19 भगवतः एव सर्वकार्योत्पादकत्वनिरूपणम् \(पञ्चमश्लोकः\)

अथेदानीं तस्या नियोगो व्यवच्छिद्यते। पञ्चमेन श्लोकेन न हि स्रष्टेति – न हि स्रष्टा गोप्ता जगति भविता कोऽपि ललिता जगज्जन्मस्थेमप्रभृतिभिरतस्स्यात् तव भिदा।

1य इत्थं संशेते मुरहर! स एवायमवनौ यवानुप्त्वा2 गुप्त्वा फलति लवणे3 संशिशयिषुः॥५॥ इह भवति वर्तमानः किञ्चिदज्ञः पामरोऽपि सन् पुरुषः यस्य वस्तुनः स्रष्टा जनकः यस्य च गोप्ता रक्षकः स एव तस्य लविता संहारे को न भविता यः कश्चित्पामरोऽपि स्वेन सृष्टं अन्येन गुप्तमन्येन सृष्टं स्वेन गुप्तामपि वा न संहरति किमुत सर्वज्ञस्सर्वशक्तिः परमकारुणिकः परमात्मा स्वेनैव सृष्टं स्वेनैव गुप्तञ्च सर्वं जगत् संहरेति। अत उक्ताद्विशेषणगतविरोधात्तव जगत्कारणस्य जगज्जन्मस्थेमप्रभृतिभिः जगदुत्पत्तिस्थितिप्रलयैः भगवद्विशेषणभूतैः परस्परविरुद्धैश्चेति सामर्थ्याल्लभ्यते। भिदा भेदस्स्यात्। विरुद्धधर्माणां स्वसमानाधिकरणस्याश्रयप्रतियोगिकभेद-

व्याप्तत्वस्य जलत्ववह्नित्वादौ दर्शनाद्यदि रथन्तरसामानोमस्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद्यदि बृहत्सामशुक्राग्रानित्यादौ बृहत्सामरथन्तरसारूपविरुद्धगुणभेदस्य सोम-

प्रयोगगुणभेदकत्वव्यवस्थापनात् खण्डो मुण्डः पूर्णशृङ्गो गौरित्यत्रैक्यवाक्यप्रतिपन्न-

  1. T.M. ययित्थं

  2. D.M. मतानुप्त्या

  3. T.M. फलति लवने, D.M. फलवि लवने, लवणे इति परिष्कृतपाठः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

76 त्वेद्येकाश्रयान्वयायोग्यतया खण्डत्वादीनां गोव्यक्तिभेदकत्ववदिहापि जन्मस्थितिभ्यां लयस्य विरुद्धत्वात्तद्भेदात् ब्रह्मनामत्वं दुर्वारमित्यर्थः। अयमभिप्रायः - द्विधा खलु विशेषणानि लोके प्रयुज्यमानानि दृश्यन्ते। कानिचिद्विरुद्धानि यथा - खण्डो मुण्डः पूर्णश्रृङ्गो गौरिति। कश्चिदविरुद्धानि यथा – देवदेत्तं श्यामो युवा लोहिताक्षस्समपरिमाण इति। तत्रैवायमविरुद्धानामपि विशेषणानां विशेष्यभेदकत्वमित्यखण्डार्थवादिनः विरुद्धानामेव विशेषणानां तथात्वं नाविरुद्धानामिति प्राञ्चः। तत्र पूर्वत्रिनामयमभिप्रायः - विशेषणत्वं हि भेदकत्वं विशेषणं व्यवच्छेतृ-

विशेष्यव्यापि चोच्यते इति न्यायात्, अन्यथा ह्येकविशिष्टविशेषणान्तरसम्बन्धे विशेषणानां मिथोऽन्वयप्रसङ्गात्। अत एव तप्तपयसि दध्यानयेति सा वैश्वदेव्यामि-

क्षादिभ्यो वाजिनमित्यत्रामिक्षाविशेषे पूर्वयागे वाजिनन्वयासम्भवाद्यागान्तरं वा जनवाक्ये विधीयत इत्युक्तम्। गणाधिकरणे एतेन विशेष्यमात्रे निष्कृष्टे विशेष्यान्तरान्वयशङ्का परास्ता। तथा सत्यामिक्षायागमात्रं स्वरूपेण निष्कृष्य तत्र वाजिनविधानसम्भवादामिक्षाधि-

करणोच्छेदापत्तेः। अतो विशेषणभेदाद्विशेष्यभेद आवश्यक इति। नन्वेवं देवदत्तस्स्यामो युवेत्यादावपि श्यामत्वादिविशेषणभेदाद्देवदत्तभेदापत्तिरिति चेन्मैवम्। विशेषणभेदस्य विशेष्यभेदकत्वमौत्सर्गिकम्। प्रत्यक्षविरोधाद्देवदत्तादाव-

पोद्यते। अत एव यजमानः प्रस्तरः आदित्यो यूपः सोमेन यजेत। कृष्णलं श्रपयेदित्यादौ लाक्षणिकार्थान्तराश्रयणं तान्त्रिकाभिमतमुपपद्यते। न तावता सर्वत्र तथात्वं नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

77 विशेषणत्वव्याघातादिति। उत्तरवादिनान्त्वयमाशयः सत्यं विशेषणं भेदकमिति तत्वञ्च न व्यावृत्तिप्रयोजकत्वम् असम्भवात्। किन्तु तद्व्यवहारप्रयोजकत्वन्तदपि न सर्वस्मात् स्वस्मिन्स्वस्य स्वाश्रयात् स्वाश्रयस्य च तथाविधव्यवहारप्रयोजकत्वस्य क्वाप्यसम्भवात्। किन्तु स्वानाधिकरणधर्म्यन्तरप्रतिपादकव्यावृतव्यवहारप्रयोजकत्वम्। तच्चैकत्रा-

नेकविशेषणान्वयेऽपि सम्भवत्येव नीलमुत्पलमित्यादौ हि नीलत्वमुत्पलत्वञ्च नीलादुत्पलादनुत्पलान्नीलाच्च स्वाश्रयस्य नीलोत्पलस्य वा वृत्तिव्यवहारं प्रयोजयतीति तत एवोपपन्नम्। विशेषणानां विशेषणत्वं नाविशेष्ये विशेषणान्तरसम्बन्धमुपरुणद्धि। नन्वेवं खण्डो मुण्ड इत्यादावपि खण्डत्वादिविशेषणभेदात् विशेष्यभेदो न स्यादिति चेदुच्यते। न तावत् खण्डत्वादीनां विशेषणत्वानुपपत्त्या स्वाश्रयभेदकत्वमपि तु खण्डत्वादेः परस्पराभावव्याप्यतया एकत्र विशेष्ये अन्वयनिरोधादेव यदि रथन्तरसमानोऽमन्य-

दित्यत्रापि रथन्तरसामादेर्विशेषणस्य स्वविरोधिबृहत्सामादिव्यावर्तकत्वमेव। न तु गायत्र्याद्यविरोधिसामान्तरव्यावर्तकत्वमित्युक्तम्। गुणास्तु क्रतुसंयोगादि-

त्याधिकरणे गुणाधिकरणेति यागस्य देवतोद्देश्यकद्रव्यत्यागात्मकतया विश्वदेवोद्देश्यक-

त्यागे आमिक्षावाजिनयोः परस्परपरिहारेणान्वयायोगादामिक्षायान्न विरोधिवाजिनस्य स्वाश्रयसम्बन्धव्यावर्तकतया यागभेदकत्वं व्यवस्थाप्यते। न तु विशेषणत्वमात्रादन्यथा द्रव्यदेवताभेदादपि तद्भेदप्रसङ्गाद्भेदस्यापि विशेषणतया नीलत्वादिविशिष्टत्वाश्रयभेदकत्वे स्वसमानाधिकरणस्वाश्रयप्रतियोगिक-

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

78 भेदप्रयोजकत्वलक्षणान्यावर्तकत्वस्यैवासिद्धप्रसङ्गाच्चेति। यच्च विशेषणानां परस्पर-

साङ्कर्यमाशङ्कितम्। तत् किं पदार्थप्रतीतिवेलायाम्? किं वा वाक्यार्थज्ञानकाले? नाद्यः - पदानां परस्परनिरपेक्ष तत्तद्विशेषणविशिष्टस्वार्थोऽपस्थापकतया साङ्कर्य-

