18 लक्ष्म्याः जगत्कारणत्वनिरूपणम् \(चतुर्थश्लोकः\)

अतस्तस्येव जगज्जन्मादिकारणत्वमित्यभिप्रयन्नाह – अतस्त्वमेवोपादानमि-

त्यादिना न्यायसिद्धमेतस्य कारणत्वमित्याशयेनाह – तव 1श्रीरेतादृग्भुवनजननी त्वं खलु पिता, सुतो धाता ध्याता तव न जगतां कारणमिति। श्रुतिस्साक्षाद् ब्रूते2 तदनुगुणगत्या त्वमसि3 तौ न्यषेधीदप्येषा ननु वरद तोषाय विदुषाम्4॥४॥ तव श्रीरिति - तव दयिता लक्ष्मीरित्यर्थः, विष्णोरेषानपायिनी अनन्या राघवेणाहं भास्करेण प्रभा यथा5 इत्यादिप्रमाणप्रतिपन्नविष्ण्वनपायित्वसूचनाय तवेत्युक्तिः। भगवदत्यन्तप्रियत्वं तदात्वं सूचयितुं प्राज्ञःपुरुष इव निर्देशः। अतस्तस्यावक्ष्यमाणमतिशयितत्वं न भगवदुत्कर्षविरोधीति भावः। शाब्दा-

प्राधान्ये निर्देशस्तु ह्रीश्चते लक्ष्मीश्च पत्न्यावित्यादिश्रौतनिर्देशानुसारेण कृतः। तेन च यस्यावीक्ष्य मुखं तदङ्गितपराधीनो विधत्तेऽखिलमित्याद्युक्तरीत्या लक्ष्मीकटाक्षायत्तमेवैतस्यैतादृशं माहात्म्यमनीदृशानां विधिशिवादीनां कारणत्वमुप-

रुणद्धीति ज्ञाप्यते।

  1. D.M. श्रीरेतादृक् भुवन.

  2. D.M. साक्षात् ब्रूते

  3. T.M. & D.M. तमसि

  4. D.M. वरद¯…¯षाम्॥

  5. वा॰रा॰ 5.21.16 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

65 एतादृग्विशेषजननी अचिन्त्यविविधविचित्ररनाविशेषविशिष्टजगन्माता या तावल्लोकमातेति का नाम्नाप्रसिद्धा। तस्या भर्ता त्वं पिता खलु न तत्र सन्देह इति भावः। पितृत्वं जगत्पतियोगिकमिति सामर्थ्याल्लभ्यते। अयमभिप्रायः - लक्ष्म्यास्तावल्लोकमातृत्वं प्रसिद्धम्। इन्दिरा लोकमाता मा रमा मङ्गलदेवता भार्गवी लोकजननी1त्यभिधानकोशात्। निचदेवीं मातरं श्रीयं¯…¯पिङ्गलां पद्ममालिनीमित्यादिश्रुतेः – नित्येवैषा जगन्माता विष्णोः श्रीरनपायिनी। त्वं माता सर्वलोकानां देवदेवो हरिः पिता॥ इत्यादिस्मृतेश्च जनकत्वसमानाधिकरण स्त्रीत्वरूपं मातृत्वं च न कारणत्वं विनोपपद्यत इति तत एवार्थात्कारणत्वमिति लभ्यते। तथा अस्यैशाना जगतो विष्णुपत्नी ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्, ईशानादेव भुवनस्य पत्नीत्यादिषु कारणत्वसमनियतजगदैश्वर्यप्रतिपादनेन कारणत्वं तस्याप्यस्तीति गम्यते। अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा2 इत्यादिलक्ष्मीसूक्तादि-

वाक्यैस्साक्षात्कारणत्वाभिधानात् न चेतदौपचारिकम्। विना बाधः प्रकल्पयितुं शक्यम्। न चोभयोः कारणत्वे सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यादिषु प्राक् सृष्टेरेकत्वावधारणविरोधः एव बाधक इति वाच्यम्। बहुस्यां प्रजायेयेति सृष्ट्युत्तर-

