ब्रह्मसूत्रे पाठभेदः

TODO: proofread

Source: TW

॥ श्रीः ॥ मुद्रणादेः प्रसक्तिलेशविधुरे प्राचीने काले तालपत्त्रादिषु विलिख्य ग्रन्थपरिरक्षणेऽपि तावदैदम्पर्य नोढमासीत्, यावत् अभ्यस्य हृदयेन धारणे । बहलानां भाष्यादिग्रन्थानां धारणानवकाशात् लेखनस्यावश्यम्भावेऽपि सूत्राणामन्येषाञ्च दैनन्दिनपारायणेऽप्युपयुज्यमानानां मुखस्थीकरणमेव पर्याप्तमिति प्राञ्चोऽमन्यन्त । उपदेशैकप्रापणीयेषु ग्रन्थेष्वतः सम्प्रदायमूलमेव परिज्ञानं वृत्तमासीत् । अत एवोपदेशपारम्पर्यामायतते पाठभेद इति श्रीगीतापाठभेदमधिकृत्य वदद्भिः श्रीमद्वेदान्तदेशिकैः तात्पर्यचन्द्रिकायामभ्यधायि । तावता स्वखमतसंरक्षणाय मतानुकूलपाठभेदकल्पनमेषामिति तु नैव मन्तव्यम् । अभिप्रायमेदमर्थभेदञ्च संख्यमाविष्कृतवन्तोऽपि प्राञ्चः वेदे वा स्मृतीतिहासादिषु वा नैव पाठपरिवर्तने प्रागल्भ्यं प्रदर्शयामासुः । तादृशा इमे परमास्तिकाः कथङ्कारं सूत्रेषु अल्पाक्षरेषु अनेकार्थवर्णनक्षमेषु स्वमताभिनिवेशेनान्यादृशं पाठमारोपयेयुः । उपलभ्यमानानां पाठभेदानां तथा तत्तत्पक्षसाधकत्वानुपलम्भादपि नैवमुल्लेखस्यावसरोऽस्ति । एकतममतादृतस्य पाठभेदस्यान्यतममतानुकूलार्थवर्णनासंभवोऽपि न लक्ष्यत इति तथाकल्पनमंस्थाने । अतः सम्प्रदायश्रद्धयैव तत्तत्पाठरक्षणम्, न तु मतस्थापनशेषतया । इदं तु स्यात्-यत् विवक्षितस्यार्थस्यैकरूपत्वे, तस्य यादृशपाठादरणे सम्यक्प्रतीयमानता यत्र तत्र तमेकं पाठमाहत्य अन्ये पाठा उपेक्षितुं युक्ता इति । परंतु सम्प्रदायश्रद्धया न तदपि घाष्टये ते वोढुं पारयामासुः । चतुर्थप्रथमे आ प्रयाणात् तत्रापि याप्रायणादिति प्रयाणशब्दस्थाने प्रायणशब्दः परग्रन्थे इत्यादिश्रुतिषु प्रतिधातुश्रवणात् प्रायणपदमुचितं मन्येत । प्रयाता यान्ति तं कालम्,’ ‘तत्र प्रयाता गच्छन्ति हि दृष्टम् " इति सूत्रपाठः श्रीभाष्ये । । ‘येयं प्रेते’, ‘येयं प्रेते’, ‘प्रेत्याभिसंभावितास्मि ' गीतायाम्, ‘प्रयाणकाले मनसाऽचलेन ' ' ' प्रयाणकालेऽपि च माम्’ इत्याद्यनुसरणे प्रयाणपदमपि युक्तमेवाध्यवसीयते । गीतायां तथा स्वयं व्यवहृतवतो बादरायणस्यात्र तैनैव कृते

सूत्रपाठ मेदः 27 ब्रह्मसूत्रेऽपि प्रयाणपदं परिचयातिशयप्राप्तमित्यपि स्यात् । प्रायणं स्थूलशरीरविश्लेषः । प्रयाणं प्रस्थानमचिरादिमार्ग प्रति । इतः प्रेत्याभिसंभवितास्मीति इतः शब्दस्वारस्यात, ‘अस्माल्लोकात् प्रेत्य’ इत्यादिप्रयोगाच्च प्रायणपदं मरणपूर्वकप्रयाणवाच्येव दृश्यत इत्यपि प्रयुः । एवमादिपाठभेदविषये न कुत्रचिन्नैर्भर्यम् । एवं सूत्रसंरक्षणादेव तैस्तैः सूत्रार्थे पृथक्पृथक् वर्ण्यमाने कतमार्थपरिग्रहे सूत्राणामाञ्जस्यमिति विमर्शः तत्रतत्र क्रियमाणोऽवसरं लभते । यथा आनन्दमयाधिकरणादिसूत्रेषु ; सर्वत्र वा । अन्यथा यथाच्छन्दं सूत्रानुपूव्यं कल्पयन्तो यदि स्वाभिमतमर्थं वर्णयेयुः कथं तदा विमर्श एष घटते ।

तत्र श्रीमाण्यतः शांकरे स्थिताः पाठभेदास्तावदेवम्- 1-1-8 हेयत्वावचनाच्चेति सूत्रे चकारार्थत्वेन शांकरदर्शितमंशं प्रतिज्ञाविरोधादिति पृथक्सूत्रेणैव दर्शयति श्रीभाष्यम् । शांकररीत्या सूत्रमिदं न । 1-1-25 12-15 चेतोर्पण निगमादित्यत्र निगदादिति शांकरपाठः । माध्वे निगमादित्येव । सुखविशिष्टाभिधानादेवचेति सूत्रानन्तरम् अतएव च स ब्रह्मेति सूत्रमुपेक्षित शांकरे । प्राच्यपरिदृष्टमिदमित्युक्त्वैव व्यर्थमित्युपेक्षितं मन्यते भास्करीये । श्रीभाष्ये रक्षितमेतत् । 1-2-19 अन्तर्याम्यधिदैवाधिलोकादिष्वित्यत्र शांकरे परम् अधिलोकपदं नास्ति । अनन्तरसूत्रस्थं शारीरश्चेति पदम् उभयेपीत्युत्तरसूत्रारम्भे योजितं तत्र । शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेत्यत्र चकारो न शांकरे । 1-3 - नानुमानमतच्छब्दादिति पृथक् । प्राणभृच्चेति पृथकसूत्रम् । अनुकृतेस्तस्य चेत्येतदनन्तरे अपिस्मर्यत इत्यत्र अपिचेति चकारोऽधिकः । अपशूदाधिकरणे क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिंगादिति सूत्रद्वयमेकीकृतम् । तथा, श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्चेत्येकीकारः । 1.4.26 आत्मकृतेः परिणामादिति सूत्रद्वयमेकीकृतम् । 2-1-11 तर्काप्रतिष्ठानादपीति सूत्रमुतरसूत्रेणकीकृतम् । 2-1-18 असदिति सूत्र वाक्यशेषादिति समाप्य, युक्तः शब्दान्तराश्चेति पृथकसूत्रं कृतम् । नकर्मेतिसूत्रात् पृथक्कृतम्, उपपद्यते चाप्युपलभ्यतेचेति । 2.2-1 प्रवृत्तेश्चेति पृथकसूत्रं कृतम् । । इतरेतरेति सूत्रे इतरेतरप्रत्ययत्वादितिचेन्नोत्पत्तिमात्रनिमित्तत्वादिति अन्यादृशः पाठः नभावोऽनुपलब्धेरिति सूत्रानन्तरं क्षणिकत्वाचेत्येकमधिकं सूत्रम् । 2-3-3 गौण्यसंभवादिति पृथक् ; शब्दाच्चेति पृथक् । प्रतिज्ञाहानिरव्यतिरेकात् शब्देभ्य इत्येकीकृतम् । पृथिव्यधिकाररूपशब्दान्तरेभ्य इत्येकीकृतम् । व्यतिरेको गन्धवदिति पृथक् ; तथाच दर्शयतीति पृथक् ।