शङ्कानुपपत्तिः। न द्वितीयः - प्रत्यक्षपदोपस्थितानामनेकविशेषणानां खलेकपोतन्यायेन अरुणैकहायनीवद्युगपदेकस्मिन् विशेष्येऽन्वयसम्भवेन परस्परसंसर्गप्रसङ्गगन्धाभावात्। ननु भवत्वयं न्यायः पदानां विशिष्टशब्दापकानामपि नागृहीतेन विशेषणन्यायेन तत्तद्विशेषणमात्र विश्रान्तिमभ्युपगच्छतां मीमांसकानां मते वस्तुव्यवस्थापकः विशिष्टशक्तिवादिनां तु सर्वपदानामपि विशिष्टवस्तूपस्थापकत्वेन विशेषणानां पृथगुपस्थित्यवान्न च न्यायः प्रवर्तत इति चेन्मैवम्। विशिष्टवाचिनामपपि पदानामैकविशेष्यान्वय-अविरोध्यनेकविशेषविशिष्टोप-

स्थापकानां एकविभक्तिसमभिव्याहारमहिम्ना विशेष्यैक्यमुपबोधयतां युगपदनेक-

विशेषणविशिष्टैकार्थोपस्थापकत्वादिविरोधादीन्यथा नीलमुत्पलमित्यादेः समानाधिकरण-

वाक्यत्वव्यवहारविरोधप्रसङ्गात्। भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्समानाधिकरण्यमिति सामाना-

धिकरण्यस्यैकत्र विशेष्यनेकविशेषणान्वयमन्तरेणासम्भवादिति। एवं स्थिते कारण-

वाक्येषु शोधकवाक्येषु च भवति सन्देहः। तत्तद्विशेषणभेदात् ब्रह्मभेदो भवति न वेति तथाहि उभयमिह लक्षणं वदन्ति वेदान्तिनः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

79 यतो वा इमानीत्यादिकारणवाक्यप्रतिपन्नं जगज्जन्मादिरूपमेकं सत्यं ज्ञान-

मित्यादिको वाक्यप्रतिपन्नं सत्यत्वादिकमपरम्। तत्र पूर्वतटस्थलक्षणमुत्तरं स्वरूपमिति केचित्। उभयमपि सामानाधिकरण्यस्येत्यधिकरणाभ्यां ब्रह्मस्वरूपप्रतिपत्त्यर्थत्वात् स्वरूपलक्षण एव पर्यवस्यतीति प्राञ्चः। तत्र सामानाधिकरण्यं शब्दमार्थञ्चेति द्विविधम्। तत्र शाब्दभिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तित्वरूपमभिधानम्। आर्थन्तु भिन्नयोर्विशेष्यविशेषणयोरेकस्मिन् विशेष्ये सम्बन्धरूपं वैयधिकरण्यमविभक्त्यन्त-

पदबोध्यत्वरूपम्। यथा - यतो वा इमानि भूतानि जायन्ते तत् ब्रह्मेति तदिदं जन्मादिलक्षणत्वं समुदितमित्येकः पक्षः। चेष्टेन्द्रियार्थाश्रयशरीरमित्यत्र चेष्टाश्रयत्वादिवत् प्रत्येकमेव लक्षणत्वमित्यपरः पक्षः। उभयमपि भाष्यकारानुमतमेव पदार्थयोजनायां सृष्टिस्थिति-

प्रळयमित्येकवचनान्ततया वाक्यार्थयोजनायां सृष्टिस्थितिप्रळयाः प्रवर्तन्त इति बहुवचनान्तं तया च निर्देशात्। यत्त्वत्र निलीनेन दूषितः जन्मादीनां प्रपञ्चगतानां ब्रह्मवृत्तित्वाभावात् कथं ब्रह्मलक्षणत्वं कथं वा तेषामुत्तरत्र विशेषणत्वोपलक्षणत्वविचार इति। तत्रेदं वक्तव्यम्। न प्रपञ्चमात्रगतं जन्मादिकं अपि तु तद्विशिष्टं ब्रह्मगतमेवेति सोऽकामयत बहुस्यां प्रजायेयेति श्रुतिस्वारस्यादवगम्यते। कारणमेवावस्थान्तरापन्नं कार्यमित्युच्यत इति तदन्यत्वमारम्भणशब्दादिभ्य इत्यत्र निरूपयिष्यते। सिद्धान्ते ब्रह्मणो भिन्ननिमित्तत्वोपादानत्वाङ्गीकाराच्च। जन्मादीनां ब्रह्मनिष्टत्वं वक्तव्यमिति प्रकृत्यधिकरणे स्पष्टीक्रियते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

80 किन्तु प्रथमसूत्रेण ब्रह्मणो जिज्ञास्यत्वे बोधिते किन्तत् ब्रह्म यज्जिज्ञास्यमुच्यत इति तल्लक्षणापेक्षायां तल्लक्षणत्वेनाभिधीयमानस्योपास्यब्रह्मत्वरूपनिष्ठत्वमन्तरा न विशिष्टनिष्टत्वकल्पनं युक्तमिति चेत् स्यादेवम्। यदि प्रथमसूत्रे जिज्ञास्य परो ब्रह्मशब्दतत्स्वरूपमात्रपरस्यात् स एव तावद्विशिष्टब्रह्मपरः। तथा हि कारणन्तु ध्येय इत्येवमादिभिरुपासनाविशेषः कारणत्वोप-

हितमेव ब्रह्मध्येयतया निर्दिश्यते। कारणञ्च ब्रह्म चिदचिच्छरीरकमिति सदेव सोम्येदमग्र आसीदित्यादिषु कारणवाक्येषु इदं शब्दसामानाधिकरण्यात् बहुस्यामिति सङ्कल्प-

निर्देशाच्चावसीयते। श्वेताश्वतरे च किं कारणं ब्रह्म यस्मात् जाता इति कारणस्वरूपं प्रश्नमुपक्षिप्य भोक्ताभोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतदिति चिदचिच्छरीरकमेव कारणं ब्रह्मशब्दार्थ इत्यभिधीयते। यस्य पृथिवी शरीरम्। यस्यात्मा शरीरमित्यादिषु चिदचितोः परमात्मशरीरत्वाभिधानमपि ब्रह्मपदं विशिष्टपरमिति सूचयति। तथा एषा सा त्रैविध्यतत्कृतमायाभ्यां विभूतिद्वयविशिष्टप्राप्यताबोधक-

प्रमाणसहकृताभ्यां विशिष्टमेव जिज्ञास्यमिति निर्णीयते। किञ्च यदि केवलं ब्रह्मजिज्ञास्यं तर्हि तदसाधारणस्वरूपानुबन्धिसर्वज्ञत्वादिबोधकसत्यज्ञानादिवाक्यप्रतिपन्नसकलेतर-

व्यावृत्तसत्यत्वज्ञात्वादिलक्षणप्रमाणेन जीवादीनां लक्षणत्वेन कीर्तनमसमञ्जसं स्यादिति यत्किञ्चिदेतत्। एतदभिप्रायेणैवोक्तं श्रुतप्रकाशिकायाम् - सृष्टिस्थितिप्रलयमित्यत्र सृष्टिशब्द-

व्युत्पत्तिपरः। सृष्टिस्थित्यन्तकालेषु सृष्टिस्थित्यन्तकारिणी इत्यादिप्रयोगात् प्रयोज्य-

