धान्तः । किञ्च नासदित्यादेः पूर्वोक्तो वाऽर्थोऽस्तु, यद्वा संक्षेपशारीरके, “आत्रेयवाक्यमपि संव्यवहारमात्र कार्य समस्तमिति नः कथयाम्बभूव । सत्कार्यवादविषयो न हि दोषराशिर्मायामये भवितुमुत्सहते विरोधात् । काणाददर्शनसमाश्रयदोषरा शिर्दूरान्निरस्त इह संव्यवहारमात्रे । ’ इत्युक्तं सांख्यतार्किकवादनिरासपरत्वम् । सदसद्विलक्षणपरत्वस्थापकं तु तद्वाक्यं न भवति । अभीक्ष्णमात्रेयवंश्यत्व - कथनमात्रेण शंकराचार्यवत् मायावादित्वं तस्येति न शक्यं वक्तुम् ।’ ‘काणादशाक्यपापण्डैस्त्रीधर्मो विलोपितः । त्रिदण्डधारिणा पूर्व विष्णुना रक्षिता त्रयी’ इत्युक्तदत्तात्रेयस्येव त्रिदण्डधारिवादसंभवात् सत्यजगद्वाचित्वमपि सिध्येत् । अद्वैतज्ञापनायेकदण्डधारणम् ; तत्त्वत्त्रयज्ञापनाय त्रिदण्डधारणमिति नियम इति चेत् — अद्वैतित्वेऽपि भास्कराचार्यस्य त्रिदण्डित्वं कुल्लूकभट्टेन मानवब्याख्याने उक्तम् । किञ्च न सत् नाप्यसत् इति पूर्वपक्ष्युक्तं सदनिर्वचनीयवादिन इष्टमेव किल । तथा सति सत्यमिति वक्तव्ये नेति खण्डनारम्भः कथम् । अतः पूर्वपक्षी सत्त्वासत्त्वनिषेधेन सदसद्विलक्षणत्वमेव शंकले । नेत्यादिना तत्खण्डनम् । अयमर्थः - रज्जुसर्पादिनिष्पत्तिरप्रामाणिकी । अपि च अत्यन्तासत्त्वात्यन्तसत्त्वनिषेधमात्रेण सामान्यतः सदसद्विलक्षणत्वं न भवति किं तु किञ्चिद्रूपेण सदसत्त्वमेव । नामधेय - जलाहरणादिद्विविधव्यवहाररूपपरिच्छेदवत्त्वात् घटादेः तदर्थं सत्त्वस्य तदसंभवे चासत्वस्यैष्टव्यत्वादिति । अयं संव्यवहारशब्दः, “एतत्तु यत् संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते” इति विष्णुपुराणपदसमानार्थकः । तत्र पार्थानामुत्पत्तिविनाशित्वरूपकादाचित्कत्वमुपपाद्य नित्यपरमार्थत्वाभावमात्त्रमुक्तम्, न मिथ्यात्वमिति प्रपञ्चितमेव श्रीभाष्ये । अनेन वाचारम्भणं विकारो नामधेयमितीदं व्याख्यातम् । एवं वा घटादिर्न सर्वात्मना अभावः, तस्यानिष्पाद्यत्वात् ; नापि मृत्पिण्ड एव, कारकव्यापारवैयर्थ्यात् । अतो मृदि उणवाने अवयविभूतं द्रव्यमुत्पद्यत इति पूर्वपक्षस्तार्किकस्य । तत्राह नेति । जलाहरणादिकार्यघटादिव्यवहारमात्रम्, न तु द्रव्यान्तरोत्पत्तिरपि ; महागौरवात् अननुभवात् अनुभवविरोधाच्चेति । अत्र पक्षे मात्रपदं व्यवच्छेदार्थ स्पष्टम् । सर्वमिदं दधिनिदर्शनवाक्यग्रन्थाविरुद्धमिति तदननुकूलार्थोत्प्रेक्षणमयुक्तम् ।
अत एव, “आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः” इति वाक्यग्रन्थोऽपि नाद्वैतिपक्षानुकूलः । ब्रह्म प्रत्यगात्मत्वेन ग्राह्यम्, प्रपञ्चस्य तन्निष्पत्तेःतत्र ब्रह्मणि कल्पितत्वादिति अद्वैतिमतोऽर्थः । निष्पत्तिशब्दस्य कल्पनेत्यर्थः सर्वथा क्लिष्टः । अहमर्थस्यापि कल्पिततया मिथ्यात्वेन वाध्यतया नाहमित्येवोपासनापत्तिश्च । अतः सर्वस्य जगतः तस्मादुत्पन्नत्वादिति स्वरसार्थवर्णने ब्रह्मणः कारणत्वमुपादानत्वमुक्तं भवति । उपादानत्वं च निर्विकारस्य तस्यान्तर्यामित्वमुखेनैवोपपादनीयमिति कारणध्यान विधायकवाक्यस्य अन्तरात्मतया ध्यानविधाने तात्पर्यात् सन्मूलाः सर्वाः प्रजा इति स्वस्यापि ततो निष्पत्तिस्तस्यान्तरात्मत्वप्रयुक्तैक्यादिति स्वान्तरात्मत्वेन ब्रह्मोपासनं कर्तव्यमित्येव तदर्थः । कार्यकारणभावप्रयुक्तैक्यादहंग्रहोपासनमिति वेदार्थसंग्रहे । किञ्च आत्मेत्येवोपासीतेति श्रुतिवाक्यात् पूर्वं, ‘योऽत एकैकमुपास्ते न स वेद, अकृत्स्नो ह्येषोऽत एकैकेन भवति’ इति वाक्येन जगदपलापो न कृतः । किं तु चेतनाचेतनमात्रोपासने कृत्स्नोपासनता न भवतीत्युक्तम् । अथ कृत्स्नोपासनत्वसिद्ध्ये, आत्मेत्येवोपासीतेत्युक्तम् । तच्च चेतनाचेतनात्यागेन तद्विशिष्टपरमात्मोपासने सत्येव । अत एव उपासावैविध्यादिति प्रागुक्तम् । उपासात्रैविध्यमेव वृत्तिकारेष्टमिति तत्र शांकरादौ स्पष्टम् । शांकरानिष्टं यत् वृत्तिकारेष्टं चिद्वि-
18 शिष्टोपासनम्, तदेवात्र वाक्यकारो वदतीति वृत्तिवाक्यसामञ्जस्ये विशदमवबुध्यमाने कथं तद्विरुद्धार्थकल्पना । अतः कृत्स्नस्योपासननिष्पत्तये एवं वाच्यमिति वाक्यार्थः उपादेयः । अपि च अन्यत्वाद्ब्रह्मणः अन्यत्वेनोपासनं कार्यमिति यदुच्यते पूर्वपक्षिणा, तस्यापि निष्पत्तिरितो भवति । अहं ब्रह्मास्मीत्यत्र अहंशब्देन यदि जीवमात्रं गृह्येत, तदा ब्रह्मणि तदैक्यापातात् अन्यत्वरूपतत्त्वहानिः स्यात् । अन्तरात्मत्वप्रयुक्तं यत् जीववैशिष्ट्यम्, तदादायोपासने तु भेदोऽपि गृहीतो भवति । अत एवान्तर्यामित्वग्रहो भेदग्रह एवेति, ‘भेदव्यपदेशाच्चान्यः’ इति सूत्रे अन्तर्यामिब्राह्मणमादाय सर्वैरुक्तम् । एवं विशिष्टवेषेणोपासने च जीवेऽत्यन्तपारन्त्र्यलोभः । अत्यन्तपारतन्त्र्यरूपस्यैकान्तिकनित्य किङ्करत्वरूपफलंस्य तत्क्रतुन्यायेन सिद्ध्यर्थं तथोपासनम् । अतः सर्वस्यापेक्षितस्य एवमुपासने निष्पद्यमानतया अन्तरात्मेति विशिष्टवेषेणोपासीतेति वाक्यग्रन्थवाक्यस्यार्थस्वारस्यमस्मन्मते सूक्ष्मं निरीक्षणीयम् । सर्वस्य सगुणोपासनत्वे खल्वेवम्, निर्गुणोपासने एवमर्थवर्णनं कथमिति चेत् — तत् प्रागेव प्रतिविहितम् । किञ्च सद्विद्या निर्गुणविद्या न भवतीति वाक्यग्रन्थादेवावसीयते । तदुक्तम् श्रीभाष्यकारैः, “युक्तं तद्गुणकोपासनात्” इति वाक्यग्रन्थमुपादाय । एतद्वाक्यव्याख्यानरूपं द्रमिडभाष्यमेकदेशतो गृहीत्वा संक्षेपशारीरकादौ अपार्थकल्पनं न घटत इति इहापि किञ्चित् ज्ञाप्यते । “अन्तर्गुणा भगवती परदेवतेति प्रत्यग्गुणेति भगवानपि भाष्यकारः । आह स्म यत् तदिह निर्गुणवस्तुवादे संगच्छते न तु पुनः सगुणप्रवादे” इति संक्षेपशारीरकम् । एतद्ग्रन्थकारश्च सर्वज्ञमुनिः चोलवंशीयस्याऽऽदित्यस्य राज्ञः काले इति, स च (क्रि.