28 ः शांकरपाठ मेदः उपादानाद्विहारोपदेशाच्चेति न; विहारोपदेशादिति पृथक् प्रथमम् ; उपादानादिति पृथक् पश्चात् । मन्त्रवर्णाच्चेति चकारः । अपिचस्मर्यंत इति चकारः । प्रकाशादिवन्नैव परः इति तुकारं विना । आभासएवचेत्येक एव पाठः । 8-4-2 गौप्यसंभवादिति पृथक् । तत्प्राक्छ्रुतेश्चेति पृथक् ।

  • ज्योतिराद्यधिष्ठानं तु तदामननादिति पृथक् ; प्राणवता शब्दादिति पृथक् । 8-1-4 अपि च सप्तेति चकारोऽधिकः । 8-1-5 तत्रापि च तद्व्यापारादविरोध इति चकारोऽधिकः । -अन्याधिष्ठितेषु पूर्ववदभिलापादिति बहुवचनान्तम् । 3-2-3 मायामात्त्रमिति सूत्रसमनन्तरमेव सूचकश्चेति सूत्रम् । 8-2-12 नभेदादितिचेदिति नञ आरम्भे अधिकः । 3-2-20 वृद्धिहाससूत्रस्थं दर्शनाच्चेत्येतत् पृथक्सूत्रं कृतम् । 3-2-24 अपि च संराधने इति चकारोऽधिकः 3.2.2 मेदान्नेतिचेन्नैकस्यामपि । मत्र द्वितीयो नञ अधिकः 8.3.3 स्वाध्यायस्य तथात्वे इत्यत्र तथात्वेनेति तृतीयान्तपाठः 8.2-24 पुरुषविद्यायामपीत्यत्र अपिशब्दस्थाने इवशब्दः । अनियमः सर्वेषामित्यत्र सर्वासामिति स्त्रीलिङ्गम् । 3-3-31 3-3-35 अन्तराभूतग्रामवत्त्वात्मन इति पृथवसूत्रम् । अन्यथेत्यादिपृथक् । तत्र उपदेशवदित्यत्न उपदेशान्तरवदिति पाठः 3-3-47 विचैव तु निर्धारणादिति पृथक् ; दर्शनाच्चेति पृथक् । 3.3.54 व्यतिरेकस्तद्भावभावित्वादित्यत्र तद्भावाभावित्वादिति पाठः । 8-4-24 तथाचैकवाक्योपबन्धादित्यत्र वाक्यतेति तत्प्रत्ययोऽधिकः । 27 शमदमेतिसूत्रे तेषामप्यवश्येत्ययम् अपिर्नास्ति । 45 4.2.2 12 20 4-3.4 आर्त्विज्यसूत्रादनन्तरं श्रुतेश्चेत्येकं सूत्रमधिकम् । अतएव सर्वाण्यनु इत्यत्र अतएवचेति चकारोऽधिकः । प्रतिषेधादिति चेन्नशारीरादिति पृथक् । स्पष्टोकेषामिति पृथक् । अतश्वायनेऽपि हि दक्षिणे इत्यत्र हिशब्दोऽधिकः । आतिवाहिकसूत्रानन्तरम् उभयव्यामोहात् तसिद्धेरिति सूत्रमधिकम् । एवं सूत्रपाठभेदः शांकरगतः प्रदर्शितः । तत्रतत्र पदच्छेदाधिकरण मेदादिवैलक्षण्यं त्वन्यत् अर्थविमर्शे वक्तव्यम् ।