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

81 प्रयोजकव्यापारयोर्व्यतिकरेण निर्देशो ब्रह्मण एव निमित्तत्वोपादानत्वाभिप्रायनिबन्धन इति। अस्तु वा स्वरूपमात्रस्यैव जिज्ञास्यत्वम्। ब्रह्मशब्दस्य तन्मात्रपरः तथाऽपि न दोषः। जन्मादीनां प्रपञ्चनिष्ठानामपि स्वकारणत्वसम्बन्धेन ब्रह्मलक्षणत्वे विरोधाभावात्। उक्तञ्च श्रुतप्रकाशिकायाम् - ब्रह्मण उपलक्षणीभूतजन्मादिभिर्हेतुहेतुमद्भावसम्बन्धि इत्युक्तं भवतीति न चातिप्रसङ्गश्शङ्कनीयः। अपृथक् सिद्धविशेषणत्वतदभावाभ्यां वैषम्यादित्थमेव श्लोके जगज्जन्मस्थेमप्रभृतिभिरतस्स्यात्तवभिदेत्यपि समर्थयन्ति। इदमेव श्रीमद्भाष्यम् - जगज्जन्मस्थितिलयास्वनिमित्तोपादानभूतं ब्रह्मेति लक्षयन्तीति। अत एव वेदान्तदीपे। जगज्जन्मादिकारणतो ब्रह्मलक्षणतः प्रतिपादयितुं शक्यते। नवेति संशयमुक्त्वा जन्मादीनामुपलक्षणत्वविशेषणविचारः कृतः। तदेवं जन्मादीनां समुदितानामसमुदितानाञ्च लक्षणत्वं न विरुद्धम्। यथाहुराचार्यपादाः - प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृतिर्धीम्ने, सम्भूयाप्याहुरेके फलमपि च तदा शङ्कितार्थव्युदासः1॥ इति। तत्र च - समुदायलक्षणत्वं श्रुतिस्वारस्यात् सूत्रस्थपदस्वारस्याच्चावगम्यते। श्रुतौ तावत् यतो वा इमानीत्यादिषु प्रत्येकन्तत्ब्रह्मेत्यनभिधानात् मिलितानामेव लक्षणत्वं प्रतीयते। न च व्यावर्त्याप्रसिद्धेर्न समुदायस्य लक्षणत्वं तत्तदुपादानभूतं स्थितिकारणत्व-

व्यवच्छेद्यं किञ्चिदस्तीति वाच्यम्।

  1. अ॰सा॰ श्लो॰ 38 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

82 व्यावर्त्य विशेषनिश्चयाभावेऽपि स्थितिकारणत्वमात्राभिधाननिमित्तोपादानभूत-

वस्त्वन्तरशङ्का स्यादिति शङ्कितवस्त्वन्तरव्यावर्तनाय समुदायलक्षणत्वोपपत्तेः। न च तस्य प्रयोजनाभावः तद्विजिज्ञासत्वेति विधित्सितोपासनोपयोगी निरतिशयबृहत्वविपरीत-

बृहत्वशङ्का व्यावर्तनेन तद्ब्रह्मेत्युक्तलक्ष्यकारविपरीताकारनिराकरणमुखेन लक्ष्याकार-

निर्णयार्थतया तत्सार्थक्यात्। न हि जन्मादिष्वेकैककारणत्वं लक्ष्याकारविपरीतशङ्का व्यावर्तनक्षमम्। तथाहि - उत्पत्तिकारणत्वे च बृहत्वं न सिद्ध्यति, अतो जन्मकारणत्वमात्रस्य समस्तवस्तु-

व्यवच्छेदेन क्षमत्वेऽपि जन्मादिसमुदायकारणत्वस्यैकनिरतिशयबृहत्वौपयुक्तत्वात्। सृष्टि-

स्थितिप्रलयसमुदायकारणत्वं युक्तं सूत्रकारोऽपि। जन्मादीत्येकवचनं प्रयुञ्जानस्समुदायस्यैव लक्षणत्वं सूचयति। यत्तु प्रत्येकं तत् ब्रह्मेत्यनभिधानान्न समुदायस्य लक्षणत्वं निश्चयितुं शक्यम्। ब्रह्मभेदशङ्काभयोपपन्नस्य तदनभिधानमात्रस्य समुदायलक्षणत्वज्ञापन¯…¯1भावादन्यदा सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्रापि सत्यत्वादिवादिनां प्रत्येकलक्षणत्वाभावप्रसङ्गः। तत्रापि प्रत्येकं ब्रह्मेत्यनुक्तेः नात्र बृहत्व¯…¯व्यावर्तनाय तदुक्तिः। जन्मादित्रितयोक्त्या तदुपयुक्तज्ञानादिलाभोपि सङ्कोचकत्वं नियतत्वाद्यनुक्त्या तदुपयुक्तगुणलाभेन तच्छाकाव्यावृत्त्यसिद्धेः। सिद्धौ वा तदर्थं प्रत्येकलक्षणस्यैव कथनसम्भवाच्च। ¯…¯क्षणस्योपलक्ष्योपपादकत्वानियमाच्च। नात्रैकवचनमपि। न समुदायलक्षणत्वज्ञापकम्। यस्य ¯धिकं सहजेत्यादाविव सत्यप्येकवचने प्रत्येकमेव लक्षणत्वसम्भवादिति नवीनोक्तं तन्न। यः प्राणेन प्राणिति सत आत्मा सर्वान्तरः यो वा ¯…¯ आत्मा सर्वान्तरः इत्यत्रैव यः पृथिवीमूलको ¯…¯त्येवते

  1. T.M. & D.M. इत्युभयत्रापि ¯…¯ इति चिह्नितस्थले सुस्पष्टरूपेण नैव दृश्यते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

83

आत्मान्तर्याम्यमृतः यो वेदान्त¯…¯ आत्मान्तर्याम्यमृत इत्यादाविव च यतो वा इत्यत्रापि

न प्रतिवाक्यम्। यतो ¯…¯ यदिति श्रूयमाण यच्छब्दत्रयप्रतिसम्बन्धितया तद्ब्रह्मेति

पृथक् निर्देशे स्वारसिकेपि ¯…¯ य त्रयाणां यच्छब्दघटितवाक्यानामेकेन यच्छब्द-

घटितवाक्येन प्रतिनिर्देशो मिलितानामेव ¯…¯ त्वं कल्पयतीति समुदायलक्षणत्वस्य

दुरुपपन्नत्वात्।

न च प्रत्येक¯…¯ब्रह्मेत्यभिधाने ब्रह्मभेदकं वा स्यादिति तद्व्यावर्तक-

तयाऽन्यथासिद्धसकृन्निर्देशो समुदायलक्षणत्वज्ञापक इति वाच्यम्। सत आत्मा सर्वान्त-

¯…¯द्यसकृन्निर्देशेपि अन्तर्यामिभेदशङ्काभाववत् अत्राप्यसकृन्निर्देशेपि ब्रह्मभेदशङ्का-

भावोपपत्तेः।

ननु समुदायपक्षेप्युपनीयतुयशिष्यं वेदमध्यापयेत् द्विजः। सकल्पं स रहस्यञ्च

तमाचार्यं प्रचक्षते इत्यत्रैकयच्छब्दनिर्देशेप्युपनयनाध्यापनयोर्मिलितयोरेवाचार्ये ¯…¯-

क्षणाप्यलाभवदिहापि यो भूतानि सृजत्यवति हन्ति तत् ब्रह्मेत्येकेनैव यच्छब्देन

सर्वसामञ्जस्ये तद्बाहुल्यं व्यर्थमेवेति चेन्मैवम्। समानक¯…¯पूर्वकाल इति विहितत्वात्

प्रत्ययान्तेनोपनीयेत्यनेनोपनयनाद्यापनयोरेककर्तृतालाभेनावधारणार्थक-तुशब्देनोपनीयैव

योऽध्यापयेदित्यर्थलाभेन केवलाद्यापयित्वव्यावृत्त्या च यच्छब्दैक्येप्युपनेतृत्वे सत्यध्या-

पयितुरेवाचार्यत्वलाभेपि प्रकृते तथाविधग्राहकान्तराभावेन मिलितलक्षणत्वलाभाय

यच्छब्दत्रयस्यैव प्रयोक्तव्यतया वैयर्थ्यगन्धाभावात्।

किञ्च सृजत्यवति हन्ति प्रतिपादकव्यापाराभिधाने कुलालादेरिव परस्यापि

ब्रह्मणः प्रपञ्चनिर्माणादौ प्रयत्नाधिक्यशङ्का स्यादित्येतद्व्यावर्तनाय प्रयोजक-

व्यापाराभिधानं श्रुतौ कृतम्। तथा च सकलं जगत् तत्सङ्कल्पादेव जायते, जीवति,

नश्यतीति यत्नगौरवव्युदासः फलतो भवति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

