ननु शास्त्रशब्दोऽयं युक्तिनिबन्धनात्मकेषु ग्रन्थेष्वेव प्रसिद्धो न। वेदे तत्कथं वेदपरत्वेन व्याख्यायते ? तदा यो निश्च वा गीयत इत्यत्र योनिशब्द उपादानपरत्वेन भाष्यकारैरेव वर्ण्यते। तदपि न कथं कारणसामान्यपरतया व्याख्यायते ? तथा शास्त्रस्य योनिः कारणमिति षष्ठीतत्पुरुषाश्रयेण पूर्वपदस्य लाक्षणिकत्वेप्युत्तरपदं मुख्यवृत्तमेव भवति। शास्त्रं योनिर्यस्येति बहुव्रीह्याश्रये तु पदद्वयमप्यस्य पदार्थे लाक्षणिके भवतीति न शास्त्रप्रमाणकत्वमर्थो वर्णयितुं युक्तः। किन्तु शास्त्रनिर्मातृत्वमेवार्थो वाच्यः। अत एव परैस्तथैव वर्ण्यत इतीमाश्शङ्काः पराकर्तुमारभते – त्रयी ते निश्श्वासो विदित इति विश्वासमयते तथा वेदैर्विप्रैस्त्वमपि सह 1राशीकृत इति। सतां चेतो वृत्तिः किमुतवचनं तेन वितथं यथा हृद्यैर्वेद्यो निखिलनिगमैरस्म्यहमिति॥७॥ त्रयी त्रयो वेदाः, उपलक्षणमेतदन्येषामङ्गादीनाम्। ते सर्वज्ञस्य तव निश्वासः निश्वसितमिति। तस्य हवा एतस्य महतो भूतस्य निश्वसितमेतदस्य ऋग्वेदो यजुर्वेदो सामवेदोऽथर्ववेदः शीक्षाकल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति श्रुत्या विदितः। निश्चितः क्रियाविशेषणस्याप्यस्य विधेयपरनिश्वासपदाभिप्रायेण पुल्लिङ्गता इति हेतौ अस्माद्धेतोः सतां चेतो वृत्तिः अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो
- T.M. रासीकृत नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
107 विदुरित्यादिभिर्ब्रह्मास्तित्वज्ञानवत्तया अभिहितानां महतां मनोव्यापारः विश्वासं तव वेदवेद्यत्वगोचरमध्यवसायम्। अयते प्राप्नोति अयगतावित्यस्माल्लट्। अयमभिप्रायः - शास्त्रशब्दस्तावद्वेदपरः शासकत्वलक्षणत्वस्यावयवार्थस्य विधिनिषेधात्मकतया प्रवृत्तिनिवृत्तिकारणे तत्रैव स्वरसत्वात्। अत एव च ह्यालङ्कारिकैः प्रभुसम्मितत्वं वेदस्योच्यते। अत एव चार्थवादाधिकरणमात्रे शास्त्रदृष्टविरोधाच्चेत्यत्र शास्त्रशब्दस्य वेदपरत्व-
माश्रित्य वेदविरोधस्थलमेवोदाजह्रुः॥ वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्। आर्षं धर्मोपदेशञ्च वेदशास्त्रविरोधिना। तस्माच्छास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितौ॥ ज्ञात्वा शास्त्रविधानोक्तमित्यादिप्रयोगाश्चात्रैवानुकूलाः। तदित्थमुभयत्र प्रसिध्य-
विशेषेऽप्यवयवार्थपौष्कल्यात् व्यवहाराधिकरणन्यायेन शास्त्रप्रसिद्धप्राबल्याच्च। शास्त्र-