भास्करपाठैक्यम्

29 अथ श्रीभाप्यशाङ्करयोर्यत्र सूत्रपाठे भेदो लक्ष्यते, तत्र भास्करेणैकरस्यं यत्र तानि स्थलानि प्रदर्श्यन्ते- (1) (1915 काशीविद्याविलासमुद्रालयमुद्रितभास्करभाष्यग्रन्थतः ) 1-2-16 अत एव च सत्रमेति सूत्रं श्रीभाष्ये लक्ष्यते, यन्न शांकरे। भास्करे तु एतस्य पृथग्व्याख्यान विरहेऽपि एवमभाषि, “अत्रावसरे अत एव तद्ब्रह्मेति सूत्रमन्ये पठन्ति ; तत् पुनः गतार्थमित्यन्यैर्नाभिधीयते” इति । तेनैष पाठः शांकरात् प्राचीनोऽस्तीति विज्ञायते । यथाचास्य सार्थक्यं स्यात्, तथा व्याख्यातं श्रीभाष्ये । टीकायाञ्च अतएवेत्येतदर्थविषये विशेषविचारो यः कृतः, स नूनमिदं भास्करभाष्यं मनसिकृत्यैव स्यात् । स इत्यस्य स्थाने तदित्यनुवादस्तु भास्करे तदश्रद्धानिबन्धनः । मुद्रणाशुद्धयश्च भास्करभाष्ये प्रतिपंक्ति लक्ष्यन्त इति तदुपेक्षणमेव साम्प्रतम् । (2) 1-2-19 अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् इति श्रीभाष्ये पाठः । अधिलोकपदप्रयोजनञ्च शाखान्तरज्ञापनरूपं तत्त्रोक्तम् । पाठोऽयं शङ्करे अनादृतोऽपि भास्करे यथावदाद्रियते । (3) 2-2-19 इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वादिति सूत्रपाठः श्रीभाष्ये । भास्करेऽप्येवमेव । मुद्रणाशुद्धया तत्त्रेषदन्यथाभावप्रतीतावपि भाष्ये वाच्यमानेऽयमेव पाठ इति सुकरं निर्धारणम् । शांकरस्तु ‘इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात्’ इति पाठः सर्वथैव नेति सुज्ञानम् । तत्र मात्रपदेन संघातभाबानिमित्तत्वरूपमर्थमानयति शांकरम् । विस्पष्टमेव सोशः श्रीभाष्यभास्करयोर्निर्दिश्यत इति विशेषः । (4) 2-8-26 गुणाद्वाऽऽलोकषत् इति श्रीभाष्यपाठः । एवमेव भास्करेऽपि । शांकरे तु गुणाद्वालोकवत् इति लोकपदघटितसूत्रपाठसम्प्रदाय एव लक्ष्यते । शांकरभाष्यं तु आलोकवदिति पाठानुरोधेऽपि नासंभवन्निर्वाहमित्यन्यदेतत् । (5) 2-3-45 अपि स्मर्यते इत्येव लक्ष्यते यथाश्रीभाष्यम् ; न तु ‘अपि च स्मर्यते’ इति शांकर इव चकारः । एवं 8.4-37 सूत्रेऽपि । (6) 3-1-15 अपि सप्त इत्येव श्रीभाष्य इव ; न तु अपि च सप्तेति । (7) 3-1-22 तत्स्वाभाव्यापत्तिरुपपत्तेः इति श्रीभाष्ये । अत्र तत्पदं भास्करे शांकरे च नोपलभ्यते । परं साभाव्येति पाठः शांकरसंमत इति भामत्यनुरोधेन वक्तव्यम् । कल्पतरौ स्वाभाव्यपाठमुल्लिख्य भामतीपाठे आदरः प्रादर्शि । भास्करपाठस्तु श्रीभाष्य इव स्वाभाव्येत्येव । (8) 3-1-24 अन्याधिष्ठिते पूर्ववदभिलापात् इति भास्करे श्रीभाष्ये चैकरूपः पाठः ; न तु शांकर इव अन्याधिष्ठितेष्विति बहुवचनम् ।

(9) 82-24 अपि संराधने प्रत्यक्षानुमानाभ्यामिति चकाररहितपाठो भास्करेऽपि । शांकरे तु अपिचेति चकारः । (10) 3-3-3 ‘स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियमः’ इति श्रीभाष्ये पाठः । शांकरे तथात्वेनेति तृतीयान्तं पठित्वा व्याख्यायि । भास्करे तु, ’ तथात्वेअध्ययनाङ्गत्वे ; निमित्तसप्तमी’ इति सप्तम्यन्तपाठस्वीकारः स्पष्टः । ‘; (11) 3.3-24 पुरुषविद्यायामपि चेतरेषामनाम्नात् इति अपिशब्दघटित एव पाठः श्रीभाष्य इव भास्करेऽपि ; न तु शांकर इव अपेः स्थाने इवः । (12) 3-3-48 प्रदानवदेव तदुक्तम् इति सूत्रे शांकरे संकर्षसूत्रोदाहरणे, “नाना वा देवता पृथग्ज्ञानात्” इति पाठोऽस्ति । भास्करीयेतु… पृथक्त्वादिति । एवमेव श्रीभाष्येऽपि । एतस्यैव पाठस्य सामञ्जस्यमस्माभिः परमार्थभूषणे प्रादर्शि । (13) 3-4-45 आर्विज्यमित्यौडुलोमिः तस्मैहिपरिक्रीयते’ इत्येव पठनात् भाष्यशैल्या च श्रीभाष्य इव भास्करेऽपि श्रुतेश्चेति शांकरदर्शितसूत्रपाठो नास्तीति ज्ञायते । (14) 4-2-2 अंत एव सर्वाण्यनु इति श्रीभाष्ये पाठः । शांकरे तु अत एवचेति चकारघटितः । भास्करे तु चशब्दव्याख्यानाभावात् चकारघटनेनैव मुद्रणेऽपि मुद्रणाशुद्धिबाहुल्यस्य तत्रोपलम्भात् शांकरवासनावासितवान्तेन मुद्रणकृता प्रमादात् चकारो न त्यक्त इति यदि मन्येत, तदा श्रीमाष्यैककण्ठयम् । स्वान्नाम कथमपि । (15) 4.2-12 प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् इति विशिष्टमेकं सूं श्रीभाष्ये । शांकरे तु शारीरादित्यत्र सूत्रसमाप्तिः । स्पष्ट इत्यादि पृथक् । प्रतिज्ञातेऽर्थं हेतुमाहेत्यव- 1 तार्य व्याख्यानात्, एकसूत्रतया पाठाच श्रीभाष्य इव सूत्रैक्यं भास्करे स्पष्टम् । पूर्वपक्षसिद्धान्तरूपेणा- कल्पनया शांकरव्याख्यानसरणिस्तत्राप्युपेक्षितैवेति । (16) 4-8-4 आतिवाहिकास्त लिंगादित्येतदनन्तरं शांकरदृष्टम् उभयव्यामोहात् तत्सिद्धेरित्यधिकं सूत्रं न भास्करीये । एवं पञ्चदशाधिकेषु स्थलेषु भास्करीयपाठः शांकरराद् विलक्षणो दृष्ट इति श्रीभाष्यकृतां साम्प्रदायिकः सूत्रपाठः प्राच्यपरसंमत इत्यवधार्यते ।

सूत्रे माध्वपाठविशेषः

(1) 1-2-25 छन्दोभिधानादिति सूत्रे निगमादिति पाठो यथाऽस्माकम् 1.3.23 अपिस्मर्यते इति चकारं विना । 3-4-37 सूत्रेऽपि । 3-1-26 अन्याधिष्ठिते इत्येकवचनमेव 8-3-84 पुरुषविद्यायामपि चेति अपिरेव ।