84

एतदभिप्रायेणैव चाखिलेत्यादिश्लोके लीलाशब्दः तत्र च लयकारणस्य

मुद्गरादिना धारणस्याभिधाने ब्रह्मण उपादानत्वालाभेन तल्लाभाय लयाधिष्ठान-

त्वेऽभिधेये तत्रापि कालादिव्यावर्तनाय सत्कार्यवादनिराकरणाय च यत्प्रयन्त्यभि-

संविशन्तीति द्वितीयान्तयच्छब्देन निर्देशः कृतः। प्रयन्ति प्रलीयमानानि सन्ति भूताः

यदभिसंविशन्ति यत्प्राप्नुवन्ति कारणावस्थानि भवन्तीत्यर्थः।

तथा जीवनहेतुत्वं नरा जानन्ति न ताटस्थ्येन किन्तु शरीरशरीरिभावेनान्तः

प्रविश्येत्येतत्कोचनाय येन जातानि जीवन्तीत्यत्र तेनेति कर्तरि तृतीयानिर्देशः कृतः।

अनेन नियन्तृत्वमपि फलितम्। जातानीति पुनर्निर्देशेनापि जीवनयोर्मिलितयो

लक्षणत्वेनोच्यते।

तदेवं विभिन्नविभक्त्यन्तरया निर्देशे आवश्यकेन कथञ्चन यच्छब्दबाहुल्य-

वैयर्थ्यशङ्का अपि च उत्पत्तिहेतुत्वलयाधिष्ठानत्वाभावनादानत्वे बोधनीये तदुपपत्तये

तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चद्यच्चाभवदिति श्रुत्यनुरोधेनान्तःप्रविश्य

नियन्तृत्वस्यावश्यकत्वे सति कथं प्रत्येकलक्षणात्ववाचो युक्तिः।

किञ्च प्रत्येकलक्षणात्वे एकेतरवैयर्थ्यं स्यादेकेनैव ब्रह्मप्रतिपत्तिसम्भवात्

सत्यज्ञानादिवाक्येऽपि न सत्यत्वादीनां प्रत्येकलक्षणत्वं भाष्योक्तस्य नामान्तरभजना-

र्हावस्थान्तरशून्यत्वेन निरुपाधिकमत्तायोगित्वलक्षणसत्यत्वस्याचित्तत्वं सृष्टिजीवोभयमात्रे

व्यावर्तकत्वेऽपि नित्यमुक्तोभयव्यावृत्तत्वेन ज्ञानशब्दार्थस्य नित्यासङ्कुचितज्ञानवत्वस्य

कदाचित् सङ्कुचितज्ञानमुक्तव्यावर्तकत्वेऽपि नित्याव्यावर्तकत्वं न च प्रत्येकलक्षण-

त्वायोगात् आनन्त्यन्तु यद्यपि सकलव्यावर्तकं भवति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

85

तथाहि न तदकमुपब्रह्मेति प्रत्येकनिर्देशप्रसङ्गः। यो वेद निहितं गुहायां

परमेत्युत्तरवाक्यस्थविदिक्रियापेक्षितकर्मसमर्पकतया द्वितीयान्तत्वेन तदेकवाक्यतया-

न्वितस्य स्वार्थमात्रावसायितया सत्यं ज्ञानमनन्तं गुहायां परमे व्योमन् नियतं ब्रह्म यो

वेदेत्येकवाक्यतोपयोग्येकार्थप्रतिपत्तये सकृन्निर्देशस्यैवापेक्षितत्वात्।

आर्थिकस्तु - सत्यत्वादीनां लक्षणत्वप्रत्ययः तत्र च प्रत्येकं ब्रह्मेत्यन्वयेऽपि न

दोषः। इह तु त्रिभिश्शब्दैः प्रत्येकं निर्दिष्टस्य प्रत्येकतच्छब्दैर्निर्देशे स्वारसिकेऽपि तथा

तत्रानिर्देशादेकतच्छब्दनिर्देशाच्च लक्षणैक्यमिति वैलक्षण्यत्यप्रसिद्धत्वात्। किञ्चोपास-

नोपयोगि बृहत्वपरता बृहत्वशङ्काव्यावर्तकतयापि समुदायकारणत्वं युक्तम्।

न च त्रितयाप्त्या जन्माद्युपयुक्तज्ञानादिलाभेऽपि मोचकत्वनियन्तृत्वोपयोगि-

ज्ञानाद्यलाभादबृहत्वशङ्कावतिष्ठते एवेति वाच्यम्। आत्यन्तिकलयरूपमुक्तेरपि

प्रलयान्तर्भावेन स्थितौ नियन्तृत्वान्तरालेन च तदुपयुक्तज्ञानादेरपि तत एव

लाभसम्भवात्।

यद्यपि मुक्तेः परमपुरुषार्थत्वसूचनाय पृथगभिधानं युक्तम्। तथाऽपि तस्य

सोश्नुते सर्वान् कामानिति प्रकरणस्थवाक्यान्तरसिद्धतया इह पुनस्तदनभिधानं न

दोषाय। एतेन सृष्ट्यादृष्टकर्तृत्वस्यैव काणडाद्युक्तस्य जन्मादीत्यादिशब्देन ग्राह्यतया

त्रयाणामेव लक्षणत्वोक्तिरयुक्तेति शङ्का परास्ता।

सृष्टिरक्षाधृतिज्ञाननियत्यज्ञानखण्डमोक्षानामष्टानां मध्ये बन्धनाज्ञानयोः सृष्टौ

ज्ञाननिरक्षानि यतीनामुपस्थितौ मुक्तिर्लये च यथायथमन्तर्भावेन दोषाभावात्।

अवान्तरलक्षणत्वाच्च क्वचिद्विलक्षणव्यवहारः अनन्तर्भावे च भृगुं प्रति नियन्तृत्व-

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

86

शङ्काव्यावृत्तिरपेक्षितस्य नियन्तृत्वस्यानभिधानायोगात् अन्यतो ज्ञास्यतीत्यनभिधाने

स्थित्यादिकारणत्वमपि तथैव ज्ञास्यतीति लाघवाज्जन्मादिकारणत्वमात्रमुपदिशेत्।

यत्तु मुक्तेर्लयान्तर्भावे प्रयंतीत्येतावतैव चारितार्थ्येऽभिसंविशन्तीत्यस्य वैयर्थ्यं

स्यादित्युक्तम्। तन्न। तात्विकाद्यभिमतप्रलयमुक्तिव्यावृत्तस्य कारणावस्थापत्तिरूपलयस्य

अविद्यानिवृत्तिपूर्वकब्रह्मप्राप्तिरूपमोक्षस्य च प्रतिपत्तये तत्सार्थक्यात् प्रयन्त्यभि-

संविशन्तीत्यनया स्वतन्त्रक्रियापटुत्वे यच्छब्दान्तराध्याहारप्रसङ्गेन प्रयन्तीत्यस्य

नपुंसकप्रथमाबहुवचनान्ततया जातानीतिवद्भूतविशेषणत्वस्यैव स्वरसत्वाच्च, यत्तु

बन्धध्वंसरूपमोक्षस्य लयान्तर्भावे प्रागभावे निवृत्तिरूपोत्पत्तेरपि लयान्तर्भावे सति सृष्टेः

पृथगभिधानवैयर्थ्यम्। न चोत्पत्तिः प्रागभावस्य निवृत्तिर्न प्रपञ्चस्येति न लयान्तर्भाव

इति वाच्यम्।

तर्हि मोक्षोऽपि बन्धस्य ध्वंसो, न बद्धस्येति, न भुक्तेर्लयान्तर्भाव इति तन्न।

भूतशब्दनिर्दिष्टचेतनाचेतनोभयात्मकप्रपञ्चस्यैव जन्मस्थितिलयेषु प्रतियोगित्वं श्रुति-

सूत्रयोस्तावत् प्रतीयते। तत्र जन्मद्विविधं स्वरोविकाररूपं, स्वभावविकारूपं चेति। तत्र

प्रथममचेतनस्य, द्वितीयन्तु चेतनस्य, उभयसाधारणं कार्यत्वञ्चावस्थान्तरयोगित्वरूपम्।

न तु प्राशसतस्सम्भवः। कुतः तदेतदक्षयं नित्यं जगत् मुनिवराखिलमावि-

र्भावतिरोभावजन्मकाशं विकल्पवदिति। अभिमतं चेतन्मध्यस्थानामपि। तथा च।

पातञ्जलं भाष्यम् - द्रव्यं हि नित्यमाकृतिरनित्या कथं ज्ञायते। एवं हि दृश्यते लोके

सुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति।

पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचका अपमृद्यस्वस्तिकाः क्रियन्ते

पुनरावृत्तस्वर्णपिण्डः पुनरपरया आकृत्याखदिराङ्गारसवर्णे कुण्डले भवतः आकृतिरन्या

चान्या च द्रव्यम्। पुनस्तदेव आकृत्युपमर्देन द्रव्यमेवावशिष्यत इति। तथा च।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

87

प्रागवस्थाद्रव्यस्य प्रागभाववुत्तरावस्था चोत्पत्तिरिति स्थिते वेदान्तमते व्युत्पत्तिः

प्रागभावनिवृत्तिरिति कथनमुपहास्यम्।

तदिदं कामान्तरभजनार्हावस्थान्तरयोगित्वरूपं कार्यत्वं सद्वारकमद्वारकञ्चेति

द्विविधम्। तत्राद्वारकमचेतनस्य, सद्वारकं तु चेतनस्य, तस्याचिद्वारैहावस्थान्तरयोगित्वात्

सोयमचित्सम्बन्धः चेतनस्य बन्ध इत्युच्यते। स्थितिश्चैहिकामुष्मिकेष्टानिष्टफलसाधन-

प्रवृत्तिनिवृत्त्यादिरूपत्वात् बहुविधा। सा च चेतनेषु क्वचित् स्वतः क्वचिदन्यतः अचेतनेषु

त्वन्यत एवेति विस्तृतं प्राचीननिबन्धेषु तदेवमुत्पत्तिस्थितिवल्लयोऽपि भूतशब्दाभिहित-

जगत्प्रतियोगिकः स चागन्तुकावस्थानिवृत्तिपूर्वकप्रागवस्थापत्तिः।

आगन्तुकत्वञ्च निमित्तान्तरप्रयोज्यत्वं सा च निवृत्तिः द्विविधा। आत्यन्तिकी

अनात्यन्तिकी चेति। अनात्यन्तकी चापि द्विविधा। विभक्तनामरूपावस्थापर्यवसायिनी

अविभक्तानामरूपावस्थापर्यवसायिनी चेति। तत्र प्रथमा घातादेरचेतनस्य कपालाद्य-

वस्थापर्यवसायिनी। पृथुबुध्नोदराद्यवस्थानिवृत्तिः देवदत्तादेश्चेनस्य तु नामान्तर-

भजनार्हदेहान्तरसम्बन्धपर्यवसायिनी पूर्वदेहनिवृत्तिः।

द्वितीया तु - गुणसाम्यावस्थापन्नप्रकृतिरूपतमावस्थापर्यवसायिनी। चेतनस्य तु

तथाविधाचित्संसर्गपर्यवसायिनी, आत्यन्तिकनिवृत्तिस्तु भगवदुपासनाजन्या प्रकृति-

संसर्गप्रयोज्यस्थूलसूक्ष्मावस्थापन्नशरीरसम्बन्धनिबन्धनस्वभावविकारनिवृत्तिः।

सा च स्वाभाविकज्ञानानन्दात्मकस्वरूपाविर्भावपर्यवसायित्वान्मोक्ष इत्याचक्षते।

एतच्च सम्पद्याविर्भावस्वेनशब्दादित्यत्र वक्ष्यते। तदेवं शरीरसम्बन्धप्रयोज्यस्वभाव-

तिरोभावरूपबन्धस्य सृष्टावन्तर्भावतत्तन्निवृत्तरूपमुक्तेरपि लयान्तर्भावो युक्त एव।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

88

तदिदमुक्तं श्रुतप्रकाशिकायाम् - न च प्राकृतप्रतिसञ्चरमोक्षविषयप्रलय-

शब्दयोरर्थवैरूप्यं वक्तुमुचितम्। शक्तिभेदकल्पनामुख्यत्वयोरन्यतरप्रसङ्गादित्युपक्रम्य

अतस्सर्वप्रयोगानुगुणार्थः स्वीकार्यः। अतो विसदृशावस्थाप्रहाणेन कारणत्वधर्मिणा

द्रव्येण विभागापादनेन भूतेन संशयो लय इति, एतेन बन्धस्यानावृत्तिर्मुक्तिर्न तु

बध्यस्येति न मुक्तेर्लयान्तर्भाव इति शङ्कापि परास्ता।

स्वर्गी ध्वस्त इति व्यवहारानुरोधेन बन्धध्वंसस्यापि मोक्षप्रतियोगिकत्वोपपत्तेश्च।

अन्यथा जन्मप्रलययोरप्यचेतनमात्र प्रतियोगिकत्वापत्त्याभूते शब्देनाचेतनमात्रग्रहणे सति

जगत्कारणत्वं ब्रह्मलक्षण¯…¯ न सिद्ध्ये ¯…¯ सदावेश¯…¯ बृह्मत्वं शङ्काव्यावर्तकतया

समुदायलक्षणत्वं श्रुतप्रकाशिकोक्त¯…¯स्थमेव ¯…¯ एतेनोक्तशङ्काव्यावृत्तये

प्रत्येकलक्षणमेवोच्यतामिति शङ्का परास्ता। समुदायलक्षणहेतु¯…¯नामुपन्यासात्

प्रत्येकं ¯…¯ने निरतिशयब्रह्मत्वस्य प्रत्येकोपलक्ष्याकारणां संज्ञयाकारान्तरश्रयणीयः।

तस्मात् ¯…¯लक्षणात्वप्रतिपत्तिरेव न स्यादिति सूत्रकारोपि जन्मादीत्येत¯…¯नं

प्रयुञ्जानस्समुदायक्षणत्वपक्षमेव ¯…¯ अन्यथा आनन्दादयः प्रधानस्येत्यादि ¯…¯

निर्दिशेत्। यदत्रोक्तम्। सौत्र एकवचनस्वारस्यादपि न समुदायलक्षणत्वम्। यत्र

सास्नादयः ¯…¯संयोग इत्यादौ सत्यपि बहुवचने समुदायस्य लक्षणत्वसंयोग-

सम्भवयोर्दर्शनात् ¯…¯स्य ¯…¯ल¯…¯ बहुवचनमेव प्रयोक्तव्यम्। यदा आनन्दादयः

प्रधानस्येत्यादौ बहुवचनानिर्देशात् समुदायानामन्यपदार्थत्वा¯…¯ समुदायस्यैवान्य-

पदार्थत्वमेकवचननिर्देश¯…¯गम्यत इति तस्यालक्षणत्वमुक्तम्। अस्ति च तथा

निर्देशप्रयोजकमित्यवोचाम। यत्र सास्नादय इत्यादौ समुदायिनां लक्षणत्वप्रतीतावपि

प्रत्येकं सास्नादेरतिप्रसङ्गित्वात्समुदायतात्पर्यकत्वमगत्या कल्प्यते। यस्य छत्रादिकं

सराजेत्यादौ तु छत्रोपलाक्षिताकारातिरिक्तस्य व्यजनाद्युपलक्ष्याकारस्य राज्ञिदर्शनात्

समुदायोपलक्षणत्वानुपपत्त्या सत्यप्येकवचने तदनादरेण प्रत्येकमेव लक्षणत्वं कल्प्यते।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

89

इह तु जन्मादिप्रत्येकोपलक्ष्याकारसद्भावात्समुदायस्यैव लक्षणत्वं युक्तम्।

एतदेवाभिसन्धायोक्तमानन्दमयाधिकरणे व्यासार्यैः जन्मादिभिरुपलक्षणैरुपलक्ष्या

तदनुगुणज्ञानशक्त्याद्याकारभेदात्तौ स्वीकृता इति हलोनन्तरास्संयोग इत्यादौ

महासंज्ञाकरणसामर्थ्यात् सत्यपि बहुवचने समुदायस्यैव संज्ञेति व्यक्तं वैयाकरणान्

अजाद्यतष्टावित्यादौ प्रत्ययान्तसमुदायस्य क्वचिदपि प्रयोगादेर्दर्शनेन सिद्धन्तु

नित्यशब्दत्वादिति न्यायेन प्रत्येकं टावन्ताजादिशब्दपाठसामर्थ्येन च प्रत्येकं प्रत्ययसिद्धेः