प) द्वादशशताब्द्या उत्तरआगे आसीदिति तद्ग्रन्थगतवाक्यत एव निरधारि । तस्मिञ्च समये वाक्यभाव्यादिग्रन्यानां यथावदनुपलम्भादयं प्रपञ्चः । अत्र ‘अन्तर्गुणामेव देव गं भजते’ इति द्रमिडाचार्य भाष्यं व्याख्यायते । तत्र भाष्ये प्रत्यग्गुणेति पदं नास्ति । अन्तर्गुणेति पदस्य स्वयं प्रत्यग्गुणेत्यर्थवर्णनमिति नृसिंहाश्रमविवरणम् । तथैव किञ्चिद्विस्तरेण मधुसूदनविवरणम्, “अन्तर्गुणेति । सेयं देवतैक्षतेतिश्रुतिमनुसृत्य परदेवतेति ब्रह्मवोच्यते । अन्तर्गुणेत्युक्तं विशदयति प्रत्यग्गुणेति । गुणशब्द स्वरूपपरः । अन्याः देवताः पराग्रपाः । परदेवता तु प्रत्यगात्मरूपापरोक्षचि देकर सेत्यर्थः” इति । अनेन अन्तर्गुणां देवतां भजत इति भाष्यस्य प्रत्यग्रपाखण्डब्रह्मज्ञानवान् भवतीति, तत् त्वमसिवाक्यकटाक्षेण प्रवृत्तिरिति ज्ञायते । अन्तश्शब्दस्य प्रत्यगिति गुणशब्दस्य स्वरूपमिति, देवताशब्दस्य अखण्डब्रह्मेति, भजत इत्यस्य वाक्यार्थज्ञानमिति चार्थः किं स्वरसः । प्रत्युत गुणशब्दस्य विशेषणपरत्वे प्रत्यग्गुणा प्रत्यग्विशिष्टेत्यर्थ एव भवेत् । प्रत्यग्रपेति व्याख्यागतरूपपदात् प्रत्यगात्मशरीरकेत्यपि यादृच्छिकी अर्थसिद्धिः । तदा च सविशेषपरत्वमेव । वस्तुतो भाष्यमिदम्, अन्यासां देवतानां स्वापेक्षया भिन्नत्वात् अहं सेत्युपास्या न भवति । परदेवता तु प्रत्यगभिन्नत्वात् अहं ब्रह्मेत्युपास्येति निरूपणार्थ न प्रवृत्तम् । न हि ‘योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद’ इति वाक्यमन्यदेवतायाः स्वान्यत्वेनैवोपास्यतया तदुपासनस्य हेयत्वपरमिति तदर्थवर्णनाय प्रवृत्तम् । अस्तु वा तथा प्रवृत्तम् । परदेवता परं भगवती सर्वेश्वरात्मिका कथं जीवेनैकीभूता स्यात् । तत्पदार्थत्वम्पदार्थधर्मयोर्भिथोविरोधस्येष्टत्वात् । यदि विशेषाणां हानेनैक्यम्, तत् देवतान्तरेष्वपि समानम् । अत एव अहं मनुः, अहं कक्षीवानिति जीवद्वयैक्यवादो भवन्मते । किमनेनाप्रस्तुतेन । भाष्यमिदं “युक्तं तद्गुणकोपसनात्” इति वाक्यव्याख्यानार्थप्रवृत्तमिति पूर्वापरभागयुक्तमन्वभाषि श्रीभाष्यकारैः, “यद्यपि सच्चित्तो न निर्भुग्नदैवतं गुणगुणं मनसाऽनुधावेत्, तथाऽप्यन्तर्गुणामेव तां भजते इति तत्रापि सगुणैव देवता प्राप्यते” इति । अर्थश्वावर्णि ।
14 तदेवम् — सद्विद्यायां निर्गुणमुपास्यम्, यावन्नविमोक्ष्येऽथसंपत्स्य इत्युक्तत्याऽत्रैव मुक्तिरिति बादरिमतानुरोधेन शंकायाम्, वाक्यकारेण प्रतिविहितम् गुणयुक्तमेव प्राप्यम्; तत एव मुक्तिरर्चिरादिमार्गेण । सगुणकस्यैवोपास्यतया निर्गुणप्राप्तेर्दुर्वचत्वात् ; तत्क्रतुनयविरोधादिति । तदत्र भाष्ये वित्रियते । दहरविद्यायां ‘तद्यइहात्मानमनुविद्य ब्रजन्ति एतांश्च सत्यान् कामान्’ इति परात्मन इव गुणानामप्युपासनं यथा कथितम्, तथाऽत्र गुणानां पृथङ्निर्देशाभावेऽपि, आनन्दमयविद्यायामारम्भे गुणानामकथनात् निर्गुणमेवोपास्यमिति शंकायाः, सोऽश्नुते सर्वान् कामान् सहेति गुणानामपि प्राप्यत्वकथनेनार्थात् यथा परिहारः, तथा गुणानुभवरूपफलस्य सद्विद्यायामकीर्तनेऽपि तत् त्वमसीति तच्छन्दबलादेव सगुणोपासनं सिद्धम् । तच्छन्दो हि तदेक्षतेति ईक्षणविशिष्टाम्, सेयं देवतैक्षत, तेजः परस्यां देवतायामिति देवतापदनिर्दिष्टां कारणत्वाद्यौपयिककल्याणगुणगणाकरतया भगवतीं परां देवतामाह । यथा तच्छब्देन गुणविशिष्टमुपस्थाप्यते ; तथा त्वम्पदेनापि अपहतपाप्मत्वादिसत्यसंकल्पत्वान्तगुण स्वरूपखात्मकं चिदन्तर्यामित्वरूपेण देवतोपस्थाप्यत इति इदमपि तद्गुणकोंपासनादित्यन विवक्षितम् । किञ्च किं निर्गुणत्वेन रूपेणोपासनम्, उत वस्तुतो यन्निर्गुणं तदुपासनम्, उत गुणाविषयकम् । नाद्यः, निर्गुणत्वरूपप्रकारविधायकपदाभावात् । न द्वितीयः, तस्यैवाप्रसिद्धेः । सद्विद्यायां तत्परपदाभावात् । न तृतीयः, गुणस्योपासनाविषयत्वेपि वस्तुनो गुणसत्त्वाद निर्गुणप्राप्तेर्दुवचत्वाच्च । अतस्तत्पदार्थान्तर्निविष्टत्वात् गुणानां नागुणोपासनम् । अतश्च प्राप्तिर्निगुणस्येति न शंकावकाश इति । वाजिदहरविद्यायामपि छान्दोग्यदहर विद्यागुणोपसंहारः कामाद्यधिकरणसूत्रसिद्धः । अपरिच्छिन्नसुखात्मक भूमोपासनेऽपि स एकघा भवति त्रिधाभवतीत्यादिना बहुशरीरपरिग्रहसर्वलोक कामचाररूपफलश्रवणात् न निर्गुणविषयकत्वम् । फलस्य सर्वत्र साकल्येनानिर्देशेऽपि निवृत्त प्रतिबन्धतया सत्यकामत्व सत्यसंकल्पत्वादिरूप स्वरूपाविर्भावस्य कथनादेव सर्वस्या अपि विद्याया अविशिष्टफलत्वं शिष्टप्रायम् । अतो ब्रह्मणः सगुणत्वेऽपि गुणं विनोपासने तावन्मात्रानुभवोऽप्यस्तु इति शंकाया अपि नावकाशः निर्गुणविद्याया एवादर्शनात् । प्रतर्दनविद्यायाः हिततमार्थपरत्वात् मुख्यमुक्तिरूप निर्गुणप्राप्ति साधनस्य निर्गुणज्ञानस्यैव हिततमत्वात् तत्परत्वमित्यालोच्य तर्हि तत्रोपासावैविध्यादिति तदुपासनस्य त्र्यंशत्वं सूत्रकारोक्तं न घटत इति विभाव्य वैविध्यादित्यस्य त्रैविध्यप्रसंगादित्यर्थं प्रथममुक्त्वा, तथासति निर्गुणज्ञान जीवोपासन-प्राणोपासनरूपार्थत्रयपरत्वमेव वक्तव्यम्, निर्गुणज्ञानेऽन्यघटना योगात् इत्याशयं प्रदर्श्य, यथाश्रुतव्याख्यानमेव पश्चादन्वभाषि । तत्र भामत्यामवतारणम्, “तदेवं खमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे” इति । अनेन, स्वरूपेण जीवात्मकरूपेण प्राणात्मकरूपेण चोपासनं वृत्तिकृदिष्टमिति सिद्धम् । एवञ्च सगुणोपासनतत्फलपरत्वमेवैतद्विद्याया इति नेयमपि निर्गुणविद्या । भामतीकारस्यैतदूषणगमनिका तु प्राप्तानुवादेनानेकविधानं न भवतीति भीमांसांवैदुष्यप्रदर्शनमूला ‘मनोमयः प्राणशरीरः’ इति भाग्योदाहृतशाण्डिल्यविद्यायां कथं विधानमिति विचार्य अनायासेन सुनिरसेति अलमत्र विस्तरेण ; तत्र विचारितत्वात् । ;