(2) माध्वपाठभेदः 3.3-32 अनियमः सर्वेषामिति ; न तु सर्वासामिति । 3-83.37 अन्यथाभेदेतिसूत्रे उपदेशवदित्येव, न तु उपदेशान्तरवदिति । व्यतिरेकस्तद्भावभावित्वादित्येव, न तु अभावित्वादिति । 3-3-56 34 24 तथाचैकवाक्योपधात् इति अस्मद्वत् । 3-4-44 आर्त्विज्यसूत्रानन्तरं श्रुतेश्चेति सूत्रे नास्ति । एवमस्मदैक्यमुक्तम् । अथ तत्र सर्वापेक्षया विशेषा उच्यन्ते — 1-2-28 शब्दादिभ्य इति सूत्रे पुरुषमित्यत्र पुरुषविधमिति । प्राज्ञोहीत्यत्र सूत्रपूर्तिः । प्रकरणादिति पृथक् सूत्रम् 145 1-4-10 2-1-4

31 ज्योतिरुपक्रमा इत्यत्र ज्योतिरुपक्रमादिति पञ्चम्यन्तम् । नविलक्षणत्वादिति सूत्रानन्तरमेव ‘दृश्यतेतु इति सूत्रम्; तदुपर्येव अभिमानीति सूत्रम् । तदनन्तरं ‘दृश्यतेच’ इति सूत्रान्तरमधिकम् । 2-3-18 ज्ञोतएवेति सूत्रानन्तरम् ‘युक्तेश्व’ इति अपूर्वं सूत्रम् । 2.4.2 गौण्यसंभवात् तत्प्राक्श्रुतेश्चेति सूत्रयोर्मध्ये ‘प्रतिज्ञानुपरोधाच’ इति अपूर्वसूत्रम् । 3-1-22 तृतीयेशब्दावरोधः इति तृतीयशब्दः सप्तम्यन्तः । 23 3-2-32 3 2 37 3-2-38 तत्सूत्रानन्तरं ‘स्मरणाच’ इति अपूर्वं सूत्रम् । परमत इति सूत्रानन्तरं ‘दर्शनात्’ इत्येकं सूत्रम्, ‘सामान्यात्तु’ इति सूत्रं नास्ति । तथान्यप्रतिषेधादित्यत्र ‘अन्यत्’ इति पृथक्पदम् । अनेनेति सूत्रे आयामशब्देति न पाठः ; किंतु सर्वगतत्व - मायामयशब्दादिभ्य इति मायामयशब्दघटितमेकं पदम् । 3.3-3 स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्चेति पृथक्सूत्रम् । अथ सलिलवच्च तन्नियम इतिपृथक् । सवपदस्थाने सलिलपदम् । 3-3-32 अनियमः सर्वेषामविरोधादिति पञ्चम्यन्तम् 3.3.34 अक्षरधियांत्वविरोध इति पाठः । न तु अवरोधः इति 3-3-36 अन्तराभूतग्रामवदिति चेत् तदुक्तम् इति सूत्रपाठः । 3-3-42 उपस्थितेऽतस्तद्वचनादित्यत्र अत इति पदं न । 3.8-44 प्रदानवदेवहि इति हिशब्दोऽधिकः । 3-3-51 अनुबन्धादिभ्य इति पृथकसूत्रम् । प्रज्ञान्तरेत्यादि पृथक् । तत्र दृष्टश्वेत्यत्र दृष्टिश्वेति पाठः । 3-4-39 अतस्वितरदिति सूत्रानन्तरं ‘विशेषानुग्रहश्च’ इति सूत्रमस्ति वेति विचार्यम् । 3-4-40 अनन्तरे तद्भूतस्येति सूत्रे नियमातद्रूपाभावेभ्य इति पाठः ।

32 3-4-42 उपपूर्वमितिसूत्रे भावमशनवदित्यत्र भावशमनवत् इति पाठः । 4.2-19 निशीति सूत्रे संबन्धादिति पञ्चम्यन्तम् ; न तु संबन्धस्येति । यावद्देहेत्यादि पृथक्सूत्रम् । एवं माध्वे अस्मदैक्यं तत्रतत्र सर्ववैलक्षण्यञ्चोक्तम् । अन्यत्र सर्वत्र शांकरैक्यं मन्तव्यम् । एवं सिद्धः साम्प्रदायिकः सूत्रपाठ भेदः

भावप्रकाशिकाकृत-संमतटीकापाठाः

-0-0-0- भावप्रकाशिकाकृत-संमतटीकापाठाः अथ तत्रतत्र भावप्रकाशिकादर्शितः टीकावाक्ययथावस्थितपाठोऽत्र संकलय्य प्रकाश्यते, परिशीलनेन समुचितपरिग्रहार्थम् । तत्रतत्र भावप्रकाशिका घृतप्रतीकदर्शनमात्रेण पाठभेदोलेखस्तु संभवन् स्वयमेव विमृश्य निर्णेय इति नात्र तदंशोद्धारः । तत्रतत्र टीप्पणीमपि दृष्ट्वा परिशीलनं कार्यम् - 28 फलप्रदतया शेषत्वमस्त्वितिचेदिति । …… ‘फलप्रदतया शेषित्वमस्तु’ इति पाठेऽपि इत्यादि । 34 ग्रहणशेषतया विनियुक्तस्येति । ग्रहणशेषतया अविनियुक्तस्येति छेदः । 51 क्वचिश्वावयवावयवभूतप्रणवाद्युपासनं विधीयते, ओमित्येतदक्षरमुद्गीथमुपासीतेति’ इति पाठः समीचीनः । मध्ये, तत्रोद्गीथावयवभूतप्रणवोपासनं विधीयते इति कचित् पठ्यते । न तस्य सामीचीन्यं पश्यामः इति । 54. अत्र - सूत्रमुपादत्ते आवृत्तिरिति । आवृत्तिद्वयत्त्रयव्यावृत्त्यर्थमसकृदिति सौतं पदम् । उपासनशब्दाश्रवणात् सूत्रस्य तत्परत्वमस्फुटमिति तस्यार्थमाह तदिदमिति — इति पाठः समीचीनः । केचित्तु इत्यादि । 75 उपायप्रतिबन्धकनिरासार्थमिति छेदः । (छेदः -वाक्यसमाप्तिः) 86 उभयलिंगत्वं साकारनिराकारत्वं साकारत्वञ्चेत्यन्वयः -इत्यादि । 106 अनुभूतिरिति व्यवहारे चेत्यर्थः’ इत्ययं ग्रन्थो लेखकस्खलनकृतः ; परत्र, प्रकाशत इति व्यवहारस्योत्पाद्यत्वेन अनुभूतिरिति व्यवहारस्यानुत्पाद्यत्वादिति द्रष्टव्यमिति । । 110 यद्वा अप्रामाणिकाहम्प्रत्ययगोचरत्वेन हीति । अस्मिन् पक्षे इत्यादि । केचित्तु …. अभ्युपगन्तव्यमित्यर्थ इत्यस्यानन्तरं यद्वेति पद कोशेषु दृश्यते । न तस्य सम्यक्त्वं पश्यामः । अप्रामाणिकेत्यादेः ’ अहमर्थादिति भाष्यावतारिका रूपत्वस्यैव युक्तत्वात् । अत एव अहम्प्रत्ययगोचरादिति न प्रतीकग्रहणम्, किंतु अहमर्थादिति…. आहुः इति ।