गर्गाः शतं द٥न्तामित्यादावपि सत्यपि बहुवचने आर्थिकश¯…¯नोदाहार्येन

भवन्तीत्यत ¯…¯क्याच्च तस्या¯…¯नेन ¯…¯ कर्मत्वावगमे सति गुणानुरोधेन

¯…¯नावृत्तेरन्यायत्वात् समुदाये पर्याप्तिरङ्गीक्रियते ¯…¯1भोभ्यामित्यादौ तु

तथाविधबाधिकाभावात् प्रत्येकमेव समाप्तिरित्यन्यत्र विस्तरः।

तस्मादेकवचनस्वारस्यात्समुदायस्य लक्षणत्वेन किञ्चित् बाधकम्। इत्थं

समुदायपक्षे परोक्तदूषणोद्धाराद्य तत्रैवाभिनिवेशोस्माभिः कृतः वस्तुतस्तूभयमपि

भाष्यकाराभिमतमिति प्रागेवावोचाम तथा चोक्तम्। अधिकरणसारावल्यामाचार्यपादैः -

प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृतिर्धीमहिम्ने,

सम्भूयाप्याहुरेके फलमपि च तदाशङ्कितार्थव्युदासः2।

इत्येवं जगत्कारणत्वेनाधिगतस्य ब्रह्मणः स्वरूपं सत्यज्ञानादिवाक्येन शोध्यत इति

तच्चोदकवाक्यमित्युच्यते।

  1. T.M, D.M उभयत्रापि सुस्पष्टरूपेण नैव दृश्यते।

  2. अधि.सा. 37

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

90

तथा च श्रीमद्भाष्यम् - सत्यं ज्ञानमनन्तं ब्रह्मेत्यनेन वाक्येन जन्मादिनावगत-

स्वरूपं ब्रह्मसकलेतरविसजातीयमलक्ष्यत इति। ननु लक्षणभूतेन जन्मादिकारणत्वेन च

ब्रह्मणस्सजातीयविजातीयव्यावृत्तं सिद्धा, अन्यथा तस्य लक्षणत्वायोगात् तत्कथं

सत्यवाक्येन सकलेतरव्यावृत्तत्वाभिधानमिति चेदुच्यते -

व्यावृत्तिर्द्विविधा – व्यक्त्यन्तरासम्भावितधर्मान्वयरूपा, तत्तज्जीतीयसाधारण-

धर्मानन्वयरूपा च।

तत्र तल्लक्षणं धर्मयोगे व्यक्त्यन्तरेभ्योऽन्यत्वं सिध्यति। न त्वतज्जातीयत्वं

तज्जातीयत्वव्यञ्जकधर्मान्वयाधीनतज्जातीयत्वशङ्काया अनपगमात् तदन्वये तु

तज्जातीयताव्यावृत्तिः।

तद्यथा - घटस्य संस्थानविशेषेण स्वेतरसमस्तवस्तु वैलक्षण्ये सिद्धेऽपि

पृथिवीत्वव्यञ्जकगन्धवत्वयोगात्। पृथिवीजातीयत्वं नापैति। तदयोगादजादिषु

तज्जातीयत्वावगमः। एवं जगत्कारणत्वरूपविलक्षणधर्मान्वयः। ब्रह्मणोऽचिज्जातीय-

जीवजातीयत्वशङ्कावत्तिष्ठत इति तद्व्यावृत्तिश्रुत्यादिवाक्येन प्रतिपद्यत इति तस्य

सकलेतरव्यावृत्तस्वरूपबोधकतोक्तिर्युक्तेति व्यासार्यः।

अत्र भावप्रकाशिकाकृतः यदि जीवासम्भावितजगत्कारणत्वश्रवणेऽपि जीव-

जातीयत्वशङ्कास्यात्तथा सत्यवादिश्रवणेऽपि जीवजातीयत्वशङ्का तदवस्थैव स्यात्। यदि

च सत्यत्वश्रवणे सति जीवत्वाव्यापकासत्यत्वव्यावृत्त्या जीवत्वाभावस्साध्यते।

तर्हि जीवत्वाभावव्याप्तकारणत्वेऽपि जीवत्वाभावस्साधयितुं शक्यत इति न

जीवजातीयत्वाशङ्का भवेत्। तस्मात् कारणत्वशङ्कितदोषव्यावर्तकतया सभ्यादि-

लक्षणस्सार्थक्यमित्यत्रैव तात्पर्यग्रन्थस्येति व्याचख्युः।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

91

अत्रेदं चिन्त्यम् - यद्यपि तावत्कारणत्वं वस्तुतो जीवत्वाभावव्याप्तं स्यात्।

तथापि तत्वसजातीयमेव तत्साध्यसाधकं न वास्तवम्। तद्ज्ञानञ्च निश्चयात्मकमेव।

तद्बाध्यसाधकं1 कारणं न संशयात्मकमिति सर्वसम्मतं तच्चेह न सम्भवति

जीवत्वाभिव्यञ्जकतदसाधारणान्वयप्रयुक्तजीवजातीयत्वशङ्कायां कारणत्वे जीवत्वाभाव-

व्याप्तिनिश्चयायोगात्।

सत्यादिवाक्यैर्निरुपाधिकसत्ताश्रयत्वावबोधने च व्यञ्जकव्यतिरेकनिश्चयसत्वात्

जीवस्य शङ्काव्यावृत्त्या भवति व्याप्तिनिश्चयः। अन्यथाऽनौपाधिकं गन्धस्य पृथिवीत्याभि-

व्यञ्जकत्वं जानता जलीयगन्धे सोपाधिकत्वभ्रमवता पुरुषेणापि जलत्वं निष्ठं वास्तवं

पृथिवीत्वाभावव्याप्तत्वमादाय जलत्वेन पृथिवीत्वाभावसाध्ये तद्यदि च जलत्वस्य वस्तुतः

पृथिवीत्वाभावव्याप्तत्वेऽपि पथिवीत्वाभिव्यञ्जकसोपाधिकगन्धवत्वभ्रमेन जले पृथिवी-

जातीयत्वशङ्कया जलत्वे पृथिवीत्वाभावव्याप्त्यनिश्चयान्न तथा जलत्वेन पृथिवीत्वाभाव-

निश्चयः।

किन्तु जलीयगन्धे सोपाधिकत्वनिश्चये सति पृथिवीत्वव्यञ्जकव्यावृत्त्या जल-

पृथिवीजातीयत्वनिश्चये सति प्रतिबन्धकशङ्कावगमात् व्याप्तिनिश्चयोत्तरकालं जलत्वेन

पृथिवीत्वाभावनिश्चय इत्युच्येत।

तर्हीहापि सत्तायामनौपाधिकत्वनिश्चयात् प्राक् जलत्वाभिव्यञ्जकधर्मान्वयप्रयुक्त-

जीवजातीयत्वशङ्का न ह्यवर्तत इति समस्समाधिः। न चैवं भेदारम्भावितत्वकीर्तन-

मनुपपन्नं स्यात्।

  1. D.M. तद्बाध्यसाधकं इति पाठो नास्ति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

92

ब्रह्मणो तवजातीयत्वशङ्काव्यावृत्तेः प्राग्जीवासम्भावितत्वनिश्चयायोगादिति

वाच्यम्। जीवासम्भावितेत्यस्य श्रुतप्रकाशिकायामदर्शनात् व्यक्त्यन्तराभावितेत्येव हि

तत्र दृश्यते। स्वेतराचेनबद्धमुक्तनित्यव्यावृत्तत्वम्। तदर्थः तच्च ब्रह्मणो जीवजातीय-

त्वशङ्कायामपि सम्भवत्येवेति न किञ्चिदनुपपन्नम्।

व्यावृत्त्याविधेत्यस्यायमभिप्रायः - व्यावृत्तिवैलक्षण्यं भेद इति यावत्। स च

द्विविधः तद्धर्माश्रयप्रतियोगिकस्तद्धर्मावच्छिन्नप्रतियोगिताकस्येति तत्राद्यस्सजातीय-

