तथापि मृदात्मको घटः चिदचिदात्मकः प्रपञ्चवदिहापि ऐतदात्म्यमिदं सर्वमिति स्वोपपदात्मशब्दश्रवणेन तादात्म्यमित्यादाविवात्मशब्दस्वरूपपद एव युक्त इति सोऽपि न निर्णायक इतीमां शङ्कां पराकर्तुमादेशब्दपरात्मशब्दञ्चावयवार्थानुगुण्ये निर्वक्ति - भवानेवादेष्टा बहिरबहिरात्मा च जगतां मुमुक्षामक्षुद्रां घटयसि विमुक्तिं जनयसि । अहेयस्त्वं1 ध्येयस्त्वमुपनिषदामेकविषय- स्त्वयि ज्ञाते सर्वं विदितमिति बह्व्यः प्रमितयः॥१०॥ चिदचिदात्मकस्य कृत्स्नस्य जगतः आदेष्टा एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः। द्यावापृथिव्यौ विधृतौ तिष्ठत इत्यादिश्रुतिप्रसिद्धः अन्तःप्रविश्य नियन्ता तथा अन्तर्वर्तिश्च तत्सर्वं व्याप्य नारायणः स्थितः इत्यादिषु प्रसिद्धः सर्वव्यापकश्च भवानेव।
- D.M. अमेयस्त्वं नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
149 आदेशशब्दाभिहितं प्रशासितृत्वं तदुपयुक्तमात्मशब्दाभिहितमन्तर्बहिर्व्यापकत्वं च भवत एवासाधारणमित्यर्थः। तथा चान्तःप्रविष्टश्शास्ता जनानां सर्वात्मेति प्रशासितृत्वसर्वात्मत्वयोः परस्परोपकारकत्वदर्शनादिहाप्युपक्रमशतादेसशब्दोपसंहार-
आश्रुत-आत्मशब्दश्च उक्तार्थपरावेवोपक्रमोपसंहारैकवाक्यतावशादिति हृदयम्। यद्यप्यादेशशब्दः पिता पुत्रसंवादरूपायिकास्थः। न तु सद्विद्योपक्रमस्थः तथाप्याख्यायिकायाः करिष्यमाणोपदेशार्थतया तदेकवाक्यत्वान्न दोषः इदमत्राकूतम्। यद्यप्ययमादेशशब्दो घञन्तः तथापि प्रशासितृत्वमेवाभिधत्ते नोपदेश्यत्वं आङ्-पूर्वस्य दिशेःप्रकाशने रूढत्वात्। आदिशतीत्युक्तेत्याज्ञापयतीत्येवार्थः प्रतीयते नोपदिशतीति न हि मन्त्रिणो राजानमुपदिशन्तीति वत् आदिशन्तीति प्रयोगः क्वचिदपि दृश्यते। अत एवाह न्यासकारः - अच् पूर्वादिशिन्नियोक्तृप्रयोजनवचनः उपपूर्वस्तु नियोज्य प्रयोजनवचन इति नियोक्तरि प्रयोजनं यास्यति। स्वार्थस्य वाचकः एवमुत्तरत्र यद्यप्यथातोऽहङ्कारादेश इत्यादौ क्वचिदुपदेशेऽपि दृष्टप्रयोगः। तथापि प्रचुर-
प्रयोगानुग्रहाय एष आदेशः, एष उपदेश इति पृथङ्निर्देशानुगुण्यायादेशशब्दार्थो नियन्तृत्वमेवेति निर्णये सत्यहङ्कारशब्दिताहङ्ग्रहणोपासनस्य नियन्तृत्वासम्भवात्। उपदेश्यत्वमेव लक्षणया देशशब्देन बोध्यताम्। न तावताऽन्यत्रापि तथात्वं मुख्यार्थबाधस्यायुक्तत्वादित्थञ्च न्यासकारोक्तमप्यनुकूलिता भवति। उपदेशसाधारणत्वे हि तद्ग्रन्थविरोधस्स्फुट एव। तदेवं प्रकृतिस्वारस्यान्नियन्तृत्वे प्रतीते परमात्मनेति जगन्नियमने कर्मत्वायोगात्। कर्तृत्वमेव घङन्तो वाच्यः। न चाकर्तरि च कारके संज्ञायामिति पर्यवसानात्कर्तरि घञ्-प्रत्ययो दुर्लभ इति वाच्यम्। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
150 कृत्यल्युटो बहुलमिति बहुलग्रहणेन कर्तर्यपि घञस्सुलभत्वात्। अस्तु वा कर्तरिभावत्वोपचारात् घञ् प्रत्ययः। न चैवं प्रकृतिप्रत्ययाभ्यां शुद्धधात्वर्थस्यैव नियमनस्य बोधे तत्कर्तृत्वाप्रतीत्या नियन्तृत्वं न प्रतीयत इति वाच्यम्। जामदग्न्यो रामः, पाराशर्यो व्यास इत्यादौ अनन्तरापत्ये गोत्रत्वोपचाराद्यञ्-प्रत्ययसमर्थनेऽपि स्वारसिका-
नन्तरापत्यत्वबोधवदिहापि तद्बोधोपपत्तेः। अत एव व्यासार्यैः - कर्तरिकरणत्वविवक्षया घञ्-प्रत्ययोपपादनमप्यक्षुण्णम्। यत्तु करणाधिकरणयोश्चेति ल्युटाबाधकरणे दुर्लभत्वमुक्तम्। मनोरमादौ तत्तु उपदेशेऽज-
नुनासिक इति सूत्रे भाष्यादौ बाहुलकाश्रयणेनोपदेशपदे घञस्समर्थनादुपेक्षणीयम्। अथ स्यात् ब्रह्मे दृष्टिरुत्कर्षादिति न्यायेन असिश्छिनत्तीत्यादाविव करणे कर्तृत्वोपचार-
सम्भवेऽपि सकलसाधनविनियोगकारिणि कर्तरि करणत्वोपचारो न युक्तः। राजनि भृत्यस्योपचारस्यैव तथाविधोपचारस्यानर्थावहत्वात् कर्तरि करणत्वा-
सम्भवपरहरदत्तादिग्रन्थोप्यत्रैवानुकूल इति उच्यते। स्यादेधीतदेवं यदि करणत्वोप-
चारादित्यस्याकरणे कर्तरि करणत्वमारोप्य घञ्-प्रत्यय इत्यर्थस्स्यात्, नैतदेवम्। किन्तु सर्वकारकसाधारणं करणत्वं कारकान्तरेष्विव कर्तर्यप्यस्तीति तदभिप्रायोऽयं घञ्-प्रत्यय इति उक्तम्। साधकतमं करणमिति सूत्रे कैयटेन यद्व्यापारानन्तरं क्रियानिष्पत्ति-र्विवक्षिता स इह विवरणशब्दार्थ इति तदिदमप्यपहत क्रियानिष्पत्यनुकूलस्वव्यापारकत्वविवक्षाविषयत्वरूपं करणत्वं कारकान्तराणामिव कर्तुरप्यस्यैव कर्तृव्यापारानन्तरमपि क्रियानिष्पत्तिसम्भवात् न चैवं प्रत्ययास्वारस्य-
परश्रुतप्रकाशिका-ग्रन्थविरोधो दोषश्शङ्क्यः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
151 प्रशाशितृत्वलाभाय करणत्वसामान्यपरस्यापि तस्य कर्तृत्वविशिष्टकरणत्वरूपे तद्विशेषसङ्कोचेन ततस्स्वारस्यापत्त्यसम्भवात् एतेनोपचारावश्यकत्वे सति कर्तरिकरण-
न्योपचारवत् कर्मत्वोपचारस्यापि सम्भवात् किमर्थं कर्मत्वनिराकरणमिति शङ्का परास्ता। करणत्ववत् कर्तुरीप्सिततमत्वरूपकर्मत्वस्य सकलकारकसाधारण्याभावात् कर्तुरीप्सिततमत्वरूपकर्मत्वस्य कर्तृभेदघटितमूर्तिकतया कर्तरि तदसम्भवाच्चेति। न चैतत्पक्षे प्रत्ययास्वारस्यमेव दोषः। मुख्यप्रकृत्यर्थस्वारस्यानुरोधेन जघन्यप्रत्ययस्वार-
स्याङ्गीकरणस्यादोषत्वात् प्रयाजशेषेण हवींष्यभिघारयतीत्यत्र प्रतिपत्तिसापेक्षकद्रव्याभि-
धायिप्रयाजशेषप्रातिपदिकानुरोधेन तृतीयार्थलाक्षणिकत्वाङ्गीकारात्। तथाऽदितिः पाशानित्यत्र पाशप्रातिपदिकप्रसिद्धिमनुरुध्य बहुवचनस्यावयव-
बहुत्वाभिप्रायकत्वोपवर्णनात्। तस्मात्कर्तरि साधकतमत्वविवक्षया घञन्तोयमादेशशब्दः प्रशासितारमेवाभिदधाति। तथा च प्रकृत्यधिकरणे भाष्यम् - आदिश्यते प्रशिष्यतेनेनेत्यादेशः एतस्य वाऽक्षरस्य प्रशासने गार्गित्वादिना श्रुतेः साधकतमत्वेन कर्ता विवक्षित इति अत्र च दिशेः परत्वेऽपि पचादित्वमाश्रित्य देवमेषादिशब्देष्विवाजन्तत्वेन आदेशशब्दः कर्तर्येव सुलभः। कर्तृप्रत्ययस्य नन्दिगृहिप्रचादिभ्य इति सर्वधातुभ्यो अजुवक्तव्यः। इत्युपसंख्यानिकाऽजपवादत्वेनाप्युपपन्नस्य पचादित्वप्रयुक्ताच् प्रत्ययविरोधित्वात् अन्यथा देवमेषादिष्ववगतेः। यद्वा आदेशनमादेश इति भाव घञन्तादेशशब्दादर्शद्यचि कर्तृपरत्वं सुलभम्। अकर्तरि च कारक इत्यत्र चकारात् कर्तर्यपि घञित्युज्जीवनी-
कारादिव्यवहारात् कर्तर्येव घञ्-इत्येते पक्षाः सर्वेऽप्ययथाभाष्यत्वात् कर्तरि प्रचुरप्रयोगाभावेन शक्त्यसिध्यादि-क्वाचित्कप्रयोगस्य लक्षणादिनाप्युपपत्तौ पचादित्वादि-
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
152 कल्पनाया अपि आश्यकत्वावश्यादित्वाश्रयणेन मत्वर्थविहितत्वाजत्वाङ्गीकारे प्रशासन-
वत्त्वलाभेऽपि तत्कर्तृरूपविशेषस्य तात्पर्यवशेन कल्पनीयतया घञः-कर्तरि लक्षणाया एव ततो लघीयस्त्वाच्चोपेक्षिताः। यत्तु कर्तुः करणत्वविवक्षापक्षे कर्तृ हरदत्तादिग्रन्थविरोधोद्भावनं तदभिप्राय-
निरूपणे सति नास्त्यैव कर्तुः सकलकारकविनियोगकारितया स्वतन्त्रस्य कर्त्रन्तर-
सापेक्षकरणभावे सति “स्वातन्त्र्यहानिस्यादिति तर्त्रन्तरा विवक्षायां तु करणभाव एव”1 सम्भवतीति कर्तुः करणत्वविवक्षा भवतीति हि तदभिप्रायः। इह तु कर्तृत्वविशिष्टकरणत्वस्यैव बोध्यमानतया कर्त्रन्तरापेक्षा विरहेणात्मान-
मात्मनावेत्सीत्यादावेकस्मिन्नेवात्मनि तदुभयदर्शनेन च करणत्वविवक्षासौलभ्यादित्यन्यत्र विस्तरः। तदेवमादेशपरस्य नियन्तृपरत्वेनोपदेश्यपरत्वासम्भवात् असाधारणनियन्तृत्व-
प्रत्ययकत्वसम्भवे साधारणोपदेश्यपरत्वकल्पनायाः अयुक्तत्वाच्च। परमात्मसाधारण्यं दुर्वारम्। एवमात्मशब्दोऽपि प्रसिद्धिप्राचुर्येण चेतनवचनत्वादसङ्कुचितसर्वव्यापकत्वस्य चेतनाचेतनात्मकनिखिलजगदन्तर्यामिणि परमात्मन्येव स्वरसत्वात् स्वत आत्मान्त-
र्याम्यमृतः एष ते आत्मान्तर्याम्यमृतः इत्यादाविव स आत्मेत्यत्राप्यात्मशब्दस्यान्त-
र्यामिण्येव स्वरसत्वाच्च परमात्मा असाधारण एवेति ताभ्यामुभाभ्यां चेतनैकान्त-
तयावगमितादीक्षणितात्सद्विद्यायाः परमात्मपरत्वं निर्बाधमेवेति। इत्थं कारणत्वौपयुक्तेक्षण धर्मनिरूपणेन सतः परमात्मत्वं समर्थ्य तदनन्तरं कारणन्तु ध्येय इति वाक्यप्रतिपन्नकारणवस्त्वसाधारणमोक्षप्रदत्वधर्मेण परमात्मत्वं,
1 T.M मध्ये एव विद्यते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
153 तन्निष्ठस्य मोक्षोपदेशादिति सूत्रोक्तं विवृणोति। मुमुक्षामित्यादिना अक्षुद्रं निखिलहेय-
प्रत्यनीककल्याणैकतानपरब्रह्मसम्पत्तिलक्षणा मोक्षविषयतया क्षुद्रतराचित्सम्बन्धगन्ध-
विरोधिनीं मुमुक्षां मोक्षेच्छाम् घटयसि सम्पादयसीत्यर्थः। जायमानं हि पुरुषं यं पश्येत् मधुसूदनः। सात्त्विकस्स तु विज्ञेयस्स वै मोक्षार्थचिन्तक॥ इत्युक्तन्यायेन श्रोतृश्वेतकेतोर्मुमुक्षुत्वमपि त्वदायत्तमेवेति भावः। अनेन तन्निष्ठस्येति सूत्रांशो विवृतः। तस्मिन् सच्छब्दप्रतिपाद्ये वस्तुनि निष्ठा अनुसन्धानं यस्यासौ तन्निष्ठः तस्येत्यर्थः। ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युक्त-
सदात्मकत्वानुसन्धानवत इति यावत्। यद्यपि सूत्राक्षरानुगुण्यादत्र श्लोकेऽपि मुक्त्युपायघटनमेव वक्तव्यम्। तथाप्तिच्छायास्समानविषयकज्ञानसाध्यत्वात् विषयस्य च मुक्तेः कर्मकृदाचित्सम्बन्ध-
निवृत्तिपूर्वकब्रह्मप्राप्तिरूपतया तथाविधमुक्तिगोचरेच्छावतः श्वेतकेतोरचित्तादात्म्यानु-
सन्धानस्य तेजसः तिमिरतादात्म्यानुसन्धानवत् स्वभावविरोधितया तत्त्वमसीत्युपदेशः परमात्मविषय एवेति सूचनाय मुमुक्षामित्युक्तिः। अथ मोक्षोपदेशादित्यंशं विवृणोति, विमुक्तिं जनयसीति तस्य तावदेव चिरं यावन्न विमोक्षे अथ संवत्स्य इति सद्विद्यानिष्ठस्वशरीरमात्रान्तरा यो लोक इति तत्रैवाभिधानादित्यर्थः। न शरीरपातमात्रं मुक्तिः। अपि तु अथ सम्पत्स्य इत्युक्तब्रह्म-
प्राप्तिपर्यन्तेति सूचनाय विशब्दः घटयसि चेति। तत्त्वमसीत्युपदेशस्यात्मेति तूपगच्छन्ति ग्राहयन्ति चेत् वक्ष्यमाणब्रह्मात्मके-
त्यानुसन्धानपरत्वावधारणार्थश्च शब्दः। तन्निर्णयश्चोपक्रमे येनाश्रुतं श्रुतं भवत्यमतं मतं नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
154 भवति। अविज्ञातं विज्ञातं भवति इति श्रवणमननसमनन्तरभावितया श्रोतव्यो मन्तव्यो निधिद्यासितव्य इति श्रुत्यानुगुण्याय निदिध्यासनपरेण विज्ञानशब्देनोपासनाभिधानात्। तथास्य विजिज्ञाविति विजिज्ञाविति इत्यादीनि तस्यैवोपसंहारामध्ये च आचार्यवान् पुरुषो वेदेत्याचार्यवन्ताफलभूतत्वेन प्रतिपादितार्थ विशेषवचनेन अचार्योप-
दिष्टार्थस्यानुसन्धेयत्वसूचनाच्च भवत्येवेति भावः। अत्रेदमभिप्रेतम् - सद्विद्यायाः प्रधानकरत्वे तत्त्वमसि श्वेतकेतो इत्यत्र तच्छब्दोपात्तप्रधानतादात्म्योपदेशं किमित्युपयोगितयोपादानार्थम्। किञ्चातद्विरोधितया हानार्थमिति न कल्प्यप्रथमेरूपणन्तन्निष्ठस्य मोक्षोपदेशादिति यद्यचित्तादात्म्यमत्र विवक्षितमभिविलष्यत्। तदा तस्य तावचिरमित्यादिना चित्सम्बन्धपूर्वकब्रह्मसम्पत्तिलक्षणमोक्षं तत्साध्यतया नो वाणेक्ष्यत् यथो क्रतुरस्मिन् लोके वर्तत तथेतः प्रेत्यभवतीति न्यायेनातत्प्राप्तिरेव तत्र वक्तव्यत्वात् न चाथ संवत्स्य इति अचित्सम्पत्तिरेवोप्यत इति वाच्यम्। शास्त्रं हि वत्सलतरं मातापितृसहस्रत इत्यादिभिः अनवरतहितप्रवर्तकत्वेना-
भिहितस्य शास्त्रस्य तापत्रयातुरमुमुक्षुजनोज्जीवनाय प्रवृत्तस्य तापत्रयाभिहतिहेतुभूता हेयास्पदाचित्सम्पत्तिलक्षणामोक्षाभिधायकत्वायोगात्तथाविधमोक्षोपायपरिज्ञानाय पितुः पुत्रप्रोत्साहनायोगाच्च। विमोक्ष इत्यतवर्ज्यप्रतियोगित्वेनावगतस्याचितः तत्रैव वाक्ये सम्पत्तिप्रयोगित्वे-
नान्वयायोगाच्च। यद्यपि विमोक्ष इत्यत्र अचितः प्रतियोगित्वं न श्रुतम्। तथाऽपि अस्माच्छरीरात् समुत्थाय परंज्योतिरुपसम्पद्यदूत्वाशरीरमित्यादिषु शरीरस्यैव नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
155 प्रतियोगित्वदर्शनात्। इहापि तस्यैव प्रतियोगित्वं युक्तमिति तस्य पुनस्सम्पत्तिकर्मत्वं न युक्तमिति। न तामोन्यतदा सम्पन्नो भवतीति सम्पत्तिप्रतिसम्बन्धित्वेनान्यत्रावगतस्य वादस्य ब्रह्मण एव प्रतिसम्बन्धित्वेनान्वयायुक्त इति द्वितीयकर्णरोषणं हेयत्वावचना-
च्चेत्युत्तरसूत्रेभिहितम्। तद्विवृणोति अहेयत्वादिति। जीवात्मनोः भुक्तिभोगा इति प्रदानस्य हेयत्वमन्य-
त्रैवात्र नोच्यते। अपि तु प्रागुक्तरीत्या ध्येयत्वमवोच्यते। तच्च निखिलनेयन्यत्र तवैव युज्यते। न त्वनादिमायया सन्निरुद्धः अनेकया शोचति मुह्यमानः इत्यादिषु तापत्रयहेतुत्वेनोक्तस्य प्रधानस्येत्यर्थः। ध्येय इति यद्यपि ध्येयत्वं तन्निष्ठस्येत्यत्रैवोक्तम्। तथापि श्लोके पूर्वं कण्ठतोऽनभिधानादिह तदभिधानम्। यद्वा हेयत्वावचनाच्चेत्यत्र न हेतुसमुच्चयार्थश्च शब्दः। यद्येतदभिधानायोगात् श्रुतत्वाच्चिन्त्यः अनेन पौनरुक्त्यापत्तेश्च। किन्तु ध्येयत्ववचनाच्चान्वयव्यतिरेकाभ्यां न प्रधानं सद्विद्याविषय इति द्वाभ्यां सूत्राभ्यां बोध्यत इत्यन्वयव्यतिरेकात्मना द्वयोः हेत्वोरेकैकारार्थश्च शब्द इति सूचनाय पुनर्द्येयत्वोक्तिरिति ध्येयम्। ध्यानस्याचित्सम्बन्धव्यावर्तकत्वं न केवलमुपवत्वा कल्प्यते। अपि तु ज्ञात्वा देवं मुच्यते सर्वपापैः, विदित्वातिमृत्युमेति, तमेवं विद्वानमृत इह भवति इत्यादिष्वनेकेष्वुपनिषदवाक्येषु श्रूयते। तथा च सर्वशाखाप्रत्ययन्यायेन सर्वेषामेकार्थत्वायेहापि भगवत्तादात्म्यानु-
सन्धानोपदेशं विनायं चिदात्मोपदेश इत्याह। त्वमुपनिषद्यामिति उपनिषदिति परं ब्रह्मप्रतिपाद्यत्वेन आणस्वस्ति उपनिषदः अनेनैव तात्पर्यकत्वं सूच्यते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
156 तासामेकविषयकतत्तद्वाक्यप्रपन्नैः तत्तच्छब्दैः त्वमेक एव प्रतिपाद्यः। तत्रोप-
निषदामित्यविशेषे निर्देशात् उपनिषदन्तरस्थानाम् आत्म वा इदमेक एवाग्र आसीत् नान्यत्किञ्चनमीषत् स ईक्षत लोकान्न सृजा इति तस्माद्वा एतस्मादात्मन आकाश-
स्सम्भूतः, तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेद इत्यादीनां
चेतनासाधारणपदघटितवाक्यानाम् एतद्विद्यास्थानामनेन जीवेनात्मना¯…¯1
* * *
इत्येवं शोधप्रबन्धस्य प्रथमभागे नयद्युमणिव्याख्यायाः मातृकाद्वयपाठ-
समीक्षात्मकसम्पादने तेलुगु-देवनागरीलिपिगतमातृकयोः तोलनेन सह पाठभेद-
अधिकपाठ-लुप्तपाठ-साधुपाठादिविवेचनापूर्वकं यथानुसन्धानप्रविधि नयद्युमणिव्याख्या
समुपस्थापिता॥
अतः परं द्वितीयभागे पञ्चस्वध्यायेषु नयद्युमणिव्याख्यायाः अध्ययनं विधास्यते॥
⏺⏺⏺
- T.M. & D.M. इति मातृकयोः ग्रन्थान्तभागो न प्राप्यते॥
168
नयद्युमणिव्याख्यायाः अध्ययनम्
अथ प्रथमोऽध्यायः
वेदवेदान्तपरिचयः
लक्ष्मीविशिष्टस्सर्वज्ञः सर्वव्यापी जगद्विधिः।
जिज्ञास्यश्शोधकार्येऽस्मिन् सिद्धोपायस्स एव मे॥
तथ्यान्नूतनधीविशेषजनिकां याथार्थ्यपारेक्षणाम्,
सम्यक्तार्किकयुक्तिभिस्सुमथितां सर्वैर्बुधैर्भाविताम्।
तत्त्वार्थावगमावगाहनसमस्याग्रन्थिविच्छेदिनीम्,
विद्यावारिधिसिद्धिसाधनचणां तां शोधनीं मन्महे॥
1.1. वेदवाङ्मयपरिचयः -
प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते।
एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता1॥
लोके वेदवाङ्मयात् प्राचीनं विशिष्य नित्यनूतनं वाङ्मयम् अन्यत् किमपि नास्तीति
वक्तुं विप्रतिपत्तिर्नास्ति। एतद्वेदवाङ्मयं मित्रवत् हिते सर्वान् नियोजयन् अनेकप्रयोजनानि
कल्पयति। प्राज्ञाः ऊचुः – “इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति स
वेदः”2 इति। लोके सकलमानवानां मानवेतरप्राणिनां च जीवनकाले बहव
इच्छाविशेषाः तैलधारावदवच्छिन्नरूपेण प्रसरन्ति। तेषामिच्छाविशेषाणां विभागो यदि
क्रियेत तर्हि इच्छाद्वयमेवान्ते परिदृश्येत। तत्राद्यः – 1. इष्टप्राप्तिः, द्वितीयः 2. अनिष्ट-
-
सा॰ऋ॰भा॰ भू॰
-
तत्रैव
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
169
परिहारः। अनयोर्विषये लौकिकोपाया बहवस्सन्ति किन्तु ते चोपायाः शाश्वतपरिपूर्ण-
फलप्रापका न भवन्ति। विशिष्य वेदोक्ताः अलौकिकोपाया ये सन्ति यज्ञादिधर्माचरण-
साध्याः ते उपायाः शाश्वतपरिपूर्णफलप्रापकाः भवन्ति। एतादृशं वेदवाङ्मयं न जानन्ति
यदि लोके जना नानादुःखसमन्विता भवेयुः। तादृशं वेदवाङ्मयं भगवतः
श्रीमन्नारायणस्य निश्श्वासरूपेण प्रपञ्चितम् अपौरुषेयं च भवतीति प्रसिद्धो विषयः॥
1.2. वेदस्यापौरुषेयत्वकथनम् –
शास्त्रे प्रमाणत्वेन अभिहितासु प्रत्यक्षानुमानशब्दाख्येषु शब्दप्रमाणे
वेदोऽन्तर्भवति। वदन्ति शब्दप्रमाणस्य लक्षणम् – “आप्तोपदेशः शब्दः”1 इति। अत्र
आप्तस्य वाक्यम् इति विग्रहात् आप्तोच्चरितत्वम् वेदस्य भवति, तस्मात् वेदस्य
पौरुषेयत्वशङ्का उदेति। वेदा आप्तेन उक्ताः अथवा रचिताः इत्यादिशङ्कां निवारयितुं
विशिष्टाद्वैतवेदान्तप्रकरणग्रन्थे यतीन्द्रमतदीपिकाख्ये शब्दप्रमाणस्य लक्षणमेवम्
अभिहितम्। यथा – “अनाप्तानुक्तवाक्यजनिततदर्थविज्ञानं शब्दज्ञानम्, तत् करणं
शब्दप्रमाणम्”2 इति। अस्य लक्षणस्यायं भावः – अनाप्ताः चार्वाकादयः। तैः
अनुक्तवाक्यजनिततदर्थविज्ञानम् इत्यनेन येन केनापि आप्तेन रचितम् उक्तम् इत्याद्यर्थो
निवार्यते। अत्रायं विवक्षितो भावः – सृष्ट्यादौ भगवान् श्रीमन्नारायणः
पूर्वपूर्वक्रमविशिष्टान् अपौरुषेयान् नित्यान् वेदान् चतुर्मुखब्रह्मणे स्मृत्वा स्मृत्वा
उपदिशतीति। तस्मात् वेदः नित्य इति, अपौरुषेय इति – वेदवेदान्तविदां मनोगतार्थः॥
-
न्या॰सू॰ 1.1.7
-
य॰म॰दी॰ अ॰ 3 पृ॰ 54
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
170
1.3. वेदस्य विभागक्रमः -
वेदानां व्यसनादर्वाक् प्राग्रूपं मिलितं तु यत्।
तां तु वैखानसीं शाखाम् इति वेदविदो विदुः1॥
सीतोपनिषद्वाक्येन विभागात् पूर्वं वेदराशिः एका शाखा एवेति ज्ञायते।
वेदकाले तां समग्रां वेदशाखाम् अत्युत्कृष्टतपोबलसम्पन्ना महर्षयः अनायासेन
अध्ययाञ्चक्रिरे। ते सर्वे मासोपवासादिव्रताचरणसमर्थाः, मनोवशीकरणचणाः अभूवन्।
कालगमने मानवाध्ययनशक्तिह्रासात् अध्ययनसौकर्याय सैव समग्रा वेदशाखा ऋग्यजु-
स्सामाथर्वभेदेन चतुर्धा विभक्ता। पुनरपि चतसृषु ऋगादिशाखासु अवान्तरशाखा अपि
अध्ययनाध्यापनक्रमे विभाक्ता आसन्। तद्यथा2 –
-
सी॰उ॰ 18
-
सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः। तत्र एकशत-
मध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः, एकविंशतिधा बह्वृच्यम्, नवधाऽथर्वणो वेदः। एको
वाक्यमितिहासः पुराणम्॥ पپश॰ अ॰ 1
क्र.सं. वेदः
तद्वेदान्तर्गताः
शाखाः
उपलभ्यमानशाखाः
कालगर्भे
अन्तर्गतशाखाः
- ऋग्वेदः 21
1.शाकलशाखा
19
2.बाष्कलशाखा
- यजुर्वेदः
2.1. शुक्लयजुर्वेदः 15
1.काण्वशाखा
13
2.माध्यन्दिनशाखा
2.2. कृष्णयजुर्वेदः 86
1.तैत्तिरीयशाखा
82
2.मैत्रायणीशाखा
3.कठशाखा
4.कापिष्ठलशाखा
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
171
अपि चैतेषु वेदेषु संहिताब्राह्मणारण्यकोपनिषदः इति चतुर्धाऽन्तर्विभागाः
वर्तन्ते। तत्र -
-
संहिताभागः – कर्मकाण्डप्रतिपादकः छन्दोबद्धमन्त्ररूपः संहिताभागः।
-
ब्राह्मणभागः – यज्ञीयकर्मकाण्डस्य व्याख्याविवरणात्मको भागः ब्राह्मणभागः।
उक्तञ्च वाचस्पतिमिश्रेण –
नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम्।
प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते1॥ इति।
“ब्राह्मणं नाम कर्मणः तन्मन्त्राणां च व्याख्याग्रन्थः।”2 इति च।
- आरण्यकभागः - छन्दोबद्धमन्त्रयुक्तः गाथारूपः आरण्यकभागः। उक्तञ्च
सायणाचार्येण –
अरण्याध्ययनादेतत् आरण्यकमितीर्यते।
अरण्ये तदधीयेतेत्येवं वाक्यं प्रचक्षते3॥ इति।
- उपनिषद्भागः - विशिष्य ब्रह्मज्ञानादिविषयवर्णनात्मको भवति उपनिषद्भागः।
अस्य वेदान्त इति, परा विद्या इति च व्यवहारः।
-
ऋ॰भा॰ भू॰ पृ॰ 37
-
तै॰सं॰भ॰भा॰भा॰ 1.5.1
-
सा॰भा॰ पृ॰ 11
-
सामवेदः 1000
1.राणायणीयशाखा
997
2.कौथुमशाखा
3.जैमिनीयशाखा
- अथर्ववेदः 9
1.पैप्पलादशाखा
7
2.शौनकशाखा
आहत्य वेदशाखाः 1131 13 1118
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
172
1.4. उपनिषच्छब्दार्थः –
उप इत्युपसर्गपूर्वक-षदॢ – विशरणगत्यवसादनेषु इति धातोः उपनिषच्छब्द-
निष्पत्तिः। “उपनिषद्यते प्राप्यते ब्रह्म अनया इति, सर्वे अर्थाः उपनिषीदन्ति अस्यामिति
चोपनिषत्”1। इति चोपनिषच्छब्दार्थः।
अस्मिन् उपनिषद्भागे ब्रह्मविद्या परिपठ्यते। गुरुकुले गुरुसकाशे उपविश्य
अभ्यस्यमाना भवति ब्रह्मविद्या। एषा विद्या गुरुमुखेनैव अभिगन्तव्या इति नियमः।
यतः परब्रह्मावबोधकरहस्यविद्यात्वात्। जगति परिदृश्यमानस्य अनुभूयमानस्य
सांसारिकतापत्रयस्य निवारणोपायाः अस्मिन् भागे सद्विद्यादिषु प्रतिपादिताः।
तादृशसद्विद्यादिद्वात्रिंशद्ब्रह्मविद्याप्रतिपादकाः उपनिषदः प्रधानेन दश वर्तन्ते।
ताः यथा –
ईशकेनकठप्रश्नमुण्डमाण्डूक्यतैत्तिरिः।
ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश2॥
क्र.सं. नाम वेदसम्बद्धः शाखा
-
ईशावास्योपनिषत् शुक्लयजुर्वेदः माध्यन्दिनशाखा
-
केनोपनिषत् सामवेदः जैमिनीयशाखा
-
कठोपनिषत् कृष्णयजुर्वेदः कठशाखा
-
प्रश्नोपनिषत् अथर्ववेदः पिप्पलादशाखा
-
मुण्डोपनिषत् अथर्ववेदः शौनकशाखा
-
माण्डूक्योपनिषत् अथर्ववेदः शौनकशाखा
-
अ॰को॰ गु॰बा॰प्र॰ पृ॰ 769
-
मुक्ति॰उ॰ 1.30
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
173
-
तैत्तिरीयोपनिषत् कृष्णयजुर्वेदः तैत्तिरीयशाखा
-
ऐतरेयोपनिषत् ऋग्वेदः ऐतरेयब्राह्मणम्
-
छान्दोग्योपनिषत् सामवेदः कौथुमशाखा
-
बृहदारण्यकोपनिषत् शुक्लयजुर्वेदः शतपथब्राह्मणम्
एतासु उपनिषत्सु विशेषेण द्वात्रिंशद्ब्रह्मविद्याः भगवत्प्रापकत्वेन विराजन्ते। ताः
यथा –
1.5. ब्रह्मविद्याः -
द्वात्रिंशत् सन्ति विद्याः तव पथभजनेऽत्रेति भूयान् प्रवादः
वेदेऽनन्ते तदर्थे त्वयि बहुजननेऽनन्तकल्याणपूर्णे।
सङ्ख्याने कस्समर्थः स्वयमिह 1नतरामद्य निष्कर्षशक्तिः
भीष्मान्तो भक्तियोगो भुविबत यदि श्रीश नाथान्त एषः॥
इति वेदान्तपुष्पाञ्जलिग्रन्थोक्तदिशा द्वात्रिंशद्ब्रह्मविद्याः भगवतः दिव्यपदभजने विराजन्त
इति ज्ञायते।
क्र.सं. विद्यानाम उपनिषदाकरः ब्रह्मसूत्राधिकरणम्
-
ईशावास्यविद्या ईशावास्योपनिषत् पुरुषार्थाधिकरणम्, 3.4.1
-
सद्विद्या छान्दोग्योपनिषत् ईक्षत्यधिकरणम्, 1.1.5
-
परमपुरुषविद्या कठोपनिषत् पुरुषविद्याधिकरणम्,
3.3.9
- आनन्दमयविद्या तैत्तिरीयोपनिषत् आनन्दमयाधिकरणम्,
1.1.6
- नतराम् इत्यव्ययस्य अतिशयेन इत्यर्थः।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
174
-
अन्तरादित्यविद्या छान्दोग्योपनिषत् अन्तरधिकरणम्, 1.1.7
-
आकाशविद्या छान्दोग्योपनिषत् आकाशाधिकरणम्, 1.1.8
-
प्राणविद्या छान्दोग्योपनिषत् प्राणाधिकरणम्, 1.1.9
-
ज्योतिर्विद्या छान्दोग्योपनिषत् मध्वधिकरणम्, 1.3.8
-
प्रतर्दनविद्या कौषीतक्युपनिषत् इन्द्रप्राणाधिकरणम्, 1.1.11
-
शाण्डिल्यविद्या छान्दोग्योपनिषत्,
बृहदारण्यकोपनिषत्
सर्वप्रसिद्ध्यधिकरणम्,
1.2.1
- पर्यङ्कविद्या कौषीतक्युपनिषत् साम्परायाधिकरणम्,
3.3.12
-
नाचिकेतविद्या कठोपनिषत् अत्त्रधिकरणम्, 1.2.2
-
उपकोसलविद्या छान्दोग्योपनिषत् अन्तराधिकरणम्, 1.2.3
-
अन्तर्यामिविद्या बृहदारण्यकोपनिषत् अन्तर्याम्यधिकरणम्,
1.2.4
-
अक्षरविद्या मुण्डकोपनिषत् अक्षराधिकरणम्, 1.3.3
-
वैश्वानरविद्या छान्दोग्योपनिषत् वैश्वानराधिकरणम्, 1.2.6
-
भूमविद्या छान्दोग्योपनिषत् भूमाधिकरणम्, 1.3.2
