22 अनवधिकातिशयानन्दरूपतया निरतिशयपुरुषार्थत्वम् \(अष्टमश्लोकः\)

यद्यपि विधेयस्यापि ध्यानस्य विषयनिरूपस्वभावतया विषयविशिष्टमेव ध्यानं विधेयतया प्रतीयते। तथापि समुद्रमशो ध्यानादेरिव विषयनिरूपत्वेऽपि तद्विषयस्य ब्रह्मणस्समुद्रादेरिव न विधेयत्वमिति न केनापि प्रकारेण ब्रह्मणश्शास्त्रप्रमाणकत्वं सम्भवतीत्यत्यन्तारम्भणीयो वेदान्तविचार इति मात्राशङ्कानां निराकरोति। तत्तु समन्वयादिति सूत्रेण तदेतदर्थतो विवृणोति - निरातङ्कं पङ्केरुहनयनमङ्के निधिमिव श्रुतिर्ब्रूते रूपं तव निरुपमानन्दममलम्। प्रवर्तन्ते सन्तस्तदिदमवगन्तुञ्च बहुधा क एवान्यात् प्राण्याद्यदि न हि तवानन्दमयिता॥८॥ नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

113 निरातङ्कमिति। तव जगत्कारणतया जिज्ञास्यत्वेन चावगतस्य ते निरुपमानन्दं निस्समानम्। आनन्दात्मकञ्चात्राभ्यधिकशून्यत्वमपि गर्भितम्। यद्वा आनन्देन निस्समत्वं महावदान्य इत्यादौ महत्वं वदान्यत्वादिगुणैवान्वेति अनेनानन्दरूपत्वं आनन्दगुणकत्वं च दर्शितम्। अत एवामलं नित्यनिर्दोषं दुःखसम्भिन्नसुखान्तरवैलक्षण्यं व्यञ्जितम्। एतादृशं रूपं स्वरूपं रूप्यते निरूप्यत इति व्युत्पत्तेः श्रुतिः श्रूयते नित्यमिति व्युत्पत्त्या कादाचित्क पौरुषवाक्यवैलक्षण्यव्यञ्जकतया नित्या संस्पृष्ट भ्रमप्रमादादिदोषगन्धं वेदितव्यं ब्रूते व्यक्तं वक्ति कमिव अङ्के निधिमिव निकटस्थ निक्षेपमिव अनेन भ्रान्तप्रतारकेतरपुरुषप्रयुक्तस्य गृहे निधिरस्तीति वाक्यस्येव परब्रह्मास्तिता बोधका पौरुषेया वेदवाक्यस्यापि प्रवर्तकत्वं विरुद्धमिति सूचितम्। अत एव स्वगृहस्थस्यापि विद्यादेरञ्जनाद्युपायमन्तरेण अनवगतवद्धृदयपुण्डरीक-

मध्यवर्तिनोऽपि परस्य ब्रह्मणो वेदान्तविचारमन्तरेण दुरवगमतया तद्विचारारम्भस्य सकलापि गर्भिता तथा च श्रूयते। तद्यथा हिरण्यनिधिनिहितं क्षेत्रज्ञा उपर्युपरि सञ्चरन्ते च न विन्दन्त्येव मे वेदाः व्रताः आहारमार्गम्। एतं ब्रह्मलोकं न विन्दन्त्यकृतेन वा प्रत्यूदा इति। किं निधेरिवास्याप्युपायदौष्कर्यं पश्चाद्राजतस्कराद्युपद्रवपौष्कल्यञ्चास्ति। नेत्याह। निरातङ्कमित्यादिविशेषणद्वयेन। निरातङ्कं राजवृत्त्याद्युपद्रवरहितम्। पङ्केरुह-

नयनम् - सुगन्धशीतलपुण्डरीकदलामलायतत्ववचनम्। अनेन प्रसादनिर्भरकटाक्षवत् तथा प्रपदनसौलभ्यं दर्शितम्। ततश्चापुरुषार्थकाष्ठलोष्टादिसद्भावबोधकवाक्यस्यैव विज्ञानमानन्दं ब्रह्मेत्यादिषु परमपुरुषार्थभूतानन्दरूपतयाऽवगतब्रह्मास्तिता बोधकवाक्यस्यापि प्रवर्तकत्वं प्रत्यक्षाद्यविरुद्धमित्याह - प्रवर्तन्त इत्यादिना। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

114 विदुरिति श्रुत्यभिहिता ब्रह्मनिष्ठाः ब्रह्मविद्भ्यः परं भूतं न भूतं न भविष्यतीत्युक्तप्रकारेण महर्षिभिरुद्घोषिताः। अनेन मन्दप्रवृत्तिवैलक्षण्यं दर्शितं तदिदं पुरुषार्थभूतनिध्यादितोप्यतिशयित-

मानन्दरूपं तव स्वरूपम्। बहुधा बहुप्रकारेण स्वरूपगुणविभूत्यादिभिरवगन्तुं ज्ञातुं प्रवर्तन्ते। न च प्रेक्षावतामेषां प्रवृत्तिरफलविषयिणी सम्भवतीति सामर्थ्यादपि तत्स्वरूपस्य पुरुषार्थत्वं निश्चीयत इति भावः। वस्तुतस्तु यदि – नन्दवेशादितरेषामानन्दरूपता तस्यानन्दरूपत्वं कैमुतिक-

न्यायावगतमनेकश्रुतिसिद्धं च न केनाप्यविदितुं शक्यमित्याह - क एवान्यादित्यादिना। अननं भोगः, प्राणनमपवर्गः, अन्यान् प्राण्यादिति भोगापवर्गसुखहेतुत्वमुक्तमिति श्रुतप्रकाशिका दर्शनात् तवानन्दमयिता यदि न वा न स्याच्चेते को वास्यैककमामुष्मिकं चानन्दं प्राप्नुयात्। एतस्यैवानन्दस्यान्यानि मात्रामुपजीवन्तीति परमपुरुषमहानन्दसुधासागरतरङ्ग-

शीकरसम्पर्कवशायत्तमितरेषामानन्दवत्वमस्यैवानन्दत्वेन स्यादिति भावः। तथा च श्रूयते

  • को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यादेष ह्येवानन्दयातीति इदमत्र विवक्षितम्। सत्यम्। प्रवृत्तिनिवृत्त्यन्यतरकारणं शास्त्रं नापुरुषार्थभूतत्वाच्छास्त्र पर्यवसायीति ब्रह्म तु परमपुरुषार्थभूतत्वाच्छास्त्रतात्पर्यविषय एव परमपुरुषार्थत्वञ्च तस्यानन्दमयत्वात् तथा च श्रूयते। तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तरात्मा आनन्दमय इति मयट् प्रत्ययस्यात्र प्राचुर्यार्थत्वादानन्दप्राचुर्यं ततोवगम्यते। ततश्च प्रकाशमयो रविरित्यत्र प्रचुरप्रकाशत्वबोधनेन प्रकाशैकरूपत्वं यथा सवितुर्बोध्यते। तददिहाप्या-

नन्दमयशब्देन प्रचुरानन्दत्वमभिदधता आनन्दैकरूपता ब्रह्मणोभिधीयत इत्यानन्द-

मयाधिकरणे विशदमभिधास्यते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

115 तथा च मानान्तरविषया पुरुषार्थवायुक्षेपिष्ठत्वाद्यभिधायकार्थवादवाक्यानां स्वार्थतात्पर्यासम्भवाद्विध्येकवाक्यतायाः प्रामाण्यसम्भवेऽपि मानान्तरगोचरपरमपुरुषार्थ-

भूतपरब्रह्माभिधायिनां वाक्यानां स्वार्थतात्पर्ये बाधकाभावान्न विध्येकवाक्यता कल्पनीया। एवञ्च तव वेश्मनि विधिरस्ति। अरोगः पिता, ते सुखमास्ते, पुत्रस्ते जात इत्यादिवाक्यानां तत्तदर्थबोधनमात्रेणैव पुरुषार्थपर्यवसायित्वदर्शनादेतेषां वाक्यानां तदभाववचने सर्वलोकविरोधात् तद्वन्नित्यनिर्दोषनिरवधिकानन्दस्वरूपानवधिकातिशया-

परिगणनीयकल्याणगुणाकरसर्वात्मकब्रह्मास्तित्वबोधकवाक्यानामपि पुरुषार्थान्वय-

सम्भवात् अभ्यर्हितार्थबोधकवाक्यस्य स्वत एव पुरुषार्थपरत्वेन वाक्यान्तरशेषत्वा-

योगात्। प्रत्युत ब्रह्मप्राप्तिसाधकवस्तुबोधकानां ध्यानविधीनां परमपुरुषार्थब्रह्मान्वयोप-

जीवनेनैव प्रमाणतया ब्रह्मपरवाक्यशेषताद्या एव स्वरसत्वात् प्रथमश्लोकोक्तरीत्या प्रमिति विशिष्टवेषेण ब्रह्मणोऽपि भाव्यकोट्यन्तर्भावसम्भवेन तत्परवाक्यानां कथञ्चिदुपासनाविध्येकवाक्यत्वं कल्पनेऽपि स्वर्गाद्यर्थवादात्स्वर्गासिद्धिवत् ब्रह्मसिध्य-

विघातादुपासनाविध्यन्वयरहित सद्विद्यापुरुषसूक्तादिवाक्यानां ब्रह्मपरत्वेनैव प्रामाण्याच्च। परमप्रयोजनभूते ब्रह्मणि सम्यग्वेदान्तवाक्यानां विश्रान्तत्वात् ब्रह्मणश्शास्त्र-

योनित्वमत्र निर्वादमिति यत्त्वेवं घटसद्भावे सिद्धपरवाक्यप्रमाण्योपपादकस्यास्य सूत्रस्यान्तर्यम्, सिद्धव्युत्पत्तिसमर्थनेन तदुपपादकान्यसूत्रानन्तर्यन्दुर्वारम्। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

116 जन्मादिशास्त्रयोनिसूत्रयोः कारणकवाक्यविषयकयोरेतत्सूत्रानुपयोगितया तदानन्तर्यहेत्वभावादिति नवीनोक्तम्। तत्र श्रुतप्रकाशिकायामेव सूत्रक्रमोपपादक-

हेत्वभिधानेन निरस्तमित्यपेक्षणीयम्। इत्थं हि श्रुतप्रकाशिका दृश्यते - यथा मृत्तिकायाः घटनिष्पादनशक्तित्वेऽपि कुलालस्य तन्निर्माणाशक्तौ सत्यामपि दण्डचक्रादिपरिकरापेक्षास्त्येव तथा शब्दस्य परिनिष्पन्नत्व ह्यप्रतिपादनशक्तत्वेऽपि ब्रह्मणोऽपि शब्देन प्रतिपत्तुं शक्यत्वेऽपि बुभुत्साख्यपरिकरापेक्षा प्रमित्युत्पादने स्वस्यैव यत्नसाध्यत्वात् बुभुत्सापेक्षिता। सा चाज्ञातत्वपुरुषार्थत्वप्रयुक्तं तत्रावान्तरपेटिकारूपेण प्रथमेन सूत्रद्वयेन शब्दद्वारक-