विजातीयोभयवृत्तिः।

द्वितीयस्तु - विसजातीयमात्रवृत्तिः तद्धर्मावच्छिन्नमात्रभेदस्य तेन सह विरोधात्।

तत्राद्यस्तद्धर्माश्रय किञ्चिदवृत्तिधर्मान्वयरूपः द्वितीयस्तु तद्धर्मानन्वयरूपः।

तद्यथा - घटस्य घटत्वरूपं संस्थानं पृथिवीत्वाश्रयपदादिप्रतियोगिकभेदरूपं

वैलक्षण्यं न सम्पादयति। तद्धर्माभिव्यञ्जकधर्मसमानाधिकरणस्य तस्य तद्धर्मा-

विरोधित्वात्। यो यद्धर्माभिव्यञ्जकधर्मविरोधधर्मतद्धर्मावच्छिन्नप्रतियोगिताकभेदवद्-

वृत्तिरिति व्याप्तेः तथा च जगत्कारणत्वबोधकवाक्यात् चिदचिदवृत्तिधर्मान्वयप्रतिपादन-

मर्थभेदत्वाज्जीवत्वाद्याश्रयप्रतियोगिकभेदरूपसजातीयविजातीयोभयसाधारणवैलक्षण्य-

बोधनेऽपि जगत्कारणत्वे जडत्वजीवत्वाभिव्यञ्जकसोपाधिकं सत्ताश्रयत्वसङ्कुचितज्ञान-

त्वादिधर्मविरोधीत्यस्य तन्मात्रादप्रतिपत्त्या जडत्वजीवत्वाद्यवच्छिन्नप्रतियोगिताकभेदवत्व-

रूपविजातीयत्वस्य ततो लाभाभावात् सत्यज्ञानादिवाक्ये न तु निरुपाधिकसत्यत्वादि-

त्वासङ्कुचितज्ञानत्वादिबोधनेन जडत्वाद्यभिव्यञ्जकधर्मविरोधिधर्मप्रतिपत्त्या तद्धर्माव-

च्छिन्नभेदरूप तद्विजातीयत्वप्रतिपत्तिः भवतीति।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

93

एतेन घटत्वादिसंस्थानं यस्याश्रयं पटादिभ्यो व्यावृत्त इति न पृथिवीमात्रात्

घटस्यापि पृथिवीत्वात् येभ्यश्च व्यावर्तयति तद्विजातीयत्वमपि ततो भवत्येव। यच्च

यस्मात् यस्य विसजातीयत्वं बोधयति तत्संस्थानं तस्य तस्माद्व्यावर्तकमेव न भवति।

प्रकृते तु कारणत्वं जीवादिभ्यो ब्रह्मव्यावर्तयतीति कथं तेनाकारेणैभ्यो जीवादिभ्यो

वैजात्यं तदन्तर्भावायोग्यत्वरूपं न सिध्यतीति नवीनोक्तमपास्तम्। व्यावर्तकत्वेपि

विजातीयत्वावबोधकत्वस्योपपादितत्वात्।

किञ्च घटत्वं हि घटं पटात् व्यावर्तयति। न पृथिवीमात्रादिति वदतः

कोऽभिप्रायः। यदि च तद्धर्मावच्छिन्नप्रतियोगिताकभेदव्यवहारप्रयोजकज्ञानविषय-

धर्मस्यैव विजातीयताव्यवहारप्रयोजकत्वाद्घटवत्वावच्छिन्नभेदव्यवहाराप्रयोजकं घटत्वं न

पृथिवी विजातीयताव्यवहारप्रयोजकमिति तथापि वक्तव्यम्।

कुतो घटत्वादेस्तथाविधव्यवहाराप्रयोगत्वमिति तत्र यद्युच्येत तद्धर्माभिव्यञ्जक-

धर्मविरोधित्वेन ज्ञायमानधर्मस्यैव तद्धर्मावच्छिन्नभेदव्यवहारप्रयोजकत्वात् पृथिवीत्याभि-

व्यञ्जकगन्धसमानाधिकरणत्वेन ज्ञायमानं घटत्वं न पृथिवीत्वावच्छिन्नभेदव्यवहार-

प्रयोजकमिति तर्ह्यागतोसि पन्थानम्। सत्यादिवाक्यार्थबोधात् पूर्वं जलत्वाद्यभिव्यञ्जक-

सोपाधिकसत्ताविरोधित्वेन तद्विरोधिधर्मसमानाधिकरणत्वेन वा ज्ञायमानं कारणत्वं न

जडत्वाद्यवच्छिन्नव्यवहाराप्रयोजकमिति कथं जडजीवजातीयत्वशङ्काव्यावृत्तिरिति पश्यन्तु

भवान्।

तस्मात् श्रुतप्रकाशिकोक्तं युक्तमुत्पस्यामः। अभिमतञ्चेदं श्रीमद्भाष्यकाराणाम्।

तथा च - यतो वा इमानि भूतानि जायन्ते इत्यादिवाक्येन प्रतिपन्नस्य जगत्कारणस्य

ब्रह्मणस्सकलेतरव्यावृत्तं स्वरूपमभिधीयते सत्यं ज्ञानमनन्तं ब्रह्मेति तत्र सत्यपदं

निरुपाधिकसत्तायोगिब्रह्ममात्रे न विकारास्पदमचेतनन्तत्संसृष्टश्चेत् व्यावृत्तं नामान्तर-

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

94

भजनार्हावस्थान्तरयोगे त्वनयोर्निरुपाधिकसत्तायोगरहितत्वात् ज्ञानपदं नित्यासङ्कुचित

ज्ञानैकाकारमाह।

तेन कदाचित्सङ्कुचितज्ञानत्वेन मुक्तौ व्यावृत्ताः। अनन्तपदं देशकालवस्तु-

परिच्छेदरहितस्वरूपमाह। सगुणत्वात्स्वरूपेण गुणैश्चानन्त्यम् तेन पूर्वपदद्वय-

व्यावर्तकोऽपि द्वयविलक्षणस्यातिशयस्वरूपस्वगुणव्यावर्तास्स्युरिति। अनेन जगत्कार-

णत्वशङ्कितदोषप्रतिक्षेपोऽपि फलितः। अत एव सकलजगज्जन्मादिकारणं निरवद्यम्।

सर्वज्ञमित्युपसंहारभाष्ये निरवद्यत्वविशेषणन्दृश्यते। तस्मात्समुच्चित्य प्रत्येकं वा

जन्मादीनां नित्यत्वादीनाञ्च लक्षणत्वे सत्यप्यपिण्डार्थवादिमतमन्तरेण सत्यत्वादीनाम-

विरुद्धानां ब्रह्मभेदकत्वशङ्कानुपपत्तेः तस्य च विरुद्धविशेषणानां भेदकत्वस्य

सर्वसम्मतत्वात् जन्मादीनाञ्च मिथो विरुद्धत्वात्तद्भेदेन तदाश्रयब्रह्मभेदशङ्का-

युक्तेत्यभिप्रायेण कारणत्वलक्षणमनुक्रमाक्षिप्तम्। तमिममाक्षेपं तद्विरोधभ्रमनिरासेन

परिहरत्युत्तरार्धेन य इत्थमिति।

उक्तप्रकारेण ब्रह्मभेदं यश्शङ्कित इत्यर्थो यद्यपि पूर्वार्थेनोन्वयानुपन्यासात् सङ्केत

इत्युक्तिरयुक्ता। तथापि स्यादिति सम्भावसाधनक्रियाप्रयोगात् सम्भावनायाश्चोत्कट-

कोटिकसंशयरूपत्वात् तथोत्युक्तिः। देवद्रोहिमुरारिदैत्यनिवर्तकस्य तव ब्रह्मद्रोह्येतादृश-

वैरिनिराकरणमपि भारो नास्माकमिति सूचयति।

यद्वा प्रतिकूलजनविभञ्जनचतुरे त्वयि स्थितेऽपि निश्चायकप्रमाणेष्वनेकेषु सत्यपि

संशयत्वा विप्रनिषेधानन्तरं त्वामप्यनादृत्य सन्दिहतां मादृशानां मौर्ख्यन्दुर्वच इति

