20 भगवतः शास्त्रैकप्रमाणकत्वम् \(षष्ठश्लोकः\)

मानान्तरवेद्यत्वेपि वायुक्षेपिष्ठत्वादिवत् शास्त्रवेद्यत्वासम्भवात्तद्व्यावृत्तकत्वेन तदभिधानवैयर्थ्यं स्यादिति सर्वं वाक्यं सद्वारणमिति न्यायोपभक्षो वायुभक्ष इतिवत् अवधारणगर्भत्वमभिप्रेत्य शास्त्रैकप्रमाणकत्वादित्युक्तं भाष्ये। कं पुरुषं तन्त्वापनिषदं पृच्छामीत्यादिनिर्देशाच्छास्त्रैवानुकूलाः असाधारण्येन हि व्यपदेशा भवन्तीति न्यायेन उपनिषन्मात्रविषयत्वमन्तरा तथा निर्देशायोगादत एव शास्त्रशब्दो वेदपरः॥ वेदशास्त्रात् परं नास्तीति वचनात् वक्ष्यति च भगवान् भाष्यकारः। शास्त्रं हि नामानादिनिधनावच्छिन्नसम्प्रददोषगन्धवेदाख्याक्षरराशि¯…¯तदेत¯…¯ प्रमाणकत्वं पूर्वसूत्रप्रतिपादिकारणवाक्यविषयत्व एव हेतुरिति पञ्चम्यन्तप्रयोगेन तदिदं शास्त्रैक-

प्रमाणकत्वं कारणस्यानुमानिकत्वनिराकरणेन सामान्यतो विशेषतश्च प्रतिष्ठापयति श्लोकद्वयेन। तत्रायं प्रथमश्लोकः – अधीतानाम्नायानहहनिरपायात् कतिचन त्यजन्तोऽनन्त! त्वामधिजिगमिषन्ति ह्यनुमया। मतिभ्रंशादेते मधुहर! सुधासिन्धुनिकटे नटन्तो वेशन्तांच्छिशमयिषवो यान्ति वितृषः1॥६॥ अयमर्थः - अधीतान् तस्मात् स्वाध्यायोध्येतव्येति विहिताध्ययनसंस्कृतान् आम्नायान् वेदान्, कथं भूतान् निरपायान् अपौरुषेयतया नित्यनिर्दोषान्, यदा आम्नायशब्देन नित्याम्नानवैशिष्ट्यमभिदधता पुरुषदोषाजन्यत्वं, निरपायशब्देनाबाधितत्वं

  1. T.M. & D.M. वितुषः इति पाठः। दीपिकाव्याख्यायां वितृषः इति पाठः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

99 व्यवस्थित्वञ्चेति बोध्यते। तेन सम्भावितपुरुषदोषान्मानान्तर-बाधितादव्यवस्थिता-

च्चानुमानाद्वैलक्षण्यं दर्शितम्। एतादृशान् वेदांस्त्यजन्तः तदर्थविचारमकुर्वन्तः यथा गुरुत्यागिन इत्यादौ सन्निहिते गुरुपादौ तदनुकूलसेवात्याग एव गुरुत्यागशब्देनोच्यते। यदा वा कुलत्यागिन इत्यादौ स्वरूपानुबन्धिनः कुलस्य स्वतः त्यागासम्भवात् तत्सम्बन्धि आचारत्याग एव त्यजेरर्थः, एवमिहापि सम्यगधीतानां वेदानां स्वरूपतः त्यागायोगात् तत्त्यागे प्रायश्चित्तविधानाच्च तदनुबन्धविचारत्याग एव त्यजेरर्थः स्वीकर्तव्यः। कतिचन स्थाणुरयं भारवाहकिलाभात्, अधीत्यवेदं न विजानाति योऽर्थमित्यादिषु स्थाणुत्वेनोक्ताः पुरुषाः कथमप्यन्धानामिति न्यायादेवं विधानां बहुत्वमपि अप्रयोजकमिति सूचयितुं नित्यबहुवचनान्तकतिशब्दः संख्यापरिमाणार्थक डति प्रत्ययेन तेषां संख्यापरिपूर्णमात्रार्थकत्वं दर्शितञ्च। सेति प्रसिद्धवाचिना प्रख्यातवाचित्वेन सद्योनिरसनीयत्वं प्रदर्शयति। अनन्तेत्यनेन त्रिविधपरिच्छेदराहित्यमभिदधता परिच्छिन्नवस्तुगोचरप्रत्यक्षादि-