शब्दो वेद एव मुख्यः। अन्यत्र त्ववयवार्थस्वारस्याभावादनार्यप्रसिद्धिविषये भाक्त एवाङ्गीकर्तुं युक्तः। तान्त्रिकाश्च तथैवाभिदधति - शास्त्रञ्च न तिङ्-सुबन्ततयात्मकं वाक्यमपि तु साक्षात् परम्परया वा पूर्वार्धप्रतिपादकश्शब्दराशिरिति भाष्यकाराश्चात्मेति तूपगच्छन्ति ग्राहयन्ति चेत्यत्र ग्राहयन्ति चेममर्थं शास्त्राणीत्यनुक्त्वा श्रुतिरुपाजह्रुः॥ नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
108 प्राभाकरीयाश्च शास्त्रभेदं द्वितीयाध्यायार्थं प्रतिज्ञाय वेदवाक्यानां भेदमभ्यदधुः। तत् सर्वमसति शास्त्रशब्दस्य वेदपरत्वे नावकल्पत इत्यवश्यं तस्य वेदवाचकत्व-
मभ्युपगन्तव्यम्। युक्तञ्चैतत् - अन्यथा वेदान्तवाक्यानां विचार्यत्वं प्रतिज्ञाय युक्तिनिबन्धनात्मक-
ग्रन्थप्रमाणकत्वस्य हेतुत्वेनाभिधानस्य वैयधिकरण्यापत्तेः सूत्रासङ्गतिस्स्यादित्यन्यत्र विस्तरः। योनिश्च हि गीयते इत्यत्र यथोर्गुनाभिस्सृजते गृह्णातीत्यादिवाक्यशेषात् कर्तामीशं पुरुषं ब्रह्मयोनिनमित्यत्र योनिशब्दः कारणसामान्यवचनोऽपि उपादानपरतया व्याख्यातः। इह तु तथाविधग्राहकाभावात्कारणत्वमात्रमर्थो वाच्यः। नन्वस्तु कारणसामान्य अर्थः तथाप्युक्तरीत्या वेदनिर्मातृत्व एव तदर्थोस्तीति चेदुच्यते। नात्र षष्ठीतत्पुरुषाश्रयणं युक्तम्। पूर्वोत्तरसूत्रान्वयवैयत्यात् वेदान्तविचारारम्भं प्रतिज्ञाय तदनारम्भहेत्वानुमानिकत्व निराकरणाय शास्त्रैकप्रमाणकत्वस्यैवाभिधानात् उत्तरत्र च तत्तु समन्वयादिति तच्छब्दे शास्त्रयोनित्वमुपादाय तदुपपादकतया वेदानां ब्रह्मणि सम्यगन्वयरूपसमन्वयस्योपपादनेन शास्त्रयोनित्वस्य शास्त्रप्रमाणकत्वरूपता-
निर्णयाच्च। न हि शास्त्रकारणत्वे समन्वयो हेतुर्भवति तर्हि श्रुतिषु वेदानां ब्रह्मविश्वासत्वोक्तेः कोभिप्राय इति चेदुच्यते। यथा हि निश्श्वासो देहे देहिनो अस्तित्वं बोधयति तथा यद्वेदादयोऽपि ब्रह्मणोस्तित्वं ज्ञापयन्तीति ब्रह्मप्रामाण्यानामेव सतामेतेषां ब्रह्मनिश्श्वासत्वोक्तिरिति। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
109 न चैवं निश्वाससिद्धशब्दगौणताप्रसङ्गो दोषः। वेदनिर्मातृत्ववादिमतेऽपि तत्साम्यात् इयांस्त्विति विशेषः यद्वेदप्रमाणकत्वपक्षे न श्रुत्यन्तरविरोधः। तन्निर्मातृत्वपक्षे च वेदनित्यताग्राहकप्रमाणे विरोधो सन्दर्भविरोधश्चेति। एतच्च अत एव च नित्यमित्यत्र स्फुटी भविष्यति। वेदप्रमाणकत्व एव असाधारणं हेत्वन्तरमाह। तथेति तथा - निश्वासत्वोक्तिवत् राशीकृतत्वोक्तिश्च हेतुरित्यर्थः। वेदादिप्रासभवामस्त्यमपि सह वेदविप्रैस्सहत्वं राशीकृतः। एकराशित्वेनोक्तः – वेदा विप्रा माधवश्रेकराश्चेरित्यादिष्विति शेषः। अत्र वेदानां विप्राणाञ्च