द्वितीयश्लोके तत्सामर्थ्यसिद्धं ब्रह्मादिनामकारणत्वं श्रुत्यर्थापत्तिभ्यां निरूप्यते। तृतीयश्लोके त्वधिकरणार्थ इति विवेकः। त्वयेति। त्वया भूतान्येतान्यजनिषत जीवन्ति च पुन- र्युगान्ते लीयन्ते त्वयि तदिह तत्कारणमसि। अनन्यार्हैश्शब्दैस्तदपि निरधारि क्वचिदतः त्वमेवोपादानं मुरहर! निदानं च जगताम्॥३॥ एतानि प्रत्यक्षाद्यवगत-अचिन्त्यविविधविचित्ररचनानि भूतानि कार्याणि त्वया सर्वज्ञेन सर्वशक्तिना हेतुभूतेन भवत्का जनिषन्ति उत्पन्नानि जनेर्लुङि बहुवचने रूपम्। अत्र सूत्रानुरोधात् पञ्चम्यन्त एव कारणवाचिकपदे प्रयोक्तव्ये त्वयेति हेत्वर्थक-
तृतीयान्तोपादानं निमित्तत्वोपादानत्वोभय साधारणकारणत्वस्य स्फुटप्रतिपत्त्यर्थं सूत्रे यत इति पञ्चमी विभाषागुण्ये स्त्रियामिति योगविभागबललब्धाकारणत्वसामान्याभि-
धायिनी। न तु जनिकर्तुः प्रकृतिरिति सूत्रानुशिष्टा उपदानत्वमात्राभिधायिनीति सूचनार्थञ्च। न हि विषयवाक्ये नानाविभक्त्यन्तयच्छब्दनिर्देशोपादानतया निमित्ततया चावगतस्य ब्रह्मणस्सूत्रे उपादानत्वमात्रेण निर्देशो युक्तः। यद्यपि ब्रह्मणः प्रपञ्चं प्रत्येवोपादानत्वं न तु तदवस्थाविशेषरूपजन्मादिकं प्रति सूत्रे जन्मादि यत इति निर्देशोऽनुपपन्नस्तथापि तत्तदर्थात् स्विष्टकृते समवद्यतीत्यादौ ससम्बन्धिकपदार्थोप-
स्थापकोत्तर-अर्धादिशब्दोत्तरपञ्चम्यर्थ-अवदानापादानत्वादेः तत्सम्बन्धिपुरोडाशाद्यन्वय-
वदिहापि जन्माद्यवस्थावत् प्रपञ्चप्रतियोगिकमुपादानत्वमेवार्थाल्लभ्यत इति। तथा नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
59 निर्देशं न ह्यवस्थान्तरयोगित्वरूपम् उपादानत्वमिव स्थालीशेषरूपादिकमनन्तर्भाव्यं भवति। यद्यपि हेत्वर्थे पञ्चमी नानुशिष्टा। तथापि हेतुमनुष्येभ्योन्यतरस्यां रूप्य इति सूत्रे हेत्वर्थकपञ्चम्यन्ताद्रूप्यप्रत्ययविधानात् ज्ञापकात् विनारभेदाङ्गित्वादित्यादिभाष्याच्च दण्डात् घटो भवति, वह्निमान् धूमो नास्ति, घटोपलब्धेरित्यादि बहुप्रयोगसंरक्षणया विभाषागुणे स्त्रियामित्यत्र योग1विभागमाश्रित्य हेतुपञ्चमी निर्व्योढव्येति व्यक्तमेव विदुषाम्। तथा च – तदेतदक्षयं नित्यं जगन्मुनिवराखिलम्। आविर्भावतिरोभावजन्मनाशविकल्पवत्॥ इति न्यायेन द्रव्यस्य स्वरूपेण जन्यत्वं द्रव्यवृत्त्यवस्थाया एव जन्यत्वमिति सैद्धान्तिकं पक्षं सूचयितुमवस्थारूपजन्मादिकं प्रत्येव कारणत्वं 2ब्रह्म(तत्त्व)लक्षणसूत्रयद्भगवान् सूत्रकार इति न कोऽपि दोषः। भूतानित्येतावदैव कार्यवर्गे लब्धेप्येतानीति विशेषणं प्रत्यक्षाद्यवगताचिन्त्यविविधवैचित्र्यास्पदस्थिरप्रसराद्यनेकभेदभिदुरत्वं कार्यवर्गे सूचयितुं न ह्येतादृशम् जन्निर्माणचातुर्यमसर्वज्ञस्यासर्वशक्तेः परमपुरुषादन्यस्य सम्भवतीति भावः।
-
D.M. संरक्षणया॰॰॰योग इति पाठः लुप्तः।
-
D.M. ब्रह्मलक्षण॰ इति पाठः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
60 सूत्रेप्येतत्सूचनायैव विषयवाक्यस्थं भूतानीति विशेष्यपदमपहाय तद्विशेषभूतं शब्द एवास्येति पदेन गृहीतः। यत इति - तत्तद्वाक्यप्रसिद्धिद्योतकयच्छब्देनापि कारण-