मर्थद्वारकञ्च शक्तिमत्वं प्रतिपादितम्। अथ सूत्रद्वयानन्तरमवान्तरपेटिकान्तरं बुभुत्साख्यहेतुरूपणपरम्। तत्र प्रथमेन तृतीयेण सूत्रेणाज्ञातत्वरूपो बुभुत्साहेतुरुक्तेः। अथ प्रयोजनत्वरूपो बुभुत्साहेतुरुच्यते। चतुर्थे अर्थे प्रतिपन्ने हि प्रयोजनत्वा-

प्रयोजनत्वचिन्ताप्रतिपन्नलक्षण इति सूत्रं द्वितीयमभूत्। जन्मादिकं लक्षणं जन्मनान्तराच्छिद्धिस्यादिति शङ्काया निस्सङ्गतत्वात् शास्त्रयोनित्वादिति सूत्रं तृतीयमभूत्। अज्ञातेप्यप्रयोजने बुभुत्सानुदयात् प्रयोजनरूपत्वमत्र निरूप्यत इति क्रमो यमेवेति। किञ्च तत्तु समन्वयादिति पूर्वसूत्रोक्तं शास्त्रयोनित्वं तच्छब्देन परामृश्य तदुपपादकतया समन्वयस्य हेतुत्वं बोधयतोऽस्य सूत्रस्य प्रथमसूत्रानन्तर्यशङ्का कथमिव कस्याविधीयमधिरोहेत्। न हि प्रथमसूत्रे शास्त्रयोनित्वं कण्ठोक्तम्, येन तच्छब्देन तत् परामृश्येत, यत्तु तच्छब्देन ब्रह्मैव परामृश्यते। शास्त्रयोनिवदमनुषज्ये भावप्रत्ययवैधुर्येण प्रथमान्ततया नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

117 विपरिणमय्य समन्वयस्तत्र तयोपादीयत इति व्याख्यानं तन्न, पूर्वसूत्रेण ब्रह्मणस्स्वशब्देनानुपात्तस्यात्र तच्छब्देन निर्देशायोगात्। अनुषङ्गेण विपरिणामादिकमिव अन्तरेणैवोपपत्तौ तत्कल्पनायोगाच्च। यदपि समन्वयशब्दस्य वक्ष्यमाणतात्पर्यलिङ्गपरत्वमपहाय पुरुषार्थतया शास्त्रप्रतिपाद्यत्वपरत्व-

मयुक्तमिति दूषणन्तन्न। उपक्रमादितात्पर्यलिह्गानां षण्णां मध्ये आख्यानादितात्पर्यलिङ्गानां सामान्य-

विचारानपापयिकानां शास्त्रारम्भसमर्थनानन्तरं एकैकवाक्याविचारसमर्थनमात्रविश्रान्त-

तयाऽऽनन्दमयोभ्यासादन्तरह्युपपत्तेरित्यादिषु वक्ष्यमाणत्वादिह सामान्यविचारमात्रा-

रम्भौपयिकयोरपूर्वफलवत्वरूपयोरवश्यवक्तव्ये सति पूर्वाधिकरणे मानान्तराविषयत्व-

लक्षणापूर्वत्वे समर्थिते सत्यनन्तरस्य फलवत्वलक्षणतात्पर्यलिङ्गस्यात्रैव वक्तव्यतया-

वसरप्राप्तस्य तस्यैव निर्धारितविशेषरूपस्य समन्वयशब्देनाभिधानसम्भवे अनिर्धारित-

तात्पर्यलिङ्गसामान्यपरतायायुक्तत्वात्। आग्नेयं चतुर्धा करोतीत्यत्र हि निर्धारितसम्बन्धविशेषावबोधकदेवतातद्धिता-

न्तत्वसम्भवे अनिर्धारितसम्बन्धसामस्यार्थकतद्धितान्तत्वमाग्नेयशब्दस्य युक्तमिति हि तान्त्रिकाः। किञ्च, समन्वयशब्दस्योपक्रमादितात्पर्यलिङ्गपरत्वे तेषां बहुत्वाद्दहर उत्तरेभ्य इतिवत् समन्वयेभ्य इति बहुवचनान्तता स्यात्। न च जन्मादीत्यत्रैव समुदायाभिप्रायकमेकवचनं शङ्कितुं शक्यन्तत्र समुदायलक्षणत्वलाभवदिह प्रयोजनाभावेन तथा निर्देशवैयर्थ्यात्। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

118 न हि तात्पर्यलिङ्गसमुदायः हेतुताकल्पकं किञ्चिदुपलभ्यते। येन जन्मादिषु व्यावृत्त्या प्रसिद्धेरिहोपक्रमादिष्वपि तत् बहिस्समुदायहेतुतां कल्पयेम। न चोपक्रमादिसमुदाय एव सर्वत्र हेतुरिति न च शक्यम्। अभ्यासादिमात्रस्यापि तत्र तत्र हेतुत्वाभिधानात् सर्वत्र सर्वेषामसम्भवाच्चेति यत् किञ्चिदेतत्। यत्तु अस्मिन् सूत्रे तच्छब्दस्य शास्त्रयोनित्वपरामर्शत्वे उत्तराधिकरणेषु ब्रह्मवाचकपदान्तराध्याहारप्रसङ्गः स्यादिति दूषणन्तदपि न। यतो वेत्यत्र कारणवाक्यप्रतिपन्नवस्त्वनुवादेन ब्रह्मत्वं विधीयत इत्युक्तौ ब्रह्मव्यतिरिक्तचिदचिन्मात्रपराणां कारणवाक्यानां कथं पुरोवादित्वं भिन्नविषय-

त्वादित्याशङ्कायां तेषामतद्विषयत्वप्रतिपादनप्रवृत्तेषूत्तरसूत्रेषु परब्रह्मसाधारणतत्तात्पर्य-

लिङ्गैस्तत्परत्वस्यैव कण्ठतः प्रतिपाद्यत्वेन तत्र परब्रह्मपरतायाः आर्थिकत्वेन तदर्थमध्याहारप्रसङ्गाभावात्। न चैवमयोगव्यवच्छेदार्थत्वमस्य पादस्य न स्यादिति वाच्यम्। फलतो योगव्यवच्छेदपरत्वे बाधकाभावात्। तथाहि विविधो हि अन्ययोगः अन्यत्रैव योगः अन्यत्रापि योग इति आद्यो सम्भवपर्यन्तः। न च शास्त्रतो नित्यरूपहेत्व-

सिद्धिशङ्कापादकतया प्रथमं व्यावर्तनीय इति स एवास्मिन् पादे व्यवच्छिद्यते। द्वितीयस्तु, नासम्भवपर्यन्तः प्रथमपादोक्तन्यायकल्पपेन नित्यत्वस्य सद्विद्यादेः ब्रह्मपरत्वस्याविचार्यतया तेन तत्सिद्धेः निष्प्रत्यूहत्वात्, किन्तु परब्रह्मसाधारणलिङ्गैः ब्रह्मणैव चिदचिदसाधारणलिङ्गैः ततोऽपि केषुचिद्वेदान्तवाक्येषु प्रतिपाद्यत्वमस्तीत्यन्यत्र सम्भवमात्रपर्यन्तस्य च शास्त्रयोनित्वरूपहेतोरन्यत्रापि वृत्तित्वापादकतया व्यभिचार-

सम्पादक इति स एव द्वितीयादिपादेषु व्यवच्छिद्यते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

119 एवञ्च व्रीहीनवहन्तीत्यश्वाभिधानीमाधत्ते इत्यादेः फलतो नियमपरसंख्या-

विधित्ववदिहापि प्रथमपादस्य फलतो योगव्यवच्छेदपरत्वं युक्तमेवेत्यन्यत्र विस्तरः। तस्मान्न मत्पक्षे अध्याहारप्रसङ्गः। वस्तुतस्तु ईक्षतेर्नाशब्दम्, नेतरोनुपपत्तिः, भेदव्यपदेशाच्चान्यः इत्यादौ प्रधानान्यत्वजीवान्यत्वादिलक्षणसाध्यान्तरनिर्देशदर्शनेन तेनैव निराकाङ्क्षतया तत्र तच्छब्दानुवृत्तिकल्पनाक्लेशो व्यर्थः। आनन्दमयोभ्यासादित्यादौ श्रुतानामानन्दमयादिपदानां पुल्लिङ्गान्तानां नपुंसकान्त तच्छब्दसामानाधिकरण्यासम्भवेन असकृस्यापि तस्यान्वयदौर्घट्याच्च। तत्रानुगुणशब्दान्तराद्याहारे तु तद्वदेवान्यत्रापि स्यादिति कृतमनुषङ्गकल्पनेन। अत एव श्रीमद्भाष्ये आनन्दमयः परमात्मेत्यादिरेव सर्वत्र व्यवहारः सङ्क्षेपः। इयं चतुस्सूत्री शास्त्रानारम्भहेतुचतुष्टयनिराकरणमुखेन शास्त्रारम्भौपयिकतयाऽऽरम्भणपेठिकेत्युच्यते। यथोक्तं सुदर्शने – व्युत्पत्त्यभावः प्रतिपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम्। एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि॥ इति। अत्र जन्माद्यधिकरणे शास्त्रयोन्यधिकरणे च ब्रह्मण एव विचार्यत्वादुपोद्घातत्व-

मयुक्तञ्चतुस्सूत्र्या इति केषाञ्चिदाशङ्का त्वतिमन्दाब्रह्मविषयकत्वेपि अनारम्भहेतु-

निराकरणपरतया तयोरप्यधिकरणयोरुपोद्घातत्वाव्याघातात्। शास्त्रसामान्यगोचरविचारात्मिकायाश्चतुस्सूत्र्योः प्रत्येकवाक्यविश्रान्ततया करिष्य-

माणविचारं प्रततिपादितोपोद्घातत्वावश्यम्भावाच्च। अन्यथा क्वापि कस्याप्युपोद्घातत्वं न नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

120 स्यात्। परमतेति पञ्चाधिकरण्या अपि ब्रह्मविषयत्वेनोपोद्घातव्यायोगाच्च। तत्रापि सामान्यतत्समन्वयस्य व्यकरणे प्रतिपादनात्।

समन्वयविशेषाप्रतिपादनादेव ह्युपोद्घातत्वं तत्र परैरिष्यते तदुक्तम्।

पञ्चाधिकरण्या समन्वयविशेषाप्रतिपादकत्वेनाध्यायान्तर्भावासम्भवेपीत्यादिना। तथा च

लक्षणप्रमाणनिरूपणमुखेन करिष्यमाणविचारविषयब्रह्मसिध्यौपयिकयोः जन्माद्यधि-

करणशास्त्रयोन्यधिकरणयोरपि जिज्ञासा समन्वयाधिकरणयोरिव शास्त्रारम्भोपोद्घातत्वं

दुर्वादत्वमिति धिक्॥

इत्थं प्रथमसूत्रेणोद्दिष्टस्य द्वितीयसूत्रेण लक्षणतः प्रतिपन्नस्य परीक्षणीयस्य परस्य