-
गार्ग्यक्षरविद्या बृहदारण्यकोपनिषत् द्युभ्वाद्यधिकरणम्, 1.3.1
-
सत्यकामविद्या छान्दोग्योपनिषत्
-
दहरविद्या तैत्तिरीयोपनिषत् दहराधिकरणम्, 1.3.5
21 अङ्गुष्ठप्रमितविद्या कठोपनिषत्
- मधुविद्या छान्दोग्योपनिषत् मध्वधिकरणम्, 1.3.8
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
175
-
संवर्गविद्या छान्दोग्योपनिषत् अपशूद्राधिकरणम्, 1.3.9
-
ज्योतिषां
ज्योतिर्विद्या
बृहदारण्यकोपनिषत् सङ्ख्योपसङ्ग्रहाधिकरणम्,
1.4.3
-
बालाकिविद्या बृहदारण्यकोपनिषत् जगद्वाचित्वाधिकरणम्, 1.4.5
-
मैत्रेयीविद्या बृहदारण्यकोपनिषत् वाक्यान्वयाधिकरणम्,
1.4.6
-
गायत्रीविद्या छान्दोग्योपनिषत् ज्योतिरधिकरणम्, 1.1.10
-
उषस्तकहोलविद्या बृहदारण्यकोपनिषत् अन्तराभूतग्रामाधिकरणम्,
3.3.15
- पञ्चाग्निविद्या छान्दोग्योपनिषत्,
बृहदारण्यकोपनिषत्
तदन्तरप्रतिपत्त्यधिकरणम्,
3.1.1
-
अन्तरक्षिविद्या छान्दोग्योपनिषत् अन्तरधिकरणम्, 1.1.7
-
भार्गवीवारुणीविद्या तैत्तिरीयोपनिषत्
-
श्रीमन्न्यासविद्या नारायणोपनिषत्
एवंरूपेण सर्वेषु उपनिषत्सु द्वात्रिंशद्विद्याः सन्निविष्टाः। अत्रायं सन्देहः -
उपनिषदामनन्तत्वेऽपि दश इति गणनम्, एवं ब्रह्मविद्यानामप्यनन्तत्वे त्रयोदश इति
गणनं कथं वा निर्णेतुं शक्यत इति चेत्, प्राज्ञा ऊचुः –
इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात्।
मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्॥ इति।
अत्रायं सारः – एकः आकाशे शरसन्धानं कुर्वन्नस्ति। कृत्वा कृत्वा
कञ्चित्कालानन्तरं तत्कार्याद्विरमते। किमर्थमित्याशङ्कायां गगने स्थानं नास्तीति करणाद्वा
इत्युक्ते न। स्वसमीपे शराभावाद्विरमते इति पर्यवसितोऽर्थः। एवमेव उपनिषदः
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
176
ब्रह्मविद्याश्च आकाशवत् अनन्ताः। तत्र दश, द्वात्रिंशत्, अष्टोत्तरशतम्, द्विशतम्,
सहस्रम् इत्यादिगणनम् अस्माकं मतिक्षयादेवेति अवगन्तव्यम्।
एतादृशासु ब्रह्मविद्यासु प्रधानप्रतिपाद्यविषयः परब्रह्मस्वरूपस्वभावात्मकं
ज्ञानम्। तस्य ज्ञानस्य सुलभावगमार्थं भगवान् स्वयं गीताम् उपदिदेश। एवमेव
बादरायणो व्यासः शारीरकमीमांसा इति नाम्ना ब्रह्मसूत्राणि व्यरचयत्। एतत् त्रयम्
उपनिषत्-भगवद्गीता-ब्रह्मासूत्रात्मकं प्रस्थानत्रयमिति नाम्ना गीयते।
1.6. प्रस्थानत्रयम् -
प्रस्थीयत इति प्रस्थानम्। प्र-उपसर्गपूर्वक-ष्ठा-गतिनिवृत्तौ इति धातोः
निष्पन्नोऽयं प्रस्थानशब्दः गत्यर्थको भवति। कीदृशगमनमित्याकाङ्क्षायां परब्रह्मपर्यन्त-
गमनमिति, यं स्थानं गत्वा पुनरावृत्तिर्न भवति, तादृशदिव्यधामगमनमिति च द्योतयति
अयं शब्दः। तादृशपथप्रापणे उपनिषद्ब्रह्मसूत्रभगवद्गीताः प्रस्थानत्रयपदाभिधेया
भवन्ति। एता उपनिषद्ब्रह्मसूत्रभगवद्गीताः भिन्नभिन्नपथप्रापकोपाया न भवन्ति।
त्रयस्सम्भूय एव परमपथप्राप्त्युपायः भवति न तु उपायाः। यतः वेदान्तजिज्ञासूनां कृते
एतत्त्रयाणामध्ययने परस्परं साकाङ्क्षा वर्तते।
1.6.1. प्रस्थानत्रये उपनिषदां स्थानम् -
तत्र प्रस्थानत्रये उपनिषदः प्रधानतमाः यतः ताः अपौरुषेयाः। यतो हि
ब्रह्मसूत्र-भगवद्गीतयोरपि उपनिषद एव मूलभूताः। ब्रह्मसूत्राणि उपनिषद्वाक्यार्थं
प्रपञ्चयितुमेव प्रवृत्तानि। एवमेव भगवद्गीताऽपि। उपनिषदवाक्यानामापातविरोध-
निरसनमपि अनयोः प्रयोजनम्। भगवद्गीता विशिष्य औपनिषत्सारमुपजीव्यैव
आत्मसत्तां प्रकटयति। उक्तं च –
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
177
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्1॥ इति।
तस्मात् ब्रह्मसूत्र-भगवद्गीते उपनिषन्मूले एव भवतः इत्यतः तयोरपेक्षया
उपनिषदां प्राशस्त्यं वरीवर्ति।
एतासामुपनिषदां लक्ष्यं हि तत्त्वान्वेषणमेव। उपनिषत्प्रतिपादिततत्त्वोपदेशः
नानाविधः। किन्तु तत्सिद्धान्तोत्कीर्तनम् एकप्रकारकमेव। अयं प्रकारः सर्वत्रोपनिषत्सु
विविधविद्यारूपेण विराजते। एवं कथारूपेण च। शिष्येण गहनार्थे पृष्टे सति
तदीयमनोभूमिकामाश्रित्यैव गुरुणा प्रवचितः कथारूपोपदेशः उपनिषत्सु बहुत्र दृश्यते।
एतादृशकथाश्रवणमात्रेण इदानीन्तनतत्त्वजिज्ञासूनां सन्देहसन्दोहः निवर्तते। मनसि
महान् प्रभावश्च भगवद्विषये सम्भवति। अत एव अद्यत्वेऽपि ज्ञानविज्ञानयोः परम्परायां
अग्रगण्याः भवन्ति उपनिषदः।
1.6.2. प्रस्थानत्रये ब्रह्मसूत्राणां स्थानम् –
यथा च भ्रमरः अपारे अरण्ये सुगन्धयुतं प्रति पुष्पमुपगम्य तत्रस्थं मकरन्दं
स्वीकृत्य मधुकोशे स्थापयति, तद्वत् व्यासार्यः अपारोपनिषदरण्यं प्राप्य, सद्विद्यादि-
ब्रह्मविद्यात्मकपुष्पसारभूतं मकरन्दं स्वीकृत्य शारीरकमीमांसात्मकमधुकोशे सूत्ररूपेण
न्यवेशयत्। तादृशमधुरसास्वादनं विना नित्यानन्दामृतरसपानवत् सर्वदा तृप्तिकरापुन-
रावृत्तिहेतुभूतपरमपथास्वादनानुभूतिः नैव प्राप्यते। तादृशसूत्रग्रन्थस्य नाम शारीरक-
मीमांसा इति कीर्त्यते।
अस्यायमर्थः – शरीरे भवः शारीरः, अर्थात् जीवः। शारीरेऽपि भवः शारीरकः
परं ब्रह्म। अनेन तच्च परं ब्रह्म चिदचिद्विशिष्ट इति लक्ष्यते। यद्यपि भगवता
- भ॰गी॰ मा॰ श्लो॰ 5
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
178
बादरायणमहर्षिणा प्रतिपादितानां ब्रह्मसूत्राणां व्याख्यानविषये महान् भेदः भाष्यकारेषु
दरीदृश्यते।
क्र.सं. आचार्यः मतम् भाष्यम् अधि.सं. सूत्रसङ्ख्या
-
श्रीमच्छङ्कराचार्यः अद्वैतम् शारीरकभाष्यम् 199 555
-
श्रीमद्रामानुजाचार्यः विशिष्टाद्वैतम् श्रीभाष्यम् 156 545
-
मध्वाचार्यः द्वैतवेदान्तम् माध्वभाष्यम् 213 564
-
श्रीमन्निम्बार्काचार्यः द्वैताद्वैतम् वेदान्तपारिजातभाष्यम् 161 549
-
श्रीश्रीनिवासदीक्षितः लक्ष्मीविशिष्टाद्वैतम् श्रीविशिष्टाद्वैतभाष्यम् 156 545
-
श्रीमद्वल्लभाचार्यः शुद्धाद्वैतम् अणुभाष्यम् 171 554
-
श्रीमच्छ्रीकण्ठाचार्यः शिवविशिष्टाद्वैतम् शैवभाष्यम् 182 544
एवंरूपेण इतोऽपि बहूनि भाष्याणि लोके दरीदृश्यन्ते। एतेषु प्रधानतमानि
अद्वैत-विशिष्टाद्वैत-द्वैतानि।
1.6.3. प्रस्थानत्रये भगवद्गीतायाः स्थानम् –
जीवने कर्तव्यविवेकबोधिकां नीतिम् अर्जुनाय अवगमयितुमुद्युक्तः भगवान्
वासुदेवः समराङ्गणे एव अत्यद्भुततया गीतामुपदिदेश। एषा भगवद्गीता महाभारत-
ग्रन्थमध्ये भीष्मपर्वणि कृष्णार्जुनसंवादरूपेण अष्टादशाध्यायैः सप्तशतश्लोकैश्च च
विराजते। अस्याः गीतायाः प्रवृत्तिः एवमुपवर्णिता –
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्।
विज्ञानामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम्
अम्ब! त्वामनुसन्धयामि भगवद्गीते! भवद्वेषिणीम्1॥ इति।
- भ॰गी॰ मा॰ श्लो॰ 5
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
179
एतादृशी भगवद्गीता विषयानुरोधेन त्रिधा विभक्ता, प्रथमद्वितीयतृतीयषट्क-
रूपेण। तत्र प्रथमषट्के – 1. अर्जुनविषाद-2.साङ्ख्य-3.कर्म-4.ज्ञान-5.कर्मसन्न्यास-
6.आत्मसंयमयोगाः कर्मषट्करूपेण विभक्ताः। एवं च द्वितीयषट्के - 7. ज्ञानविज्ञान-
8.अक्षरपरब्रह्म-9.राजविद्याराजगुह्य-10.विभूति-11.विश्वरूपसन्दर्शन-12.भक्तियोगाः
भक्तिषट्करूपेण विभक्ताः। एवं च तृतीये ज्ञानषट्करूपेण - 13.क्षेत्रक्षेत्रज्ञविभाग-
14.गुणत्रयविभाग-15.पुरुषोत्तमप्राप्ति-16.दैवासुरसम्पद्विभाग-17.श्रद्धात्रयविभाग-
18.मोक्षसन्न्यासयोगाः विभक्ताः। अनेन कर्मज्ञानयोः प्राधान्यम्, एवं च तयोर्विषये
अनुष्ठाने च भक्तेः प्रौढिमां च प्रपञ्चयितुम् एतादृशविभागः भगवता कृष्णेन
सुनिरूपितः। एवमेतेषामुपनिषद्गीताब्रह्मसूत्राणां भाष्याणि पूर्वोक्ताद्वैतविशिष्टाद्वैतादि-
सिद्धान्तभेदपुरस्सरं विविधानि व्यरचितानि।
अद्वैतादिषु यस्य सिद्धान्तस्य प्रस्थानत्रयभाष्यं विद्यते, तस्य सिद्धान्तस्यैव
परिपूर्णत्वं भवति। तादृशवेदान्तसिद्धान्तेषु अग्रगण्या भवन्ति अद्वैत-विशिष्टाद्वैत-
द्वैतसिद्धान्ताः।
1.7. अद्वैतसिद्धान्तः –
ब्रह्मणः अद्वितीयत्वस्थापनमेवाद्वैतवेदान्तस्य मूलभूतं तत्त्वम्1। दर्शनस्यास्य
परम्परा नारावणादारभ्य प्रावर्तत इति शाङ्कराचार्याणां परमगुरुभ्यः गौडपादाचार्येभ्य
आरभ्य अविच्छिन्नरूपेण प्रवर्तितमिति च ज्ञायते2। सम्प्रदायस्यास्य गौडपादाचार्याः
प्रवर्तकाः, तथापि न तेषां नाम्नाऽयं सम्प्रदायः व्यवहियते। किन्तु शङ्कराचार्यैः एवास्य
सम्प्रदायस्य विशेषप्रचारः कृतः इति तेषां नाम्नैवायं सम्प्रदायः प्रसिद्धः।
अद्वैतसिद्धान्तस्थापनार्थम् अद्वैतमतोपबृंहणात्मकाः अनेके प्रौढाः ग्रन्थाः श ङ्कराचार्यैः
-
ब्र॰सू॰भा॰ भू॰ पृ॰ 15
-
नारायणं पद्मभुवं वशिष्ठं शक्तिञ्च तत्पुत्रपराशरं च।
व्यासं शुकं गौडपादं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम्॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
180
विरचिताः। तैर्विरचितं ब्रह्मसूत्रभाष्यम्, शारीरकमिति नाम्ना प्रसिद्धम्। ते च ग्रन्थाः
तेषां प्रतिभानिदर्शनरूपेण अद्यापि प्राच्यपाश्चात्यविदुषां समक्षं विराजन्तेतराम्।
1.7.1. जगन्मिथ्या –
“ब्रह्म सत्यं जगन्मिथ्या”1 इति अद्वैतसिद्धान्तस्य मूलवाक्यम्। गच्छति उत्पत्ति-
स्थिति-लयान् प्राप्नोतीति जगत् इति व्युत्पत्त्यनुसारं जगन्नित्यमपि तु परिवर्तनशीलं
सदसदात्मकं सर्वत उपरि मायात्मकं ब्रह्मणि अध्यस्तम् इत्यादीन् अर्थान् अद्वैतिनः
प्रतिपादयन्ति। एवं सततं परिवर्तमानं च जगत् शुक्तिकायां रजतवत् ब्रह्मणि
अध्यस्तम्। शुक्तिकायां रजतज्ञानस्थले शुक्तिकायाः वक्रता तस्याः गुणाः तत्रैव
तिष्ठन्ति। परन्तु करणापाटववशात् दूरत्वादिव्यवधानवशाद्वा रजतभिन्नाऽपि शुक्तिका
रजतवत् प्रतिभासते। तद्वत् अविद्यावशाद् ब्रह्मणि जगत् अवभासते। अतः जगत् सत्यं
न भवति। “यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति यत् तत्सत्यम्”2 इति यदुक्तं
शङ्कराचार्यैः सत्यस्य लक्षणं, तत् न कदापि जगति सम्भवति। अतः जगत् असत्यमेव।
अर्थात् मिथ्या। तस्मादेव एतन्मतं विवर्तवाद इति कथ्यते। विवर्तो नाम
स्वस्वरूपमनपहाय अपररूपेण अवभासनम् 3।
1.7.2. जीवो ब्रह्मैव नापरः –
अद्वैतसिद्धान्ते प्रतिपादितमीश्वरतत्त्वम् अन्येषु आस्तिकदर्शनेषु प्रतिपादितात्
ईश्वरत्तत्त्वात् भिन्नं दृश्यते। एतैः जीवेश्वरयोर्मध्ये बिम्बप्रतिबिम्बभावोऽङ्गीकृतः। तद्यथा
नभसि एक एव चन्द्रबिम्बः राजते। परन्तु जले तस्य प्रतिबिम्बाः बहवो दृश्यन्ते तथापि
-
ब्र॰सू॰भा॰ भू॰ पृ॰ 15
-
वे॰पं॰ कल्याणपीयूषव्याख्यानसमेता, पृ॰ 7
-
सत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः। अतत्त्वतोऽन्यथा प्रथा विवर्त इत्युदीरितः॥ वे॰सा॰ पृ॰ 17
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
181
यथार्थतः प्रतिबिम्बस्य बिम्बातिरिक्ता काऽपि पृथग्भूता सत्ता नास्ति। तद्वत् जीवोऽपि
ईश्वरप्रतिबिम्बरूपः। केचन एवं कथयन्ति मायोपाध्युपहितचैतन्यमीश्वरः, एवम्
अन्तःकरणोपहितचैतन्यं जीवः इति जीव-ईश्वरयोर्मध्ये सामान्यतयाऽवस्थितं चैतन्यं
बिम्बस्थानीयम्। भिन्नोपाध्युपहितचैतन्यं तु प्रतिबिम्बस्थानीयम् इति।
जीवस्य स्वरूपं तावत् एवमभिहितं श ङ्कराचायैः - अस्ति आत्मा जीवाख्यः
शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसम्बन्धी इति। एतादृशो जीवः मायाबद्धस्सन् स्वस्वरूपं
विस्मरति। मायायाः आवरण-विक्षेपात्मकं शक्तिद्वयमस्ति। यथा दीप्तिमान् सूर्यः
घटेनाच्छादितस्सन् मलिनः प्रतिभाति तथैव नित्य-शुद्ध-बुद्ध-मुक्तस्वभावविशिष्टं ब्रह्म
मायायाः आवरणशक्त्या आवृतं सत् बद्धवत् प्रतिभाति। तेन चात्मा तस्य स्वरूपसत्तां
विस्मृत्य मायया कवलितस्सन् संसारे दुःखमनुभवति।
अतः ब्रह्मभावं त्यक्त्वा जीवस्वरूपप्राप्तिरूपः बन्धः, एवं पुनः जीवभावं त्यक्त्वा
ब्रह्मस्वरूपोपलब्धिरूपो मोक्षः इति अद्वैतमतम्।
1.7.3. अद्वैतमतसारः -
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः।
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः1॥
दर्शनेऽस्मिन् ज्ञेयं भवति मायिकं जगत्। अन्तःकरणावच्छिन्नं चैतन्यं ज्ञाता।
त्रिगुणात्मिकम् आवरण-विक्षेपशक्तिविशिष्टं ज्ञेयम्, अतस्मिंस्तद्बुद्धिरूपम् अज्ञानस्य
स्वरूपम्। बाधनालक्षणं सर्वेषां प्रतिकूलतया वेदनीयं दुःखम्। चिदानन्दोऽहमिति
स्थितिः ज्ञानम्। दुःखबाधो मोक्षः। प्रमाणानि तु प्रत्यक्षानुमानोपमानशब्दार्थापत्त्य-
नुपलब्धयः ।
- ब्र॰सू॰भा॰ भू॰ पृ॰ 15
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
182
1.8. विशिष्टाद्वैतसिद्धान्तः –
विशिष्टाद्वैतवेदान्तिनः वैष्णवसम्प्रदायानुयाविनो भवन्ति। सम्प्रदायस्यास्य
प्रवर्तकः नाथमुनिरिति श्रूयते। तथापि भगवद्रामानुजाचार्येणेदं मतं विस्तारितम्।
ब्रह्मणोऽद्वैततत्त्वं चिदचिद्विशिष्टेन सहाङ्गीकुर्वन्ति विशिष्टाद्वैतवेदान्तिनः। तत्र चित्पदेन
जीवः अचित्पदेन जगदभिप्रेतम्। तस्मात् ब्रह्म तदुभययुक्तं भवति। अर्थात् ब्रह्म
जीवजगद्विशिष्टं भवति। यथा मृत्तिकायां घटस्य सत्ता अव्यक्तरूपेणासीत् प्रयत्नेन
तस्मात् व्यक्ता भवति, तथैव ब्रह्मणि जगदव्यक्तावस्थायां सदेव तिष्ठति।
यदा तस्य ब्रह्मण इच्छा भवति तदा स्वास्मादेव जगदुत्पादयति
ऊर्णनाभितन्तुरिव1। अत एव एते साङ्ख्या इव सत्कार्यवादिनः इत्युच्यन्ते।
1.8.1. तत्त्वत्रयम् – दर्शनेऽस्मिन् – 1. चित् 2. अचित् 3. ईश्वरश्चेति तत्त्वत्रयं
निरूपितम्। तत्र चिन्नाम जीवः। अचिन्नाम प्रकृतिः। ईश्वरो भगवान् हरिरिति चोच्यते2।
1.8.1.1. चित् – चिन्नाम जीवः। अस्य जीवस्य आधेयत्वम्, विधेयत्वम्,
पराधीनकर्तृत्वम्, परतन्त्रादिकमपि लक्षणानि इति वक्तुं शक्यते। एवं च प्रत्यक्त्वम्,
चेतनत्वम्, आत्मत्वम्, कर्तृत्वम् इत्यादीनि साधारणलक्षणानि।
-
प्रत्यक्त्वम् – स्वस्मै स्वयमेव भासमानत्वम्।
-
चेतनत्वम् – ज्ञानाश्रयत्वम्।
-
आत्मत्वम् – शरीरप्रतिसम्बन्धित्वम्।
-
कर्तृत्वम् – सङ्कल्पज्ञानाश्रयत्वम्।
-
यथोर्णनाभिः सृजते गृहणते च यथा पृथिव्यामोषधयस्सम्भवन्ति।
यथा सतः पुरुषात् क्लेशलोमानि यथाक्षरात् सम्भवतीह विश्वम्॥ मुण्डक॰उ॰ 1.1.7
- ईश्वरश्चिदचिच्चेति पदार्थत्रितयं हरिः। ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यमचित्पुनः॥ सर्व॰द॰सं॰ पृ॰ 161
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
183
इत्येतानि लक्षणानि जीवेश्वरयोः साधारणलक्षणानि। जीवस्य विशेषलक्षणं तु -
“अणत्वे सति चेतनत्वम्, स्वतश्शेषत्वे सति चेतनत्वम्”1 इति। अयं जीवः
देहेन्द्रियमनःप्राणबुद्धिभ्यः विलक्षणः। तद्यथा –
क्र.सं. जीवः उदाहरणम्
-
देहाद्भिन्नः। लोके मम शरीरमिति प्रतीत्या जीवः देहाद्भिन्नो भवति।
-
बाह्येन्द्रियेभ्यो
भिन्नः।
चक्षुषा पश्यामि, श्रोत्रेन्द्रियेण शृणोमि, वाचा वदामि, हस्तेन
ददामि इत्यादिप्रतीतैः जीवः इन्द्रियेभ्यो भिन्नो भवति।
- मनसः भिन्नः। अहं जानामीत्यत्र मनसः ज्ञानकरणत्वप्रतीतेः जीवः मनसः
भिन्नो भवति।
- प्राणेभ्यो भिन्नः मम प्राण इति उक्त्या जीवः प्राणेभ्योऽपि भिन्न इति ज्ञायते।
स च जीवः अणुपरिमाणः भवति। एवं च प्रतिशरीरं भिन्नो भवति।
एतादृशोऽयं जीवः प्रधानतया त्रिविध इति विशिष्टाद्वैतसिद्धान्तः। तद्यथा – 1.
बद्धः, 2. मुक्तः, 3. नित्यः चेति॥ तत्र –
-
बद्धः – संसारी, संसारे वर्तमानः।
-
मुक्तः – संसारात् विमुक्तः।
-
नित्यः – संसारवासनारहितः। अनन्तगरुडविष्वक्सेनादयः।
-
य॰म॰दी॰ पृ॰ 70
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
184
पुनः तत्र बद्धजीवः बहुविधः। तद्यथा –
जीवः
बद्धः मुक्तः नित्यः
बुभुक्षुः मुमुक्षुः
अर्थकामपरः धर्मपरः कैवल्यपरः मोक्षपरः
देवतान्तरपरः भगवत्परः भक्तः प्रपन्नः
एकान्ती परमैकान्ती
दृप्तः आर्तः
एतादृशोऽयं जीवः नित्यः, अणुः, अव्यक्तः, अचिन्त्यः, निरवयवः, निर्विकारः,
ज्ञानाश्रयश्च भवति। ज्ञानाश्रयत्वादेवायं जीवोऽचित्तत्त्वतो विविक्तो भवति।
एवं जीवस्याणुपरिमाणत्वमपि एवं श्रूयते च –
वालाग्रशतभागस्य शतधा कल्पितस्य च।
भागो जीवस्स विज्ञेयः स चानन्त्याय कल्पते1॥
- श्वेत॰उ॰ 5.9
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
185
1.8.1.2. अचित् -
अचिन्नाम प्रकृतिः। “सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्रकृतिः। सा नित्या-
अक्षरा-अविद्या-मायादिशब्दवाच्या”1 इति तल्लक्षणम्। सा द्विविधा 1. शुद्धसत्त्वम्, 2.
मिश्रसत्त्वं चेति।
-
शुद्धसत्त्वम् – एतत् सत्त्वगुणविशिष्टं ज्ञानानन्दयोरुत्पत्तिस्थलम्।
-
मिश्रसत्त्वम् – सत्त्व-रजस्-तमस इति गुणत्रयमिश्रम्। अस्यैव प्रकृतिः, अविद्या,
माया इत्यादिसंज्ञाः विद्यन्ते। इदं च सत्त्वम् इन्द्रियपञ्चकम्, भूतपञ्चकम्, प्राणपञ्चकम्,
प्रकृतिम्, महदहङ्कारम्, मनश्च सृजति।
एतादृशेऽस्मिन् जगति परमात्मनोंऽशः विद्यत एव। अतः जगतः सत्ता अस्तीति
वक्तुं नैव शक्यते। परन्तु जगन्नित्यमेव भवतीत्येवं प्रकृतिस्वरूपमुक्तमस्मिन् दर्शने।
1.8.1.3. ईश्वरः –
सर्वेश्वरत्वम्, सर्वशेषित्वम्, सर्वकर्मसमाराध्यत्वम्, सर्वफलप्रदत्वम्,
सर्वाधारत्वम्, सर्वकार्योत्पादकत्वम्, सर्वशब्दवाच्यत्वम्, स्वज्ञानस्वेतरसमस्तद्रव्य-
शरीरत्वम्2 – इत्यादीनि ईश्वरलक्षणानि। स च ईश्वरः चिदचिद्विशिष्टवेषेण सकलस्य
जगतः निमित्तकारणं भवतीति, कालाद्यन्तर्यामिवेषेण सहकारिकारणं भवतीति च तस्य
ईश्वरस्य जगत्कारणत्वमभ्युपगम्यते।
तत्र कारणस्वरूपमेवं भवति –
-
उपादनकारणम् – कार्यरूपेण विकारयोग्यं वस्तु।
-
य॰म॰दी॰ पृ॰ 36
-
य॰म॰दी॰ पृ॰ 80
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
186
-
निमित्तकारणम् – कार्यतया परिणामयितृकारणम्।
-
सहकारिकारणम् – कार्योत्पत्त्युपकरणं वस्तु – इति।
एवं त्रिविधकारणविभागे एष ईश्वरः जगतः त्रिविधकारणं स एक एवेति
अभिन्ननिमित्तोपादानकारणमिति विशिष्टाद्वैतसिद्धान्तः। तादृशेश्वरः विभुस्स्वरूपः,
सर्वव्यापी, अनन्तकल्याणगुणविशिष्टः इत्यभिधीयते।
स च चराचरजगतः कर्ता, हर्ता, पाता च भवति। जीवेन साकं तस्याभेदः न
कदापि सम्भवति। जीवः सर्वदा ईश्वरस्य सेवक एव भवति। जीव-ब्रह्मणोर्मध्ये
नियम्य-नियामकभावोऽस्ति। सर्वदा जीवः ईश्वराधीनः। तस्येश्वरस्यानुग्रहेणैव जीवः
कृतार्थो भवति। उभयोर्मध्ये शेषशेषिभावसम्बन्धमप्यङ्गीकुर्वन्ति। अर्थात् – परोद्देशेन
प्रवर्तमानः शेषः जीवः। तादृशजीवानां मीलभूतः शेषी इति। अनेन जीवब्रह्मणोः
नित्यसम्बन्ध इति ज्ञाप्यते।
तस्मात् सेव्य-सेवकयोः नियम्य-नियामकयोः, आधेय-आधारयोः, अंश-
अंशिनोर्वा अभेदः सर्वदा न सम्भवति। अतो जीवोऽन्यः ईश्वरश्चान्यः। अद्वैतोक्तवत्
जीवः उपाधिविशिष्टं चैतन्यं न भवति। ब्रह्मणस्सकाशात् जीवस्य पृथक्त्वमस्त्येव।
ईश्वरस्तु सर्वज्ञत्वादिविशिष्टो भवतीति सिद्धान्तः।
विशिष्य एतादृशोऽयमीश्वरः पञ्चधा अवस्थितः। तद्यथा –
क्र.सं. ईश्वरविभागः स्वरूपः
- परः परो नाम त्रिपाद्विभूतौ श्रीमद्वैकुण्ठे विद्यमानः। स च
देवैरप्यनभिलक्ष्यः।
- व्यूहः व्यूहः जगत्सृष्ट्याद्यर्थमवस्थितः। वासुदेव-सङ्कर्षण-प्रद्युम्न-
अनिरुद्धभेदेन चतुर्धा भवति। केशवादिरूपाः अपि
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
187
अत्रैवान्तर्भवन्ति।
- विभवः विभवो नाम तत्तत्सजातीयरूपेण आविर्भावः।
धर्मरक्षणार्थमवस्थितः। स च मत्स्यादिभेदेन दशधा
कीर्त्यते।
- अन्तर्यामी सकलप्राणिनां हृदयप्रदेशावस्थितरूपः।
अन्तर्यमनरूपलीलाविशिष्टः।
- अर्चावतारः वेङ्कटाद्रि-श्रीरङ्गादिक्षेत्रेषु दिव्यमङ्गलविग्रहरूपेणावस्थितः।
1.8.1.4. मोक्षः मोक्षसाधनञ्च -
ज्ञानं विना मुक्तिर्नैव सम्भवतीति एतैरप्यङ्गीक्रियते। अपि चैते ज्ञानस्य
प्राधान्यमिव उपासनाया अपि प्राधान्यं भजन्ते। कर्मणः माध्यमेन समुपलब्धा या
ज्ञानमूला भक्तिः सैव जीवस्य निश्श्रेयसाय भवतीत्येतेषां सिद्धान्तः। एतादृश्या भक्त्या
भगवान् प्रपन्नस्सन् भक्तस्य कर्मलब्धान् क्लेशान् समुच्छिनत्ति। ततः ब्रह्मज्ञानमुदेति।
तेन मोक्षस्सिद्ध्यति।
परन्तु यथाऽद्वैतवादिभिः मोक्षदशायां जीवस्य ब्रह्मणा साकमभिन्नत्वं प्रतिपादितं
तथा नैव सम्भवतीति सिद्धान्तः। सालोक्यादिभिः जीवः ब्रह्मणः स्वरूपं
सर्वज्ञत्वादिगुणांश्चाधिगच्छति। तत्सादृश्यं च प्राप्नोति। परन्तु जीवस्य ब्रह्मणा साकं
तादात्म्यं नैव सम्भवति। यतः ब्रह्मणः सर्वकर्तृत्वादिगुणाः जीवे न कदाचित् सङ्क्रमन्ते॥
जीवस्य परममोक्षोपायः प्रपत्तिरेवेति विशिष्टाद्वैतसिद्धान्तः।
1.8.2. प्रपत्तिरेव मोक्षोपायः -
विशिष्टाद्वैतसिद्धान्तनयेन परममोक्षोपायभूता भवति प्रपत्तिः। अयं विषयः
न्यासविंशतिग्रन्थे सुनिरूपितः। तद्यथा –
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
188
मोक्षोपायार्हतैवं भवति भवभृतां कस्यचित् क्वापि काले,
तद्वद्भक्तिप्रपत्त्योरधिकृतिनियमस्तादृशा स्यान्नियत्या।
शक्ताशक्तादितत्तत्पुरुषविषयतः स्थाप्यते तद्व्यवस्था,
यच्चाहुस्तद्विकल्पः सम इति कतिचित् तत्फलस्याविशेषात्1॥ इति।
सानुक्रोशे समर्थे प्रपदनमृषिभिः स्मर्यतेऽभीष्टसिद्ध्यै,
लोकेऽप्येतत् प्रसिद्धं न च विमतिरिह प्रेक्ष्यते क्वापि तन्त्रे।
तस्मात् कैमुत्यसिद्धं भगवति तु भरन्यासविद्यानुभावं,
धर्मस्थेयाश्च पूर्वे स्वकृतिषु बहुधा स्थापयाञ्चक्रुरेवम्2॥ इति च।
बद्धस्य जीवस्य मोक्षार्थं प्रकृष्टोपकारकमोक्षोपायः द्विधा सिद्धोपायः,
साद्ध्योपायः चेति।
तत्र – 1. सिद्धोपायः भगवदनुग्रह एव। अतः नित्यसिद्ध ईश्वर एव सिद्धोपायः।
- साध्योपायः नाम कर्मयोग-ज्ञानयोग-भक्तियोगाः, प्रपत्तिश्च।
विशिष्टाद्वैतदर्शनदिशा भक्तिः प्रपत्तिश्च प्राधान्येन मोक्षोपायो भवति। तदुक्तम् -
“भक्तिप्रपत्तिभ्यां प्रपन्न ईश्वर एव मोक्षं ददाति । अतस्तयोरेव मोक्षोपायत्वम्” इति
यतीन्द्रमतदीपिकाग्रन्थोक्तिः।
कर्मयोगज्ञानयोगयोः अविच्छिन्नभगवद्भक्त्युत्पत्तिमुखेन मोक्षोपायत्वं सिद्धं
भवति। ज्ञानयोगेन तु जीवस्य स्वरूपावगतिः, जडप्रकृतितः आत्मनो भेदः, परमात्मनः
शेषित्वं जीवस्य शेषत्वमिति च विषयाः ज्ञायन्ते। तत्र ईश्वरशेषत्वेन स्वस्वरूपावगतिरेव
-
न्या॰विं॰ श्लो॰ 5
-
न्या॰विं॰ श्लो॰ 6
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
189
ज्ञानयोगः इति कथ्यते। भगवत्प्रीतिरूपं ज्ञानमेव भक्तिः। निष्कल्मष-निष्कारण-
प्रीतिरूपज्ञानसन्ततिः भक्तिः इति उच्यते। उक्तञ्च – “भक्तिः मुक्तेरुपायः
श्रुतिशतविहितः सा च धीः प्रीतिरूपा” तत्त्वमुक्ताकलापे। “महनीयविषये प्रीतिः
भक्तिः, प्रीत्यादयश्च ज्ञानविशेषाः” इति सर्वार्थसिद्धिव्याख्यायाम्।
तत्र प्रपत्तिः स्वतन्त्रतया मोक्षोपायत्वेन निरूप्यते। न्यासः, शरणागतिः,
आत्मसमर्पणम्, आत्मनिक्षेपः चेति शब्दाः तात्पर्येण प्रपत्तिरूपमेवार्थं प्रपञ्चयन्ति।
अस्याः प्रपत्तेः पञ्च अङ्गानि भवन्ति । यथा -
-
अभिगमनम् - जपआदिभिः भगवदुपसर्पणम्।
-
उपादानम् - पूजाद्रव्यसंग्रहः।
-
इज्या - विष्णुपूजा।
-
स्वाध्यायः - आगमाध्ययनम्।
-
योगः – अष्टाङ्गयोगानुष्ठानम् - इति।
मोक्षस्य मोक्षसाधनस्य वा सम्पादने “अहम् असमर्थः” इति निश्चित्य
परिपूर्णश्रद्धया भगवति भरन्यासरूपशरणागतिः एव प्रपत्तिः इति उच्यते। तदुक्तम् -
अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम्।
तदेकोपायतायाच्ञा प्रपत्तिः शरणागतिः॥ इति।
एवं प्रपत्तिः भक्तिमार्गात् किञ्चित् भिद्यते। “यच्चाहुस्तद्विकल्पः सम इति