प्रमाणाविषयत्वसूचनेन कारणत्वानुमानिकत्वं कारणस्य वस्तुस्वभावविरुद्धमिति द्योत्यते। अनुमया अनुमत्या अधीजिगमिषन्ति अधिगन्तुमिच्छन्ति न त्वधिगन्तुमिच्छन्ति तथा च कारणस्यानुमितिविषयत्वकथनं नैयायिकादीनां तत्स्वरूपानुज्ञानमूलकमिति भावः। एतदुक्तं भवति क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेन जगतः सकर्तृकत्वमात्रसिद्धावपि सकर्ता सर्वज्ञः सर्वशक्तिः परमकारुणिकः परमपुरुष एक एवेति न तत्सिध्यति। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

100 कार्यस्य सतो घटादेरेककर्तृकस्य रथगोपुरादेः अनेककर्तृकस्य च दर्शनेनैक-

मात्रकर्तृकत्वस्य ततस्सिध्ययोगात् वस्तुतो विचित्रकार्यस्य नभोभूधरादेर्गोपुरादे-

रिवानेककर्तृकत्वनिश्चयाच्च। न च लाघवतर्कनावकृतात्तस्मादेकेश्वरसिद्धिः। अयं तावत् दृष्टादृष्टविसजाती-

येश्वरकल्पनामपेक्ष्य कृतानामेव जीवानां जगन्निर्माणसामर्थ्यमात्रकल्पनायां लघुत्वात्। दृश्यते च विश्वामित्रादेर्विचित्रसृष्टिसामर्थ्यमिति। किञ्च यादृशं कारणस्वरूपं वेदान्तवाक्ये प्रतिपाद्यते, निमित्तमुपादानञ्च न तादृशस्वरूपमनुमानेनावगम्यते प्रत्युतचेतनत्वादिभिः कुलालादेरिव ब्रह्मणोप्युपादान-

भेदस्यैव सिद्धेरिति इममेवार्थं दृष्टान्तेन दृढयत्युत्तरार्धेन मतिभ्रंशादित्यादिना। निर्मलाबुद्धिभिरधिगम्यं ब्रह्मस्वरूपं न भ्रष्टमतिभिरवगम्यत इत्यर्थः। एत इति बहुवचनेनापि प्रागुक्तन्यायसूचितः मधुहरेत्यनेन वेदापहारकमधुकैटभाद्यपहरणसमर्थ-

भगवदवतारभूतेन भगवता पाराशर्येण तदर्थविप्लावकनैयायिकादिनिराकरणमुचितमिति सूचितम्। मधुशब्देन सर्वोपजीव्यत्वं सिन्धुशब्देन सकलार्थगर्भत्वं निकटशब्देन सौलभ्यं नटन्त इत्यनेन हर्षहेतुत्वं केलन्तशब्देन तृप्तिपूरणासामर्थ्यं यान्तीत्यनेन प्रयाससाध्यत्वञ्च व्यञ्जितम्। वितृषः विविधाः तृष्णाः अनेन विजातीयतृष्णाबाहुळ्यं दर्शितम्। शिशमयिषवः शमयितुमिच्छवः अनेन नानाविधतृष्णा निर्हरणासमर्थे पल्यते तत्समर्थत्वभ्रान्त्या गमनं करस्थमुदकं त्यक्त्वेति न्यायमनुसरतीति आनुमानिकेश्वरवादिनां मतिभ्रंशः स्पष्टीकृतः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

101 इदमत्रानुकूलम् अप्राप्तेः शास्त्रमर्थवदिति न्यायेन मानान्तरासिद्धिमुपजीव्य-

शास्त्रप्रामाण्यमुपपादनीयम्। आनुमानिकेश्वरवादे च यतो वेत्यादिकारणवाक्यप्रति-

पादनीयस्य कारणस्वरूपस्यानुमानसिद्धतया न तत्र शास्त्रप्रामाण्यमुपपादयितुं शक्यम् इति। ननु यादृशं कारणस्वरूपं शास्त्रेणावगम्यते “निमित्तमुपादानं च न तादृश-

मनुमानेन अवगम्यते। तस्य निमित्तकारणमात्रविश्रान्तत्वात्"1 तस्मादनुमानतः ईश्वरसिद्धिः न शास्त्रप्रामाण्यमुपरुणद्धीति चेत् उच्यते – शास्त्रं हि साधकान्तरसिद्धं बाधकान्तरबाधितं च न प्रतिपादयतीति सर्वसिद्धम्। यथोक्तम् - असन्निकृष्टमाना च द्वयमत्र जिहासितम्। ताद्रूप्येण परिच्छित्तिः तद्विपरीतोऽपि (पर्ययत्येपि वा) वा2॥ इति। तथा च निमित्तत्वोपादानत्वयोर्द्वयोः श्रुतिप्रतिपादितत्वेऽपि आनुमानिकेश्वर-