18 एतावता वृत्तिवाक्यद्रमिडभाण्यादीन् स्वाभिमतार्थविरोधिनः सम्यगालक्ष्य कचिदुपेक्षणेन क्वचिदन्यथाऽर्थवर्णनेन च स्वाभिमतमर्थं कथञ्चित् सूत्रेषु तन्मूलभूतासु चोपनिषत्सु आरोप्य अद्वैतप्रचारे बद्धश्रद्धा आसन्निति सिद्धम् । ब्रह्मदत्तानुसारि भास्करादिकृतानां दूषणानां दुष्परिहरत्वेऽपि तन्मते ब्रह्मणो वास्तव सर्वहेयास्पदत्वापत्त्या वरं तदपेक्षया मिथ्यावाद इति मतिरासीदर्वाचाम् । वेदान्तवाक्यानि सर्वलोक प्रसिद्धप्रपञ्च मेदमात्रानुवादेनानुपरम्य विलक्षणं सर्वगुणशेवधिं ब्रह्म निरूप्य सर्वस्य सर्वप्रकारेण तादधीन्यमप्राप्तं प्रापयन्तीति यथा शास्त्रसिद्धपदार्थ मिथोमेदो न सहसा प्रतिक्षेपमर्हति तथा ऐक्यमपि तत्र प्रतिपाद्यमानम् । तदल गहने स्वयं बुद्धिपरिश्रमेण निर्धार्यैव तृप्ति प्राप्तुं प्रवृतेषु प्रेक्षावत्सु बुद्धिवैविध्यात् प्राचीनोपेक्षणपर्यन्तेऽपि साहसं भवत्येव । एवमेव द्रमिडभाण्याद्यनन्तरमपि अधुनेव मध्यकालेऽपि विविध प्रस्थानमासीत् । अत्यन्त विशदव्याख्यानविधानव्यग्रश्रीशंकरादिग्रन्थानन्तरं तन्मत एव मायाविद्याविभागवादएकानेकजीववादाद्य संख्याताभिप्राय भेददर्शनेऽनुवर्तमाने ग्रन्थमात्रेण कियान् क्षोभः परिहियेत । एवंस्थितेऽपि जन्मादिसूत्रादिभिअनावृत्तिसूत्रान्तैरत्यन्तादरेण जीवपरभेदं प्रतिष्ठापयतो वादरायणस्याशयमन्यथाकृत्य औयनिषदाभेदस्थापनमनुचितमिति परिशीलयद्विरास्माकपूर्वाचार्यैः प्राचीन एव घण्टापथः पुनः सम्यक्विशोध्य सर्वविपश्चित्सुखसञ्चारानुरूपं व्यस्तारि । गहन- यदि शंक्येत, तदनन्तरभावित्वान्माध्वमतं ततोऽपि श्रेय इति, तत्र वक्तव्यं प्रागेवावाचि, तन्मतमूल पुरुषैर्विशिष्टाद्वैतस्य स्वरूपकालात् प्रागेव लब्धप्रचारस्य सिंहीस्तन्यवत् परदुर्लभम्य स्वदेशे सर्वथैवाज्ञाततया शांकरानौचित्यामर्पणमूलः प्रायो नव एव निरूपणप्रकारः प्राचीनसूत्रव्याख्यानग्रन्थावलोकन वैयक्रयवैधुर्येण परिजगृह इति । रूपरसादिगुण तदाश्रय-ज्ञानतदाश्रयादिभेदे सर्वप्रमाणसं प्रदर्शिते सति स्वयं द्वैतिनोऽपि भूत्वा तत्राभेदं किमिति कल्पयन्ति । न हि प्रत्यक्षम भेदग्राह्यस्ति, नीलो घट इति व्यवहारवत् ज्ञानमात्मेति लोकव्यवहारस्तु नास्ति । शास्त्रे तु घ्राता विज्ञातेत्यादिरीत्या ज्ञानज्ञानिभेदः सुस्पष्टः । सूत्राणि च ज्ञोऽत एव व्यतिरेको गन्धवदित्यादीनि भेददशींनि । तत्र सर्वत्र क्लेशनिर्वाहो वा अनुक्तविशेषपदार्थकल्पनं वा किमर्थम् । न च नीलो घट इति व्यवहारमात्रेण नैल्यं घटः, रूपं घटः, रसः फलं, गन्धः पुष्पमिति व्यवहारापादकमैक्यं गुणगुणिनोर्भवितुमर्हति । अत एव रूपं घट इत्यादिव्यवहारविरहादेव प्रत्यक्ष गुणगुणिभेदग्रायेवेति ज्ञायते । नीलादिशब्दानां विशिष्टबोधकत्व स्वाभाव्यात्तु तथाव्यवहार इति न तेनैक्यसिद्धिः । ब्रह्मतर्कग्रन्थप्रामाण्यात् तथा स्वीकुर्म इति ते ब्रूयुः । स कश्चित् साक्षात् वेदव्यासकृतो ग्रन्थ इत्येतत् कैरप्यनुदाहृतत्वात् न स्वीकारमर्हति । यच्च यावच्च माध्वोक्तम्, तच्च तावच्च तथैव श्लोकात्मना ब्रह्मतर्कनाम्ना प्रदश्यते । स चेत् प्रमाणम्, न कस्यापि मतस्य प्रादुर्भावप्रसक्तिः । नूनं तैः संकर्षान्तरवत् ब्रह्ममीमांसास्थाने ब्रह्मतर्कः कश्चिदुद्भावितः । न च तत्र प्रमाणपुरस्सरं सर्वस्थापनम् । तत्रापि, “सर्वान्तर्यामकत्वात्तु सर्वस्यात्मा जनार्दनः, न तु सर्वस्वरूपत्वात्” इति विशिष्टाद्वैतिपक्ष उक्तोऽस्ति । “अतः स्वरूपभेदेपि झात्मैवेदमिति श्रुतिः । वदत्यस्ये शतन्त्रत्वादि” इति तार्किकच्छायाऽपि । मेदमात्रसत्त्वे अभेदव्यपदेश औपचारिक इति श्रुतिशैल्यैव निरूप्य अद्वैतखण्डने सुकरेऽपि अद्वैत- ।
16 दर्शन विवेकः वाक्यानामपि मुख्यार्थत्वं विशिष्टाद्वैतिपक्ष इति विशेषादतिशेते इदं मतमशेषाण्यपि ॥ यस्तु - बोधायनादय एव नासन् विशिष्टाद्वैतिनो मिथ्यावादेन वञ्चयन्ति । तत्तत्सद्भग्वप्रतिपादकतटस्थवाक्यादिष्वपि न विस्रम्भः कार्य इत्यादिभिः कुतर्केर द्वैतमेकतः स्थापयितुमिच्छति, अपरतश्च शैवविशिष्टाद्वैतस्य प्राचीनत्वं विष्णुविशिष्टाद्वैतस्य ततः कल्पितत्वं श्रीयामुनाचार्यग्रन्थादौ वाक्यस्य यथेच्छमन्यथा कल्पनादि च मन्यते, तस्य मृषावादिमूर्धन्यस्य विद्वेषानार्जवविवशस्य शिक्षणं यांवत् कर्तव्यम्, कर्तव्यम्, तावत् विशिष्टाद्वैत सिद्धितदनुबन्धकारपर्यन्तैः कृतमेव । किमेवम् । शैवमाप्यकर्तृत्वेनाभिमतः श्रीकण्ठः भगवतो वादरायणादपि प्रागेव प्रादुर्भूतः भविष्यतः शारीरकस्य शांकरादेश्चाऽऽगामिनो योगसिद्ध्या निरीक्षणेन पाश्चात्यत्वाभिनयेन भाप्यं निरमादिति यथार्थमिति तन्महिमसाक्षात्कारेण विलिख्य ईदृशाः संतुष्यन्तु । यानि पुनरुतरदेशे तत्र तत्रोपलभ्यन्तेऽन्यादृशानि वैष्णवमतानि तानि प्रायो भास्कर - भगवद्रामानुज सिद्धान्तानुसारीणि संकुचितप्रचाराणि भगवद्भक्तिमार्गसमभिवृद्धिलक्ष्यकतया तत्त्वनिरूपणैदम्पर्यविरहात् नावश्यं विवादपदमानेयानि । वस्तुतो माध्वमतमप्यस्माकं वैष्णवानामतीव संनिकृष्टमिति तद्योजना भेदौचित्यविवादो नास्माकं मुख्यः । मततारतम्य परिशीलन प्रवृतैश्व -तत्तन्मतोपपादनं तैस्तैः क्रियमाणम् यत् यत् सर्वसंमत शास्त्रवचनं मुख्यमवलम्ब्य, तस्य तस्य तदिष्टार्थपरत्वे स्वारस्य कियदस्तीत्येतावदेव प्रथमं विमृश्यम् । सिद्धे मते तत्प्रमेयाविरोधेन तत्र तत्र प्रदश्यमानाः ये वाक्यार्थयोजनाभेदाः, तत्र कतमस्य युक्तत्वमिति विचारस्तावत् केवलं वाक्यार्थसामञ्जस्य निर्धारणे उपयुज्यते ; न मतस्थापने इति स विचारः पाश्चात्यः, न मुख्यः । तस्मात् प्रतिसूत्रमर्थमेदं तत्तन्मतोक्तमवेक्ष्य तावन्मात्रेण मतयाथात्म्यनिर्वाहो न सुकरः, यदि सोऽर्थः तन्मतासाधारणो न स्यात् । तत् सिद्धम्, सर्ववेदान्तसामरस्यसंपादकत्वातिशयादिदं विशिष्टाद्वैतदर्शनमेव वरिष्ठमिति । यदाहुः श्रीमन्निगमान्तमहा देशिकाः- “यद्येत यतिसार्वभौमकथितं विद्यादविद्यातमः - प्रत्यूषं प्रतितन्त्र मन्तिमयुगे कश्चित् विपश्चित्तमः । तत्रैकत्र झटित्युपैति विलयं तत्तन्मतस्थापना - हेवाकप्रथमान हैतुककथाकल्लोलकोलाहलः ॥” इति । न केवलं वेदान्तवाक्यानां सर्वेषां सस्मृतीतिहासपुराणानामैककण्ठ्यं भवतीत्येतावन्मात्रात्, किं तर्हि, तदुक्तरीत्या, “दृष्टेऽपहत्यभावादनुमितिविषये लाघवस्यानपायात् शास्त्रेणैवावसेये विमतिविरहिते नास्तिकत्वप्रहाणादपि हेतोः नायोपज्ञ प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः, त्रातं सम्यक् यतीन्द्रैः अखिलतमःकर्शनमिदमेव दर्शनमिति । परमतेषु प्रत्यक्षानुमानविरोधः परस्तादवसरान्तरे विशदं निरूपणीय इत्यलमत्र । इति यतिराजसूक्तिरसमद्भुतवेदशिरो- 1 गुरुवर दिव्यसूक्तिबलक्लृप्तविवेकवशात् । परमतनिष्ठदोषगणदर्श्यनुभावयति स्वयमनुभूय वोत्स्यरघुवीरकृती सहृदः ॥