कतिचित् तत्फलस्याविशेषात्” इति च न्यासविंशतौ उक्तम्।
किन्तु प्रपत्तिः सर्वविधकर्मणा सह प्रारब्धमपि नाशयतीति कारणात्
“आशुमोक्षकारिणी” इत्युच्यते।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
190
1.8.3. विशिष्टाद्वैतसारः –
नित्यं हेयगुणावधूननपरो नैर्गुण्यवादश्श्रुतौ,
स्पष्टार्थास्सगुणोक्तयश्शुभगुणप्रख्यापनाद् ब्रह्मणः।
अद्वैतश्रुतयो विशिष्टविषया निष्कृष्टरूपाश्रया,
भेदोक्तिस्तदिहाखिला श्रुतिहितं रामानुजीयं मतम्॥
सिद्धान्तेऽस्मिन् ज्ञेयं भवति सर्वं दृश्यमदृश्यं चेश्वरभूतं जगत्। ज्ञाता चेतनावान्
अणुः। विषयेषु ममत्वभावनाऽज्ञानस्य स्वरूपम्। नानाविधो मनस्तापः दुःखस्य
स्वरूपम्। ईश्वरो नित्यासङ्ख्यमङ्गलगुणवानिति भावना ज्ञानम्। भगवतः कृपया
दुःखस्यापुनरावृत्तिः तत्सान्निध्यं च मोक्षः। प्रमाणानि च प्रत्यक्षानुमानशाब्दाः॥
1.9. द्वैतसिद्धान्तः -
विशिष्टाद्वैतसिद्धान्तवत् इदं द्वैतसिद्धान्तोऽपि विष्णुपारम्यमेव प्रतिपादयति।
जीवानां कल्याणार्थमशेषकल्याणगुणविशिष्टस्य परमात्मनः स्वरूपं ख्यापयितुं परम-
कारुणिको भगवान् वायुदेवः मध्वाचार्यरूपेण भुवि आविर्बभूवेति माध्वतत्त्व-
वादिनोऽभिप्रयन्ति। श्रीमध्वाचार्याः त्रयोदशशतकस्यारम्भकालीना इति ज्ञायते। यथा
प्रकटितमद्वैतिभिः सङ्क्षेपेण स्वमतसारम् -
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः।
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः॥ इति।
तद्वत् माध्वैरपि एवमुक्तम् –
श्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्त्वतो,
भेदो जीवगणाः हरेरनुचराः नीचोच्चभावं गताः।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
191
मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं,
ह्यक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः1॥
एवं वादरत्नावलावपि –
विश्वं सत्यं हरिः कर्ता जीवोऽन्यः परमार्थतः।
वेदास्सत्यं प्रमाणञ्चेत्येवं व्यासमतस्थितिः॥ इति।
एवं मध्वाचार्यसिद्धान्ते जगतः सत्यत्वम्, ईश्वरस्य जीवापेक्षया उत्कृष्टत्वं, तद्द्वारा
जीव-ईश्वरयोः भिन्नत्वं च प्रपञ्चितम्। जगन्मिथ्यात्ववादः जीव-ब्रह्मणोश्चैक्यमिति
यन्मतमस्ति तत्खण्डनपुरस्सरं विष्णोस्सर्वोत्तमत्वप्रतिपादनमेव मध्वाचार्याणां
मुख्याभिप्रायः।
एतादृशेऽस्मिन् सिद्धान्ते परमात्मना सृष्टं जगत् ज्ञेयम्। अणुरूपः श्रीहरेस्सेवकः
ज्ञाता। परमात्मनिर्मितेषु वस्तुषु स्वस्वबुद्धिः अज्ञानम्। नानाविधयोनिषु सम्भवः
दुःखानुभवश्च दुःखम्। अहमस्मि श्रीहरेस्सेवक इति भावना ज्ञानम्। उत्तमलोक-
प्राप्तिपूर्वकदिव्यसुखानुभवः मोक्षः। प्रमाणानि तु प्रत्यक्षानुमानशाब्दानि॥
1.10. स्वेतरवेदान्तसिद्धान्तापेक्षया विशिष्टाद्वैतवेदान्तस्य वैलक्षण्यम् –
विशिष्टाद्वैतसिद्धान्तः स्वेतरसिद्धान्तापेक्षया विलक्षणः, यतः अस्मिन् सिद्धान्ते
समूलतो वैलक्षण्यांशाः एते वर्तन्ते –
⮚ भेदाभेदश्रुतीनां समन्वयः।
⮚ पूर्वोत्तरमीमांसयोरैकशास्त्र्यम्।
- मो॰म॰द्वा॰द॰सो॰आ॰ पृ॰ 197
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
192
⮚ जगतः सत्यत्वम्।
⮚ ब्रह्मणः अभिन्ननिमित्तोपादानत्वम्।
⮚ सर्वविज्ञानस्य यथार्थत्वम्।
– इत्याद्यंशाः विशिष्टाद्वैतसिद्धान्तप्रौढिमां व्यक्तीकुर्वन्ति।
1.10.1. भेदाभेदश्रुतीनां समन्वयः –
वेदान्तशास्त्रे जीवब्रह्मणोः भेदो वा अभेदो वा इत्यस्मिन् विषये महान् विचारः
दरीदृश्यते। अद्वैतिनः “जीवो ब्रह्मैव नापरः” इति अभेदं वदन्ति। द्वैतिनस्तु
भेदमभिप्रयन्ति। तत्र वेदे स्थितान् भेदपरकान् मन्त्रान् एव स्वीकृत्य व्याख्यानं कुर्वन्ति
भेदवादिनः। एवमेव अभेदमन्त्रान् स्वीकृत्य व्याख्यानं कुर्वन्ति अभेदवादिनः।
विशिष्टाद्वैतिन एव भेदाभेदमन्त्रान् सर्वान् स्वभाष्यग्रन्थेषु व्याख्यानं कुर्वन्तीति विशेषः।
तद्यथा - “आत्मा वा इदमेक एवाग्र आसीत्”, “एकमेवाद्वितीयम्”
इत्याद्येकत्व-प्रतिपादिनी श्रुतिः सर्वविशेषशून्यम् एकं तत्त्वं न अब्रवीदिति, “द्वासुपर्णा
सयुजा सखाया समानं वृक्षं परिषस्वजाते” इत्यादिभेदश्रुतीनाम्, एवम् “यः
पृथिवीमन्तरो यमयति” इत्यादिघटकश्रुतीनां च अन्वयेन परब्रह्मणः विशिष्टैक्यसिद्धान्तः
श्रुतीनां परमार्थ इति विशिष्टाद्वैतसिद्धान्तेऽत्यन्तप्रधानो विषयः। विशिष्टाद्वैतसिद्धान्तोक्तं
परं ब्रह्म अद्वितीयमेव। किन्तु तच्चाद्वितीयत्वं चिद्विशिष्टम् अचिद्विशिष्टं चेति सारः।
अयमंशः श्रीभाष्यादिग्रन्थेषु, विशिष्य श्रीनिवासाचार्यविरचिते नयद्युमणिदीपिकाग्रन्थे च
सुनिरूपितो वर्तते।
1.10.2. पूर्वोत्तरमीमांसयोरैकशास्त्र्यम् –
जैमिनिप्रवर्तितस्य पूर्वमीमांसाशास्त्रस्य एवं बादरायणप्रवर्तितस्य उत्तरमीमांसा-
शास्त्रस्य च समानशास्त्रत्वमभिप्रयन्ति विशिष्टाद्वैतवेदान्तिनः। तत्र प्रधानहेतुर्भवति
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
193
प्रतिपाद्यवस्तुनो भेदाभावात् शास्त्रैक्यसिद्धिरिति। पूर्वमीमांसा वेदार्थं यथा
विषयीकरोति, तथैव उत्तरमीमांसाऽपि। तस्मात् विषयैक्यात् शास्त्रैक्यमिति न्यरूपि।
पूर्वमीमांसायां कर्मविचारः उत्तरमीमांसायां ब्रह्मविचारः वर्तते, तस्मात् विषयभेदात्
शास्त्रैकत्वसिद्धिः न भवतीति चेत्, कर्मब्रह्मणोः अङ्गाङ्गिभावात्, कर्मज्ञानानन्तरं तेषां
कर्मणामल्पास्थिरफलत्वे ज्ञाते मुमुक्षुः अनल्पस्थिरफलक-ब्रह्मज्ञानेच्छावान् भवति।
तस्मात् पूर्वोत्तरमीमांसयोरैकशास्त्र्यं समञ्जसमिति श्रीभाष्यादिग्रन्थेषु, विशिष्य
श्रीनिवासाचार्यविरचिते नयद्युमणिदीपिकाग्रन्थे च सुनिरूपितं वर्तते।
1.10.3. जगत् सत्यत्वम् -
ब्रह्म सत्यं जगन्मिथ्या इति जगतः मिथ्यात्वं वदन्ति अद्वैतिनः। तत्र हेतुं वदन्ति
दृश्यत्वात् स्वप्नवत् इति। यद्दृश्यं तन्मिथ्या, यथा स्वप्नपदार्थ इति अन्वयव्याप्तिं स्वीकृत्य
स्वमतं प्रकटयन्ति। एवमेव व्यावर्तमानत्वात् शुक्तिरूप्यवत् इति चोक्त्वा जगतः
मिथ्यात्वं व्यक्तीकुर्वन्ति। किन्तु यद्दृश्यं तन्मिथ्या, यथा स्वप्नपदार्थ इत्यन्वयव्याप्तिस्थले
दुष्टकारणजन्यज्ञानविषयत्वं बाधकज्ञानविषयत्वं च उपाधिः भवति। एवमेव यथा –
स्वाप्ने दृश्यमानपदार्थफलं जीवेनानुभूयते इति स्वप्नशास्त्रस्य सत्यत्वम्, एवं
स्वप्नफलप्रदाता अपि भगवानेवेति यो विचारः वेदान्तशास्त्रे वर्तते तेन विचारेण
स्वाप्नस्य सत्यत्वं न्यरूपि। स्वप्नस्यैव सत्यत्वसिद्धे जगतः सत्यत्वं कैमुतिकसिद्धम्।
यथा च रज्जुसर्पभ्रान्त्यादिषु सर्पभ्रान्तिः रज्जावेव भवति, न तु उत्पीठिकायाम्।
किमर्थमिति चेत् सर्पवत् दीर्घत्व-कुटिलत्वादिलक्षणं रज्जौ वर्तते तस्मादेव तत्र
भ्रान्तिरागता। अर्थात् सर्परज्जुभ्रान्त्यादिस्थलेष्वपि याथार्थ्यं यत्किञ्चिदस्तीति मत्वा लोके
मिथ्यात्वं किमपि नास्तीति विशिष्टाद्वैतसिद्धान्तिनोऽभिप्रयन्ति।
अयं च विषयः श्रीभाष्यादिग्रन्थेषु, विशिष्य श्रीनिवासाचार्यविरचिते नयद्युमणि-
दीपिकाग्रन्थे च सुनिरूपितो वर्तते॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
194
1.10.4. ब्रह्मणः अभिन्ननिमित्तोपादानत्वम् –
विशिष्टाद्वैतिनो जगतः अभिन्ननिमित्तोपादानकारणं भवति भगवानित्यामनन्ति।
उपादानं नाम उपादीयते स्वनिष्ठतया स्वीक्रियते कार्यं येन द्रव्येण तदुपादानमिति।
अर्थात् अवयवद्रव्येषु अवयविद्रव्यं जायते, द्रव्ये गुणः क्रिया च जायते। तेषामवयव-
गतद्रव्यगुणकर्मणां स्वयं द्रव्यम् उपादानं भवति। घटे पाकात् रूपान्तरोत्पत्तिः एवं
पूर्वरूपध्वंसश्च जायते। तत्र रूपध्वंसं प्रति घटः उपादानं न भवति। जायमानं प्रति यत्
समवायसम्बन्धेन आधारभूतं भवति तत् उपादानं भवति – इति तार्किका आमनन्ति।
वस्तुतः विशिष्टाद्वैतिनां मते उपादानत्वं नाम तादात्म्यसम्बन्धावच्छिन्नकार्यतानिरूपितं
कारणत्वम्। घटमृत्पिण्डयोः एकद्रव्यत्वात् घटरूपावस्थावच्छिन्नकार्यतानिरूपितपिण्ड-
त्वावच्छिन्नकारणता अवस्थाश्रयभूता इति समन्वयः। मृत् घटत्वावस्थाप्रहाणेन
कपालत्वावस्थां यदि प्राप्नोति तादृशकपालत्वाश्रय एव उपादानमिति सारः॥
अनया रीत्या सूक्ष्मचिदचिच्छरीरकं ब्रह्म स्थूलचिदचिच्छरीरकं ब्रह्म प्रति
उपादानकारणं भवति। अत्र सूक्ष्मचिदचिच्छरीरं ब्रह्म इत्यनेन ब्रह्मादिस्तम्भपर्यन्तस्य
जगतः सूक्ष्मावस्था इत्यभिप्रायः। एवमेव स्थूलचिदचिच्छरीरं ब्रह्म इत्यनेन परिदृश्यमानं
ब्रह्मादिस्तम्भपर्यन्तं जगत् अभिप्रेतम्। तस्मात् “असदेवेदमग्र आसीत्1”, “सदेव
सोम्येदमग्र आसीत्2”, “तद्ध्येतं तर्ह्यव्याकृतमासीत्3”, “ब्रह्म वा इदमग्र आसीत्4”,
“एको ह वै नारायण आसीत्5” इति बहूनि कारणवस्तुप्रतिपादकानि वाक्यानि
-
छां॰उ॰ 6.2.1
-
छां॰उ॰ 6.2.2
-
बृ॰उ॰ 3.4.7
-
मु॰उ॰ 1.1.1
-
महाना॰उ॰ 2.1.3
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
195
उपनिषत्सु दरीदृश्यन्ते। एवं ब्रह्म जगतः उपादानम्। उपादानलक्षणयोगित्वात् कनकं
प्रति कनकवत् भवतीति श्रीभाष्यादिग्रन्थेषु जगदुपादानकारणत्वं परब्रह्मणः यथा
निरूपितं तद्वदेवात्र नयद्युमणिदीपिकाग्रन्थेऽपि न्यरूपि॥
1.10.5. सर्वविज्ञानस्य यथार्थत्वम् -
“यथार्थं सर्वविज्ञानम् इति वेदविदां मतम्”1 इति सर्वस्य ज्ञानस्य यथार्थत्वं
विशिष्टाद्वैतनये सिद्धान्तितम्। अनेन सिद्धान्तेन भ्रमादिकमपि यथार्थमेवेति अभिप्रायः।
यतः विशिष्टाद्वैतवेदान्तिनः सत्ख्यातिवादिनो भवन्ति। सत्ख्यातिर्नाम ज्ञानविषयस्य
सत्यत्वमित्यर्थः। मीमांसकाः अख्यातिवादिनः, सौत्रान्तिक-वैभाषिकबौद्धाः
आत्मख्यातिवादिनः, अद्वैतिनोऽनिर्वचनीयख्यातिवादिनः, तार्किकाः अन्यथाख्याति-
वादिनः, माध्यमिकबौद्धाः असत्ख्यातिवादिनश्च भवन्ति। विशिष्य विशिष्टाद्वैतवेदान्तिन
एव यथार्थख्यातिवादिनोऽर्थात् सत्ख्यातिवादिनो भवन्ति।
शुक्तिकायाम् इदं रजतमिति ज्ञाने शुक्तिकायां किञ्चिदिव रजतांशस्य
विद्यमानत्वात्, तत्र ज्ञानस्य सत्यत्वम्। किन्तु तत्र रजतांशस्य अल्पीयस्त्वात्
रजतव्यवहारो न भवति। शुक्त्यंशभूयस्त्वात् इदं रजतमिति भ्रमनिवृत्तिर्भवतीति
सिद्धान्तः। किन्तु शुक्तिकायां रजतांशः कथं भवति इत्यादिसन्देहस्य समाधानमिदं
भवति - पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानां विद्यमानत्वात् शुक्तिकायां
रजतांशः, रज्जौ सर्पांशः अत्यल्पीयस्त्वेन भवतीति तस्मात् यथार्थं सर्वविज्ञानमिति
सिद्धान्तस्याभिप्रायः॥
एवं स्वप्नेऽपि पुण्यपापानुरोधेन भगवानेव तत्तत्पुरुषमात्रानुभाव्यान्
तत्तत्कालावसानान् पदार्थान् सृजतीत्यतः स्वप्नस्यापि यथार्थता सुनिरूपिता। एवं
- य॰म॰दी॰ पृ॰ 22
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 1. वेदवेदान्तपरिचयः
196
श्रीभाष्यादिग्रन्थेषु सर्वस्य विज्ञानस्य यथार्थत्वं यन्निरूपितं तत् श्रीश्रीनिवासचार्यकृत-
नयद्युमणिदीपिकाग्रन्थेऽपि न्यरूपि॥
एतादृशविशेषनिजसिद्धान्तस्थापनेन विशिष्टाद्वैतसिद्धान्तोऽयं स्वेतरवेदान्त-
सिद्धान्तापेक्षया विशिष्ट इत्यर्थनाम, भेदाभेदघटकश्रुतिव्याख्यानात् परिपूर्णश्च भवतीति
निश्चप्रचयोऽयं विषयः॥
इत्थं नयद्युमणिव्याख्याध्ययनस्य प्रथमाध्याये उपक्रमाख्ये वैदिकवाङ्मयविचारः,
वेदस्यापौरुषेयत्वकथनम्, वेदस्य विभागक्रमः, उपनिषद्वैभवम्, ब्रह्मविद्यानां स्वरूपम्,
प्रस्थानत्रय-स्वरूपकथनम्, अद्वैतविशिष्टाद्वैतद्वैतादिवेदान्तसिद्धान्तानां स्वरूपम्, विशिष्य
विशिष्टाद्वैतसिद्धान्तस्य प्रौढिमा इत्यंशाः प्रधानताय विवेचिताः॥
अथ द्वितीयाध्याये विशिष्टाद्वैतपरम्परा निरूप्यते॥
⏺⏺⏺
197
नयद्युमणिव्याख्यायाः अध्ययनम्
अथ द्वितीयोऽध्यायः
विशिष्टाद्वैतपरम्परा
2.1. भगवद्रामानुजाचार्यात् पूर्वाचार्यपरम्परा –
विशिष्टाद्वैतगुरुपरम्परायां प्रथमो गुरुः श्रियःपतिः श्रीमन्नारायण एव। कीर्तितञ्च
– “ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः”1 इति विष्णुपुराणवचनरीत्या सर्वस्यापि
लोकस्य परमाचार्यः श्रीमन्नारायणः आदौ ब्रह्मणे वेदान् प्रदाय, तेषामपहारे पुनः मत्स्य-
हयवदनरूपेण प्रत्याहृत्य, दत्त्वा, आद्यो गुरुरभूत्। अस्य श्रीमहाविष्णोः सर्वावस्थासु
लक्ष्मीविशिष्टत्वात् तयोः लक्ष्मीनारायणयोः चन्द्रचन्द्रिकावदभेदसम्बन्धवत्त्वात् भगवतो
विष्णोः गुरुत्वे अस्याः विष्णोरनपायिन्याः लक्ष्म्या अपि गुरुत्वं सिद्धमेव। एतावता
विशिष्टाद्वैतसिद्धान्तस्य प्रथमो गुरुः लक्ष्मीनारायण एव।
उक्तञ्च - कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम्।
प्रवक्ता छन्दसां वक्ता पाञ्चरात्रस्य यस्स्वयम्2॥ इति।
अनन्तरं गुरुपरम्पराक्रमः विशिष्टाद्वैतसिद्धान्तप्रकरणग्रन्थे यतीन्द्रमतदीपिकाख्ये
एवं प्रादर्शि – “व्यास-बोधायन-गुहदेव-भारुचि-ब्रह्मानन्दि-द्रमिडाचार्य-श्रीपराङ्कुश-
नाथ-यामुनमुनि-यतीश्वरप्रभृतीनाम्”3 इति॥
-
वि॰पु॰ 1.14
-
दे॰त॰ (श्रीदेशिककृततनियन्)
-
य॰म॰दी॰ पृ॰ 1
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
198
तत्र गुरुपरम्पराप्रार्थनाक्रमे नित्यानुसन्धाने एवं प्रवदन्ति –
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥ इति।
एवमेवास्मिन् विशिष्टाद्वैतगुरुपरम्परायां लक्ष्मीनारायणानन्तरं विष्वक्सेनः
श्लाघ्यते। अनन्तरं द्वादशदिव्यसूरयः वन्दनीया भवन्ति।
2.1.1. द्वादशदिव्यसूरयः –
आळ्वारगळ् इति लोके गीयमानाः द्वादशसङ्ख्याकाः दिव्यसूरयः विशिष्टाद्वैत-
सिद्धान्तं प्रकटयन्तः भगवदर्चाविग्रहसौन्दर्यरसपानमत्ताः विष्णुभक्तिप्रबोधकाः गुरवः
आसन्। विशिष्टाद्वैतसिद्धान्तरूपकुसुमस्य दिव्यप्रबन्धाख्यपरिमलापादकाः एवं तेषु
प्रबन्धेष्वेव गहनवेदान्तरहस्यान् अत्यन्तसुलभरूपेण प्रबोधितवन्तः। अत एव गीयन्ते
पुराणादिषु –
कलौ खलु भविष्यन्ति नारायणपरायणाः।
क्वचित् क्वचिन्महाभागाः द्रामिडेषु च भूरिशः1॥ इति।
आळ्वार् इति शब्दस्य भगवद्भक्तिपरवशः इति, भगवद्गुणानुभवसागरे निमग्नः
इति च अर्थद्वयं विद्यते। एतादृशगुणयुक्ताः एते भवन्ति –
क्र.सं. आळ्वार् नाम प्रसिद्धनाम ग्रथितप्रबन्धनाम पाशुरसङ्ख्या
-
पोयिगै आळ्वार् सरोयोगी मुदळतिरुवन्दादि 100
-
पूदत्ताळ्वार् भूतयोगी रेण्डां तिरुवन्दादि 100
-
पेयाळ्वार् महायोगी मून्रां तिरुवन्दादि 100
-
तिरुमलिशैयाळ्वार् भक्तिसारयोगी नान्मुगं तिरुवन्दादि 93
-
भा॰पु॰ 11.5.39
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
199
- नम्माळ्वार् शठकोपसूरिः
तिरुवरुत्तम् 100
तिरुवासिरयम् 07
पेरियतिरुवन्दादि 87
मधुरकवि
आळ्वार्
मधुरकविसूरिः
कण्णिनुण्
शिरुत्ताम्बु
11
कुलशेखर
आळ्वार्
कुलशेखरसूरिः पेरुमाळ् तिरुमोळि 105
- पेरियाळ्वार् विष्णुचित्तसूरिः
तिरुप्पल्लाण्डु 12
पेरियाळ्वार्
तिरुमोळि
461
- आण्डाळ् गोदादेवी
तिरुप्पावै 30
नाच्चियार्
तिरुमोळि
143
तोण्डरडिप्पोडि
आळ्वार्
भक्ताङ्घ्रिरेणुसूरिः
तिरुमाळै 45
तिरुप्पल्लियोलुच्चि 10
-
तिरुप्पाणाळ्वार् श्रीपाणसूरिः अमलनादिपिरान् 10
-
तिरुमङ्गै आळ्वार् श्रीपरकालसूरिः
तिरुमोळि 1084
तिरुक्कुरुदाण्डगम् 20
तिरुनेड्डं दाण्डगम् 30
तिरुवेळिकूत्तिरुक्कै 1
शिरियतिरुमण्डळ् 77
पेरियतिरुमण्डळ् 148
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
200
एवंरूपेण द्वादशदिव्यसूरयः वैष्णवतत्त्वार्थकगानवृष्ट्या आबालगोपालं
नन्दयामासुः॥
2.1.2. नाथमुनिः –
नाथोपज्ञं वैष्णवमिति आमनन्ति पूर्वाचार्याः पूर्वोक्तदिव्यसूरीणां कालानन्तरं
लुप्तः दिव्यप्रबन्धः पुनः नाथमुनिना एव सम्पादितः प्रचारपथं नीतश्च। एतादृशाः
नाथमुनयः कलियुगे 3264 संवत्सराणां सम्पूर्णानन्तरं शोभकृन्नामसंवत्सरे ज्येष्ठमासे
अनूराधानक्षत्रे बुधवासरे अवततार। एते तिरुमलश्रीनिवासस्य वरप्रसादा इति ज्ञायते।
एतेषां पितृचरणाः सुप्रसिद्धसङ्गीतसाहित्यविद्वांसः ईश्वरभट्टाः इति च ज्ञायते। एतेषां
ग्रामः कावेरीनदीतीरस्थं वीरनारायणपुरम् अस्ति। एते नाथमुनयः मन्नारुराजगोपालस्य
कैङ्कर्ये निमग्ना आसन्। वङ्गीपुरत्तु नम्बि इति वैष्णवोत्तमस्य पुत्रिकया अरविन्दया
नाथमुनेः पाणिग्रहणं जातम्। तयोः ईश्वरमुनिः इति पुत्रो जातः।
2.1.2.1. नाथमुनिवरिवस्या –
एकस्मिन् दिने द्वौ वैष्णवोत्तमौ दक्षिणद्वारके विराजमानं मन्नारुराजगोपालस्य
दिव्यमङ्गलविग्रहदर्शनार्थमागवन्तौ। भगवद्दर्शनानन्तरं दर्शनानुभवजनितानन्देन
आरावमुद-तिरुवायिमोलि इति दिव्यप्रबन्धयोः विद्यमानानि दश पाशुराणि गानं
कृतवन्तौ। तच्छ्रुत्वा परवशेन नाथमुनयः एतानि पाशुराणि भवद्भिः कुतोऽधिगतानि?
कर्तारः के? अन्यानि पाशुराणि कानि? इति पृष्टवन्तः। तच्छ्रुत्वा तौ द्वौ वैष्णवौ
कुरुकापुरिक्षेत्रे शठकोपसूरिभिः कृतानीति, अवशिष्टानि लुप्तानि इत्यवदताम्। तच्छ्रुत्वा
दुःखितमनस्कः नाथमुनिः कुरुकापुरं गत्वा, तत्र पराङ्कुशदासानां सन्निधौ तेषां
सूचनानुसारेण मधुरकविसूरिवर्याणां “कण्णिनुण् शिरुत्ताम्बुप्रबन्धं” द्वादशसहस्रवारं
सङ्कीर्तनं कृत्वा शठकोपसूरिसन्दर्शनं प्राप्तवान्। तेन प्रसन्नाः पराङ्कुशाः नाथमुनेः
अभीष्टानुसारं नालायिरदिव्यप्रबन्धम्, द्वयमन्त्रं चोपदिश्य अन्तर्भूताः। तदनु नाथमुनयः
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
201
वीरनारायणपुरं प्रत्यागत्य, कीजियकत्ताल्वार्, मेलैयकत्ताल्वार् इत्यादिस्वकीयशिष्येभ्यः
उदात्तानुदात्तस्वरितप्रचयात्मकस्वरैस्सह सर्वं द्रविडवेदम्, नालायिरदिव्यप्रबन्धं च
अध्यापयन्। तस्मात् नाथोपज्ञं वैष्णवमिति सुप्रसिद्धिरागता। तदनु सात्त्विकास्तिक-
तादात्म्यगुणपरिपूर्णैः श्रीवैष्णवैः दिव्यदेशेषु दिव्यगानरूपेण दिव्यप्रबन्धः प्रचारितः।
एतादृशैः नाथमुनिभिः 1. न्यायतत्त्वम्, 2. योगरहस्यम् इति ग्रन्थद्वयम्
आरचितमिति ज्ञायते। सम्प्रति ग्रन्थद्वयमपि नोपलभ्यते। एते नाथमुनयः
वैष्णवसैद्धान्तिकदिव्यप्रबन्धाक्यगङ्गायाः भागीरथतुल्या इति जोघुष्यतेतराम्।
ज्येष्ठमासे त्वनूराधा जातं शठजिदाश्रयम्।
उद्धर्तारं प्रबन्धानां श्रीमन्नाथमुनिं भजे॥
2.1.3. यामुनाचार्यः –
नाथमुनेः कालानन्तरं विशिष्टाद्वैतसम्प्रदाये अग्रगण्यो भवति यामुनाचार्यः। अयं
नाथमुनेः पौत्रः ईश्वरमुनेः पुत्रश्च भवति। यामुनाचार्यः धातृनामसंवत्सरे कर्कटकमासे
पौर्णम्यामनूराधानक्षत्रे शुक्रवासरे अवततार। ईश्वरमुनिः पुत्रस्य जातकर्मादिकं कृत्वा
यमुनैतुरैवर् इति नाम निर्णीतवन्तः। उपनयनानन्तरं वेदाध्ययनमारभ्य अत्यन्तशीघ्रं
वेदशास्त्रान् अधीतवान्। अनन्तरं महाभाष्यभट्टर् सन्निधौ वेदान्तविद्याभ्यासं कुर्वन्
पुरोहितपदमपि निर्वर्तयन्नासीत्। तस्मिन् काले चोलराजास्थाने कोलाहलनामकः
पुरोहितः एक आसीत्। जनाः यथा राजनं प्रति शुल्कं समर्पयन्ति तथैव विद्वद्भिः
पुरोहितैः शुल्कं स्वस्मै समर्पणीयमिति स कोलाहलः आज्ञापयत्। एवं विद्वद्भ्यः शुल्कं
सम्पादयति स्म कोलाहलः। सः कोलाहलः एकस्मिन् दिने महाभाष्यभट्टं प्रति
स्वसेवकेन शुल्कार्थं लेखां प्रेषितवान्। तज्ज्ञात्वा यामुनाचार्याः पत्रं स्वीकृत्य चिच्छेद।
स सेवकः कोलाहलसन्निधिं प्राप्य महाभाष्यभट्टशिष्येण यामुनाचार्येण पत्रमच्छिनदिति
न्यवेदयत्। तच्छ्रुत्वा कोलाहलः यामुनाचार्यः कविर्वा? विद्वान् वा? इति ज्ञात्वा
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
202
प्रत्यागच्छ इति पुनः सेवकं प्रेषितवान्। आगतस्य सेवकस्य वचनं श्रुत्वा यामुनाचार्याः
एवं श्लोकं विलिख्य प्रेषितवान् –
न वयं कवयस्तु केवलं न वयं केवलतन्त्रपारगाः।
अपि तु प्रतिवादिवारणप्रकटाटोपविपाटने क्षमाः1॥ इति।
ततः कोलाहलः तच्छ्लोकपत्रं चोलराजं प्रति अदात्। तद्दृष्ट्वा चोलमण्डलेश्वरः
नाथमुनेः पौत्रस्य यामुनाचार्यस्य निजयोगवैभवागतपाण्डित्यं विज्ञाय तमाहूय
अभ्युत्थानाभिवन्दनादिभिः समर्च्य राजास्थाने समुचितस्थाने तमलञ्चकार।
एकदा चोलभूपालः बहुप्रान्तेभ्यः बहून् पण्डितान् आहूय विद्वज्जनगोष्ठीम्
अस्थापयत्। तस्यां गोष्ठ्यां महाभाष्यभट्टः, कोलाहलः, यामुनाचार्यः, तत्समकालीनाः
महान्तः पण्डिताश्च बहव आसन्। तस्यामेव गोष्ठ्याम् उन्नतासने चोलराजः एवं
महाराणी च अध्यतिष्ठताम्। तदा चोलराजः - संवादे येन विजयलक्ष्मीः प्राप्यते तस्य
मम राज्यादर्धराज्यं यच्छामीति प्रकटीचकार। तदा कोलाहलः लौकिकवादे अथवा
वैदिकवादे वा यत्र कुत्रापि त्रीणि वचनानि उक्तानि चेत् खण्डयिष्यामीति अघोषयत्।
तदानीं यामुनाचार्यः एतानि त्रीणि वचनानि प्रकटितवान् –
-
युष्मन्माता न तु वन्ध्या।
-
चोलराजा तु धार्मिकः।
-
राजपत्नी पतिव्रता। इति।
एतादृशवचनश्रवणसमनन्तरं कोलहालः अकोलाहलो जातः। तद्दृष्ट्वा महाराणी
यामुनाचार्यम् “येन्नै आलवन्दीरो” (मां परिपालयितुमागतो वा) इत्युक्तवती। राजापि
सन्तोषेण स्ववाग्दानानुसारमर्धराज्यं यामुनाचार्याय समर्पयत्॥
- प्राक्-रा॰ पृ॰ 188
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
203
2.1.3.1. यामुनाचार्यवरिवस्या -
एतादृशः यामुनाचार्यः विशिष्टाद्वैतसिद्धान्तस्थापने रक्षणे प्रचारणे च
प्राग्भारधौरेयक आसीत्। तत्क्रमे एते ग्रन्थाः आरचिताः –
क्र.सं. ग्रन्थनाम
-
स्तोत्ररत्नम्
-
चतुश्श्लोकी (कान्तास्तोत्रम्)
-
सिद्धित्रयम्
-
गीतार्थसङ्ग्रहः
-
आगमप्रामाण्यम्
-
महापुरुषनिर्णयः
इत्येवं षड्ग्रन्थाः यामुनाचार्यैरारचिताः।
एतेषु महापुरुषनिर्णयः इति ग्रन्थः इदानीं नोपलभ्यते।
एतादृशविशेषसिद्धान्तग्रन्थप्रणयनेन यामुनाचार्याः विशिष्टाद्वैतसिद्धान्त-जिज्ञासुभिरेवं
कीर्त्यन्ते –
नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः।
प्राप्तं सम्यग्यतीन्द्रैः इदमखिलतमः कर्षणं दर्शनं नः1॥ इति।
- त॰मु॰क॰ श्लो॰ 496
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
204
2.2. भगवद्रामानुजाचार्यः –
विशिष्टाद्वैतपरम्परायां रामानुजाचार्यः मेरुमणिरिव देदीप्यते। श्रीमन्नारायण-
नाथ-यामुनाद्युपलब्धं चिदचिद्विशिष्टाद्वैततत्त्वमनेनैव आचार्येण यावत्प्रपञ्चं प्रचारितमिति
सुविदितमेव। एते तुण्डीरमण्डलीये महाभूतपुरी (श्रीपेरुम्बुदूरु) इत्याख्ये ग्रामे
केशवचार्य-कान्तिमतीदम्पत्योः तपःफलत्वेन पिङ्गलनामसंवत्सरे चैत्रमासे शुक्लपञ्चम्यां
आर्द्रानक्षत्रे भृगुवासरे शेषांशेन अवततार। एतेषां कालः क्रिस्तोः परं 1017-1137
आसीत्। अस्य रामानुजस्य जननमासनक्षत्रादिकं दशरथपुत्रेष्वन्यतमस्य लक्ष्मणस्य
जन्ममासनक्षत्रादिकैः सह तुल्यत्वात्, लक्ष्मणस्य रामस्य अनुजत्वेनैव ख्यातिङ्गतत्वात्
अस्यापि रामानुज इति नामकरणं विहितम्। एते वडमकुले आसूरिवंशे हारीतगोत्रे
आपस्तम्बसूत्रे यजुश्शाखायां जनिमवाप।
चरमे वयसि यामुनाचार्याः रामानुजाचार्याणां प्रतिभामभिज्ञाय रामानुजाचार्यान्
आनेतुं स्वमुख्यशिष्यं पेरियनम्बिनामकं प्रेषितवन्तः। स पेरियनम्बी काञ्चीपुरं गत्वा
अध्ययनपूजादिषु निमग्नस्य रामानुजस्य समीपे यामुनोक्तस्तोत्ररत्नं गानं चकार।
तच्छ्रुत्वा परवशः सन् रामानुजाचार्यः स्तोत्रस्यास्य कर्ता कः इत्यपृच्छत्। आळवन्दार्
इति बिरुदाञ्चिताः यामुनाचार्याः एतादृशसुन्दरस्तोत्रस्य कर्तार इति ज्ञात्वा, सत्वरं
यामुनाचार्यं द्रष्टुं श्रीरङ्गक्षेत्रमगमत्। तस्मिन्नेव काले परमपदमलङ्कृतवन्तः।
तदा तेषां दक्षिणहस्तस्य अङ्गुलित्रयं मुकुलितं बभूव। तद्दृष्ट्वा रामानुजाचार्यः
किमर्थमेवम् इत्यपृच्छत्। तदा यामुनाचार्यशिष्याः एवमुक्तवन्तः – यामुनाचार्याणां
वाञ्छात्रयं वर्तते – 1. ब्रह्मसूत्राणां सत्यार्थस्पष्टीकरणार्थं सुन्दरभाष्यनिर्माणम्, 2.