वादिमते तन्निमित्तत्वस्यानुमानसिद्धत्वात्तदंशे श्रुतेः प्राप्तार्थतया अनुवादत्वे सत्यागम-

स्यानुमानोपजीवकतया अनुमान्यचोपादानातिरिक्तकर्तृत्वव्याप्तिमूलकतया तद्विरोधेन निमित्तोपादानेत्यस्य श्रुत्या प्रापयितुमशक्यत्वात्। आनुमानिकेश्वरवादिमते कारणवाक्यानां निमित्तत्वांशे प्राप्तविषयत्वात् उपादान-

त्वांशे बाधितविषयत्वाच्च निमित्तोपादानैक्येन प्रामाण्यमिति तत्सिद्धये निमित्तमात्रा-

नुमानः कर्तव्य एव।

  1. T.M. मध्ये एव विद्यते।

  2. तं॰वा॰ श्लो॰ 48 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

102 ननु निमित्तत्वस्यानुमानगम्यत्वमात्रान्न तदंशे श्रुतेः अनुमानकत्वं ततः प्रागेव आगमप्रवृत्त्युपपत्तेः। अत एवांशान्तरे बाधितविषयत्वमपि अनुमानस्यागमानुपजीव्यतया तेन तद्बाधायोगात् प्रत्युत नरशिरःकपालशुचित्वाद्यनुमानस्येवेश्वरनिमित्ततामात्रसाधका-

नुमानस्यापि आगमस्याबाध्यत्वस्यैव न्याय्यत्वाच्चेदुच्यते - अपौरुषेयतया वेदप्रामाण्य-

मङ्गीकुर्वतामुक्तरीत्युपपादनसम्भवेऽपि आप्ततमजीवकर्तृप्रणीतत्वेन श्रुतिप्रामाण्यात् उपगच्छद्भिः नोक्तप्रकारा उपपादयितुं शक्यः। अनुमतसर्वज्ञेश्वरसिद्धिमन्तरेण तदभिहितत्वेन वेदप्रामाण्यस्यैवासिध्या तत्प्रामा-

ण्योपपादकसर्वज्ञेश्वरसिद्धिहेतुभूतसकर्तृकत्वानुमानेनोपजीवकस्यागमस्य तद्विरोधेन स्वार्थाबोधनासामर्थ्यात् एतेनानुमानवादिभिरपि ईश्वरस्यागमगम्यत्वम् अभ्युपगम्यैवा-

गमानुग्राहकत्वेनानुमान उच्यत इति नानुमाननिरास आरम्भणीयेति शङ्का परास्ता। तथा सत्यनुग्राह्यस्यैव प्रधानप्रमाणतयानुमानिकेश्वरप्रोक्तत्वेन सर्वज्ञेश्वरसिद्धि-

मन्तरा1 वेदप्रामाण्याभ्युपगमेन न परस्पराश्रयापत्तेः आगमेन सर्वज्ञेश्वरसिद्धिमन्तरा तत्प्रोक्तत्वेनागमप्रामाण्यायोगात्। महाजनपरिग्रहादिभिरागमप्रामाण्यमागमाच्चेश्वरसिद्धिरिति न अन्योन्याश्रय इति वाच्यम्। तत्परिग्रहस्य भ्रान्तिमूलत्वव्युदासाय निर्दोषत्वज्ञानमूलकत्वस्य वाच्यतया निर्दोषत्वज्ञानस्य गुणवक्तूक्तृकत्वाज्ञानाधीनत्वेनान्योश्रयापरिहारात्। वेदे आप्तोक्तस्यानुमानिकत्वाङ्गीकारे च तत एवानुमानाद्वेदवक्तृत्वेनेश्वरसिद्धे-

श्शास्त्रप्रामाण्याधीनतयानुमानिकेश्वरवाद2 वैयर्थ्यापत्तेः। तस्मादनुमानत ईश्वरसिद्धेः शास्त्रप्रामाण्याधीनतयानुमानिकेश्वरवादनिराकरणाय शास्त्रयोनित्वं ब्रह्मणोऽत्र निरूप्यते।