पूर्वाचार्यवचनानि उदाहृतानि
भगवद्रामानुजोदाहृतानि च वृत्ति-वाक्य-द्रमिडभाष्यादिवचनानि यथावदावतयतां नंदाहता सिद्धान्तसरणिः सुगमा भवितुमर्हति । तदत्र तानि वचनान्यनुवाचयामः - तथा हि वेदार्थसंग्रहे- वाक्यगतं वाक्यम्, ‘युक्तं तद्गुणकोपासनात्’ इति (1 पु. १४६ ) । तत्र द्रमिडाचार्यव्याख्या, ‘यद्यपि सञ्चितो न निर्भुग्नदैवतं गुणगणं मनसाऽनुधावेत् - तथाप्यन्तर्गुणामेव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यते’ इति । वाक्यम्, ‘तस्मिन् यदन्तरिति कामव्यपदेशः’ इति (१८२. पु.) । वाक्यम्, ‘आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः’ (१८७. पु. ) इति । अन्यत्र द्रमिडाचार्य भाष्यम्, ‘फलंसंविभन्त्सया हि कर्मभिरात्मानं पिप्रीषन्ति । स प्रीतोऽलं फलोयेति शास्त्रमर्यादा’ इति (२२३. पु.) । श्रीभाष्येऽपि (जि.) 252 पुटे । अन्यत्र च ( द्र. भा. ) ‘तस्याज्ञया धावति वायुः, नद्यः स्रवन्ति, तेन च कृतसीमानो जलाशयाः समदा इव मेषविसर्पितं कुर्वन्ति ।’ (मेषविसर्षितम्-उज्जृम्भनंम्) (२२९. पु. ) वाक्यम्, ‘आदित्यक्षिप्तं वा श्रीमत्वात्’ इति । (२४६) वाक्यम्, ‘हिरण्मयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्यात् लोककामेशोपदेशात्, तथोदयात् पाप्मनाम्’ इति (२४२ ) । वाक्यम्, ‘स्याद् रूपं कृतकमनुग्रहार्थ तच्चेतसाम्, ऐश्वर्यात् । रूपं वाऽतीन्द्रियमन्तःकरणप्रत्यक्षं तन्निर्देशात्’ इति (२५० पु. ) । तत्र द्रमिडभाष्यम्, “अञ्जसैव विश्वसृजो रूपम् । तत्तु न चक्षुषा ग्राह्यम् । मनसा तु अकलुषेण साधनान्तरवता गृह्यते । ‘न चक्षुषा गृह्यते, नापि वाचा । मनसा तु विशुद्धेन’ इति श्रुतेः । न ह्यरूपाया देवताया रूपमुपदिश्यते । यथाभूतवादि हि शास्त्रम् । ‘माहारजनं वासः’, वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्’ इति प्रकरणान्तरनिर्देशाश्च साक्षिणः” इति । श्रीभाष्ये भगवद्बोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः संचिक्षिपुः ’ इत्युपक्रमे निर्दिष्टग्रन्थतस्तत्रतत्र कतिपयानि वाक्यानि उदाहारिषत । तत्नोपात्तानि वृत्तिवाक्यादिग्रन्थवचनानि यथा- 66 9-9 तदाह वृत्तिकारः, “वृत्तात् कर्माधिगमादनन्तरं ब्रह्मविविदिषा”, “संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः” [ इदं वृत्तिग्रन्थारम्भे ] 18 वाक्यकारेण च -“वेदनमुपासनं स्यात् तद्विषये श्रवणात् । “सकृत्प्रत्ययं कुर्यात् शब्दार्थस्य कृतत्वात् प्रयाजादिवत्” (शांकरेऽपि. 4-1-1 ) । “सिद्धं तूपासन शब्दात्”, “उपासनं स्यात् ध्रुवानुस्मृतिः संभवात् निर्वचनाच्च” 19 वाक्यकारश्च, “तल्लब्धिर्विवेकविमोकाभ्यासक्रिया कल्याणानवासादानुद्धर्षेभ्यः संभवानिर्वचनाच्च” । " जात्याश्रयनिमित्तादुष्टात् अन्नात् कायशुद्धिर्विवेकः ।” 1 पुटसंख्यानिर्देशः पुष्करस्वामिमुद्रित कोशानुसारात् । उ-३
18 वृत्त्यादिवचनानि 20 “विमोकः कामानभिष्वङ्गः” । “आरस्वणसंशीलनं पुनःपुनरभ्यासः” । “पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिया । " सत्यार्जवदद्यादानाहिंसानभिध्याः कल्याणानि । “, " देशकाल - वैगुण्यात् शोकवस्त्वाद्यनुस्मृतेश्च तजं दैन्यमभांखरत्वं मनसोऽवसादः ।”, “तद्विपर्ययजा तुष्टिरुद्धर्षः ।” [अत्र निर्वचनोदाहरणान्यपि वाक्यभाष्यदर्शितान्यनूदितानि ।] 28 तथा च वाक्यकारः, “आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः " । 249 पुराणघट्टे च वृत्तिः - ‘जगद्व्यापारवर्ज समानो ज्योतिषा’ इति । [ इदं वृत्तिग्रन्थान्ते ? ] । द्रमिडभाष्यम् - देवता सायुज्या दशरीरस्यापि देवतावत् सर्वार्थसिद्धिः स्यात् इति । 1-1-10 तदाह वृत्तिकारः “सता सोम्य तदा संपन्नो भवतीति संपत्त्यसंपत्तिभ्यामेतदध्यवसीयते । प्राज्ञेनात्मना संपरिष्वक्त इति चाह । " 1-2-1 यथाह वृत्तिकारः"सर्व खल्विति सर्वात्मा ब्रह्मेशः । " ; 1-3-7 तदाह वृत्तिकारः “भूमा त्वेवेति भूमा ब्रह्म नामादिपरम्परया आत्मन ऊर्ध्वमुपदेशात् । " 1-3-32 तदाह वृत्तिकारः, “अस्ति हि मध्वादिषु संभवः, ब्रह्मण एव सर्वत्र निचाय्यत्वात् " 2-1-14 यथाऽऽह द्रमिडभाष्यकारः, “यथा लोके राजा प्रचुरदन्दशूके घोरेऽनर्थ संकटेऽपि प्रदेशे वर्तमानो व्यजनाद्यवधूत हो दोषैर्न स्पृश्यते, अभिप्रेतांश्च लोकान् परिपालयति, भोगांश्च गग्धादीन् श्रविश्वजनोपभोग्यान् धारयति - तथाऽसौ लोकेश्वरो भ्रमत्स्यसामर्थ्यचामरो दोपैर्नस्पृश्यते । रक्षति च लोकान् ब्रह्मलोकादीन्, भोगांश्चाचिश्वजनोपभोग्यान् धारयति । " 2-2-3 तथाऽऽह द्रमिडाचार्यः, “फलसंविभन्त्सया हि कर्मभिरात्मानं पिप्रीषन्ति, स प्रीतोऽलं फलायेति शास्त्रमर्यादा । "” श्रुतप्रकाशिकायामुपात्तानि वचनानि - द्रमिडभाव्यम् - " नमः प्रवरगुणैकास्पदाय स्थिरत्नसकुलबीजकुम्भभूताय भुवनकोशस्य गोप्ले ब्रह्मणे । नमो जैमिनये वेदरहस्य सम्पुटनिगूढविष्कारयिले न्यायप्रज्वलितचेतसे । नमोऽस्त्वा - चार्येभ्यः” 1 । वाक्यम्, “उपनिषण्णत्वाद्वा उपनिषत् । " तत्र द्रमिडभाष्यम् - " गहने हीयं विद्या संनिविश” । तत्य च वामनटोका - " गहने ब्रह्मणि उपनिषण्णा । " 1-1-21 अन्तरधिकरणे - “हिरण्मय इति वाक्यकारः । रूपसामान्यात् चन्द्रमुखवत्” इति तत्रैव कप्यासथुत्यर्थपरवाक्यप्रस्तावे, अस्य वाक्यस्य वाक्यकारेण षडयर्थाः उक्ताः । तत्र यस्य पूर्वपक्षत्वं तत्स्वभावादेवावगतम् “आदित्यक्षिप्तं वा श्रीमत्त्वात् " इति । .. अर्थान्तरत्रयं तूपपन्नम् ..तथाह वाक्यकारः, कालंजरामृत्युशोकादयः तत्रैव सिद्धान्ते अपहतपाप्मशब्दार्थवर्णने - “स्युः पाप्मानः संख्यातत्वात् " इति वाक्यकारवचः । 1 ग्रन्थानुपलम्भेऽपि यथा, ‘यो वेत्ति युगपत् सर्व प्रत्यक्षेण सदा स्वतः’ इति न्यायतत्त्वमंगलंश्लोक इति पारम्परिकप्रसिद्धिः, तद्वदत्तापि द्रमिडभाप्य मंगलेग्रन्थत्वप्रसिद्धिः । अस्य मीमांसान्यायकोशगतत्वे वक्तव्थं विशिष्टाद्वैतसिद्ध्यनुबन्धकारैरुक्तं द्रष्टव्यम् ।