ब्रह्मणः परीक्षापरिकरबोधिबुभुत्साजनकतया मानान्तराज्ञातत्वसाफल्याभ्यां शास्त्रं

योन्यधिकरणसमन्वयाद्यधिकरणप्रतिपादिताभ्याम् उपपादितेन अपूर्वत्वफलवत्त्वलक्षण-

तात्पर्यलिङ्गद्वयेन वेदान्तानां ब्रह्मणि प्रामाण्येन परिकरे निरूपिते तस्य प्रक्षीय

परीक्षार्थत्वादितः परं प्रमेयस्य ब्रह्मणः चिदचिद्विलक्षणं स्वरूपं शोध्यते।

तत्र पञ्चमाधिकरणे अचिद्वैलक्षण्यं प्रतिपाद्यते। ईक्षतेर्नाशब्दमित्यादिभिरष्टभिः

सूत्रैः तामिमामष्टसूत्रीवैशद्याय श्लोकेन चतुष्टयेन विवृणोति - अचिन्त्यस्त्व-

म्भामीत्यादिना।

यदुक्तं परमपुरुषार्थबोधपरं ब्रह्मैव वेदान्तवेद्यमिति तदयुक्तम्। सर्ववेदान्त-

सारभूतस्सद्विद्यायां अचितः प्रधानस्यैव जगत्कारणत्वावगमात्, तथाहि सदेव सोम्येदमग्र

आसीदेकमेवाद्वितीयमित्यपरोक्षनिर्देशार्हतयेदं शब्दनिर्दिष्टस्याचितः प्रत्यक्षादिप्रमाण-

प्रतिपन्नस्थूलावस्थाप्रमाणेनैकतामापन्नस्य गुणवैषम्यावस्थाप्रमाणेन कार्यान्तर शून्यतया

द्वितीयशब्दितस्य सूक्ष्मावस्थापन्नस्य प्रधानस्यैव प्रलयसमयावस्थितत्वं प्रतिपाद्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

121

न परस्य ब्रह्मणः तस्य परमपुरुषार्थस्य रूपस्य निरस्तसमस्तहेयगन्धस्य

अपुरुषार्थहेयास्पदप्रपञ्चतादात्म्यानुपपत्त्या सच्छब्देदं शब्दसामानाधिकरण्यप्रतीति-

विरोधेन तद्वाक्यविषयत्वायोगात्। कार्यकारणयोस्सालक्षण्यस्य मृद्घटादौ दर्शनादिहापि

गुणत्रयमयस्य प्रपञ्चस्य तथाविधप्रधानोपादानकत्वौचित्याच्च। उपादानमेव सूत्रप्रति-

पाद्यमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्।

न हि निमित्तकारणज्ञानात् कार्यज्ञानं क्वचिद्दृश्यते। दण्डादिज्ञानेऽपि

घटाद्यज्ञानानवदधीनस्थितिकत्वात्तद्ज्ञानेन तद्ज्ञानं सम्भवीति नेह दशाधीनस्थिति-

मतोधिकस्य स्नेहादिज्ञानेप्यज्ञानात्, न च प्राधान्यादज्ञाने तदन्यत्सर्वं ज्ञानप्रायमित्यर्थो

युक्तः।

ज्ञातशब्दमुख्यार्थः भङ्गप्रसङ्गात्। सर्वत्रापि मृद्घटादिदृष्टान्तनैघ٢ाच्चेत्यादि

प्रकृत्यधिकरणे वक्ष्यते। तेजोवह्न्याद्याकारेण परिणामित्वोत्तरवाक्येषु वक्ष्यमाणः प्रधान

एव स्वरसः न ब्रह्मणि चेतन्याच्चेतनाकारपरिणामायोगात् तस्मात्प्रधानमेवं

सद्विद्यावेद्यन्तथैव गुणसाम्यावस्थापन्नस्य तमश्शब्दितस्य प्रधानस्यैव प्रळयसमयाव-

स्थितत्वमन्यत्रोच्यते।

तम आसीत् तमसा गूढमग्रे प्रकेतं तमो वा इदमेक आसीदित्यादौ ब्रह्म वा

इदमग्र आसीदात्मा वा इदमेकमेवाग्र आसीदित्यादौ ब्रह्मात्मादिशब्दा अपि कार्यात्मना

बृहत्वमाप्तिञ्च पुरस्कृत्य तत्रैव वर्तन्ते।

दृष्टश्च प्रयोगो ब्रह्मात्मादिशब्दानामन्यत्राप्यचेतने। मम योनिर्महत् ब्रह्म

मृदात्मिको घट इत्यादौ तस्मात्प्रधानस्यैव कारणत्वं वेदान्तवाक्यस्वरससिद्धं ब्रह्मण

इतीमां शङ्कां परिहरति प्रथमश्लोकेन।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

122

तस्यायमर्थः - त्वद्भूमाः तवापहतपाप्मनोऽवाप्तसमस्तकामस्य ते भूमा बहुत्वम्

ततोऽभिन्नादिरूपतया बहुस्यां प्रजायेयेति सङ्कल्पितोऽस्तीति भावः।

अचिन्त्यपि बाह्यदृष्टिभिः कुतर्ककुहनाशबलित बुद्धिभिर्दुर्ज्ञेयः। किन्तु भेदाभेद-

घटकश्रुतिहृदयाभिज्ञैः प्राज्ञैरेव विज्ञेय इत्यर्थः। तदेव विशदयति नन्वित्यादिना। अवाप्त-

समस्तकामस्य तन्न विविधविचित्रजगसृष्ट्यात्मप्रयोजनाय, किन्तु कर्मानुष्ठानगुरूपसदनं

शास्त्राध्ययनाद्युपयोगि तत्तत्पुरुषोचितकरणकलेबरादिनिष्पादनेन चेतनोज्जीवनायेति

दर्शयति वरदेति सम्बोधनम्। यथाहुराचार्यपादाः –

अचिदविशिष्टान् प्रलये जन्तूनवलोक्य जात निर्वेदाः।

करणकलेबरयोगं वितरसि वृषशैलनाथकरुणे त्वम्॥ इति।

इदं प्रत्यक्षाद्यवगताचिन्त्यविविधविचित्ररचनं जगच्चराचरं सृष्ट्वा प्रवेष्टुं नियमना-

द्युपयुक्तसार्वज्ञाद्यपरित्यागेन राज्ञस्सभादाविव जनिष्यमाण तेजोम्भः प्रभृतिष्वन्तर्यामि-

तयाऽवस्थातुं तत्फलतया तेजोम्भः प्रभृतीनां तेजोभिन्नानां परिणामं पूर्वस्मात्

पूर्वस्मादुत्तरोत्तरस्यावस्थान्तरापत्तिरूपं कार्यत्वञ्च घटयितुं अनल्पबहुतरकार्यारम्भार्थतया

महान्तं सङ्कल्पं मनोव्यापारात्मकमभिद्यानं करोषि।

कलिः कामधेनुः सृष्टिः प्रवेशार्थाप्रवेशनं च परिणामार्थमिति सूचनाय

निमित्तत्वोपादानत्वोभयलाभाय च तत्सृष्ट्वा तदेवानु प्राविशत् तदनु प्रविश्य

सच्चद्यच्चाभवदिति श्रुत्यनुसारेण द्विधा सृष्टिर्निर्दिष्टा।

यद्वा बहुस्यामिति चिदचिन्मिश्रव्यष्टिसृष्टिमभिधाय तदुपयोगिन्या समष्टिसृष्टे-

स्तेजोपन्नादिपरिणामरूपायाः प्रजायेयेति पृथगभिधानात्तदभिप्रायेण सृष्टिद्वयोक्तिर्द्रष्टव्या।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

123

यद्यप्यनुप्रवेशः प्रागवस्थायामपि सिद्धः। तथापि स्थूलावस्यस्तेजोपन्नाद्यन्तर्यामित्वं

प्रागसिद्धमित्यनुप्रवेशस्येदानीन्तनत्वोक्तिः।

ननु कथमस्य निर्विकारस्य तेजसि प्रभृतिपरिणामवत्त्वं तत्राह विकल्पमिति।

प्रधानादेरिति प्रधानस्य गुणवैषम्यव्यवस्थापन्नस्यादिह प्राग्रूपं गुणसाम्यावस्थापन्नं

तमश्शब्दितं यद्वस्तु तस्य विकल्पं कल्पनानुगुणत्वमकुर्वद्रूपत्वमिति यावत्।

चलयसि, विघटयसि, कम्पने चलेरिति तत्वाद्घटत्वम् कार्यारम्भोपयोगिनीं

गुणवैषम्यावस्थां कल्पयसीत्यर्थः। तत्परेनेरितं विषमत्वं प्रयातीति श्रुत्युक्तरीत्या

तेजोपन्नादिपरिणामाय प्रेरयसि इत्युक्तं भवति।

तथा च निर्विकारस्यापि तस्य तेजः प्रभृति परिणामस्तत्तद्विकारार्हचिद्वारकत्वान्न

दोषमावहतीति भावः। उपक्रमस्य सामानाधिकरण्यं प्रागुक्तमुद्धर्तुं सच्छब्दस्य

भगवदेकपरत्वमाह। आदौ सदिति, आदौ उपदेशोपक्रमे सदेव सोम्येदमिति श्रुतम्

सदिति पदम्।

तव कारणत्वोपयुक्तसार्वज्ञ्यादिमतः एतदेव सूचयितुं ज्ञानशक्त्यादिनिमित्तक-

भगवच्छब्देन सम्बोधयति। एवकारश्च भिन्नक्रमः तवेत्यनेनान्वेति। ततश्च ओं तत्सदिति

निर्देशो ब्रह्मणस्त्रिविधस्स्मृत इति गीतावचनान्निरूपाधिकसत्तारूपप्रवृत्तिनिमित्तसद्भावाच्च,

सच्छब्दस्तवैनाप्रवृत्त्यभिधायीत्यर्थः।

इदमत्र विवक्षितम् - सद्विद्या तावन्न प्रधानपरा। तत्र तदैक्षतबहुस्यां प्रजायेयेति

चेतनधर्मसङ्कल्पश्रवणात्। अत एव सच्छब्दोऽपि परमात्मपर एव। अन्यथाऽत्र तच्छब्देन

प्रागुक्तसच्छब्दार्थं निर्दिश्य तस्य जगत्सृष्ट्यनुगुणसङ्कल्पकीर्तनानुपपत्तेः। न

चोपक्रमगतेदं शब्दसामानाधिकरण्यनिर्देशानुपपत्तिर्दोषः।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