112 प्रतिजानाति । वक्तुमुत्कण्ठत इत्यर्थः । प्रतिजानीते इति पाठः सुगम एव । केचित्तु परम पुरुषशब्देनोपेयम् इति ग्रन्थे प्रतिजानातीति पाठो युक्तः । इह तु प्रतिजानीते इत्येव । लेखकदोषात् व्यत्यस्तमिति ।

118

33 कल्पनामपि व्युदस्यति त्रिकोणेति इति ग्रन्थानन्तरम् यद्वा अनुपपत्ति व्युदस्यति चिकोणेति इति पाठः सुगमः । 151 दूरोपलब्धगन्धानामिति हेतुगर्भविशेषणम् । कर्पूरादीनां दूरोपलब्धगन्धत्वादित्यर्थः । अतश्च यत् कैश्चिदुक्तम् इदं प्रक्षिप्तमिति तन्निरस्तम् इत्यादि । … .. 156 न व्यभिचरति प्रकाशो यस्य सत्तामिति । अत्र केचित् न व्यभिचरति प्रकाश यस्य सत्तेति पाठः समीचीनः तस्यैवार्थस्यो चितत्वात् ।… भाष्यस्याव्यभिचरितपदस्य कर्मणि क्तप्रत्ययान्तत्वेन …. । ; 161 अत्र केचित् — भाष्ये केयं तच्छायापत्तिरिति पाठो युक्तः ; पूर्वत्र तच्छायापत्त्येत्युक्तेः । ततश्च…… विकल्पो युज्यते इति । अनहमि अहम्बुद्धिगर्भाविमौ अहम्भावाहङ्कारशब्दाविति पाठो दृश्यते । तत्नाहम्भावशब्दो लेखकस्खलनकृतः इत्यादि । 177 लेखक स्खलनकृत इति टीकामुपादाय – अत्र केचित् — अज्ञातस्वतिमिरस्येति टीकासंमतभाष्यपाठमुपेक्ष्य ज्ञातस्वतिमिरस्येति पाठाद्रियन्ते इति । 196 (3) उदीयमानमिति पाठे इणू गताविति धातोः रूपमिति द्रष्टव्यम् । 197 पर्यवसितं युक्तमिति पाठः 221 अनुसंधानायोपदेश इति निर्देशः मशकेभ्यो धूम इतिवत् द्रष्टव्यः । तथाऽननुसंधानायेति वा पाठः । केचित्तु - तथानुसंधानाय अनुपास्यत्वेनानुंसंघानायेत्यर्थ इति । [टीकोदाहृतं पढइ इति पद्यं तावत् भावप्रकाशिकायामेवं पठितम् । “पढइ परासरसद्दं सोवि जुआ सरसकव्वदुल्ललिओ । अंहो कालस्स गई अह्येवि णिअं पदं गमिआ ।” छाया—पठति पराशरशब्दं सोऽपि युवा सरसकाव्यदुर्ललितः । अहो कालस्य गतिः वयमपि निजं पतिं गमिताः ] 223 सत्यत्वज्ञानत्वादिरस्ति चेत् स स्वरूपातिरिक्त इति दर्शयितुं स्वभावशब्द इति समीचीनः पाठः । सत्यत्वज्ञानत्वस्वभावोऽस्ति चेत् इति पाठे स्वभावशब्दो धर्मपरः । 2-14 ‘स्मृतेः स्मर्यमाणसमकालवर्तित्व नियमाभावात्’ इत्यनुवादः । टीकायां तु स्मर्यमाणस्य च स्मृतिसमेत्येवम् । 280 ऐन्द्रामश्चेति षड्यागाइति । अत्र ऐन्द्रौ द्वौ आमेयश्चेति षट् यागा इति पाठः समीचीनः । ऐन्द्रामश्चेति पाठे एवमभिप्रायं केचिदाहुरित्यादि । 2-80 उत्पत्तिवाक्यैः यदामेयो.. पाठक्रमस्तु समीचीनः । उ-५ पृथगुत्पन्नान् पृथक्प्रतिपादितान् इति