मध्यकालपरिस्थितिः
19 उदाहृतानां वृत्ति-वाक्य-द्रमिड भाष्यवचनानामद्वैतप्रतिकूलत्वम् अस्मत्पक्षानुकूलत्वञ्च स्यष्टम् । ब्रह्मनन्दिकृतवाक्यग्रन्थव्याख्यातृद्रमिडाचार्यानन्तरः गम्भीरन्यायसागरभाषी भगवान् श्रीवत्सांक मिश्र इति श्रीभगवद्यामुनमुनिविरचितादात्मसिद्धिग्रन्थादवसीयते । अथ तत्राचार्यटक भर्तृप्रपञ्च भर्तृहरि ब्रह्मदत्तादयोऽपि श्रीशङ्काराचार्यतः प्राच्या निर्दिष्टाः । तत्र भर्तृप्रपञ्चस्याद्वैतित्वं प्रकरणपञ्चिकातो (8. प्र.) ज्ञायते । परमेतद्व्याख्यानं शांकरोपनिषद्भाष्ये (बृ. 3-4-2) खण्डितमस्ति । भर्तृमितं श्लोकवार्तिके (1-6-130) कुमारिलभट्टो दूषयामास । भर्तृहरिः स्फोटरूपशब्दाद्वैती प्रसिद्धः । ब्रह्मदत्तो भेदाभेदवादी जीवानां स्वरूपतः सृष्टिसंहृतिविषयत्वमाहेति श्रीदेशिकचरणानां ग्रन्थतः परमतभङ्गात् सर्वार्थसिद्धेश्च (जी. 16 ) ज्ञायत इति स यादवप्रकाशतुल्यः । सर्वमिदं सिद्धिलयटिप्पणपरिशिष्टे अस्माभिरुट्टङ्कितमेव । आचार्यटको ब्रह्मनन्दी चैक इति आस्माकप्राच्यग्रन्थावगम्यम् । अन्ये गुहदेव - कपर्दि-भारुचिप्रभृतयोऽपि वेदार्थसंग्रहे व्यपदिष्टाः । इमे सर्वे साक्षात् ब्रह्मसूत्रव्याख्यातार इति न ब्रूमः । वेदस्य, उपनिषदः, ब्रह्मसूत्रस्य, अन्यस्य वा व्याख्यारूपं वा स्वतन्त्रं वा यथायथं ग्रन्थं ग्रथितवन्त इमे अद्वैतप्रतिकूला इत्येतावदिह ग्राह्यम् । ततदुक्तं सर्वं तथैव ग्राह्यमित्यपि नेष्यते, सितासितग्रन्थक्कतां वचनस्य कात्स्न्यैन ग्रहणायोगात् । आप्तसमानामादरभाषितान्यपि क्वचित् प्रौढ्या, परपक्षान्वारोहेण, विवक्षितप्रधानार्थपरिरक्षणैदम्पर्येण, तुष्यतुदुर्जन इत्यभ्युपगमवादेन वा प्रवृत्तानि तेषामाशयमन्यतोऽवगम्य उपेक्षणीययथाश्रुतार्थानि भवन्ति, किमुतान्येषाम् । एवमीषदंशान्यथाकरणस्य संभावितत्वेऽपि भूयश परिप्राद्यताप्रयुक्तमाप्ततमत्वं न विहन्यते । अत एव द्रमिडाचार्यादिवाक्यानि अनेकानि प्रदर्श्य स्वपक्षानुकूल्यं श्रीमाष्यकारैः प्रतिबोध्यते । अद्वैतिनः तद्विरोधपरिजिहीर्षया कतिपयवाक्यान्यथानयने वृथैव प्रयस्यन्तीत्यप्यावेद्यते । आर्जवातिशयादेव श्रीभगवद्यामुनमुनयः आगमप्रामाण्ये, “नन्वत्रभवतां भाष्यकाराणां विरुद्धांशाप्रामाण्याभिधानं कथमिव” इति शंकामुत्थाप्य, “तत् गम्भीरन्यायसागरमवगादुमपरिवृढानां कोमलमनसां वेदानादरो मा भूदित्येवम्परम्, यथैव हि भगवतो जैमिनेः कर्मणः फलोपन्यासः कर्मश्रद्धा संवर्धनाय " इति प्रतिव्यधुः । सति वेदविरोधे अप्रामाण्यमेवेति न्यायः स्वात्यन्तामिमतपाञ्चरात्रेऽपि प्रसजन् न परित्यज्यते, किमुत परेषु तन्त्रेष्विति शास्त्रान्तर निरसनैद पर्यमेवानया भंग्या भाष्यकारैराविष्क्रियते ; न पुनः पाश्च-, रात्रेऽप्यवश्यं विरोधोऽस्तीति स्थापने नैर्भयम् । विरोधो नास्तीति निरूपणे निष्पन्नेऽपि उपेक्षणीयतामृजुबुद्धिर्नाऽऽस्थास्यत इति पादसंगतिलोभिनः प्रति कृत्वाचिन्तया कथनस्याशयः । किं बहुना । शांकरे पाश्चरात्रस्यातिखल्पांशे स्वीकृतमप्रामाण्यमपि कल्पतरुकारो न सहत इति परमार्थभूषणे व्यक्तमुपपादितमस्माभिः । नन्विदं पाञ्चरात्रविषयं भाष्यं सूत्रव्याख्याने, किंवा छान्दोग्यव्याख्यानभूतवाक्यव्याख्याने इति चेत् — किमनेन विचारेण । आत्मसिद्धिवाक्यस्वारस्यं भोक्त्रापत्त्यधिकरण श्रीभाष्योपात्त-तव्याख्यानद्रमिडाचार्यसूक्तिरीतिं प्रकृतपञ्चरात्रविचारश्च पश्यतां सूत्रव्याख्यानमपि वाक्यव्याख्यानवत् स्थितमिति
10 प्रतीयते । वाक्यव्याख्यानेऽपि सति प्रसंगे सूत्रतदाशयवर्णन नासंभावितम् । अर्वाचां नामानि ग्रन्थोध यथावद् गणयितुमप्यपारयतामतिप्राचीनविषये भवन् निर्णयः कियान् भविष्यति । तदुक्तित्वं तु नापलप्यम् ।
अर्वाग्विषयेऽप्यनिर्णये इदमेकमुदाहरणम् - संक्षेपशारीरककारः सर्वज्ञात्मा देवेश्वरशिष्य इति तत एब ग्रन्थादवगम्यते । तत्र मधुसूदनसरस्वत्या लिखितम् — देवेश्वरः सुरेश्वराचार्यः । सुरपदस्थानें देवशब्दप्रयोगः साक्षाद् गुरुनामाग्रहणायेति । एवं सर्वज्ञात्मनः सुरेश्वराचार्यशिष्यत्वमेतदालोचितं सर्वज्ञात्ममुनिप्रणीतप्रमाणलक्षणग्रन्थविरुद्धम् । तत्र तालकोशे श्रेष्ठानन्द शिष्यदेवानन्द शिष्यः देवेश्वरः सर्वज्ञात्मनोःगुरुरिति विशदं निर्दिष्टमस्ति । अतो देवेश्वरसुरेश्वरभेदः सुस्पष्टः । स हि साक्षात् श्रीशंकराचार्यशिष्यः । इदं विमर्शका विलिखन्ति । अतोऽस्पष्टार्थविषये वृथोत्प्रेक्षणं प्रायोऽन्यथाग्रहण एव पर्यवस्यतीत्यलम् । एवं वृत्तिवाक्यभाष्यादिषु यथावत् वेदान्तशारीरकार्थसंरक्षकेषु सत्स्वपि तेषां ग्रन्थानां सामग्रयेणानुपलम्भात् पश्चात्तनानां भर्तृप्रपञ्चादीनां परस्परविरुद्धव्याहारदर्शनात् अभेदवाक्यार्थस्य ब्रह्मनिर्दोषत्वस्य च निर्वाह प्रकार निष्कर्षं ततः स्वयमप्रतिलभ्य, गौडपादाचार्यमूलप्राप्तं जगन्मिथ्यात्ववादमेव समाधायक स्वयमनुचिन्त्य, स्वाभीष्टमद्वैत सिद्धान्तमनुरुध्य सर्वं व्याख्यातव्यमिति निर्धार्य श्रीशंकराचार्यैर्येतितम् । एवं पाश्चरात्रोक्तपातकालिकप्रक्रियादिषु विस्रम्भं वहन्तो वैष्णवदेवालयादिसेवापरा अपि ते न वैष्णवेषु सम्प्रदायार्थाभिज्ञेषु स्वपक्षप्रचारं व्यधुः ; नाप्यपारयन् त्रिदण्डोपवीतादिसंन्यासलक्षणादिवैकल्य निरीक्षणेनानुपसन्नेषु अवावदूकेष्वप्यपरित्यक्तप्राच्यपथेषु तेषु आत्मनो वैष्णवत्वेऽप्याशयमाविष्कर्तुम् । किंतु कौमारिलाद्यर्वाचीनमीमांसकमताभिनिविष्टानामुपेक्षितोपनिषदां तदर्थचिन्ताविमुखानां मण्डनमिश्रादीनां सविधमेत्य तेषां वेदान्तपरिचयविरहात् अद्भुतोपन्यासवागुरान्तर्यन्त्रणे समापतिते तादृशबहुविद्वज्जनविजयेन अनायासेनात्ममतप्रचारमकुर्वन् । स्वयं नारायणस्य परदेवतात्वं परमशिवस्याकारणत्वं ततो निकर्षञ्च स्वग्रन्थेषु स्फुटं कथयन्तोऽपि क्षुद्रफलार्थिकाम्यकर्मरत-देवतान्तर संपर्कातिशयानुरूपाचारवैदिकवृन्दपरिवृततया तदनुगुणविहाराहारव्यवहारविदूरतामात्मनि स्थापयितुं न शेकुः । अथापि