  1. अ॰को॰ 1.1.27

  2. ऋ॰सू॰ 20.125 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

66 कालीनबहुत्वस्य तेजो जन्यादिष्वचित्पदार्थर्दर्शनेन तत्प्रतिद्वन्द्विक सृष्ट्याग्रीममात्मत्व-

स्याप्येकतापन्नात्मश्शब्दिता चिन्मात्रवृत्तितया कारणानुष्ठानेनेत्यादि विरोधित्वात्। अन्यथा प्रलयदशायां चिदचिदोरपि निषेधप्रसङ्गात् प्रकृतेरुपादानत्वस्य सर्वसम्मततया कारणगतैकत्वाभिधानेन ब्रह्मव्यतिरिक्तकारणान्तरनिषेधस्य परमतेप्य-

सम्भवाच्च। स्वतन्त्रप्रकरणान्तरनिषेधस्याप्येकशब्दस्य परतन्त्रकारणलक्ष्मीनिषेधन-

सामर्थ्याभावाच्च। एतेन कारणन्तु ध्येयः सकारणकरणादिपाधिपः इत्यादिषु कारणपदोत्तरमेकवचनश्रवणसामर्थ्यादेकस्यैव कारणत्वावगमान्न लक्ष्म्या अपि कारणत्वमिति परास्तम्। अग्नीषोमौ देवता वेदाः प्रमाणमिति त्रयस्समुदिताः हेतुरित्यादिषु देवतात्व-

प्रामाण्यसमुदायाद्यपेक्षयैकवचननिर्देशवत्तदुभयप्रयाप्तकारणत्वैक्येनैकवचनान्तनिर्देशोप-

पत्तेश्च। किञ्च यथा ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिषु स्वर्गकामपदोत्तरैकवचना-

ख्याताभ्यां कर्तृरेकत्वप्रतीतावविवक्ष्यामेव सानावग्नमादधीयातामित्याधानेदं पत्योरुभयोः कर्तृत्वबोधनादाधाननिष्पाद्याग्निसाध्येषु सर्वेष्वपि कर्मसूभयोः कर्तृत्वस्य स्ववतोऽस्तु वचनादैककर्म्यं स्यादित्यत्र षष्ठे व्यवस्थापने सत्युभयगतशेषितैक्यात् कर्तृतैक्याच्च एकवचनं यथोपपन्नमुपपद्यते। तदुक्तं तत्वटीकायां तन्त्ररत्ने च - एवमपि कथमेकवचनं द्वयोरेतयोस्संसृष्टा कर्तृता तत्रैकवचनमुपपद्यते एव संसर्गाभिप्रायम्। कर्त्रैकत्वेन ह्येकवचनं न द्रव्यैकत्वेनेह चाग्नीषोमयोरिव देवतात्वम्। भिन्नयोर्दम्पत्योस्संसृष्टद्रव्ययोः पृथक् स्वतन्त्री भवितुमप्रभवतो वा एकमव स्वातन्त्र्यलक्षणं कर्तृत्वमित्यादिना तद्वदिहापि नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

67 कारणत्वसमनियतसर्वैश्वर्यादिबोधिकनिरुक्तप्रमाणवशानत् कारणत्वकण्ठोक्तेश्च लक्ष्म्या अपि कारणत्वे सिद्धे सति कारणपदोत्तरमेकवचनम्। कारणत्वैक्यादेव उपपादनीयम्। अपि च पत्युर्नो यज्ञसंयोग इति स्वामिवाचिनः पतिशब्दाद्देवतोद्देश्यक-

द्रव्यत्यागादिसम्बन्धनिमित्तकतया निष्टादितसन्मन्थनिमित्तकतया1 पत्नीशब्दसामर्थ्या-

द्यजधातोः क्रियाफले कर्तृगामिनि विहितात्मकपदादेशभूतशानजन्तयजमानपद-

सामर्थ्याच्च, दम्पत्योरुभयोर्यज्ञकर्तृत्ववत् – नराज्जातानि तत्त्वानि नाराणीति ततो विदुः। तान्येव चायनं यस्य तेन नारायणस्स्मृतः॥ इत्यादिनिर्वचानुसारेण स्वोत्पन्नसर्वभूतान्तर्यामित्वनिमित्तकनारायणशब्दसामर्थ्यात्, श्रुणाति निखिलान्दोषान् श्रुणाति च गुणैर्जगत्। श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम्॥ इत्यादिनिर्वचनात् सर्वाश्रयणीयत्वनिर्दोषकल्याणगुणाकरत्वादिलक्षणकारणत्वनियतधर्म-

