23 सच्छब्दवाच्यत्वं, सद्विद्यावेद्यत्वं च \(नवमश्लोकः\)

तस्मान्न परमात्मनः सद्विद्यावेद्यत्वमितीमां शङ्कामनूद्य दूषयन्नेव गौणश्चेन्नात्म-

शब्दादिति सूत्रार्थमप्याह – हरे! कामोकार्षीदितिवदियमीक्षापि भवतो, भवेद्गौणी1 तेजः प्रभृतिषु 2यथेत्यास्थितवताम्। क्व तावन्मुख्या सा ननु विजितदोषो हि पुरुषः, सदात्मादेशादेरपि3 खलु पदैस्ते विघटिताः॥९॥ इयं तदैक्षत सेयं देवतैक्षतेत्यावृत्त्या निर्दिष्टा। भवतः बहुस्यामिति सङ्कल्पित-

वतस्तव ईक्षा सङ्कल्पः इदं च वास्तवाभिप्रायेण गौणी भवेत् अमुख्या स्यात्। तत्र साहचर्यं नियामकतया दर्शयति। तेजः प्रभृतिषु यथेति तत्तेज ऐक्षतेत्यादिष्वित्यर्थः। तत्र सर्वलोकप्रसिद्धमन्यथा सिद्धम्, अचेतने चेतनधर्मनिर्देशं दृष्टान्ततया प्रदर्शयति – कामोकार्षीदितिवदिति। तथा च स्वकृततत्तदनुचितव्यापारेषु नियतानुकूल्यमात्रमादाय कामादेः कर्तृता-

निर्देशनवद्वा वस्तुतो भवदीय्यायामेव बहुभवनसङ्कल्परूपायामाकाङ्क्षायां प्रधानगततया कार्योत्पादनानुकूलप्रागवस्थावस्थिततत्त्वलक्षणतामाश्रित्य गौणता मातिष्ठन्ते।

  1. D.M. भवेद्गौणा

  2. D.M. यथेत्वास्थित॰

  3. T.M. ॰देशादैरपि नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

145 ये जनाः तल्लापनिवर्तनमपि तवैव भर इत्यभिप्रायेण सम्बोधयति हरे! इति। अपित्वत्र विरोधद्योतकः तथाविधसङ्कल्पस्याचित्सम्बन्धानर्हत्वं द्योतयति। यद्वा भवत इति षष्ठीयोग्यत्वे तथा च दृढतरवधूकुचलिकुचलेपनोपयुक्तस्य निस्तुलकस्तूर्यादेः वस्तुनः अतिजरठमहिजघनभागोपभोगं कल्पयतामल्पमतीनाम् इव एतादृशानामपि निग्राहको भवानेवेत्यर्थः। अथ वा भवत इति अनादरे षष्ठी भवन्तं सर्वज्ञं सत्यसङ्कल्पमप्यनादृत्य कृत्यमूढाः शान्ताङ्गारकल्पस्याचितस्वतः परिणामं विदन्तीत्यर्थः। वस्तुतस्तु भवत इति शत्रन्तं पदम्। तेजोपन्नाद्यात्मना अनुरूपे चोत्पत्तिं प्राप्नुवतः प्रधानस्येत्यर्थः। तथा च तेजः प्रभृतिषु कार्येषु स्वस्वकार्योत्पादनाय सङ्कल्पस्स्यात्तदत्र कीर्तनादिहापि सर्वकार्योत्पादनहेतुभूते प्रधानमेवेयमीक्षेति भावः। इत्थं गौणेनेति सूत्रांशो विवृतः ईक्षतेरितिधातुनिर्देश धातुनिर्देशरूपत्वादिहापि काण इति पुल्लिङ्गनिर्देशः कृतः। अथ नात्मशब्दादित्युक्तमंशान्तरं विवृणोत्युत्तरार्धेन। इत्यास्थितवता इत्थं निश्चिन्वता, ईक्षणस्य गौणत्वमभ्युपगच्छतामित्यर्थः। क्व तावदिति सा ईक्षा तावत्प्रथमं, क्व मुख्या क्वचिन्मुख्यत्वपूर्वकत्वात्। अन्यत्र गौणस्येहापि प्रधानगतमेवेदं गौणमीक्षणमित्यभिदधता त्वया ततोऽन्यत्र मुख्यत्वं क्वचित् वक्तव्यम्। अत्र न तावत्परमात्मनि मुख्यत्वं तत्रानन्तविकारास्पद-

बहुरूपतासङ्कल्पानुपपत्तेः। त्वयैवोक्तेः नापि जीवितस्य स्वरूपतो निर्लेपकत्वमभ्युप-

गच्छतः तदयोगादित्याह – नन्विति। ननु अत्र सम्बोधने पुरुषो जीवो विजित लेपः नित्यनिर्लेपः। विजितदोष इति पाठेप्ययमेवार्थः। हि प्रसिद्धौ। अत एव प्रपञ्चोपादानत्वमङ्गीकुर्वतां जीवनिर्लेपकत्व-

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

146 वादः प्रसिद्ध इत्यर्थः। ततश्च मुख्यासम्भवात् (गौणत्व)1कारणत्वमयुक्तमेवेति वदत-