सगुणब्रह्मप्रवणपुरुषवत् अनुष्ठानादौ सत्यपि अन्तर्निर्गुणसत्त्वविषयो यथा निगूढ आशयः, तथा बहुदेवतान्तरव्यासक्तजनसमुदायसमयाचारसंपातेऽपि सर्वातिशायी विष्णुरिति धारणा तावत् अप्रकम्प्यैव हृदयकुहरे यथावदवर्तिष्ट । व्यासादिग्रन्थपरिश्रमफलं तत् । भगवान् हि बादरायणः ब्रह्मजिज्ञासाप्रतिज्ञानेन उपनिषत्परमार्थो ब्रह्मेति प्रतिबोध्य तत्स्वरूपविवेकस्तैत्तिरीयत एव यथावद्भवतीति विमृश्य तैत्तिरीयनिर्दिष्टं जगत्कारणत्वं लक्षणं प्रदर्श्य कारणत्वमिदं कार्यत्रमत्वेन प्रसिद्धे रुद्रादिसर्वव्यष्टिस्रष्टरि हिरण्यगर्भेऽप्यसंभावित निरतिशयानन्दसागरो यः, अर्थात् नारायणः, तस्मिन्नेवेति विष्णुपारम्यवादितया विश्वप्रसिद्धेन भृगुणा आनन्दोब्रह्मेति अवधारितमिति सूचयित्वा सदादिवाक्यानां सामान्यवाचिनां तस्मिन् नारायण एवं विश्रम इति, एकोहवैनारायण प्रासीदिति गतिसामान्यादपि सुग्रहमित्यवबोध्य, अतएव तैत्तिरीयनारायणानुवाकेन सब्रह्मा स शिव इति सर्वान्तर्यामी नारायण एव सर्वपरविद्योपास्य इत्यपि ज्ञापितप्रायमिति मत्वा, सोऽयमानन्दमयः पुण्डरीकाक्ष एवेत्यनन्तरेण अन्तरधिकरणेन अप्राकृतदिव्यमङ्गलविग्रहविशिष्टतया तमुपदिश्य, एवंरीत्या
उभयवेदान्तमन्थमाला 21 1. विमर्शे क्रियमाणे ब्रह्मसूत्राणां नारायणपारम्यपरत्वं निराबाधमिति निश्चिन्वानोऽपि आपातप्राहिणामत्र डोलायमानमानसता मा भूदिति हितकाम्यया महाभारते, ‘तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः तत्त्वमेको महायोगी हरिर्नारायणः परः’ इति हरिमेव ब्रह्ममीमांसा प्रतिपाद्यत्वेन प्रतिपाय, शत्रुसुकचितस्थैर्यसंपादनाय, ‘सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्पते । वेदाच्छास्त्रं परं नास्ति न दैव केशवात् परम्’ इति वदन् वेदबाह्यागमानुसारशिवजिनादिपारम्यग्रहादिकं परास । महाभारतानन्तरं विरचिते च श्रीभागवते शिवादीनां भागवतत्वं भगवतो नारायणस्य पारम्यञ्च स्थूणानिखननन्यायेन निश्चलप्रतिष्ठितमकार्षीत् । श्रीविष्णुमुख्यावतार भूतश्रीरामश्रीकृष्णम हिमवर्णनेदम्पर। म्यामितिहासाभ्यां विष्णुपुराणादिभिव विशयलेशस्याप्यवकाशं विनैव नारायणपारम्यावगमात् आलोब्य सर्वशास्त्राणि विचार्य च पुनः पुनः ध्येयो नारायणः सदेति बादरायणनिष्पादितमेव सर्वेषां सात्त्विकानां सुनिष्पन्नम् । एवं स्थिते वैखानसपाञ्चरात्रप्रामाण्यप्रतिबोधेन प्राचः कालादेव परश्शतानां विष्णुदेवालयानां प्रादुर्भावतः, “कलौ खलु भविष्यन्ति नारायणपरायणाः । क्वचित् क्वचिन्महाभागा द्रमिडेषु च भूरिशः ।, ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महाभागा प्रतीची च महानदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः’ इति श्रीभागवतोक्तरीत्या उत्तरोतर श्रीवैष्णवसमृद्ध्या च विष्णुपारम्यं सुरक्षितमेवासीत् । ‘कामैस्तैस्तैर्हतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ’ इति रीत्या क्षुद्रफलक्षिप्रप्राप्तिकामनातुरपृथग्जनभूयस्तया देवतान्तरेषु प्रतिपत्तौ तत्रतत्र प्रत्यक्ष्यमाणायामपि प्रतिबुद्धाः यथावस्थितं पारमैकान्त्यं पृथिव्यां यावच्छक्ति प्रचारपथमानीतवन्त एवाऽऽसन् । नित्यविभूतिवत् लीलाविभूर्ति कतु को नु प्रभविष्णुः । मोहाद्वा कामाद्वा भयाद्वा संघर्षाद्वा जनानां परमार्थतो भ्रंशः साहजिकः । एवमपि यथायथं संप्रदायानुवृत्तिरपि भवति सार्वदिकी । अतो भवभयतप्तजनभागधेयेन- शठमर्पणवंश्येन शठजित्सूर्यनुग्रहात् । श्रुतिकोपविदूरार्थस्थापनं सम्यगाहितम् ॥
नाथमुनिवंशः
पञ्चाशतो वत्सरेभ्यः प्राङ्मुद्रिते प्राच्यग्रन्थमूलके यामुनवैभवे शठमर्षणवंशः चतुर्मुखपुत्राङ्गिरःप्रभृति अनुक्रमेणादर्शि । जगति शिशोरज्ञानापादकशठाख्यवायुविषये जातं कोपं न्यरुणदिति शठमर्षण इति नामेत्याहुः । एवमन्येभ्योऽपि शठेभ्यः अपकृतवद्भ्यो नाकुध्यदिति तत्सहनशीलत्वात् शठमर्षण इत्यप्यस्तु । तत्त्र चतुर्वेदमुनेः पुत्रो ब्रह्मनन्दी कश्चित्, ‘ब्रह्मनन्दिमुनिं वन्दे श्रीशेषाचलवासिनम्’ इति निर्दिष्टोऽस्ति । स किं छान्दोग्यवाक्यकारो ब्रह्मनन्दी अन्यो वेति न विद्मः । पारम्पर्यप्राप्तोऽस्य श्रीशेषाचलंवासः । पूर्व ब्रह्मनन्दी पतसिद्धान्ताचार्य आसीत् । ततो गते गणरात्रे वकुलभूषणमुनिराचार्य आसीदिति संप्रदायपरिशुद्धौ श्रीदेशिकचरणाः । एतत्पौत्त्रस्यं पद्माक्षमुनेः श्रीशैले स्वस्थाने भूतसरोवेतालोण्यदिव्य सूरित्त्रयसमागमोऽप्यन यामुनवैभव ग्रन्थे निरदेशि । अथ कुम्भघोणे भक्तिसारदिव्यसूरिसमागमश्च । गोमन्तपर्वतापरनामधेये श्रीनारायणपुरपर्वते श्रीकृष्णप्रसादेन भक्तियोगशीघ्रनिष्पतिहेतवे मन्त्रविशेषः नवनीत-
22 कृष्णविग्रहश्चानेन प्राप्तौ । तदधीने योगिश्रेष्ठधे सति कृष्णानुग्रहादेव श्रेष्ठकुलंम् शट्टिक्कुलम् इति बिरुदलाभः । नूनमेतमारभ्य योगरहस्यमेतत्कुलेऽवर्तिष्ट । नाथमुनिशिष्येण श्रीकुरुकेशतातेन योगनिष्णातेन योगकाले योगसाक्षात्क्रियमाणभगवद्रूपस्य झटित्यन्यत्र मुखपरिवर्तनमा पतितमवेक्ष्य किमत्र शोट्टै कुलभवाः समागता इति कृतः शोट्टैपदप्रयोगोऽपि योगप्रभावनिबन्धना सा प्रथेति गमयेत् । श्रीभगवद्यामुनमुनिप्रभृति भक्तियोगप्रकारस्याननुवृत्तिरापेदे । प्रागुक्तात् पद्माक्षात् त्रिषु पुरुषेष्वतिगतेषु ईश्वरमुनेः प्रादुर्भावः, यतः श्रीरङ्गादिदियदेशयात्त्रापरात् अनुष्ठितसर्वयज्ञात् श्रीभगवन्नाथमुनिराविर्बभूव । अस्य रङ्गनाथ इति श्रीरङ्ग सेवापर पितृकृतं पूर्ण नामधेयम्; एकदेशेन व्यवहार इति स्तोत्तभाष्ये श्रीदेशिकचरणा अप्यभाषिषत । जगति ख्यातयशसां शुचीनां शिष्टानां गुणपुरुषतत्त्वस्थितिविदां निसर्गादेव नारायणचरणकमलैकान्तमानसां महति वंशे लब्धजन्मनो नाथमुनेः श्रीवैष्णव संप्रदायप्राप्तिराजानसिद्वैवासीत् । वैदुष्यातिशयादेष न्यायतत्त्वग्रन्थनिर्माणेन शांकरान्तसर्वमतनिरासेन परमार्थमतं प्रतिष्ठापयामास । स तदीययोगरहस्यग्रन्थवत् न झटित्यलुप्यत ; यतो भगवद्यामुनमुनिना प्रौढानां विदुषां तदर्थवैशद्यविधित्सया सुबहुविचारात्मकं सिद्धित्रयं तत्प्रकरणग्रन्थत्वेन