सम्बन्धनिबन्धनश्रीशब्देन च लक्ष्मीनारायणयोर्द्वयोः कारणत्वं निश्चीयते। अस्यैशाना जगतो विष्णुपत्नीत्यत्र निखिलजगदन्तर्यामित्वरूपव्याप्तिनिमित्तक-

विष्णुशब्दः पतिकर्तृककार्यसमधिकारबोधकपत्नीशब्दप्रयोगाश्चात्रोपष्टम्भका एव। लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया । रक्षकस्सर्वसिद्धान्ते वेदान्तेषु च गीयते॥

  1. D.M. निष्टादित¯…¯ इति लुप्तः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

68 श्रिया सार्धं जगत्पतिः - त्वया च विष्णुना चाम्ब! जगत् व्याप्तं चराचरम्। इत्यादिषु जगद्रक्षकत्व-जगदन्तर्यामित्वादिकथनमप्यत्रैवानुकूलम्। बह्वृचसंहितायाम् लक्ष्मीसूक्ते च विस्तरेण कारणत्वं तत्सहचरितधर्माः श्रूयन्ते। तथाहि – अहं रुद्रेभिर्वसुभिश्चराम्य हमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥ अहं सोम माहनसः विभर्म्यहं त्वष्टारमुतपूषणं भगम्। अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानायय सुन्वते॥ अहं राष्ट्रीं संगमनी वसीनां चिकितुषी प्रथमा यज्ञियानाम्। तां मा देवा व्यदधुः पुरुत्रा भूरिश्थात्रां भूर्यावेशयन्तीम्॥ मया सोऽन्नमत्ति यो विपश्यति यः प्राणिति य ईं श्रुणोत्युक्तम्। अमन्तवो मान्त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते ददामि॥ आहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषीभिः। यः कामये तन्तमुग्रं कृणोमि तं ब्राह्मणं तमृषिं तं सुमेधाम्॥ अहंरुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ। अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश॥ अहं सुवे पितरमस्य मूर्धन्मम योनिरप्सन्तस्समुद्रे। ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्षाणोपस्पृशामि॥ नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

69 अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा। परो दिवा पर एना पृथिव्यैतावती महिना सम्बभूव1॥ इति। अत्र च सर्वदेवाधारकत्वं सर्वकामप्रदत्वं सर्वप्राणनहेतुत्वं स्वप्रतिहन्तृत्वं रुद्रादिवदप्रापकत्वं तदा सर्वजगत्कारणत्वं भगवत्स्वतन्त्रत्वं सर्वभुवनव्यापकत्वं चेत्येते क्रमेण प्रतिपाद्यन्ते। तदेवं लक्ष्म्या अपि कारणत्वं कैमुतिकन्यायसिद्धमिति भावः। न केवलं भुवनजनन्याः लक्ष्म्याः पतित्वात् भगवतस्सकलजगत्पितृत्व-

मार्थिकमपि तु यो नः पिता जनिता धाता पिता माता भ्राता निवासस्शरणं सुहृद्गता नारायणः पितामहस्य जगतः इत्यादिषु श्रुतञ्चेत्याह। त्वं खलु पितेति तथा चोभयोः कारणत्वमक्षुण्णमिति भावः। अत एव तत्रत्यानां ब्रह्मरुद्रादीनां सर्वजगत्कारणत्वपक्षः प्रतिक्षिप्त इति आशयेनाह सुत इति। तव सुत इत्यन्वयः। यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृड्विश्वरूपः। यो ब्रह्माणं विदधाति पूर्वं तस्य ललाटात् त्र्यक्षः शूलपाणिः पुरुषो अजायत॥2 इत्यादिषु ब्रह्मरुद्रयोः विष्णुभिन्नत्वमनुमीयते एव। त्वं खलु पितेति तथा चोभयोः कारणत्वमक्षुण्णमिति भावः। अत एव तज्जन्मानः ब्रह्मादिरुद्रादीनां सर्वजगत्कारणत्व-