34 भा. प्र. दर्शितटीकापाठाः 285 व्युत्पन्नकः कूजतिशब्देनेति सुगम एव । क्वचित् पाठः व्युत्पन्न कूजतिशब्देनेति … पाठः 2-88 भाष्ये एनमवेहीति । क्वचित् कोशे अवैहीति पाठो दृश्यते । स तु लेखक स्खलनकृतः । 2-91 गां क्रीणीहि इति । विकीणीहि इति कचित् कोशे पाठो दृश्यते । तत्र विशब्दो . लेखक स्खलनकृतः । इतरथा ‘परिव्ययेभ्यः क्रियः’ इत्यात्मनेपदप्रसंगात् । 2-91 विषिण्वन् विषय उच्यते इति पाठः समीचीनः । विपूर्वात् सिनोतेर्निष्पन्नत्वात् विषयशब्दस्य । 2-93 , इति न हि दण्डचक्रादिर्घटो भवतीत्ययं ग्रन्थः, कुत इत्यत्राह दुःखात्मकत्वात् ग्रन्थात् पूर्वं पठितव्यः । न कापि पठितव्यो वा ; अनतिप्रयोजनकत्वात् । अतो व्युत्क्रमेण प्रतीकग्रहणशंका न कार्या । 2-107 कारणमनूद्यते इति पाठः समीचीनः । उत्तरत्र कारणस्य ब्रह्मत्वं विधीयते इत्युक्तेरिति द्रष्टव्यम् । 2-110 शाखाग्रमुपलक्षणमित्यस्यानन्तरम्, ‘कालविशेषे देशविशेषसंबन्ध उपलक्ष्याकारः । शाखाप्रचन्द्रयोश्च ऋजुपदेशवर्तित्वं संबन्धः’ इति पाठश्चेत्, सुश्लिष्टः इति । 2 - 128 तृतीया चेत्थम्भाव इति । केचित् तु कार्यत्वेनोत्पत्तिविनाशयोः कल्पनेपीति वा करूप्यमानयोरिति वा अध्याहृत्य व्याचक्षत इति । ( अत्र भाष्यपाठयाथात्म्यं विचार्यम् ) 2-145 द्रष्टव्य इति तस्य दर्शनरूपतेति कचित् कोशे पाठो दृश्यते । तस्य न सम्यक्त्वं पश्यामः । ….तद्धघाननियोगेन तत्साक्षात्कारफलेनेत्युत्तरभाष्यतद्वयाख्यानानुगुण्याभावाच्चायं ग्रन्थो लेखक स्खलनकृतः इति प्रतिभाति । केचित्तु इत्यादि । 2-166 भ्रामकतयेति कचित् पाठो दृश्यते । तत्राण्यन्तत्वे नोदाचोपदेशस्य इति वृद्धि निषेधप्रसंगेन, ण्यन्तत्वे मितां ह्रस्व इति हखत्वप्रसंगेन भ्रामकेति रूपासिद्धावपि, प्रज्ञादिभ्यश्चेति सिद्धिः । यद्वा मितांहखः इति सूत्रे केचित् वेत्यनुवर्तयन्तीति काशिका । 2-204 एतत्कालादिविशिष्टतया ज्ञातत्वमिति छेदः । 2-209 [बाहीको नामेति “पश्चानां सिंधुषष्ठानामन्तरं ये समाश्रिताः । बाहीका नाम ते देशाः न तत्र दिवसं वसेत् " । भावप्रकाशिकायामविद्यमानमपीदमुपयुक्तत्वादुक्तम् ।] 2-230 मन्त्राणां प्राबल्यं केचित् वदन्तीति कोशेषु दृश्यते । प्रथमसूत्रे मन्त्रापेक्षया ब्राह्मणप्राबल्यवादोऽनुपपन्न इत्युक्तेः तदविरोधाय मन्त्राणामप्राबल्यमिति पाठो युक्तः । केचित् इत्यादि । 2 271 स्थानविशेषादुपरिस्थितिरिति । स्थानविशेषस्थोपरिस्थितिरिति पाठः समीचीनः । यद्वा कर्तरि क्तप्रतिपतिरिति । क्त इत्यनेन तप्रत्ययान्तजन्यप्रतीति [पति]र्लक्ष्यत इति भावः [अत्र टीकायामन्यथा लक्ष्यते] 2-293

भा. प्र. दर्शितटीकापाठाः 35 2310 द्रव्यसंस्कारकर्मसु परार्थित्वात् फलश्रुतिरर्थवादः स्यात्’ इति जैमिनीयसूत्रपाठः । द्रव्यगुण संस्कार कर्म स्विति कचित् पाठो दृश्यते । स तु लेखकस्खलनकृतः । 2 - 317 इतीत्यस्यानन्तरं सूत्र इति क्वचित् कोशे पठ्यते । न तस्य प्रयोजनं पश्यामः इति (अत्र टीकायां भ्रष्टानि वाक्यानि तालकोशे उपलब्धानि अत्र मुद्रणे योजितानि । अतः सप्रयोजनम् ) । 2-325 अत इतीत्यस्यानन्तरं राद्धान्ते अदृश्यत्वेतीति कोशेषु पाठो दृश्यते । तस्य मन्दप्रयोजनस्यापि शिष्यावधानार्थत्वमिति । 2338 शारीराद्विशिनष्टिीति । शारीरादित्यनन्तरं विलक्षणत्वेनेत्यध्याहार्यम्…….. विशिनष्टि प्रधानात् पुरुषाचेत्यस्य व्यावर्तयतीत्यर्थ इति हि प्रकरणं प्रधानात् पुरुषाच्च इति भाष्य. तत्रत्योत्तरवावयान्त्रितत्वादिति । ( एतदनुगुणो भाव्यपाठो ग्राह्य ः ) 2350 द्यप्रभृतिमूर्धत्वादिसंपादनमिति पाठः । मस्तकचिवुकान्तराले इत्येतत् काकाक्षिन्यायेनोभयत्र संबध्यते ।

द्वितीयसंपुटे

8 वाक्कर्तृकमुक्त (?) प्रत्यभिज्ञानादिति पाठः समीचीनः । ‘विग्विमुक्तैः’ इति परैरुक्तेः । 11 सप्राणनिष्प्राणविषयोपमर्द तदभावयोरिति पाठः क्वचित् दृश्यते । सप्राणनिष्प्राणविषयोपमर्दयोरिति पाठः समीचीनः । 33 भाष्ये – स्यादेतदेवम्, यदि श्रुतिरेव दहराकाशं न व्यभक्ष्यत् । व्यभाक्षीत्तु सा इति पाठः ; विभजनस्यैव प्रकृते विवक्षितत्वात् । 34 परमात्मनोऽन्तवर्ति तत्कारणं सूक्ष्मं किमपि न संभवतीति, ‘किं तदत्र विद्यते’ इति वाक्येनाक्षिप्य – द्यावापृथिव्यादिकार्यस्य तदन्तवर्तितया समाधानमिति…. परैर्वर्ण्यत इति पाठो बहुषु कोशेषूपलभ्यते । 51 (वस्तुमात्रैक्येत्यस्य स्थाने स्वरूपमात्रपरत्वे इति प्रतीकग्रहणम् ) 61 योग्यानुपलम्भस्त्विति पाठो दृश्यते । तत्र योग्यपदं संपातायातमिव भाति । प्रत्युत उपलम्भायोग्यस्यैव प्रदर्शनीयत्वात् । 1 62 अत्र सरूपसृष्टिनियमानुपपत्तेर्वैरूप्यसंभवात् द्वितीये तु या व्यक्तिरिति पाठः समीचीनः । मध्ये ततश्चेत्यादिग्रन्थस्तु द्वितीयपक्षान्वितत्वादधिक इति प्रतिभाति । कोशाश्च निरीक्षणीयाः । 75 विद्याशब्दं व्याचष्टे विद्या - वेदविद्येति । अत्राध्ययनमिति क्वचित् पाठो दृश्यते । स तु लेखक स्खलनकृतः । 77 अध्ययनत्रतोपनयनादय उच्यन्ते इति । अत्र चोपनयनपदं लेखकप्रमादादागतम् । 97 प्रधानपुरुषादिप्रतिपादनमुखेनेति । प्रधानादीनां प्रतिपादनमुखेन प्रधानादिकारणत्वप्रतिपादनच्छायानुसारीणीति पाठस्तु समीचीनः । कोशस्तु निरीक्ष्यः ।