124

सच्छब्दस्य सूक्ष्मावस्थ चिदचिद्विशिष्टब्रह्मपरतया इदं शब्दस्य स्थूलावस्था

तद्विशिष्टब्रह्मपरतया च विशिष्यैके सामानाधिकरण्यविरोधात्। कथमिदमवगम्यत इति

चेदुच्यते - यस्याव्यक्तं शरीरं यस्याक्षरं शरीरमित्यादिना सूक्ष्मावस्थस्य यस्य

तेजश्शरीरमित्यादिना स्थूलावस्थस्य च सर्वस्य वस्तुनः परमात्मशरीरत्वमन्तर्यामि-

ब्राह्मणादौ स्पष्टमवगम्यते।

शरीरवाचिशब्दानां च शरीरिपर्यन्तत्वं ब्राह्मणादिशब्दानां लोकवेदाभ्यामव-

गम्यते। तथा श्वेताश्वतरे किं कारणं ब्रह्म? कुतस्मजाताविति कारणस्वरूपप्रश्ने

भोक्ताभोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतदिति चिदचिद्विशिष्टमेव

कारणमित्युच्यते।

तेन कारणवाक्येषु सर्वेषु कारणवाचिशब्दानां विशिष्टमवगम्यते। बहुस्यामिति

सङ्कल्पेप्यत्रैवानुकूलः। न हि चेतनस्य सतः तेजोपन्नादिबहुरूपता सङ्कल्पस्सदादि-

शब्दानाम् असति विशिष्टपरत्वम् उपपद्यते। किञ्च सोऽयं देवतैक्षत हन्ताहमिमास्तिस्रो

देवता अनेन जीवेनात्वनानुप्रविश्य नामरूपे व्याकरवाणीति नामरूपव्याकरण-

स्वानुप्रवेशसङ्कल्पः स्वेन व्याक्रियमाणयोः नामरूपयोः स्वपर्यन्तत्वायैव अन्यथा

पित्रादिवदनुप्रविश्यैव व्याकरणसम्भवे तदर्थं तदभिधानवैफल्यात्।

ननु अत्र जीवेनात्मनेति जीवात्मन एवानुप्रवेशः श्रूयते। न परमात्मनः व्याकरण-

कर्तृत्वमेव वा परमात्मनः श्रूयते। तत्कथं व्याक्रियमाणयोर्नामरूपयोस्स्वपर्यन्तत्व-

सिद्धिरिति चेदुच्यते - नात्र जीवस्यानुप्रवेशक कर्तृत्वमवगन्तुं शक्यम्। अनुप्रविश्येति

क्त्वाप्रत्ययविरोधात्, स हि सज्जनकर्तृकयोः पूर्वकाल इत्यनुशासनात् क्रियाद्वयस्यैक-

कर्तृकत्वं बोधयन्ननुप्रवेशस्य भिन्नकर्तृकत्वेन कथञ्चिदुपपद्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

125

अथ स्यात् द्विविधं हि कर्तृत्वम्। स्वतन्त्रः कर्तेति सूत्रानुशिष्टं स्वतन्त्रकर्तृत्व-

मेकम्। तत्प्रयोजको हेतुश्चेत्यत्र च शब्दानुकृष्टकर्तृशब्दावबोधितमन्यसापेक्षं प्रयोजक-

त्वापरपर्यायमपरम्। तत्र परमात्मनो व्याकरणे स्वतन्त्रे कर्तृत्वमनुप्रवेशे च प्रयोजक-

कर्तृत्वमादायोपपन्नमत्रापि क्रियाद्वयस्य समानकर्तृकत्वं न ह्येकविधमेव कर्तृत्वं

क्रियाद्वयनिरूपितं क्त्वाप्रत्ययाभिधेयमित्यस्ति नियमः।

याजमानसमाख्यानात् कर्मणि याजमानास्स्युरित्यधिकरणे वत्सञ्चोपावसृज-

त्युखाञ्चाधिश्रयतीत्याद्यनुकीर्त्य एतानि वै द्वादशद्वन्द्वानि दर्शपूर्णमासयोस्तानि सम्पाद्य

यजेतेति श्रुते द्वन्द्वतासम्पादने यजमानः कर्ता उत अध्वर्युरिति संशये याजमानाख्यकाण्डे

समाम्नानात्समाख्यया यजमान एव कर्तेति पूर्वपक्षं प्रापय्य अध्वर्युकाण्डे

वत्समुपावस्सृजति उखामधिश्रयतीत्यादिभिः प्रत्येकविधिभिर्विहितानामत एवाध्वर्यव-

समाख्याध्वर्यवत्वेन निज्ञति कर्तृकानामेव सतां वत्सोपसर्जनादीनां कर्मणां

द्वन्द्वतासम्पादनमात्रमत्र श्रूयते न वा तत्र याजमानत्व सम्भवति। अन्येन क्रियमाणनाम्

अन्येन द्वन्ज्वसम्पादनस्याशक्यत्वात्। अतस्तदप्याध्वर्यवमेवेति सिद्धान्तयितत्वात्।

ननु तर्ह्येतानि वै द्वादशद्वन्द्वानि दर्शपूर्णमासयोस्तानि सम्पादकं यजेतेत्यत्र

क्त्वाप्रत्ययं भिन्नहितमात्मनेपदसमानकर्तृकत्वं कथमुपपद्यतामित्याशङ्क्य आध्वर्यवेऽपि

द्वन्द्वतासम्पादने यजमानस्य प्रयोजककर्तृत्वेनापि क्त्वाप्रत्ययाभिहित समानकर्तृक-

त्वोपपत्तेर्न तद्बलाद्यजमानमङ्गीकर्तव्यमित्युक्तत्वेन तथाविध नियमस्यैवासिद्धेः।

तथा च यागे स्वतन्त्रकर्तृत्वं द्वन्द्वतासम्पादने प्रयोजककर्तृत्वञ्चादाय सम्पाद्येति

समानकर्तृकत्वनिर्देशवदिहापि व्याकरणे स्वतन्त्रकर्तृत्वेनानुप्रवेशने प्रयोजकत्वेन

चानुप्रविश्येति निर्देशोपपत्तेर्न तद्बलात् परात्मनोनुप्रवेशस्सिध्यति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

126

न चोपपद्यते, समभिव्याहृतपदान्तरवैयर्थ्यात्। तथाहि अनुप्रवेशस्य

परमात्मकर्तृत्वपक्षे अनेन जीवेनात्मनेति तृतीया किं सहार्थे किं वा करणत्वे उत

कर्तृत्वेनाद्यः। कारकविभक्तिसम्भवे पदान्तरसम्बन्धनिमित्तकतया दुर्बला या उपपद-

विभक्तेरयुक्तत्वात् परमात्मकर्तृके अनुप्रवेशे जीवसहभावोत्कीर्तनस्य सहैव दशभिः

पुत्रैर्भारं वहति गर्दभीत्यादौ पुत्रसहभावकीर्तनविद्यर्थत्वाच्च। अत एवोपलक्षण-

तृतीयापक्षोऽपि न युक्तः। कारकविभक्तिसम्भवे अनुपात्तोपलक्षणक्रियासापेक्ष-

विभक्त्याश्रयणायोगात्।

न द्वितीयः - ब्रह्मकर्तृकयोरनुप्रवेशव्याकरणयोः जीवस्य करणत्वायोगात्।

न तृतीयः - अन्यकर्तृके अन्यस्य कर्तृत्वायोगात्। योगे वा व्याकरणेऽपि तस्य

कर्तृत्वापत्त्याऽपसिद्धान्तात्।

अथ जीवशब्दं तच्छरीरके परमात्मपर्यन्त इत्युच्येत। तथापि तृतीयानुपपत्तिरेव

तिङ्कृत्तद्धितसमासैरनभिहिते कर्तरितृतीयानुशासनमिह च व्याकरवाणीति तिङाभिहिते

कर्तरि तदनुपपत्तेः तस्मात् प्रयोजक कर्तृत्वमेव परमात्मन इति।

अत्रेदं वक्तव्यम् - कथमेवमपि तृतीयोपपत्तिर्भवतामभिमता न तावत् प्रयोज्य-

कर्तरि तृतीयानुप्रविश्येत्यस्यानन्वयायोगात्। न खलु देवदत्तेन पक्त्वा यज्ञदत्तो मा भुङ्क्ष

इति साधुः प्रयोगः। पाचयित्वेति जन्यन्तप्रयोगो हि तत्र साधुः। न चात्र अन्यार्थ-

परताश्रयणेन तृतीयानिर्वाहः। तथा सत्यं ण्यन्ते कर्तुः जीवस्य गतिबुद्धीति सूत्रेण

उच्यन्ते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

127

कर्तृत्वे सति1 कर्मणि द्वितीयेति द्वितीयावश्यम्भावात् तस्मात्प्रयोजकत्वपक्षेऽपि

तृतीयानुपपत्तिस्त्तुत्यैव। वस्तुतस्तु, क्त्वाप्रत्ययसमभिव्याहारस्थले क्रियाद्वयनिरूपित-

मेकरूपकर्तृत्वमौत्सर्गिकम्।

दर्शपूर्णमासयोस्तानि सम्पाद्य यजेतेत्यादौ क्वचिदाध्वर्यवसमाख्या विरोधादयो

सादितमिति नान्यत्रापि विना कारणेन युक्तं त्यक्तुम्। न च समभिव्याहृतपदान्तरानन्वयो

बाधकः सिंहो न भूत्वा बहवो मयात्ता इत्यादावदनक्रियाविशेषणीभूतभवनक्रियाद्वार-

कर्तृभूतदेहविशेषराजसिंहशब्दादिवदत्रापि व्याकरणं क्रियाविशेषणीभूतानुप्रवेशन-

क्रियाद्वार कर्तृवाचिनो जीवशब्दादपि कर्तरि तृतीयासम्भवात् स्वशरीरभूतजीवद्वारा वा

परमात्मनस्तेजोपन्नाद्यनुप्रवेशः।

एतदेव हृदि निधायोक्तं श्रुतदीपे अनुप्रवेशस्य द्वारकर्ता वा स इति न चेदं

द्वारकर्तृत्वं केनाप्यभिहितम्। येन तृतीया न स्यात्, न तावद्व्याकरवाणीति तिङा

तदभिधानं तस्य व्याकरणकर्त्रभिधायित्वेप्यनुप्रवेशेन कर्त्रनभिधायकत्वात्।

न च क्त्वाप्रत्ययेन तदनभिधानं भावाधिकारविहितस्य तस्य कर्तृसामान्यान-

भिधायकत्वात् समानकर्तृकयोः पूर्वकाल इत्यनुशासनमपि वस्तुतस्समानकर्तृकयोः द्वयोः

क्रिययोः पूर्वकाल क्रियावाचिनो धातोः क्त्वाप्रत्ययं विधत्ते।

ननु तस्य कर्तृवाचित्वमवगमयति। यत्तु कर्तरि कृदित्यनुशासनं कृन्मात्रस्य

कर्तृवाचि क्त्वाप्रत्ययस्यापि कृतः कर्तृवाचित्वमवगमयतीति कर्तरि कृदित्यनुशासनं2

सिद्धान्तसिद्धाञ्जनोक्तम्।

  1. T.M. कर्मत्वे सति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

128

तत्तु कर्तरि कृदित्यनुशासनस्यानिर्दिष्टार्थकण्वुलादिसूत्रविषयताव्युत्पादक-

वैयाकरणग्रन्थविरुद्धत्वात् तदुपपादक श्रुतदीपादिग्रन्थानवलोकनमूलकत्वाच्च युक्तमिति