स्सूत्रकारस्य भावस्सूचितः। ननु विशिष्टरूपेक्षणस्यान्यत्रासम्भवेऽपि ईक्षणमात्रमुख्यः। अन्यत्र सम्भवत्येवेति आत्मशब्दादित्युक्तम्। प्रधानहेतुमासञ्चयति सदात्मादेशाद्यैरिति। सच्छब्दः सदेव सोम्येदमग्र आसीदित्युपक्रमे देशोपक्रमवाक्ये श्रुतिः। यद्यप्ययं चेतनाचेतनसाधारणः तथापि सेयं देवतेत्यत्र तच्छब्दे नानादेशनिर्दिष्टमिदं शब्देन सच्छब्दनिर्दिष्टत्वं च प्रदर्श्य तत्र देवतापदप्रयोगादयमपि चेतनासाधारणैवेत्यभिप्रायः। आत्मशब्दः ऐतदात्म्यमिदं सर्वं स आत्मेत्युपसंहारे बहुधा अभ्यस्त आदेशशब्दः उततमादेशमाप्राक्ष्य इति सर्वोपक्रमे श्रुतः। आदेशशब्देन देवतापदं गृह्यते। तथा च प्रयाजा साचारण्यंशसन्दष्टमभिक्रमणं यथा प्रयाजगामी तथा चेतनासाधारणदिशात्म-

शब्दाभ्यां सन्दष्टमीक्षणं चेतनेन अमुख्यमेव नाचेतननिष्ठं कार्योन्मुख्यरूपममुख्य-

मित्यर्थः। सूत्रे आत्मशब्दः आदेशादिपदानामप्युपलक्षक इत्यभिप्रायः। पदैरपीत्यत्रापि नायद्यपि प्रागुक्तमीक्षणमेवेतरनिरपेक्षमचेतनव्यावर्तकं तथाप्युदापास्योपायान्तरा-

दूषकत्वात्। सूत्रे हेत्वन्तरोक्तिरिति सूचयति। तथाहि न तावदुपक्रमगतमीक्षणं स्वरसतः चेतनगतं प्रतीयमानमुपसंहारगतगौणेक्षणामनुरुध्यगौणमुपपादयितुं युक्तम्। तथा सति उपसंहारगतगुणादिपदानुरोधेनोपक्रमगतं वेदपदमपि ऋगादि-

लाक्षणिकमापद्यतेति वेदोपक्रमाधिकरणविरोधापत्तेः।

  1. T.M मध्ये एव विद्यते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

147 वस्तुतस्तु उपसंहारेऽपि गौणमीक्षणम्। तेजः प्रभृति शब्दानामपि तच्छरीरक-

परमात्मपर्यन्तत्वात्। न चान्योन्याश्रयः तेजश्शरीरमित्यादिवाक्यान्तरैरेव परमात्म-

पर्यन्तत्वात्, तन्निर्णयेन परस्परसापेक्षतार्थत्वाभावात्। न चैवं तत्तेजो सृजतेत्यत्रापि तथात्वापत्तिर्दोषः इष्टत्वात्। न चासृजततेयुक्ते-

रस्वारस्यनिमित्तत्वोपादानत्वोभयलाभाय तथोक्त्युपपत्तेरिति। इत्थमुपक्रमास्थत्वादिक-

मनपेक्ष्यैव प्रत्यायकत्वादतिप्रसिद्धत्वाच्च सूत्रे आत्मशब्दोपादानमिति सूचयति। खल्विति दृष्टान्ते दार्ष्टान्तिके च गौणत्ववादिनः विघटिताः परास्ताः। अत्र सूत्रे सन्निहितत्वादीक्षणमेव सतश्चेतनत्वे हेतुतयोक्तम्। आत्मशब्दस्तु विप्रकृष्टत्वादीक्षणे गौणत्वव्यावर्तकतयोक्तमुभयमपि सतः परमात्मत्वे हेतुरेवेति श्लोके हीति समुच्चयवाचकोऽपि शब्दः प्रयुक्तः। स्यादेतदेवं यद्वादे शब्द आत्मशब्दश्चेतनासाधारणा स्यात् तदेव तु न मृष्ट्यामहे आदेशशब्दस्योपदेशमात्रसाधारणत्वात् आत्मशब्दस्य व्यापकमात्रसाधारणाच्च। तथाहि आङ् पूर्वात् दिश-अतिसर्जन इति धातोर्धञन्तोयमादेशशब्दः। अनादेष्टारमभिदध्यात्। आदेशने प्रशासनरूपप्रकृत्यर्थे परमात्मनः कर्तृत्वात् घञ्-प्रत्ययस्य चाकर्तरि च कारके संज्ञायामिति कर्तृव्यतिरिक्तकारके अनुशिष्टस्य स्वप्रकृत्यर्थशासनकर्तृत्वाभिधानासमर्थ्यात् न च पचाद्यजन्तत्वमाश्रित्य प्रशास्तृपरत्वं निरोढुं शक्यमिति वाच्यम्। अपवादेऽभिहिते न इगुपधलक्षणकप्रत्ययेन बाधितस्याच्प्रत्ययस्य इगुपधदिशि-

धातावप्रवृत्तेः। न चैवं कप्रत्ययान्त एवायमादेशार्थमभिदध्यादिति वाच्यम्। तथा सति कप्रत्ययस्य कित्वात् किति चेति लघूपधगुणनिषेधेनादेशरूपासिद्धेः। अतः कर्मणि नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

148 घञन्तोयमुपदेश्यपरः। उपदेशत्वञ्च चेतनाचेतनसाधारणमिति न ततः परमात्मपर-

निर्णयः आत्मशब्दोऽपि मृदात्मको घटः। समस्तकल्याणगुणात्मकोऽसावित्यादि तादात्म्यसाधारणप्रयोगदर्शनान्न चेतनासाधारणः यद्यपि निरुपपन्नात्मशब्दः चेतनमात्रे प्रसिद्धः॥९॥ ⏺⏺⏺