  1. T.M. सर्वयज्ञेश्वरसिद्धिमन्तरा इति पाठो नास्ति। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

103 एतेन यदुक्तं नवीनेन यतो वेत्यादौ कारणवाक्ये यद्वत्तयोगाद्वाक्यान्तर-

सिद्धकारणत्वानुवादेन कारणत्वस्य ब्रह्मलक्षणत्वं विधीयत इति वदतस्तवमते कारणत्व-

स्यानुमानिकत्वेऽपि तदनुवादेन लक्षणत्वविधायकस्य यतो वेत्यादेरनुवादकसिध्या अधिकरणारम्भवैयर्थ्यव्युदासाय कारणवाक्यस्य ब्रह्मलक्षणत्वमानुमानिकमिति पूर्व-

पक्षितव्यम्। तदेव च शास्त्रयोनीति सिद्धान्तितमिति तदपि परास्तम्। यतो वेत्यादिवाक्य-

विषयोपादानाभिन्ननिमित्तत्वस्योपादानातिरिक्तकर्तृकत्वव्यापिमूलकानुमानावत्येते केवल-

निमित्तत्वापेक्षया अत्यन्तविलक्षणत्वे यतो वेत्यादेः अनुमानकरणत्वानुवादत्वायोगात् अनुमानेनागमभावेन वंशान्तरबाधितविषयत्वलक्षणस्याप्रामाण्यस्य दुर्वारत्वात्। ननु तथापि बाधितमुपादानत्वांशमपहायाबाधितनिमित्तत्वानुवादेन तस्य ब्रह्मलक्षणत्वविधिसम्भवान्न शास्त्रारम्भवैयर्थ्यमिति चेन्न। कालादृष्टादिसाधारणतथा-

विधनिमित्तत्वमात्रस्य ब्रह्मलक्षणत्वायोगात्कथञ्चिद्योगे वाऽस्मदाभिमतमुपादानाभिन्न-

निमित्तत्वस्य ब्रह्मलक्षणत्वं न तावन्मात्रात् सिध्यतीति त्वया कारणत्वस्यानुमानि-

कत्वेऽप्यभिमतसिध्याशास्त्रारंभसंभवात्तदर्थमानुमानिकेश्वरवादिनिराकरणमयुक्तमित्यस्मा

त् प्रत्युपालम्भात् तस्मादनुमानावगतकारणसंवादेन ब्रह्मत्वविधानासम्भवेन ततः कारणत्वस्य ब्रह्मलक्षणत्वासिध्या तत्सिद्धये कारणस्यानुमानिकत्वं निराकरणीयमेव। यत्तु शास्त्रारम्भसिद्धये कारणत्वस्य ब्रह्मलक्षणत्वमानुमानिकमिति पूर्वपक्ष-

यितव्यम्। तदेव च शास्त्रयोनीतिसिद्धांतयितव्यमित्युक्तम्। उक्तरीत्या कारणत्वस्यानु-

मानिकत्वे यतो वेत्यादेस्तद्विलक्षणोपादाननिमित्तत्वाभिधायिनः तदनुवादत्वायोगेनानु-

  1. T.M. प्रामाण्याधीनतयानुमानिकेश्वरवाद इति पाठो नास्ति। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

104 मानसिद्धकारणत्वाश्रयानुवादे बहुत्वे विभिन्नायोगेन कारणत्वस्य ब्रह्मलक्षणत्वालाभात् कारणस्य शास्त्राप्रामाणकत्वे च शास्त्रं सर्वत्र कारणस्याभिन्नं नमित्तोपादानया सतासम्प्रतिपत्तेस्तथाविधकारणानुवादेन ब्रह्मत्वविधानसौलभ्येन या गन्धवतीं पृथिवीं विद्धीत्यादौ गन्धवत्वादेः पृथिव्यादिलक्षणत्वस्येव तथाविधकारणत्वस्यार्थात् ब्रह्मलक्षण-

त्वसिध्या कण्ठतस्तदभिधानवैयर्थ्यादिदमेव च श्रुतप्रकाशिकायाम् दृश्यते। यतो येन यदिति यद्वृत्तयोगात् कारण मनूध्यते तद्ब्रह्मेति कारणस्य ब्रह्मत्वं विधीयते। तेन कारणत्वस्य ब्रह्मलक्षणत्वं सिद्धं भवतीति। यस्तु अतः कारणत्वस्य ब्रह्मत्वक्षणत्वमेवास्य विधेयमित्यादिग्रन्थः। सतो एतद्व्याख्ययास्समुदायद्वयसिध्यर्थमाग्नेयादिति कारणानि ¯…¯ समुदायानु-