व्यक्तमेव विदुषाम्।

किञ्च भावाधिकारविहितस्य क्त्वाप्रत्ययस्य कथं कर्त्रर्थकत्वम् ? न

चानुशासनसामर्थ्यं तस्यानिर्दिष्टार्थकण्वुलादिविषयकतया सावकाशत्वात्। पत्नीं संयाजां

इतिवदपेक्षित विधिसम्भवे अनपेक्षितविधेरन्यायत्वात्।

मैत्रावरुणः प्रेष्यन्ति चानुवाहेत्युक्तमैत्रावरुणकर्तृकत्वस्य निर्ज्ञाताध्वर्युमात्र-

कर्तृकतया कर्तृनिरपेक्षयोः प्रेषानुवचनयोरन्वयायोगेन कर्तृसापेक्षसमस्तप्रैषानुवचना-

न्वयवदिहापि अनिर्दिष्टार्थकतयाऽर्थं विशेषसहकाङ्क्षण्वुलादिकृदन्वयेन निराकाह्क्षस्य

कर्तरि कृदित्यस्य निर्णीतार्थकनिराकाङ्क्षक्त्वाप्रत्ययान्वयायोगात्, उपांशु यजुषा

उच्चैर्निगदेनेत्यत्रैव सामान्यस्य विशेषव्यतिरिक्तविषयता नैयत्याच्च।

अन्यथा तव्यतादिष्वपि कर्त्रर्थकत्वापत्तेश्च। यत्त्वेवं फलितयोरेव कृत्युक्त अर्थ

इति प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च इहापि तथात्वं स्यादिति सिद्धान्तसिद्धाञ्जनोक्तम्।

तत्रेदं वक्तव्यम् - पदे जुहोति, आहवनीये जुहोति, ब्राह्मणेभ्यो दधि दीयतां, तक्रं

कौण्डिन्यायेत्यादौ लोकवेदयोर्यत्र सामान्यविशेषशब्दसमभिव्याहारः।

तत्र विशेषानर्थक्यपरिहाराय विशेषानाक्रान्तविषयत्वं सामान्यस्य व्यवस्थाप्यते।

यत्र तु द्वयोरपि विशेषयोः सामान्ययोर्वा श्रवणं यथा बृहत् पृष्टं भवति रथन्तरं पृष्टं

भवतीति व्रीहिभिर्यजेत, यवैर्यजेत, समे यजेत, वसन्ते यजेतेत्यादौ तत्राविरोधे

समुच्चयः।

  1. T.M. कर्तरि कृदित्यनुशासनं इति पाठो नास्ति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

129

विरोधे तु विकल्प इति सर्वसम्मतः पन्थाः। तथा च कृत्यत्वेनैकरूप्येणार्थ-

द्वयनिर्देशे सति चाविरोधे सामान्यविशेष्यभावे चासतियुक्तमुभयार्थत्वं कृत्यानाम-

ङ्गीकर्तुमिह तु कृदिति, त्वेति च सामान्यविशेषरूपाश्रयणेन उत्सर्गापवादरूपयोः

कर्तृभावाधिकारयोरेकविषयत्वायोगाद्युगपदनुपसंहारणीयतया विरुद्धत्वाच्च न क्त्वा-

प्रत्ययस्योभयार्थत्वं युक्तमाश्रयितुम्।

तथा सति सिंहो न भूत्वा बहवो मयात्ताः व्याघ्रेण भूत्वा बहवो मयात्ताः

इत्यादिपरश्शतप्रयोगविरोधापत्तेः क्त्वाप्रत्ययस्य भावमात्रार्थकत्वपरकैयटादिग्रन्थ-

विरोधापत्तेः चेत्यास्तां तावत् तत्सर्वमभिसन्धायोक्तम्।

श्रुतदीपे – कर्तरि कृदिति कृत्प्रत्ययानां कर्तरिविहितत्वात् कृत्संज्ञिकः क्त्वा-

प्रत्ययः कर्त्रभिधायी चेत् अर्थान्तरेष्वनभिहितानामेव कृत्प्रत्ययानां कर्त्रर्थत्वं

नत्वर्थान्तरविहितानां तव्यदादीनां कर्माद्यर्थे विहितत्वात् अयन्तु क्त्वाप्रत्ययो भावे

विहितः तथाधिकारात् प्रातिपदिकर्थमात्रे प्रथमाविभक्तिः तथा धात्वर्थमात्रविहितो यः

प्रत्ययः सभावार्थः अयन्तु क्त्वाप्रत्ययो भावे विहित1 इति न कर्त्रभिधायीति नन्वेवमपि

तृतीया न युक्तैव।

तथाहि एतत्पक्षे जीवेनात्मनेति शब्दौ किं जीवात्ममात्रपरौ किं वा तच्छरीरक-

परमात्मपरौ आद्येऽनुप्रविश्येति क्त्वाप्रत्ययानुपपत्तिः समानकर्तृकयोः पूर्वकाल इति

पूर्वापरकालवतो क्रियाद्वयस्यैककर्तृकत्वमुपजीव्य पूर्वकालवतो क्रियावाचिनो धातोः

क्त्वाप्रत्ययविधानादिह च जीवपरयोरत्यन्तभिन्नयोरनुप्रवेशनव्याकक्रियाद्वयकर्तृत्वे

तदयोगात् द्वितीये तु यद्यपि शरीरवाचिशब्दानां शरीरिणि मुख्यत्वात् सिंहो न भूत्वा

  1. D.M. अयन्तु क्त्वाप्रत्ययो॰॰॰ भावे विहित इति पाठः नास्ति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

130

बहवो मयात्ता इत्यादौ सिंहशरीरकेण मयेत्यर्थलाभवत् जीवेनात्मनेत्यस्य जीवशरीरकेण

मयेत्यर्थलाभात् व्याकरणानुप्रवेशयोर्द्वयोरपि परमात्मन एव कर्तृकत्वात् समानकर्तृक-

योरिति विहितः क्त्वाप्रत्ययः उपपद्यते। तथापि तस्य कर्तृव्याकरवाणीति

तिङाऽभिहितत्वात् अनभिहिताधिकारविहित तृतीया कर्तरि नोपपद्यते।

अनभिहित इति नायं प्रसज्यप्रतिषेधः तथा सति प्रासादे आस्ते इत्यादौ

सदेरधिकरणे व्युत्पन्नेन घञा कृत्प्रत्ययेनाभिहितेऽधिकरणे सप्तम्यनुत्पत्तिप्रसङ्गात्।

किन्तु पर्युदासः तथा च सदि क्रियानिरूपिताधिकरणकारकशक्तेर्घञाऽभि-

धानेप्याशि-क्रियानिरूपिताधिकरणकारकशक्तिमनभिहितामादाय सप्तम्युपपद्यते।

तदुक्तं हि – लोककृता न वान्येतरेणानभिधानादिति। इत्थञ्च जीवेना-

त्मनेत्युच्यते। यद्यप्यत्र द्वयोः क्रिययोः परमात्मैव कर्ता यद्यपि चासौ व्याकरवाणीति

तिङाभिहितः तथापि न तृतीयानुपपत्तिः।

तथाहि न तावत्कारकशक्त्याश्रयद्रव्याभिधानानभिधानाभ्यां कारकविभक्तीनां

अनुत्पत्तिरुत्पत्तिर्वा तथा सति प्रासादे आस्ते, आसने शेत इत्यादौ सीदत्यादेरधि-

करणेप्युत्पन्नेन घञा सदि क्रियाधिकरणस्याभिहिततया तदभिन्ने आसिक्रियाधिकरणेऽपि

सप्तम्यनुत्पत्तिप्रसङ्गात्।

किन्तु कारकशक्त्यभिधानानभिधानाभ्यामेव विभक्त्यनुत्पत्त्युत्पत्तिवाच्ये कारक-

शक्तिश्च द्रव्यैक्येऽपि क्रियाभेदाद्भिद्यत इति प्रासाद आस्तेत्यादौ सीदत्याद्युत्तरवर्ति-

घञादिप्रत्ययेन सदिक्रियानिरूपिताधिकरणशक्तेरभिहितत्वेऽपि आस्यादिधातूपात्तोप-

वेशनादिक्रियानिरूपिताधिकरणशक्तेस्तद्भिन्नायाः केनाप्यनभिधानात् सप्तमीविभक्ति-

रुपपन्ना। इदमेवाभिसन्धायोक्तं वार्तिककारेण – न ह्यन्यतरेणानभिधानादिति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

131

अस्य चायमभिप्रायः - यद्यपि प्रासाद आस्त इत्यत्र सदि क्रियायाः आशि-

क्रियायाश्चैकमधिकरणं प्रासादाख्यं तच्च सदि-धातूत्तरवतो प्रत्ययेनाभिहितम्।

प्रसीदन्त्यस्मिन्निति प्रासाद इति व्युत्पत्तेः, तथाऽपि क्रियाद्वयनिरूपितकारकशक्त्योरे-

काधिकरणवृत्त्योरपि विलक्षणत्वात्तदनभिधानस्यैव च विभक्तिप्रयोजकत्वादिह च सदि-

क्रियाकारकशक्तेस्तदुत्तरघङाऽभिहितेपि आशुक्रियाकारकशक्तिमनभिहितामादाय

सप्तम्युपपन्नेति।

उक्तञ्च भाष्ये - किं पुनर्द्रव्यं साधनमाहोस्विद्गुणः किञ्चातः यदि द्रव्यं साधनं

नयतदन्यद्भवत्यभिहितात्। यदिगुणस्साधनं भवत्येतदन्यदभिहितात्। अन्यो हि सदि-

गुणः अन्यश्चासिगुणः इति।

आह च कैयटः - यदि द्रव्यं साधनं तदा तदेकमेव तच्चाभिहितमित्यन्य-

तरेणानभिधानमिति पूर्वोक्तपरिहारो नोपपद्यते। अथ शक्तिस्साधनम्, तदा

तस्याऽभेदादभिहितत्वानभिहितत्वे सम्भवाद्भवति समाधिकमिति मन्वानस्य प्रश्नः

आश्रितत्वाच्छक्तिरेवात्र गुणशब्देन विवक्षिता। अत एव पृच्छति किं पुनरिति। गुण

इत्याहेति।

अयं भावः - यदि द्रव्यं साधनं स्यात् तदा तस्यैकरूपत्वात्तन्निबन्धेनाबाधित-

प्रत्यभिज्ञाविषयत्वान्नानार्थक्रियाकरणनिबन्धनोप्युपदेशो न स्यात्।

दृश्यते चासाविति नानाशक्तिसद्भावावगमस्सिद्ध इति। तथा चेहापि यद्यप्यनु-

प्रवेशव्याकरणयोरेक एव कर्ता, तथाऽपि तत्तत्क्रियानिरूपितयोः तदाश्रितकर्तृकारक-

शक्त्योर्विलक्षणत्वाद्व्याकरवाणीति तिङा व्याकरणक्रियाकर्तृशक्त्यभिधानेऽपि

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

132

अनुप्रवेशनक्रियाकर्तृशक्तेः प्रागुक्तरीत्या केनाप्यनभिहितत्वादनभिहिताधिकारविहिताऽपि