भावः।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

95

यद्वा यत्रान्या ओषधयो लीयन्ते। अथैते मोदमानास्तिष्ठन्तीति उक्तरीत्या

सकलौषधिमानसमये वर्धमानानां उपायान्तरप्रतिबन्धकं प्रतिरोधेन रक्षका ¯…¯र्तृता

दर्शनात्।

एतेन स्वावभोगार्थगुप्तानां यवानामुचितसमये लवणमुपभोगोपयोगितया यथा

गुणाय भवति एवं स एकाकी न रमेत बालः क्रीडनकैरिव क्रीडतो बालकस्यैवे-

त्याद्युक्तरीत्या ¯…¯ वस्तुतो कैवल्यमित्युक्तन्यायेन च लीलोपकरणतयावगतस्य जगतो

बालाद्युपस्पृष्टकन्दुकादेरिव प्रयोगोपसंहारौ गुणायैव न दोषायेति दर्शितं भवति।

सस्यमिव मर्त्यः हन्यते सस्यमिव जायते पुनरित्यादि दृष्टान्तोप्यत्रैवं सहायः

यथोर्णनाभिस्सृजते गृह्यते चेत्यत्र सृष्टिसंहारयोरविरोधः कण्ठोक्तिरिव। न चैवं

स्वपोषितवनादिच्छेदनेऽपि किन्न प्रामाणिकाः प्रयतन्त इति वाच्यम्।

फलविषये तत्रापि सन्देहाभावान्मूलतो लवणन्तु प्रतिवर्षं भूयः फललिप्सया न

क्रियते। विषवृक्षोऽपि संवर्ध्यस्स्वयं छेत्तुमसाम्प्रतमिति निषेधभयाद्वेत्यन्यजन्म-

स्थित्योस्तावत् परस्परविरोध एव नास्ति। किन्तु ताभ्यां लयस्य विरोधो वक्तव्यः।

तत्र किमुपादानत्वेन विरोधः किं वा निमित्तत्वेन। नाद्यः कारणावस्थारूपस्य

तदुत्तरकालीनकारणावस्थारूपलयेन सह देशतो विरोधाभावात्। कालतो निरोधस्तु

विद्यमानोऽपि तयोरेककालीनत्वमङ्गीकुर्वतामेव विरोधिभयोद्भिन्नकायमङ्गीकुर्वतामस्माकं

सोऽपि दोषो नास्त्येव।

न द्वितीयः। दण्डादेर्घटतद्ध्वंसोभयहेतुत्वस्य कालभेदेन दर्शनात्। तस्मान्न

जन्मकारणत्वेन विरोधः। अत एव स्थित्यादिविरोधः। कर्षकादिषु व्यभिचारात्

परिपाककालीनलणोपेक्षायाः फलसौकर्यविरोधित्वेन लवणस्य फलानुग्रहरूपत्ववदा-

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

96

त्यन्तिकभगवत्स्वरूपविरोधिनरकपतनादिहेतुदिनदिनक्रियमाणमहापदपरम्परापरिहारो-

पयोगितयोपसंहारस्याप्यनुग्रहरूपत्वेन विरोधासम्भवाच्च। तदुक्तमाचार्यपादैः॥

आसृष्टिसन्ततानामपराधानां निरोधिनीं जगतः।

पद्मासहाय करुणे प्रतिसञ्चरकेलिमाचरसि॥ इति।

अत्र यद्यपि - शक्तयस्सर्वभावानामचिन्त्यं ज्ञानगोचराः।

यतता ब्रह्मणस्तास्तु सर्गाद्याभावशक्तयः॥ इति।

सृष्ट्यादेर्भावशक्तिरूपत्वाङ्गीकाराच्छक्तीनां च स्वरूपानुबन्धिनीनां विरोधप्रसक्त्य-

भावात् पूर्वपक्षविरोधोद्भवनमसमीचीनम्।

अत एव विरोधाधिकरणेन हि व्रीहिशक्तिर्यवशक्त्या प्रतिबध्यते। सा वा तया वा

वेष्टनशक्तिस्पर्शनशक्त्या प्रतिबध्यते। सा वा तयेत्यादयस्तान्त्रिकाणां व्यवहारा दृश्यन्ते।

सिद्धान्ते कालभेदेन विरोधसमाधानं चायुक्तम्। नित्यानाञ्चासां कालभेदकल्पना-

योगादिति नवीनोक्ताक्षेपः पराचजितः।

तथापि शक्तीनामतीन्द्रियत्वेन कार्यै कोन्नेयत्वात् परस्परविरोधिकार्यद्वयस्य

चैकत्रासम्भवात्तदुत्पादकशक्तिद्वयमपि नैकत्रोन्नेतुं शक्यम्। अन्यथा न वह्नौ दाहानुकूल-

शक्तिवच्चेतनानुकूलशक्तेरपि प्रसङ्गः। तस्मादुत्पत्तिस्थित्यनुकूलशक्तिमति ब्रह्मणि न

प्रळयानुकूलशक्तिरिति पूर्वपक्षस्य सस्यादिषु जन्मस्थितिलयानामेककर्तृकानां दर्शनेन

तेषां दाहसेचनयोरिवात्यन्तिकविरोधाभावात्तप्रतीतानुकूलशक्तयोऽपि ब्रह्मणि

सम्भवन्तीति सिद्धान्तस्य चोन्नयनं सम्भवत्येव। अचिन्त्यशक्तित्वेन तत्समाधानन्तु सत्यां

तदयुक्तम्। वस्तुतस्तु -

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

97

निमित्तमात्रमेवासौ सृज्यानां सर्वकर्मणाम् ।

प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥

इति तत्रैवान्यत्र भावशक्तीनां सृष्ट्यादिप्रधानकारणत्वकथनानुपदेशसर्गाद्वाभावक्त्या इति1

निर्देशः यज्ञो वै यज्ञा यथानितिवत् आयुर्घृतमितिवत् कार्यकारण2भेदोपचारनिबन्धन

इति निर्णीयते। अत एव नियतेनांतवतां श्रेष्टस्वशक्त्या वस्तु तस्तु तामिति शक्तेः

करणत्वनिर्देशोऽपि नास्वरसः तस्मात् सामानाधिकरण्यनिर्देशमात्रात्

सृष्ट्यादेर्भावशक्तिरूपत्वाभावान्नवीनोक्ताक्षेपः प्रसरतीति भावः।

एवं तावत् सिद्धव्युत्पत्तिसमर्थनेन लक्षणप्रतिपादनेन च ब्रह्मणो वेदान्तवाक्य-

जन्यप्रमिति विलयत्वमुपपादितम्। इदानीं तस्याः पातप्रतीतत्वव्युदासाय वेदान्तानां तत्र

तात्पर्यलिङ्गसमर्थनाय प्रवृत्तमुत्तरसूत्रद्वयमर्थतानुवदति त्रिभिः श्लोकैः।

तत्रोपक्रमादितात्पर्यलिङ्गोक्तानां प्रत्येकवाक्यविश्रान्तानां प्रतिज्ञाविरोधात्।

आनन्दमयोऽभ्यासात् अन्तर उपपत्तेरित्यादिषु वक्ष्यमाणत्वात् प्रथमं शास्त्रारम्भावसाना-

पूर्वत्वफलवत्वलक्षणतात्पर्यलिङ्गद्वयं शास्त्रयोनित्वात्, तत्तु समन्वयादिति सूत्रद्वयेन

सूत्रकारेण दर्शितम्। तत्र ब्रह्मणोऽनुमानगम्यत्वव्युदासेन मानान्तरागोचरत्वलक्षण-

मपूर्वत्वं शास्त्रतो नित्यादित्यनेन प्रतिपाद्यते। शास्त्रं योनिः यस्य ब्रह्मणः तच्छास्त्रं योनिः

तत्वादिति तदर्थः। कारणत्वं हि द्विविधम्।

व्युत्पत्तिद्वारकं ज्ञप्तिद्वारकं चेति। तत्र शास्त्रप्रमेयस्य ब्रह्मणो नित्यत्वात् प्रमाणस्य

प्रमेयानुत्पाताच्च प्रमाणप्रमेयस्वरूपपर्यालोचनया ज्ञप्तिद्वारकं तदिति निश्चीयते॥५॥

⏺⏺⏺

  1. D.M. इति तत्रैवान्यत्र॰॰॰भावशक्त्या इति पाठः नास्ति।

  2. D.M कार्यवाक्यकरण इति पाठः।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

98