साहित्यप्रतियोगितयाऽप्रधानत्वात् प्रधानभूतयुष्मदर्थाभिप्रायेणैकवचनं साहित्यप्रतियोगित्वस्यार्थिकत्वात् सशक्तेः प्रधान इति न तृतीया। वेदैर्विप्रैरिति पाठस्तु समीचीनः। अयमभिप्रायः। वेदानां प्रमाणत्वात् विप्राणां प्रमातृत्वात् प्रमेयेन ब्रह्मणा सहैकरास्यमत्र प्रतिपाद्यते। तदुक्तमाचार्यपादैः - मेयं विष्णुर्वेदवादांश्च मानं मातारश्च ब्राह्मणास्तत्वनिष्ठाः॥ इत्थं तेषामैकराश्यं प्रतीमः॥ इति। युक्तश्चायमर्थः वेदयतीति व्युत्पत्त्या वेदशब्देन तस्य प्रमाणत्वस्य वासुदेवं विजानन् विप्रो विप्रत्वं गच्छतीत्यादिभिः वासुदेवविज्ञातृत्वाभिधायि विप्रशब्देन तेषां प्रमातृत्वस्य चाभिधानेन तद्राशीकृतस्य माधवस्य प्रमेयत्वेनैव राशीकृतत्वौचित्यात्। तथा च वेदप्रमाणकत्वस्यैव श्रुतिस्मृतिषु बहुशः प्रतिपन्नत्वात् तत्कारणत्वस्य काचित्कस्य तन्नित्यताग्राहकप्रमाणविरोधादत एव च नित्यत्वमिति तदेतत्सूत्रकार-
स्यानभिमतत्वात् पृथिव्यादिकारणत्ववत् साधारणस्य विशिष्टाभिधानवैयर्थ्यात् नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
110 पूर्वसूत्राभिहितजगत्कारणत्वान्तर्गतस्य तस्य तत्र हेतुत्वायोगाच्च न शास्त्रकारणत्वमर्थो युक्त इति असन्दिग्धं हेत्वन्तरमाह – किमुतेति॥ सर्वज्ञस्याप्ततमस्य ते शिष्यस्तेहं शाधिमां त्वां प्रपन्नमित्युक्तगुणवच्छिष्यविषये तत्त्वार्थबोधनाय प्रवृत्तवेदैश्च सर्वैरहमेव वेद्य इति वचनमनन्यथासिद्धम्, प्रमाणमस्तीत्यर्थः। निश्श्वासत्त्वैकराशित्वोक्तिभ्यां वेदप्रमाणकत्वगमनैर्वचनैरलं साक्षाद्वेद्यता प्रतिपादकमपहतपाप्मनस्सर्वज्ञस्य वचनमेवास्तीत्यभिप्रायेण किमुतेत्युक्तं न व्यर्थम्। व्यर्थवाक्यवदप्रमाणं नेत्यर्थः। तद्वचनमर्थतोऽनुवदितुमाकाङ्क्षामुद्भावयितुं - यथेति। यस्य विश्वसितमेते वेदाः तस्येदं वचनमजनविस्रम्भणीयमित्याह – हृद्यैरिति॥ हृदयङ्गमैरित्यर्थः। निखिलनिगमैः कर्मब्रह्मोभयभागरूपैः अस्मीत्यनेन आपर्यवस्थानव्युदास इतिरनुवादस्समाप्तौ एभिर्विशेषणैः देवतान्तरब्रह्मत्वव्युदासोऽपि फलितः। यतो वेदादेर्यच्छब्दयोगेनानुवादतया प्रापकवाक्यापेक्षायां सदेव सोम्येदमग्र आसीत्, ब्रह्म वा इदमग्र आसीत्, आत्मा वा इदमेकमेवाग्र आसीत्, एको ह वै नारायण आसीदित्यादिवाक्यानामेव तत्प्रापकत्वात् तेषां च छागपशुन्यायेन नारायण एव विश्रान्तिर्भविष्यतीति कारणत्वमपि तत्रैव विश्राम्यति। नारायणादेव सर्वाणि भूतानि समुत्पद्यन्ते नारायणे प्रलीयन्त इत्यादि-
विशेषवचनानन्यप्यत्रैवानुकूलानीति भावः। इत्थं श्लोकद्वयेन मानान्तरवेद्यत्वप्रतिक्षेपकवेदान्तैकवेद्यत्वप्रतिपादनादपूर्वत्व-