तृतीया भवत्येव।

अथ स्यान्नात्रानुप्रवेशनक्रियाकर्तृशक्तेरनभिधानमाश्रित्य कर्तरि तृतीया कल्पयितुं

शक्या। प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवत् प्रकाशत इति न्यायेन

प्रधानभूतव्याकरणक्रियाकर्तृशक्त्यभिधाने गुणभूतानुप्रवेशनक्रियाकर्तृशक्तेरनभिधाने

व्यभिहितवत् प्रकाशनात्।

अत एव स्वादुमिणमुलिति सूत्रे कैयटेन क्त्वाप्रत्ययस्य भावार्थकत्वात् पक्त्वोदनं

भुङ्क्ते देवदत्तः पक्त्वौदनं भुज्यते देवदत्तेनेत्यत्रापि क्त्वाप्रत्ययेन पाकक्रियाकर्तृ-

कर्मणोरनभिहितत्वात् तृतीया द्वितीये कुतो न प्राप्नुत इत्याशङ्क्य, आख्यातपदवाच्या-

क्रियाविशेष्यत्वात्प्रधानमितरद्विशेषणत्वादप्रधानम्।

एतत् क्रियासाधनशक्त्योरप्यस्यैव तद्वारको गुणप्रधानभावः। तत्र

प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवत् प्रकाशते। प्रधानानुरोधित्वात्

गुणानां पृथक् तद्विरुद्धस्वकार्यारम्भायोगाच्चेत्युक्तम्। अन्यथा मया भुक्त्वा व्रजामीति

प्रयोगस्स्यात्। व्रजिक्रियाकर्तृशक्त्यभिधानेऽपि भुजिक्रियाकर्तृशक्तेरनभिधानात् सिंहो न

भूत्वा बहवो मया हता इत्यादौ तु कर्मणि क्त्वान्तेन नात्ता इत्यनेन प्रधानभूतार्थ-

क्रियाकर्मशक्त्यभिधानेऽपि तत्कर्तृशक्त्यनभिधानात् तद्गुणभूतभवनक्रियाकर्तृशक्ते-

रभिहितवद्भावाभावादुपपन्नकर्तरि तृतीयेति।

अत्र ब्रूमः - नायमस्ति नियमः। यत्प्रधानक्रिया कारकशक्त्यभिधाने गुण-क्रिया-

कारकशक्तेरभिहितवत् प्रकाशत इति तथा सतीष्टकाः पक्त्वोदनो भुज्यते ओदनं भुक्त्वा

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

133

शास्त्रं पठ्यत इत्यादाविष्टकौदनादिशब्देभ्योऽपि गुणक्रियाकर्मवाचिभ्यो द्वितीयानुत्पत्ति-

प्रसङ्गात्।

अथायं नियमः क्रियते - प्रधानक्रियाकारकशक्तेरभिधाने तत्समानाधिकरणायाः

गुणक्रियाकारकशक्तेरभिहितवत् प्रकाशनमिति। उदाहृतस्थले च प्रधानाप्रधानक्रिया-

कारकशक्त्यो व्यधिकरणत्वान्नाभिहितवद्भावप्रसङ्ग इत्युपपन्नवत् द्वितीयेति मैवम्।

श्रुत्वाप्यर्थं नानुमतस्तेन सोऽर्थः कुबुद्धिनेत्यादौ प्रधानभूतानुमननक्रियाकर्मशक्तेः

कर्मणि क्तप्रत्ययेनाभिधानात् तत्समानाधिकरणायाः श्रवणक्रिया कर्मशक्तेरप्यभिहित-

वद्भावस्योक्तनियमेनाप्यनिवारणेन तत्र गुणक्रियाकर्मवाचिनोऽर्थशब्दात् द्वितीयानुत्पत्ति-

प्रसङ्गात् कथं तर्हि कैयटग्रन्थस्समर्थनीय इति चेदित्थम्।

यत्तत्प्रधानाप्रधानक्रिययोः कारकसमर्पकमेव पदं यथा पक्त्वौदनं भुङ्क्ते देवदत्तः

पक्त्वौदनो भुज्यते देवदत्तेनेत्यादौ नवान्यतरेणानभिधानादिति वार्तिकस्थलोक्तन्यायेन

प्रासाद आस्त इत्यादौ सप्तमीवदत्र कर्तृकर्मकारकशक्त्योः क्त्वाप्रत्ययेनानभिधानमाश्रित्य

तृतीया द्वितीये कुतो न प्राप्नुत इत्याशङ्क्य न तावदेकं पदं युगपत् क्रियाद्वयकारक-

समर्पणसमर्थं सकृदुच्चरितस्यानेकक्रियान्वयसमर्पणसामर्थ्यात्।

किन्तु भुजि-क्रिययैवान्वयः तत्क्रियानिरूपितकर्तृकर्मकारकशक्त्योः कर्तृ-

कर्मार्थकतिङाभिहितत्वान्न तृतीया द्वितीये स्याताम्। न चात्रान्यतराभिधानन्यायेन

प्रासाद आस्त इत्यादौ घञाद्यभिधानेऽपि तिङाद्यनभिधानमाश्रित्य सप्तमी तत्कर्तृकर्म-

लकाराभ्यां भुजि-क्रियाकर्तृकर्मकारकशक्त्योः अभिधानेऽपि पचिक्रिया-कर्तृ-कर्म-

कारकशक्त्योः भावार्थकक्त्वाप्रत्ययेन कृतानभिधानमाश्रित्य तृतीयाद्वितीययोः

प्रसङ्गश्सङ्क्यः।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

134

तत्र गुणभूतसदि-क्रियाधिकरणकारकशक्तेस्तदुत्तरघञा कृताभिधानेऽपि

प्रधानस्य गुणविरोधिस्वकार्यारम्भसामर्थ्यसम्भवात् प्रधानभूताऽसि क्रियानिरूपिताधि-

करणशक्तेः तदुत्तरभावि तिङादिभिरभिधानमाश्रित्य युक्ता सप्तमी।

इह तु प्रधानभूतभुजिक्रियाकर्तृकर्मशक्त्योः तदुत्तरभावि तिङाभिधानात्

तत्कर्तृकर्मसमर्पकपदाभ्यां नाप्रधानभूतपचिक्रियाकर्तृकर्मशक्त्यनभिधानमाश्रित्य तृतीया

द्वितीये युक्ते गुणस्य प्रधानविरुद्धस्य कार्यारम्भासमर्थ्याद्यत्र तु प्रधानाप्रधानयोर्द्वयोः

क्रिययोः पृथक् कारकसमर्पकमस्ति।

पदद्वयन्तत्र यत्क्रियाप्रतिपादकधातूत्तरवतो तिङाद्यभिधेया यदर्थवृत्तिः कारक-

शक्तिः कस्मात्पदात्तत्क्रियानिरूपितकारकशक्तिप्रयुक्तविभक्त्यनुत्पत्तिर्न पदान्तरात्।

तस्य स्वान्वयक्रियावाचकधातूत्तरतो तिङादिप्रत्ययाभिहित-स्वार्थ(वृत्ति)1निष्ठ-

कारकशक्तिकत्वानुरूपकारकविभक्त्युत्पत्ति - (र्निपदान्तरात् तस्य स्वान्वयक्रियावाचक-

धातूत्तरवर्तितिङादिप्रत्ययाभिहितस्वार्थवृत्तिकारकशक्तिकत्वरूपविभक्त्यनुत्पत्तिप्रयोजक-

शून्यत्ववत्पख्याततथाविधप्रत्ययानभिहितस्वार्थनिष्ठकारकश्क्तिकत्वानुरूपकारकविभक्त्यु-

त्पत्तिप्रयोजकस्यैव सत्वात् तत्र विभक्त्युत्पत्तिर्निर्वारैव)2 - र्निर्बाधैव।

न चात्र गुणस्य स्वकार्यारम्भासामर्थ्यं प्रधानविरोधाभावात् एकत्र पदद्वयोभय-

प्रवृत्तो हि विरोधः। न तु पदभेदेऽपि तत्र सहानवस्थानलक्षणविरोधप्रसक्त्यभावादतः

प्रधानक्रिया न विरुद्धकारकसमर्पकं गुणक्रियान्वितपदं कारकविभक्तिं लभत एवेति,

1 T.M मध्ये एव विद्यते।

2 T.M मध्ये एव विद्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

135

इष्टकाः पक्त्वेत्यादौ गुणक्रियाकर्मसमर्पकेष्टकादिपदात् स्वान्वयपाकादिक्रियावाचक-

पच्यादिधातूत्तरवर्तिकृत्संज्ञिक-क्त्वाप्रत्ययानभिहितस्यार्थवृत्तिकारकशक्तिका भवत्येव।

कारकविभक्तिर्द्वितीयेति न काप्यतिप्रसङ्ग इति एकपदोपात्ते क्रियाकारक-

सम्बन्धेन विभक्तयो वारयन्तीत्यनभिहितसूत्रे वदता कैयटेनाप्यर्थतात्पर्यगत्या सूचितः।

अत एव प्रधानविषया शक्तिः प्रत्ययोऽभिधीयते। यदा गुणस्तदा तद्वनुक्ताऽपि प्रतीयत

इति हरिवचनं प्रधानानुरोधित्वात् गुणानां पृथक् तद्विरुद्धस्वकार्यारम्भायोगादिति

विरुद्धस्थलविषयतया तेनैव व्याक्यातम्।

युक्तञ्चैतत् - अभिधानानभिधानयोश्शब्दव्यापारापेक्षतया प्रधानक्रियाकर्म-

समर्पकतया प्रधानक्रियाकर्मसमर्पकपदात् पदान्तरे तदन्वयानुकूलस्य व्यापारशून्ये

गुणक्रियाकर्मसमर्पकशब्दव्यापारानुबन्धिनोऽभिधाप्रसक्तिगन्धाभावात्।

अत एव पक्त्वौदनो भुज्यत इत्यादावप्योदनपदस्य भुजि-क्रियया शाब्दान्वय-

मादायैव द्वितीयानुत्पत्तिर्हरदत्तेनोच्यते। यथोक्तम् पदमञ्जर्याम् - पक्त्वौदनो भुज्यत

इत्यत्र भुजि प्रत्ययेनाभिहितेप्योदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीया प्राप्नोति।

भावे हि क्त्वाप्रत्यय इति चेन्मैवम्। नात्रोदनस्य युगपदुभाभ्यां शाब्दोन्वयः।

किन्तु भुजि नैव सन्निधानात्तु पचिनान्वय इति अतश्शब्दव्यापारापेक्षया

अभिधानमेवेति द्वितीया न भविष्यतीति च। अत एव यत्र गुणक्रिययैव शाब्दोन्वयः तत्र

द्वितीया भवत्येवेति स्फुटीकृतं मनोरमायाम्। पक्त्वा भुज्यत इत्यादौ पचि भुजिभ्यां न