त्वोपयुक्तकल्याणगुणाश्रयत्वं तत्तत्कारणवाक्यप्रतिपन्नं सूचयति। तथा च श्रीमद्भाष्यम् - अस्याचिन्त्यविविधविचित्ररचनस्येत्यादि जीवन्ति चेत्यत्र भूतानीत्यस्य त्वयेत्यस्य चानुषङ्गः जीवनं स्थितिः। युगान्ते प्रलयसमये पुनर्लीयन्ते भूतानीत्यनुषङ्गेणान्वयः। पुनरित्यनेन प्रागप्येतादृशप्रलयोभूदिति सूचनेन सृष्टिप्रलयप्रवाहानित्यत्वं व्यञ्जितम्। लीयन्त इति वर्तमानसामीप्याल्लृट् त्वयीत्यनेन लयाधिष्ठानत्वं त्वयेत्यनेन तत्कारणत्वञ्चोच्यते। तथा चोपादानत्वं पठितम्। न हि निमित्तकारणे कापि कार्यलयस्सम्भवतीति भावः। ननु ब्रह्मलक्षणपरद्वितीयसूत्रव्याख्यानाय प्रवृत्तस्य जगन्निष्ठजन्मस्थितिलयोप-
वर्णनमालयं गच्छतो मन्दरपथोपवर्णवदुपहास्यमित्याशङ्कामपहर्तुमाह। तदिहेति - तत् भूतानां त्वदधीनजन्मस्थितिलयत्वात् इह कारणवाक्ये प्रतिपन्नं तत् कारणं भूतकारणं त्वमसीत्यर्थः। तथा च जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वान्नोक्तदोषः यतः चैत्रस्य जन्म समैत्र इत्यत्र चैत्रजनकत्वस्य मैत्रवृत्तित्ववद्यतो जगतां जन्मस्थितिलयास्तद्ब्रह्मेत्यनेन जगज्जन्मादिकारणत्वस्य ब्रह्मनिष्ठस्य लाभसम्भवादिति भावः। असीत्यनेन कारणत्वोपयुक्तसर्वज्ञत्वसर्वशक्तित्वाद्याश्रयस्य तव तत्कारणत्वं स्वाभाविकमिति सूच्यते। तथा च श्रूयते – क्रीडार्थं सृष्टिरित्यन्ये भोगार्थमिति चापरे। देवस्यैषस्स्वभावोयमाप्तकामस्य का स्पृहा॥ इति। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
61 नन्वस्तु जगज्जन्मादिकारणत्वमेव लक्षणम्। तथापि तस्य विष्ण्वेकनिष्ठत्वं कुतो निश्चीयते। न तावत् प्रलयसमयवृत्तित्वबलात्तल्लाभः तस्य प्रकृतिजीवसाधारणत्वात्। न च साधारणस्यापि तस्यैको ह वै नारायण आसीदित्यादौ विशिष्य निर्देशः कारणत्वार्थ एवेति वाच्यम्। आपो इदमग्रे सलिलमासीत् प्रजापतिरेकोग्रे तिष्ठद्यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः तम आसीत्तमसागूढमग्रे प्रकेतमित्यादिषु विशिष्य निर्दिष्टानामपि तथात्वप्रसङ्गात्। नापि कारणत्वोत्कीर्तनात्तल्लाभः तस्य नारायणादेव सर्वाणि भूतानि समुत्पद्यन्ते इत्यादिवदाकाशादेव सर्वाणि भूतानि प्राणमेवाभिसंविशन्ति। प्राणमभ्युज्जिह्वते अन्नाद्वै प्रजाः प्रजायन्ते इत्यन्यत्रापि दर्शनान्नापि कारणत्वव्याप्यध्येयत्वश्रवणात्तन्निर्णयः। कारणन्तु ध्येय इति कारणत्वस्यैव ध्येयत्वव्याप्यत्वाभिधानात् समुद्रमनोध्यानादौ व्यभिचारेण ध्यानस्य कारणत्वव्याप्यत्वायोगाच्च। यद्यपि मोक्षहेतुद्यानविषयत्वं न कारणत्वव्यभिचारि। तथापि शम्भुराकाशमध्ये शिव एकोध्येय इति तथाविधध्यातस्यापि शिवादिसाधारण्यं न तद्बलात्कारणत्वस्य विष्ण्वैकनिष्ठत्वं स्यादित्याशङ्कां निराकर्तुमाह। अनन्यार्हैश्शब्दैरित्यादिना - अन्यसाधारणशून्यैर्नारायणादिभिः शब्दैरित्यर्थः। तदपि कारणमपि। अयमभिप्रायः - सर्वशाखाप्रत्ययन्यायेन सर्ववेदान्तप्रत्ययन्यायेन च कारणवाक्यानां सर्वेषामेकार्थविषयत्वावश्यम्भावे सति छागो वा मन्त्रवर्णादिति न्यायेन सामान्यशब्दानां सति विशेषे तत्पर्यवसानस्यावश्यकत्वात् पशुशब्दस्य छाग इव सदेव सौम्येदमग्र आसीदात्मा वा इदमेक एवाग्र आसीदित्यादिषु श्रुतानां सद्ब्रह्म-