वादित्वव्यवहारवत्फलितार्थकथनाभिप्रायः। न लक्षणत्वविधेयत्वं निर्बध्नाति यदप्युक्तम्। कारणवाक्यस्यानुवादत्वेऽपि सत्यकामः सत्यसङ्कल्पः हिरण्यश्मश्रुर्हिरण्यकेश इत्याद्यकारणवाक्यानां विचारस्य पूर्वपक्षेऽपि सम्भवान्न शास्त्रेनारम्भः। न हि जिज्ञासासूत्रे कारणवाक्यस्यैव विचारः प्रतिज्ञातः। येन पूर्वपक्षेण स आक्षिप्यतेति तन्न स्वरूपानुबन्धिनां धर्माणां लक्षणप्रमाणाभ्यां च सुस्वरूपसिध्यधीन-

निरूपणतया कारणस्यानुमानिकत्वे तदसाधारणसत्यकामत्वादिबोधकवाक्यानां मानान्तरसापेक्षार्थबोधकत्वेन अप्रामाण्योपत्तेर्दुर्वारत्वात्। कारणस्यानुमानिकत्वे उपादानगोचरा परोक्षज्ञानादेरिव कारणत्वोपयुक्तसत्य-

कामत्वसत्यसङ्कल्पत्वादेरप्यनुमानत एव सिद्धिसम्भवेन तदंशेप्यनुवादत्वावश्यम्भावाच्च। किञ्च सत्यादिवाक्यानां किं ब्रह्मप्रमाणतयाविचारः प्रकारान्तरेण ? नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

105 नाद्यः - अनुमानैकप्रमाणस्य कारणस्य सामान्यतः शब्दतात्पर्याविषयतया कस्यापि वेदान्तवाक्यस्य तत्प्रमाणत्वायोगेन प्रमाणतया तद्विचारायोगात्। न द्वितीयः - ब्रह्मप्रमाणविचारप्रतिज्ञाविरोधात्। अपि तु शास्त्रयोनित्वादिति पञ्चम्यन्तनिर्देशेन जगज्जन्मादिकारणब्रह्मगोचरविचारारम्भे शास्त्रप्रमाणादेकत्वं हेतु-

रित्यवगम्यते। शास्त्रैकप्रमाणकत्वञ्च तदर्थो वाच्यः। अन्यथा आनर्थक्यादित्यवोचाम। तदिह कारणस्यानुमानिकत्वे शास्त्रैकप्रमाण-

कत्वरूपारम्भहेयत्वसिध्या तदनारम्भणीयत्वे सति तदेकदेशभूतसत्यकामादिवाक्य-

विचारारम्भासम्भवात्। अन्यथा कृत्स्नशास्त्रारम्भे तस्य हेतुत्वायोगादिति यत्किञ्चिदेतत्। यत्तु, एतत्सूत्रस्य पूर्वसूत्रस्य कारणवाक्यमात्रविषयत्वे कारणाकारणवाक्य-

समुदायगोचरात् चतुर्थसूत्रमध्यस्थत्वं न स्यादित्युक्तम्। तन्न, कारणवाक्यविषयस्यापि प्रणाड्या शास्त्रमात्रविषयकत्वस्य श्रुतप्रकाशिकायामेवोक्तत्वात्। किञ्च, उद्देश्यलक्षणपरीक्षात्मकत्वात् सर्वशास्त्राणां ब्रह्मणो शब्देन जिज्ञास्यत्वे-

नोद्दिष्टस्य वस्तुनो द्वितीयसूत्रे अभिन्ननिमित्तोपादानत्वरूपलक्षणेऽभिहिते ब्रह्मण आनुमानिकत्वेन निमित्तमात्रत्वाद्यलोकत्वादिशास्त्रप्रतिपाद्यमुक्तलक्षणमनुपपन्नमिति शङ्कायां तस्य मानान्तरागोचरत्वेन शास्त्रैकवेद्यत्वादुक्तलक्षणमुपपद्यत इति परीक्षाया-

स्तृतीयसूत्रे कर्तव्यत्वात्। ततः पुरुषार्थपर्यवसायिनः शास्त्रस्य सिद्धरूपब्रह्मपरत्वासम्भवशङ्कया शास्त्र-

योनित्वरूपहेतुसिद्धिसङ्कायां ब्रह्मणः परमपुरुषार्थत्वोपपादनेन तदसिद्धिशङ्काव्यावर्तनं चतुर्थसूत्रेण क्रियत इति त्वाशंसितं किञ्चिदिति दिक्॥६॥ ⏺⏺⏺ नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

106