विशिष्टाद्वैतसिद्धान्तप्रचारः, 3. अर्हाणां विशिष्टाद्वैतपण्डितानां पराशरशठकोप इति
बिरुदप्रदानञ्चेति। एतदिच्छात्रयं सफलीकर्तुं रामानुजाचार्याः प्रतिज्ञामकुर्वन्। सत्वरं
मुकुलितं यामुनाचार्याङ्गुलित्रयं विकसितमिति पूर्वाचार्यैः कथ्यते।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
205
2.2.1. रामानुजवरिवस्या -
एवमेतादृशसुसङ्कल्पभीष्मायितस्य रामानुजाचार्यस्य विवरणमेवं वर्तते।
क्र.सं. नामदेशकालादयः विवरणम्
1 नाम
रामानुजः, श्रीभाष्यकारः, लक्ष्मणमुनिः, यतिराजः,
इळैयाळ्वार्, एम्बेरुमानार्, उडैयवर्, तिरुप्पावैजीयर्,
कोयिलण्णन्, शठकोपन्पोन्नडि, भूतपुरीन्द्रः, रामानुजभट्टर्,
कृपामात्रप्रसन्नाचार्यः - इत्यादिनामानि।
देशः
जन्मस्थानम् तुण्डीरमण्डलीयः भूतपुरीग्रामः
वासस्थानम्
काञ्चीपुरम्, वेङ्कटाचलक्षेत्रम्, यादवाद्रिः (मेलकोटे),
श्रीरङ्गम् – इत्यादीनि।
-
कालः क्री॰श॰ 1017-1137 (120 वर्षाणि)
-
आचार्याः
-
सामान्यदर्शनाचार्यः - यादवप्रकाशः।
-
विशिष्टाद्वैतदर्शनाचार्याः – महापूर्णः, गोष्ठीपूर्णः,
श्रीशैलपूर्णः, मालाधरार्यः, श्रीवररङ्गः इति पञ्च।
-
रहस्यार्थाचार्यः – काञ्चीपूर्णः।
-
प्राचार्यः – यामुनमुनिः।
-
सन्न्यासदीक्षागुरुः – साक्षात् काञ्चीवरदराजः।
-
प्रशस्तयः
1.श्रीमद्वेदमार्गप्रतिष्ठापनाचार्यः
-
उभयवेदान्ताचार्यः
-
मायावादिकोलाहलः
-
मन्त्रवादिभयङ्करः
-
अभङ्गगरुडाङ्कः
-
नारायणपादपद्माराधकः
-
श्रीरङ्गेशजयध्वजः – इत्यादयः।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
206
- शिष्याः
रामानुजाचार्याणां कूरेश-दशरथिप्रभृतयः 74 सङ्ख्याकाः
प्रधानशिष्याः आसन्। अपरे चासङ्ख्याकाः।
-
कृतयः
-
वेदार्थसङ्ग्रहः
-
गीताभाष्यम्
-
वेदान्तसारः
-
श्रीभाष्यम्
-
वेदान्तदीपः
-
शरणागतिगद्यम्
-
वैकुण्ठगद्यम्
-
श्रीरङ्गगद्यम्
-
नित्यग्रन्थः – इति नवग्रन्थाः।
एवमेतादृशलक्षणसम्पन्नाः भगवद्रामानुजाचार्याः विशिष्टाद्वैतपरम्परायां मूर्धन्या
अभवन्।
चिदचित्परतत्त्वानां तत्त्वयाथार्थ्यवेदिने।
रामानुजाय मुनये नमो मम गरीयसे॥
2.3. सुदर्शनसूरिः –
श्रुतप्रकाशिकाचार्य इति प्रथिताः सुदर्शनसूरयः श्रीरङ्गक्षेत्रे क्री॰श॰ 1300 तमे
काले वडमुकुलं कूरेशवंशे हारीतगोत्रे वाग्विजयभट्टदम्पत्योः सञ्जाताः। एतेषां
व्यासार्यः, वेदव्यासभट्टर्, श्रुतप्रकाशिकाचार्यः, टीकाचार्यः इत्यादिनामान्तराण्यपि
विद्यन्ते। एते नडादूर् अम्माळाख्यवात्स्यवरदाचार्यस्वामिसन्निधौ श्रीभाष्यादिग्रन्था-
नामध्ययनं कृतवन्तः।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
207
अभ्यस्तविषयान् ग्रन्थरूपेण प्रकाश्य प्राचीनपरम्परां परिरक्षितवन्तः। प्रथमतः
यादवाद्रौ श्रीभगवद्रामानुजसन्निधौ श्रुतप्रकाशिकायाः उपन्यासपूर्वककैङ्कर्यं चकार।
अस्य सुदर्शनसूरेः वेदाचार्यभट्टः, वेदान्ताचार्यभट्टः इति पुत्रौ स्तः॥
2.3.1. सुदर्शनसूरिवरिवस्या –
एते सुदर्शनसूरयः विशिष्टाद्वैतप्रधानभाष्यग्रन्थस्य श्रीभाष्यस्य श्रुतप्रकाशिकाख्या
व्याख्या आरचितवन्तः। एवं श्रुतप्रदीपिका, तात्पर्यदीपिका, शरणागतिगद्यव्याख्या,
भागवतव्याख्या, सुबालोपनिषद्भाष्यम्, नित्यग्रन्थव्याख्यानम्, प्रार्थनापञ्चकम्,
मुक्तकश्लोकाः, सन्ध्याभाष्यम्, पञ्चस्तवव्याख्या – इत्यादिग्रन्थाश्च एतैरारचिताः।
एतेषां शिष्येषु पिळ्ळै लोकाचार्यः, वेदान्तदेशिकः, इयुण्णि पद्मनाभ इत्यादयः
अग्रगण्याः। यावज्जीवनं विशिष्टाद्वैतसिद्धान्ताध्ययनाध्यापने रता इमे विशिष्टाद्वैत-
परम्परायां गणनीया वर्तन्ते॥
2.4. वेदान्तदेशिकः –
वेदान्ताचार्य इति नाम्ना प्रसिद्धाः वेदान्तदेशिकाः काञ्चीपुरक्षेत्रसमीपस्थ तूप्पुल्
इति क्षेत्रे विश्वामित्रगोत्रे अनन्तसूरि-तोतारम्बापुण्यदम्पत्योः श्रवणनक्षत्रे सञ्जाताः।
पूर्वम् अनन्तसूरिदम्पत्योः विवाहानन्तरं बहुकालं सन्तानभाग्यं नासीत्। तस्मात्
दुःखितावेतौ भगवन्तं सम्पार्थितवन्तौ। अथ अनन्तसूरिस्वप्ने तिरुमलेशस्य
साक्षात्कारोऽभवत्। तिरुमलक्षेत्रे वसन् स्वदर्शनं करणीयमिति भगवान्
स्वयमाज्ञापयामास।
एवमेव तोताम्बायाः स्वप्ने पद्मावतीदेवी अपि एवमेव व्यजिज्ञपत्। अनन्तरं तौ
द्वौ वेङ्कटाद्रिदर्शनं कृतवन्तौ। तदनन्तरं पुनः तोताम्बायाः स्वप्ने वेङ्कटेशः एकां
रत्नघ١ामनुगृहीतवान्। तदनन्तरं पूर्वोक्तकन्यामासश्रवणनक्षत्रे भगवद्घ١ावताराः
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
208
वेदान्तदेशिकाः सञ्जाता इति ज्ञायते। एतेषां कालः की॰श॰ 1268 तः 1369 मध्ये
वर्तते॥
2.4.1. वेदान्तदेशिकवरिवस्या –
वेदान्तदेशिकाः विशिष्टाद्वैतपरम्परायाः विविधक्षेत्रेषु विस्तृतरचनां कृत्वा, तद्द्वारा
श्रीवैष्णवसिद्धान्तरक्षणं चक्रुरिति ज्ञायते। तेन 108 ग्रन्थाः आरचिताः। तद्यथा –
-
सर्वार्थसिद्धिः, 2. न्यायपरिशुद्धिः, 3. न्यायसिद्धाञ्जनम्, 4. मीमांसापादुका,
-
अधिकरणसारावलिः, 6. शतदूषणी, 7. सच्चरित्ररक्षा, 8. पाञ्चरात्ररक्षा –
इत्यादिग्रन्थाः सुप्रसिद्धा वर्तन्ते। एवमेव एतैः रामायणकथासारं रघुवीरगद्यरूपेण
रचितम्। एवं बहूनि स्तोत्राणि पादुकासहस्राख्यादीनि आरचितानि। विशिष्य
यादवाभ्युदयः, हंससन्देशः इत्यादिकाव्यान्यपि एतैः प्रणीतानि।
एतादृशविशेषग्रन्थप्रणेतारः वेदान्तदेशिकाः विशिष्टाद्वैतपरम्परायां सर्वतन्त्र-
स्वतन्त्रः कवितार्किकसिंह इति जेगीयते॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥
2.5. महाचार्यः –
दोड्डयाचार्य इति प्रथिताः महाचार्याः चोलसिंहपुरे काञ्चीक्षेत्रे 01.02.1543
तमे दिनाङ्के विक्रमनामसंवत्सरस्य माघबहुलद्वितीयायां मखानक्षत्रे इन्दुवासरे वडमकुले
कन्दाडैवंशे वाधूलगोत्रे सञ्जाताः। एते आबाल्यादेव वेदवेदान्ताध्ययनं कृत्वा
वेदान्तवादेषु विरोधिनः विजित्य चण्डमारुताचार्य इति, महागुरुरिति, घनदेशिक इति च
सर्वैः कीर्तिताः।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
209
एते विजयनगरीयरामरायस्य साहाय्येन विरोधिभिः शिलया तिरोहितं
चिदम्बरस्थगोविन्दराजं प्रकाश्य तत्पूजार्थं पञ्चग्रामान् शासनरूपेण दापयामास। तस्मिन्
काले शैव-वैष्णवकोलाहलः महान् सञ्जातः। किन्तु स्वकीयसाधुवाक्शैल्या शैव-
वैष्णवकलहोपशमनं कारितवन्तः। एवं वेदान्तदेशिककृतसर्वग्रन्थानां व्याख्यामारच्य,
विशिष्टाद्वैतसिद्धान्तसंरक्षणं कृतवन्तः। विशिष्य चोलसिंहपुरस्थ-नृसिंहदेवालयस्य
जीर्णोद्धरणं कारयित्वा तन्मन्दिरधर्मकर्तृत्वं प्रथमाचार्यपुरुषत्वं च जग्राह॥
2.5.1. महाचार्यवरिवस्या –
एवमेतादृशविशेषकार्यसाधकैः महाचार्यैः बहवो ग्रन्थाः रचिताः। तद्यथा –
-
चण्डमारुतः (शतदूषणीव्याख्या), 2. वेदान्तविजयः, 3. गुरूपसत्तिविजयः,
-
उपनिषन्मङ्गलदीपिका, 5. सर्वार्थसिद्धिव्याख्या, 6. ब्रह्मसूत्रार्थसङ्ग्रहः,
-
रामानुजचरितचुलकम्, 8. तात्पर्यदीपिका, 9. वैभवप्रकाशिका,
-
देवराजपञ्चकम् – इत्यादीनि ग्रन्थरत्नानि प्रमुखानि वर्तन्ते॥
2.6. रङ्गरामानुजाचार्यः –
विशिष्टाद्वैतसिद्धान्तजिज्ञासूनां हृदये या कापि उपनिषत् दृश्यते चेत् सत्वरं
स्मृतिपथमागच्छन्ति रङ्गरामानुजाचार्याः। एते तिरुपतिदिव्यक्षेत्रे 1670 तमे वर्षे
लक्ष्मीपुरशाखीयनल्लान्-वंशे श्रीवत्सगोत्रे सञ्जाता इति ज्ञायते। एतेषां विद्यागुरवः
वात्स्यानन्ताचार्याः, परमगुरवः ताताचार्याः, दीक्षागुरवः परकालमुनय इति ज्ञायते।
प्रदर्शितञ्च उपनिषद्भाष्य उपसंहारगद्ये – “इति श्रीमत्तातयार्यचरणारविन्द-
चञ्चरीकस्य वात्स्यानन्ताचार्यपादसेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य परकाल-
मुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु” इति॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
210
2.6.1. रङ्गरामानुजाचार्यवरिवस्या –
रङ्गरामानुजाचार्याः चतुष्षष्टि(64)प्रबन्धनिर्माणं तथा सिद्धान्तप्रवचनं च
चकार। एतेषां ग्रन्थेषु केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीय-ऐतरेय-छान्दोग्य-
बृहदारण्यक-मन्त्रिक-अथर्वशिखा-कौषीतकी-श्वेताश्वतर-अग्निरहस्य-पुरुषसूक्त-भाष्य-
ग्रन्थाः अत्यन्तप्रधानाः।
एवं श्रीभाष्यस्योपरि मूलभावप्रकाशिका, श्रुतप्रकाशिकाभाव-प्रकाशिका,
शारीरकशास्त्रार्थदीपिका, विषयवाक्यदीपिका, न्यायसिद्धाञ्जनटीका इत्यादिग्रन्थाश्च
एतैरारचिताः मुद्रिताश्च। एतेषु ईशावास्यभाष्यदीपिका, एवं रहस्यत्रय-
सारतात्पर्यकौमुदी, रामानुजसिद्धान्तसारसङ्ग्रहः – इत्याख्यग्रन्थाः अमुद्रिता आसन्॥
एवंरूपेण विशिष्टाद्वैतपरम्परायां श्रीमन्नारायणादारभ्य बहव आचार्याः
चिदचिद्विशिष्टाद्वैततत्त्वप्रपञ्चने प्रचारे च एतावत्पर्यन्तं नानाग्रन्थरचनाम् एवं प्रवचनकार्यं
च चक्रुः कुर्वन्ति करिष्यन्ति च॥
विशिष्य अस्यां परम्परायां सर्वे आचार्याः भगवतः श्रीमन्नारायणस्य
अर्चावतारवरिवस्यापराः विलसन्ति। “प्रीत्या नयन्ति फलवन्ति दिनानि धन्या” इति
वत् विशिष्टाद्वैतनये ये सन्ति ते सर्वे भक्तिप्रपत्तिरूपभगवत्सेवायां फलवन्ति दिनानि
नयन्तीति नात्र संशयः॥
सुसस्यक्षेत्रे यथा ओषधयः नित्यं जायमाना एव भवन्ति, तासामोषधीशक्त्या
लोके रुग्मतानिवारणं यथा भवति, तद्वत् विशिष्टाद्वैतसिद्धान्ताख्यसस्यक्षेत्रे ओषधीय-
मानाः बहव आचार्याः महान्तः पण्डिताश्च प्रादुर्भूय, अज्ञानरूपरुग्मतां दूरीकुर्वन्ति॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 2. विशिष्टाद्वैतपरम्परा
211
2.7. विशिष्टाद्वैतपरम्परायां श्रीनिवासाचार्याः –
एतादृशविशिष्टाद्वैताचार्यपरम्परायामस्यां क्रमप्राप्ते इदानीं वेदितव्याः भवन्ति
महाचार्यशिष्याः श्रीनिवासाः॥
महाचार्य इति नाम्ना प्रसिद्धानां दोड्डयाचार्याणां शिष्यः श्रीनिवासदासः
नयद्युमणिः इति नाम्ना शारीरिकमीमांसासारतया दशश्लोकानारच्य, तेषां श्लोकानां
व्याख्यानमपि स्वयं दीपिका नाम्ना व्यरीरचदिति ज्ञायते। अर्थात् नयद्युमणिदीपिका
स्वोपज्ञटीका भवति। अयं श्रीनिवासाचार्याः यतीन्द्रमतदीपिका इति नामकस्य
विशिष्टाद्वैतसिद्धान्तप्रकरणग्रन्थस्यापि रचयिता इति ज्ञायते॥
एवं नयद्युमणिव्याख्याध्ययनस्य विशिष्टाद्वैतपरम्पराख्येऽस्मिन् द्वितीयाध्याये
भगवद्रामानुजाचार्यात् पूर्वाचार्यपरम्परास्वरूपम्, द्वादशदिव्यसूरिणां योगदानम्, नाथ-
यामुनाचार्ययोः वरिवस्या, भगवद्रामानुजाचार्य-सुदर्शसूरि-वेदान्तदेशिक-महाचार्य-
रङ्गरामानुजाचार्याणां योगदानम् विशिष्य एतादृशविशिष्टाद्वैतपरंपरायां नयद्युमणि-
दीपिकाकर्तुः श्रीनिवासाचार्यस्य स्थानं चेत्येतेंऽशाः विवेचिताः॥
अथ तृतीयाध्याये नयद्युमणिदीपिकाग्रन्थकर्तृमातृकापरिचयः निरूप्यते॥
⏺⏺⏺
212
नयद्युमणिव्याख्यायाः अध्ययनम्
अथ तृतीयोऽध्यायः
नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
3.1. नयद्युमणेः, नयद्युमणिव्याख्या(दीपिका)याश्च कर्तुः श्रीनिवासस्य परिचयः -
महाचार्य इति नाम्ना प्रसिद्धानां दोड्डयाचार्याणां शिष्यः श्रीनिवासदासः एव
नयद्युमणिदीपिका ग्रन्थस्य कर्ता इति ज्ञायते। एष आचार्यः आदौ नयद्युमण्याख्ये ग्रन्थे
शारीरिकमीमांसासारत्वेन दशश्लोकानारच्य, तेषां श्लोकानां व्याख्यानमपि दीपिका नाम्ना
व्यरीरचदिति ज्ञायते। अर्थात् नयद्युमणिदीपिका स्वोपज्ञटीका भवति॥
नयद्युमणिदीपिकाग्रन्थस्य समुपलब्धमातृकाद्वयदर्शनेन श्रीनिवासाः एव
नयद्युमणेः, नयद्युमणिदीपिकायाश्च कर्तार एवं ज्ञायते –
उक्तं च संस्कृतान्ध्रमातृकयोः त्रयोदश-चतुर्दशतमश्लोकद्वये –
ध्वान्तानुवर्तिषु जनेष्वपि चन्द्रिकायां
दोषानुषङ्गविधितः प्रथितोदयेषु।
सन्मानसाब्जविततिर्व्यथिता विकासं
गृह्णातु सम्प्रति नयद्युमणेरमुष्मात्॥१३॥
स्वकृतब्रह्मसूत्रार्थहृद्यपद्यविवेचनी।
क्रियते श्रीनिवासेन नयद्युमणिदीपिका1॥१४॥ इति।
- D.M. पृ॰ 3 & T.M. पृ॰ 4
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
213
3.1.1. नयद्युमणि-तद्व्याख्या(दीपिका)कर्तुः श्रीनिवासस्य जननादयः –
दक्षिणभारते, चोलमण्डले, तिरुनाङ्गूरु इति ग्रामे नयद्युमणिदीपिकाव्याख्यातॄणां
जन्माभूत् इति ज्ञायते। एते परिधावीनामसंवत्सरे सिंहमासे कृष्णपक्षे द्वितीयायां सञ्जाता
इति, अर्थात् क्री॰श॰ 1572 तमवत्सरकालीना इति च ज्ञायते।
यतः ग्रन्थारम्भमङ्गलश्लोकेषु एतेषां गुरवः कौण्डिन्यवंशोद्भवाः श्रीनिवासाध्वरीति
नामकाः दोड्डयाचार्याः इति ज्ञायते। तद्यथा –
यस्मादस्माभिरादावगणिविगणितोद्भावनं जैमिनीयं,
पश्चाद्दुश्चिद्विपश्चिन्मतहितकथका दूष्यमग्राहि भाष्यम्।
तस्मिन् कौण्डिन्यवंशच्छलजलधिविधौ श्रीनिवासाध्वरीन्दौ,
भूयो भूयः प्रणामप्रततिरधिगतप्राभवी बोभवीतु॥८॥ इति।
अनेन दोड्डयाचार्याणां शिष्यः एषः श्रीनिवासः इति ज्ञानेन यतीन्द्रमतदीपिका-
ग्रन्थकर्ता श्रीनिवासाचार्योऽपि एष एवेति ज्ञायते।
कुत इति चेत् – यतीन्द्रमत-दीपिकाग्रन्थारम्भे “महाचार्यकृपावलम्बिना मया
यथामति सङ्ग्रहेण प्रकाश्यते” इत्युक्तत्वात्, एवं यतीन्द्रमतदीपिकाग्रन्थान्तिमगद्ये च –
“श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायाम्”
इत्युक्तत्वाच्च तत्रस्थमहाचार्यपदाभिधेयाः दोड्डयाचार्या एव सिद्धम्1। तस्मात्
यतीन्द्रमतदीपिकाकर्तुः जननकाल एव एतद्ग्रन्थकर्तुः जननकालत्वेन गृहीतः॥
3.2. यतीन्द्रमतदीपिकाग्रन्थकर्तार एव नयद्युमणिदीपिकाग्रन्थकर्तार इति निर्णयः –
पूर्वोक्तरीत्या दीपिकाद्वयग्रन्थकर्ता एक एवेति अनुमीयते। तत्र हेतवः एवं
विराजन्ते –
➢ उभयत्र ग्रन्थेषु ग्रन्थकर्तुः नामैकत्वात्।
- य॰म॰दी॰ पृ॰ 2
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
214
➢ उभयत्र ग्रन्थकर्तुः गुरोरैक्यत्वात्।
➢ उभयत्र ग्रन्थशीर्षके दीपिकापदप्रयोगात्।
➢ यतीन्द्रमतदीपिकायां भगवतः दशावताराः इव दशसु अवतारेषु (अध्यायेषु)
शारीरकपरिभाषा यथा प्रतिपादिता, तथैव एनामेव रीतिमनुसृत्य
नयद्युमणिदीपिकायामपि ब्रह्मसूत्रार्थपद्यविवेचनी दशसु श्लोकेषु निरूपितम्।
एवमध्यायसङ्ख्या-श्लोकसङ्ख्यासारूप्यात्।
➢ यतीन्द्रमतदीपिका-नयद्युमणिदीपिकयोः वाक्यरचनाशैलीसारूप्याच्च
– इत्येतैर्हेतुभिः यतीन्द्रमतदीपिका-नयद्युमणिदीपिकयोः ग्रन्थकर्ता एक एवेति
निश्चीयते॥
3.3. मेघनादारिसूरिविरचितनयद्युमणिग्रन्थस्य श्रीनिवासविरचितनयद्युमणि-
तद्व्याख्ययोश्च सम्बन्धाभावः –
मेघनादारिसूरिविरचितनयद्युमणिग्रन्थः तिरुपतिनगरस्थश्रीवेङ्कटेश्वरवेदविश्वविद्या-
लयेन 2009 तमे वत्सरे, (क्रमाङ्कः – 28) मुद्रितः। अस्य ग्रन्थस्य कर्तारः श्रीमदात्रेय-
नाथसूरिसूनुः मेघनादारिसूरिरिति ग्रन्थान्तपुष्पिकातः ज्ञायते।
नयद्युमणि-तद्दीपिकाग्रन्थकर्तारः श्रीनिवासाचार्या इति आन्ध्र-देवनागरीलिपि-
गतमातृकाद्वयसम्पादनेन ज्ञायते।
अत्रायं सन्देहः उदेति – मेघनादारिसूरिविरचितनयद्युमणिग्रन्थस्य उपरि
श्रीनिवासाचार्यः दीपिकाख्यव्याख्यां व्यरचयद्वा इति। किन्तु –
➢ यदि मेघनादारिसूरिनयद्युमणेरेव व्याख्यारूपा श्रीनिवासाचार्यविरचिता दीपिका
स्यात्, तर्हि एतद्ग्रन्थारम्भे मेघनादारिसूरिस्तुतिर्वा, तद्ग्रन्थस्थविषयप्रस्तावो वा,
मङ्गलाचरणं वा भवेत्॥ किन्तु एतादृशविषयाः श्रीनिवासाचार्यविरचित-
नयद्युमणिदीपिकाग्रन्थमातृकाद्वये नोपलभ्यन्ते।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
215
➢ यदि मेघनादारिसूरिनयद्युमणेरेव व्याख्यारूपा श्रीनिवासाचार्यविरचितनयद्युमणि-
तद्दीपिकाग्रन्थः स्यात्, तर्हि मूलग्रन्थत्वेन मेघनादारिसूरिनयद्युमणिग्रन्थानुसरणम्
(अर्थात् ग्रन्थस्य विषयो वा, श्लोको वा, श्लोकार्धो वा, वाक्यं वा, न्यूनातिन्यूनं
मूलग्रन्थप्रतीकग्रहणं वा) परिदृश्येत, न तादृशानुसरणं परिलक्ष्यते।
➢ विशिष्य मेघनादारिसूरिनयद्युमणिग्रन्थे द्वादशप्रकरणानि विद्यन्ते। तानि यथा –
-
शरीरलक्षणम्, 2. अध्ययनविधिः, 3. स्वतःप्रामाण्यम्,
-
वाक्यार्थप्रदीपः, 5. अन्विताभिधानम्, 6. शब्दनिरूपणम्,
-
श्रुतिलिङ्गादिनिरूपणम्, 8. यथार्थख्यातिनिरूपणम्, 9. उपोद्घातनिर्णयः,
-
कालनिरूपणम्, 11. प्रमानिरूपणम्, 12. प्रमेयनिरूपणं चेति।
एतेषामंशानां विवरणं व्याख्यानं वा यथाक्रमं श्रीनिवासाचार्यविरचितनयद्युमणि-
तद्व्याख्या(दीपिका)ग्रन्थे नोपलभ्यते।
➢ एवं श्रीनिवासाचार्यविरचितनयद्युमणिग्रन्थः श्लोकात्मकः। श्लोकात्मकोऽयं
नयद्युमणिग्रन्थः स्वेनैव विरचितमिति –
ध्वान्तानुवर्तिषु जनेष्वपि चन्द्रिकायां
दोषानुषङ्गविधितः प्रथितोदयेषु।
सन्मानसाब्जविततिर्व्यथिता विकासं
गृह्णातु सम्प्रति नयद्युमणेरमुष्मात्॥१३॥
इत्यनेन श्लोकेन प्रकटयाञ्चकार।
➢ एवम् - स्वकृतब्रह्मसूत्रार्थहृद्यपद्यविवेचनी।
क्रियते श्रीनिवासेन नयद्युमणिदीपिका1॥१४॥
- D.M. पृ॰ 3 & T.M. पृ॰ 4
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
216
इत्यनेन श्लोकेन ब्रह्मसूत्रार्थहृद्यपद्यरूपनयद्युमणिः स्वकृतमिति, तस्याः
विवेचनीरूपा नयद्युमणिदीपिकाऽपि स्वेनैव श्रीनिवासेन क्रियते इति सुस्पष्टीकृतं
तेनैवाचार्येण॥
एवञ्च एतावत्या चर्चया मेघनादारिसूरिविरचितनयद्युमणिग्रन्थस्य श्रीनिवास-
विरचितनयद्युमणि-तद्दीपिकयोश्च सम्बन्धाभावः स्पष्ट एव॥
विशिष्टाद्वैतसिद्धान्तपरम्परायां ये जिज्ञासवः सन्ति तेषां प्रथमसोपानात्मकग्रन्थ-
रचयिता भवत्ययं श्रीनिवासः। एतादृशश्रीनिवासेन विरचितः ब्रह्मसूत्रार्थहृद्यपद्यात्मकः
ग्रन्थः नयद्युमणिरिति, ब्रह्मसूत्रार्थहृद्यपद्यविवेचनात्मकः ग्रन्थः नयद्युमणिदीपिका इति च
यौ ग्रन्थौ विराजेते, तौ ग्रन्थौ अवश्यं जिज्ञासुभिः अवगन्तव्यौ भवतः॥
3.4. नयद्युमणि-तद्व्याख्यापरिचयः –
विशिष्टाद्वैतपरम्परायां प्रधानग्रन्थो भवति भगवद्रामानुजविरचितं श्रीभाष्यम्।
अस्य ग्रन्थस्य सारांशः अथवा ग्रन्थोपरि अल्पज्ञैः कृतविमर्शानिरसनात्मकः ग्रन्थो भवति
अयं श्रीश्रीनिवासकृतो नयद्युमणिग्रन्थः। ग्रन्थेऽस्मिन् दशश्लोका वर्तन्ते। तेषु श्लोकेषु
श्रीभाष्यप्रधानप्रतिपाद्यांशाः विवेचिताः। विशिष्यतया अयं श्रीनिवासाचार्यः
स्वकृतदशश्लोकात्मकनयद्युमणिग्रन्थस्य व्याख्यां दीपिकामपि आरचितवान्। तत्र
व्याख्यानावसरे आरम्भे विशिष्टाद्वैतपरम्परा ये आचार्याः कृतभूरिपरिश्रमा वर्तन्ते
तेषामाचार्याणां माहात्म्यं स्मारयन् गुरुमङ्गलाचरणं कृत्वा नयद्युमणिग्रन्थेतिकर्तव्यतां च
प्रकटीचकार।
एवं दशश्लोकीव्याख्याने नैकाः विशिष्टाद्वैतसिद्धान्तविषया प्रपञ्चिताः।
एतादृशस्यास्य ग्रन्थस्य लब्धमातृकाः एवं विद्यन्ते॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
217
3.5. नयद्युमणिव्याख्यामातृकापरिचयः -
Image No. 1: Devanagari Script Manuscript Library Information Page
Indira Gandhi National Centre for the Arts,
Government Oriental Manuscript Library, Madras
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
218
Image No. 2: Devanagari Script Manuscript, First Page
Indira Gandhi National Centre for the Arts,
Government Oriental Manuscript Library, Madras
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
219
Image No. 3: Telugu Script Manuscript, Library Information Page
Image No. 4: Telugu Script Manuscript, First Page
Adyar Library and Research Centre – The Theosophical Society,
Adyar, Madras
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
220
3.6. नयद्युमणि-नयद्युमणिव्याख्या(दीपिका)मातृकाग्रन्थसम्पादनावश्यकता -
लोकेऽस्मिन् मानवानां मेधापरिणामक्रमः क्षणक्षणमत्याश्चर्यकररीत्या
नित्यनूतनतया अग्रेसरति। गवेषणया आरभ्य सत्यासत्य-धर्माधर्मविवेचनाज्ञानपर्यन्तं
मानवशेमुषीपरिवर्धनं विज्ञानस्य, तत्त्वचिन्तनस्य, संस्कृतेश्च निदानं भवति।
एतादृशेऽस्मिन् क्रमे बहवः सिद्धान्ताः, सिद्धान्तोपरि सन्देहाः नित्यशः जायन्ते एव। तत्र
प्रधानतया वादद्वयं परिदृश्यते –
- सकलजगत्कारणभूतः परमात्मा इति, सर्वस्य जगतः सृष्टिस्थितिवृद्धिलयकार्येषु
हेतुभूतः स एवाद्वितीय इति एकः पक्षः।
- द्वितीयस्तु सर्वं ह्येतत् क्रमानुगतपरिणामेनैव सिद्धमिति।
सामान्यतः लोके सर्वे सिद्धान्ताः आद्यं वादमेवाङ्गीकुर्वन्ति। कार्यकारणभावेन
पश्यन्तः प्रप्रथमकारणं भगवन्तमेव स्वीकुर्वन्ति। तत्रापि किमपि वा भवतु साकारपदार्थं
तत्तु कारणजन्यमेव भवति, तदनादिरिति वक्तुं नैव शक्यते परिमितत्वात्, अनादिस्तु
सर्वदा निराकार एव भवितुमर्हति इति केचन, परेचन स्वीय-स्वीयानुभवालम्बनप्रकृतिमेव
पारमार्थिकदृष्ट्या पश्यन्ति। एतादृशेऽस्मिन् विचारे बहूनि मतानि (दर्शनानि), तत्त्वानि,
सिद्धान्ताश्चाभिवृद्धाः।
येन साधनेन इदं विश्वम्, इदं वस्तुजातम्, इदं ब्रह्म, अयं जीवात्मा, इयं
प्रकृतिरिति तथ्येन यथा दृश्यते, निरीक्ष्यते, परीक्ष्यते, समीक्ष्यते विविच्यते च
तद्दर्शनमिति। एतादृशेषु दर्शनेषु समग्रमपि आध्यात्मिकमाधिभौतिकं च विवेचनं
तत्सिद्धान्तेषु सन्दृश्यते।
किं ब्रह्म? किं तस्य स्वरूपम्? कः ईश्वरः? के तस्य प्राप्तेरुपायाः? अस्मिन् जगति
किं शाश्वतं तत्त्वम् ? इयं सृष्टिः कुत आबभूव ? जीवात्मनः स्वरूपं किम् ? जीवस्य कुत
उद्भवः? किं तस्य लक्ष्यम्? कथं मोक्षावाप्तिः? आत्मा चेतनोऽचेतनो वा? किं जीवने
कर्तव्यम्? कश्च जीवनस्य साधिष्ठः पन्थाः? इत्यादयोऽनुयोगा यत्र सुसूक्ष्मेण रूपेण
विविच्यन्ते स एवोत्तमसिद्धान्तः।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
221
तादृशसिद्धान्त एव श्रीविशिष्टाद्वैतसिद्धान्तः। उपर्युक्तसन्देहसन्दोहनिवृत्तिः
विशिष्टाद्वैतसैद्धान्तिकश्रीभाष्यादिग्रन्थेषु वरीवर्ति। तथापि मनीषिणां मतभेदात् इतोऽपि
बहवस्सन्देहाः प्रादुर्भवन्त्येव। तादृशसन्देहनिवृत्त्युपायभूता भवति इयं मातृका।
3.7.परिशोधप्रकाशनयोः स्वरूपः -
परिशोधनं नाम परितः शुद्धिसम्पादनम् इत्यर्थः। “समन्ततस्तु परितः सर्वतो
विष्वगित्यपी”1त्यमरः। अर्थात् परितः = सर्वतः, शोधनम् = अज्ञानरूपदोषसम्मार्जनम्,
परिशोधनं भवति। अस्यैव गवेषणम्, अन्वेषणम् इत्यादीनि पदानि समानार्थाकानि
भवन्ति। किन्तु –
यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः।
दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा॥
यथोदपानकरणात् क्रियते न जलाम्बरम्।
सदेव नीयते व्यक्तिम् असतः सम्भवः कुतः॥
इत्युदाहरणद्वयेन वैदिकसिद्धान्तपरम्परायां नूतनसिद्धान्ताविष्कारः कर्तुं नैव शक्यते।
विशिष्टाद्वैतसिद्धान्तोऽपि पूर्वाचार्यैः अपौरुषेयाद्वेदात् ज्ञात्वा प्रचारितः, न तु आरचितः।
किन्तु तादृशसन्दर्भे श्रीभाष्याद्युत्तमग्रन्थानन्तरम् एतादृशनयद्युमणिदीपिकाख्यग्रन्थस्य
रचनावश्यकता वर्तते वा इत्यादिसन्देहे – ग्रहणशक्तिं च जिज्ञासोरालक्ष्याविष्कृति-र्भवेत्।
अर्थात् सर्वशास्त्राध्ययनजिज्ञासा विद्यते चेदपि जिज्ञासुः शक्तिः न्यूना वर्तते चेत्,
- अ॰को॰ 3.4.13
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
222
तादृशजिज्ञासूनां कृते प्रकरणात्मकग्रन्थानां परिशोधनं प्रकाशनञ्च अत्यावश्यकं भवति।
तादृशक्रमे नयद्युमणिदीपिकाख्यग्रन्थः सन्देहसन्दोहान् दूरीकरोति॥
3.8. Descriptive Research on नयद्युमणिदीपिका (व्याख्यात्मकशोधः) -
“श्रुतयश्च भिन्नाः स्मृतयश्च भिन्नाः तथा मुनीनाञ्च मतयश्च भिन्नाः” तस्मात्
सकलमतानां तद्गतसमस्यानां च मूलं ज्ञात्वा तस्य सरलसमाधानाय व्याख्यात्मकः शोधः
प्रस्तूयते। श्रीभाष्यादिग्रन्थविषयेषु समागतसन्देहनिवारणार्थमारचितनयद्युमणि-
दीपिकाग्रन्थस्य सम्पादनम् अध्ययनञ्च अवश्यं करणीयम्।
यतः अयं नयद्युमणिदीपिकाग्रन्थः परस्परविरुद्धप्रमाणावकाशेषु तात्पर्यविशेष-
परिकल्पनाय परिहाररूपेण ग्रन्थकर्तृणा श्रीनिवासाचार्येण आरचितः। तस्मात्
एतादृशग्रन्थस्य सम्पादनम् अध्ययनञ्च भाविजिज्ञासूनां कृते महदुपकाराय भवतीति
विश्वसिमि॥
3.9. शोधकार्यप्रवृत्तिनिमित्तम् -
एतादृशोऽयं नयद्युमणिदीपिकाग्रन्थः विशिष्टाद्वैतसिद्धान्तसन्देहसन्दोहनिवृत्त्यर्थं
प्रवृत्तमिति ग्रन्थकारैः श्रीनिवासाचार्यैरेव प्रकटितम्। यथा –
मोहावेशवशंवदात्ममनसो मूढा निगूढाशयं,
श्रीमद्भाष्यमदूष्यमब्जजनुषाप्यादूष्य हृष्यन्ति ये।
तानात्मीयमतिव्यतिक्रमभवद्दोषान्मनीषिब्रुवां-
स्तत्तात्पर्यविवेचनान् निरसितुं यत्नः कृतार्थोऽद्य नः॥१०॥
यो वायोरभवत्तृतीयतनुभृद्यस्तद्भुजामीशितुः,
तादृग्रूपधरास्तयोर्हि चरमस्पष्टप्रकृष्टोदयः।
इत्थं तन्मतयो क्रमादधिगतं न्यूनत्वमाधिक्यम-
प्यद्यत्वे त्वनवद्यतां प्रविशदी कर्तुं प्रवर्तामहे॥११॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
223
यावत्प्रज्ञमभिज्ञभाव्यमतिना ग्रन्थे मया निर्मिते
दोषान्वेषणतोषिताः कतिपये तृष्यन्तु कुप्यन्तु वा।
भिन्नच्छिन्नमतश्रुतिस्मृतिकथासारम्परीलम्पटा-
स्सन्तः प्रोज्झितमत्सराः प्रतिपदं सन्त्येव सन्तोषिणः॥१२॥