36 103 प्रकृतिभावस्मरण। प्रकृतिवद्धावस्मरणेति कचित् पाठो दृश्यते । स तु लेखक स्खलनकृतः । 106 निरुह्यत इति पाठ इत्यादि । 106 मत्वा धीरो हर्षशोकौ जहातीति निर्दिष्टस्य ब्रह्मोपासनस्येति पाठः । धीरो न शोचतीति पाठो लेखकदोषात् । तस्याप्रकृतत्वात् । 9 115 भाष्ये सिद्धान्ते चमसवदविशेषादिति सूत्रोपादानानन्तरम् ’ नात्र तन्त्रसिद्धा प्रकृतिर भधीयते’ इति केषुचित् कोशेषु दृश्यते । तत् अदृष्टश्रुतप्रकाशिकैः पण्डितम्मन्यैः प्रक्षिप्तम् । उपक्रमस्थं प्रतिज्ञावाक्यमनुषज्यत इति मत्वेति टीकोक्तेः । 116 यथेति न श्रुतिपदमिति पाठः । स च श्रुतिभ्रान्तिनिवारणार्थ इति । ( मुद्रितटीकाको शेषु नन नोपलभ्यते । श्रुतौ यथेतिपदाभावात् तदसत्त्वमयुक्तमिति भावः ) पश्यामः । 126 128 139 अन्नशब्दं व्याचष्टे अन्नस्येति इति द्विः पठ्यते । न तस्य प्रयोजनं पश्यामः । एकस्मादित्यस्य एकरूपात् कारणादिति व्याख्यानं दृश्यते । न तस्य सामीचीन्ये । इति हि श्रुतिरिति । तौ ह सुप्तं पुरुषमाजग्मतुरिति कचित् भाष्यकोशे पाठो दृश्यते । स तु लेखकानवधानकृत इति भावः । 153 दुन्दुभिशब्दे अध्यस्ता इति पाठो दृश्यते । तस्यायमर्थः — दुन्दुभिशब्दादव्यतिरिक्ता इति । विशेषस्य सामान्ये ऽध्यासाभावात् । 173 अध्यासो भवितुं युक्तमिति अन्योन्यस्मिन् ति च विषये युष्मदर्थं इति पाठो दृश्यते । तत्र भवितुं युक्तमितीत्यस्यानन्तरम्, आक्षिप्य तथापीति शेषः पूरणीयः । 182 त्रय एव यज्वानः इति एवकारः कोशेषु दृश्यते । तस्य नातीव प्रयोजनं पश्यामः । 239 यद्यप्यत्र कल्पिकाविद्या इति बहुश आवृत्त्या पठ्यते । तस्य च निर्वाहः संभवति तथापि कल्पका विद्येत्येवम् इत्वरहितः पाठ इति द्रष्टव्यम् । [ एष न्यायः भाष्योपक्रमे आच्छादिकाविद्येत्यत्रापि ग्राह्यः ] 259 अयं स इति या प्रत्यभिज्ञा साऽत्रोच्यते इति पाठश्चेत् समीचीनः । अयं स इति ज्ञानमभिज्ञा ; साऽत्रोच्यत इति पाठे तु न सामीचीन्यम् । 270 चन्द्रद्वित्वाभावेऽपि चन्द्रो बहुधा विभज्यते इति पाठो दृश्यते । वस्तुतश्चन्द्राने कत्वामावेऽपि चन्द्रोऽनेकधा प्रतीयत इत्यर्थः । 279 प्रत्यनुमानोपयोगीनीं व्याप्तिं शिक्षयतीत्यत्र प्रत्यनुमानं दर्शयति न भवदुक्तमिति इति पाठः समीचीन इति केचित् वदन्ति । 297 अत्र तृष्णा वाक्कायचेष्टेति कचित् पठो दृश्यते । तत्र मध्ये लेखकदोषात् ग्रन्थलेशः पतितः । एवं हि वाचस्पतिग्रन्थः…

उभयवेदान्तमन्थमाला 37 344 पठ्यते । तत्र पूर्वशब्दो न विप्रतिषेधमात्रं पूर्वपक्षितम् ; नाप्युत्पत्ति सिद्धान्त्येकदेशिमतं कृत्वेति पाठः । 389 पूर्वाधिकरणविषयवाक्यस्थेति केषुचित कोशेषु पठ्यते । लेखकदोषायतः । 417 अयं लोको नास्ति पर इतीति । आचार्यस्तु चशब्दमध्याहृत्य व्याचक्षते - अत्र चामुत्र च मुखं नास्तीत्यर्थ इति । [ टीकामनुरुध्य भाष्येपि अयं लोको नास्ति न पर इति मुद्रितवन्तः । भाष्यार्थदर्पणो द्रष्टव्यः ] 418 जज्ञे ममारेति भूतार्थता वेति उत्तरेण च संबध्यते । जज्ञे मम्रे इति कचित् पठ्यते …. पुरीमवस्कन्द लुनीहि नन्दनमित्यादिवदित्यत्र भूतार्थता वेत्यनुकृप्यते इति । [इह मत्रे ममारेति पाठभेदादिकं द्रष्टव्यम् ।] 419 याम्या यातना इति । यमाच्चेति वक्तव्यमिति व्यप्रत्ययः । यामीर्यातना इति पाठे तु निर्वाहान्तरं द्रष्टव्यम् । 445 तर्हि निष्प्रपञ्चं ब्रह्म कीदृशम् अत्राहेति क्वचित् पाठो दृश्यते । स तु चिन्तनीयः । 456 सर्वस्मात् परत्वं प्राप्यत्वमिति पाठो दृश्यते । तस्यायमर्थः – प्राप्यत्वोपयुक्तं सर्वस्मात् परत्वमित्यादि । 457 शास्त्रं दर्शयति एवं वेदेऽपीति कचित् पठ्यते । स तु न समीचीनः । शास्त्र दर्शयति तथा यजेतेति इति बहुषु कोशेषु दृष्टः पाठः समीचीनः । 460 एकसंज्ञकत्वेन एकफलत्वेन श्रयमाणा इत्यर्थ इति पाठः । 460 एकस्यामपि शाखायामिति छेदः । 465 आसन्य (न्य ?)मिति । आसन्नमिति स्वार्थे ष्यञू ; मुख्यमित्यर्थ इति । लोके हि श्रेष्ठ आसन्नो भवति… केषुचित् कोशेषु । 467 मासमात्रहोमसमाप्तिकमिति ।… अत्र होमशब्दः संपातायातः । 477 पूर्वमेव वर्णकमपरैरादृतमिति पाठः । 480 एतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इत्यत्र वेदने विधिप्रत्ययश्रवणादिति पाठश्चेत्समीचीनः । 489 केषुचित् कोशेषु समयाविषिते-समया उदिते इत्यर्थ इति पठ्यते । तस्य वाक्यस्यायमर्थः साम्प्रदायिकः । उदितशब्द प्रकाशमानपरः । समयाविषिते अघ प्रकाशमाने । अर्घास्तमिते इत्यर्थः पर्यवसितः । अस्य ग्रन्थस्य बहुषु कोशेषु पाठश्च न दृश्यते । 492 तद्वदिहापीति छेदः । 496 अर्चिरादिगतिमत्त्वप्रतिपादनं दर्शयति छान्दोग्ये य इत्थं विदुरिति कचित् कोशेषु पाठो दृश्यते । तत्र छान्दोग्य इत्येतत् लेखकदोषकृतम् ।