शाब्दोन्वयः। किन्त्वन्यतरेण शाब्दः परेणार्थः तत्र प्रथमा द्वितीये व्यवस्थिते। तद्यथा

पक्त्वा भुज्यत ओदनः किं पक्त्वा अर्थादोदनं यदा त्वोदनं पक्त्वेति प्रयुज्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

136

एवञ्च विवक्षाभेदेन पूजयितुं शक्यते। हरहरिञ्चेत्युभयं साध्विति

शक्यञ्चाश्वमांसादिनापि क्षुत्प्रतिहन्तुमिति भाष्यमुपादाय क्षुदश्शकिक्रियया सहान्वयादत्र

प्रथमा यदा तु प्रतिहन्तुमित्यनेन शाब्दोन्वयस्तत्र क्षुधमिति भवत्येव द्वितीयेत्येवं परः

कैयटग्रन्थोप्यत्रैव स्वरसः। तस्मात्प्रधानक्रियान्वयिनः तत्समर्पकपदोत्तर तिङाद्यभिहित-

कारकवाचिनः पदादप्रधानक्रियावाचकधातूत्तरवर्तिकृदाद्यनभिधानमाश्रित्य कारक-

विभक्त्योत्पत्तेः उक्तन्यायविरुद्धत्वेऽपि गुणक्रियामात्रान्वयकारकसमर्पकपदात्तदुत्तरकृदा-

द्यनभिधानमादाय कारकविभक्त्युत्पत्तौ न किञ्चित् बाधकमिति श्रुत्याप्यर्थं नानुमतः।

तेन सोऽर्थं कुबुद्धिनेत्यादावभिहितानभिहितक्रियाद्वयनिरूपितकर्मशक्तिद्वयमादाय

प्रथमाद्वितीययोरर्थशब्दात् उत्पत्तिवद्धन्ताहमिमास्तिस्रो देवतानेन जीवेनात्मनानुप्रविश्य

नामरूपे व्याकरवाणीत्यत्रापि प्रधानाप्रधानक्रियाद्वयनिरूपिताभिहितानभिहितकर्तृ-

शक्तिद्वयमादाय अस्मदात्मशब्दाभ्यां प्रथमातृतीययोरुत्पत्तौ न किञ्चित् बाधकमिति

निष्क١कोऽयं घ١ापथः।

एतत्सर्वमभिसन्धायोक्तं व्यासार्यैः - अनुप्रवेशकर्ता तु नाभिहित इति। यत्वेवं

सत्यहं मया भुक्त्वा व्रजामीति साधुः। प्रयोजनस्यापीति सिद्धान्तसिद्धाञ्जनोक्त-

मापादनम्, तन्न। तत्र साधुत्वापादने इष्टापत्तेः प्रयोगापादकमपि न दोषाय,

श्रुत्वाप्यर्थमित्यादिप्रयोगाव्यतिकरात् आरोपे सति निमित्तानुसरणं न तु

निमित्तमस्तीत्यदोष इति न्यायेन निमित्तमस्तीत्येतावता प्रयोगापादनस्यायुक्तत्वाच्च।

साधारण्यात् व्रजिक्रिया कर्तृरुपादाने क्रियाद्वयेन कर्तृकताबोधकक्त्वाप्रत्यय-

सामर्थ्यादेव गुणक्रियायामपि तस्यैव कर्तृत्वसिध्या तदर्थं पदान्तरप्रयोगप्रसङ्गाभावेन

लोके तदप्रयोगस्यान्यथा सिद्धतया तमादायानन्यथासिद्धवैदिकप्रयोगसाधुत्वशङ्का

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

137

सन्धानाच्च। नन्वेवं श्रुतावपि न कर्तरितृतीया प्रयोगो युक्तः। उक्तार्थानामप्रयोग इति

न्यायात्।

आह च भाष्यकारः - अर्थं सम्पत्याय इष्यामीति शब्दः प्रयुज्यते। तत्र

केनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्। उक्तानामप्रयोग इति चेत्

स्यादेवम् - यद्यैवं क्त्वाप्रत्ययः कर्तृवाचि स्यात् सतो भावार्थक इत्यवोचाम। यद्यपि

क्रियाद्वयस्यैककर्तृत्वं बोधयतानुप्रवेशनकर्त्रार्थात् प्रतीयते।

तथापि न तावन्मात्रेण कर्तरितृतीयाया अप्रयोगश्शङ्क्यः। तिङाप्यप्रयोगप्रसङ्गात्

भाष्यन्त्वनभिधायकपदान्तरप्रयोगविषयः नार्थिकप्रतीतिगम्यविषयमिति न तद्विरोधः।

एतेनाहमिमाऽनुप्रविश्य व्याकरवाणीति सम्बन्धे अनभिहिते कर्तर्यर्थलभ्ये

तृतीयानुपपत्तिः।

न खल्वहं मयोदनं भुक्त्वा ग्रामं व्रजामीति साधुः प्रयोगः। तत्कस्य हेतोः

भोजनकर्तुरार्थिकत्वादिति सिद्धाञ्जनकृतः कल्पनमपि निरस्तम्। आर्थिकस्यापि

शीघ्रप्रतिपत्तये शब्दप्रयोगस्य सर्वसम्मतत्वात् लोके लाघवानुरोधात् तदप्रयोगेऽपि

प्रयुक्तस्य धातुत्वे बाधकाभावाच्च।

तस्मादनेन जीवेनात्मनेति कर्तरितृतीयेति श्रुतप्रकाशिकोक्तिर्निर्बाधैव।

एतेनात्मनेत्यस्य स्वरूपेणेति व्याख्यानं भावप्रकाशिका कृतां प्रकारान्तरसम्भवाभि-

प्रायम्। न त्वस्मदर्थत्वे तृतीयानुपपत्त्यभिप्रायम्। उक्तरीत्या तदुपपत्तेरुपपादनात्

स्वरूपपरत्वेऽपि स्वरूपस्य स्वाभिन्नतयाभिहितत्वानपायेन तृतीयानुपपत्तेरपहाराच्च यत्तु

व्यपदेश एकस्मिन् बुध्यानानात्वकल्पनेत्युक्तन्यायेनैकस्मिन्नपि कल्पितभेदमादायानभि-

हितत्वसम्पादनेन तृतीयोपपत्तिवर्णनं तदस्मदर्थपरत्वेऽपि सुवचम्।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

138

जीवशरीरकत्ववैशिष्ट्यप्रयुक्तभेदकल्पनायास्तत्रापि सुलभत्वात् किञ्चात्मनेत्यस्य

स्वरूपेणेत्यर्थाश्रयेण आत्मानमात्मनावेत्सि सृजस्यात्मानमात्मना घटस्स्वेन रूपेणेतर-

व्यावृत्तिं करोति। एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरूपसम्पद्य स्वेन

रूपेणाभिनिष्पद्यत इत्यादाविव करणतृतीयात्वस्यैव तव्यतया तदर्थं कल्पिताकार-

भेदाश्रयणेनानभिधानकल्पनं व्यर्थमेव।

न च कर्तरितृतीया परभाष्यव्याख्यानादिग्रन्थविरोधात् करणतृतीया नात्राश्रयितुं

शक्येति वाच्यम्। तथा सत्यस्मदर्थगतापरभाष्यादिविरोधात्। आत्मनेत्यस्य स्वरूपेणे-

त्यर्थपरत्वस्याप्यनाश्रयणापत्तेः, तृतीयानुपपत्तितन्निर्वाहयोरुभयत्रापि तुल्यत्वात्

तस्मादर्धजरतीयाश्रयणं न युक्तम्।

तदेतदभिसन्धायोक्तमाचार्यपादैः न्यायपरिशुद्धौ - तृतीयानुपपत्तिस्तु स्वरूप-

तादात्म्यपक्षे पृथक्त्वपक्षे च समाना अथांशभेदादिना विभज्यकरणत्वादि विवक्षया

कथञ्चिन्निर्वाहः।

तथा विशिष्टाकारादिभेदविवक्षया विभज्यात्रापि निर्वाहमनुमन्येथा इति एतेन

जीवशरीरकेण मयेयेति भाष्यस्य जीवशरीरेण स्वरूपेणेत्यर्थकल्पनमपि प्रयुक्तम्।

प्रतीतार्थे बाधकाभावात् करणन्त्वविवक्षयेत्यावार्यग्रन्थोक्त्यादौ च शब्दस्थलीयभाष्योक्त-

न्यायेन कर्तर्थेव करणत्वविवक्षयाप्यनभिहिताधिकारविहिता तृतीया सुनिर्वहेत्येव-

मभिप्रायः।

न तु कर्तरितृतीयायाः दुर्वचत्वाभिप्रायः। वस्तुतस्तु प्रधानक्रियाकर्तुरभिधान-

गुणक्रियाकर्तुरभिहितवद्भावेऽपि नेह तृतीयानुपपत्तिः।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

139

तथाहि सर्वव्यापकस्य परमात्मनः साक्षादनुप्रवेशासम्भवाज्जीवद्वारकानुप्रवेशो

वक्तव्यः। तथा चानुप्रवेशनक्रियाकर्तृत्वं द्विविधम्। एकं द्वारभूतजीवनिष्ठम्। अपरञ्च

द्वारीभूतपरमात्मनिष्ठम्। तत्र क्रियाद्वयस्यैककर्तृकत्वं बोधयता क्त्वाप्रत्ययेन व्याकरण-

क्रियाश्रयि परमपुरुषवृत्त्यनुप्रवेशनक्रियाच्छक्त्योः व्याकरणक्रिया तच्छक्तिगुणभाव-

बोधनेऽपि जीवनिष्ठानुप्रवेशनक्रिया तच्छक्त्योर्व्याकरणक्रियानाश्रयवृत्त्योस्तद्गुणभावा-

बोधनेन तत्क्रियाकर्तृत्वस्याभिहितवद्भावाभावेन तत्र कर्तरि तृतीया प्रतिबन्धा

हितेऽनुप्रवेशककर्ता तु नाभिहित इति श्रुतदीपादिग्रन्थाऽप्येतदभिप्रायका एव।

सिंहो न भूत्वेत्यादावपि द्वारद्वार्युभयनिष्ठं शक्तिद्वयमस्तीत्येतदंशे दृष्टान्ततया

तदुक्तम् व्यासाचार्यैः - चारेणानुप्रविश्य परसैन्यं सङ्कलयानीत्यादिप्रयोगा अपि

अत्रैवानुकूलाः। तत्रापि हि चारनिष्ठं द्वारकर्तृत्वं राजनिष्ठं द्वारिकर्तृत्वमिति अस्यैव

शक्तिद्वयम्। इयांस्तु विशेषः तत्र चारादेस्स्वनिष्ठस्य पृथक् सिद्धद्वारतया तद्वारकं राजादेः