ध्वान्तानुवर्तिषु जनेष्वपि चन्द्रिकायां
दोषानुषङ्गविधितः प्रथितोदयेषु।
सन्मानसाब्जविततिर्व्यथिता विकासं
गृह्णातु सम्प्रति नयद्युमणेरमुष्मात्॥१३॥
इत्यादिश्लोकैः अदूष्यस्य श्रीभाष्यग्रन्थस्य मूलतत्त्वमज्ञात्वा तमुत्तमं ग्रन्थं प्रदूष्य ये
मोहावेशाभ्यां वशीकृतात्ममनस्काः मूढाः हृष्यन्ति तान् निरसितुं श्रीभाष्यग्रन्थ-
तात्पर्यविवेचनात्मकः यत्नः नयद्युमणिदीपिकाख्यव्याख्यानेन कृत इति यत्नः नः कृतार्थो
भवतु इति च ग्रन्थकारेण स्वरचनाप्रवृत्तिनिमित्तं प्रकटितम्॥
एतादृशग्रन्थरचना सन्मानसाब्जसमूहस्य विकासाय दोहदो भवतु इति
ग्रन्थकर्तॄणामाशयः। एतादृशग्रन्थकर्तुराशयं मनसि निधाय एतावत्पर्यन्तमप्रकाशितस्य
मातृकारूपेणैव संस्थितस्यास्य ग्रन्थस्य सम्पादनं श्रीभाष्यादिविशिष्टाद्वैतसाम्प्रदायिक-
ग्रन्थजिज्ञासूनां महदुपकाराय भवतीति मत्वा, मे प्रवृत्तिः॥
अस्य नयद्युमणिदीपिकाग्रन्थस्य मातृकाद्वयं लभ्यते। तत्र तेलुगुलिप्यां लिखितां
प्रथमां मातृकाम् Adyar Library and Research Centre – The Theosophical
Society, Adyar, Madras तः; देवनागरीलिप्यां लिखितां द्वितीयां मातृकां Government
Manuscript Library, Madras तः सम्प्राप्य, राष्ट्रियसंस्कृतविश्वविद्यालये
विशिष्टाद्वैतवेदान्तविभागे “नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम्
अध्ययनञ्च” इति शीर्षिकया मदीयगवेषणकार्यं श्रीमताम् आचार्य चक्रवर्ति राघवन्
महोदयानां मार्गदर्शने अनुसन्धानं विधातुमवकाशो मे लब्ध इति मोमुद्यते मनः॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 3. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः
224
एतावत्पर्यन्तं नयद्युमणिव्याख्याध्ययने प्रथमाध्याये उपक्रमांशाः, एवं
द्वितीयाध्याये विशिष्टाद्वैतपरम्परास्वरूपः तत्र नयद्युमणिदीपिकाग्रन्थकर्तुः श्रीनिवासस्य
स्थानं च प्रदर्शितम्। तदनु तृतीयाध्यायेऽस्मिन् नयद्युमणिदीपिकाग्रन्थकर्तुः
जीवनविशेषाः, विशिष्टाद्वैतपरम्परायां नयद्युमणि-दीपिकाग्रन्थकर्तुः ग्रन्थस्य च स्थानम्,
यतीन्द्रमतदीपिकाग्रन्थकर्तार एव नयद्युमणिदीपिकाग्रन्थकर्तार इति निर्णयः,
मेघनादारिसूरिविरचितस्य नयद्युमणिग्रन्थस्य श्रीनिवासविरचितनयद्युमणिदीपिकाग्रन्थस्य
च सम्बन्धाभावः, नयद्युमणिव्याख्यामातृकापरिचयः, मातृकासम्पादनावश्यकता,
परिशोधन-प्रकाशनयोः स्वरूपः, नयद्युमणिदीपिकाग्रन्थरचनोद्देश्यकथनम्,
इदानीन्तनकाले तादृशग्रन्थस्य सम्पादनेऽध्ययने च औचित्यकथनम्, विशिष्य
शोधकार्यप्रवृत्तिनिमित्तम् इत्याद्यंशाः प्रदर्शिताः॥
अथ चतुर्थाध्याये नयद्युमणिव्याख्याग्रन्थस्थश्लोकानां सान्वयप्रतिपदार्थतात्पर्यविचारः
यथानुसन्धानं प्रपञ्च्यते॥
⏺⏺⏺
225
नयद्युमणिव्याख्यायाः अध्ययनम्
अथ चतुर्थोऽध्यायः
- नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
श्रीहयग्रीवाय नमः॥
श्रीश्रीनिवासकृतो नयद्युमणि-तद्व्याख्या(दीपिका)ग्रन्थः विशिष्टाद्वैततत्त्व-
जिज्ञासूनां कृते महदुपकाराय भवति। अयं च ग्रन्थः शारीरकसूत्रोपरि भगवद्रामानुज-
विरचितश्रीभाष्यस्य सारभूतः, विशिष्य कालक्रमे भवमोहचित्तानामल्पज्ञानां कृते
श्रीभाष्योपरि जनितसन्देहसन्दोहनिवारणोपायात्मकोऽपि भवति।
ग्रन्थेऽस्मिन् आरम्भे मङ्गलाचरणे चिदचिद्विशिष्टं भगवन्तं प्रणम्य, गुरुद्वारैव
भगवत्प्राप्तिरिति विशिष्टाद्वैतसिद्धान्तं मनसि निधाय क्रमेण ब्रह्मसूत्रप्रणेतुः बादरायणस्य,
श्रीभाष्यकर्तुः भगवद्रामानुजस्य, श्रुतप्रकाशिकाख्यश्रीभाष्यव्याख्याकर्तुः सुदर्शनसूरि-
वर्यस्य, न्यायसिद्धाञ्जनन्यायपरिशुद्ध्यादिविशिष्टाद्वैतसिद्धान्तप्रमाणप्रमेयग्रन्थप्रणेतुः
वेदान्तदेशिकस्य, राघवमाधवीयादिविशेषग्रन्थप्रणेतुः वेङ्कटाध्वरिणः, श्रीभाष्यादि-
ग्रन्थानां सङ्क्षिप्तव्याख्याकर्तुः अण्णङ्गराचार्यस्य च स्तुत्या श्रीवैष्णवसिद्धान्तगुरुपरम्परां
सम्यक् सस्मार नयद्युमणिदीपिकाकारः॥
ततः परं लोकेऽस्मिन् श्रीभाष्याद्युत्तमग्रन्थसत्त्वेऽपि तद्ग्रन्थाध्ययनपरम्परायामुत्त-
माचार्यकृतयो बहवोऽद्यत्वे सत्यपि संसारमायामोहिता बहवः पाषण्डादयः
शारीरकमीमांसासारार्थमजानन्तोऽदूष्यं श्रीभाष्यग्रन्थं दूषयन्तीति स्वमनोगतव्यथां
श्लोकधारया न्यवेदयत्॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
226
4.1. नयद्युमणिदीपिकारम्भश्लोकानां विचारः
4.1.1. भगवन्मङ्गलाचरणविचारः -
सत्यं ज्ञानमनन्तमच्युतमजं नित्यं स्वतो निर्मलं
श्रुत्यन्तप्रमितामिताद्भुतगुणं प्रत्यक्षकाशात्मकम्।
ब्रह्मस्तम्बमुखोद्भवस्थितिपुनस्संहारलीलारसं
रंहो धूतविरोधि1यूथमनघं ब्रह्माद्वितीयं भजे॥१॥
पदविभागः - सत्यम्, ज्ञानम्, अनन्तम्, अच्युतम्, अजम्, नित्यम्, स्वतः, निर्मलम्,
श्रुत्यन्तप्रमित-अमित-अद्भुतगुणम्, प्रत्यक्षकाशात्मकम्, ब्रह्मस्तम्बमुख-उद्भवस्थिति-
पुनः, संहारलीलारसम्, रंहः, धूतविरोधियूथम्, अनघम्, ब्रह्म, अद्वितीयम्, भजे॥
श्लोकाध्ययनम्
सत्यम् = “सत्यं तथ्यमृतं सम्यक्” इत्यमरः2। सते हितम् सत्यम्।
यथार्थमित्यर्थः।
ज्ञानम् = “मोक्षधीर्ज्ञानमन्यत्र” इत्यमरः3। विशेषेण सामान्येन चावबोधः
ज्ञानम्। मोक्षप्रापकधीरेव ज्ञानम्। वेदान्ते ज्ञानं ज्ञेयं ज्ञाता इति
विषयत्रयं भवति। तत्र परमात्मा ज्ञेयः, जीवात्मा ज्ञाता, श्रुतयो
ज्ञानमिति ब्रह्मवादिनो वदन्ति4।
अनन्तम् = नास्ति अन्तः सीमा यस्य तत् अनन्तम्5।
अच्युतम् = “पीताम्बरोऽच्युतश्शार्ङ्गी” इत्यमरः6। यः न च्यवते स्वरूपतो न
स्रस्ततां प्राप्नोति सोऽच्युतः।
-
T.M. & D.M. यूध॰
-
अ॰को॰ 1.6.22.1.1
-
अ॰को॰ 1.5.6.1.1
-
वि॰कल्प॰ पृ॰ 543
-
अ॰को॰ गु॰बा॰प्र॰ 1.2.1.2.4
-
अ॰को॰ 1.1.19.2.2
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
227
अजम् = न जायत इत्यजः1। अत्र अच्युत इति पूर्वोक्तविशेषणेन भगवतः
प्रध्वंसाभावो नास्तीति निरूप्य, अज इति विशेषणेन प्रागभावोऽपि
नास्तीति न्यरूपि। उक्तञ्च भगवता भारते –
न हि जातो न जायेऽहं न जनिष्ये कदाचन।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः॥2 इति।
नित्यम् = “नित्यानवरताजस्रम्” इत्यमरः3। नियतं भवतीति नित्यम्। नियमेन
भवम्, उत्पत्तिविनाशरहितम् इत्यर्थः।
स्वतः = स्वयम्
निर्मलम् =
मलते धारयति देहमिति मलः(मल-धारणे)4। अर्थात् मलो नाम
रागादिदोषः। तादृशमलहीनम् इत्यर्थः। स्वयं निर्मलम् इत्यनेन यथा
सूर्यः इतरापेक्षया स्वयंप्रकाशः भवति तद्वत् इतरनैर्मल्यापादक-
वस्त्वनधीननैर्मल्यम् इत्यर्थः।
श्रुत्यन्तप्रमिता-
मिताद्भुतगुणम् =
श्रुतिः वेदः, तस्यान्तः श्रुत्यन्तः, तस्मिन् श्रुत्यन्ते प्रमितः प्रमाणितः
ज्ञातः अद्भुतगुणः यस्य सः तम्। अर्थात् वेदवेदान्तवेद्यं, कल्याण-
गुणनिधिमित्यर्थः।
प्रत्यक्षका-
शात्मकम् =
प्रतिगतम् अक्षम् इन्द्रियमिति प्रत्यक्षम्5। काशते, दीप्यते, शोभत इति
काशः6। अर्थात् इन्द्रियविषयकज्योतिस्वरूपम्।
ब्रह्मस्तम्बमुखोद्भव-
स्थितिपुनस्संहार-
लीलारसम् =
ब्रह्मदिस्तम्बपर्यन्तस्य जगतः मुखं निस्सरणं तस्य उद्भवस्य स्थितिः,
एवञ्च पुनः तत्ससंहाररूपलीलारसः च यस्मिन् तम्। अर्थात्
ब्रह्मादिस्तम्बपर्यन्तस्य जगतः सृष्टिस्थितिलयान्तर्यमनरूपचेष्टाविशिष्टम्
रंहः रंहति अनेन जगदिति रंहः, रंहि – गतौ इति धातुः7। जगन्नियामकः
इत्यर्थः। अनेन भगवतः सर्वकार्योत्पादकत्वम्, जगन्नियन्तृत्वं च
व्यज्यते। एवं च वेगेन इत्यर्थः।
-
श॰क॰दृ॰ पृ॰ 321
-
म.भा॰ 12.330.9
-
अ॰को॰ 1.1.66.1.1
-
गु॰बा॰प्र॰ पृ॰ 390
-
गु॰बा॰प्र॰ पृ॰ 672
-
काशत इति काशः। काशृ-दीप्तौ। गु॰बा॰प्र॰ पृ॰ 321
-
गु॰बा॰प्र॰ पृ॰ 58
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
228
धूतविरोधियूथम् = धूतः कम्पितः विरोधिनां यूथः समूहः यस्य तम्। तिरोहितशत्रुसमूहम्
अनघम् = पापरहितम्
अद्वितीयम् = सजातीयभेदशून्यम्
ब्रह्म = बृहत्वात् बृंह्मणत्वाच्च ब्रह्म परं ब्रह्म
भजे = प्रार्थयामि।
तात्पर्यार्थः -
श्लोकेऽस्मिन् जकत्कारणभूतस्य परब्रह्मणः मङ्गलाचरणं वर्तते। ग्रन्थकारेण
श्रीनिवासार्येण विशिष्टाद्वैतसिद्धान्तरीत्या प्राप्यस्य स्वरूपमेवं वर्णितम् - यथार्थं
मोक्षप्रापकज्ञानस्वरूपम्, अनन्तम्, च्युतरहितम्, प्रध्वंसाभावप्रागभावरहितं नित्यम्,
मलो नाम रागादिदोषहीनम्, वेदवेदान्तवेद्यम्, कल्याणगुणनिधिम्, इन्द्रियविषयक-
ज्योतिस्वरूपम्, सृष्टिस्थितिहेतुभूतम्, तरसा विधूतविरोधियूथम्, अपहतपाप्मत्वादि-
गुणविशिष्टम्, सजातीयभेदशून्यम्, परं ब्रह्म (अहं – ग्रन्थकर्ता श्रीनिवासः प्रारिप्सित-
ग्रन्थनिर्विघ्नपरिसमाप्त्यर्थं) प्रार्थयामि॥१॥
⏺⏺⏺
4.1.2. व्यास-रामानुजस्तुतिविचारः -
दोहं दोहममोघवाङ्मयगवीराहृत्य सूत्राक्षर-
क्षीरस्मेरमधान्मुदा क्षितितले क्षेमाय यो मादृशाम्।
आतच्यैतदरिक्तयुक्तिनिकरैरामथ्य भाष्यात्मकं
गव्यं भव्यतमं च योऽप्युदहरत्1 तभ्यामुभाभ्यां नमः॥२॥
पदविभागः – दोहम्, दोहम्, अमोघवाङ्मयगवीः, आहृत्य, सूत्राक्षरक्षीरस्मेरम्, अधात्,
मुदा, क्षितितले, क्षेमाय, यः, मादृशाम्, आतच्य, एतत्, अरिक्तयुक्तिनिकरैः, आमथ्य,
भाष्यात्मकम्, गव्यम्, भव्यतमम्, च, यः, अपि, उदहरत्, तभ्याम्, उभाभ्याम्,
नमः॥
- D.M. व्युदहरत्
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
229
श्लोकाध्ययनम् -
अमोघवाङ्मयगवीः = मुह्यत्यत्र भ्रान्तिवशादिति मोघम्1, न मोघम् अमोघं
भ्रान्तिहीनम् इत्यर्थः। वाङ्मयगवीः वाक्यरूपाः धेनूः।
अर्थात् भ्रान्तिहीनवाक्यरूपाः वेदोपनिषदात्मिका धेनूः।
आहृत्य = भगवदनुकम्पया सम्पाद्य
दोहं दोहम् = अन्तस्स्थितसारद्रव्यस्य (क्षीरस्य) बहिर्निस्सारणरूपव्यापारं
कुर्वन् कुर्वन्
सूत्राक्षरक्षीरस्मेरम् = शारीरकसूत्ररूपक्षीरम्
मुदा = वेदामोदेन वैदिक्या रीत्या
क्षितितले = अस्मिन् जगति
क्षेमाय = कल्याणाय
यः = बादरायणो व्यासः
मादृशाम् = अल्पज्ञानां कृते
अधात् = वेदान्तसूत्राणि अनुगृहीतवान् (तस्मै)
एतद् = पूर्वोक्तं शारीरकशास्त्रम्
अरिक्तयुक्तिनिकरैः = अरिक्तैः अतुच्छैः अर्थादत्युत्तमैः, यक्तिनिकरैः
अर्थावधारणसमूहैः
आतच्य = क्षीरं दधि भवितुं क्षीरे तक्रं संयोजयन्ति। तस्य कार्यस्य
नाम आतञ्चनम् इति। सूत्ररूपक्षीरं सुयुक्तिभिरातच्य।
आमथ्य = नवनीतार्थं दधिमन्थनं यथा कुर्वन्ति, तथा
वेदान्तसूत्ररूपातञ्चितक्षीरमथनं कृत्वा
भाष्यात्मकम् = श्रीभाष्यात्मकम्
भव्यतमम् = कुशलतमं क्षेमतमम्
गव्यम् = नवनीतं
अपि च = वेदान्तदीप-वेदार्थसङ्ग्रहादिग्रन्थांश्च
1 गु॰बा॰प्र॰ पृ॰ 674
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
230
यः = श्रीभाष्यकारः श्रीमद्रामानुजाचार्यः
उदहरत् = उत्कृष्टरूपेण अपञ्चयत्। (चुरादिः,पञ्च्-विस्तारवचने धातुः।)
ताभ्यामुभाभ्याम् = ताभ्यां सूत्रकार-भाष्यकाराभ्याम्
नमः = नमस्करोमि।
तात्पर्यार्थः –
अपौरुषेयात्मकवेदोपनिषद्वाङ्मयरूपाः धेनूः (शास्त्रम्) भगवदनुकम्पया सम्पाद्य
अन्तस्थितसारद्रव्यस्य क्षीरस्य बहिर्निस्सारणरूपदोहनात्मकव्यापारं कुर्वन् कुर्वन्
शारीरकसूत्ररूपं दुग्धं वैदिक्या रीत्या जगत्कल्याणाय यः आचार्यः बादरायणो व्यासः
अनुगृहीतवान् (तस्मै), एवम् – पूर्वोक्तं क्षीररूपं शारीरकशास्त्रं दधि भवितुम्
अतुच्छार्थैः अत्युत्तमैः युक्तिनिकरैः गीतावाक्यार्थैः पक्वं तद्दुग्धम् आतञ्च्य,
तत्सारभूतनवनीतसाधनार्थं तत्तधि च मथित्वा वेदान्तसूत्राणामाशयं सिद्धान्तीकृत्य
श्रीभाष्यात्मकं कुशलतमं क्षेमतमं नवनीतं च यः श्रीभाष्यकारः श्रीमद्रामानुजाचार्यः
उत्कृष्टरूपेण विशदीकृतवान् एताभ्यां सूत्रकार-भाष्यकाराभ्यां नमः॥२॥
⏺⏺⏺
4.1.3. सुदर्शनसूरिस्तुतिविचारः -
कुदर्शनविकर्शनास्पदविविक्तयुक्तिव्रजैः1
प्रदर्शयितुमुद्यतं परिविमृर्श्य2 भाष्याशयम्।
अपार्थपरकत्थनव्यपगमोल्लसद्व्यासता-
निदर्शनमहं भजे ह्यदि सुदर्शनार्यं गुरुम्॥३॥
पदविभागः - कुदर्शनविकर्शनास्पदविविक्तयुक्तिव्रजैः, प्रदर्शयितुम्, उद्यतम्,
परिविमृर्श्य, भाष्याशयम्, अपार्थपरकत्थनव्यपगमोल्लसद्व्यासतानिदर्शनम्, अहम्,
भजे, ह्यदि, सुदर्शनार्यम्, गुरुम्॥
-
D.M. ॰प्रभैः
-
D.M. परिविमर्श्य
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
231
श्लोकाध्ययनम्
कुदर्शनविकर्शनास्पद-
विविक्तयुक्तिव्रजैः =
कुत्सितं निन्दितं दर्शनं कुदर्शनम्। कुत्सित-
चार्वाकाद्यवैदिकदर्शनोक्तानां कुपूयांशानां, विकर्शने1
तनूकरणे आस्पदरूप-विविक्त=विविध-युक्तिव्रजैः2 अर्थात्
हेतुसमूहैः।
भाष्याशयम् = श्रीभाष्यस्य आशयं लक्ष्यम्
परिविमृश्य = परितः सम्यग्विचार्य
प्रदर्शयितुम् = श्रीभाष्यस्य प्रधानप्रतिपाद्यांशम् अवबोधयितुम्
उद्यतम् = श्रीभाष्याशयप्रपञ्चनात्मकोद्यमः यस्य, तम्।
अपार्थपरकत्थन-
व्यपगमोल्ल-
सद्व्यासतानिदर्शनम् =
व्यसोक्तशारीरकभाष्यविषये व्यासमनोगतार्थात्
भिन्नार्थप्रवचनपरा ये वर्तन्ते ते अपार्थपराः। तेषां कत्थनं
श्लाघनम् अपार्थपरकत्थनम्। तस्य अपगमे उल्लसिता
उत्कृष्टतया अतिशयिता, व्यासता - व्यासस्य भावः,
अपार्थपरकत्थनव्यपगमोल्ल-सद्व्यासता। तस्याः
निदर्शनभूतो यो भवति तम्।
सुदर्शनार्यं गुरुम् = सुदर्शन इत्यन्वर्थनामकम् आचार्यम्
अहम् = श्रीनिवासाचार्योऽहम्
ह्यदि भजे = मनसि नमामि॥
तात्पर्यार्थः -
अवैदिकचार्वाकादिदर्शनोक्तानाम् अपल्लवितांशानां तनूकरणाय आरचितया
श्रुतप्रकाशिकाख्यव्याख्यया श्रीभाष्यस्य लक्ष्यम् सम्यग्विचार्य श्रीभाष्यप्रधानप्रमेयांशं
प्रदर्शयितुं सन्नद्धम्, व्यासोक्तशारीरकभाष्यविषये व्यासमनोगतार्थात् भिन्नार्थप्रवचनपरा
-
दिवादिः, कृश = तनूकरणे, ल्युट्।
-
समूहे निवहव्यूहसंदोहविसरव्रजाः इत्यमरः। 2.5.39.1.6
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
232
ये वर्तन्ते तेषां श्लाघनस्य अपगमे अतिशयितव्यासमनोगतनिदर्शनभूतं सुदर्शन
इत्यन्वर्थनामकम् आचार्यम् श्रीनिवासाचार्योऽहम् (नयद्युमणिदीपिकाग्रन्थकर्ताऽहम्)
मनसि नमामि॥३॥
⏺⏺⏺
4.1.4. वेदान्तदेशिकस्तुतिविचारः -
प्राचीं वाचमचीकशन्निशिचरग्रस्तां समस्तां पुरा
व्याजाद्वाजिमुखस्स तत्प्रकृतिकानन्यानधन्यान् बुधान्।
तत्तात्पर्यहरान् चिरान्निरसितुं1 जज्ञे यदात्मा पुनः
तं त्रय्यन्तगुरुं परापरकलातन्त्रस्वतन्त्रं भजे॥४॥
पदविभागः - प्राचीम्, वाचम्, अचीकशत्, निशिचरग्रस्ताम्, समस्ताम्, पुरा,
व्याजात्, वाजिमुखः, सः, तत्प्रकृतिकान्, अन्यान्, अधन्यान्, बुधान्, तत्तात्पर्यहरान्,
चिरान्, निरसितुं, जज्ञे, यत्, आत्मा, पुनः, तम्, त्रय्यन्तगुरुम्, परापरकला-
तन्त्रस्वतन्त्रम्, भजे॥
श्लोकाध्ययनम्
पुरा = पूर्वम्
निशिचरग्रस्ताम् = मधुकैटभाख्यराक्षसग्रस्ताम्
प्राचीं वाचम् = प्रथमां वाचम्, अपौरुषेयीमिति यावत्।
समस्ताम् = ऋग्यजुस्सामाथर्वात्मिकां समग्रां वेदराशिम्
वाजिमुखः = हयाननः
अचीकशत् = प्राकाशयत् (देवीभगवते इयं कथा समुपवर्णिता)
सः = स च हयवदनः
तत्प्रकृतिकान् = तस्य भगवतः प्रकृतिः त्रिगुणात्मिका या माया वर्तते तस्मात्,
- D.M. चिरान्विरसितुं
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
233
कटितुम् इच्छवः तत्प्रकृतिकाः, तान्।
बुधान् = चिदचिद्विशिष्टाद्वैततत्त्वजिज्ञासून्
व्याजात् = यथार्थव्यवहारात् अपगच्छत्यनेनेति व्याजः। तस्मात्
(रक्षितुम्), एवम्
अन्यान् = भगवन्मायामोहितान्
अधन्यान् = यमैवेष वृणुते तेन लभ्य इति कठोपनिषद्वाक्यात् भगवत्प्राप्तौ,
अव्यवहितोपायः भगवदनुकम्पा एवेति श्रूयते। तस्मात्
अधन्यः तद्रहित एव। तान् भगवदनुकम्पाहीनान्
तत्तात्पर्यहरान् = अन्धेनैव नीयमाना थथान्धा इतिवत् वेदोपनिषद्-गीता-
ब्रह्मसूत्रोक्तार्थान् अज्ञात्वा स्वयं धीराः इत्युक्तरीत्या अज्ञानात्
निजतत्त्वतात्पर्यहरा ये वर्तन्ते, तान्
चिरान् = सुदीर्घकालाद्वर्तमानान् मधुकैटभाद्यसुरसन्ततिरूपान्
चार्वाकादीन्
निरसितुम् = खण्डितुम्
यदात्मा = पूर्वोक्तवेदरक्षणशीलो हयवदन एव स्वयम्
पुनः = वेदोपनिषत्तत्त्वार्थरक्षणाय पुनः
जज्ञे = विशेषेणाविर्भूतवान्
तम् = तादृशम्
त्रय्यन्तगुरुम् = प्रस्थानत्रयगुरुम्
परापरकलातन्त्र-
स्वतन्त्रम् =
पराविद्यायाम्, अपराविद्यायां, सर्वासु कलासु
सकलतन्त्रविद्यासु च यः स्वतन्त्रः सर्वतन्त्रस्वतन्त्र इति प्रथितो
यो विद्यते, तम्।
भजे = नमस्करोमि।
तात्पर्यार्थः –
पूर्वं मधुकैटभाख्यराक्षसग्रस्ताम् अपौरुषेयीम् ऋग्यजु-स्सामाथर्वात्मिकां समग्रां
वेदराशिम् यो हयाननः प्राकाशयत्। स च हयवदनः स्वमायातितीर्षून्
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
234
चिदचिद्विशिष्टाद्वैततत्त्वजिज्ञासून् व्याजात् अव्याजकरुणया रक्षितुम्, एवं मायामोहितान्
स्वानुकम्पाहीनान् तस्मादेव अधन्यान् वेदान्तसूत्राणां कृते स्वयं धीराः पण्डितं मन्यमाना
इत्युक्तरीत्या अज्ञानात् स्वकपोलकल्पितव्याख्यानकर्तॄन् चार्वाकाद्यवैदिकान् खण्डितुं च
पुनस्स हयवदन एव स्वयं विशेषेण निगमान्तमहादेशिकगुरुरूपेण आविर्भूतवान्।
तादृशमपरहयाननं त्रय्यन्तगुरुं वेदान्तदेशिकं नमस्करोमि॥४॥
⏺⏺⏺
4.1.5. वेङ्कटाध्वरिस्तुतिविचारः -
नत्वा 1वेङ्कटसुत्वनः पदयुगी 2षड्दर्शिनीहर्षण-
स्तत्तादृक्परवादिवादविविधाहङ्कारहुङ्कारिणः।
तद्बिम्बप्रतिबिम्बडम्बर3रुचांस्तत्तन्मताक्षेपण-
प्रेक्षालक्षणलक्षितानभिनुमस्तत्सोदरांत्सादरम्4॥५॥
पदविभागः – नत्वा, वेङ्कटसुत्वनः, पदयुगीषड्दर्शिनीहर्षणः, तत्तादृक्परवादिवाद-
विविधाहङ्कारहुङ्कारिणः, तद्बिम्बप्रतिबिम्बडम्बररुचान्, तत्तन्मताक्षेपणप्रेक्षालक्षण-
लक्षितान्, अभिनुमः, तत्सोदारान्, सादरम्॥५॥
श्लोकाध्ययनम्
षड्दर्शिनीहर्षणः = शिक्षादिषड्दर्शनरूपायाः मातुः हर्षकारकः पुत्रः षड्दर्शनीहर्षी।
तस्य।
तत्तादृक्परवादि-
वादविविधाहङ्कार-
अभियाति परारातिः5 इत्यमरः। प्रियते अन्यथाकर्तुमिति परः6,
तादृशपराणां वादः व्यासमनोगतार्थाद्भिन्नवादः परवादः,
- T.M. वेंकट॰ इत्येवं वर्गपञ्चमवर्णस्थानेऽनुस्वारप्रयोगः सर्वत्र मातृकायां प्राप्यते।
D.M. अत्र तु कदाचिद्दृश्यते, कदाचिन्न।
-
T.M. षड्दर्शनी॰
-
D.M. रुचस्त॰
-
D.M. ॰सोदरान् सादरम् इति विसन्धिपाठ एव, न तु पाठभेदः।
-
अ॰को॰ 2.8.11.2.2
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
235
हुङ्कारिणः = तादृशवादः यस्यास्ति सः परवादी, तादृशस्या-ज्ञानान्धवादः
परवादिवादः, तादृशपरवादिवादाज्जनितः विविधः
नानाप्रकारकाहङ्कारः परवादिवादविविधाहङ्कारः, “हुं हन्मि
सहसा युधि शत्रून्” इति वत् तमहङ्करूपान्धकारं समूलतो
व्यासमनोगतनिजार्थदीपेन दूरीकर्तुमाचरितः हुङ्कारः
परवादिवादविविधाहङ्कारहुङ्कारः, तेषां पूर्वोक्तानां रामानुज-
वेदान्तदेशिकादिपूर्वाचार्याणां यादृक् परवादिवादविविधा-
हङ्कारहुङ्कारः प्रदर्शितः तादृशहुङ्कारः अस्यास्तीति तत्तादृक्पर-
वादिवादविविधाहङ्कारहुङ्कारी, तस्य।
वेङ्कटसुत्वनः = सुत्वा त्वभिषवे कृते1 इत्यमरः। अभिषवः स्नानं प्रस्तावात्
यागसम्बन्धिस्नानं यः कृतवान् सः सुत्वेत्युच्यते2। अर्थात्
वेङ्गटाध्वरिनामकपण्डितः यो वर्तते, वेदान्तदेशिकानां शिष्यः,
नष्टनेत्रदृष्टिं लक्ष्मीसहस्राख्यग्रन्थरचनया पुनः यः प्राप्तवान्,
विश्वगुणादर्शचम्पू-प्रद्युम्नानन्दीयनाटक-राघव-माधवीयादि-
शताधिकग्रन्थकर्ता, तस्य, वेङ्कटाध्वरिणः।
पदयुगीम् = पादयुग्मम्
नत्वा = नमस्कृत्य
तद्बिम्बप्रतिबिम्ब-
डम्बररुचान् =
तस्य भगवत्तत्त्वस्य विषये बिम्बप्रतिबिम्बवत् जीवब्रह्मणोः
अभेदवादादिडम्बरात् निजिवेदान्ततत्त्वस्य रोचने रुचिः येषां ते
तान्।
तत्तन्मताक्षेपण-
प्रेक्षालक्षण-
लक्षितान् =
चार्वाकादितत्तन्मतानाम् आक्षेपणे प्रेक्षणं प्रकर्षईक्षणं
तत्तन्मताक्षेपणप्रेक्षा। तादृशप्रेक्षाफलक-अतिव्याप्त्यादि-
दोषरहितलक्षणलक्षितसिद्धान्तोपदेशपरा ये वर्तन्ते तान्।
तत्सोदरान् = तादृशनिजसिद्धान्तरक्षणदीक्षया यो गर्भः उदयर्ति तादृशगर्भात्
जातः तत्सोदरः। तान्। अत्र सोदरत्वमेकगर्भसञ्जातत्वमिति न,
अपि तु एकलक्ष्यरूपगर्भजातत्वम्।
-
गु॰बा॰प्र॰ पृ॰ 474
-
अ॰को॰ 2.7.10.2.2
-
गु॰बा॰प्र॰ पृ॰ 442
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
236
सादरम् = गैरवेण
अभिनुमः = नमस्कुर्मः॥
तात्पर्यार्थः –
शिक्षादिषड्दर्शनरूपायाः मातुः हर्षकारकस्य पुत्रस्य, पूर्वोक्तानां रामानुज-
वेदान्तदेशिकादिपूर्वाचार्याणां यादृक् परवादिवादविविधाहङ्कारहुङ्कारः प्रदर्शितः
तादृशहुङ्कारयुक्तस्य वेङ्गटाध्वरिनामकपण्डितस्य पादयुग्मं नमस्कृत्य, तथैव भगवत्तत्त्व-
विषये बिम्बप्रतिबिम्बवत् जीवब्रह्मणोः अभेदवादादिडम्बरात् निजिवेदान्ततत्त्वस्य रोचने
रुचियुक्तान्, अपि च चार्वाकादितत्तन्मतानाम् आक्षेपणे दृष्टिं प्रसार्य, साधुलक्षण-
लक्षितसिद्धान्तोपदेशे कृतभूरिश्रमान्, वेङ्कटाध्वरिपण्डितस्य लक्ष्यमार्गे ये अनुचरन्ति
तान् अनुचरान् सोदरान् सादरं नमस्कुर्मः॥५॥
⏺⏺⏺
4.1.6. अण्णयार्यस्तुतिविचारः -
यं पर्यायपतञ्जलिं पदविदश्शंसन्ति मीमांसकाः
यस्याचार्यगुरू निरूढविभवावन्तेवसन्तावमी।
पश्यत्पादममृष्यमाणमनसः पश्यन्ति यं तार्किकाः
तं त्रय्यन्तकथोदधीन्दुमनघं वन्देऽण्णयार्यं गुरुम्॥६॥
पदविभागः – यम्, पर्यायपतञ्जलिम्, पदविदः, शंसन्ति, मीमांसकाः, यस्य,
आचार्यगुरू, निरूढविभवौ, अन्ते, वसन्तौ, अमी, पश्यत्पादम्, अमृष्यमाणमनसः,
पश्यन्ति, यम्, तार्किकाः, तम्, त्रय्यन्तकथोदधीन्दुम्, अनघम्, वन्दे, अण्णयार्यम्,
गुरुम्॥
श्लोकाध्ययनम्
यम् = अण्णयार्यं गुरुम्
पर्यायपतञ्जलिम् = महाभाष्यकारं पतञ्जलिम् अनुक्रम्य यः पर्ययनं करोति
सः पर्यायपतञ्जलिः। तम्। अपरपतञ्जलिमिति पदविदः
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
237
पदविदः = शब्दवेत्तारः वैयाकरणाः
मीमांसकाः = पूर्वमीमांसकाः च
शंसन्ति = कीर्तयन्ति
यस्य = अण्णयार्यस्य
आचार्यगुरू = मूलमन्त्रोपदेशकः आचार्यः, मूलमन्त्रेतरविद्याप्रदाता गुरुश्च
निरूढविभवौ = नितरां रूढं प्रसिद्धं विभवं पाण्डितीवैभवं ययोः अमू
मूलमन्त्रोपदेशक-विद्याप्रदातारौ
अन्ते = पदार्धमात्रग्रहणेन पूर्णपदग्रहणमिति न्यायेन अन्तशब्दस्य
वेदान्त इत्यर्थः, अर्थात् उपनिषत्सु शारीरकमीमांसायां च
वसन्तौ = निजतत्त्वजिज्ञासूनां ज्ञानेच्छा वसन्ति अनयोरिति वसन्तौ
(भवतः)
यम् = अण्णयार्यं गुरुम्
अमृष्यमाणमनसः
=
मृषा नाम मिथ्या। अमृष्यमाणः मिथ्यारहितः मनः येषां
ते।
अमी तार्किकाः = वेदानुकूलवादः तर्कः। तादृशतर्केण संशयविपर्ययादिभ्यो ये
तारयन्ति ते तार्किकाः।
पश्यत्पादम् = पश्यन् सन्मार्गप्रेक्षणात्मकः पादः यस्य तम्।
पश्यन्ति = द्रक्ष्यन्ति
तम् = तादृशम्
त्रय्यन्त-
कथोदधीन्दुम् =
तत्त्वत्रयस्वरूपकथारूपायाः उदधौ सञ्जातचन्द्रम्।
अनघम् = अघरहितम्
अण्णयार्यं गुरुम् = अण्णयार्यनामकगुरुम्
वन्दे = प्रणमामि
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
238
तात्पर्यार्थः –
शब्दवेत्तारः वैयाकरणाः यं अण्णयार्यं गुरुम् अपरपतञ्जलिमिति कीर्तयन्ति,
पूर्वमीमांसकाः च यस्य अण्णयार्यस्य (मूलमन्त्रोपदेशकाचार्यं, मूलमन्त्रेतरविद्याप्रदातारं
च) मूलमन्त्रोपदेशक-विद्याप्रदातारौ उपनिषत्सु शारीरकमीमांसायां च लोकप्रसिद्धगुरू
भवतः इति कीर्तयन्ति, तार्किकाः च तम् अण्णयार्यं सन्मार्गप्रेक्षणात्मकपदम् इति
भावयन्ति तादृशं त्रय्यन्तकथोदधीन्दुम् अण्णयार्यं प्रणमामि॥६॥
⏺⏺⏺
4.1.7. ताताचार्यस्तुतिविचारः -
विहितबहुविरोधान् व्यक्ततात्पर्यभेदान्
अपगलितविवादान् हन्त! वेदान् विधाय।
सततकृतविनोदान् सर्वशास्त्रानुवादान्
प्रथयितुमतिमोदान् तातपादान्नमामि॥७॥
पदविभागः – विहितबहुविरोधान्, व्यक्ततात्पर्यभेदान्, अपगलितविवादान्, हन्त!,
वेदान्, विधाय, सततकृतविनोदान् सर्वशास्त्रानुवादान्, प्रथयितुम्, अतिमोदान्,
तातपादान्, नमामि॥
श्लोकाध्ययनम्
विहितबहुविरोधान् = विहिताः बहुविधाः विरोधाः येषां ते विहितबहुविरोधाः।
तान्। अर्थात् वेदेषु भेदश्रुतयः अभेदश्रुतयश्च वर्तन्ते
तादृशविहिताः परस्परभिन्नत्वबोधिताः विरोधाः विषय-
विरोधाः यत्र वर्तन्ते ते वेदाः, विहितबहुविरोधाः, तान्
व्यक्ततात्पर्यभेदान् = व्यक्ताः प्रपञ्चिताः पूर्वोक्तविरोधानां तात्पर्येषु भेदाः च येषां
ते, व्यक्ततात्पर्यभेदाः, तान्
अपगलितविवादान् = अपगलितः निवारितः विवादः यैः ते, अपगलितविवादाः,
तान्
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
239
वेदान् = वेदेष्वेव भिन्नमतीनां दृष्टिवशात् भेदाभेदश्रुतिविरोधः दृश्यते,
तेष्वेव वेदेषु तत्तद्विरोधतात्पर्यभेदमपि दृश्यते, पुनः तेष्वेव
तेषां तात्पर्यभेदानां निवारणोपया अपि वर्तन्ते, तादृशान्
वेदान्
विधाय = स्वकीयव्याख्याग्रन्थैः वेदे दृश्यमानभेदाभेदघटकरूपविरोधान्
सर्वान् अपहाय निजवेदार्थं, पुनः संस्थाप्य
हन्त = एतादृशमहत्कार्यसाधने एव अहो!