प्राणायि । श्रीनाथमुनिस्थितिकालः (क्रि-प) नवमशतकमध्ये । श्रीयामुनमुनेश्च दशमशतके स्थिति परिशीलयन्ति । उत्तरां दिशं प्राप्य वृन्दावने श्रीकृष्णरूपस्य यमुनातीरदिव्यालंये सेवां चिरं प्राप्तवतः स्वस्थानं वीरनारायणपुरं प्रति भगवन्नियोगेन निवर्तनम्, “आरावमुदे” इति श्रीवकुलभूषणदिव्यसूरिगाधादशकस्य यदृच्छया श्रवणम्, ततः सहस्रसंख्याश्रवणेन पूर्णग्रन्थलाभाय श्रीकुरुकापुरीगमनम्, तल्लाभमार्गस्य तत्र मधुरकविवैश्यतोऽवगमः, मधुरकविदिव्य प्रबन्धपारायणध्यानप्रसन्नभगवत्प्रेरित श्रीवकुलभूषणयोगिसंदर्शनम्, तदुपदेशेन सर्वदिव्यप्रवन्धसाक्षात्कारवत् प्रपत्त्याद्युपदेशस्यापि लाभ इत्यादि यथागुरुपरम्पराग्रन्थोक्तमनुसधेयम् । एवञ्च मतान्तराणामिवास्मत्संप्रदायस्य न संसारमग्न पुरुपैकोपदेशमूलता, किंतु निर्दोषनिरतिशयज्ञाननित्यसूरिनिरवग्रहानुग्रहमूलतेति विशेषोऽपि विज्ञातव्यः । श्रीमद्यामुनाचार्याश्च बाल्य एव काव्येषु कोमलधियः तर्केषु कर्कशधियः मीमांसापूर्व भागभाट्टप्राभाकरपद्धतियुग्मपारदृश्वानः सर्वतन्त्र स्वतन्त्राः प्रतिवादिवारणप्रकटाटोपविपाटन पटिमप्राग्भारप्रख्यातप्रचण्डपञ्चवक्त्त्राः सर्वविद्वद्विजय संतुष्टसपत्नीकचोलाधिराजसमर्पितार्घराज्य संपत्तिविहित विशिष्टधर्माः श्रीमन्नाथमुनिप्रशिष्यश्रीराम मिश्रोपदिष्टमन्त्रगीताशारीरकादिसाम्प्रदायिकार्थसाराः अष्टौ मुनयोऽभूवन्; ग्रन्थांश्चाररचन् ।
भगवद्रामानुजचरितम्
एषामेव शिष्यस्य पौत्रस्य च श्रीशेषशैले श्रीनिवास सेवापरस्य श्री शैलपूर्णस्य सोदर्या भूदेव्यां हरितकुलतिलकवीर राघवसर्वक्रतुयाजितनूजस्य श्रीकेशव सोमयाजिनः पुत्ररत्नरूपेणावतीर्णाः श्रीमद्यामुनमुनिपरिपूर्ण कटाक्षपात्रभूताः तच्छिष्यभूतमहा पूर्ण - श्री शैलपूर्ण गोष्ठी पूर्ण मालाधरगुरुमुखानेकमहनीय सेवासं प्राप्त सर्वार्थाः ततः प्रागेव स्वसहज वैदुष्यविधूतप्राच्यनव्य सर्व परदर्शनाः श्रीभगवद्रामानुजमुनय इत्येतादृशवृत्तान्तपरिशीलने, मिथस्संबन्धसमेधमानश्रीवैष्णव समृद्धिकुलजातं शांकराद्यर्वाचीनक्षोभानास्पदं प्राच्यार्थ संप्रदायस्य कथञ्चित् परिपालंकञ्च सत् दुर्लभप्राच्यग्रन्थान्वेषणवास्तवार्थप्रचारणबद्धश्रद्धमप्यासीदित्यवगम्यते । एषां चरितस्य चायं संग्रहः- 1 सम्प्रदायिकार्थोपदेशपारम्पर्येऽयं श्लोकोऽपि प्रमाणम् - " आचार्यात् यामुने यादाधिगतनिगमान्तार्थजातं प्रपत्तिञ्चोपादिक्षत् रहस्यान्यपि यतिपतये किञ्च तद्रक्षणार्थम् । चोलेन्द्रं प्राप्य चोक्त्वा सदसि, परपुमान् श्रीपतिर्देति पीडां शारीरीं तकृताञ्चाप्यसद्दत, मनत्रै तं महापूर्णमार्यम् ॥”
28 श्रीभूकेशवसोमयाजितनयः श्रीभूतपुर्युद्भवो हारीतान्वयदुग्धवारिधिविधुः शेषस्य मूर्तिः परा । गायत्री श्रुति-संप्रदायसरणीः प्राप्यैव यस्ताततो व्याख्यां यादवमुख्ययोगिकलितां ज्ञातुं तदन्तेऽवसत् ॥ १ ॥ काञ्च्यां हस्तिगिरिश्रितेन महता श्रीयामुनेयेन यो दृष्टो यादव शिष्य गोष्ठयुपगतः प्रीत्याऽस्मदीयोऽस्त्विति । यस्यार्थे शरणं प्रपद्य वरदं तस्मिन् स्वदेशं गते योऽसौ यादवनीत ऐच्छदनघो गङ्गादितीर्थाटनम् ॥ २ ॥ कप्यासश्रुतिमुख्य चिन्तनविधौ भग्नो गुरुः स्वात्मनेऽ- निष्टं चिन्तयतीति सोदरमुखाद् विज्ञाय यात्रां त्यजन् । एकाकी विपिने विचिन्त्य वरदं तस्थौ य एष क्षणात् कैराताकृतिदिव्यदम्पतिवशः काञ्चीं समासादयत् ॥ ३ ॥ तीर्थापेक्षिकिरातरूपकमलाकान्तोपचारं चिरं कुर्वन् यामुनयोगिवर्यकलिते स्तोत्रे कदाचित् श्रुते । तत्सेवात्वरितोऽपि यो यतिवरश्रीदेहमात्रेक्षणात् दनोऽभूदथ तन्मनोरथ महापूत्यै च यत्नं व्यधात् ॥ ४ ॥ काञ्चीपूर्णमुखादवेत्य भगवद्भावं स्वयं प्रस्थितः मध्ये यो मधुरान्तके श्रितमहापूर्णाङ्घ्रिपद्मोऽर्थवित् । आज्ञां तस्य वतंसयन् अधिगतः श्रीयामुनेयाश्रितान् गोष्ठीपूर्णमुखान् परानपि महाप्राज्ञो बभौ भूतले ॥ ५ ॥ श्रीकुरेशसहाय एव सहसा काश्मीरदेशं गतः यो बोधायनवृत्तिमद्भुतरसाम् आन्तं निरीक्ष्याऽऽगतः । वेदार्थं च समग्रहीत् बहुविधप्राच्योक्तिरक्षी व्यधात् श्रीभाष्यं स्वथ दीपसारसहितं भाष्यश्च गीताश्रितम् ॥ ६ ॥ 1 काश्मीरदेशं गत्वा बोधायनवृत्तिमवेक्ष्य तद्नुसारेण कृतत्वात् भाष्यस्य, तत्रास्य प्रचारार्थ प्रणतार्तिहराचार्य परमान्तस्तं शिष्यं प्रेष्य, तत्र काश्मीरदेशे सरस्वतीपीठे सदस्येतदुपन्यासे नपरान् विजितवति तस्मिन्, सरस्वत्या चेदमेव भाष्यं सर्वोत्त्कृष्टत्वात् श्रीभाष्यमिति श्लाघिते प्रकामं तुष्टः श्रीभाष्यकारः प्रतिनिवृत्ताय तस्मै वेदान्तोदयन इति विरुदमप्यनुजग्राह । ‘वेदान्तोदयन सम्प्रदायसुधाम्’ इति स श्रीदेशिकचरणनिर्दिष्टः ।
24 प्राप्तो यो यतिराजतां बहुशतैरछात्रैः शुभैर्योगिभिः संख्यातीत गृहस्थ सेवितपदो देशान् अटन् ऐधत । अद्वैतादिमतं निरस्य सगुणश्रीशैकनिष्ठां हरि- द्वारात् सेतुपदावधि प्रचुरयन् देवालयान् पालयन् ॥ ७ ॥ शेषाद्रौ विनुतोऽथ मातुलवर श्रीशैलपूर्णादिभिः श्रीरङ्गादिपरिष्कृतिं विरचयन् शैवञ्च विध्वंसयन् । श्रीनारायणशैलशृङ्गभुवि यः श्रीशं प्रतिष्ठापयन् लोकक्षेमपरो भुवं व्यतनुत श्रीवैष्णवैकाञ्चिताम् ॥ ८ ॥ इत्थं श्रीकरिशैल-वेंकट गिरि-श्रीयादवाद्रिप्रभृ- त्यार्यक्षेत्र परिष्कृतेः परमसौ श्रीरङ्गवासी भवन् । दिव्यद्रामिडवेदबोधनपरः श्रीव्यासबोधायन- श्रीमन्नाथ मुनीन्द्रदर्शितपथानीताखिलार्यव्रजः ॥ ९ ॥ सर्वज्ञैः स्वकदर्शनप्रचरणं कुर्वश्चतुःसप्ततौ पीठेषु श्रितवत्सलैः प्रपदनं प्रख्याप्य मुक्तौ हितम् । भक्तिज्ञानविरक्तिशीलनिगमाचारादि पुष्णन् भुवि ख्यातोऽभूत्, अयमस्तु मे हृदि सदा रामानुजार्यो मुनिः ॥ १० ॥
श्रीश्रुतप्रकाशिकाचार्यः