पक्षः प्रतिक्षिप्त इति आशयेनाह तव सुत इत्यन्वयः। उपबृंहिता चेयं श्रीविष्णुपुराणे – समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः। अर्धनारीनरवपुः प्रबुद्धोऽतिशरीरवान्3॥

  1. ऋ॰सू॰ 10.125.1-8

  2. अ॰वे॰ 2.27 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

70 इति रुद्रस्य ब्रह्मपुत्रत्वम्। विरूपाक्षाय तां ये ब्रह्मणः श्रूयतेत्यादिषु श्रुतम्। कल्पभेदेन योज्यम्। तदेवं ब्रह्मरुद्रयोः विष्णुपुत्रत्वबोधिकाभिरर्थात् तयोः जगत्कारणत्वं निरस्तम्। कारणन्तु ध्येय इत्युत्तरवाक्येन तु शब्दघटितेन कारणमेव ध्येयम्। न त्वकारणमित्यर्थलाभेन धेयताप्रयोजककारणत्वप्रतियोगिनः कारणत्वाभावस्यैव पूर्ववाक्यविषयतानिर्णयाच्च, तत्पूर्ववाक्ये कारणत्वेन शङ्कितानां त्रयाणां ब्रह्मादीनां इन्द्रादितुल्यत्वेन कार्यत्वे अभिहिते तर्हि किन्तत्कारणं यस्य कारणन्तु ध्येय इति ध्येयत्वमुच्यत इत्यपेक्षायां तन्निर्धारणं यद्वा तृ धातोः कारणत्वनिषेधस्यार्थात् विष्णुकारणत्वनिर्धारणोपेतस्यावश्यकतया तत्रैव वाक्यतात्पर्यनिर्णयाच्च। एतेन कारणन्तु ध्येय इति सामान्यश्रुतिध्येयत्वस्य शम्भुराकाशमध्ये शिव एको ध्येय इत्युत्तरवाक्यशृतेᐋश्शवरूपे ᐋवशेषे पर्यवसानान्न ᐋवष्णोः कारणत्वं ध्येयत्वं वा सिध्यतीति शङ्का परास्ता। कारणत्वेन शङ्कितानां पूर्ववाक्ये सृज्यतया श्रुतानां त्रयाणां मध्ये द्वयोरुद्देश्यतावच्छेदककारणत्वनिषेधेन तयोर्द्येयत्वात्वया योगेन परिशिष्टस्य विष्णोरेव कारणत्वेन ध्येयत्वनिर्धारणेन तत्र विशेषाकाङ्क्षानुदयेन शम्भुराकाशमध्ये इत्यस्यानुवादकत्वस्य स्थानविशेषविधायकस्य वा स्वीकारान्मूर्तित्रयातिरिक्तवस्तुनो प्रमाणकतया तेष्वेव कस्यचित् कारणत्वेन त्रयाणां कार्यत्वश्रवणेऽपि तन्मध्ये कस्यचित् तदात्मानं स्वयमकुरुतेति न्यायेन स्वेच्छाधीनजन्मवत्त्वमितरयोऽस्तु तदधीनजन्म-

वत्त्वमित्येव विभागे कर्तव्ये क्व वा तत्कल्प्यतामिति सन्देहे ब्रह्मरुद्रयोरिन्द्रस्य च नारायणात् ब्रह्मा जायते नारायणाद्रुद्रो जायते नारायणादिन्द्रो जायत इत्यनन्यसाधारण

  1. वि॰पु॰ 8.9 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

71 नारायणशब्दघटितवाक्यान्तरेषु ब्रह्मादिजनकत्वस्याजायमानो बहुधा विजायत इत्यादिषु स्वेच्छाधीनजन्मवत्वस्य च नारायण एव विश्रान्तेर्दर्शनादत्रापि तयोरेव द्वयोरन्याधीनजन्मवत्वे निश्चिते तयोरेव कारणत्वनिषेधश्चेति स्वेच्छाधीनजन्मनो कारणत्वं ध्येयत्वञ्चेति युक्तं कल्पयितुम्। एतेन ब्रह्मजनकत्वरूपलिङ्गात् प्रबलया शिवशम्भ्वादिश्रुत्या शिवपरत्वं किन्न स्यादिति कस्यचिद्दुराशा परिहृता। उद्देश्यतावच्छेदककारणत्वापहारेण तत्र ध्येयत्वा-