सततकृतविनोदान् = अविरतं कृतं विनोदं यैः ते, तान् अर्थात् वेदोक्तभेदाभेद-
रूपपरस्परविरोधनिवारणकार्यमेव विनोदः येषां ते, तान्
सर्वशास्त्रानुवादान् = सर्वेषां शास्त्राणाम् अनुवादान् व्याख्यानान्
प्रथयितुम् = व्याख्यानं कर्तुम्, शास्त्रार्थान् प्रसिद्धयितुम्
अतिमोदान् = अतिशयितोत्साहान्
तातपादान् = श्रीरङ्गनाथेनैव तात इति सम्बोधितान्
नमामि = नमस्करोमि॥
तात्पर्यार्थः –
मानवानां मतिभेदात् मोहवशात् ज्ञानरूपे वेदे भेदाभेदघटकरूपवेदवाक्येषु
परस्परविरुद्धार्थोऽस्तीति जिज्ञासवो भ्रमन्ति, तादृशभ्रमान् निवारयितुं वेदोक्ततात्पर्य-
प्रबोधने समर्थो यो वर्तते तम्, काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् इतिवत्
वेदवेदान्तवाक्यार्थविचाररूपविनोदेन सकलशास्त्रार्थान् व्याख्यातुं वेदार्थसारं प्रसिद्धयितुं
च यो आचार्यः प्रयतते तादृशं, श्रीरङ्गनाथभगवता तात इति सम्बोधितं तातयार्यं
नमस्करोमि॥७॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
240
4.1.8. गुर्वनुग्रहस्मरणविचारः -
यस्मादस्माभिरादावगणि विगणितोद्भावनं जैमिनीयं1,
पश्चाद्दुश्चिद्विपश्चिन्मतहितकथकादूष्यमग्राहि भाष्यम् ।
तस्मिन् कौण्डिन्यवंशच्छलजलधिविधौ श्रीनिवासाध्वरीन्दौ,
भूयोभूयः प्रणामप्रतति2रधिगतप्राभवी बोभवीतु॥८॥
पदविभागः - यस्मात्, अस्माभिः, आदौ, अगणि, विगणितोद्भावनम्, जैमिनीयम्,
पश्चात्, दुश्चिद्विपश्चिन्मतहितकथकादूष्यम्, अग्राहि, भाष्यम्, तस्मिन्
कौण्डिन्यवंशच्छलजलधिविधौ, श्रीनिवासाध्वरीन्दौ, भूयोभूयः, प्रणामप्रततिः,
अधिगतप्राभवी, बोभवीतु॥
श्लोकाध्ययनम्
अस्माभिः = वेदस्य पूर्वभागोक्तकर्मसु एव श्रद्धालुभिः
आदौ = प्रथमतः
जैमिनीयम् = पूर्वमीमांसाशास्त्रोक्तं यज्ञकर्माद्याचरणं
विगणितोद्भावनम् = विशेषेण गणितं विगणितम्, तस्य उद्भावनम्, उत्कृष्टं इति
यावत्
अगणि = अगणयम्, स्वीकृतम्, अजानम् इति च।
पश्चात् = केवलकर्मणाम् अल्प-अस्थिरफलत्वे ज्ञाते मुमुक्षोः
स्थिरफलसाधनार्थं ब्रह्मज्ञानम् आवश्यकमिति ज्ञानानन्तरम्
भाष्यम् = स्थिरफलप्रापकं वेदवेदान्तसारभूत-
शारीरकसूत्रव्याख्यात्मकं श्रीभाष्यम्
दुश्चिद्विपश्चिन्मत-
हितकथकादूष्यम् =
दुष्टं – वेदमार्गात् भिन्नमार्गे रमन्तं चित्तं दुश्चित्तम्,
तादृशदुश्चित्तयुक्तस्य पण्डितम्मन्यमानस्य विपश्चितः मतस्य
-
T.M. जयमिनीयं
-
D.M. प्रणामव्रतति॰
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
241
सिद्धान्तस्य हितकथकाः ये वर्तन्ते चार्वाकादयः तैरपि
अदूष्यम्, सम्मान्यम्, पूज्यं भवतीति
यस्मात् यस्य आचार्यस्योपदेशात्
अग्राहि = अग्राहि।
तस्मिन् = तदृशोपदेशकर्तुरि
कौण्डिन्यवंशच्छल-
जलधिविधौ =
कौण्डिन्यवंशे छलितः1 स्खलितः (जात इति यावत्)
कौण्डिन्यवंशच्छलः। जलधौ सञ्जातः विधुः चन्द्रः
जलधिविधुः। कौण्डिन्यवंशच्छल एव जलधिविधुः
कौण्डिन्यवंशच्छल-जलधिविधुः। अर्थादर्णवेसञ्जातचन्द्र
इव कौण्डिन्यवंशे सञ्जात हिमांशुः। तस्मिन्।
श्रीनिवासाध्वरीन्दौ = दोड्डयाचार्य इति नाम्ना ख्यातिं गतः श्रीनिवासाध्वरिः एव
इन्दुः, तस्मिन् (ग्रन्थकर्तुः मम गुरौ)
भूयोभूयः = पौनःपुन्येन अविरतम्
प्रणामप्रततिः = सहस्रशः प्रणामाः
बोभवीतु = पुनः पुनः भवतु,
यस्मात् (अहम्) = यस्मात् कारणादित्युक्ते पूर्वोक्ततादृशगुरोरनुग्रहादेवाहम्
अधिगतप्राभवी
(अभवम्) =
सम्प्राप्तसकलशास्त्रज्ञोऽभवम्।
तात्पर्यार्थः –
आदौ कर्मणामेव प्रौढिमां सर्वे जानन्ति। ततः कर्मणाम् अल्पास्थिरफलत्वे ज्ञाते
अनल्पस्थिरफलमापाततः पश्यतां तेषां ब्रह्मज्ञानेच्छा जायते। तादृशब्रह्मज्ञानेच्छा यस्य
गुरोः अनुग्रहेण मे जाता तादृशाचार्याय दोड्ढयाचार्यनामकगुरवे सहस्रशः प्रणामाः।
यतः ते एव मम सकलविद्याप्रदातारः भवन्ति॥८॥
⏺⏺⏺
- अथ स्खलितं छलम्, अ॰को॰ गु॰बा॰प्र॰ पृ॰ 527
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
242
4.1.9. नयद्युमणिग्रन्थरचनाप्रतिज्ञाविचारः -
सेवंसेवमसद्वदावदमदप्रागल्भ्यबिभ्यत्त्रयी1
जीवं जीववधूसुधाकरवचोधाराळधाराभरान्।
श्रीशैलाण्णयदीक्षिताग्रजगुरून् शेषाविशेषोल्लसत्-
पाण्डित्यांत्स्वकृतं यते विवरितुं तद्ब्रह्मसूत्रस्तवम्॥९॥
पदविभागः - सेवंसेवम्, असद्वदावदमदप्रागल्भ्यबिभ्यत्त्रयीजीवंजीववधूसुधाकर-
वचोधाराळधाराभरान्, श्रीशैलाण्णयदीक्षिताग्रजगुरून् शेषाविशेषोल्लसत्पाण्डित्यान्,
स्वकृतम्, यते, विवरितुम्, तद्ब्रह्मसूत्रस्तवम्॥
श्लोकाध्ययनम्
असद्वदावदमदप्रागल्भ्य-
बिभ्यत्त्रयीजीवञ्जीव-
वधूसुधाकरवचो-
धाराळधाराभरान् =
वेदार्थात् भिन्नः अर्थः असत्, असत् अत्यन्तं वदतीति
असद्वदावदः2, प्रकर्षेण गल्भ्यते इति प्रगल्भः3 गर्वयुक्तं
वचनम्। असद्वदावदस्य मदः तेन प्रदर्शितः प्रगल्भः,
असद्वदावदमदप्रगल्भः। तस्य भावः, असद्वदावदमद-
प्रगल्भ्यम्। तेन भीतवती त्रयी (श्रुतिः), असद्वदावदमद-
प्रागल्भ्यबिभ्यत्त्रयी। जीवेन सहचरेण क्रीडन् जीवतीति
जीवञ्जीवः4 चकोरपक्षी इत्यर्थः।
पूर्वोक्ता त्रयी जीवंजीवरूपा वधूः भवति। अर्थात् जीवेन
वेदवेद्येन भगवता सहचरन् स्वस्यां स्थितप्रत्यक्षरेण तमेव
भगवन्तं प्रकटयन्ती वधूरूपेण या स्थिता सा असद्वदावद-
मदप्रागल्भ्यबिभ्यत्त्रयीजीवञ्जीववधूः।
-
T.M. बिभ्यत्रयी
-
वदो वदावदो वक्ता इत्यमरः। अ॰को॰ 3.1.35
-
अ॰को॰ गु॰बा॰प्र॰ पृ॰ 64
-
जीवञ्जीवश्चकोरकः। अ॰को॰ गु॰बा॰प्र॰ पृ॰ 347
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
243
सुधारूपं वेदवेदान्तसारं व्याख्यारूपेण करोतीति सुधाकरः।
वचोरूपा धारा अस्य अस्तीति वचोधारालः। सुधाकरात्मक-
वचोधाराळयुक्तः धाराभरः मेघः। सुधाकरवचोधाराळ-
धाराभरः।
रावणस्य पुरे अशोकवने स्थितायाः सीतायाः हनुमद्वचनं यथा
भीतोपशमनम् अभूत्, तद्वत् अस्याः असद्वदावदमद-
प्रागल्भ्येन बिभ्यत्याः जीवञ्जीववध्वाः भीतिम् अपगमयितुम्,
यो आगतः हनुमदंशसम्भूतः सुधाकरवचोधाराळधाराभरः
तान्, असद्वदावदमदप्रागल्भ्यबिभ्यत्त्रयीजीवञ्जीववधूसुधाकर-
वचोधाराळधाराभरान्।
शेषाविशेषोल्ल-
सत्पाण्डित्यान् =
सकलविधचर्चान्ते यो विषयष्यिश्शते स शेषः। अर्थात्
सिद्धान्तः। तस्मिन् साधिते सिद्धान्ते द्वैधीभावः विद्यते चेत्
स सिद्धान्तः अतिव्याप्त्यादिदोषदुष्टः सिद्धान्तः भवति। अत्र
अविशेषः नाम द्वैधीभावरहितत्वम्। एवं शेषः अविशेषश्च यो
सिद्धान्तविषयः भवति सः शेषाविशेषः। तादृशशेषाविशेषे
उल्लसत् पाण्डित्यं यस्य सः, शेषाविशेषोल्लसत् पाण्डित्यः,
तान् - शेषाविशेषोल्लसत्पाण्डित्यान्।
श्रीशैलाण्णय-
दीक्षिताग्रजगुरून् =
श्रीशैलपूर्ण इति अण्णयाचार्याणां शिष्याः ये वर्तन्ते,
दीक्षिताग्रजगुरुः पेरियनम्बि इति लोके कीर्तिंगताः, तान्
ग्रन्थकर्तुः मम गुरून्
सेवंसेवम् = सेवित्वा सेवित्वा
स्वकृतम् = स्वेन श्रीनिवासेन आत्मना कृतम्
तद्ब्रह्मसूत्रस्तवम् = तदीयस्य व्यासादिपरम्पराप्राप्तस्य ब्रह्मसूत्रग्रन्थस्य
सारप्रतिपादकं स्तवम्, नयद्युमण्याख्यं
विवरितुम् = स्वकृतनयद्युमण्याख्यस्तवस्य विवरणरूपां स्वोपज्ञटीकां कर्तुम्
यते = प्रयत्नं करोमि॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
244
तात्पर्यार्थः –
बिभेत्यल्पश्रुताद्वेदः इत्युक्तरीत्या वेदार्थाद्भिन्नार्थप्रवचनपरैः भीतवती श्रुतिः
अशोकवने सीतावत् स्थिता। सीतायाः भीतिमपगमयितुं योऽगमत् नवव्याकरण-
पण्डितः, तद्वत् अल्पश्रुतात् भीतायाः श्रुतेः भीतिं साधुव्याख्यानेन अपगमयितुं
श्रीशैलपूर्णाः सञ्जाताः। तादृशान् श्रीशैलपूर्णान् गुरून् नमस्कृत्य, मदीयनयद्युमण्याख्यं
ब्रह्मसूत्रस्तवं दीपिकाख्यव्याख्यया विवरितुं यते॥९॥
⏺⏺⏺
4.1.10. नयद्युमणिग्रन्थरचनेतिकर्तव्यताविचारः -
मोहावेशवशंवदात्ममनसो मूढा निगूढाशयं,
श्रीमद्भाष्यमदूष्यमब्जजनुषाप्यादूष्य हृष्यन्ति ये।
तानात्मीयमतिव्यतिक्रमभवद्दोषान्मनीषि1ब्रुवां-
स्तत्तात्पर्यविवेचनान्निरसितुं यत्नः कृतार्थोऽद्य2 नः॥१०॥
पदविभागः – मोहावेशवशंवदात्ममनसः, मूढाः, निगूढाशयम्, श्रीमद्भाष्यम्, अदूष्यम्,
अब्जजनुषा, अपि, आदूष्य, हृष्यन्ति, ये, तान्, आत्मीयमतिव्यतिक्रमभवद्दोषात्,
मनीषिब्रुवान्, तत्तात्पर्यविवेचनान्, निरसितुम्, यत्नः, कृतार्थः, अद्य नः॥
श्लोकाध्ययनम्
मोहावेशवशं-
वदात्ममनसः =
वशकरं मधुरं वदतीति वशंवत्, मोहावेशाभ्यां वशंवत्
मोहावेशवशंवत्, मोहावेशवशंवदः आत्मकमनश्शीला येषां
वर्तन्ते ते मोहावेशवशंवदात्ममनसः। अन्धेनैन नीयमाना
यथान्धा इतिवदज्ञानमोहान्थकारे सर्वान् गमयितुमुद्युक्ताः।
-
D.M. मतीषि॰
-
T.M. & D.M. कृतार्थोऽद्य इति सर्वत्र उभयमातृकयोः अवग्रहप्रयोगो न दृश्यते।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
245
ये = वेदसारार्थमन्यथा वक्तुमुद्युक्ताः ये
मूढाः = मूर्खाः
निगूढाशयम्
(अज्ञात्वा) =
वेदोपनिषत्सु अन्तर्गर्भितमर्थम् अविदित्वा
अब्जजनुषा = कमलोद्भवेन, सृष्टिकर्त्रा ब्रह्मणा
अपि = अपि
अदूष्यम् = पवित्रम्, दूषयितुमशक्यम्
श्रीमद्भाष्यम् = श्रीभाष्यम्
आत्मीयमति-
व्यतिक्रम-
भवद्दोषात् = स्वकीयमतिव्यतिक्रमरूपभ्रान्त्या सञ्जातदोषात्
आदूष्य = आसमन्तात् दूष्य
हृष्यन्ति = ये मूढाः अनानन्दम् अब्रह्मात्मकं आनन्दमिति मत्वा,
उत्फुल्लयन्ति
तान् = मतिव्यतिक्रमभ्रान्त्या प्रयुक्तान्, मायामोहितान्
मनीषिब्रुवान् = पण्डितम्मन्यमानानां वचांसि
तत्तात्पर्य-
विवेचनान् =
तादृशवचोविवरणानि
निरसितुम् = खण्डितुम्
नः यत्नः = अस्माकं प्रयत्नः
अद्य = सम्प्रति
कृतार्थः (भवतु) = नयद्युमणि-तद्दीपिकाग्रन्थरचनया कृतकृत्यः भूयात्।
तात्पर्यार्थः -
मोहावेशाभ्यां सर्वान् वशीकृत्य अन्धेनैन नीयमाना यथान्धा इति वत्
अज्ञानमोहान्धकारे सर्वान् गमयितुम्, वेदसारार्थमन्यथा वक्तुं च ये मूर्खाः उद्युक्ताः
सन्ति, ते वेदोपनिषत्सु अन्तर्गर्भितमर्थम् अविदित्वा ब्रह्मणा अपि दूषयितुमशक्यं पवित्रं
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
246
श्रीभाष्यम्, स्वकीयमतिव्यतिक्रमरूपभ्रान्त्या प्रदूष्य ये मूढाः उत्फुल्लयन्ति तेषां मूढानां
पण्डितम्मन्यमानानां वचांसि खण्डयितुम् अस्माकं प्रयत्नः सम्प्रति नयद्युमणि-
तद्दीपिकाग्रन्थरचनया कृतकृत्यो भूयात्॥१०॥
⏺⏺⏺
यो वायोरभवत् तृतीयतनुभृद्यस्तद्भुजामीशितुः
तादृग्रूपधरास्तयोर्हि चरमस्पष्टप्रकृष्टोदयः।
इत्थं तन्मतयो क्रमादधिगतं न्यूनत्वमाधिक्यम-
प्यद्यत्वे त्वनवद्यतां प्रविशदीकर्तुं प्रवर्तामहे॥११॥
पदविभागः – यः, वायोः, अभवत्, तृतीयतनुभृत्, यः, तद्भुजाम्, ईशितुः,
तादृग्रूपधराः, तयोः, हि, चरमस्पष्टप्रकृष्टोदयः, इत्थम्, तन्मतयः, क्रमात्, अधिगतम्,
न्यूनत्वम्, आधिक्यम्, अपि, अद्यत्वे, तु, अनवद्यताम्, प्रविशदीकर्तुम्, प्रवर्तामहे॥
श्लोकाध्ययनम्
वायोः = पञ्चभूतेषु आकाशादुत्पन्नात् द्वितीयात् वायोः
यः = अग्निः (अग्निदेवः)
अभवत् = जातः (वायोरग्निरिति श्रुत्या) एवम्
तद्भुजाम् = तस्य अग्नेः रूपत्वेनाभिहितानां गार्हपत्य-अन्वाहार्य-आहवनीय-
सभ्य-आवसक्थ्याख्यानां यज्ञकर्मणाम्
यः = परमात्मा
तृतीयतनुभृत् = पञ्चभूतेषु तृतीयम् अग्निं तनुरूपेण यो धृतः सर्वभूतात्मको
भगवान् (एवं)
ईशितुः = द्रष्टुः, प्रशास्तुः (न तस्य कश्चित् पतिरस्ति नेशिता। श्वे॰उ॰)
तादृग्रूपधराः = भगवतः सर्वान्तर्यामित्वरूपगुणविशिष्टपोषकाः ब्रह्मविद्याः
तयोः = कर्म-ब्रह्मणोः, अर्थात् यज्ञात्मककर्मप्रतिपादकपूर्वमीमांसा-
ब्रह्मविद्याप्रतिपादकोत्तरमीमांसयोः,
हि = तयोः ऐकशास्त्र्यमितिप्रतिपादितत्वात्
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
247
चरमस्पष्ट-
प्रकृष्टोदयः =
तयोः पूर्वोत्तरमीमांसयोः अन्तिमस्पष्टतां ज्ञात्वा ये प्रकृष्टहृदया
अभवन्
इत्थं तन्मतयः = एवं तेषां मतयश्च
क्रमात् = क्रमशः
न्यूनत्वम् = तयोर्मध्ये अल्पीयस्त्वम्
आधिक्यम् = प्रौढिमां
अपि = तत्सारं सर्वम् अपि
अधिगतम् = यथागुरुकृपाबलम् अधीतम्
तु = किन्तु
अद्यत्वे = इदानीन्तनकाले
अनवद्यताम् = दोषहीनताम्
प्रविशदीकर्तुम् = महता परिश्रमेण प्रपञ्चयितुम्
प्रवर्तामहे = प्रयत्नं कुर्महे॥
तात्पर्यार्थः –
“वायोरग्नि” रिति श्रुत्या पञ्चभूतेषु आकाशादुत्पन्नात् वायोः जातः अग्निः, एवम्
तस्य अग्नेः स्वरूपत्वेनाभिहितानां गार्हपत्य-अन्वाहार्य-आहवनीय-सभ्य-
आवसक्थ्याख्यानां यज्ञकर्मणाम्, भगवतः सर्वान्तर्यामित्वरूपगुणविशिष्टपोषकाणां
ब्रह्मविद्यानाम्, तत्तद्विषयप्रतिपादकपूर्वोत्तरमीमांसयोश्च अन्तिमस्पष्टतां ज्ञात्वा ये
प्रकृष्टहृदया अभवन्। तादृशाः, तेषां मतयश्च अस्मद्गुरूणामनुग्रहेण ज्ञाताः। किन्तु
इदानीन्तनकाले तयोश्शास्त्रयोः दोषहीनताम् महता परिश्रमेण नयद्युमणिदीपिकाख्य-
ग्रन्थरचनया प्रपञ्चयितुम् प्रयत्नं कुर्महे॥११॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
248
यावत्प्रज्ञमभिज्ञभाव्यमतिना ग्रन्थे मया निर्मिते
दोषान्वेषणतोषिताः कतिपये तृष्यन्तु कुप्यन्तु वा।
भिन्नच्छिन्नमतश्रुतिस्मृतिकथापारम्परीलम्पटा-
स्सन्तः प्रोज्झितमत्सराः प्रतिपदं सन्त्येव सन्तोषिणः॥१२॥
पदविभागः – यावत्प्रज्ञम्, अभिज्ञभाव्यमतिना, ग्रन्थे, मया, निर्मिते,
दोषान्वेषणतोषिताः, कतिपये, तृष्यन्तु, कुप्यन्तु, वा, भिन्नच्छिन्नमतश्रुति-
स्मृतिकथापारम्परीलम्पटाः, सन्तः, प्रोज्झितमत्सराः, प्रतिपदम्, सन्ति, एव,
सन्तोषिणः॥
श्लोकाध्ययनम्
यावत्प्रज्ञम् = गुरोराशीर्भिः, भगवदनुकम्पया च यावत् ज्ञानं सम्पादितम् तेन
ज्ञानेन
अभिज्ञभाव्य-
मतिना =
पण्डितामोदचित्तेन
मया = श्रीनिवासेन
निर्मिते = आरचिते
ग्रन्थे = नयद्युमण-तद्व्याख्यात्मके ग्रन्थे
कतिपये = केचन पुरोभागिनः
दोषान्वेषण-
तोषिताः =
दोषगन्धरहितांशेऽष्वपि स्वकपोलकल्पनया दोषमाविष्कृत्य ये
तुष्यन्ति ते
तृष्यन्तु कुप्यन्तु वा
=
सन्तुष्टा भवन्तु वा! कोपयुक्ता भवन्तु वा! भवन्तु नाम! यथा
फाल्गुने मासि मेघाः सद्यो वर्षन्तीव आकाशच्छन्नाः गर्जन्ति
किन्तु न वर्षन्ति तादृशमेघायमानैः पुरोभागिभिः कृतगर्जनेन
को वा लाभः? इत्यर्थः।
भिन्नच्छिन्नमत-
श्रुतिस्मृतिकथा-
भिन्नवद्भाति किन्तु घृतधारावत् अच्छिन्नं मतं भिन्नच्छिन्नमतम्।
भिन्नच्छिन्नात्मकश्रुति-स्मृति-कथा-(पुराण)रूपपरम्परायां ये
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
249
पारम्परीलम्पटाः = लम्पटाः आसक्ताः ते भिन्नच्छिन्नमतश्रुतिस्मृतिकथापारम्परी-
लम्पटाः। वेदमार्गरता इति यावत्।
प्रोज्झितमत्सराः = स्वप्रयोजनप्रतिसन्धानं विना पराभिवृद्ध्यवरोधनेच्छा मत्सरम्।
प्रकर्षेण त्यक्तम् एतादृशं मत्सरं यैः ते प्रोज्झितमत्सराः। अर्थात्
शुद्धान्तःकरणाः इति।
सन्तः = पण्डिताः
सन्तोषिणः = भगवज्जिज्ञासिनि एतादृशग्रन्थचिकीर्षिणि मयि हर्षयुक्ताः च
प्रतिपदम् सन्ति
एव =
मे सकलप्रयत्नेषु अनुक्षणं प्रोत्साहयन्तो विराजन्त एव
तात्पर्यार्थः –
गुरोराशीर्भिः भगवदनुकम्पया च यावत् ज्ञानं सम्पादितम् तेन ज्ञानेन
पण्डितामोदचित्तेन श्रीनिवासेन मया आरचिते नयद्युमण-तद्व्याख्यात्मके ग्रन्थे केचन
पुरोभागिनः सन्तुष्टा वा, कोपयुक्ता वा भवन्तु नाम! तैः को वा लाभः? किन्तु मम प्रति
प्रयत्ने प्रतिपदं प्रतिक्षणं मां प्रोत्साहयन्तः प्रोज्झितमत्सराः पण्डिताः विराजन्त एव।
तेषां विदुषामामोदेन मम इयं चिकीर्षा॥१२॥
⏺⏺⏺
ध्वान्तानुवर्तिषु जनेष्वपि चन्द्रिकायां
दोषानुषङ्गविधितः प्रथितोदयेषु।
सन्मानसाब्जविततिर्व्यथिता विकासं
गृह्णातु सम्प्रति नयद्युमणेरमुष्मात्॥१३॥
पदविभागः – ध्वान्तानुवर्तिषु, जनेषु, अपि, चन्द्रिकायाम्, दोषानुषङ्गविधितः,
प्रथितोदयेषु, सन्मानसाब्जविततिः, व्यथिता, विकासम्, गृह्णातु, सम्प्रति, नयद्युमणेः,
अमुष्मात्॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
250
श्लोकाध्ययनम्
दोषानुषङ्गविधितः = दोषान्वेषणकार्यमनपहाय दोषगन्धानुगमनस्वभावतः
प्रथितोदयेषु = प्रथितः - लोके प्रसिद्धः ख्यातः, उदयः – कीर्तिः यशः
येषां तेषु प्रथितोदयेषु। अर्थात् ईर्ष्यावशात् स्वेतरजनेषु
दोषामात्रव्यक्तीकरणेन स्वात्मनः गम्भीरतां प्रकटयत्सु
चन्द्रिकायाम् अपि = क्लेदरहितायाम् आह्लादात्मिकायां कौमुद्यामपि
ध्वान्तानुवर्तिषु = दोषगन्धरहितायां चन्द्रिकायाम् आस्वादनं त्यक्त्वा चन्द्रे
अङ्कं कलङ्कमिव पश्यन्तः, अज्ञानरूपान्धकारस्य
अनुगामिषु।
जनेषु = तादृशगुणयुक्तासु जनेषु (सत्सु)
व्यथिता = बाधिता
सन्मानसाब्जविततिः = सतां मानसं सन्मानसम्, सन्मानसमेव अब्जम्,
सन्मानसाब्जम्, तस्य विततिः समूहः,
सन्मानसाब्जविततिः सद्धृदयपुष्पगुच्छः
अमुष्मात् नयद्युमणेः = सहृदयविकासकारकज्ञानज्योत्स्नाप्राकशकात्
नयद्युमण्याख्यग्रन्थात्
सम्प्रति = इदानीम्
विकासम् = अज्ञानात्मकमुकुलितभावं त्यक्त्वा उत्फुल्लत्वम्, वृद्धिम्
गृह्णातु = प्राप्नोतु॥
तात्पर्यार्थः –
ईर्ष्यावशात् स्वेतरजनेषु दोषामात्रव्यक्तीकरणेन स्वात्मनः गम्भीरतां प्रकटयत्सु,
दोषगन्धरहितायां चन्द्रिकायामपि आस्वादनं त्यक्त्वा चन्द्रे अङ्कं कलङ्कमिव पश्यत्सु
जनेषु सत्सु; एवं दोषवशात् पीडितानि सतां हृत्पद्मानि मुकुलितानि वर्तन्ते। रात्रौ
अन्धकारे सूर्यकान्तिविरहात् पद्मानि मुकुलितानि भवन्ति। किन्तु तत्समये
सूर्यकान्तमणिसमवधाने तानि पद्मानि विकसितानि यथा भवन्ति तद्वत् कुत्सितमनसां
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
251
अज्ञानान्धकारवाक्प्रपञ्चे मुकुलितः सद्धृदयपुष्पगुच्छः नयद्युमणेः (ग्रन्थस्यास्य)
समवधाने अवश्यमेव उत्फुल्लत्वं प्राप्नोतीति निश्चप्रचं वक्ति ग्रन्थकारः॥१३॥
⏺⏺⏺
4.1.11. नयद्युमणिदीपिकाव्याख्यारचनाप्रतिज्ञाविचारः -
स्वकृतब्रह्मसूत्रार्थहृद्यपद्यविवेचनी।
क्रियते श्रीनिवासेन नयद्युमणिदीपिका॥१४॥
पदविभागः – स्वकृतब्रह्मसूत्रार्थहृद्यपद्यविवेचनी, क्रियते, श्रीनिवासेन,
नयद्युमणिदीपिका॥
श्लोकाध्ययनम्
स्वकृतब्रह्मसूत्रार्थहृद्य-
पद्यविवेचनी =
स्वकृतस्य आत्मनाऽऽरचितस्य ब्रह्मसूत्रार्थसारप्रपञ्चक-
हृद्यपद्यात्मकस्य नयद्युमण्याख्यस्य ग्रन्थस्य विवेचनी
विवरणात्मिका
नयद्युमणिदीपिका = नयद्युमणि इति मूलग्रन्थस्य दीपिकाख्या व्याख्या
श्रीनिवासेन = नयद्युमणिग्रन्थकर्तृणा मया
क्रियते = आरच्यते॥
तात्पर्यार्थः –
स्वेनारचितस्य ब्रह्मसूत्रार्थसारसङ्क्षेपकहृद्यपद्यात्मकस्य नयद्युमण्याख्यस्य ग्रन्थस्य
विवरणात्मिका व्याख्या पुनः नयद्युमणिग्रन्थकर्तृणा मया आरच्यते इति भावः॥१४॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
252
4.1.12. भगवद्रामानुजस्मरणविचारः -
दृप्यत्पाषण्डषण्डद्रुमपरशुवचस्सृष्टिमुष्टिन्धयश्रीः
स्वामी रामानुजार्यो जयतु विधिवधूश्लाघितामोघशक्तिः।
तद्भाष्यं चाप्यदूष्यं1 प्रभवतु कुहनाबद्धसिद्धान्तभेद-
2श्रद्धालुध्वान्तसद्योविघटनचटुलोऽसाध्यमध्याह्नभानुः॥१५॥
पदविभागः – दृप्यत्पाषण्डषण्डद्रुमपरशुवचः, सृष्टिमुष्टिन्धयश्रीः, स्वामी, रामानुजार्यः,
जयतु, विधिवधूश्लाघितामोघशक्तिः, तद्भाष्यम्, च, अपि, अदूष्यम्, प्रभवतु,
कुहनाबद्धसिद्धान्तभेदश्रद्धालुध्वान्तसद्योविघटनचटुलः, असाध्यमध्याह्नभानुः॥
श्लोकाध्ययनम्
दृप्यत्पाषण्डषण्डद्रुम-
परशुवचः =
पाषण्डः – संसृतिबन्धहेतुयुतानि असच्छास्त्राणि अणति
(अण-शब्दे, भ्वादिः) वदति इति पाषण्डः, दृप्यत् – गर्वितः
पाषण्डः, दृप्यत्पाषण्डः अर्थात् गर्वितमूर्ख इत्यर्थः। तेषां
षण्डः – समूहः, दृप्यत्पाषण्डषण्डः। दृप्यत्पाषण्डषण्डः एव
द्रुमः दृप्यत्पाषण्डषण्डद्रुमः। परान् शृणाति नाशयति इति
परशुः, कुठारः। दृप्यत्पाषण्डषण्डद्रुमाय परशुवत्
कुठरायमानः वाक् (श्रीभाष्यादि) यस्य सः दृप्यत्पाषण्ड-
षण्डद्रुमपरशुवचः।
सृष्टिमुष्टिन्धयश्रीः = सृष्ट्यन्त-सृष्ट्यारम्भमध्यकाले पुनस्सृष्टिकार्यस्य अभिन्ननिमि-
त्तोपादानकारकः यो वर्तते वटपत्रे मुष्टिन्धयो भूत्वा विराजते
श्रीकृष्णः सः सृष्टिमुष्टिन्धयः। “ऋचस्सामानि यजूँषि सा हि
श्रीः” इति श्रुत्या तस्य भगवतः श्रीरिव श्रीः सकल-ऋगादि-
वेदसारप्रपञ्चात्मकश्रीभाष्यरूपा श्रीः यस्य सः –
-
D.M. तद्भाष्यञ्चाप्यदूष्यं
-
T.M. श्रद्धाळु॰
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
253
सृष्टिमुष्टिन्धयश्रीः।
विधिवधूश्लाघितामोघ-
शक्तिः =
वेदेन विदधाति इति विधिः। अर्थात् वेदोक्तधर्मः। स एव
वधूः विधिवधूः, तया विधिवध्वा श्लाघिता अमोघा -
अप्रतिहता शक्तिः श्रीभाष्यादिग्रन्थरचनात्मिका प्रज्ञारूपा
शक्तिः यस्य सः विधिवधूश्लाघितामोघशक्तिः। अर्थात्
निजवेदोक्तधर्मरक्षकज्ञानोपदेशः श्रीभाष्यादिग्रन्थे कृत इति
भावः।
कुहनाबद्धसिद्धान्त-
भेदश्रद्धालुध्वान्तसद्यो-
विघटनचटुलः =
कुहनया दम्भचर्यया, आबद्धः सिद्धान्तभेदः, कुहनाबद्ध-
सिद्धान्तभेदः। अर्थात् दम्भचर्यावशात् परिदृश्यमानवेदोक्त-
सिद्धान्तभेदः इति। तादृशसिद्धान्तबहुत्वेन श्राद्धालुषु जातः
ध्वान्तः सन्देहात्मकान्धकारः कुहनाबद्धसिद्धान्तभेदश्रद्धालु-
ध्वान्तः। चटुलः – चटुं प्रियवाक्यं लाति आदत्ते इति
चटुलः। कुहनाबद्धसिद्धान्तभेदश्रद्धालुध्वान्तं सद्य एव
विघटने दूरकरणे चटुलः, कुहनाबद्धसिद्धान्तभेदश्रद्धालु-
ध्वान्तचटुलः। अर्थात् वेदवेदान्तार्थज्ञानजिज्ञासूनां सन्देह-
सन्दोहनिवारक इति।
असाध्यमध्याह्नभानुः = रिपौ रोगादौ च साधयितुम् अशक्यः असाध्यः। असाध्यः
माध्याह्नकालिक-(प्रचण्ड)भानुरिव भानुः
असाध्यमध्याह्नभानुः।
स्वामी = आचार्यः
रामानुजार्यः = रामानुजाख्यः आर्यः
जयतु = जयतात्। एवम्
अदूष्यम् = अत्यन्तपवित्रम्
तद्भाष्यम् = तैः कृतं श्रीभाष्यम् च
अपि च = अपि च
प्रभवतु = आचन्द्रतारार्कं लोके प्रतिष्ठतु॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
254
तात्पर्यार्थः –
गर्वितमूर्खसमूहरूपद्रुमं समूलतः श्रीभाष्यात्मककुठारेण छेदितः, सकल-
ऋगादिवेदसारप्रपञ्चात्मकश्रीभाष्यरूपश्रीमान्, वेदोक्तधर्मवधूश्लाघिताप्रतिहत-
श्रीभाष्यादिग्रन्थरचनाशक्तियुक्तः, दम्भचर्यावशात् परिदृश्यमानवेदोक्तसिद्धान्तसन्देहात्म-
कान्धकारविघटने चटुलः, मध्याह्नकालिकप्रचण्डभानुरिव असाध्यप्रज्ञाकिरणप्रसारकः,
रामानुजाख्यः आर्यः जयतात्। एवम् अत्यन्तपवित्रं तैः कृतं श्रीभाष्यं च आचन्द्रतारार्कं
लोके प्रतिष्ठतु॥१५॥
⏺⏺⏺
4.2.नयद्युमण्यध्ययनम्
4.2.1. भगवतः विष्णोरेव जिज्ञास्यत्वकथनविचारः (प्रथमश्लोकविचारः) -
हरे! जिज्ञास्यत्वं तव मुनिरवादीत् प्रथमतो,
यतो ब्रह्मेत्येतत् तव पदमसाधारणमभूत्।
अथातश्शब्दाभ्यामपि विहितकर्मावगतिभि-
स्तदाऽऽराध्यो वेद्यस्त्वमिति निरणैषीत् करुणया॥१॥
पदविभागः - हरे!, जिज्ञास्यत्वम्, तव, मुनिः, अवादीत्, प्रथमतः, यतः, ब्रह्म, इति,
एतत्, तव, पदम्, असाधारणम्, अभूत्, अथातश्शब्दाभ्याम्, अपि,
विहितकर्मावगतिभिः, तदा, आराध्यः, वेद्यः, त्वम्, इति, निरणैषीत्, करुणया॥
श्लोकाध्ययनम्
हरे! = हे विष्णो!