38 भा. प्र. दर्शितटीकापाठाः 498 किं मैत्रेयीब्राह्मणश्रुतमित्यत्र मैत्रेयीशब्दो लेखकस्खलनकृतः । गार्गीब्राह्मण इति पठितव्यम् । . भोजनलोपे लोपः तच्च कौण्डपायिनामयनाग्निहोत्र इति क्वचित् पाठो दृश्यते । तच्चेत्येतत् संपातायातमिव भाति । 512 अत्र पूर्वकाण्ड सिद्धमित्यस्यानन्तरम्, ‘एक निष्पत्तेः सर्वे समं स्यात्’, ‘पदकर्माप्रयोजकं नयनस्य परार्थत्वात्’ इति पाठः समीचीनः । 518 मानसग्रह सामान्येन न क्रियाशेषत्वमिति पाठः । 517 किमेते मनश्चिदादयः … इति । इष्टकचितादिवत् अकारान्तत्वभ्रमात् लिखितम् तदनादरणीयम् । मनश्चिदादय इत्येव पाठः । 521 अयं लोको भूरिति पाठः 527 एतमेवमात्मानं वैश्वानरमुपास्त इत्यादिष्वित्यर्थ इति । एष वै सुतेजा आत्मा वैश्वानरः इत्यादिना तेषु तेषूपासनेषु उपास्यस्य वैश्वानरत्वञ्चाहेति भाष्ये स्फुटान्वये, एवं व्याख्यानमयुक्तमिति मन्यमाना इमं ग्रन्थं लेखकप्रक्षिप्तं वर्णयन्ति ।… प्रक्षिप्त इत्येव युक्तमिति । केचित्तु — इत्यादि । 560 तदप्रामाणिकत्वं सिद्धान्तयन्तीत्यस्यानन्तरम्, न चाधिकारिकमपीत्यधिकरणान्तरम् ; नैष्ठिकादीनामाश्रमभ्रष्टानां प्रायश्चित्तसंभवासंभवपरं वर्णयन्तोऽसंभव इति सिद्धान्तयन्तीति केषुचित् पाठो दृश्यते । स त्वग्रन्थः लेखकदोषायत्तः । केचित्तु इत्यादि । 568 उतार्थान्तरं मननरूपमित्यस्यानन्तरम् ‘मुनिशब्दस्य प्रकृष्टमननशीले व्यासादौ प्रयोगदर्शन मर्थान्तरत्वमुपोइलयति, नेति पाठोऽस्ति चेत्, समीचीनः । 566 द्वितीयसूत्र निर्वाहस्योत्तरं दत्तमिति । (टीकापाठोऽन्यथा) 571 नवेति विचारयन्ति, तदयुक्तमित्यस्यानन्तरं ज्ञानवेदनशब्दान्वितेति वाक्यं पठित चेत् सुसंगतमिव भाति । पाठो निरीक्ष्यः । 572 मुक्तस्य सर्वज्ञत्वे इत्याक्षेपश्च, ननु मुक्तस्यानन्दाधिक्ये इत्याक्षेपश्च प्रासङ्गिकः इति, नाशङ्का कार्या । केचित्तु अत्र कानिचित् वाक्यानि पतितानीति मन्यन्ते । 578 ब्रतमतिवत् आदित्यादिमतयोऽपीति चशब्दार्थ इति ग्रन्थो राद्धान्तव्याख्याने उत्कृष्टश्चेत् — सुश्लिष्ट इव भाति । 578 उद्गीथादीनां क्रियारूपणामिति पाठः । कर्मसमवायितयेति कचित् पाठो लेखकानवधाननिबन्धनः । 579 तत्र क्षत्त्रध्यासाभावादिति क्वचित् पाठो दृश्यते । न तस्य सामीचीन्यं पश्यामः । भूतसूक्ष्मांशा विवक्षितां इति वाषयस्यानन्तरम्, उपगमः संबन्ध इति पाठः समीचीनः । 596 598 तथा दर्शनात् । भा. प्र. दर्शितटीकापाठाः 89 व्याख्यातंत्र्यात्मकत्वादितीति । व्यात्मकत्वात्तु भूयस्त्वादितीति पाठः । शांकरभाष्ये 603 मृतत्वाभावरांकां शमयितुमिति पाठः । 617 माप्ये, अर्चिः पर्यायत्वेनेति… अर्चिष्पर्यायत्वेनेति भवितव्यम् । यथा सर्पिष्कुण्डिका इति चेत्… षत्वं न भवति ।… अर्चिष्प्रभृतिष्वित्येव बहुषु कोशेषु पाठो दृश्यते । 617 देवलोक शब्दाभिहितात् वायोरुपरीति काचित्कः पाठः । (षष्ठ्यन्तपाठो मुख्य इति) 913 भाष्ये कचित् कोशेपु. ‘स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकम्’ इति वरुणेन्द्रलोकयोर्मध्ये आदित्यलोकपाठो दृश्यते । स तु न प्रामाणिकः परे तु इत्यादि । 619 लोकत्वसाधक हेतुरर्थसिद्ध इति । । विजिहीर्षत इति विहरणेच्छाप्रतिपादनादिति भावः । इदं च विजिहीर्षत इति काचित्कपाठमभिप्रेत्योक्तम् । 633 रूपं साध्यमित्यर्थ इति ग्रन्थानंन्तरं एवञ्चेति प्रतीकग्रहणं दृश्यते, तत् स्वेनशब्दः कथमित्यत्राहेति ग्रन्थात् पूर्वमेव द्रष्टव्यम् । कोशान्तरं वा निरीक्षणीयम् इति । एषु अनेके अंशाः टिप्पणे विचारिताः केचित् त्यक्ता इति तत्रैव द्रष्टव्यम् । -0-