श्रीभाष्यकारान्तरङ्ग शिष्याणां श्रीभाष्यकारवदेव हरितकुलेतिलकभूतानां वैराग्यशेवधीनां कूरत्ताल्वान् इति प्रसिद्धानां श्रीवत्सांकमिश्राणां द्वौ पुत्रौ भट्टपराशरपादः, श्रीवेदव्यासनामा श्रीराममिश्रश्च । आद्यस्य वैदुष्यातिशयं भगवदनुभवञ्च वक्तुं सहस्रमपि मुखानि नालमिति विरम्यते । द्वितीयस्य महात्मन एवौरससंततिरासीत् । तस्य वेदव्यासभट्टस्य पुत्रयोः वाग्विजयिभट्ट सर्वज्ञभट्टयोर्मध्ये आद्यस्य पुत्ररत्नमयं श्रीसुदर्शनभट्टो नाम श्रुतप्रकाशिकाचार्यः । एतत्पुत्र एव वेदाचार्यभट्टः क्षमाषोडशीकर्ता । अस्यां संततौ वयस्त्रिंशेन संप्रति श्रीरङ्गदिव्यालंये पारम्परिककैङ्कर्यभाग्यभाजा श्रीमता वेदव्यासरंगनाथभट्टनाम्ना महात्मना संततिस्वरूप मित्थमवगमितम् । अयं श्रुतप्रकाशिकाचार्यः श्रीभाष्यकारस्थापितेषु चतुस्सप्ततौ सिंहासनेष्वेवेकतममधिरूढस्य नडादूर आल्वानिति प्रसिद्धस्य श्रीभाष्यकार भागिनेयस्य पौत्रात् वात्स्यवरदाचार्यात् सर्वपरमतपरिमर्दनपूर्वकखसिद्धान्तश्रीभाष्यादिग्रन्थव्याख्यानवैखरीविख्यात वैभवात् अनेकान् वारान् श्रीभाष्यं 1 हरितगोवं हारीतगोत्रञ्चैकमिति मन्यते । श्रीभाष्यकार गोत्रं प्रथमतः हरितमोत्र - आसूरिसोमयाजिसुतवीरराघव सर्वक्रतुयाजितनय - आदिकेशवेत्येवं हरितपदेन निर्दिश्य, पश्चात् ‘यः श्रीभूतपुरे हरेरभिमतो हारीतगोत्रोद्भवः’ इति हारीतशब्देन तस्य निर्देशात् । अतः श्रुतप्रकाशिकायामपि मातृकामेदेन हरितद्दारीतपद मे ददर्शनं न दोषायेति ।
उभयवेदान्तमन्थमाला 25 श्रुत्वा तदातदा प्रोक्तां व्याख्यानभंगीं तत्तदवसर एव गृहमागत्य तालपत्रे विलिख्य रक्षितवान् कदाचित् नूत्नसमागतैः सतीयैः सह श्रवणकाले आचार्येण कस्यचित् वाक्यस्यार्थं पृष्टः सदुपदिष्टान् अर्थभेदान् तदातदा श्रुतान् सर्वानपि क्रमेणानूवाद । आचार्यो विसिष्मिये । कथमियती धारणेति पप्रच्छ । विलिख्य संरक्षितं विलोक्यैव प्रत्यंग्रार्थविशेषश्रवणाय समागच्छन्नस्मीति प्रत्युत्तरिते लिखितकोशसमानयनार्थमाज्ञाप्य श्रीदेवाधिराजस्थाने श्रीहस्तिगिरिशिखरे यथापूर्व भवन्त्यां कालक्षेपगोष्टयामेव दृष्ट्वा संफुल्लस्वान्तगात्रः समनुगृह्य अस्य श्रुतप्रकाशिकेति नाम स्तादित्यादिदेश । सन्त्येव श्रीभाष्यस्यानेकाः व्याख्याः, अथापि सेयं वाक्यानां विविधमवतारणात् विभिन्नार्थवर्णनात् विचित्राशयाविष्करणात् प्रतिपदपरिशीलनात् अधिकरणाङ्गानां सर्वेषां व्युत्पादनात् फलेफलिभावप्रदर्शनान् संगतिसंचिन्तनात् प्रत्यधिकरणं परमतामां त्रयाणामपि (शांकर भास्करयादवानां) पराकरणात् अधिकाक्षेपसमाधानविस्तरात् अत्यन्तविशदवाक्यशैलीतश्च अनावश्यकाप्रस्तुतार्थविस्तरविरहाच्च सर्वामपि व्याख्यामतिशेते । आपदि प्राप्तायामेतद्ग्रन्थसंरक्षणभरः ग्रन्थकृतैव स्वपुत्त्रयोः रक्षणभरेण साकं श्रीमन्निगमान्तमहादेशिके निक्षिप्तः । अतएवानुसधीयते— “श्रुतप्रकाशिका भूमौ येनाऽऽदौ परिरक्षिता । प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलेम्,” इति । एवञ्च रामानुजभाष्यमेवास्मत्सूत्रानुगुणमिति श्लाघितवता वेदव्यासेन व्यासार्यरूपेणावतीर्ष व्याख्याय तत्स्थापनमकारीति कथनं साम्प्रतम् । श्रीदेशिकग्रन्थतश्च श्रीभाष्यकारादनन्तरं श्रीभाष्यव्याख्यानात्मना प्रकारान्तरेण च प्रबद्धाः प्रबन्धा आसन्नित्यवगम्यते । तत्र श्रीराममिश्रकृताः पोडश ग्रन्थाः मेघनादारिसूरिविरचिताश्च बहवोऽस्माभिनयद्यमणिभूमिकायां निरदेशिषत । तथा न्यायसिद्धाञ्जनदर्शिता अम्ये च श्रन्थाः । अधिकरणचिन्तामणौ, यत्तत्सेनेश्वरायैरिति श्लोकव्याख्याने सेनेश्वरार्याः श्रीरङ्गराजान्तरङ्गपरिकरतलजाः शारीरकाधिकरणार्थसंग्रहपद्यकर्तारः, वक्कूलभृत्किङ्कराः वरदनारायणभट्टारका न्यायसुदर्शनकर्तारः, श्रीविष्णुचित्ताः शटमर्पणगोत्रप्रभवाः प्रमेयसंग्रहकर्तार इत्युक्तम् । सेनेश्वराचार्यस्य श्रीनिवासाचार्य इति सहजं नाम । ग्रन्थनाम च न्यायकलापसंग्रह इति । यथा श्रीभाष्यविवरणं विष्णुचित्तीयमेकम्, तथा (सोमा शियाण्डान् ) श्रीराम मिश्रीयमपि श्रीभाष्यविवरणमस्तीति न्ययसिद्धासनतोऽपि ज्ञायते । यथैषां शारीरकव्याख्यानरूपत्वम्, तथा मेघनादारिसूरिकृताया नयप्रकाशिकाया अपि । सेयं विपुलेति तत्कृतं लघु भाष्यभावावबोधनाख्यं व्याख्यानमन्यदस्तीति चाहुः । परंत्वयं मेघनादारिसूरिः श्रीराममिश्रपरम्परायां श्रीभाष्यकारादष्टमः । अथापि श्रीकुरुकेशपरम्परायां श्रीभाष्यकारात् पञ्चमस्य श्रुतप्रकाशिकाचार्यस्य समसामयिकः; श्रीदेशिकनिर्दिष्टत्वात् । अतः पूर्वे ग्रन्थाः श्रीसुदर्शनसूरिपरिचिताः स्युः । अभ्योऽपि तूलिकाख्यो ग्रन्थः श्रुतप्रकाशिकायां निरदेशि (ल. पू. अवसाने ) । अनेन कृताश्च ग्रन्थाः - श्रुतप्रकाशिका, श्रुतप्रदीपिकेति संग्रहरूपव्याख्यानान्तरम्, वेदार्थसंग्रहतात्पर्यदीपिका, सुबालोपनिषद्विवृतिः, शरणागतिगद्यव्याख्या, सन्ध्यावन्दनभाष्यम् इत्यादि । श्रीभागवतस्य शुकपक्षीयमिति व्याख्यानमेतत्कृतमिति च वदन्ति । एवं साक्षाच्छारीरका संबन्धिनो बहवो ग्रन्थाः श्रीकुरुकेश-श्रीकूरेश -पराशरभट्ट विष्णुचित्तवरदाचार्य - वादिहंसाम्बुदादिमहनीयनिर्मिताः अप्रकृतत्वादत्र ‘न’ निर्दिश्यन्ते । श्रुतप्रकाशिकातः पश्चादपि तत्त्वटीकामूलभावप्रकाशिकादयः श्रीभाष्यव्याख्याः गम्भीरसूक्त्यर्थविशेषव्युत्पादनार्थतया आत्मानमलभन्त । अस्यामपि श्रुतप्रकाशिकायामलभ्या अतीव भोग्याः भाष्यार्थाः पदेपदे तत्त्वटीकायामुपलभ्यन्ते । सेयं शतदूषण्याः पश्चात् संकल्पसूर्यादेः प्राक् अष्टाविंशे प्रवचनविधौ श्रीदेशिककृतेति उ-४
26 तत्रैवावगम्यते । महासिद्धान्तमध्यं यावदुपलभ्यते, सर्वोऽप्युपरितनभागः शिष्याणां श्रद्धावैकल्येम सर्वात्मना लुप्तः । श्रुतप्रकाशिकाया अपि व्याख्याः सन्ति । तत्र भावप्रकाशिका एकैव कथश्चित् प्राप्तप्रचारा लक्ष्यते । अकृतशास्त्रपरिश्रमेषु अथवा अपरिचिताधिकसंस्कृतग्रन्थेषु कोमलंमतिष्वेव काले वर्धमानेषु, अन्येषु च धनिकेष्वश्रद्दधानेषु कथमीदृशां शाखोपशाखात्मनां विचारग्रन्थानां प्रचारस्यावकाशः । विस्तीर्णेषु संक्षेपकामना संक्षिप्तेषु विस्तरवाञ्छेति पर्यायचक्रं सर्वत्र लोके सर्वदा भ्रमदेव लक्ष्यते । कथमप्येतस्य व्याख्यानस्य मुद्रणेन परिरक्षणं साम्प्रतं संपन्नमिति संतुष्यामः । उदयगिरिसमृद्धो यः कराग्रेण पृथ्वीमपहततिमिरौघामद्भुतार्थप्रकाशाम् । अकृत निगममूर्तिगनिधिर्मुक्तिनेता जयति स यतिराजो भास्करो लोकबन्धुः ॥ 11 eftः 11