तव = जगत्कारणभूतस्य भवतः
जिज्ञास्यत्वम् = वेद्यत्वम्
प्रथमतः = आदौ
मुनिः = बादरायणः
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
255
अवादीत् अकथयत्
यतः = यस्मादित्युक्ते
तव = वेदवेद्यस्य तव
ब्रह्म इति = बृहत्वात्, बृंहणत्वात् ब्रह्म इति
एतत् = सर्वव्यापकत्वं सर्वनियन्तृत्वं सर्वकारणत्वं चैत्येतत्
पदम् = स्थानम्
असाधारणम् = स्वेतरव्यतिरिक्तम्
अभूत् = अभवत्
अथातश्शब्दाभ्याम् = अथ कर्मज्ञानान्तरम्, अतः कर्मणामल्पास्थिरफलत्वे ज्ञाते
अवश्यं स्थिरफलप्राप्त्यर्थं ब्रह्म ज्ञातव्यमिति अथ-अतः
इति शब्दाभ्याम्
वेद्यः = ज्ञातव्यः।
त्वम् = स्थिरफलप्रापकस्त्वम्, एतादृशविशिष्टस्त्वम्
विहितकर्मावगतिभिः
=
“कर्मप्रधानं न तु बुद्धिहीनम्, बुद्धिप्रधानं न तु
कर्महीनम्” इत्युक्तत्वात् वेदविहित-कर्मभिः तज्ज्ञानेन च
आराध्यः = पूजनीयः
(अभूत्) = त्वम् अभवत्।
तदा = “न ह्येकपक्षो विहगः प्रयाति” इतिवत्
भक्तियुक्तकर्मज्ञानाभ्यामेव प्राप्यो भवतीति ज्ञानानन्तरम्
त्वम् इति = मम परमप्राप्यः त्वमेवेति
करुणया = तव प्राप्तौ प्राप्यः, प्रापकः, उपायः च त्वमेवेति
निर्णयात्, “यमैवेष वृणुते तेन लभ्य” इति श्रुत्या
उपायभूतया तव दयया
निरणैषीत् = तवातिरिक्तः नान्यः प्राप्यः नास्तीति निश्चप्रचमवोचत्॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
256
तात्पर्यार्थः –
हे विष्णो! जगत्कारणभूतस्य तव वेद्यत्वम् आदौ बादरायणः अकथयत्।
यस्मादित्युक्ते वेदवेद्यस्य सर्वव्यापकत्वं सर्वनियन्तृत्वं सर्वकारणत्वं चैत्यादि
स्वेतरव्यतिरिक्तलक्षणम् अभवत्। अत एव शारीरकमीमांसारम्भसूत्र एव अथ -
कर्मज्ञानान्तरम्, अतः - कर्मणामल्पास्थिरफलत्वे ज्ञाते; अवश्यं स्थिरफलप्राप्त्यर्थं ब्रह्म
ज्ञातव्यम् – इति, त्वमेव स्थिरफलप्रापक इति च निरणायि। एतादृशविशिष्टस्त्वं सदा
वेदविहितकर्मभिः त्वदीयज्ञानेन च पूजनीयः इति, “न ह्येकपक्षो विहगः प्रयाति”
इतिवत् भक्तियुक्तकर्मज्ञानाभ्यामेव प्राप्यो भवतीति, मम परमप्राप्यः त्वमेवेति, तव
प्राप्तौ प्राप्यः, प्रापकः, उपायः च त्वमेवेति, “यमेवैष वृणुते तेन लभ्य” इति श्रुत्या
उपायभूतेन त्वया, त्वद्दयया च तवातिरिक्तः नान्यः प्राप्यः नास्तीति निश्चप्रचम्॥१॥
⏺⏺⏺
4.2.2. श्रुतेरेव परमप्रामाण्यविचारः (द्वितीयश्लोकविचारः) -
प्रथमश्लोकेन भगवतः विष्णोरेव जिज्ञास्यत्वमिति निरूप्य, तत्र परमप्रमाणम्
श्रुतिरेवेति निर्वक्ति द्वितीयेन श्लोकेन –
विचार्यं यत् कार्यं विधिभिरभिधेयं तदभवत्
त्रयीमूर्धा स्पर्धां त्यजति तव निर्धारणविधौ।
स्वतस्सिद्धेऽप्यर्थे परमपुरुषार्थे त्वयि भवेत्
पदानां व्युत्पत्तिः कथमपि हरे! स्वर्गपदवत्॥२॥
पदविभागः – विचार्यम्, यत्, कार्यम्, विधिभिः, अभिधेयम्, तत्, अभवत्,
त्रयीमूर्धा, स्पर्धाम्, त्यजति, तव, निर्धारणविधौ, स्वतस्सिद्धे, अपि, अर्थे,
परमपुरुषार्थे, त्वयि, भवेत्, पदानाम्, व्युत्पत्तिः, कथम्, अपि, हरे!, स्वर्गपदवत्॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
257
श्लोकाध्ययनम्
हरे! = हे विष्णो!
विधिभिः = वेदविधिवाक्यैः
अभिधेयम् = प्रतिपाद्यम्
विचार्यम् = विचारणीयत्वेन प्रतिज्ञातम्
यत् कार्यम् = यज्ञादिकृतिविषयीभूतम् यत् कर्तव्यं कर्म
तत् (कार्यम्) = तादृशं कर्म
अभवत्। = विचारितम् अभवत्।
तव = पूर्वोक्तयज्ञादिकर्माङ्गकोपासनायाः उद्देश्यभूतस्य परब्रह्मणः
तव
निर्धारणविधौ = सर्वयज्ञमयस्य स्वज्ञानस्वेतरसमस्तद्रव्यशरीरकस्य तव
प्रतिपत्तौ
त्रयीमूर्धा = श्रुतिशिरोभूतवेदान्तभागः अर्थात् उपनिषद्भागः
स्पर्धाम् = अहमहमिकया वेदान्तेतरशास्त्रचर्चारूपप्रतिस्पर्धाम्
त्यजति। = जहाति।
स्वतस्सिद्धे = उपायान्तरानधीनसिद्धिविषये, सहजतया प्राप्ते
अर्थे = वेदान्तवाक्याभिधायके
परमपुरुषार्थे = मोक्षरूपपुरुषार्थे
त्वयि = भगवति त्वयि
पदानाम् = वेदवाक्यानाम्
व्युत्पत्तिः = ज्ञानम्, व्युत्पत्त्यर्थः
स्वर्गपदवत् = स्वर्गपदाभिधायिका
कथम् अपि = येनकेनापि प्रकारेण
भवेत्। = न भवेदिति भावः॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
258
तात्पर्यार्थः –
हे विष्णो! वेदविधिवाक्यैः विचारणीयत्वेन प्रतिज्ञातं यज्ञादिकृतिविषयीभूतं यत्
कर्तव्यं कर्म वर्तते तच्च कर्म पूर्वमीमांसायां विचारितम् अभवत्। अतः अल्पास्थिर-
फलकयज्ञादिकर्माङ्गकोपासनायाः उद्देश्यभूतस्य अनल्पस्थिरफलप्रापकस्य परब्रह्मणः
सर्वयज्ञमयस्य स्वज्ञानस्वेतरसमस्तद्रव्यशरीरकस्य तव प्रतिपत्तौ श्रुतिशिरोभूतवेदान्त-
भागः अहमहमिकया नानात्वरूपस्पर्धां जहाति। उपायान्तरानधीनसिद्धिविषये वेदान्त-
वाक्याभिधायके त्वय्येव वेद-वेदान्तवाक्यानामन्वयो भवति। तद्वाक्यानां व्युत्पत्त्यर्थः
अस्थिरस्वर्गपदाभिधायकः कथं भवति? अत एवोक्तं प्राज्ञैः –
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः।
तावन्ति हरिनामानि कीर्तितानि न संशय ॥ इति॥२॥
⏺⏺⏺
4.2.3. जगदुपादानकारणत्वनिरूपणविचारः (तृतीयश्लोकविचारः) -
एतावता प्रथमेन श्लोकेन विष्णोरेव जिज्ञास्यत्वं निरूप्य, द्वितीयेन श्लोकेन
तज्जिज्ञास्यत्वे प्रमाणं श्रुतिरेवेति प्रकटीचकार। इदानीं तृतीयश्लोकेन वेदवेद्यस्य तस्य
भगवतः अभिन्ननिमित्तोपादानकारणत्वं निरूप्यते –
त्वया भूतान्येतान्यजनिषत जीवन्ति च पुन-
र्युगान्ते लीयन्ते त्वयि तदिह तत्कारणमसि।
अनन्यार्हैश्शब्दैस्तदपि निरधारि क्वचिदतः
त्वमेवोपादानं मुरहर! निदानं च जगताम्॥३॥
पदविभागः – त्वया, भूतानि, एतानि, अजनिषत, जीवन्ति, च, पुनः, युगान्ते,
लीयन्ते, त्वयि, तत्, इह, तत्कारणम्, असि, अनन्यार्हैः, शब्दैः, तत्, अपि, निरधारि,
क्वचित्, अतः, त्वम्, एव, उपादानम्, मुरहर!, निदानम्, च, जगताम्॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
259
श्लोकाध्ययनम्
मुरहर! = हे मुरनामकराक्षसहर्तः!
मुरः क्लेशे च सन्तापे कर्मभोगे च कर्मिणाम्।
दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्तितः॥
इति कोशव्याख्यानात् मुर इत्यस्य क्लेशः सन्तापः, कर्मभोगः,
मुरनामकदैत्यः, शत्रुरपि अभिधीयते। तान् हरतीति मुरहरः।
एतानि = प्रत्यक्षाद्यवगतानि विविधविचित्रराचनानि
भूतानि = प्राणिविशेषाणि
त्वया = सर्वज्ञेन भवता
अजनिषत = उत्पन्नानि
(तानि) = त्वत्सृष्टानि
(त्वया) = भवतैव
जीवन्ति = प्रवर्तन्ते
पुनः = पुनः
(तानि) च = तानि भवदनुकम्पया स्थितानि ब्रह्मादिस्तम्भपर्यन्तानि
चेतनाचेतनानि
युगान्ते = लयकाले
त्वयि = सर्वव्यापके भवति
लीयन्ते = लयं प्राप्नुवन्ति
तदिह = पूर्वोक्तजिज्ञास्यत्व-वेदवेद्यत्वलक्षणलक्षितमेव इह
तत्कारणम् = सृष्टि-स्थिति-लयानां कारणम्
असि = भवसि।
अनन्यार्हैः शब्दैः
=
एवं सृष्टिस्थितिलयकारके त्वय्येव सर्वाणि वेदवाक्यानि
अन्वयन्ति। अतस्ते शब्दाः अन्यं वस्तु वक्तुमनर्हाः।
एतादृशानन्यार्हैः वेदशब्दैः
तदपि = भवतः जगदुपादानकारणत्वमपि
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
260
निरधारि। = निर्णयं चकार।
अतः = अस्मात् कारणात्
क्वचित् = वेदोक्तकारणवाक्येषु
त्वमेव = भवानेव
जगताम् = सकललोकानाम्
उपादानम् = नैयायिकाः समवायिकारणमेव उपादानमिति व्यवहरन्ति।
किन्त्वत्र विशिष्टाद्वैतसिद्धान्तरीत्या उपादानं नाम कार्याभिन्न-
कारणमित्यर्थः। अर्थात् घटादिकं प्रति मृत्तिका, कुण्डलादिकं प्रति
सुवर्णम्, पटं प्रति तन्तवः यथा भवन्ति तद्वत्। पुनरत्र विशेषः
घटाद्युदाहरणेषु घटादिकं कारणं तत् कार्यात् अभिन्नमेव। किन्तु
स्वस्माद्भिन्नचक्रदण्डकुलालादिकारणैः कार्यरूपेण परिणमन्ति।
अत्र तावत् जगद्रचनाविषये भगवानेव सर्वविधकारणं भवति।
अत एव वदन्ति – अभिन्ननिमित्तो-पादानकारको भगवान् इति।
निदानं च = मूलकारणम्। अर्थात् घटादिकं प्रति मृत् कारणम्। मृदं प्रति
पृथिवीपरमाणुसंयोगः कारणम्। तत् प्रति अद्भ्यः पृथिवी
इत्युक्तत्वात् अप्कारणम्। एवंरूपेण कारणकोटिः गच्छत्येव।
एतादृशेऽस्मिन् क्रमे यस्य कारणान्तरं न भवति सर्वस्य मूलकारणं
भवति। तत् निदानम् इति वक्तुं शक्यते। तदेवं परं ब्रह्म श्रीमान्
नारायणः॥
तात्पर्यार्थः –
हे मुरहर! प्रत्यक्षाद्यवगतानि विविधविचित्रराचनानि प्राणिविशेषाणि सर्वज्ञेन
भवता एवोत्पन्नानि। एवं तानि भवदनुकम्पया एव जीवन्ति। पुनः लयकाले त्वय्येव
लयं प्राप्नुवन्ति। अतः पूर्वोक्तजिज्ञास्यत्व-वेदवेद्यत्वलक्षणलक्षितस्त्वमेव जगत्सृष्टि-
स्थिति-लयानां कारणम् भवसीति वेदोक्तकारणवाक्यैरवगम्यते। अतः श्रीमहाविष्णुरेव
जगतः अभिन्ननिमित्तोपादानकारणं निदानं च भवतीति श्लोकेऽस्मिन् न्यरूपि॥३॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
261
4.2.4. लक्ष्म्याः जगत्कारणत्वनिरूपणविचारः (चतुर्थश्लोकविचारः) -
एवं तृतीये श्लोके भगवतः जगत्कारणत्वं विचारितम्। तच्च जगत्कारणत्वं
न्यायसिद्धमिति स च जगत्कारणभूतः लक्ष्मीविशिष्ट एवेति चतुर्थेन श्लोकेन निरूप्यते -
तव श्रीरेतादृग्भुवनजननी त्वं खलु पिता,
सुतो धाता ध्याता तव न जगतां कारणमिति।
श्रुतिस्साक्षात् ब्रूते तदनुगुणगत्या त्वमसि तौ
न्यषेधीदप्येषा ननु वरद! तेषाय विदुषाम्॥४॥
पदविभागः – तव, श्रीः, एतादृक्, भुवनजननी, त्वम्, खलु, पिता, सुतः, धाता,
ध्याता, तव, न, जगताम्, कारणम्, इति, श्रुतिः, साक्षात्, ब्रूते, तदनुगुणगत्या, त्वम्,
असि, तौ, न्यषेधीत्, अपि, एषा, ननु, वरद!, तेषाय, विददुषाम्॥
श्लोकाध्ययनम्
वरद! = वरं ददातीति वरदः, अभीष्टदाता। हे वरद!
एतादृक् तव = पूर्वोक्तजिज्ञास्यत्व-वेदवेद्यत्व-जगत्कारणत्वरूप-
लक्षणलक्षितस्य भवतः
श्रीः = दयिता लक्ष्मीः
भुवनजननी = सकलभुवनानां माता
त्वम् = लक्ष्मीपतिः भवान्
पिता = सकलभुवनानां पिता
ध्याता = ध्येयरूपस्य तव ध्यानशीलः रुद्रः शिवः
धाता = तव नाभिकमलादुत्पन्नचतुर्मुखो ब्रह्मा
तव = जगत्पितुः भवतः
सुतः = आत्मजः
न खलु = भगवतः जगत्पितृत्वे लक्ष्म्याः जगन्मातृत्वे धातुः तयोः पुत्रत्वे
च न तत्र सन्देह इति भावः।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
262
जगताम् = सकलचेतनाचेतनात्मकभुवनानाम्
कारणम् त्वमसि इति = उपादानं निदानं च त्वमेव लक्ष्मीविशिष्ट स्त्वमेवेति
श्रुतिः = त्वत्प्रतिपादकवेदराशिः
साक्षात् = सुस्पष्टतया एनं विषयं
ब्रूते = अभिवदति
ननु तदनुगुणगत्या = किन्तु अनया जगत्कारणनिर्णयरीत्या
तौ = ब्रह्मरुद्रौ
न्यषेधीत् अपि = जगत्कारणत्वपदात् निवारयतात् अपि
एषा = लोके विद्यमाना विष्ण्वेतरकारणत्वरीतिः
विदुषाम् = वेदैकदेशप्रतिपादितरुद्रादिकारणत्वमात्रतृप्तानां केचन
पण्डितायमानानां बुभुक्षूणाम्
तोषाय = बुभुक्षुमोहनार्थमेवेति व्यञ्जितम् ॥
तात्पर्यार्थः –
हे वरद! पूर्वोक्तजिज्ञास्यत्व-वेदवेद्यत्व-जगत्कारणत्वरूपलक्षणलक्षितस्य भवतः
दयिता लक्ष्मीः सकलभुवनानां माता। लक्ष्मीपतिः भवान् सकलभुवनानां पिता।
ध्येयरूपस्य तव ध्यानशीलः रुद्रः, त्वन्नाभिकमलादुत्पन्नश्चतुर्मुखो ब्रह्मा च तव पुत्रौ।
एवं भगवतः जगत्पितृत्वे लक्ष्म्याः जगन्मातृत्वे धातुः तयोः पुत्रत्वे च न तत्र सन्देहः।
एवं च सकलचेतनाचेतनात्मकभुवनानाम् उपादानं निदानं च त्वमेव लक्ष्मीविशिष्ट इति
सुस्पष्टतया अभिवदति वेदराशिः। किन्तु अनया जगत्कारणनिर्णयरीत्या ब्रह्मरुद्रयोः
जगत्कारणत्वप्रतिपादनं निवारयतात् अपि लोके विद्यमाना विष्ण्वेतरकारणत्वप्रतिपादनं
वेदैकदेशप्रतिपादितरुद्रादिकारणत्वमात्रतृप्तानाम् केचन पण्डितायमानानां बुभुक्षूणाम्
मोहनार्थमेव व्यञ्जितमिति भावः॥४॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
263
4.2.5. भगवतः एव सर्वकार्योत्पादकत्वनिरूपणविचारः (पञ्चमश्लोकविचारः) –
इत्थं तावत् देवतान्तरव्यापृततया जगत्कारणत्वविषये विष्णोरव कारणत्वं सुदृढं
न्यरूपि। इदानीं पञ्चमश्लोकेन तस्य अनियोगः व्यवच्छिद्यते। अर्थात् जगत्सर्वं
भगवदधीनमिति, तस्य भगवतः एव सर्वकार्योत्पादकत्वं वर्तत इति च निरूपयति -
न हि स्रष्टा गोप्ता जगति भविता कोऽपि लविता
जगज्जन्मस्थेमप्रभृतिभिरतस्स्यात् तव भिदा।
य इत्थं संशेते मुरहर! स एवायमवनौ
यवानुप्त्वा गुप्त्वा फलति लवणे संशिशयिषुः॥५॥
पदविभागः – न, हि, स्रष्टा, गोप्ता, जगति, भविता, कः, अपि, लविता,
जगज्जन्मस्थेमप्रभृतिभिः, अतः, स्यात्, तव, भिदा, यः, इत्थम्, संशेते, मुरहर!, सः,
एव, अयम्, अवनौ, यवान्, उप्त्वा, गुप्त्वा, फलति, लवणे, संशिशयिषुः॥
श्लोकाध्ययनम्
मुरहर! = भगवान् विष्णो!
कः अपि = यः कोऽपि त्वदन्यः
स्रष्टा = जगत्स्रष्टा
गोप्ता = जगद्रक्षकः
लविता = जगल्लयकारकः
जगति = लोके
न हि भविता = न हि अभवत् भवति भविष्यति च।
तव = जगत्कारणभूतस्य तव
जगज्जन्मस्थेम-
प्रभृतिभिः =
जगत्सृष्टि-स्थिति-लय-अन्तर्यमनादिकार्यैः
अतः = जगत्स्रष्टृत्व-रक्षकत्वरूपधर्मयुक्तस्य तवैव पुनः लयकारकत्व-
रूपधर्मवत्त्वात्
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
264
भिदा = तव जगत्कारणत्वधर्मः विदारणम्
स्यात् = अभवत्
यः इत्थम् संशेते
=
योऽल्पज्ञः उपर्युक्तविष्णोरुपादानकारणत्वं सन्दिहति। अर्थात् यो
भगवान् सृष्टि-स्थितिकारकः स एव लय कारक इत्युक्ते
विरुद्धधर्मवत्त्वमिति यः संशेते
सः अयम्
संशिशयिषुः =
तादृशोऽयं विष्णोर्जगज्जन्मादिकारणत्वे संशयं प्रकटयितुम् इच्छुः
वर्तते। तस्मै इदं समाधानम् -
अवनौ = यः कृषकः स्वोपभोगार्थं भूमौ
यवान् = यवधान्यविशेषान्
उप्त्वा = क्षेत्रे सस्यरूपफलसृष्टिकारकयवबीजावापनं कृत्वा
लवणे गुप्त्वा सस्यरक्षणार्थम् अथवा धान्यरक्षणार्थं पुनः स एव त्वत्सृष्टानि
धान्यानि लवणे संस्थाप्य रक्षति।
फलति = स्वेष्टकाले स्वेनैव रक्षितानि धान्यानि अनुभूय फलं प्राप्नोति।
अर्थात् सामान्यकृषक एव सस्यस्य सृष्टिस्थितिलयकारको
भवति। सकलजगत्कृषक-विषये संशिशयिषुं प्रति किं
वक्तव्यमस्तीति भावः॥
तात्पर्यार्थः –
भगवान् विष्णो! यः कोऽपि त्वदन्यः जगत्स्रष्टा जगद्रक्षकः जगल्लयकारकः
लोके न हि अभवत् भवति भविष्यति च। जगत्कारणभूतस्य तव जगत्सृष्टि-स्थिति-
लयादिकार्यैः जगत्स्रष्टृत्व-रक्षकत्वरूपधर्मयुक्तस्य तवैव पुनः लयकारकत्वरूपधर्म-
वत्त्वात् तव जगत्कारणत्वधर्मः भग्नो जातः इति योऽल्पज्ञः सन्दिहति अर्थात् यो
भगवान् सृष्टि-स्थितिकारकः स एव लय कारक इत्युक्ते विरुद्धधर्मवत्त्वमिति यः संशेते
तस्मै इदं समाधानम् – लोके यः कृषकः सस्यरूपफलसृष्टिकारकयवबीजावापनं कृत्वा,
स एव सस्यरक्षणार्थम् अथवा धान्यरक्षणार्थं पुनः त्वत्सृष्टानि धान्यानि लवणे संस्थाप्य
रक्षति। एवं पुनः स एव स्वेष्टकाले रक्षितानि धान्यानि अनुभूय फलं प्राप्नोति। अर्थात्
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
265
सामान्यकृषक एव सस्यस्य सृष्टिस्थितिलयकारको भवति। सकलजगत्कृषकस्य
भगवतः विषये संशिशयिषुं प्रति किं वक्तव्यमस्तीति भावः॥५॥
⏺⏺⏺
4.2.6. भगवतः शास्त्रैकप्रमाणकत्वविचारः (षष्ठश्लोकविचारः) –
एवं पञ्चमेन श्लोकेन जगत्कारणत्वे संशयान् निरस्य, षष्ठेनानेन श्लोकेन
भगवतः शास्त्रैकप्रमाणकत्वं निरूपयति -
अधीतानाम्नायानहह निरपायान् कतिचन
त्यजन्तोऽनन्त! त्वामधिजिगमिषन्ति ह्यनुमया।
मतिभ्रंशादेते मधुहर! सुधासिन्धुनिकटे
नटन्तो वेशन्तांच्छिशमयिषवो यान्ति वितृषः॥६॥
पदविभागः – अधीतान् आम्नायान् अहह निरपायान्, कतिचन, त्यजन्तः, अनन्त!,
त्वाम्, अधिजिगमिषन्ति, हि, अनुमया, मतिभ्रंशात्, एते, मधुहर!, सुधासिन्धुनिकटे,
नटन्तः, वेशन्तान्, शिशमयिषवः, यान्ति, वितृषः॥
श्लोकाध्ययनम्
अनन्त! = असङ्ख्याककल्याणगुणगण!
अधीतान् = स्वाध्यायोऽध्येतव्य इति विहिताध्ययनसंस्कृतान्
निरपायान् = अपौरुषेयान् नित्यनिर्दोषान्
आम्नायान् = वेदान्
कतिचन = केचन, तार्किकाः
त्यजन्तः = तदर्थविचारमकुर्वन्तः
अहह ! = अहो! इत्याश्चर्ये
त्वाम् = वेदादिशब्दप्रमाणैकगम्यं त्वाम्
अनुमया = अनुमानप्रमाणेन
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
266
अधिजिगमिषन्ति = अधिगन्तुमिच्छन्ति
हि = यस्मात् कारणात्
मतिभ्रंशात् = सर्वमपि विषयम् अनुमानेन बुभुत्सितुं प्रदर्शितोत्साह-
रूपोन्मादात्
मधुहर! = वेदापहारकमधुकैटभादिराक्षसंहरणसमर्थक!
एते = एते आनुमानिकेच्छवः
सुधासिन्धुनिकटे = अमृतसागरसमीपे (स्थिताः अपि)
नटन्तः = अमृतमनास्वाद्यैव आस्वादितरसा इव नटन्तः
वितृषः = नानाविधतृष्णयुक्ताः सन्तः
शिशमयिषवः = शमयितुमिच्छवः भूत्वा
वेशन्तान् = विशन्ति भेकादयः अत्र इति वेशन्तः अर्थात् लघुपल्वलः।
तान् वेशन्तान्
यान्ति = गच्छन्ति। अर्थात् सकलविधतापोपशमनगुणयुक्तं
परमानन्दप्रापकं सुधासिन्धुं वेदाख्यामृतसागरं त्यक्त्वा अर्थात्
शाब्दप्रमाणं विहाय, एते अनुमानरसिकाः भेकायमाना भूत्वा
नटन्तः लघुपल्वलान् प्रविशन्ति॥
तात्पर्यार्थः –
असङ्ख्याककल्याणगुणगण! केचन अपौरुषेयाणां नित्यनिर्दोषाणां वेदानाम्
अर्थविचारमकुर्वन्तः, तान् वेदान् विहाय, शाब्दप्रमाणैकगम्यं त्वाम् अनुमानप्रमाणेन
अधिगन्तुमिच्छन्ति। यस्मादित्युक्ते ते सर्वमपि विषयम् अनुमानेन बुभुत्सितुमिच्छन्ति।
अर्थात् सकलविधतापोपशमनगुणयुक्तं परमानन्दप्रापकं सुधासिन्धुरूपवेदराशिं त्यक्त्वा
भेकायमाना भूत्वा नटन्तः लघुपल्वलान् प्रविशन्ति अहो! कियदाश्चर्यम्॥६॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
267
4.2.7. शाब्दैकप्रमाणगम्यत्वस्य द्रढीकरणविचारः (सप्तमश्लोकविचारः) –
षष्ठे श्लोके शाब्दैकप्रमाणगम्यत्वं यन्निरूपितं भगवतः सप्तमश्लोकेन तद्द्रढयति -
त्रयी ते निश्श्वासो विदित इति विश्वासमयते
तथा वेदैर्विप्रैस्त्वमपि सहराशीकृत इति ।
सतां चेतोवृत्तिः किमुतवचनं तेन वितथं
यथा हृद्यैर्वेद्यो निखिलनिगमैरस्म्यहमिति॥७॥
पदविभागः – त्रयी, ते, निश्श्वासः, विदितः, इति, विश्वासम्, अयते, तथा, वेदैः,
विप्रैः, त्वम्, अपि, सहराशीकृतः, इति, सताम्, चेतोवृत्तिः, किमुतवचनम्, तेन,
वितथम्, यथा, हृद्यैः, वेद्यः, निखिलनिगमैः, अस्मि, अहम्, इति॥
श्लोकाध्ययनम्
यथा = येन प्रकारेण
ते = मुरहर! तव
निश्श्वासः = निश्श्वासरूपः
त्रयी इति = वेदराशिः भवतीत्येवम्
विदितः = श्रुत्या ज्ञातः।
वेदैः = वेदवाक्यप्रमाणैः
विप्रैः = वेदविद्भिः पण्डितैः
सहराशीकृत इति = एकत्रीकृतः, सिद्धान्तीकृत इति च
सताम् चेतोवृत्तिः = अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरित्यादिभिः
ब्रह्मास्तित्वज्ञानवत्तया अभिहितानां महतां मनोव्यापारः
विश्वासम् = तव वेदवेद्यत्वगोचरत्वम्
अयते = प्राप्नोति (अयगतावित्यस्माल्लट्)॥
तथा = एवम्
किमुतवचनम् = शाब्दैकप्रमाणगम्यत्वे त्वयि तद्भिन्न(शब्दप्रमाणभिन्न)-
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
268
प्रमाणगम्यत्वरूपवितर्कवचनम्
वितथम् = मिथ्यात्वं प्राप्नोति।
तेन = अस्माद्धेतोः
त्वम् अपि = भवानपि
हृद्यैः = मनोज्ञैः
निखिलनिगमैः = कर्मब्रह्मोभयभागरूपैः
वेद्यः = ज्ञेयः
अस्म्यहमिति = अहम् अस्मि इति न त्वनुमानेनेति हर्षं प्राप्नोतु भगवन्
इति भावः॥
तात्पर्यार्थः –
मुरहर! तव निश्श्वासरूपः वेदराशिः अपौरुषेयो भवतीति श्रुत्या एव ज्ञायते। एवं
वेदवाक्यप्रमाणैः वेदविद्भिः पण्डितैः च मुक्तकण्ठेन वेदप्रमाणैकगम्यः भवानिति
सिद्धान्तीकृतः। तथा च - अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरित्यादिश्रुतिप्रमाणैः
ब्रह्मास्तित्वज्ञानवत्तया अभिहितानां महतां मनोव्यापारः तव वेदवेद्यत्वगोचरत्वम्
प्राप्नोति। एवम् शाब्दैकप्रमाणगम्यत्वे त्वयि शब्दप्रमाणभिन्नानुमानप्रमाणगम्यत्व-
रूपवितर्कवचनम् मिथ्यात्वं प्राप्नोति। अस्माद्धेतोः हे भगवन्! भवानपि अपौरुषेयैः
मनोज्ञैः कर्मब्रह्मोभयभागरूपैः वेदप्रमाणैरेव ज्ञेयः अहम् अस्मि इति हर्षं प्राप्नोतु।
अर्थात् “पौरुषेयैः प्रमाणैः वेद्योऽहं भवामि वा” इति अनुमानप्रमाणेन भगवन्तं
ज्ञानवतः दृष्ट्वा, स्वयं भगवान् खिन्नो भवतीति भावः॥७॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
269
4.2.8. अनवधिकातिशयानन्दरूपतया निरतिशयपुरुषार्थत्वविचारः
(अष्टमश्लोकविचारः) –
एतावता षष्ठ-सप्तमश्लोकाभ्यां भगवतो वेदप्रमाणैकगम्यत्वं प्रतिपाद्य
द्रढीकृतम्। अतः परं भगवतः शास्त्रप्रमाणकत्वम् अनवधिकातिशयानन्दरूपतया
निरतिशयपुरुषार्थत्वं च निरूप्यते -
निरातङ्कं पङ्केरुहनयनमङ्के निधिमिव
श्रुतिर्ब्रूते रूपं तव निरुपमानन्दममलम्।
प्रवर्तन्ते सन्तस्तदिदमवगन्तुञ्च बहुधा
क एवान्यात्प्राण्याद्यदि न हि तवानन्दमयिता॥ ८॥
पदविभागः – निरातङ्कम्, पङ्केरुहनयनम्, अङ्के, निधिम्, इव, श्रुतिः, ब्रूते, रूपम्, तव,
निरुपमानन्दम्, अमलम्, प्रवर्तन्ते, सन्तः, तत्, इदम्, अवगन्तुम्, च, बहुधा, ‘क
एवान्यात्प्राण्यात्’, यदि, न, हि, तव, आनन्दम्, अयिता॥
श्लोकाध्ययनम्
तव = भवतः
अमलम् = मलरहितम्, स्वच्छम्
निरुपमानन्दम् = आनन्देन निस्समत्वम्
रूपम् = आनन्दगुणकत्वरूपम्
पङ्केरुहनयनम् (च)
=
सुगन्धशीतलपुण्डरीकदलामलायतत्वनयनं च
निरातङ्कम् = राजवृत्त्याद्युपद्रवरहितम्
अङ्के निधिमिव = निकटस्थ निक्षेपमिव
भ्रान्तप्रतारकेतरपुरुष(आप्त)प्रयुक्तस्य गृहे निधिरस्तीति
वाक्यस्येव अपौरुषेयवेदवाक्यस्य प्रवर्तकत्वं सूचितं भवति
श्रुतिः = वेदः
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
270
ब्रूते = व्यक्तं वक्ति।
तदिदम् = तदिदमानन्दमयं रूपम्
सन्तः च = वेदान्तवेत्तारः च
बहुधा = बहुविधकर्मज्ञानोपासनादिमार्गैः
अवगन्तुम् = ज्ञातुम्
प्रवर्तन्ते = प्रयतन्ते।
यदि = तथा सति यदि
तव = भवतः
आनन्दम् = निरतिशयारूपगुणावगमानन्दम्
न हि अयिता = यदि न प्राप्नुयात्, तर्हि
‘क एवान्यात्
प्राण्यात्’ =
‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न
स्यात्’ इत्यादिश्रुत्या आनन्दमयितव्यात् जीवात् अन्यः
आनन्दयिता भगवानान्दमयो विद्यत इति श्रूयमाणत्वात्
जीवानन्दहेतुः हे भगवन्! त्वमेव नान्य इति भावः।
तात्पर्यार्थः –
भवतः मलरहितम् आनन्दगुणकत्वरूपं सुगन्धशीतलपुण्डरीकनयनं च
क्लेशरहितम् अत्यन्तसुलभतया प्राप्तुं योग्यं निकटस्थनिक्षेपमिव अस्तीति वेदः स्पष्टं
वक्ति। तदिदमानन्दमयं रूपम् वेदान्तवेत्तारः बहुविधकर्मज्ञानोपासनादिमार्गैः ज्ञातुं
प्रयतन्ते। तथा सति यदि भवतः निरतिशयारूपगुणावगमानन्दं यदि न प्राप्नुयात् तर्हि
‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’ इत्यादिश्रुत्या
आनन्दमयितव्यात् जीवात् अन्यः आनन्दयिता निरतिशयानन्दमयो भगवान् विद्यत इति
श्रूयमाणत्वात् जीवानन्दहेतुः हे! भगवन्! त्वमेव नान्य इति शरणागतिरत्र व्यज्यतेति
भावः॥८॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
271
4.2.9. सच्छब्दवाच्यत्व-सद्विद्यावेद्यत्वविचारः (नवमश्लोकविचारः) –
अष्टमे श्लोके भगवतः शास्त्रप्रमाणकत्वम्, अनवधिकातिशयानन्दरूपतया
निरतिशयपुरुषार्थत्वं च निरूप्य; चिदचिच्छरीरकस्य भगवतः सर्वसालक्षण्यसम्भवात्
सच्छब्दवाच्यत्वं, सद्विद्यावेद्यत्वं च नवमेन श्लोकेन निरूप्यते -
हरे! कामोकार्षीदितिवदियमीक्षापि भवतो,
भवेद्गौणी तेजःप्रभृतिषु यथेत्यास्थितवताम्।
क्व तावन्मुख्या सा ननु विजितदोषो हि पुरुषः,
सदात्मादेशादेरपि खलु पदैस्ते विघटिताः॥९॥
पदविभागः – हरे!, कामोऽकार्षीत्, इतिवत्, इयम्, ईक्षा, अपि, भवतः, भवेत्,
गौणी, तेजःप्रभृतिषु, यथा, इति, आस्थितवताम्, क्व, तावन्मुख्या, सा, ननु,
विजितदोषः, हि, पुरुषः, सदात्मादेशादेः, अपि, खलु, पदैः, ते, विघटिताः॥
श्लोकाध्ययनम्
हरे! = भगवन् विष्णो!