न्वयायोगात्। आकाशस्तल्लिह्गादित्यादि अधिकरणन्यायेन असाधारणलिङ्गविरोधे श्रुतेरन्यथाकरणस्यैव युक्तत्वात्। अत एव नवो नवो भवति जायमान इति मन्त्रगतचन्द्रमश्शब्दस्य अह्नां केतुत्वप्रभातकालोत्पन्नत्वाद्यन्ताधारलिङ्गविरोधेन सूर्यपरत्वमभ्यदधुः मीमांसकाः। शिवशम्भ्वादिशब्दानामुक्तरीत्याऽसाधारणत्वेन दुर्भरत्वाल्लिङ्गस्य चासाधारणत्वेनोप-

क्रमस्थलत्वेन च लिङ्गमेवात्र श्रुतिमवरुणद्धीति शिवशम्भुशब्दावपि नारायणमेवाभिधत्तः न्यषेधतीत्यपि नायुक्त्यन्तरसमन्वयसमुच्चयता सर्वमिदं सारचितमिति भावः। विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते । वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः1॥ इत्यादिषु विष्णुपरस्य वेदभागस्य सिद्धान्तत्वोक्त्या देवतान्तरपरतया प्रतीयमानभागस्य पूर्वपक्षत्वद्योतनेन तत्र तात्पर्याभावस्सिद्धः।

  1. ग॰पु॰ 8.45 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

72 सङ्कीर्णास्तामसाश्चैव राजसास्सात्विकास्तथा। कल्पाश्चतुर्विधा प्रोक्ता इति आदिभिश्चातुर्विध्येनाभिहितेषु कल्पेषु तत्तत्कल्पसम्बन्धिदेवताप्रतिपादकपुराणप्रणेतृत्वं

तत्तद्गुणमयस्य ब्रह्मण इत्यमुमर्थं यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरेत्यादिना

प्रतिपाद्य –

सात्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः।

तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्1॥

इति सात्त्विककल्पप्रवर्तक-ज्ञानविवृद्धिकर-सत्त्वगुणप्रचुर-ब्रह्मप्रणीतसात्त्विकपुराणगण-

बोधितसर्वाधिकमाहात्म्यं मे मुमुक्षूपास्यत्वञ्च तस्येति प्रसिद्धमभिहितम्।

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः।

सात्विकस्सतु विज्ञेयस्स वै मोक्षार्थचिन्तकः2॥

इति मोक्षजनकज्ञानहेतुभूत सत्वगुणदेवतात्वं तस्यैवेत्युक्तम्। सत्येन मुच्यते जन्तुस्सत्यं

नारायणात्मकमित्यप्यत्रैवानुकूलम्।

द्विविधो भूतसर्गोयं दैवआसुर एव च।

विष्णुभक्तिपरो देवो विपरीतस्तथा सुरः॥

इत्यादिषु देवतान्तरभक्तानामासुरत्वं विष्णुभक्तानां देवत्वं च कीर्त्यमानमत्रैवानुकूलम्।

तथा –

ब्रह्माणं शितिकण्ठञ्च याश्चान्या देवतास्स्मृताः।

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम्3॥

  1. कू॰पु॰ 43.17

  2. म॰भा॰ 12.336

  3. म॰भा॰ 12.341

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

73

बुद्धरुद्रादिवसन्ति श्मशानं शवमेव च।

अटवीं राजधानीञ्च दूरतः परिवर्जयेत्॥

इत्यादिषु रुद्रदर्शन तन्नमस्कारादिनिषेधवत् विष्णुदर्शनाद्यनिषेधोऽपि तत्रैव स्वरसः।