कर्तृत्वं प्रयोजकत्वे पर्यवस्यति।

इह तु जीवस्य परमात्मशरीरत्वेन यस्यात्मा शरीरमित्यादिश्रुत्यवगतस्यास्मदादि-

शरीरवदपृथक्सिद्धविशेषणतया तद्वारकं परमत्मनः कर्तृत्वं मुख्यमेवेति। अन्यथा

शरीरद्वारा गमनाश्रयत्वं बोधयतो देवदत्तो गच्छतीत्यादि प्रयोगात् देवदत्तादेर्गमनादि-

प्रयोजकत्वमेव सिध्येदिति यत्किञ्चिदेतत्।

तदेतदभिसन्धायोक्तम् श्रीमतिभाष्ये - अनेन जीवेनात्मनेति जीवस्य ब्रह्मात्मकत्वं

तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चद्यच्चाभवदित्यनेनैकार्थ्यच्छरीरात्मभव-

निबन्धनमिति विज्ञायत इति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

140

अस्य चायमभिप्रायः - तोयेन जीवान् व्यससर्जभूम्यां जीवाजीवेषु मामका

इत्यादाविव केवलजीवशब्देनैव जीवात्मनां निर्देशसम्भवे जीवेनात्मनेति पृथगात्म-

शब्दोपादानं यस्यात्माशरीरमिति श्रुत्यन्तरावगतपरमात्मशरीरताकारलाभार्थं तेन च

परमात्मनो मुख्यमेवानुप्रवेशकर्तृत्वमिति लभ्यते।

अत एव तदनुप्रविश्येत्यादौ परमात्मनस्सक्षादेव सृज्यपदार्थानुप्रवेशनिर्देशः

मत्पदार्थतादात्म्यनिर्देशश्च श्रूयते। तदिदं सर्वं शरीरात्मभावनिबन्धकमित्युभयम्

एकार्थ्यादवगम्यते। इत्थमेव च आनन्दमयाधिकरणभाष्यं दृश्यते - समस्तेष्वचेतनेषु

स्वात्मकजीवानुप्रवेशे नान्तनामरूपव्याकरणमिति अत्रचानुप्रवेशे जीवस्य साक्षादन्वयः।

तद्वारा तु परमात्मन इत्यवगमान्नामरूपसम्बन्धोऽपि जीवद्वारक इति निर्णीयते।

तेनैव नामरूपयोः “परमात्मान्वयत्वे चेतनानां देवदत्तादीनामान्वयमाकस्मिक-

स्स्यादिति शंकायाऽनवकाशः। इत्थमभिमतं द्वारद्वारिभावेनोभयोः”1 कर्तृत्वं

विशदमुपपादय स्थलान्तरे भाष्यं दृश्यते।

तथा सच्छब्दाभिहितं निरस्तनिखिलदोषं सत्यसङ्कल्पविश्राणनवधिकातिशय-

कल्याणगुणगणं समस्तकारणभूतं परं बहुस्यामिति सङ्कल्प्य तेजोभिन्नमुखं कृत्स्नं जगत्

सृष्ट्वा तस्मिन्देवादिविचित्रसंस्थानसंस्थिते जगति चेतनं जीववर्गं स्वस्वकर्मानुगुणेषु

शरीरेष्वात्मतया प्रवेश्य स्वयञ्च स्वेच्छयैव जीवान्तरात्मतया प्रविश्येवं भूतेषु स्वपर्यन्तेषु

देवाद्याकारेषु सङ्घातेषु नामरूपे व्याकरोत्।

  1. T.M मध्ये एव विद्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

141

एवं भूतसङ्घान्तस्यैव वस्तुत्वं तत्तच्छब्दवाच्यत्वञ्चाकरोदित्यर्थः। अनेन जीवेन

आत्मना जीवेन मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयति। ब्रह्मात्मकत्वञ्च जीवस्य

जीवान्तरात्मतया ब्रह्मणोऽनुप्रवेशादित्यवगम्यत इति।

अत्र चात्मतया प्रविश्यान्तरात्म-तयाऽनुप्रविश्येत्याभ्यां पदाभ्यां द्वारद्वारिभावेन

प्रवेशकर्तृत्वं स्फुटमवगम्यते। जीवेन मयेति निर्देशः फलिताभिप्रायकः

स्वात्मकजीवानुप्रवेशनेत्यादि प्रागुक्तभाष्यानुगुण्यात्।

अत एव मयेति निर्देशो ब्रह्मात्मकत्वपर्यवसायितया श्रुतप्रकाशिकायामेव

व्याख्यातः। मयेत्यात्मशब्दव्याख्यानमात्मशब्दस्यास्मद्वाचित्वे वा सति ब्रह्मात्मकत्वं

दर्शितं भवतीति ग्रन्थेन युक्तञ्चैतत्। अन्यथा सेयं देवता इमास्तिस्रो देवता अनेन

जीवेनात्मनानुप्रविश्य नाम रूपे व्याकरोदित्यनन्तरवाक्ये परोक्षनिर्देशात्मके जीव-

शरीरकेण मयेत्यर्थान्वयासम्भवेन तद्वैरूप्योपपत्तेः जीवशरीरकेण मयेत्या(र्थान्वया-

सम्भवेन तद्वैरूप्योपपत्तेः)1दिव्यासार्यनिर्देशा अपि मदात्मकजीवेनेत्यर्थेन पर्यवसन्नः।

प्रपञ्चानुवादेन ब्रह्मात्मकत्वमेव ह्यस्यां विद्यायामुपसंह्रियते। ऐतदात्म्यमिदं सर्वं

तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति अन्यथा प्रागुक्तविरोधो दुर्वारस्स्यादिति

आस्तां तावत्। तस्मान्नामरूपव्याकरणस्य परमात्मपर्यन्तत्वादपि सच्छब्देदं शब्दयो-

र्विशिष्टपरतया सामानाधिकरण्यस्य नीलो घट इत्यादिवद्विशेष्याभेदमादायोपपत्तेर्न

तद्बलादचेतनपरत्वं सच्छब्दस्येति सत्यसङ्कल्पस्य चिदचिच्छरीरकस्य परमात्मन एव

कारणत्वमत्र प्रतिपाद्यते।

  1. D.M मध्ये एव विद्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

142

न चैवं तेजो सृजतेत्यादौ तेजश्शब्दादेरपि परमात्मपरत्वे तत्र सृज्यत्वा-

नन्वयदोषः। अवस्थान्तरापत्तिरूपकार्यत्वं देवदत्तादिशरीरद्वारा जीवस्येव तेजोऽवस्थापन्न-

द्रव्यद्वारा परमात्मन्यपि सम्भवतीति प्रकृत्यधिकरणे विशदमुपपादयिष्यमाणत्वात्

एकविज्ञानेन सर्वविज्ञानञ्च परमात्मन्येव स्वरसमित्यनन्तरश्लोके वक्ष्यते।

अत्र च सूत्रे ईक्षणादित्येव वक्तव्ये तदभिधायकधातूक्तिस्तत्समभिव्याहृत्य-

पदान्तरास्वारस्यरूपहेत्वन्तरसूचनाय, तथाहि प्रथमं तावदनुकूलतया पराभिमतं

सामानाधिकरण्यमेव तत्प्रतिकूलमिदं शब्दस्य परिदृश्यमानचेतनाचेतनोभयपरतया

तत्राचेतनवच्चेतनस्य प्रकृत्यात्मनापत्तेः प्रलयदशायामप्यसम्भवात् किञ्चैवमद्वितीय-

पदमपि व्यर्थं स्यात्।

एकशब्देनैव सृष्ट्युत्तरकालभाविबहुत्वप्रतीकेति भूततदेकत्वावस्थाबोधयता

वस्त्वन्तराभावबोधनात् सिद्धान्ते तु निमित्तान्तरव्यावृत्तये अद्वितीयपदमिति व्यक्तमेवा-

सृजतेति च चेतनव्यापारमेवाभिधत्ते नाचेतनव्यापारं न हि मृत्पिण्डो घटं सृजतीति

क्वचिदपि स्वारसिकः प्रयोगः। अतः तदप्यस्वरसं स्यात्।

तथा सोयं देवतेत्युक्तिरप्यनुपपन्ना। तच्छब्दस्य उततमादेशमप्राक्ष्येति

प्रश्नवाक्यगतादेशशब्दः (निर्दिष्टत्वपरत्वात् आदेशशब्दश्च)1 प्रशास्तृवचनतयाऽन्तःप्रविश्य

नियन्तृवचन इति वक्ष्यते। तदेवं समभिव्याहृतपदान्तरस्वारस्यसहितादीक्षणाद्धेतोः

परमात्मैव सद्विद्यावेद्य इति आत्मब्रह्मादिशब्दाः सौलभ्येनैव परमात्मपराः।

  1. T.M मध्ये एव विद्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

143

इत्थञ्च तमः प्रभृतिशब्दा अपि तत्तच्छरीरकपरमात्मपरा एव। तमः परे देव

एकीभवतीत्य-विभक्तावस्थाप्राप्तिः परेणेरितमिति परप्रेर्त्यत्वोक्तिश्च सङ्गच्छत इति धिक्।

तदर्थं सद्विद्यायाः परमात्मविषयकत्वात्सर्वमपि वेदान्तवाक्यं परमात्मपरमेवेति भावः।

अथ स्यात् नेक्षणमात्रात् परमात्मपरत्वं तत्तेज ऐक्षत, ता आप ऐक्षन्तेत्युत्तर-

वाक्यस्थगौणेक्षणसाहचर्यात् वृष्टिः प्रदीक्षानालयः इत्यादाविवाचेतने चेतनधर्मा-

रोपरोपता प्रतीतेः।

न च सेयं देवतेक्षतेति ईक्षितरि देवतापदश्रीपदात् इदमीक्षणं चेतननिष्ठमुख्य-

मेवेति निर्णीयत इति वाच्यम्। हन्तामिमास्तिस्रो देवता इति तेजोभिन्नेष्टचेतनेष्वपि

देवताशब्दस्य तत्रैव श्रीवणेन तत्साहचर्येणास्याप्यचेतनविषयतानुकूलत्वात्।

न च तेज आदिशब्दानामपि परमात्मपर्यन्तत्वात् न कोपि विरोध इति वाच्यम्।

तथासत्यन्योन्याश्रयापत्तिः। तेजः प्रभृतिशब्दानां परमात्मपर्यन्तत्वे सति तदीक्षणस्यापि

मुखत्वात्तत्साहचर्यात् तदैक्षतेत्यत्रापि मुख्यमेवेक्षणमिति परमात्मनः कारणत्वसिद्धिः।

तत्सिद्धौ च तेजः प्रभृति शब्दानां तत्पर्यन्तत्वात् तत्रापि मुख्येक्षणसिद्ध इति

इतरेतराधीनार्थनिर्णयत्वात्।

किञ्च तत्तेज ऐक्षतेत्यादेः परमात्मपर्यन्तत्वे तत्तेजो सृजतेत्यादावपि तथात्वं

स्यात्। न च तद्युक्तम् - तथा सति बहुस्यामिति तत्तत्तेजोऽभवदिति वक्तव्ये तत्तेजो

सृजतेत्युक्तिरस्वरसा स्यात्॥८॥

⏺⏺⏺

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

144