कामोकार्षीत् इतिवत्
=
अचेतने कामे अकार्षीदिति चेतनधर्मनिर्देशः यथा
अमुख्या तद्वत्
भवतः = “बहुस्यां प्रजायेय” इति सङ्कल्पितवतः तव
ईक्षा इयम् = ईक्षारूपसङ्कल्पः
गौणी भवेत् = अमुख्या भवेत्
तेजःप्रभृतिषु अपि = तत्तेज ऐक्षतेत्यादिषु अपि
यथेति = पूर्वं यथा स्यात् तथा अमुख्या इति
आस्थितवताम् = ईक्षणस्य गौणत्वमभ्युपगच्छताम्
सा = गौणी – अमुख्या इत्यभिप्रायः
तावन्मुख्या क्व = अमुख्याभिप्रायः तावत् मुख्या भवति वा!
ननु = किन्तु
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
272
सदात्मादेशादेः = सदेव सोम्येदमग्र आसीदित्यादिश्रुत्युपदेशवाक्यात्
विजितदोषो हि = अमुख्यरूपदोषरहितः नित्यनिर्लेपः खलु
पुरुषः = परमपुरुषः
ते = गौणत्वमभ्युपगच्छन्तः
पदैः = सदेव सोम्येदमग्र आसीदित्यादिवेदप्रमाणैः
विघटिताः = परास्ताः पराजिताः
खलु = भवन्ति खलु!
तात्पर्यार्थः –
भगवन् विष्णो! अचेतने कामे अकार्षीदिति चेतनधर्मनिर्देशः यथा अमुख्या
तद्वत् “बहुस्यां प्रजायेय” इति सङ्कल्पितवतः तव ईक्षारूपसङ्कल्पः अपि अमुख्या भवेत्
इति ईक्षणस्य गौणत्वमभ्युपगच्छताम् अभिप्रायः। स च अमुख्याभिप्रायः तावत् मुख्या
भवति वा! ननु सदेव सोम्येदमग्र आसीदित्यादिश्रुत्युपदेशवाक्यात् अमुख्यरूपदोषरहितः
नित्यनिर्लेपो भवति परमपुरुषः इति ज्ञायते। अनेन प्रमाणेन गौणत्वमभ्युपगच्छन्तः
सदेव सोम्येदमग्र आसीदित्यादिना पराजिताः भवन्ति इति तात्पर्यः॥९॥
⏺⏺⏺
4.2.10. कल्याणगुणाकरत्वमोक्षप्रदत्वविचारः (दशमश्लोकविचारः) –
एवं नवमेन श्लोकेन भगवतोऽखिलहेयप्रत्यनीकत्वं निरूप्य दशमश्लोकेन
कल्याणगुणाकरत्वं मोक्षप्रदत्वं च प्रतिपाद्यते -
भवानेवादेष्टा बहिरबहिरात्मा च जगतां
मुमुक्षामक्षुद्रां घटयसि विमुक्तिं जनयसि।
अहेयस्त्वं ध्येयस्त्वमुपनिषदामेकविषय-
स्त्वयि ज्ञाते सर्वं विदितमिति बह्व्यः प्रमितयः॥१०॥
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
273
पदविभागः – भवान्, एव, आदेष्टा, बहिरबहिरात्मा, च, जगताम्, मुमुक्षाम्,
अक्षुद्राम्, घटयसि, विमुक्तिम्, जनयसि, अहेयः, त्वम्, ध्येयः, त्वम्, उपनिषदाम्,
एकविषयः, त्वयि, ज्ञाते, सर्वम्, विदितम्, इति, बह्व्यः, प्रमितयः॥
श्लोकाध्ययनम्
(हे! मुरहर!) (हे विष्णो!)
जगताम् = सकलभुवनानाम्
आदेष्टा = प्रभुः
बहिरबहिरात्मा
च =
बहिः – अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इत्यादिषु
प्रसिद्धः सर्वव्यापकः, अबहिः – अन्तः प्रविष्टः शास्ता जनानां
सर्वात्मा इति श्रुतिप्रसिद्धः अन्तरात्मा, एवं च उभयत्र
विद्यमानः आत्मा बहिरबहिरात्मा च
भवान् एव = वेदवेदान्तवेद्यः त्वमेव भवसि।
अक्षुद्राम् = पुनरावृत्तिरहितशाश्वतपथप्रापिकाम्
मुमुक्षाम् = मोक्षेच्छाम्
जनयसि = त्वमेव उत्पादयसि।
विमुक्तिम् = संसारबन्धमोक्षणम् अपि
घटयसि। = सम्पादयसि।
अहेयः = हेयगुणरहितः
त्वम् = कल्याणगुणाकरस्त्वम्
ध्येयः = सकलप्राणिनां ध्यानयोग्यः
त्वम् = परमप्राप्यस्त्वमेव
उपनिषदाम् = वेदान्तानाम्
एकविषयः। = अद्वितीयप्रधानविषयः अर्थात् त्वदन्यं नान्यं विषयं उपनिषदो
न वदन्तीति भावः।
त्वयि = तादृशे वेदवेदान्तवेद्ये चिदचिद्विशिष्टे त्वयि
ज्ञाते = अवगते सति
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
274
सर्वम् = चिदचिदात्मकं भवत्तत्त्वं सर्वम्
विदितम् इति
=
विज्ञातं भवतीति
बह्व्यः = एकविज्ञानेन सर्वविज्ञानमित्यादि
प्रमितयः = प्रमाविषयाः
(विद्यन्ते) = श्रूयन्ते, तस्मात् त्वदन्यो जिज्ञास्यः प्राप्यः नास्तीति सारः॥
तात्पर्यार्थः –
हे विष्णो! सकलभुवनानां प्रभुः, अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः
इत्यादिश्रुत्या सर्वव्यापकः वेदवेदान्तवेद्यः च त्वमेव भवसि। एवं पुनरावृत्तिरहित-
शाश्वतपथप्रापिकां मोक्षेच्छां त्वमेव उत्पादयसि, तत्फलरूपसंसारबन्धमोक्षणम् अपि
त्वमेव सम्पादयसि। विशिष्य हेयगुणरहितः कल्याणगुणाकरः, सकलप्राणिनां
ध्यानयोग्यः परमप्राप्यः वेदोपनिषत्प्रधानविषयः च भवानेव। तादृशे वेदवेदान्तवेद्ये
चिदचिद्विशिष्टे त्वयि अवगते सति चिदचिदात्मकं भवत्तत्त्वं सर्वं विज्ञातं भवतीति
एकविज्ञानेन सर्वविज्ञानमित्यादिप्रमाविषयाः श्रूयन्ते, तस्मात् त्वदन्यो जिज्ञास्यः प्राप्यः
नास्तीति सारः॥१०॥
एवं दशमेऽस्मिन् श्लोके भगवतः परमप्राप्यत्वम्, मोक्षप्रदत्वं च प्रापञ्चि॥
एवञ्च नयद्युमणिव्याख्यागतश्लोकानां सान्वयप्रतिपदार्थतात्पर्यविचारात्मके
अस्मिन् चतुर्थाध्याये नयद्युमणिदीपिकाग्रन्थारम्भे स्थितमङ्गलाचरणादिपञ्चदशश्लोकानां
पदविभागप्रतिपदार्थप्रदर्शनपुरस्सरं तात्पर्यार्थो प्रतिपादितः।
तत्र क्रमशः – भगवन्मङ्गलाचरणे व्यासरामानुजस्तुति-सुदर्शनसूरिस्तुति-
वेदान्तदेशिकस्तुति-वेङ्कटाध्वरिस्तुति-अण्णयार्यस्तुति- ताताचार्यस्तुतिरूपगुर्वनुग्रह-
स्मरणानि सम्यक् विचारितानि। ततः नयद्युमणिग्रन्थरचनाप्रतिज्ञां रचनेतिकर्तव्यतां च
सुनिरूप्य, ततः नयद्युमणिदीपिकाव्याख्यारचनाप्रतिज्ञा विवेचिता।
नयद्युमणिव्याख्यायाः अध्ययनम्
अध्यायः – 4. नयद्युमणिव्याख्यागतश्लोकानाम् अध्ययनम्
275
तदनु ब्रह्मसूत्रस्तवरूपनयद्युमण्याख्यदशश्लोकीविचारः निरूपितः। तत्र क्रमशः-
विष्णोर्जिज्ञास्यत्वकथनम्, श्रुतिप्रामाण्यनिरूपणम्, जगदुपादानकारणत्वनिरूपणम्,
लक्ष्म्याः जगत्कारणत्वनिरूपणम्, भगवत एव सर्वकार्योत्पादकत्वनिरूपणम्, भगवतः
शास्त्रैकप्रमाणकत्वनिरूपणम्, तद्द्रढीकरणम्, अनवधिकातिशयानन्दरूपतया निरतिशय-
पुरुषार्थत्वनिरूपणम्, सच्छब्दवाच्यत्वनिरूपणम्, सद्विद्यावेद्यत्वनिरूपणम्, कल्याण-
गुणाकरत्वप्रतिपादनम्, मोक्षप्रदत्वनिरूपणं चेत्याद्यंशान् श्लोकरूपेण दीपिका-
व्याख्यारूपेण च स्थितान् पदविभाग-प्रतिपदार्थ-तात्पर्यार्थैः गन्थकर्तुराशयं सारतो
यथानुसन्धानप्रविधि व्यचारिषम्॥ अथ पञ्चमाध्याये उपसंहारः वक्ष्यते, तदनन्तरम्
अनुसन्धानोपयुक्तानुबन्धाः प्रदर्श्यन्ते॥
⏺⏺⏺
282
अनुबन्धः – 1
श्रीनिवासविरचितनयद्युमणिदीपिकागतश्लोकाः
सत्यं ज्ञानमनन्तमच्युतमजं नित्यं स्वतो निर्मलं
श्रुत्यन्तप्रमितामिताद्भुतगुणं प्रत्यक्षकाशात्मकम्।
ब्रह्मस्तम्बमुखोद्भवस्थितिपुनस्संहारलीलारसं
रंहो धूतविरोधियूथमनघं ब्रह्माद्वितीयं भजे॥१॥
दोहं दोहममोघवाङ्मयगवीराहृत्य सूत्राक्षर-
क्षीरस्मेरमधान्मुदा क्षितितले क्षेमाय यो मादृशाम्।
आतच्यैतदरिक्तयुक्तिनिकरैरामध्यभाष्यात्मकं
गव्यं भव्यतमं च योऽप्युदहरत् तभ्यामुभाभ्यां नमः॥२॥
कुदर्शनविकर्शनास्पदविविक्तयुक्तिव्रजैः
प्रदर्शयितुमुद्यतं परिविमृर्श्य भाष्याशयम्।
अपार्थपरकत्थनव्यपगमोल्लसद्व्यासता-
निदर्शनमहं भजे ह्यदि सुदर्शनार्यं गुरुम्॥३॥
प्राचीं वाचमचीकशन्निशिचरग्रस्तां समस्तां पुरा
व्याजाद्वाजिमुखस्स तत्प्रकृतिकानन्यानधन्यान् बुधान्।
तत्तात्पर्यहरान् चिरान्निरसितुं जज्ञे यदात्मा पुनः
तं त्रय्यन्तगुरुं परापरकलातन्त्रस्वतन्त्रं भजे॥४॥
नत्वा वेङ्कटसुत्वनः पदयुगी षड्दर्शिनीहर्षण-
स्तत्तादृक्परवादिवादविविधाहङ्कारहुङ्कारिणः।
तद्बिम्बप्रतिबिम्बडम्बररुचांस्तत्तन्मताक्षेपण-
प्रेक्षालक्षणलक्षितानभिनुमस्तत्सोदरांत्सादरम्॥५॥
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 1. श्रीनिवासविरचितनयद्युमणिदीपिकागतश्लोकाः
283
यं पर्यायपतञ्जलिं पदविदश्शंसन्ति मीमांसकाः
यस्याचार्यगुरू निरूढविभवावन्तेवसन्तावमी।
पश्यत्पादममृष्यमाणमनसः पश्यन्ति यं तार्किकाः
तं त्रय्यन्तकथोदधीन्दुमनघं वन्देऽण्णयार्यं गुरुम्॥६॥
विहितबहुविरोधान् व्यक्ततात्पर्यभेदान्
अपगलितविवादान् हन्त! वेदान् विधाय।
सततकृतविनोदान् सर्वशास्त्रानुवादान्
प्रथयितुमतिमोदान् तातपादान्नमामि॥७॥
यस्मादस्माभिरादावगणिविगणितोद्भावनं जैमिनीयं,
पश्चाद्दुश्चिद्विपश्चिन्मतहितकथकादूष्यमग्राहि भाष्यम् ।
तस्मिन् कौण्डिन्यवंशच्छलजलधिविधौ श्रीनिवासाध्वरीन्दौ,
भूयो भूयः प्रणामप्रततिरधिगतप्राभवी बोभवीतु॥८॥
सेवं सेवमसद्वदावदमदप्रागल्भ्यबिभ्यत्त्रयी
जीवं जीववधूसुधाकरवचोधाराळधाराभरान्।
श्रीशैलाण्णयदीक्षिताग्रजगुरून् शेषाविशेषोल्लसत्-
पाण्डित्यांत्स्वकृतं यते विवरितुं तद्ब्रह्मसूत्रस्तवम्॥९॥
मोहावेशवशंवदात्ममनसो मूढा निगूढाशयं,
श्रीमद्भाष्यमदूष्यमब्जजनुषाप्यादूष्य हृष्यन्ति ये।
तानात्मीयमतिव्यतिक्रमभवद्दोषान्मनीषिब्रुवां-
स्तत्तात्पर्यविवेचनान्निरसितुं यत्नः कृतार्थोऽद्य नः॥१०॥
यो वायोरभवत् तृतीयतनुभृद्यस्तद्भुजामीशितुः
तादृग्रूपधरास्तयोर्हि चरमस्पष्टप्रकृष्टोदयः।
इत्थं तन्मतयो क्रमादधिगतं न्यूनत्वमाधिक्यम-
प्यद्यत्वे त्वनवद्यतां प्रविशदीकर्तुं प्रवर्तामहे॥११॥
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 1. श्रीनिवासविरचितनयद्युमणिदीपिकागतश्लोकाः
284
यावत्प्रज्ञमभिज्ञभाव्यमतिना ग्रन्थे मया निर्मिते
दोषान्वेषणतोषिताः कतिपये तृष्यन्तु कुप्यन्तु वा।
भिन्नच्छिन्नमतश्रुतिस्मृतिकथापारम्परीलम्पटा-
स्सन्तः प्रोज्झितमत्सराः प्रतिपदं सन्त्येव सन्तोषिणः॥१२॥
ध्वान्तानुवर्तिषु जनेष्वपि चन्द्रिकायां
दोषानुषङ्गविधितः प्रथितोदयेषु।
सन्मानसाब्जविततिर्व्यथिता विकासं
गृह्णातु सम्प्रति नयद्युमणेरमुष्मात्॥१३॥
स्वकृतब्रह्मसूत्रार्थहृद्यपद्यविवेचनी।
क्रियते श्रीनिवासेन नयद्युमणिदीपिका॥१४॥
दृप्यत्पाषण्डषण्डद्रुमपरशुवचस्सृष्टिमुष्टिन्धयश्रीः
स्वामी रामानुजार्यो जयतु विधिवधूश्लाघितामोघशक्तिः।
तद्भाष्यं चाप्यदूष्यं प्रभवतु कुहनाबद्धसिद्धान्तभेद-
श्रद्धालुध्वान्तसद्योविघटनचटुलोऽसाध्यमध्याह्नभानुः॥१५॥
⏺⏺⏺
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 1. श्रीनिवासविरचितनयद्युमणिदीपिकागतश्लोकाः
285
श्रीहयग्रीवाय नमः॥
श्रीनिवासविरचिता नयद्युमणिः
हरे! जिज्ञास्यत्वं तव मुनिरवादीत् प्रथमतो,
यतो ब्रह्मेत्येतत् तव पदमसाधारणमभूत्।
अथातश्शब्दाभ्यामपि विहितकर्मावगतिभि-
स्तदाऽराध्यो वेद्यस्त्वमिति निरणैषीत् करुणया॥१॥
विचार्यं यत्कार्यं विधिभिरभिधेयं तदभवत्
त्रयीमूर्धास्पर्धां त्यजति तव निर्धारणविधौ ।
स्वतस्सिद्धेऽप्यर्थे परमपुरुषार्थे त्वयि भवेत्
पदानां व्युत्पत्तिः कथमपि हरे! स्वर्गपदवत्॥२॥
त्वया भूतान्येतान्यजनिषत जीवन्ति च पुन-
र्युगान्ते लीयन्ते त्वयि तदिह तत्कारणमसि।
अनन्यार्हैश्शब्दैस्तदपि निरधारि क्वचिदतः
त्वमेवोपादानं मुरहर! निदानं च जगताम्॥३॥
तव श्रीरेतादृग्भुवनजननी त्वं खलु पिता,
सुतो धाता ध्याता तव न जगतां कारणमिति।
श्रुतिस्साक्षात् ब्रूते तदनुगुणगत्या त्वमसि तौ
न्यषेधीदप्येषा ननु वरद! तेषाय विदुषाम् ॥४॥
न हि स्रष्टा गोप्ता जगति भविता कोऽपि ललिता
जगज्जन्मस्थेमप्रभृतिभिरतस्स्यात् तव भिदा।
य इत्थं संशेते मुरहर! स एवायमवनौ
यवानुप्त्वा गुप्त्वा फलति लवणे संशिशयिषुः॥५॥
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 1. श्रीनिवासविरचितनयद्युमणिदीपिकागतश्लोकाः
286
अधीतानाम्नायानहहनिरपायात् कतिचन
त्यजन्तोऽनन्त! त्वामधिजिगमिषन्ति ह्यनुमया।
मतिभ्रंशादेते मधुहर! सुधासिन्धुनिकटे
नटन्तो वेशन्तांच्छिशमयिषवो यान्ति वितृषः॥६॥
त्रयी ते निश्श्वासो विदित इति विश्वासमयते
तथा वेदैर्विप्रैस्त्वमपि सहराशीकृत इति ।
सतां चेतो वृत्तिः किमुत वचनं तेन वितथं
यथा हृद्यैर्वेद्यो निखिलनिगमैरस्म्यहमिति॥७॥
निरातङ्कं पङ्केरुहनयनमङ्के निधिमिव
श्रुतिर्ब्रूते रूपं तव निरुपमानन्दममलम्।
प्रवर्तन्ते सन्तस्तदिदमवगन्तुञ्च बहुधा
क एवान्यात् प्राण्याद्यदि न हि तवानन्दमयिता॥ ८॥
हरे! कामोकार्षीदितिवदियमीक्षापि भवतो,
भवेद्गौणी तेजःप्रभृतिषु यथेत्यास्थितवताम्।
क्व तावन्मुख्या सा ननु विजितदोषो हि पुरुषः,
सदात्मादेशादेरपि खलु पदैस्ते विघटिताः॥९॥
भवानेवादेष्टा बहिरबहिरात्मा च जगतां
मुमुक्षामक्षुद्रां घटयसि विमुक्तिं जनयसि ।
अहेयस्त्वं ध्येयस्त्वमुपनिषदामेकविषय-
स्त्वयि ज्ञाते सर्वं विदितमिति बह्व्यः प्रमितयः॥१०॥
⏺⏺⏺
287
अनुबन्धः – 2
नयद्युमणिश्लोकपादानाम् अकारादिसूची
क्र.सं. नयद्युमणिश्लोकपादः (दशश्लोकीपादः) श्लोकसङ्ख्या
पादसङ्ख्या च
-
अथातश्शब्दाभ्यामपि विहितकर्मावगतिभिः 1.3
-
अधीतानाम्नायानहहनिरपायात् कतिचन 6.1
-
अनन्यार्हैश्शब्दैस्तदपि निरधारि क्वचिदतः 3.3
-
अहेयस्त्वं ध्येयस्त्वमुपनिषदामेकविषयः 10.3
-
क एवान्यात् प्राण्याद्यदि न हि तवानन्दमयिता॥ 8.4
-
क्व तावन्मुख्या सा ननु विजितदोषो हि पुरुषः 9.3
-
जगज्जन्मस्थेमप्रभृतिभिरतस्स्यात् तव भिदा। 5.2
-
तथा वेदैर्विप्रैस्त्वमपि सहराशीकृत इति। 7.2
-
तदाऽराध्यो वेद्यस्त्वमिति निरणैषीत् करुणया॥ 1.4
तव श्रीरेतादृग्भुवनजननी त्वं खलु पिता 4.1
-
त्यजन्तोऽनन्त! त्वामधिजिगमिषन्ति ह्यनुमया। 6.2
त्रयी ते निश्श्वासो विदित इति विश्वासमयते 7.1
त्रयीमूर्धास्पर्धां त्यजति तव निर्धारणविधौ। 2.2
त्वमेवोपादानं मुरहर! निदानं च जगताम्॥ 3.4
त्वया भूतान्येतान्यजनिषत जीवन्ति च पुनः 3.1
त्वयि ज्ञाते सर्वं विदितमिति बह्व्यः प्रमितयः॥ 10.4
न हि स्रष्टा गोप्ता जगति भविता कोऽपि ललिता 5.1
नटन्तो वेशन्तांच्छिशमयिषवो यान्ति वितृषः॥ 6.4
निरातङ्कं पङ्केरुहनयनमङ्के निधिमिव 8.1
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 2. नयद्युमण्यकारादिपादसूची
288
न्यषेधीदप्येषा ननु वरद! तेषाय विदुषाम्॥ 4.4
पदानां व्युत्पत्तिः कथमपि हरे! स्वर्गपदवत्॥ 2.4
प्रवर्तन्ते सन्तस्तदिदमवगन्तुञ्च बहुधा 8.3
भवानेवादेष्टा बहिरबहिरात्मा च जगतां 10.1
भवेद्गौणी तेजःप्रभृतिषु यथेत्यास्थितवताम्। 9.2
मतिभ्रंशादेते मधुहर! सुधासिन्धुनिकटे 6.3
मुमुक्षामक्षुद्रां घटयसि विमुक्तिं जनयसि। 10.2
य इत्थं संशेते मुरहर! स एवायमवनौ 5.3
यतो ब्रह्मेत्येतत् तव पदमसाधारणमभूत्। 1.2
यथा हृद्यैर्वेद्यो निखिलनिगमैरस्म्यहमिति॥ 7.4
यवानुप्त्वा गुप्त्वा फलति लवणे संशिशयिषुः॥ 5.4
युगान्ते लीयन्ते त्वयि तदिह तत्कारणमसि। 3.2
विचार्यं यत्कार्यं विधिभिरभिधेयं तदभवत् 2.1
श्रुतिर्ब्रूते रूपं तव निरुपमानन्दममलम्। 8.2
श्रुतिस्साक्षात् ब्रूते तदनुगुणगत्या त्वमसि तौ 4.3
सतां चेतो वृत्तिः किमुत वचनं तेन वितथं 7.3
सदात्मादेशादेरपि खलु पदैस्ते विघटिताः॥ 9.4
सुतो धाता ध्याता तव न जगतां कारणमिति। 4.2
स्वतस्सिद्धेऽप्यर्थे परमपुरुषार्थे त्वयि भवेत् 2.3
हरे! जिज्ञास्यत्वं तव मुनिरवादीत् प्रथमतः 1.1
हरे! कामोकार्षीदितिवदियमीक्षापि भवतः 9.1
⏺⏺⏺
289
अनुबन्धः – 3
नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
- Telugu Script Manuscript Images:
Adyar Library and Researsch Centre – The Theosophical Society,
Adyar, Madras
Image No. 1
Library Information Page
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 3. नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
290
Image No. 2
First & Second Pages
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 3. नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
291
Image No. 3
Middle Pages
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 3. नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
292
Image No. 4
Last Pages
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 3. नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
293
- Devanagari Script Manuscript Images:
Indira Gandhi National Centre f-or the Arts, Government Oriental
Manuscript Library, Madras
Image No. 1
Library Information Page
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 3. नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
294
Image No. 2
First Page
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 3. नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
295
Image No. 3
Middle Page
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
अनुबन्धः – 3. नयद्युमणिव्याख्यामातृकयोः आदिमध्यान्तचित्राणि
296
Image No. 4
Last Pages
⏺⏺⏺
297
अनुबन्धः – 4
उपयुक्तग्रन्थसूची (Bibliography)
क्र.सं. ग्रन्थनाम प्रकाशनादिविवरणम्
- अमरकोशः
(शब्दकल्पद्रुम-वाचस्पत्य-
वीलियम् आप्टे डिक्शनरी
सहितः)
अमरकोषः इति Mobile Aap, निर्माणम् – सुजन झा,
निर्देशनम् - Prof. Madan Mohan Jha, राष्ट्रियसंस्कृत-
संस्थानम्, क॰जे॰ सोमय्यासंस्कृतविद्या-पीठम्, मुम्बई
- अमरकोशः
(गुरुबालप्रबोधिकाव्याख्या)
श्रीजयलक्ष्मीपब्लिकेषन्स्, हैदराबाद्, 2010
- ऐतरेयोपनिषत् प्रधानसम्पादकः – एम्.ए.एस्. राजन्, संस्कृतशोधनसंसत्,
मेल्कोटे, 2000
- कठोपनिषत् प्रधानसम्पादकः – एम्.ए.एस्. राजन्, संस्कृतशोधनसंसत्,
मेल्कोटे, 2000
- केनोपनिषत् सम्पादकः – आचार्य लक्ष्मीताताचार्यः, संस्कृतसंशोधनसंसत्,
उच्चशिक्षणविभागः, अकाडमी आफ् संस्क्रिट्, मेलकोटे, 1986
- छान्दोग्योपनिषत् प्रधानसम्पादकः - डा. भाष्यं स्वामी, संस्कृतसंशोधन-संसत्,
उच्चशिक्षणविभागः, अकाडमी आफ् संस्क्रिट्, मेलकोटे,
2009
- तत्त्वत्रयम् ग्रन्थकर्ता – पिल्लैलोकाचार्यस्वामी, व्याख्याकारः –
श्रीधराचार्यः, प्रकाशकः – विश्वविद्यालयप्रकाशनकेन्द्रम्,
बाराबङ्की, पैजाबाद्।
- तत्त्वमुक्ताकलापः सम्पादकः - डा. श्रीनिवासाचार्, Government Branch
Press, Oriental Library Publications, Series
No. 76, Mysore – 1949
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
परिशिष्टभागः – अनुबन्धः – 4. उपयुक्तग्रन्थसूची (Bibliography)
298
- तैत्तिरीयसंहिता
भट्टभास्करभाष्यम्
सम्पादकः - स्वामी प्राह्लादगिरिः, चौखम्बा सुरभारती
ग्रन्थमाला, वाराणसी।
- नित्यविभूतिवैभवम् कर्ता, सम्पादकश्च – कपिस्थलं देशिकाचार्यः, प्रकाशकः -
श्रीविखनसट्रस्ट्, तिरुमला - 2000
- न्यायपरिशुद्धिः रचयिता – वेङ्कटनाथः, सम्पादकः – वा. श्रीवत्साङ्काचार्यः,
राष्ट्रिसंस्कृतविद्यापीठम्, तिरुपति - 2007
- न्यासविंशतिः प्रकाशकः - श्रीमान् ईयुन्नि शिङ्गराचार्यः, Dayasindhu
Associates, 2004
- न्यायसूत्रम् रचयिता – गौतमः, सम्पादकः – उमेशचन्द्रपाण्डेयः,
चौखम्बासंस्कृतसीरीस्, वाराणसी - 1978
- पپशाह्निकम् व्याख्याकारः - युधिष्ठिरो मीमांसकः, सम्पादकः – भार्गवशास्त्री,
प्रकाशकः – चौखम्बासंस्कृतप्रतिष्ठानम्, वाराणसी - 2014
- प्राक्-रामानुजीयम् कर्ता – तट्टाविजयराघवाचार्यः, रामानुजपब्लिकेषन्स्, तिरुपति -
2002
- बृहदारण्यकोपनिषत् प्रधानसम्पादकः - डा. भाष्यं स्वामी, संस्कृतसंशोधन-संसत्,
उच्चशिक्षणविभागः, अकाडमी आफ् संस्क्रिट्, मेलकोटे, 2011
- भगवद्गीतामाहात्म्यम् प्रधानसम्पादकः - डा. भाष्यं स्वामी, संस्कृतसंशोधन-संसत्,
उच्चशिक्षणविभागः, अकाडमी आफ् संस्क्रिट्, मेलकोटे,
2008
-
भागवतपुराणम् प्रकाशकः – गीताप्रेस्, गोरखपूर्, संवत् - २०७६
-
महानारायणोपनिषत् प्रधानसम्पादकः – M.A. Lakshmi Tatacharya,
संस्कृतसंशोधन-संसत्, उच्चशिक्षणविभागः, अकाडमी आफ्
संस्क्रिट्, मेलकोटे, 2002
- मुक्तिकोपनिषत् 1)https://archive.org/details/
muktikopanisad-hindi-
translation/mode/1up;
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
परिशिष्टभागः – अनुबन्धः – 4. उपयुक्तग्रन्थसूची (Bibliography)
299
2)https://sanskritdocuments.org/doc_
upanishhat/muktika.html
- मुण्डकोपनिषत् 17 संस्करणम्, प्रकाशकः – गीताप्रेस्, गोरखपूर्, संवत् –
२०५३
- मोक्षमन्दिरस्य
द्वादशदर्शनसोपानावलिः
कर्ता – मोक्षमन्दिरः, सम्पादकः – श्रीपादशास्त्री, प्रकाशकः –
परिमल पब्लिकेषन्स्, दिल्ली - 2020
- यतीन्द्रमतदीपिका ग्रन्थकर्ता – श्रीनिवासभट्टाचार्यः, सम्पादकः – श्रीभाष्यं
वेङ्कटनरसिंहस्वामी, प्रकाशकः – जीयर् ट्रस्ट्, सीतानगरम्,
गु١ूरु - 1987
- रामानुजमतज्योत्सना सम्पादकः - का.ई. देवनाथन्, श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः,
तिरुपति - 2016
-
विष्णुपुराणम् प्रकाशकः – गीताप्रेस्, गोरखपूर्, संवत् - २०७६
-
वेदान्तदीपः
(आन्ध्रानुवादसहितः)
कर्ता – रामानुजाचार्यः, अनुवादकः – शिरिशिनहल्
कृष्णमाचार्यः, प्रकाशकः - हरिप्रियापब्लिकेषन्स्, तिरुपति -
2000
- वेदान्तपञ्चदशी कर्ता – विद्यारण्यस्वामी, प्रकाशकः – श्रीदक्षिणामूर्तिमठ
प्रकाशन, वाराणसी -
- वेदान्तसारः कर्ता – सदानन्दः, प्रकाशकः - चौखम्बा विद्याभवन
संस्कृतग्रन्थमाला, वाराणसी - 1954
-
शब्दकल्पद्रुमः राजाराधाकान्तदेवः, चौखम्बासंस्कृतसीरीज्, वाराणसी - 1968
-
श्रीन्यायसिद्धाञ्जनम् कर्ता – निगमान्तदेशिकः वेङ्कटनाथः, सम्पादकः –
हरेकृष्णशतपथी, राष्ट्रियसंस्कृतविद्यापीठम्, 2010
- श्रीभाष्यम् भाष्यकारः – भगवद्रामानुजाचार्यः, सम्पादकः – गुडिमेल्ल
नरसिंहाचार्यः, प्रकाशकः – वेङ्कटलक्ष्मीनृसिंहप्रेस्,
मचलीपट्टणम्, 2003
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
परिशिष्टभागः – अनुबन्धः – 4. उपयुक्तग्रन्थसूची (Bibliography)
300
-
श्रीरहस्यत्रयसारः कर्ता – वेदान्तदेशिकः, यालाङ्गोअचुकोडम्, 2008
-
श्रीरामानुजमतसङ्ग्रहः कर्ता – पाट्टराचार्यः, सम्पादकः – एस्. पद्मनाभः, प्रकाशकः –
श्रीकृष्णसभा, मुम्बई, 2003
- श्वेताश्वतरोपनिषत् प्रधानसम्पादकः - डा. भाष्यं स्वामी, संस्कृतसंशोधन-संसत्,
उच्चशिक्षणविभागः, अकाडमी आफ् संस्क्रिट्, मेलकोटे, 2010
- संस्कृतन्यायमुलु (तेलुगु)
1-7 भागाः
सम्पादकः – पिल्लमर्रि लक्ष्मीनारायणः, व्याख्याकारौ –
कूचिभोट्ल प्रभाकरशास्त्री, घट्टि लक्ष्मीनारायणशास्त्री च,
प्रकाशकः – लक्ष्मीग्रन्थमण्डलिः, तेनालि - 1939
- सायणाचार्य-ऋग्वेदभाष्यम् प्रधानसम्पादकः - जगन्नाथपाठकः, चौखम्बासंस्कृतसीरीस्,
वाराणसी - 1988
- सर्वदर्शनसङ्ग्रहः सम्पादकः – आचार्यपुल्लेलश्रीरामचन्द्रः, प्रकाशकः –
सुमन्तग्राफिक्स्, 2010
- सीतोपनिषत् सम्पादकः – आचार्य श्रारामशर्मा, प्रकाशकः - परिमल
प्रकाशन, मुम्बयी - 2005
- स्तोत्ररत्नभाष्यम् व्याख्याकारः – वेदान्तदेशिकः, सम्पादकः – रङ्गनाथाचार्य-
शिरोमणिः, वैकुण्ठनाथदेवस्थानम्, कलकत्ता - 1976
⏺⏺⏺