लक्षणं तात्पर्यलिङ्गं समर्थ्यितम्। तृतीयेन श्लोकेन यत्तावदुक्तं शास्त्रैकवेद्यं ब्रह्मेति तदयुक्तम्। सिद्धरूपस्य ब्रह्मणः प्रवृत्तिनिवृत्त्यन्वयविरहेण शास्त्रप्रतिपाद्यत्वायोगात् शासनाद्धि शास्त्रम्, शासनञ्च प्रवर्तननिवर्तनात्मकमित्युक्तम्। यथोक्तं वार्तिके – नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
111 प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमिति कथ्यते ॥1 इति। न चासिद्धरूपे ब्रह्मणि प्रवृत्तिं वा निवृत्तिं वा कल्पयितुं शक्नोति। शास्त्रं पुरुषव्यापाराविषयत्वात् तेन यद्यपि सिद्धे पदानां व्युत्पत्तिरस्ति तथाऽपि न तत्समुदायात्मकशास्त्रतात्पर्यविषयत्वमस्य विद्यते। न च प्रमाणानां प्रमेयावबोधकत्वमेव नियतम्। न तं प्रवृत्तिनिवृत्त्यौपयिकत्वमपि तदपेक्षितम्। तृणलोष्टादिबोधमादधतः चक्षुरादेः तथात्वादर्शनादिति वाच्यम्। अबुभुत्सितविषयमेधजनकचक्षुरादेस्तथात्वेऽपि बुभुत्सितमात्रविषयस्य शास्त्रस्य प्रवृत्ति-
निवृत्त्यन्वयवस्तुप्रत्यायकत्वनैयत्यात्। अन्यथा पौनरुक्तादेर्दोषत्वं न स्यात्। चक्षुरादेरिव वाक्यस्यापि ज्ञातार्थ-
ज्ञापकत्वसम्भवात्। अत एव निष्प्रयोजनं वाक्यं न केनापि प्रयुज्यते प्रयुक्तमपि वा न गृह्यते। तदुक्तं वार्तिके – सर्वस्यापि हि शास्त्रस्य कर्मणो वाऽपि कस्यचित्। यावत्प्रयोजनं नोक्तं तावत्तर्केन गृह्यते॥2 इति। तस्मात् सिद्धरूपब्रह्मस्वरूपाभिधायिनां वेदान्तवाक्यानां सुखतत्परिपन्थिदुःख-
निवृत्त्यन्यतरानुपयोगिनां न कथञ्चन स्वतः प्रामाण्यमन्यथा तत एव फलसिद्धौ ध्यानविध्यानर्थक्यप्रसङ्गात्। ननु माभूत् स्वातन्त्रेण प्रामाम्यम्। ध्यानविध्येकवाक्य-
-
श्लो॰वा॰ शब्दपरिच्येदः, 4
-
श्लो॰वा॰ शब्दपरिच्येदः नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
112 तापन्नत्वेन तु प्रामाण्यं भवत्येवेति चेन्न। तथा सति विधेयार्थस्तुतिमात्र पर्यवसायिनस्तस्य स्वार्थतात्पर्याभावेन न ततो ब्रह्मस्वरूपसिद्धिः स्यात्। ननु च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादि विध्येकवाक्यतापन्नात् स्वर्गार्थवादादेस्तत्स्वरूप-
सिद्धिवदिहापि किन्न स्यात् इति चेन्न। दुःखासम्भिन्नसुखविशेषरूपस्वर्गादेः फलरूपतया भाव्यरूपत्वेन भावनांशत्रय-
मध्यपातित्वाद्युक्तं तत्र स्वर्गार्थवादादेस्तात्पर्यं इह तु सिद्धरूपस्य ब्रह्मणः सुखदुःख-
निवृत्त्यन्यतरभिन्नस्य पुरुषकृत्यसाध्यतया भाव्यकोट्यनन्तर्गतस्य न कथञ्चन शास्त्र-
तात्पर्यविषयत्वम्॥७॥ ⏺⏺⏺