शैवान् पाशुपतांश्चापि लोकायतिकनास्तिकान्।

विकर्मस्थान् द्विजान् दृष्ट्वा सहसा जलमाविशेत्॥

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम्।

न निष्टनन्ति राजेन्द्र सुराभाण्डमिवापगाः॥

निर्माल्यञ्च निवेद्यञ्च भुक्त्वा चान्द्रायणं चरेत्।1

दीपाग्निं दीपतैलञ्च भस्मचास्थिरजस्वलाम्॥

एतानि ब्राह्मणस्पृष्ट्वा सहसा जलमाविशेत्।

प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः2॥

इत्यादिभिः रुद्रभक्तानां पाषण्डत्वेन सल्लापसहवासवर्जनं तदीय्यनिर्माल्यतद्धार्यमाण-

भस्मादेः ब्राह्मणायोग्यत्वम्। तद्भक्तजनतामसत्वोत्कीर्नमित्यादिकं वैदिकदिकदूरस्थत्वं

सूचयति। अत एव सन्ध्यावन्दनादौ केशवादिनाम्नामेव पाठः। कर्मस्थ किञ्चित्

स्खालित्यव्यावर्तकतया कृष्णानुस्मरणविधिश्च सङ्गच्छते॥

क इति ब्रह्मणो नाम ईशोहं सर्वदेहिनाम्।

आवां तवाङ्गे सम्भूतौ तस्मात्केशवनामवान्3॥

  1. भा॰पु॰ प्रायश्चित्तप्रकरणे, श्लो॰ 26, 28

  2. ब्रह्मवै॰पु॰ श्लो॰ 1909

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

74

इति विधिभिर्नियम्यमानैः तैरेव नामभिः कारणत्वं विष्णोरन्येषां कार्यत्वञ्च सुस्थमित्यादेः

परस्सहस्रमुपष्टम्भकानि सदसद्विवेकमञ्जर्यामस्माभिरुपपादितानि। तत्रैव द्रष्टव्यानि –

वरदेति सम्बोधनेन कृष्णतपश्चर्यादिकं स्वदत्तवरपरिपालनायेति न ततो

विष्णोर्निकृष्टत्वभ्रमः। कार्य इति सूचयति। तथा चोक्तम् -

अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु।

मर्त्यो भूत्वा भवान्धेन मामाराधय केशव॥

इत्यादिषु तपश्चर्यानन्तरं साक्षात्कृतेन रुद्रेणैव एतदेव परं वस्तु नैतस्माद्विद्यते

परमित्यादिना एतावता प्रबन्धेन तस्यैव परमात्मत्वकथनम्।

अयं माया सदा विप्रा इत्यादिना तत्कृततपश्चर्याया जगन्मोहनार्थत्व-

कथनञ्चोपपद्यते। अतो विष्णोः कारणत्वमप्रतिहतमिति भावः। विदुषां तोषयेत्युक्त्या

वेदसहस्रतमांशवाक्यापातप्रतिपन्नरुद्रादिकारणत्वमात्रतृप्तानामविन्द्वत्वं स्फुटमिति

बोधयति विदुषामिति। बहुवचनेन ज्ञानिनां सर्वेषामुक्तार्थे विमत्यभावः प्रदर्शितः।

तोषायेति मतुबर्थचतुर्थ्या विष्णुमहिमप्रतिपाद्यप्रमाण्यानां मुमुक्षाजनानुग्रह-

प्रयोजनकत्वसूचनेन तदितरप्रामाण्यानां मुमुक्षुजनानुग्रहप्रयोजनकत्वसूचनेन तदितर-

प्रामाण्यानां बुभुक्षु मोहनार्थत्वं व्यञ्जितम्।

इत्थं तावद्देवतान्तरव्यापृततया जगत्कारणत्वांशे न क्षत्रमिव मूर्धाभिषिक्तस्य

राज्ञो निखिलकल्याणगुणाकरस्य परस्य ब्रह्मणो विष्णोरसाधारणो धर्म

इत्यन्ययोगव्यवच्छेदं प्रतिविन्दितः॥४॥

⏺⏺⏺

  1. वि॰स॰ना॰ भाष्यम्

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

75