आत्मादिशब्दानामुत्तरोत्तरस्मिन् पर्यवसाने कृते सत्यात्मशब्दस्य जीवपरसाधारणतया नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
62 कारणत्वेन शङ्कितशिलादिशब्दाभिहित-देवताविशेषपर्यवसानसम्भावनायां स्वश्रेयसं शिवं भद्रमित्यनुशासनेन शिवास्ते सन्तु पन्थानः शिवं कर्मास्तु शिवो भव वरूध्यः शिवो भव प्रजाभ्यः इत्यादिलौकिकवैदिकप्रयोगानुसारेण च शिवादिशब्दसाधारण्यावगमात्। शाश्वतँ शिवमच्युतम् - कृष्णस्साक्षात् स्वयं शिव इत्यादिषु विष्ण्वावपि प्रयोगदर्शनाच्च। सदादिशब्दतुल्यतया न तेन शब्देन पद्यवसानं युक्तम्। न च बृहति बृंह्मयति तस्मादुच्यते परंब्रह्म। बृहत्वात् बृंह्मणत्वाच्च तद्ब्रह्मेत्यभिधीयते॥ इति प्रमाणानुसारात् ब्रह्मशब्दस्य बृहत्वबृंहणत्वे निवृत्तिकत्वेन प्रवृत्त्यादिषु गौणत्ववत् शिवश्शूलीमहेश्वर इत्याद्यनुसारात् मांशल्यनीलकण्ठत्वोभयनिमित्तकशक्तिस्वीकारेणान्यत्र शिवशब्दस्य कारणत्वं कल्प्यतामिति वाच्यम्। तद्वदिहोभयनिमित्ततायाः कण्ठतोऽप्रतीतेः तत्कल्पनां विनाऽनुपपत्त्यभावाच्च। न हि ब्रह्मशब्दस्य बृहत्वमात्रनिमित्तकत्वे बृहन्महच्छब्दादिवदापेक्षिकबृहत्व-
योगिषु घटादिषु प्रयोगप्रसङ्गवदत्र मांसल्यमात्रनिमित्तकत्वे तद्वति सर्वत्र प्रयोगप्रसङ्गो बाधकः। तस्य सर्वसम्मतत्वात् बहिराज्याधिकरणन्यायेन सामान्यशक्त्याप्युपपन्ने विशेषशक्तिकल्पनायाऽनुन्मेषाच्च शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुरा इति। माङ्गल्यमात्रेणैव शिवशब्दस्य रुद्रेऽपि वृत्तिरित्यस्यार्थस्य भारते प्रपञ्चनाच्च। शम्भुशब्दोऽपि शम्भुर्धातृहरीशेष्वित्यनुशासनात् नारायणः शम्भुरित्यादिप्रयोगाच्च साधारण एवेति न तेनापि निर्णयस्सुशकः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
63 पाति यस्मात्प्रजास्सर्वाः प्रजापतिरितीरितः। हिरण्यमस्य गर्भेऽभूद्धिरण्यस्यापि गर्भजः॥ तस्माद्धिरण्यगर्भोऽसावित्यादिनिर्वचनात् शर्वः सर्वः शिवस्स्थाणुः स्वयम्भूः शम्भुरादित्यः ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भः शत्रुघ्न इत्यादिका सहस्रनाममध्ये कारणवाक्यस्य शिवादिशब्दपाठाच्च सर्वेष्वेते साधारण एवेति विज्ञायन्ते। नारायणशब्दस्त्वन्यत्राप्रयुक्तत्वान्न तु नारायणादीनां नाम्नामन्यत्र सम्भव इति कण्ठोक्तिश्च। विशेषशब्दमूर्धन्यस्सन्न साधारण इति तेनैव सर्वेषां शब्दानां पर्यवसानं युक्तम्। यदाह वरदाचार्यः - निस्साधारण्यनारायणपरविषये निश्चयं यान्त्यबाधे सद्ब्रह्माद्याः समानप्रकरणपठिताः शङ्कितान्यार्थशब्दा इति प्रपञ्च्यते चाकाशप्राणादि-
शब्दानामुत्तरत्र परमात्मपरत्वम् आकाशस्तल्लिङ्गादत एव प्राण इत्यादिना। ततश्च यतो वा इमानि भूतानि जायन्ते इत्यादिषु श्रुतं कारणत्वं नारायणादेव सर्वाणि समुत्पद्यन्त इत्यादिषु श्रुतमनन्यसाधारणं नारायणशब्दमादाय विश्राम्यति। अत एव श्रीविष्णुपुराणे - यन्मयञ्च जगत् ब्रह्म त्वमञ्चेतच्चराचरम्। लीनमासीद्यथा यत्र लयमेष्यति यत्र च॥ इति, सामान्यप्रश्ने - विष्णोस्सकाशादुद्भूते जगत्तत्रैव संस्थितम्। स्थितिसंयमकर्ता स जगतोस्य जगच्च सः॥ इति विशेष्योत्तरं दृश्यते॥३॥ ⏺⏺⏺ नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
64